॥ श्रीरस्तु ॥
॥ श्रीमते रामानुजाय नमः॥
।। विषयवाक्यदीपिका ।।
।।श्रीरङ्गरामानुजमुनिप्रणीता।।
पुरुषविद्याधिकरणम्
पुरुषविद्यायामपि चेतरेषामनाम्नात् (ब्र.सू.3.3.24)छान्दोग्ये तृतीयप्रपाठके षोडशखण्डारंभे दीर्घायुष्ट्वफलिका पुरुष विद्या प्रस्तूयते ।।पुरुषो वाव यज्ञस्तस्य यानि चतुर्विँशतिवर्षाणि तत्प्रातःसवनम् ॥षोडशोत्तरशतवर्षपरिमिते पुरुषायुषे आद्यानि चतुर्विंशतिवर्षाणि प्रातः सवनम् । तत्र हेतुमाह ।चतुर्विंशत्यक्षरा गायत्री गायत्रं प्रातस्सवनम् ।।प्रातःसवनस्य गायत्रीछंदस्त्वाद् गायत्रीछंदसश्चतुर्विंशत्यक्षरात्मकत्वात् चतुर्विंशतिवर्षे प्रातःसवनत्वाध्यासो युज्यत इति भावः ॥तदस्य वसवोऽन्वायत्ताः ।।अस्योपासकस्य तत्प्रातः सवनं । वसवः स्वामित्वेनानुगताः । प्रसिद्धयज्ञे प्रातः सवनस्य वसुस्वामिकत्वादिति भावः । प्रसिद्धान्वसून्व्यावर्त्तयति ।।प्राणा वाव वसवः ।।वाव शब्दोऽवधारणे । प्राणानां वसुत्वे युक्तिमाह ।।एते हीदँ सर्वं वासयंति ।।शरीराणामशैथिल्यलक्षणवासस्य प्राणाधीनत्वादिति भावः ।।तं चेदेतस्मिन्वयसि किंचिदुपतपेत् ।।तं पुरुषं विद्यानिष्ठमेतस्मिन्वयसि चतुर्विंशतिवर्षात्मके वयसि किंचिद्रोगादिबाधेतेत्यर्थः ॥स ब्रूयात्प्राणा वसवः इदं मे प्रातः सवनं माध्यंदिनँ सवनमनु संतनुतेऽति माऽहँ प्राणानां वसूनां मध्ये यज्ञो विलोप्सीयेति ।।तदेमं मंत्रं ब्रूयात् । स उपासकः हे प्राणा वसवः यज्ञरूपस्य ममाधुना प्रातस्सवनं प्रवर्त्तते इदं प्रवर्त्तमानं प्रातःसवनं माध्यंदिनसवनेनाविच्छिन्नं कुरुत । प्रातस्सवनेशानां प्राणानां वसूनांमध्ये यज्ञोऽहं यज्ञरूपोऽहं माविलोप्सीयलुप्तो माभूवम् । छांदसो माङि लुङभावः । माशब्दो वा ।।उद्धैव तत एत्यगदो ह भवति ।।तत उपतापादुदेति उद्गच्छति अगदो भवति अरोगो भवति । एवमुत्तरत्रापि ॥अथ यानि चतुश्चत्वारिँशद्वर्षाणि तन्माध्यंदिनं सवनं चतुश्चत्वारिँशदक्षरा त्रिष्टुप्त्रैष्टुभं माध्यंदिनं सवनं तदस्य रुद्रा अन्वायत्ताः प्राणा वाव रुद्रा एते हीदँ सर्वं रोदयंति । तं चेदेतस्मिन्वयसि किंचिदुपतपेत् स ब्रूयात् । प्राणा रुद्रा इदं मे माध्यंदिनँ सवनं तृतीयं सवनमनु संतनुतेति माहं प्राणानां रुद्राणां मध्ये यज्ञो विलोप्सीयेति । उद्धैव तत एत्यगदो ह भवति । अथ यान्यष्टाचत्वारिँशद्वर्षाणि तत्तृतीयं सवनमष्टाचत्वारिंशदक्षरा जगती जागतं तृतीयसवनं तदस्यादित्या अन्वायत्ताः प्राणा वावादित्या एते हीदँ सर्वमाददते तं चेदेतस्मिन्वयसि किंचिदुपतपेत्स ब्रूयात् । प्राणा आदित्याः इदं मे तृतीयँ सवनमायुरनुसंतनुतेति ॥तृतीयं सवनात्मकमायुरासमाप्त्यविच्छिन्नं कुरुतेत्यर्थः ।।माहं प्राणानामादित्यानां मध्ये यज्ञो विलोप्सीयेति उद्धैव तत एत्यगदो हैव भवति ।।स्पष्टोऽर्थः ।।एतद्ध स्म वै तद्विद्वानाह महीदास ऐतरेयः ।स किं म एतदुपतपसि योऽहमनेन न प्रेष्यामीति ।।हे रोग स त्वं मे मां किं कस्मादुपतपसि योऽहं त्वत्कृतेनोपतापेन न प्रेष्यामि न मरिष्यामि । अतः तव श्रमो वृथैवेति । एतत्पुरुषविज्ञानस्वरूपं विद्वानितरपुत्रो महीदासनामाऽऽह स्मेत्यर्थः । शुभ्रादित्वादितरशब्दादपत्यार्थे ढक् ॥स ह षोडशं वर्षशतमजीवत् ।।स महीदासः षोडशाधिकं वर्षशतमजीवत् । “तदस्मिन्नधिकमिति दशांताड्डः” इति षोडशशब्दाड्ड प्रत्ययः । अन्योप्येवंवित्षोडशवर्षशतं जीवतीत्याह ।।प्र ह षोडशं वर्षशतं जीवति य एवं वेद ॥स यदशिशिषति यत्पिपासति यन्नरमते ता अस्य दीक्षा ।अशनायापिपासारत्यभावानां दुःखात्मकत्वेन दीक्षात्वम् ।।अथ यदश्नाति यत्पिबति यद्रमते तदुपसदैरेति ।।अशनपानरतीनां पयोव्रतादियुक्तोपसद्वत्सुखरूपत्वादुपसद्रूपत्वमुपसद्भिः समानतामेतीत्यर्थः । उपसद्दृष्टिस्तासु कर्त्तव्येति भावः ।अथ यद्धसति यज्जक्षति यन्मैथुनं चरति स्तुतशस्त्रैरेव तदेति ।।हासादीनां शब्दवत्त्वसाम्यात्स्तुतशस्त्रैः साम्यमेतीत्यर्थः ॥अथ यत्तपो दानमार्जवमहिंसा सत्यवचनमिति ता अस्य दक्षिणाः ।।धर्मत्वतु (पु) ष्टिकरत्वसाम्यादितिभावः ॥तस्मादाहुः सोष्यत्यसोष्टेति पुनरुत्पादनमेवास्य ॥यतो हेतोः पुरुषस्यैव यज्ञरूपत्वमत एव यथा यज्ञं करिष्यमाणे पुरुषे देवदत्तः सोमं सोष्यतीति प्रयुंजते, तथा पुरुषस्योत्पादनं प्रतीक्ष्य यदा माता तं पुरुषं जनयिष्यति तदा पुरुषं सोष्यतीति प्रयुंजते लोकास्तदुत्पादनादनंतरमसोष्ट सोमं …. यज्ञदत्त इतिवत् असोष्ट माता पुरुषमित्युत्पत्तेः पश्चात्प्रयुंजते । ततश्च पुरुषस्योत्पादनमेव सोष्यत्यसोष्टेतिशब्दसंबंधित्वसामान्याद्यज्ञानुष्ठानलक्षणमुत्पादनमित्यर्थः ॥तन्मरणमेवावभृथः ।।समाप्तित्वसामान्यादिति भावः ।।तद्धैतद्धोर आंगिरसः कृष्णाय देवकीपुत्रायोक्त्वोवाच ।।घोरनामांगिरोगोत्रः । तदेतत्पुरुषयज्ञदर्शनं देवकीपुत्राय कृष्णाय । इतिशब्दोऽध्याहर्त्तव्यः । तच्छेषभूतंतत्प्रीत्यर्थमित्युक्त्वेत्यनुसंधायोवाचाऽनुष्ठितवानित्यर्थः । वचेर्ल्लक्षणयाऽनुष्ठानार्थत्वम् ॥अपिपास एव स बभूव ।।स घोरनामा भगवच्छेषत्वानुसंधानपूर्वकपुरुषयज्ञोपासनानुष्ठानेन ब्रह्मविद्यां प्राप्यापिपासो मुक्तो बभूवेत्यर्थः । ततश्च षोडशाधिकवर्षशतजीवनफलकस्यापि पुरुषयज्ञदर्शनस्य भगवच्छेषत्वानुसंधानपूर्वकमनुष्ठितस्य ब्रह्मविद्योपयोगित्वमप्यस्तीति भावः ॥