विषयवाक्यदीपिका तदन्तरप्रतिपत्त्यधिकरणम्

॥ श्रीरस्तु ॥

॥ श्रीमते रामानुजाय नमः॥

।। विषयवाक्यदीपिका ।।

।।श्रीरङ्गरामानुजमुनिप्रणीता।।

तदन्तरप्रतिपत्त्यधिकरणम्

तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्तः प्रश्ननिरूपणाभ्याम् । (ब्र.सू. 3.1.1)छान्दोग्ये पञ्चमप्रपाठके तृतीयखण्डे ॥प्रकृतिविविक्तजीवयाथात्म्यविषयां पंचाग्निविद्यां संसृतिवैराग्याय प्रस्तौति ।।श्वेतकेतुर्हारुणेयः पंचालानाँ समितिमेयाय ।।अरुणस्यापत्यमारुणिः । तस्यापत्यमारुणेयः पंचालानां जनपदानां समितिं सभामाजगाम ।।तँ ह प्रवाहणो जैवलिरुवाच ।।जीवलस्यापत्यं जैवलिः नामतः प्रवाहणः पंचालराज उक्तवान् ।।कुमारानु त्वा शिषत्पितेति ।।हे कुमार त्वां तव पिता अन्वशिषत्किम् । अनुशिष्टवान्किमित्यर्थः । इतर आह ।।अनु हि भगव इति ।।हे भगवः पूजार्ह । अनुशिष्टोऽस्मीति । एवमुक्तो जैवलिः पप्रच्छ ।वेत्थ यदितोऽधि प्रजाः प्रयन्तीति ॥प्रजा इतोऽधि इत ऊर्द्ध्वं यत्प्रयन्ति तज्जानीषे किम् । कर्मिणां गन्तव्यदेशः क इत्यर्थः ।इतर आह ।न भगव इति ।।जान इति शेषः । पुनः पृच्छति ।।वेत्थ यथा पुनः पुनरावर्त्तन्ता 3 इति ।।कर्म्मिणां पुनरावृत्तिप्रकारः क इत्यर्थः ।इतर आह ।न भगव इति ।।पुनः पृच्छति ।वेत्थ यथाऽसौ लोको न संपूर्यत इति ।।अस्माल्लोकादनवरतं गच्छद्भिः पुरुषैः कस्माद्धेतोः द्युलोको न संपूर्यत इत्यर्थः । वाजसनेयके समानप्रकरणे वेत्थ यथासौ लोकः एवं बहुभिः पुनः प्रयद्भिः न संपूर्यत इति श्रवणात् । अमुष्य लोकस्याप्राप्ता क इति तु प्रश्नस्य फलितार्थः ।इतर आह ।न भगव इति ।।पुनः पृच्छति ।वेत्थ यथा देवयानस्य पितृयाणस्य च व्यावर्त्तना इति ।।देवयानपितृयाणयोर्व्यावर्त्तने भेदके रूपे किं वेत्थेत्यर्थः । केन प्रकारेण तयोर्भेद इत्यर्थः ।।इतर आह ।न भगव इति ।।पुनः पृच्छति ।वेत्थ यथा पंचम्यामाहुतावापः पुरुषवचसो भवंतीति ।।आप इति भूतान्तराणामप्युपलक्षणम् । भूतसूक्ष्माणि पञ्चम्यामाहुतौ येन प्रकारेण पुरुषवचसः पुरुष इति वचो यासां ताः पुरुषवचसः । पुरुषशब्दाभिलप्या इत्यर्थः । कस्य पञ्चम्यामाहुतावित्यपेक्षायां पुरुषवचस्त्वभवनकर्तृतया निर्द्दिष्टाः आप एव हूयमानतया सम्बध्यन्ते ।असन्निहितार्थान्तरकल्पने गौरवात् । ततश्चापां पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तीत्यर्थः । ततश्चापामेव पञ्चस्वप्याहुतिषु हूयमानत्वमिति सिध्यतीति द्रष्टव्यम् । इतर आह ॥नैव भगव इति ।।”रंहत्यधिकरणे” (ब्र.सू.3.1.1) भगवता भाष्यकृता कर्म्मिणां गन्तव्यदेशं पुनरावृत्तिप्रकारं देवयानपितृयाणपथव्यावर्त्तने अमुष्य लोकस्याप्राप्तारं च वेत्थेति पृष्ट्वा, ‘वेत्थ यथा पंचम्यामाहुतावापः पुरुषवचसो भवन्ति’ इति पप्रच्छेति भाषितम् ॥अथ नु किमनुशिष्टोऽवोचथाः यो हीमानि न विद्यात्कथं सोऽनुशिष्टो ब्रवीतेति ।।किं कस्मादनुशिष्टोऽस्मीत्युक्तवानसि यो हीमान्यर्थजातानि न जानीयात् स कथमनुशिष्टोऽस्मीति वदेत् । यद्वा किमनुशिष्टःकमर्थमनुशिष्ट इत्यर्थः ।।स हाऽऽयस्तः पितुरर्द्धमेयाय ।।स श्वेतकेतुः राज्ञा जैवलिना आयासितः सन् पितुरर्द्धं स्थानमाजगाम ॥तँ होवाचाननुशिष्य वा व किल मा भगवानब्रवीदनु त्वाऽशिषमिति ।पंच मा राजन्यबन्धुः प्रश्नानप्राक्षीत्तेषां नैकंचनाशकं विवक्तुमिति ।।मामननुशिष्य समावर्त्तनकालेऽनुशासनीयानि सर्वाण्यननुशिष्यैव त्वामन्वशिषमिति भगवान्मां प्रत्यब्रवीत् राजन्यबंधुः मां पंचप्रश्नानप्राक्षीत् । तेषां मध्ये एकंचन एकमपि प्रश्नं विवक्तुं विशिष्य वक्तुं नाशकं न शक्तोऽस्मीति पितरमुवाचेत्यर्थः । राजन्या बंधवो यस्य स राजन्यबंधुः, राजन्यानां बंधुरिति वा । स्वयमराजन्य इत्यर्थः । राजन्याभास इति यावत् ।।तँ होवाच यथा मां त्वं तदैतानवदः तथाहमेतेषां नैकंचन वेदयद्यहमिमानवेदिष्यं कथं ते नावक्ष्यमिति ।।त्वं मां प्रति तदाऽऽगमनकाले एतान्प्रश्नान्यथाऽवदः तेषां नैकंचनाशकं विवक्तुमिति यथोक्तवानसि तथाऽहमपि तेषां मध्ये नैकमप्यज्ञासिषम् । यद्यज्ञासिषं ते प्रियाय पुत्राय समावर्त्तनकाले कुतो नावक्ष्यमिति ।।स ह गौतमो राज्ञोऽर्द्धमेयाय ।।एवमुक्त्वा गोत्रतो गौतम आरुणिः राजस्थानमाजगाम ।।तस्मै ह प्राप्तायार्हां चकार ।।प्राप्ताय गौतमाय राजाऽर्हां पूजां चकारेत्यर्थः ।।स ह ततः प्रातः सभाग उदेयाय ।।ततः प्रातःकाले राज्ञि सभागते सति उदेयाय गौतम आजगाम । यद्वा भजनं भागः पूजा । तेन युक्तः अर्घ्यादिभिः पूज्यमानः समागत इत्यर्थः ।।तँ होवाच मानुषस्य भगवन् गौतम वित्तस्य वरं वृणीथा इति ।।हे भगवन् गौतम मनुष्यवित्तसंबंधि वरं वृणीष्वेत्युवाचेत्यर्थः ।।स होवाच तवैव राजन्मानुषं वित्तं यामेव कुमारस्यान्ते वाचमभाषथास्तामेव मे ब्रूहीति ।।हे राजन् मानुषं वित्तं तवैव तिष्ठतु, मत्पुत्रस्य समीपे पंचप्रश्नलक्षणां यां वाचमुक्तवानसि तामेव मे ब्रूहीति ।।स ह कृच्छ्री बभूव, तँ ह चिरं वसेत्याज्ञापयांचकार ।।एवमुक्तो राजा गौतमस्याप्रत्याख्येयतां ज्ञात्वा कृच्छ्री दुःखितो बभूव । तं च गौतमं विद्यार्थं चिरं वसेत्याज्ञप्तवान् ।।तँ होवाच यथा मा त्वं गौतमाऽवदः यथेयं न प्राक् त्वत्पुरा विद्या ब्राह्मणान्गच्छति तस्मादु सर्वेषु लोकेषु क्षत्रस्यैव प्रशासनमभूदिति ।।हे गो(गौ)तम त्वं मां यथाऽवदः तथा करिष्यामीति शेषः । इयं वक्ष्यमाणा विद्या पुरा विद्यमानापि त्वत् त्वत्तः प्राक् ब्राह्मणान्न प्राप्तवती । तस्मात्सर्वेषु लोकेषु क्षत्रियजातेरेवैतद्विद्योपदेष्टृत्वम् । अतो ब्राह्मणेष्वेतद्विद्याया अभावात् ब्राह्मणानामेव समीपं गमिष्यामीति बुद्धिर्न कार्या । चिरवासाऽऽज्ञापनमपि सोढव्यमिति भावः ।।तस्मै होवाच ।।चिरकालमुषितवते तस्मै राजा विद्यामुपदिदेशेत्यर्थः । वेत्थ यथा पंचम्यामाहुतावापः इति पंचमप्रश्नप्रतिवचनस्य इतरप्रतिवचनानुकूलत्वात्प्रथमतस्तदेवाह ।।असौ वाव लोको गौतमाग्निस्तस्यादित्य एव समिद्रश्मयो धूमः अहरर्च्चिः चंद्रमा अंगाराः नक्षत्राणि विष्फुलिंगाः ।1। तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति तस्या आहुतेः सोमो राजा संभवति ।।2.4।। पर्जन्यो वाव गौतमाग्निस्तस्य वायुरेवसमिदभ्रं धूमो विद्युदर्च्चिरशनिरंगारः ह्रादुनयो विष्फुलिंगाः । तस्मिन्नेतस्मिन्नग्नौ देवाः सोमं राजानं जुह्वति तस्या आहुतेर्वर्षं संभवति ।।2.5।। पृथिवी वाव गौतमाग्निस्तस्य संवत्सर एव समिदाकाशो धूमो रात्रिरर्चिर्दिशोंगाराः अवांतरदिशो विष्फुलिंगाः।।1।। तस्मिन्नेतस्मिन्नग्नौ देवा वर्षं जुह्वति तस्या आहुतेरन्नँ संभवति ।।2.6।। पुरुषो वाव गौतमाग्निस्तस्य वागेव समित्प्राणो धूमो जिह्वार्चिश्चक्षुरंगाराः श्रोत्रं विष्फुलिंगाः । तस्मिन्नेतस्मिन्नग्नौ देवा अन्नं जुह्वति तस्या आहुते रेतः संभवति ।।2.7।। योषा वाव गौतमाऽग्निः तस्या उपस्थ एव समित् यदुपमंत्रयते स धूमो योनिरर्चिर्यदन्तः करोति तेऽङ्गाराःअभिनन्दा विष्फुलिंगाः।।1।। तस्मिन्नेतस्मिन्नग्नौ देवा रेतो जुह्वति तस्या आहुतेर्गर्भः संभवति ।।2.8।।इति द्युपर्जन्यपृथिवीपुरुषयोषिद्रूपेष्वग्निषु पंचसु श्रद्धासोमवृष्ट्यन्नरेतोरूपाः पंचाहुतयः प्रदर्शिताः । देवा इन्द्रियाणि । तेषां होमकर्तृत्वमिंद्रियार्जितकर्मणां द्युलोकादिगमनहेतुत्वादिति द्रष्टव्यम् ।।इति तु पंचम्यामाहुतावापः पुरुषवचसो भवंतीति ।।इत्युक्तप्रकारेण रेतोरूपायां पंचम्यामाहुतावप्छब्दितानि भूतसूक्ष्माणि पुरुषशब्दाभिलपनीयानि भवंतीत्यर्थः । इतिशब्दः पंचमप्रश्नप्रतिवचनसमाप्तिद्योतनार्थः ।।स उल्बावृतो गर्भो दश वा मासानंतः शयित्वा यावद्वाथ जायते स जातो यावदायुषं जीवति तं प्रेतं दिष्टमितोऽग्नय एव हरंति यत एवेतो यतः संभूतो भवति ।।2.9।।स गर्भ उल्बेन जरायुणा वेष्टितः सन् दशमासान्वा यावद्वा नव वा एकादश वा द्वादश वा मातुः कुक्षौ शयित्वा अथानंतरं जायते जातश्च यावदायुषं जीवति । आयुरवसान एव तं प्रेतं पुरुषं दिष्टं परलोकाय निर्द्दिष्टम् । यद्वा दिष्टं कर्म्मानुसृत्य यतो द्युलोकपर्जन्याद्यग्नेरिहागतः । यतश्च योषिद्रूपाग्नेरुत्पन्नः । तस्मा अग्नय एव देवा हरंति । ततश्च द्युपर्ज्जन्यपृथिवीपुरुषयोषित्सु पुनरप्येवं भ्रमतीत्यर्थः । अयं चोपन्यासो वैराग्यहेतोः । कष्टं हि मातुः कुक्षौ मूत्रपुरीषवातपित्तश्लेष्मादिपूर्णे तदनुलिप्तस्य गर्भस्योल्बाशुचिपटावृतस्य शुक्रशोणितबीजस्य मातुरशितपीतरसानुप्रवेशेन विवर्द्धमानस्य निरुद्धवीर्यबलशक्तितेजःप्रज्ञाचेष्टस्य बहुकालं शयनम् । ततो योनिद्वारेण पीड्यमानस्य कष्टतरा निःसृतिः । कर्मणोपात्तं यावदायुस्तावदेव जीवनं पुनरपि घटीयंत्रकुंडिकान्यायेनारोहणावरोहणलक्षणं भ्रमणं श्रूयमाणं वैराग्यमापादयति । अत एतदुपन्यस्तमिति द्रष्टव्यम् ॥ इति नवमखण्डदीपिका ॥वेत्थ यथा देवयानस्य पितृयाणस्य च व्यावर्त्तना इति चतुर्थंप्रश्नं प्रतिवक्ति ।।तद्य इत्थं विदुर्ये चेमेऽरण्ये श्रद्धा तप इत्युपासते ।।प्राक्प्रस्तुतस्य संसरतो जीवस्य स्वरूपं तदित्यनेन परामृश्यते । तत्प्रत्यगात्मस्वरूपं ये इत्थमुक्तप्रकारेण द्युपर्ज्जन्यपृथिवीपुरुषयोषित्सु श्रद्धासोमवृष्ट्यन्नरेतःशरीरकतया देहविलक्षणतया प्रकृतिविविक्ततया च ये विदुरित्यर्थः । अत्र ब्रह्मात्मकतया चेत्यपि योजनीयम् । भाष्यकृता “अप्रतीकालंबनान्’ (ब्र.सू.4.3.14) इति सूत्रे पंचाग्निविदोप्यर्च्चिरादिना गतिश्रवणादर्च्चिरादिना गतस्य ब्रह्मप्राप्त्यपुनरावृत्तिश्रवणाच्च, अत एव तत्क्रतुन्यायात् प्रकृतिविनिर्मुक्तब्रह्मात्मत्वानुसंधानं सिद्धमिति भाषितम् । ये चेमेऽरण्ये स्थित्वा श्रद्धां पुरस्कृत्य तपःशब्दितं ब्रह्मोपासत इत्यर्थः । वाजसनेयके समानप्रकरणे “श्रद्धां सत्यमुपासते” इति श्रवणात्सत्यशब्दस्य ब्रह्मपरत्वात् तपःशब्दोऽपि ब्रह्मपरः ।। “अनियमः सर्वेषाम्” (ब्र.सू.3.3.32) इत्यधिकरणे भगवता भाष्यकृता तद्य इत्थं विदुर्य एवमेतद्विदुरिति पंचाग्निविद्यानिष्ठान् ये चेम इत्यादिना श्रद्धापूर्वकं ब्रह्मोपासीनांश्चोद्दिश्यार्च्चिरादिका गतिरुपदिश्यते । सत्यं ज्ञानमनंतं ब्रह्म सत्यं त्वेव विजिज्ञासितव्यमिति सत्यशब्दश्च ब्रह्मणि प्रसिद्ध इति भाषितम् । उक्तं च व्यासार्यैः “परमं यो महत्तपः” इत्यादिषु तपःशब्दस्य ब्रह्मपरत्वं दृष्टमिति । वाजसनेयके श्रद्धां सत्यमिति श्रद्धाशब्दस्य द्वितीयांतत्वश्रवणादिहापि श्रद्धाशब्दो द्वितीयांतः । छांदसत्वात्सुपां सुलुगिति सुपो लुक् । ततश्च पुरस्कृत्येत्यध्याहारः । श्रद्धां पुरस्कृत्य ब्रह्मोपासत इत्यर्थः । इतिस्त्वविवक्षितः । अथवैवकारोऽत्राध्याहर्त्तव्यः । ब्रह्मेत्येवोपासत इत्यर्थः । ततश्चाब्रह्मोपासनव्यावृत्तिफलकोऽयमितिशब्दो द्रष्टव्यः । यद्वा श्रद्धातपःशब्दयोः प्रसिद्ध एवार्थः । श्रद्धातपःपरायणानां च ब्रह्मविद्यानिष्ठत्वमर्थसिद्धम् । ततश्च ब्रह्मविद्यानिष्ठा इत्यर्थः फलति । अयं चार्थस्तदप्यविरुद्धम् आर्थत्वादपि शाब्दत्वं संभवद्युक्ततममिति वदतां व्यासार्याणामनुमत एव ।।तेऽर्च्चिषमभिसंभवंत्यर्च्चिषोऽहरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान् षडुदङ्ङेति मासांस्तान् ।।1।। मासेभ्यः संवत्सरं संवत्सरादादित्यमादित्याच्चंद्रमसं चंद्रमसो विद्युतम् तत्पुरुषोऽमानवः स एनान् ब्रह्म गमयति ।।अत्रार्चिरादिशब्दास्तत्तदभिमानिदेवतापराः । तत्पुरुषो वैद्युतपुरुषः अमानवः असंसारी ब्रह्मलोकादागत्य ब्रह्मलोकं प्रापयतीत्यर्थः । अमानवः स एत्य ब्रह्मलोकान् गमयतीति श्रुत्यंतरे श्रवणात् ।।एष देवयानः पंथा इति ।।2।।स्पष्टोऽर्थः ।।अथ य इमे ग्रामे इष्टापूर्ते दत्तमित्युपासते ते धूममभिसंभवन्ति ।।ये पुरुषाः ग्राम एव स्थित्वा इष्टं – यागादि, पूर्त्तं – खातादि, दत्तं – दानम्, इतिशब्दस्तज्जातीयोपवासादिकर्मान्तरपरः । यागादानहोमादीनि कर्माणि येऽनुतिष्ठन्तीत्यर्थः । उक्तप्रकारेणानुतिष्ठन्तीत्यर्थ इति व्यासार्यवचनस्याप्ययमेवार्थः । श्रुतौ पूर्वमनुष्ठानप्रकारानुक्तेः । यद्वा श्रद्धापूर्वकत्वरूपोक्तप्रकारवाची इति शब्दः । ते धूममभिसंभवंतीत्यर्थः ।धूमाद्रात्रिं रात्रेरपरपक्षमपरपक्षाद्यान् षड्दक्षिणैति मासांस्तान् ।।अत्रापि धूमादिशब्दास्तत्तदभिमानिदेवतापराः । दक्षिणां दिशमादित्य एति “दक्षिणादाच्” (अष्टा. 5.3.36) इत्याजंतोऽयं शब्दः ।
तान्दक्षिणायनमासाभिमानिनीर्देवताः प्रतिपद्यन्त इत्यर्थः ।।नैते संवत्सरमभिप्राप्नुवंति ।।एते केवलेष्टादिकर्मकारिणः दक्षिणायनमासान् प्राप्यापि विद्वांस इव न संवत्सरं प्राप्नुवंतीत्यर्थः ।।पुनः किं प्राप्नुवंतीत्यत्राह ।।मासेभ्यः पितृलोकं पितृलोकादाकाशमाकाशाच्चंद्रमसम् ।।स्पष्टोऽर्थः । वेत्थ यदितोऽधि प्रजाः प्रयंतीति प्रथमः प्रश्नः प्रत्युक्तो भवति ।।एष सोमो राजा ।।अत्रैष इत्यनेन नाभिसंभाव्यश्चंद्रमाः परामृश्यते । तस्य सोमराजभावोपदेशस्य व्यर्थत्वात् । अपि त्विष्टादिकारी अभिसंभविता परामृश्यते । तस्या आहुतेः सोमो राजा संभवतीति पंचाग्निविद्यावाक्यानुसारात् । स्वर्गभोगयोग्यदिव्यदेहयुक्तो भवतीत्यर्थः ।।तद्देवानामन्नं तं देवा भक्षयंति ।।इष्टादिकारिणामाजानसिद्धदेवकिंकरत्वादन्नत्वभक्ष्यत्ववादः । सूत्रितं च “भाक्तं वानात्मवित्त्वात् (ब्र.सू.3.1.7) इति ।तस्मिन्यावत्संपातमुषित्वा ।।संपतत्यनेन संपातः कर्मशेषः । यावत्कर्मशेषमुषित्वेत्यर्थः । यावच्छब्दः साकल्यार्थः । साकल्यं च फलप्रदानयुक्तकर्म्मविशेषविषयम् । न तु सर्वकर्मविषयम् ।।वेत्थ यथा पुनरावर्त्तंत इति द्वितीयं प्रश्नं प्रतिवक्ति ।।अथैतमेवाध्वानं पुनर्निवर्त्तंते यथेतम् ।।अथानंतरमेतमेव धूमादिमार्गं यथेतं यथागतं पुनर्निवर्त्तंते । धूमरात्र्यपरपक्षदक्षिणायनषण्मासपितृलोकाकाशक्रमेणारोहणात्तेनैव क्रमेणावरोहणे प्राप्ते तत्र विशेषमाह ।।आकाशमाकाशाद्वायुम् ।।यथाकाशाच्चंद्रमभिसंभवंत्येवं चंद्रमस आकाशमभिसंभवंति । आरोहणावरोहणयोराकाशाभिसंभवस्त्वविशिष्ट इति भावः । आकाशाद्वायुमभिसंभवतीति शेषः । वायुर्भूत्वा धूमो भवतीत्युत्तरत्र श्रवणादत्राप्यवरोहन्नाकाशो भवति वायुर्भवतीत्येवार्थः । अवरोहता चाकाशादिभवनं न तत्तच्छरीरकत्वम् । सर्गादिकालमारभ्याऽऽप्रलयमाकाशाद्यभिमानिदेवतानामन्यासां कॢप्तानां सत्त्वेन प्रतिक्षणमवरोहतामाकाशाद्यभिमानिदेवतात्वानुपपत्तेस्तत्सादृश्यमेवार्थः । या आपश्चंद्रमंडले शरीरमारब्धवत्यस्तासां कर्मक्षये द्रवीभूतानामाकाशगतानां भेदकाकारप्रहाणेनाकाशसादृश्ये तदुपश्लिष्टा जीवा अप्याकाशसमा इत्युच्यंते । ताश्चापः इतश्चामुतश्च नीयमाना वायुसमा भवंति । ततश्च तत्संश्लिष्टो जीवोऽपि वायुर्भवतीत्युच्यते । एवमुत्तरत्रापि द्रष्टव्यम् ।।वायुर्भूत्वा धूमो भवति धूमो भूत्वाभ्रं भवत्यभ्रं भूत्वा मेघो भवति ।।अपो बिभर्तीत्यब्भ्रम् । मूलविभुजादित्वात्कः । मिह सेचन इति धातोः पचाद्यच् प्रत्यये न्यंक्वादित्वात्कुत्वे मेघ इति । ततश्चाब्भ्रशब्देन जलधारणावस्थ उच्यते । मेघशब्देन वर्षोन्मुखावस्थ उच्यते । एवमेव भेदो व्यासार्यैरुक्तः ।।मेघो भूत्वा प्रवर्षति ।।मेघसंश्लिष्टो भूत्वा वर्षधारारूपेण भूमौ पततीति फलितोऽर्थः ।।त इह व्रीहियवा ओषधिवनस्पतयस्तिलमाषा इति जायन्ते ॥वर्षसंश्लिष्टभूतसूक्ष्मपरिष्वक्ता जीवा व्रीहियवादिरूपेण जायंते । अत्र तेन रूपेण जननं नाम न स्थावरभावप्रतिपत्तिः । स्थावरत्वप्राप्तिहेतुभूतकर्मणामिहाकीर्त्तनात् । किंतु जीवातंराधिष्ठितेषु व्रीह्यादिषु संश्लेषमात्रम् । सूत्रितं च “अन्याधिष्ठिते पूर्ववदभिलापात्” (ब्र.सू.3.1.24) इति ।।अतो वै खलु दुर्निष्प्रपतरम् ।।अतः स्थावरादिभावादतिचिरेण निर्गमनं भवति । अत्र खलंताद् दुर्निष्प्रपतशब्दादातिशायनिके तरप्प्रत्यये छांदसे तशब्दलोपे दुर्निष्प्रपतरमिति रूपम् । ततश्चातिशयस्य प्रतियोग्याकांक्षायां प्रागनुक्रांताकाशादीनां बुद्धौ सन्निधानात्तेषामेव प्रतियोगित्वेनान्वयः स्यात् । ततश्च व्रीह्यादिष्वाकाशाद्यपेक्षया चिरावस्थानोक्त्याऽऽकाशादिष्ववस्थानस्य तदपेक्षयाल्पकालत्वं पर्यवस्यति । उक्तं च भगवता भाष्यकृता छांदसस्तशब्दलोपः दुर्निष्प्रपतरं दुःखनिष्क्रमणतरमित्यर्थ इति । न च “तयोरेव कृत्यक्तखलर्थाः” (अष्टा.3.4.70) इति खलो भावकर्ममात्रविषयत्वात् पतेश्चाकर्मकत्वेन भावार्थस्यैव परिशिष्टत्वात् तत्र च भावार्थस्य प्रकर्षाभावात्तरपो दौर्लभ्यमिति शंक्यम् । शिश्येतरामित्यादिप्रयोगादभावार्थेऽपि प्रकर्षसंभवात् कर्त्रर्थपचाद्यजंतात्तरपः संभवाच्च भाष्यस्य नानुपपत्तिः । यद्वा आतो युच् (अष्टा.3.3.128) छन्दसि गत्यर्थेभ्यः (अष्टा. 3.3.129) इति च्छंदसि विशेषविहितखलर्थयुजंत एवायं शब्दः । रेफरूपवर्णविकारः छांदसः । नन्वस्य तरप् प्रत्ययत्वाभावे पूर्वनिर्दिष्टाकाशादिभ्योऽतिशयस्तेष्वचिरावस्थानं वा कथं सिध्येदिति चेन्न । वैशब्दस्यावधारणार्थतयाऽतःशब्दितव्रीह्यादिभावादेव चिरनिष्क्रमणे कथिते ततः पूर्वनिर्दिष्टेभ्य आकाशादिभ्योऽचिरान्निष्क्रमणं सिद्ध्यति । तशब्दलोपश्छांदस इति च भाष्यस्यापि वर्णलोपेन वा वर्णविकारेण वा यथाकथंचित्साधुत्वं समर्थनीयमित्यत्र तात्पर्यम् । व्रीह्यादयो हि गिरितटादुदकस्रोतसोह्यमाना नदीं प्राप्नुवंति । ततः समुद्रम् । ततो मकरादिभिर्भक्ष्यंते । तेऽप्यन्यैः । तत्रैव च मकरेण सह समुद्रे विलीनाः समुद्रांभोभिर्जलधरैराकृष्टाः पुनर्वर्षधाराभिर्मरुदेशे शिलातले वा हर्म्ये वा पतितास्तिष्ठंति । कदाचिद् व्यालमृगादिपीता भक्षिताश्चान्यैः । तेऽप्यन्यैरित्येवं प्रकाराः परिवर्तेरन् । ततो दुर्निष्क्रमणत्वम् ॥यो यो ह्यन्नमत्ति यो रेतः सिंचति तद्भूय एव भवति ।।अत्र स इत्यध्याहारः । सः व्रीह्यादिसंश्लिष्टोऽवरोहन् जीवः योन्नऽमत्ति यो रेतः सिंचति पश्चात्तद्भवति । आकाशादिभाववद्रेतस्सिग्भावोऽप्यौपचारिकः । रेतःसिग्योगी भवतीत्यर्थः । एवमेव व्यासार्यैरुक्तम् ।।तद्य इह रमणीयचरणा अभ्याशो ह यत्ते रमणीयां योनिमापद्येरन्ब्राह्मणयोनिं वा क्षत्रिययोनिं वा वैश्ययोनिं वा । अथ य इह कपूयचरणा अभ्याशो ह यत्ते कपूयां योनिमापद्येरन् श्वयोनिं वा सूकरयोनिं वा चण्डालयोनिं वा ।।तत् तेषु येऽभ्याशोऽभ्यागंतारः । अभ्याङ्पूर्वादशेर्धातोः क्विबंताद्बहुवचनांतोऽयं शब्दः । हेति प्रसिद्धौ । यद्यदा रमणीयचरणाः चर्यत इति चरणं, कर्म, रमणीयकर्माणः । भुक्तशिष्टपरिपक्वसुकृतकर्मयुक्ता भवंतीत्यर्थः । अत्र यदा शब्दानुरोधात् तदेत्यप्यध्याहर्तव्यम् । शिष्टं स्पष्टम् । कपूयचरणाः कुत्सितचरणा इत्यर्थः । भुक्तशिष्टकर्मानुसारि जन्म प्राप्नुवंतीत्यर्थः । यथासौ लोको न संपूर्यता 3 इति तृतीयं प्रश्नं प्रतिवक्ति ।।अथैतयोः पथोर्न कतरेण च तानीमानि क्षुद्राण्यसकृदावर्तीनि भूतानि भवंति । जायस्व म्रियस्वेत्येतत्तृतीयँ स्थानं तेनासौ लोको न संपूर्यते ।।अथशब्दः प्रतिवचनांतरोपक्रमे वर्तते । यानि भूतान्युक्तयोर्देवयानपितृयाणयोर्मध्ये कतरेण येन केनापि मार्गेण न गच्छंति नागच्छंति च तानीमानि भूतानि क्षुद्राणि दंशमशककीटादीन्यसकृदावर्तीनि संति जायस्व म्रियस्वेति भवंति । पुनःपुनर्जायंते म्रियंत इत्यर्थः । सक्तून्पिब धानाः खादेत्ययमभ्यवहरतीत्यस्य पुनःपुनः पिबति पुनःपुनः खादतीत्यर्थः तद्वत् । “क्रियासमभिहारे लोट् लोटो हिस्वौ वा च तध्वमोः” (अष्टा. 3.4.2) इति पौनःपुन्यलक्षणक्रियासमभिहारे लोट् तध्वमोर्हिस्वादेशविधानाज्जायस्व म्रियस्वेति रूपम् । “यथाविध्यनुप्रयोगः पूर्वस्मिन्” (अष्टा. 3.4.4) “समुच्चये सामान्यवचनस्य” (अष्टा.3.4.5) इति भवंतीति सामान्यशब्दस्यानुप्रयोगः । उक्तं च व्यासार्यैः “पुरीमवस्कंद लुनीहि नंदनं मुषाण रत्नानि हरामरांगना” इतिवदिति ।।इत्येतत्तृतीयं स्थानम् ।।अत्रैतच्छब्देन जायस्व म्रियस्वेति भूतानि भवंतीति प्रथमांतशब्देन प्रधानतया निर्दिष्टाः पापकर्माणः परामृश्यंते । सर्वनाम्नां पूर्वनिर्द्दिष्टप्रधानपरामर्शित्वात् । स्थानशब्दाभिप्रायेणैकवचनम् । पूर्वनिर्द्दिष्टद्युलोकब्रह्मलोकापेक्षयाक्षुद्रजंतुभवनादिलक्षणस्थानस्य तृतीयत्वात्तत्स्थानसंबंधात् पापकर्माणः तृतीयस्थानमित्युच्यंते ।।तेनासौ लोको न संपूर्यते ।।तेन तृतीयस्थानशब्दितेन पापकर्म्मणाऽसौ द्युलोको न संपूर्यते न प्राप्यत इत्यर्थः । अत्रैतत्तृतीयं स्थानमित्येतच्छब्देन पूर्वनिर्दिष्टः, पौनःपुन्येन जननमरणादिभवनलक्षणो धात्वर्थ एव परामृश्यते । तस्यैव तृतीयस्थानत्वम् । ततश्चैतस्य तृतीयस्य स्थानस्य सद्भावादत्रैतत्स्थाने जीवानां प्रायेण प्रचाराद् द्युलोकगंतॄणामल्पत्वाद् द्युलोको न संपूर्यत इत्युक्तावपि भाष्यस्य नविरोधः । अत एव द्युलोकारोहावरोहाभावेन द्युलोकासंपूर्त्तिवचनादिति भाषितमिति द्रष्टव्यम् ।।तस्माज्जुगुप्सेत ।।यस्मात्संसारिणां गतिरुक्तरीत्या कष्टतरा तस्मात्संसाराज्जुगुप्सेत् मा भून्मे एवंविधसंसारमहोदधौ घोरे पात इति निंदेत् । मुक्तिफलकपंचाग्निविद्यायाः फलांतरमप्याह ।।तदेष श्लोकः ।।तच्छब्दः प्रसिद्धपरः । एष वक्ष्यमाणः श्लोक इत्यर्थः ।।स्तेनो हिरण्यस्य सुरां पिबंश्च गुरोस्तल्पमावसन्ब्रह्महा च ।एते पतंति चत्वारः पंचमश्चाचरंस्तैरिति ।।तैराचरंस्तेनादिभिश्चतुर्भिर्विद्यायोनिसंबंधमाचरन्नित्यर्थः । शिष्टं स्पष्टम् ।।9।।अथ ह य एतानेवं पंचाग्नीन्वेद न सह तैरप्याचरन्पाप्मना लिप्यते ।।स्पष्टोऽर्थः । विद्याविषयकज्ञानफलमाह ।।शुद्धः पूतः पुण्यलोको भवति य एवं वेद य एवं वेद ।।स्पष्टोऽर्थः ।।।। इति दशमखण्डदीपिका ।।

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.