॥ श्रीरस्तु ॥
॥ श्रीमते रामानुजाय नमः॥
।। विषयवाक्यदीपिका ।।
।।श्रीरङ्गरामानुजमुनिप्रणीता।।
संभृत्यधिकरणम्
संभृतिद्युव्याप्त्यपिचातः (ब्र.सू.3.3.23)तैत्तिरीयके राणायनीयानां खिलेषु च ।।ब्रह्म ज्येष्ठा वीर्या संभृतानि ब्रह्माग्रे ज्येष्ठं दिवमाततान ।ब्रह्म भूतानां प्रथमोऽथ जज्ञे तेनार्हति ब्रह्मणा स्पर्द्धितुं क इति ॥ब्रह्म ब्रह्मणेत्यर्थः । ज्येष्ठा ज्येष्ठानि । सुपां सुलुगिति लुकि नलोपे च रूपम् । वीर्या वीर्याणि । पराक्रमविशेषाः । अत्रापि पूर्ववद्रूपम् । संभृतानि सम्यक्धृतानि तद्वीर्यविहतिर्नास्तीत्यर्थः । तच्च ब्रह्म अग्रे इंद्रादिजन्मनः प्राक् दिवं स्वर्गमाततान व्याप्तवत् । सर्वदा सर्वलोकव्याप्तमित्यर्थः । तादृशं सर्वेषां भूतानां प्रथममाविर्भूतं कालापरिच्छिन्नमिति यावत् । तादृशेन ब्रह्मणा स्पर्द्धितुं कः क्षमते इत्यर्थः ॥ इति संभृत्यधिकरणम् ॥