विषयवाक्यदीपिका वाक्यान्वयाधिकरणम्

॥ श्रीरस्तु ॥

॥ श्रीमते रामानुजाय नमः॥

।। विषयवाक्यदीपिका ।।

।।श्रीरङ्गरामानुजमुनिप्रणीता।।

वाक्यान्वयाधिकरणम्

वाक्यान्वयात् ।1।4।19।।बृहदारण्यके चतुर्थे षष्ठे च मैत्रेयीब्राह्मणं किंचिद्भेदभिन्नमाम्नातम् । तत्र चतुर्थेमैत्रेयी ब्राह्मणं व्याख्यायते ।।मैत्रेयीति होवाच याज्ञवल्क्यः ।।मित्रायाः अपत्यं मैत्रेयी तां मैत्रेयीत्यामंत्र्याह ।।उद्यास्यन्वाअहमस्मात्स्थानादस्मि हंत तेऽनया कात्यायन्यांतं करवाणीति ।।मैत्रेयि । अहमस्मात्स्थानात् गार्हस्थ्यलक्षणादाश्रमादुद्यास्यन्नस्मि ऊर्ध्वं गंतु मिच्छन्नस्मि । हंत । तव अनया कात्यायन्या सह अंतं युवयोः कलहशांतये द्रव्यविभागनिर्णयं करवाणीति ।।सा होवाच मैत्रेयी यन्नु म इयं भगोः सर्वा पृथिवी वित्तेन पूर्णास्यात्कथं तेनामृतास्यामिति ।।हे भगो । संबुद्धौ “विभाषा भवत् भगवदघवतामोच्चावस्य” इति आेत्वं रुत्वं विसर्गश्च ।सर्वापि पृथ्वी वित्तेन पूर्णा यत् यदि मे मम स्यात् वशंवदास्यादित्यर्थः । तदा तेन वित्तेन कथं कथंचिदमृतास्यान्नु संसारान्मुक्तास्यान्नु किमित्यर्थः ।।नेति होवाच याज्ञवल्क्यः यथैवोपकरणवतां जीवितं तथैव ते जीवितं स्यात् अमृतस्य तु नाशास्ति वित्तेन ।।उपकरणवतांभोगसाधनवतां जीवितं सुखजीवनं यथा सिद्ध्यति तथैव ते भोगोपकरणवित्तवत्याः सुखेन जीवनं परं लभ्यते मोक्षस्य वित्तेन साधनेन प्राप्यताशा नास्तीत्यर्थः ।।सा होवाच मैत्रेयी येनाहन्नामृता स्यां किमहं तेन कुर्यां यदेव भगवान्वेद तदेव मे ब्रूहीति ।।ममामृतत्वप्राप्त्यनुपायभूतेन वित्तेनाहं किंकरिष्यामि भगवन्यदमृतत्व प्राप्त्युपायं वेद तदेव मे ब्रूहीति ।।स होवाच याज्ञवल्क्यः प्रिया वतारे नः सती प्रियंभाषस एह्यास्स्व व्याख्यास्यामि ते व्याचक्षाणस्य तु मे निदिध्यासस्वेति ।।बतेत्यनुकंपायाम् ।मैत्रेयि । त्वं सती प्रियाऽनुकूला च सती प्रियं मनोनुकूलं वाक्यं भाषसे । एहि आगच्छ आस्स्व उपविश । ते अमृतत्वोपायं वक्ष्यामि । किं तु व्याचक्षाणस्य व्याख्यानं कुर्वतो मम वाक्यानि अर्थतो निश्चयेन ध्यातुमिच्छ । यद्वा व्याचक्षाणस्य तु मे मुखं निदिध्यासस्व निदिध्यासनमवलोकनम् । अवलोकयेति यावत् । इति शब्दो वाक्यावसान् । एवभुक्ता मैत्रेयी सावधाना सती स्वस्य श्रवणावधानं ज्ञापयितुमाह ।।ब्रवीतु मे भगवानिति ।।स्पष्टोऽर्थः ।।स होवाच ।। न वापत्युः कामाय पतिः प्रियो भवत्यात्मनस्तु कामाय पतिः प्रियो भवति ।।त्रामृतत्वार्थिन्यै मैत्रेय्यै अमृतत्वसाधनदर्शनविषयतया आत्मैव द्रष्टव्य इत्युपदिश्यमान आत्मा परमात्मेत्यवश्यमभ्युपेयः । “तमेवं विद्वानमृत इह भवति । नान्यः पंथा अयनाय विद्यते” इति तज्ज्ञानस्यैव मोक्षसाधनत्वावगमात् । ब्रह्म तं परादादित्यादिना तस्य सार्वात्म्यकथनात् । आत्मनो वादर्शनेनेत्यादिना तज्ज्ञानेन सार्वज्ञवेदनेनसर्वोपादानत्वप्रतिपादनाच्च । अस्मिन्प्रकरणे द्रष्टव्यतयोपदिश्यमान आत्मा परमात्मेति सिद्धम् ।तदुपपादकस्यास्य संदर्भस्य यथापरमात्मपरत्वं तथार्थो वर्णनीय इति च सिद्धम् । अतोस्यावाक्यस्यायमर्थः । न वा इत्यत्र वै शब्दोऽवधारणे । नैवेत्यर्थः । पत्युः कामाय । कामः संकल्पः कामाय संकल्पाय संकल्पं सफलीकर्त्तुमित्यर्थः । “क्रियार्थोपपदस्य च कर्मणि स्थानिनः” (अष्टा.2.3.14) इति चतुर्थी । पत्युः प्रियत्वम् । अहमस्याः प्रियः स्यामिति पतिसंकल्पसाफल्याय न भवति पतिसंकल्पायत्तं न भवतीति यावत् । वेदाध्ययनं सफलीकर्त्तुं यज्ञ इत्युक्ते वेदाध्ययनस्य यज्ञः फलमिति हि सिद्ध्यति । एवं संकल्पसा फल्यायप्रियत्वमित्युक्ते संकल्पफलं प्रियत्वमिति हि सिद्ध्यति । ततश्चाहमस्याःप्रियः स्यामिति पति संकल्पायत्तं न पतिप्रियत्वम् । अपित्वात्मनः परमात्मनः कामाय संकल्पाय प्रियो भवतीत्यर्थः । आत्मशब्दस्य परमात्मनि मुख्यवृत्तत्वात् । अत्रापि कामायेत्यत्र पूर्ववच्चतुर्थी । एवमुत्तरत्रापि द्रष्टव्यम् ।।न वाजायायाः कामाय जाया प्रिया भवत्यात्मनस्तु कामाय जाया प्रिया भवति । न वापुत्राणां कामाय पुत्राः प्रिया भवंत्यात्मनस्तु कामाय पुत्राः प्रिया भवन्ति । न वावित्तस्य कामाय वित्तं प्रियं भवत्यात्मनस्तु कामाय वित्तं प्रियं भवति । न वाब्रह्मणः कामाय ब्रह्म प्रियं भवत्यामनस्तु कामाय ब्रह्म प्रियं भवति ।।ब्रह्मब्राह्मण इत्यर्थः ।।न वाक्षत्रस्य कामाय क्षत्रं प्रियं भवत्यात्मनस्तु कामाय क्षत्रं प्रियं भवति ।।क्षत्रं क्षत्रियवर्ण इत्यर्थः ।।न वालोकानां कामाय लोकाः प्रिया भवंत्यात्मनस्तु कामाय लोकाः प्रिया भवन्ति ।।स्वर्गाद्या लोका इत्यर्थः ।।न वादेवानां कामाय देवाः प्रिया भवंत्यात्मनस्तु कामाय देवाः प्रिया भवंति । न वाभूतानां कामाय भूतानि प्रियाणि भवंत्यात्मनस्तु कामाय भूतानि प्रियाणि भवंति । न वासर्वस्य कामाय सर्वां प्रियं भवत्यात्मनस्तु कामाय सर्वं प्रियं भवति ।।स्पष्टोऽर्थः । ततः किमित्यत्राह ।।आत्मा वाद्रष्टव्यः श्रोतव्यो मंतव्यो निदिध्यासितव्यः ।।यस्मात् पतिजायादीनां प्रियत्वं यत्संकल्पायत्तं तस्य परमात्मनः प्रसादाय परमात्मा द्रष्टव्यः । स हि परमात्मा दर्शनेन प्रसन्नः सन्सर्वेषामपि वस्तूनां पतिजायादिवत् ततोऽधिकं वा प्रियत्वमापादयितुं शक्रोति । न पश्यो मृत्युं पश्यति न रोगं नोत दुःखतामिति मुक्तौ सर्वेषां प्रियत्वश्रवणादिति भावः । अत्र स्वाध्यायस्यार्थपरत्वेनाधीतवेदः पुरुषः प्रयोजनवदर्थावबोधित्व दर्शनात्तन्निर्णयायस्वयमेव गुरुमुखान्नयायुक्तार्थग्रहणरूपश्रवणे प्रवर्त्तत इति श्रवणस्य प्राप्तत्वाच्छ्रोतव्य इत्यनुवादः । स्वात्मन्येवमेवेति युक्तिभिः श्रुतार्थप्रतिष्ठापनलक्षणमननस्य श्रवण प्रतिष्ठार्थतया प्राप्तत्वान्मंतव्य इति चानुवादः ।अनवरतभावनारूपध्यानमेव निदिध्यासितव्य इति विधीयते । उपायत्वदशाप्रभृति भगवद्ध्यानस्यानुकूलत्वसूचनाय निदिध्यासितव्य इति सन्नंतपदेन निर्देशः । अत्र स्मृतिलंभे सर्वग्रन्थीनां विप्रमोक्ष इति चध्यानस्यैव मोक्षाव्यवहितहेतुत्वश्रवणात् “क्षीयंते चास्य कर्म्माणि तस्मिन्दृष्टे परावरे” इति दर्शनस्यापि मोक्षाव्यवहितकारणत्वश्रवणादुभयोरप्येकार्थत्वस्य वक्तव्यत्वात् । दृशिधातोश्चाक्षुषज्ञानवाचितया चाक्षुषज्ञानस्य “न चक्षुषा गृह्यते” इत्यचाक्षुषतया प्रतिपन्ने ब्रह्मण्यसंभवाद्दर्शनशब्देनोपचाराद्दर्शनसमानाकारमति विशदं ज्ञानमभिधीयते । ततश्च द्रष्टव्यो निदिध्यासितव्य इत्याभ्यां दर्शनसमानाकारं ध्यानं विधीयते । “आर्षेयं वृणीते एकं वृणीते द्वौ वृणीते त्रीन् वृणीते न चतुरो वृणीते न पंचातिप्रवृणीते” इत्यत्रार्षेयं वृणीते त्रीन्वृणीत” इत्याभ्यां त्रित्वविशिष्टार्षेयवरणविधानवदिति द्रष्टव्यम् । तस्य किं फलमित्यत्राह ।।मैत्रेय्यात्मनो वारे दर्शनेन श्रवणेन मत्या विज्ञानेन इदँ सर्वं विदितं भवति ।।अत्र विज्ञानेनेति विज्ञानशब्दो निदिध्यासनपरः । आत्मा वाद्रष्टव्यः श्रोतव्यो मंतव्यो निदिध्यासितव्य इति स्थानमानात् । तस्मिन् परमात्मनि दर्शनसमानाकारध्यान विषयीकृते सति तत्प्रसादात्सर्वं विदितं भवति अनुकूलत्वेन विदितं भवति सर्वं प्रियं भवतीति यावत् । यद्वा निदिध्यासितव्यतया निर्दिष्टपरमात्मनः जगत्कारणत्वलक्षणमाह । आत्मनो वाइत्यादिना उपादानोपादेययोरभेदात् । तस्मिन् ज्ञाते सर्वं विदितं भवति । अत्र सर्वमिदमिति शब्दौ स्थूलावस्थचिदचिद्विशिष्टब्रह्मपरौ । आत्मशब्दोऽपि सूक्ष्मचिद्विशिष्ट ब्रह्मपरः ।अतस्तयोरभेदात् तद्विज्ञानेन सर्वं विज्ञातमित्युपपद्यते ।अनेन जगदुपादानत्वमुक्तं भवति । अत्र निदिध्यासितव्यः इत्युक्त्या सर्वोपादानत्वकथनात् जगत्कारणत्वं सकलपरविद्यानुयायीति वदंति । ननु कथमात्मनि ज्ञाते सर्वमिदं विज्ञातं स्याज्जगतस्तद्भिन्नत्वादित्याशंक्याह ।।ब्रह्म तं परादाद्योऽन्यत्रात्मनो ब्रह्म वेद ।।ब्रह्मब्राह्मणवर्णः । यस्त्वात्मनः परमात्मनोऽन्यत्र स्थितम् । न तु परमात्मनि । एवमुत्तरत्रापि द्रष्टव्यम् ।क्षत्रं तं परादाद्योऽन्यत्रात्मनः क्षत्रं वेद । लोकास्तं परादुर्योऽन्यत्रात्मनो लोकान्वेद वेदास्तं परादुर्योऽन्यत्रात्मनो वेदान्वेद भूतानि तं परा दुर्योऽन्यत्रात्मनो भूतानि वेद सर्वं तपरादाद्योऽन्यत्रात्मनः सर्वं वेद ।।स्पष्टोऽर्थः । ननु सर्वस्य ब्रह्माधारकतया ब्रह्मात्मकत्वेऽपि ब्रह्मात्मकस्य शरीरभूतस्य जगतः शरीरिभूतब्रह्मभिन्नत्वेन तज्ज्ञानेन तज्ज्ञानासंभवमाशंक्य तस्मिन् विज्ञाते इदं सर्वं विदितमितीदं सर्वशब्दाभ्यामन्यैरपि शब्दैस्तच्छरीरकं ब्रह्मैवाभिधीयते इत्यभिप्रेत्याह ।।इदं ब्रह्मेदं क्षत्रमिमे लोका इमे देवा इमानि भूतानीदं सर्वं विदितं भवति ।।सर्वशरीरकं ब्रह्म विदितं भवतीत्यर्थ उपपद्यत इति भावः । एवं जगत्कारणविशिष्ट परमात्मोपासनं विधाय उपासनोपकरणभूतमनः प्रभृतिकरणनियमनमाह ।।स यथा दुंदुभेर्हन्यमानस्य न बाह्याञ्च्छब्दाञ्च्छक्नुयाद्ग्रहणाय दुंदुभेस्तु ग्रहणेन दुंदुभ्याघातस्य वा शब्दो गृहीतः ।।दुंदुभेरित्यनादरे षष्ठी । ग्रहणशब्द इह निरोधपरः । उपादाननिरोधयोर्द्वयोरपि ग्रहणशब्दवाच्यत्वात् । यथा गृहीतानि पुष्पाणि गृहीताः श्रोतार इति । यथा दुंदुभौ हन्यमाने ततो निःसरतः शब्दान्ननिरोद्धुं शक्रुयात् । कथं तर्हि निरुणद्धीत्यत्राह । दुंदुभेस्तु ग्रहणेन दुंदुभ्याधातस्य वा शब्दो गृहीतः । दुंदुभिनिरोधेन संयोगनिरोधद्वारा शब्दानि रुध्यंते । एवमिंद्रियेषु व्याप्रियमाणेषु बाह्यार्थ ज्ञानं दुर्निरोधम् । अतो विषयापसारणेन वा इंद्रियनिरोधेन वा परमात्मसाक्षात्कारविरोधिबाह्यार्थज्ञानं निरुत्ध्यते इत्यर्थः । एवमुत्तरत्रापि द्रष्टव्यम् ।।स यथा शंखस्य ध्मायमानस्य न बाह्यांच्छब्दाञ्च्छक्नुयाद्ग्रहणाय शंखस्य तु ग्रहणेन शंखध्मानस्य वा शब्दो गृहीतः । स यथावीणायै वाद्यमानायै न बाह्यांच्छब्दाञ्च्छक्नुयाद्ग्रहणाय वीणायै तु ग्रहणेन वीणावाद्यस्य वा शब्दो गृहीतः ।।अत्र वीणाया इति चतुर्थी षष्ठ्यर्थे । छांदसो विभक्तिव्यत्ययः । सामान्येनोक्तं कारणत्वं प्रपंचयति ।।स यथाऽऽर्द्रैधाग्नेरभ्याहितात्पृथक् धूमा विनिश्चरंति ।एध शब्द अकारांत इंधनवाची । आर्द्रैधाग्निग्रहणं निमित्तोपादानयोर्ज्ञापनार्थम् । अग्निर्हिधूमोत्पत्तौ निमित्तम् । इंधनं तदुपादानम् । अभ्याहितादाध्मानवीजनादिना प्रवर्त्तितादित्यर्थः ।पृथिग्विधा धूमानि र्गच्छंतीत्यर्थः ।।एवं वारे अस्य महतो भूतस्य निश्वसितमेतत् ।।महतो भूतस्य परमात्मनो निश्वसितम् । अनायासेनोद्गतमेतद्वक्ष्यमाणमित्यर्थः । किं तदित्यत्राह ।।ऋुग्वेदो यजुर्वेदः सामवेदोऽथर्वांगिरस इतिहासपुराणं विद्या उपनिषदः श्लोकः सूत्राण्यनुव्याख्यानानि व्याख्यानान्यस्यैवैतानि निश्वसितानि ।।इतिहासोरामायणादिः । पुराणंविष्णुपुराणादि । विद्याः चतुः षष्टिविद्याः । उपनिषदः प्रसिद्धाः । श्लोकाःस्मृतिरूपाः । सूत्राणिब्रह्मसूत्रादीनि । अनुव्याख्यानानि भाष्य व्याख्यानानि ।व्याख्यानानिभाष्यरूपाणि । एतानि सर्वाणि भगवतो निश्वसितानि ।अयत्नेन तदुद्गतानीत्यर्थः । यद्यपि सूत्रस्मृतिपुराणादयो व्यासाद्युद्गता इति पुराणेषु प्रसिद्धिः । तथापि तेषां भगवदंगत्वादुद्भवन्निश्वसितोक्तिरुपपद्यत इति द्रष्टव्यम् । अत्र वाचकशब्दसृष्टिमात्रमुक्तं षष्ठे । मैत्रेयीब्राह्मणे तु इष्टं हुतमाशितं पायितमित्यादिना भोग्यभोगस्थानभोक्तृवर्गरूपवाच्य सृष्टेरुक्तत्वात् । अनुक्तस्यान्यतो ग्राह्यत्वादत्रापि वाच्यसृष्टिरुक्तेति द्रष्टव्यम् । अनेन पूर्वं सामान्यतो निर्दिष्टं जगत्कारणत्वं विवृतं भवति । स यथादुंदुभेर्हन्यमानस्येत्यादिना परोपासनोपकरणभूतकरणग्रामनियमनमुक्तं विशदयति ।।स यथा सर्वासामपां समुद्र एकायनमेवं सर्वेषां स्पर्शानां त्वगेकायनम् ।।समुद्रस्यापामयनत्वं नाम तदुपादातृत्वमेव । एवं च स्पर्शायतनत्वं नाम तदुपादातृत्वम् । ततश्चायमर्थः । यथा समुद्रो भूयसीरपो गृह्णाति । एवं त्वगिंद्रियमसंख्याकान्स्पर्शाविशेषान् गृह्णाति । ततश्च त्वगिंद्रियस्य स्पर्शविषयव्यापारा अनंता इत्यर्थः । एवमुत्तरत्रापि द्रष्टव्यम् ।।एवँ सर्वेषाँ रसानां जिव्हैकायनमेवं सर्वेषां गंधानां नासिकैकायनमेवँ सर्वेषाँ रूपाणां चक्षुरेकायनमेवँ सर्वेषाँ शब्दानां श्रोत्रमेकायनमेवँ सर्वेषाँ संकल्पानां मन एकायनमेवँ सर्वासां विद्यानाँ हृदयमेकायनम् ।।अवस्थाविशेषविशिष्टं मनो हृदयमित्युच्यते ।।एवँ सर्वेषां कर्मणाँ हस्तावेकायनमेवँ सर्वेषामानंदानामुपस्थ एकायनमेवँ सर्वेषां वेदानां वागेकायनम् ।।स्पष्टोऽर्थः । ततश्चैकैकेंद्रियवृत्तिविशेषा अनंताः । ततश्चात्मसाक्षात्कारार्थिना एते वृत्तिविशेषा निरोद्धव्या इत्यभिप्रायः । ततश्च स यथा दुंदुभेर्हन्यमानस्येत्यनेनोक्त ब्रह्मोपासनोपयोगिकरणग्रामनियमनं विवृतं भवति । अथ सर्वावस्थास्वपिजीवस्वरूपस्य परमात्मनिष्ठतया स्वातंत्र्याभावज्ञापनाय जीववाचिशब्देन परमात्मानं निदर्शयन्नमृतत्वोपाय प्रवृत्तिप्रोत्साहनाय भूतसंघातात्मकशरीरजन्ममरणानुविधायिनः संसरतो जीवस्या परिच्छिन्नज्ञानैकाकारतामुपपादयति ।।स यथा सैंधवखिल्य उदके प्रास्त उदकमेवानुविलीयेत न हास्योद् ग्रहणायैव स्यात् यतो यतस्त्वाददीत लवणमेव ।।सैंधवखिल्यः लवणखंडः । खिल एव खिल्यः । स्वार्थे यत् । यथा सैंधवशकलमुदके निक्षिप्तमुदकमनु प्रविश्य लीयते एवमस्य विलीनस्य लवणास्योद्ग्रहणायोदकात्पृथक्वृत्य गृहीतंु यथा नैव कोऽपि शक्तः स्यात् । तच्चोदकं यथा यतो यतः यस्माद्यस्मात्प्रदेशान्मध्यतः पार्श्वतो वा आददीत तत्तोयं लवणमेव भवति ।।एवं वाइदं महद्भूतमनंतमपारं विज्ञानधन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति ।।एवमेवैतन्महद्भूतमनंतमपरिच्छेद्यम् । अपारं गुणतोऽप्यपरिच्छेद्यम् । ब्रह्म विज्ञानधन एव जीवशरीरकतया एतेभ्यो भूतेभ्य उत्थाय तान्येवानुविनश्यति । भूतेषूत्पद्यमानेषु स्वयमुत्पद्यमानस्तेषु नश्यत्सु अनु पश्चात्स्वयं नश्यतीत्यर्थः । देहोत्पत्तिविनाशानुविधाय्युत्पाद विनाशवान् भवति । विनाशो नामात्यंतज्ञानसंकोचः उत्पत्तिर्नाम विकासप्रादुर्भावः ।।न प्रेत्य संज्ञास्तीति ।।प्रेत्य चरमदेहवियोगं प्राप्य मोक्षदशायां स्वाभाविकापरिच्छिन्नज्ञानसंकोचा भावेन न संज्ञास्ति । समित्येकीकारे । ज्ञाधातोर्ज्ञानमर्थः । ततश्च भूतसंघातेनैकीकृत्य ज्ञानं संज्ञाशब्दार्थः । आमोक्षं देहात्मभ्रमोऽनुवर्त्तत इति भावः । नच महद्भूतमनंतमपारमिति निर्द्दिष्टस्यैव ब्रह्मणो विज्ञानधन एवैतेभ्योभूतेभ्यः समुत्थायेति जीवत्वसंसारित्ववेदनं मुख्यमेवास्तु ।विज्ञानधनः जीवशरीरकइति कुतोव्याख्यायत इति वाच्यम् । निरनिष्ठो निरवद्य इतिश्रुतिप्रतिपन्नस्य परमात्मनः संसारित्वासंभवात् मोक्षधर्म्मे जनकयाज्ञवल्क्यसंवादे “अन्यश्च राजन् स परस्तथान्यः पंञ्चविंशकः । तत्स्थत्वादनुपश्यंति ह्येक एवेति साधवः” इति शरीरशरीरिणोर्भेदेऽपि शरीरांतस्थितस्य शरीरिण एकत्वादयमेकः पुरुष इति व्यवहारवदंतरव स्थितिनिबंधनः प्रकार्य्यैक्यविषयो भेदव्यवहार इत्युक्तम् । ततश्च जीवस्य परमात्मशरीरतया तद्वाचिना विज्ञानधनशब्देन परमात्मनोऽभिधानं तद्धर्म्म भूतोत्पत्ति विनाशादिना तद्धर्म्मत्त्वं च न विरुद्धमिति द्रष्टव्यम् । नचोत्थानविनाशयोःसद्वारविशेषणत्वे आवश्यके विज्ञानधनत्वस्या परमात्मनि साक्षादेव संभवात् विज्ञानघनशब्दस्य जीववाचित्वमाश्रित्य विज्ञानघनशब्देन जीवशरीरकपरमात्मभिधानाश्रयणक्लेशः”अवस्थितेरिति काशकृत्स्नः” (ब्र.सू. 1.4.21) इति सूत्रभाष्ये कुतोऽनुभूयत इति वाच्यम् ।परमात्मनः स्वरूपेणोत्थानविनाशासंभवाज्जीव स्वरूपेणोत्थानविनाशस्य वक्तव्यत्वेन जीववाचिपदस्य कस्यचिदावश्यकत्वादन्यस्य चाभावाद्विज्ञानधनशब्दस्य जीववाचित्वसंभवाच्च विज्ञानधनशब्देन जीवशरीरकपरमात्मा भिधीयत इत्युक्तौ विरोधाभावात् ।।सा होवाच मैत्रेयी अत्रैव मा भगवानमूमुहन्न प्रेत्य संज्ञास्तीति ।।न प्रेत्य संज्ञास्तीति वाक्ये एवमासां अमूमुहत् । मुहेर्णौ चङ् । मोहयतिस्मेत्यर्थः । विज्ञानघनशब्दितस्य ज्ञानैकाकारस्यात्मनः मुक्तौ संज्ञाभावो विरुद्ध इति मोहो मे संवृत्त इति भावः । यद्यपि संज्ञाशब्दो देहात्म्यैक्यभ्रांतिपर इति न विरोधः । तथापि तदभि प्रायानाभिज्ञानान्मुह्यंती मैत्रेय्येवमुक्तवतीति द्रष्टव्यम् ।।स होवाच न वामोहं ब्रवीम्यलं वाइदं विज्ञानाय ।।न प्रेत्यसंज्ञास्तीति नाहं मोहं वचो ब्रवीमि । इदं विज्ञानघनशब्दितमहद्भूतं पूर्वनिर्द्दिष्टं प्रेत्यापि विज्ञानायालं ज्ञातुं पर्याप्तम् । ततश्च मुक्तावपि ज्ञानमस्ति ज्ञानिन एव सतो मुक्तस्य न प्रेत्य संज्ञास्तीति पूर्वनिद्दिष्टसंज्ञाभावो देहात्मैक्यविषयकभ्रांत्यभावात्मेति भावः । एवं मुक्तौ देहात्मभ्रमनिवृत्तिमुक्त्वा स्वनिष्ठता भ्रमनिवृत्तिं प्रतिपादयति ।।यत्र हि द्वैतमिव भवति तदितर इतरं जिघ्रति ।।यत्र यस्यामवस्थायां द्वैतमिव भवति स्वनिष्ठतया परमात्मनः पृथगिव भवति स्वतंत्र इव भवतीति यावत् । स्वातंत्र्यस्याप्रामाणिकत्वद्योतनार्थः इवशब्दः । इतरं जिघ्रति । तत् तदा इतरः भिन्नात्मकः इतरं भिन्नात्मकं जिघ्रति । अत्रेतरेणेत्यध्याहार्यम् । उत्तरत्र तत्केन कं जिघ्रेदिति दर्शनात् । इतरेण स्वतंत्रेण करणेन जिघ्रतीत्यर्थः ।।तदितर इतरं पश्यति तदितर इतरमभिवदति तदितर इतरँ शृणोति तदितर इतरं मनुते तदितर इतरं विजानाति यत्रत्वस्य सर्वमात्मैवाभूत्तत्केन कं जिघ्रेत् तत्केन कं पश्येत् तत्केन कमभिवदेत् तत्केन कं श्रृणुयात् । तत्केन कं मन्वीत तत्केन कं विजानीयात् ।।यत्र यदा सर्वं वस्तु एकात्मकमेवाभूत्तदा केन भिन्नात्मकेन करणेन कं भिन्नात्मकं जिघ्रेदित्यर्थः । इतरशब्दः सर्वत्र स्वतन्त्रवस्तुपरः । एवं सर्वत्र द्रष्टव्यम् । अत्र सदैकात्मकस्य जगतः कालभेदेन भिन्नाभिन्नात्मकत्वासंभवात् । आत्मैवाभूत् एकात्मकत्वेन ज्ञातम भूदित्येवार्थः । यस्यात्मभेदप्रतीतिरस्ति तस्य कर्तृकर्मकरणेषु भिन्नात्मकत्वप्रतीतिरनुवर्त्तते । यस्यात्मभेदप्रतीतिर्यदा सर्वथा नास्ति तदा विरुद्धधर्मवत्तया प्रतीतेष्वपि कर्तृकर्मकरणेषु भिन्नात्मकतया प्रतीतिः सर्वथा नास्तीति पर्यवसितोऽर्थः।शिष्टं स्पष्टम् ।।येने दं सर्वं विजानाति तं केन विजानीयात् ।।येन परमात्मना प्रसन्नेनानुगृहीतः सर्वज्ञो भवति तं परमात्मानं केन हेतुना विजानीयात् ।।विज्ञातारमरे केन विजानीयादिति ।।अत्र विज्ञातृशब्देन प्रक्रमोदितजगत्कारणत्वाक्षिप्तसार्वज्ञाश्रयः परमात्मैवोच्यते । तादृशंविज्ञातारं सर्वज्ञं परमात्मानं प्रक्रमोदितध्यानं विना केन केवलयज्ञदानाद्युपायेन विजानीयात् ।उक्तं च व्यासार्यैः परमात्मप्रसादाहृते तस्य दुरवगमत्वपरं केन विजानीयादिति पूर्ववाक्यम् । उपासनातिरिक्तकेवलयज्ञदानाद्युपायांतरनिषेधपरं विज्ञातारं केन विजानीयादित्युत्तर वाक्यमिति । ततश्च परमात्मप्रसादपरमात्मोपासनयोर्द्वयोरप्यावश्यकत्वं द्वाभ्यां वाक्याभ्यां प्रतिपादितं भवति । अत्र परमात्मोपासनतत्प्रसादसाध्या परमावगतिः किंरूपेति चिंतायांदर्शनसमानाकारध्यानरूपावगतिरेव प्रसादोपासनसाध्यत्वेन वाक्यद्वयप्रतिपन्नेति केचिदूचुः ।मुक्तिकालीनदेशविशिष्टब्रह्मसाक्षात्कारलक्षणेत्यपरे । नोभयथापि विरोधं पश्यामः । इति शब्दः प्रतिवचनसमाप्तौ ।

इति ब्रह्मसूत्रेषु प्रथमाध्यायः समाप्तः ।।1।।

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.