श्रीघटिकाचलमाहात्म्यम्

श्रीः

श्रीमते रामानुजाय नमः

महर्षिवेदव्यासविरचिते ब्रह्मकैवर्त्तपुराणान्तर्गते

श्रीघटिकाचलमाहात्म्यम्

      श्रीमदखण्डभूमण्डलमण्डनायमानचोलसिम्हपुरवरनिकटोल्लसद्घटि-काद्रौ कृतावतारस्य प्रह्लादाह्लादनैकहेतोः निजकटाक्षवीक्षणामृतलहरी-निष्यन्दपोप्लूयमान मरालायमानाञ्जनेयस्य भवगतो नृसिम्हमूर्तेः माहात्म्यप्रतिपादकः व्यासोक्तब्रह्मकैवर्त्तमहापुराणान्तर्गतद्वाविम्शति- सङ्ख्याकाध्यायसम्मितग्रन्थः ।

ध्यानश्लोक:

श्रीवत्साञ्चितवत्समध्यविलसच्छ्रीकौस्तुभोद्यन्मणिः

प्राचीनोक्तिविलासिनीप्रविलसच्छ्रीमन्तमुक्तामणिः ।

शश्वत्सेवकचित्तजाड्यतिमिरप्रच्छेदनद्योमणिः

पायान्नो घटिकाद्रिशेखरमणिस्सङ्कल्पचिन्तामणिः ॥

प्रथमोऽध्यायः

श्रीपराशरः –

अथ ते प्रीतमनसस्सनकाद्यास्सुरर्षयः ।

ऊचुः प्राञ्जलयस्सर्वे ब्रह्माणम् ब्रह्मवादिनम् ॥ १ ॥

ऋषयः –

श्रीमद्वेङ्कटशैलस्य माहात्म्यम् वदता त्वया ।

मध्ये किञ्चिदुपन्यस्तमिन्द्रद्युम्नस्य वैभवम् ॥ २ ॥

राज्ञस्तस्य महाबाहोः कथम् ब्राह्मण्यमागतम् ।

केन वा तपसा ब्रह्मन् कस्य वाराधनक्रमात् ॥ ३ ॥

निस्सम्शयम् विस्तरेण पृच्छताम् वद नो विभो ।

श्रीपराशरः –

अस्ति द्विजातिप्रवर इन्द्रद्युम्न इति श्रुतः ॥ ४ ॥

पूर्वजन्मनि राजाऽभूत् समस्तक्षितिमण्डले ।

स पूर्वजन्मनि भजन्नृपभावम् महर्षयः ॥ ५ ॥

जातमात्राद्विष्णुभक्तश्शङ्खचक्राङ्कितो युवा ।

पुरीमावासयामास मधुराम् जगतीमवन् ॥ ६ ॥

स वाजिस्यन्दनोपेतस्सहामात्यैरनुद्रुतैः ।

भटैश्चाश्वपदालम्बैस्सन्नद्धैरपि खड्गिभिः ॥ ७ ॥

वायुजङ्घाभिधम् वाजिवरमारुह्य सायुधैः ।

सोष्णीषैरुद्भटैः कैश्चिदाखेटपथकोविदैः ॥ ८ ॥

अन्यैरपि महामात्यैर्मन्त्रज्ञो वनमभ्यगात् ।

अटन् मध्येवनम् राजा मृगयाम् नृपसत्तमः ॥ ९ ॥

एकाकी हयमारुह्य सर्वाम्स्त्यक्त्वा मृगानुगः |

मध्ये वनस्य मृगयामटन् हरिणमाययौ ॥ १० ॥

तम् दृष्ट्वा भूपतिम् तत्र सज्यमायतकार्मुकम् ।

सभ्रान्तचेता हरिणो भयाद्दुद्राव वेगतः ॥ ११ ॥

किमेतदिति पश्यन्तस्तद्वनस्था विदूरतः ।

मृगास्तमेकम् ददृशू राजानम् पृष्टतोsपि च ॥ १२ ॥

अर्धलीढतृणास्तत्र न शेकुरपि भक्षितुम् ।

विभ्रान्तलोचना राजबाणदर्शनतस्थिताः ॥ १३ ॥

स राजा सम्सृतिम् वीक्ष्य मृगाणामुचिताम् तदा ।

न मोचयितुमारेभे सायकम् मृगसत्तमे ॥ १४ ॥

दययारुद्धवेगम् तमवलोक्य मृगागणाः ।

निजगाद नृपश्रेष्ठम् श्रेष्ठम् धर्मभृतामपि ॥ १५ ॥

मृगाः –

जगन्नाथे कृताभक्ती राजा न रचिता विभो ।

मा मोचय शरम् राजन् यदेतद्गतिका वयम् ॥ १६ ॥

निशम्य तद्वचो राजा जातलज्जो जगत्पतिः ।

हरौ निविष्टचेतास्तु विज्यम् चापमधाकरोत् ॥ १७ ॥

राजा सम्सृतिमालोक्य हरिणीनाम् तथा वने ।

धिगस्तु राजसु क्षात्रम् यतो न करुणी मृगे ॥ १८ ॥

मा स्म भीः क्रियतामस्माज्जनाद्वनपथे मृगाः ।

भवन्तु सुखिनस्सर्वे त्यक्तोऽयम् मृगसत्तमः ॥ १९ ॥

इति रक्षाम् विरचयन् मृगाणाम् नृपसत्तमः ।

कृपावेशङ्गतस्तेषु सन्यवर्तत वाजिना ॥ २० ॥

मृगयानिस्पृहो राजा पुरीम् स्वामभ्यगाद्वनात् ।

अनुद्रुतैरनुवृतो मन्त्रिभिर्मन्त्रकोविदः ॥ २१ ॥

राजानमभितो वीक्ष्य पौरजानपदास्तदा ।

नीराजनादिकास्तत्र क्रियाः काश्चिद्वितेनिरे ॥ २२ ॥

इन्द्रद्युम्नो जगन्नाथपादसेवा परायणः ।

क्षात्रमुत्सादयन् वेगात् घृणाम् समनुपद्य च ॥ २३ ॥

कञ्चित्कालमुषित्वाथ न्यस्तभारस्तनूद्भवे ।

कलत्रमात्रसहितो हरिद्वारमुपेत्य वै ॥ २४ ॥

तपसोद्युक्तसन्नाहो हरिभक्तिमविन्दत ।

तत्र काम्श्चिदुषित्वा तु कालान् कम्सारिसेवया ॥ २५ ॥

ततोऽन्यम् देशमागत्य जगन्नाथम् जगत्पतिः ।

तत्र चक्रे तपस्तीव्रम् जटिलो व्रतसत्तमः ॥ २६ ॥

स तत्र गत्वा यत्रास्ते भगवान् भूतभावनः ।

कृष्णः कमलपत्राक्षो देवकीनन्दनस्स्वयम् ॥ २७ ॥

आपदाम् जीर्णपर्णादामश्मादाम् च महात्मनाम् ।

ततो महारथस्तेषामैक्षिष्ट पदमुत्तमम् ॥ २८ ॥

स्वयम् तदा स राजर्षिस्सकलत्रो हरिम् भजन् ।

नान्यचेता नान्यरतो नान्यलोकनतत्परः ॥ २९ ॥

मुकुन्दभजनव्यग्रः शिवस्मृत्यसहस्सदा ।

स चिरम् दर्भशयनस्सकलत्रो महीपतिः ॥ ३० ॥

स कदाचन शय्यायाम् हरिरित्यक्षरद्वयम् ।

वक्तुकामो जगौ लौल्यात् हर इत्यक्षरद्वयम् ॥ ३१ ॥

यदा प्रामादिकी सैषा हर इत्यक्षरद्वयी ।

गलिता तम् तदा सद्यश्शिवदूतास्सहस्रशः ॥ ३२ ॥

विमाने तूत्तमे स्थाप्य निन्युश्शिवपदम् परम् ।

सदा हरस्य विद्वेषात् हरस्मृतिरुपागता ॥ ३३ ॥

इति सञ्जगदुस्तत्र समालोक्य सुरेश्वराः ।

ततोऽसौ नीतमात्रस्तु स्वप्नोऽयमिति चिन्तयन् ॥ ३४ ॥

स्वप्नेsपि विभ्रमः कस्मादीदृशोऽयमुपस्थितः ।

यादृशी भावना यत्र स्थितिर्भवति तादृशी ॥ ३५ ॥

इत्येषा वैदिकी मिथ्या पौराणप्रश्रयापि सा ।

इति सञ्चिन्त्य बहुधा वीक्ष्य विभ्रान्तचेतनः ॥ ३६ ॥

आलुलोके शिवपदम् पार्श्वस्थानपि किङ्करान् ।

इन्द्रद्युम्नः –

क्वाहम् ज्ञानपरः क्वेमे प्रमथा गणशो गणाः ॥ ३७ ॥

क्व वा सम्पत्प्रदस्थानम् क्व कैवल्यप्रदम् पदम् ।

इति चिन्तयतस्तस्य पार्श्वतो वृषभद्वजः ॥ ३८ ॥

प्रादुरासीत् परञ्ज्योतिः पार्वत्या सह शङ्करः ।

शङ्करः –

साधु साधु महाभाग मद्भक्तस्त्वमनन्यधीः ॥ ३९ ॥

मुदा विरचितम् राजन् लाञ्छनम् वैष्णवम् त्वयि ।

राजर्षे मा कृथाश्चिन्तामार्जितास्सम्पदो मया ॥ ४० ॥

किमभीप्सितमस्मत्तः पृच्छतस्ते ददाम्यहम् ।

तम् तथाव्यग्रमनसम् तदाकर्ण्य वचस्तथा ॥ ४१ ॥

शङ्करो विस्मयमना इदमूचे महासतिम् ।

कोऽयम् नारायणो देवो माम् विना नृपसत्तम ॥ ४२ ॥

मामेव ये प्रपद्यन्ते तेषाम् नारायणो गतिः ।

अहमेव परञ्ज्योतिरहमेव महीपते ॥ ४३ ॥

नारायणो जगन्नाथो ब्रह्मा चैवेति गीयते ।

तद्भक्ता एव मद्भक्तास्तल्लक्ष्म मम लक्षणम् ॥ ४४ ॥

इति सञ्चोदितस्तत्र राजा शास्त्रविशारदः ।

विस्मयम् परमम् लभ्य प्राह किञ्चिदुमापतिम् ॥ ४५ ॥

इन्द्रद्युम्नः –

अनादिनिधनोऽनन्तो महर्षिगणसेवितः ।

ब्रह्मस्वरूपी भगवान् कैवल्यपदनायकः ॥ ४६ ॥

नारायणो जगद्धाता सर्वेषामन्तरे हि सः ।

देव किम् बहुनोक्तेन भवतोsपि हृदि स्थितः ॥ ४७ ॥

ब्रह्मणोsपि तथा वेदैर्गीयते किमु केशवः ।

तथा च योगिहृद्ध्येयमशेषहृदिवर्तिनम् ॥ ४८ ॥

कैवल्यदमनादृत्य को भजेदन्यदैवतम् ।

अनुभुक्तम् मयैश्वर्यम् पुत्रमित्रकलत्रकम् ॥ ४९ ॥

इदानीम् मुक्तिकामोऽहम् तत्प्रदातारमाद्रिये ।

शङ्करः –

तथा यदि तव ब्राह्म्यम् तेजश्चेदुपलभ्यते ॥ ५० ॥

परम् पदम् महाविष्णोर्नात्रकार्या विचारणा ।

इन्द्रद्युम्नः –

अस्मिन्स्तवाञ्जलिरयम् ब्राह्म्यम् कस्माद्भवेन्मयि ॥ ५१ ॥

केनोपायेन लघुना भविता वैष्णवम् पदम् ।

स लक्ष्मीमिलितोरस्कस्सनकादिनिषेवितः ।

नारायणः प्रसन्नो मे भवेत्तद्वद शङ्कर ॥ ५२ ॥

शङ्करः –

अगण्यकमपुण्यानामृषिणाम् भावितात्मनाम् ।

आसीदावासवसुधा श्रीनृसिम्हपुरी भुवि ॥ ५३ ॥

प्रह्लादैकवरप्रदानरसिक: प्रह्लादनस्सर्वदा

प्रातः फुल्लसरोजकोमलपदश्श्यामोsरविन्देक्षणः ।

लक्ष्मीलाञ्छितवामवक्षसि चिरम् न्यस्ताशयः केशव-

स्तत्रास्ते भगवान्नृसिम्ह इति विख्यातोsचलाग्रे पुमान् ॥ ५४ ॥

यत्रासते महात्मान: ऋषयस्सप्तविश्श्रुताः ।

घटिकाचल इत्यस्य नाम पौराणिका विदुः ॥ ५५ ॥

तत्रैव रमते साक्षादम्भोजसमवीक्षण: ।

पद्मयालिङ्गितवपुर्निश्रेयसनिदानभूः ॥ ५६ ॥

इन्द्रादयो लोकपाला: कृष्णद्वैपायनादयः ।

ऋषयश्च निषेवन्ते प्रतिसन्ध्यामतन्द्रितः ॥ ५७ ॥

तत्र देवास्सगन्धर्वास्सिद्धाश्च वसवस्तथा ।

नारायणम् नरहरिम् निरतम् पर्युपासते ॥ ५८ ॥

पादे तस्य महीन्ध्रस्य ऋषिसङ्घनिषेविते ।

तीर्थोत्तमादिसम्पूर्णे ममापि रमते मनः ॥ ५९ ॥

यदि कैवल्यपदवी वाञ्चिता नृपसत्तम ।

यदि ब्राह्म्यम् च तेजस्ते तस्मिन्देशे तपः कुरु ॥ ६० ॥

श्री पराशरः –

इतीरितश्शङ्करेण भक्तवात्सल्यशालिना  ।

प्रहर्षमतुलम् लेभे प्रथमम् नृपसत्तमः ॥ ६१ ॥

दण्डवत्प्रणिपत्याथ शीघ्रतोषमुमापतिम् ।

हृदि कृत्वा तदा देशमाजगाम भुवम् नृपः ॥ ६२ ॥

अथ भुवमवतीर्य राजवर्यस्स च सरसीरुहलोचनासहायः ।

नरहरिपदसेवनम् कदा स्यादिति हृदये मतिमाकलय्य हृष्टः ॥ ६३ ॥

कदा पुनश्शङ्कगदायुधः परस्तथा प्रमान् पङ्कजसन्निभेक्षणः ।

पवित्रमूर्तिः परवीरहन्ता कैवल्य दो मे नृहरिस्समेष्यति ॥ ६४ ॥

इति विरचितचिन्तनः प्रजानामधिपतिरेष महेश्वरप्रसादात् ।

नरहरिमुपसेवितम् मुनीन्द्रैरभजदयम् घटिकाचलाधिनाथम् ॥ ६५ ॥

इति ब्रह्मकैवर्त्ते उत्तरखण्डे भृगुपराशरसम्वादे घटिकाचलमाहात्म्ये प्रथमोऽध्यायः

द्वितीयोध्यायः

श्री पराशरः –

ब्रह्मणो वचनम् श्रुत्वा ऋषयो रोमहर्षणम् ।

विस्मयम् परमम् तत्र लेभिरे ते परस्परम् ॥ १ ॥

ऋषयः –

साधु साधु त्वया ब्रह्मन्नानुपूर्व्या महात्मनः ।

राजर्षेस्तस्य वै तत्वमीरितम् विस्मयाकुलम् ॥ २ ॥

नरसिम्हवरात्तस्य ब्राह्मण्यम् कथमागतम् ।

इदानीम् श्रोतुमिच्छामो विस्तरेण वद प्रभो ॥ ३ ॥

नृसिम्हपुरमाहात्म्यम् माहात्म्यम् घटिकाद्रिणः ।

कस्मिन्स्तीर्थे तपस्तेपे तत्तीर्थस्य च वैभवम् ॥ ४ ॥

आदितो वद नो ब्रह्मन् देवाद्यत्तदुपस्थितम् ।

ब्रह्मा –

स शङ्करकृतोद्देशस्तस्माद्देशादपाक्रमात् ॥ ५ ॥

अथापश्यन्नृपश्रेष्ठो हिमवन्तम् नगोत्तमम् ।

तमारोहत एवान्यान् वालखिल्यानपि द्विजन् ॥ ६ ॥

अभक्षान्वायुभक्षाम्श्च तत्रापश्यन्नृपात्मजः ।

इन्द्रद्युम्नः –

विश्रान्ता इव दृश्यन्ते भवन्त: कामगा इव ॥ ७ ॥

किम् दैवतमुपास्यैवम् स्वस्वमाश्रममागताः ।

प्रतिपाल्य गतिम् वोऽहम् तिष्ठामि च ऋषीश्वराः ॥ ८ ॥

यूयम् वदत तत्वेन पृच्छतः पुरतो मम ।

वालखिल्यादयः ऋषयः –

अस्ति काचिद्भुविश्रेष्ठा नृसिम्हस्य पुरी श्रुता ॥ ९ ॥

तत्र देवो नरहरिस्साक्षाल्लोकपितामहः ।

स वै हिरण्यकशिपुम् विनिर्भिद्यासुरोत्तमम् ॥ १० ॥

प्रह्लादेन स्तूयमान आस्ते नारायणस्स्वयम् ।

वयम् तस्य गिरेश्शृङ्गमासाद्य सुरसेवितम् ॥ ११ ॥

तीर्थे हनुमतस्तत्र स्नात्वा गत्वा नगोत्तमम् ।

नृहरिं वन्द्य सन्ध्यायामितः प्राप्ता यथागतम् ॥ १२ ॥

श्री पराशरः –

अथायमवनीपालो हर्षगद्गदया गिरा ।

आभाष्य ऋषिमुख्याम्स्तान् दण्डवत्प्रणनाम हि ॥ १३ ॥

इन्द्रद्युम्नः –

कियद्दूरम् नरहरेरद्रिरालक्ष्यते महान् ।

यत्र यूयम् गिरिवरे विष्ठितम् परमेश्वरम् ॥ १४ ॥

स्तुवन्त: पदमर्चन्तः प्राप्नुवन्तः परम् प्रियम् ।

श्री पराशरः

इत्युक्तवन्तस्ते तत्र वालखिल्यादयो नृपम् ॥ १५ ॥

ऊचुस्तद्वैभवम् मार्गमपि पृथ्वीधरस्य वै ।

वालखिल्यादयः ऋषयः –

इतोऽविदूरे धर्मात्मन् श्रीनृसिंहपुराभिधम् ॥ १६ ॥

पट्टणयः पट्टणानायः च सत्तमयः दृश्यते नृप ।

इतो हिमवतश्शैलान्नवसाहस्रयोजने ॥ १७ ॥

पयोष्णी पुण्यविज्ञेया वेगवत्यपराभिधा ।

तदुत्तरस्य पारस्य परिष्कारवती पुरी ॥ १८ ॥

नगर्या नैऋतदिशमलङ्कृत्य महीधरः ।

नरकण्ठीरवस्यैष श्रृङ्गी श्रृङ्गवतायः वरः ॥ १९ ॥

आदृतस्सकलैरेषः पुण्यश्चक्षुष्मताम् फलम् ।

तस्मिन् योगनृसिम्हेन्द्रस्वामी विश्वभयापहः ॥ २० ॥

आस्ते मुमुक्षुभिस्सेव्यो भव्यो लक्ष्मीसहायवान् ।

गङ्गाञ्च समतिक्रम्य श्रीशैलमचलोत्तमम् ॥ २१ ॥

शेषशैलम् ततो गत्वा विश त्वम् घटिकाचलम् ।

श्री पराशरः –

स राजा तद्वचश्श्रुत्वा ऋषीणाम् भावितात्मनाम् ॥ २२ ॥

हस्तामलकवन्मेने कैवल्यपदमुत्तमम् ।

तत्रोषितो ऋषिगणैस्ताम् रात्रिम् राजसत्तमः ॥ २३ ॥

प्रभातायाम् तु शर्वयाम् तैराधिष्टपदेन वै ।

सह स्त्रिया स राजर्षिर्मध्येवर्त्म निरामयम् ॥ २४ ॥

मौलिमालाम् भगवतस्त्रियम्बकमहेशितुः ।

अवगाह्य नदीम् गङ्गाम् कृतमालाम् सुगन्धिनीम्  ॥ २५ ॥

सभार्यस्समतिक्रम्य श्रीशैलम् पृष्ठतोऽन्वगात् ।

ततः पश्चाद्गिरेश्शृङ्गमवतीर्य सह स्त्रिया ॥ २६ ॥

ज्वालानृसिम्हमानम्य स्तुवन्स्तम् कृपयान्वितम् ।

विनिर्गत्य ततश्शैलाद्धर्षोत्पुल्लतनूरुहः ॥ २७ ॥

समभ्येत्य हि राजर्षिस्स ददर्श शुभङ्करम् ।

औन्नत्यादधरीकृत्य भानुमत्रविजृम्भितम्  ॥ २८ ॥

अवतीर्णमिवासन्तम् स्थितवन्तम् नगोत्तमम् ।

श्रीमन्नारायणपदद्वन्द्वलाञ्चितमस्तकम् ॥ २९ ॥

शेषशैलम् तमभ्येत्य विस्मयम् परमाप सः ।

ततस्तस्य महीभर्तुर्माहात्म्यामृतसागरे ॥ ३० ॥

मज्जतो नान्यथा दृष्टिरासीदव्याकुला तथा ।

ततो हर्षाश्रुभरितश्शेषशैलमविन्दत ॥ ३१ ॥

अकरोदवगाहम् च कपिले तीर्थसत्तमे।

शनैरारुह्य शैलेन्द्रम् स राजेन्द्रस्सह स्त्रिया ॥ ३२ ॥

पुष्करिण्यम्भसार्द्रस्तु पुमाम्सम् परमम् भजन् ।

ईड्यमानम् मुनिवरैर्ब्रह्मेशानेन्द्रवन्दितम् ॥ ३३ ॥

स्तुत्या दिनत्रयम् तत्र नीत्वा सद्भिः प्रपूजितः ।

अवरुह्य गिरेश्शृङ्गादपश्यद्दक्षिणापथे ॥ ३४ ॥

ताम् सुवर्णमुखीम् नाम सुवर्णमुखरीम् नदीम् ।

गत्वा स्रोतस्विनीम् भूतसेव्यामुत्तरवाहिनीम् ॥ ३५ ॥

तत्रावगाह्य शुद्धात्मा सन्ध्यामन्वास्य मध्यमाम् ।

तस्याः प्रागुत्तरे तीरे वटमेकम् ददर्श ह ॥ ३६ ॥

शिलाविवरसम्भूतमूर्जितम् पृथिवीरुहम् ।

तस्योपरि चिरालम्बिरक्षोयुग्ममदृश्यत ॥ ३७ ॥

पूर्वजन्मकृतैः पापैरेधमानम् परस्परम् ।

सुव्रतानुव्रताभिख्यम् द्वन्द्वम् विख्यातपौरुषम् ॥ ३८ ॥

पश्यतो राजसिम्हस्य तस्मिन्नेव क्षणे जहौ ।

राक्षसम् रूपमत्युग्रम् तयोरेकस्तपस्विनोः ॥ ३९ ॥

वैष्णवम् रूपमास्थाय पुप्लुवे वियदन्तरे ।

ततो दृष्ट्वा स राजेन्द्रस्सभार्यस्सपरिच्छदः ॥ ४० ॥

आ: किमेतदिति प्राह व्याकुलो भवति स्म ह ।

अथान्तरिक्षे वागुच्चैराविरासीन्महर्षयः ॥ ४१ ॥

कथमस्य नृसिम्हस्य वैभव: केन वर्ण्यते ।

यदस्य पुष्करिण्यम्भःकणसङ्गेन रक्षसोः ॥ ४२ ॥

अनयोरेकमुन्मुक्तङ्क का कथा गुणवर्णने ।

इति वाचमुपाशृण्वन्नाश्चर्याकुलचेतनः ॥ ४३ ॥

पार्श्वे स दृष्टवान् दिव्यकन्यका: अन्यमानसाः।

इन्द्रद्युम्नः –
कन्याः कथयत प्रेम्णा किमेतदनयोः परम् ॥ ४४ ॥

जातमेकम् परम् कस्मादेनसो भवनम् कृतम् ।

कस्य वा नलिनीतोयराशेश्शीकरवैभवम् ॥ ४५ ॥

कस्माद्बिन्दुस्समपतत् त्वत्तश्श्रोतुम् समुत्सहे ।
दिव्यकन्यकाः –
अस्ति कश्चिद्विजश्रेष्ठस्तीर्थाचलसमीपतः ॥ ४६ ॥

नाम्ना सोमव्रतो भार्यामनसूयामुपेत्य सः ।

पुष्करम् सौम्यमासाद्य तपस्तेपे सुदारुणम् ॥ ४७ ॥

पुत्रार्थी वैष्णवीम् भक्तिमास्थाय द्विजसत्तमः ।

काले कतिपये जाते सुतद्वयमविन्दत ॥ ४८ ॥

जनिक्षणेन तौ रक्षोरूपौ प्राभवताम् विभो ।
इन्द्रद्युम्नः –
जनुषि ब्राह्मणस्याभूद्रक्षोरूप कथम् तयोः ॥ ४९ ॥

केन पापेन महता विस्तरान्मे प्रशम्सत ।
दिव्यकन्यकाः –
पुरास्य दण्डकोद्देशे ब्राह्मणस्य पिताऽभवत् ॥ ५१ ॥
सुतपा इति तस्याख्याम् ददुः पूर्वम् सुरोत्तमाः ।

सर्षिसङ्घनिषेव्यस्तु विचचार तपः परम् ॥ ५२ ॥

अपूर्वेयमिति व्याख्यामथासह इवातुरः ।

वैराग्यवशगो रूपम् भिक्षुवत्समपद्यत ॥ ५३ ॥

तस्य शुश्रूषते भार्या भिक्षाम् चैव प्रयच्छति ।

अङ्गावमर्दनम् नित्यम् करोति सह याति च ॥ ५४ ॥

स तादृग्रूपवाम्श्चापि भर्ताऽयम् काममोहितः ।

प्रातरुत्थाय सन्ध्यायाम् भार्यासक्तिमुपेत्य वै ॥ ५५ ॥

क्षणादारूढपतितो भिक्षुकर्मबहिष्कृतः ।

दिनात् कतिपयादूर्ध्वम् केनापि विधिना द्विजः ॥ ५६ ॥

त्यक्त्वा सन्यासरूपम् तद्वैष्णवम् पदमेयिवान् ।

सा च भार्या वरारोहा प्रासूत सुतमुज्ज्वलम् ॥ ५७ ॥

स तु कालेन महता गृहमेध्यनसूयया ।

तपस्वी नियताहारस्सस्त्रीको गहनम् गतः ॥ ५८ ॥

धेनुशैलस्य प्राग्भागे तपोनिष्ठः प्रियानुगः ।

स कदाचिच्छिलापृष्ठे रक्षोमिथुनमैच्छत ॥ ५९ ॥

तत्क्षणादेव सप्ताश्वम् रविम् दृष्ट्वा स भार्यया ।

सुखमावासयाञ्चक्रे पर्वते तादृशे शुभे ॥ ६० ॥

सा यदास्य वरारोहा सम्भोगमभिकाङ्क्षति ।

तदा तदा तया सार्धम् राक्षसम् भावमिच्छति ॥ ६१ ॥

तद्रूपम् ध्यायतस्तस्य सुते रूपम् तदाविशत् ।

पितामहस्य यत्प्रातस्सन्ध्यायाम् तामसोत्करम् ॥ ६२ ॥

गुणोवतीर्णस्तज्जातस्सुतयोः पापशालिनोः ।

जन्ममात्रेण पितरम् मुक्त्वा सत्वावमर्दिनौ ॥ ६३ ॥

राक्षसौ बलिनौ दृप्तावुपासाते शिलावटम् ।

जन्मान्तरार्जितेनैष पुण्येन महता विभो ॥ ६४ ॥

विशृष्टरुशिक: पापादूर्वशीशीकरात् पुरा ।

अथावहित एवासौ सदारस्सादरो नृपः ॥ ६५ ॥

हृष्टचेता इदम् वाक्यम् कन्यकास्ता जगाद सः ।

इन्द्रद्युम्नः –
आवादीदेतयोरेको वैष्णवम् रूपमास्थितः ॥ ६६ ॥
केन पुण्येन कस्माद्वै परः पापमवाप्तवान् ।

इदन्नो वाञ्छितम् कन्या वदतालस्यवर्जिताः ॥ ६७ ॥

दैवाद्दृष्टिपथम् याता भवत्यः कार्यवित्तमाः ।
दिव्यकन्यकाः –
राजन् किरातप्रवरौ युवानौ नयकोविदौ ॥ ६८ ॥

पारियात्रगिरौ वासम् चक्राते मृगघातिनौ ।

केनचित् त्वथकालेन चरन्तौ मृगयाम् वने ॥ ६९ ॥

कञ्चित्तपोधनम् सौम्यम् सन्न्यासिनमपश्यताम् ।

पर्णशालादिकान् सर्वान् रचयन्तौ वनाद्वनम् ॥ ७० ॥

कुर्वाते तस्य शुश्रूषाम् कैरातम् रूपमास्थितौ ।

ततस्तौ तापसवरमूचतुर्मधुराम् गिरम् ॥ ७१ ॥

उपासिनमुपस्थाय हृदिस्थम् केशवम् विभुम् ।

किरातावपि तत्स्नेहसम्भाषणदयादिकम् ॥ ७२ ॥

अवेत्य गतिमिच्छन्तौ स्वयोग्यम् पर्यपृच्छताम् ।
किरातौ – (सुव्रतोऽनुव्रतौ)
स्वामिन् शुश्रूषमाणानाम् भवन्तम् प्रयतात्मनाम् ॥ ७३ ॥
अस्माकम् केन विधिना द्विजभावो महामते ।

आगमिष्यति विश्वज्ञ वद मन्त्रोपदेशतः ॥ ७४ ॥

मस्करि –
किरातवम्शौ तौ ज्ञात्वा दुर्मदौ दुरुदाहृतौ ।

मन्त्रम् कमपि सम्योज्य व्याजहार महामतिः ॥ ७५ ॥

सर्वदा मृग एवाहमित्यमुम् मन्त्रमुत्तमम् ।

जपन्तौ प्रत्यहम् लुब्धौ नान्यथाकृतनिश्चयौ ॥ ७६ ॥

दिव्यकन्यकाः –
इत्युक्त्वान्तर्दधे भिक्षुर्वनात्तस्मादतन्द्रितः ।

तन्नत्वा देवतास्सर्वे साधु साध्वब्रुवन् वचः ॥ ७७ ॥

अदृश्यन्त किरातौ तौ विज्ञाय विधिवत्तथा ।

मन्त्रम् तमेव नियतम् जगदू रहसि स्थितौ ॥ ७८ ॥

कस्यचित्त्वथ कालस्य प्रासूयेताम् मृगीम् तनूम् ।

आःकिमेतदिति व्यग्रा वनस्था अपि देवताः ॥ ७९ ॥

मिथो नभोगता देवा अपि विस्मयमन्वयुः ।

कदाचिल्लुब्धकश्रेष्ठौ ज्येष्ठा सर्वतपस्विनाम् ॥ ८० ॥

स्वोपदेष्टा यतो योगी तमुद्देशमुपाश्रितौ ।

यदृच्छया पर्यटन्तौ तौ दृष्ट्वा तपसाम् निधिः ॥ ८१ ॥

दयालुरन्वमम्स्तासौ शिष्यावेताविति स्वयम् ।

आगच्छन्तम् महाभागावित्यामन्त्र्य स योगिराट् ॥ ८२ ॥

पस्पृश्य पाणिना देहम् पवित्रोदकशालिना ।

द्वादशाक्षरमन्त्रञ्च मृगयूनोस्तयोरसौ ॥ ८३ ॥

उपादिशद्धर्मपरो मस्करि कृपयान्वितः ।
मस्करि –
सुव्रतानुव्रतौ लुब्धौ ब्राह्मण्यमवलम्बितौ ।

द्वादशाक्षरयोगेन भवन्तावागमिष्यतः ॥ ८४ ॥
दिव्यकन्यकाः –
निशाम्य स्योपदेष्टारम् निशम्य वचनम् तथा ।

ऊचतुर्लुब्धकश्रेष्ठो हर्षाविष्टहृदन्तरौ ॥ ८५ ॥

किरातो – (सुव्रतोऽनुव्रतो)
स्वामिन् कस्य पदम् प्राप्य कर्तव्यो जप उत्तमः ।

यथा ब्राह्मण्यमस्मासु जायते तन्निवेदय ॥ ८६ ॥

मस्करि –
इतो हि दृश्यते शैलश्श्रीनृसिम्हाधिवासितः ।

हनूमतस्तीर्थवरस्तत्प्राक्सानौ विराजते ॥ ८७ ॥
शीघ्रम् गच्छ तमेतद्धि रोचते मम चेतसे ।

एतस्मिन्नेव ते देवास्सेन्द्रास्साग्निपुरोगमाः ॥ ८८ ॥

अयने विषुवे चैव ग्रहणे चन्द्रसूर्ययोः ।

स्नानम् कुर्वन्ति नियतम् नृसिम्हम् पर्युपासते ॥ ८९ ॥

भानोरुदयतः पूर्वम् यस्स्नानम् नियतेन्द्रियः ।

करोति स विधूतैना वाञ्छितम् लभते पुमान् ॥ ९० ॥

युवामपि निराहारौ सर्वस्मिन् प्रियशम्सिनौ ।

उदासीनपरौ तत्र कुरुतम् तप उत्तमम् ॥ ९१ ॥

केनचित् त्वथकालेन ब्राह्मण्यमुपलभ्य वै ।

भवन्तौ परमप्रीतावैष्यतो वैष्णवम् पदम् ॥ ९२ ॥

दिव्यकन्यकाः –
इत्याकर्ण्य वचस्तस्य तावुभौ मृगरूपिणौ ।

महामतिम् नमस्कृत्य मनुराजपरौ तदा ॥ ९३ ॥

प्रदक्षणीकृत्य गिरिम् घटिकोपपदम् परम् ।

नरसिम्हस्य ऋषिभिः पूजितम् पुण्यकर्मभिः ॥ ९४ ॥

आसाद्य हनुमत्तीर्थम् तत्प्राक्सानुविराजितम् ।

अवगाह्य क्षणात्तत्र जहातुर्हरिणम् वपुः ॥ ९५ ॥

मज्जनोत्तरकाले तु आसीदेताम् निजम् वपुः ।

तथा सम्भ्रान्तमनसौ व्यातिष्ठेताम् मनूत्तमम् ॥ ९६ ॥

सुव्रतानुव्रतौ लुब्धौ हनुमन्निकटे स्थितौ ।

शतकृत्वो जपन्तौ तौ मन्त्रराजम् महामते ॥ ९७ ॥

आज्ञया स्वगुरोरेव वन्द्य वायुसुतम् तथा ।

प्रस्थितौ पर्णशालायाः करणेsव्यग्रमानसौ ॥ ९८ ॥

उत्तरम् शृङ्गमासाद्य भैरवस्य समीपतः ।

तदुद्देशे पर्णकुटिम् तन्वाते तौ पृथक् पृथक् ॥ ९९ ॥

सिद्ध्यर्थम् तदनुव्यग्रौ मस्कराहरणाय वै ।

शिलापुष्करिणीतीरे वेणुकुञ्जमपश्यताम् ॥ १०० ॥

मस्कराणाम् शतम् छेत्तुमारभेतामुपावृतौ ।

वेणुविच्छेदनोद्युक्तौ तौ दृष्ट्वा ऋषिसत्तमः ॥ १०१ ॥

शिलानलिन्या वारुण्याम् दिशि द्राविडपोतकः ।

चुकोप तापसश्रेष्ठस्तपस्वी विप्रशेखरः ॥ १०२ ॥

शशाप च जलम् गृह्य कमण्डलुमुखाच्युतम् ।
विप्रशेखरः –
चिराय वर्धिता वम्शा उभाभ्याम् दारिता यतः ॥ १०३ ॥
तस्मात् सोमव्रताज्जातौ भजतम् राक्षसम् वपुः ।
दिव्यकन्यकाः –
इति शापम् वितन्वाने विप्रशेखर उज्वले ।

तयोरेकस्समागत्य जगृहे तत्पदद्वयम् ॥ १०५ ॥

सुव्रतः –
ब्रह्मम्स्त्वया शापितोsहम् कदास्याम् शापमोचितः ।
दयाम् विधेहि भद्रम् ते मयि सर्वात्मना भवान् ॥ १०६ ॥
विप्रशेखरः –
केनापि पुण्यभागेन भवन्तौ मृगघातिनौ ।

हनुमत्सरसि स्नानम् भेजाते तीर्थसत्तमे ॥ १०७ ॥

अतो युवाम् सन्नधियौ प्रसन्ने सलिलाशये ।

स्नानतश्शुद्धमनसौ सम्प्राप्तावीदृशम् पदम् ॥ १०८ ॥

तत्रापि त्वम् महाज्ञानशाली सर्वप्रियङ्करः ।

कृते युगे तवागामिन्याहरिष्यति मोचनम् ॥ १०९ ॥

फाल्गुनस्यान्तिमे काले स्नातुमप्सरसाम् गणः ।

अभ्येष्यति सरस्तीरमूर्वशी चागमिष्यति ॥ ११० ॥

तत्र स्नातोर्वशी केशादाश्यानसमये च्युतः ।

शीकरश्शीर्षभागे ते मध्येमार्गम् पतिष्यति ॥ १११ ॥

तदा मोचनकालस्ते गर्हितायास्तनोरपि ।

विमुक्तो वैष्णवम् रूपमासाद्य भुवि सुव्रत ॥ ११२ ॥

पदमेष्यसि पश्चात् त्वम् पदमच्युतमव्ययम् ।
इन्द्रद्युम्नः –
किमर्थमितरस्यापि मोचनम् नानुपृच्छते ॥ ११३ ॥

सहायोऽपि समानोऽपि सुव्रतोऽनुव्रतस्य वै ।
दिव्यकन्यकाः –
अनुव्रतस्य मुक्त्यर्थमुपायम् प्रष्टुचेतसि ॥ ११४ ॥

तथोक्त्वान्तर्दधे विप्रस्तत्रैव सरसीतटे ।

अथ सोमव्रतस्यास्य पुत्रौ जातौ पुराविदौ ॥ ११५ ॥

रक्षोरूपम् च विकलम् जग्मतुस्तत्क्षणेन तौ ।

इदमेतद्यथा वृत्तमाख्यातम् भद्रमस्तु वः ॥ ११६ ॥

ब्रह्मा –
राजा तद्वचनम् श्रुत्वा हर्षनिर्भरमानसः ।

मुहूर्तम् ध्यानमास्थाय व्यातिष्ठत नदी तटे ॥ ११७ ॥

पठति इयममुत्तमेतिहासम् रहसि शृणोति पुमान् पुराणसूक्तम् ।

स जगति घटिकाद्रिनाथभूम्ना विधुतकलिः परमेधते चिरायुः ॥ ११८ ॥

इति ब्रह्मकैवर्ते उत्तरखण्डे भृगुपराशरसम्वादे घटिकाचलमाहात्म्ये द्वितीयोध्यायः ।

 
तृतीयोsध्याय:

श्रीपराशरः –
इत्युक्तवन्तम् ब्रह्माणमुपसृत्य सुरर्षयः ।

हर्षाश्रुसम्परीताक्षा न क्षमन्ते निरीक्षितुम् ॥ १ ॥

ऋषयः –
ब्रह्मन् कथाकर्णनतो हृष्टा वयमतन्द्रिताः ।

इन्द्रद्युम्नानुभावस्य श्रवणे जाग्रदाशयाः ॥ २ ॥

ब्रह्मा –
स राजर्षिवरस्तस्य महानद्यास्तटम् गतः ।

सभार्यो हर्षसम्फुल्लनयनो नयकोविदः ॥ ३ ॥

इदम् होवाच भगवान् कन्यकास्ता निरीक्ष्य वै ।
इन्द्रद्युम्नः –
कथम् सोमव्रतो विप्रो विमुक्त: पैतृकादृणात् ।

अन्या वा पुत्रसम्पत्तिरासीदस्य प्रसम्शत ॥ ४ ॥

दिव्यकन्यकाः –
समाधिर्नाम वैश्योऽसौ ब्राह्मणः पूर्वजन्मनि ।

पुर्याम् माहिष्मतीनाम्न्याम् स्ववासमकरोन्नृप ॥ ५ ॥

द्वे भार्ये तस्य वैश्यस्य सुरसा विरसेति च ।

विरसायाम् कनिष्ठायाम् वैरस्यमकरोदयम् ॥ ६ ॥

यत्र यत्र च स स्नाति तत्र प्रार्थयते नृप ।

ज्येष्टायामेव मेऽपत्यम् स्यादिति प्रार्थयन् स्थितः ॥ ७ ॥

कनीयस्यपि भर्तारमनुयाता तपस्विनी ।

शुश्रूषते भर्त्सितापि कनीया विरसा सदा ॥ ८ ॥
स कदाचिन्नृपश्रेष्ठस्सम्प्राप्तो घटिकाचलम् ।

हनुमत्पुष्करिण्यम्भःकणधूतकलिस्तदा ॥ ९ ॥

तत: पश्चादुपारुह्य ववन्दे नृहरीश्वरम् ।

प्रणामान्ते महावैश्य स्तुवन्नरहरिम् हृदि ॥ १० ॥

ब्राह्मण्यम् प्राप्य तेजस्वी सोमव्रतकृताभिधः ।

सम्वन्द्य पुनरुन्मील्यनयने याचते वरम् ॥ ११ ॥

सोमव्रतः –
शिरसा नम्य नृहरिम् वाचा सत्वबलेन सः ।

सुतमेकम् कनीयस्याम् विरसायमयाचत ॥ १२ ॥

ततो लब्धवरस्तस्माद्बहिर्निर्गत्य स द्विजः ।

चिन्तयामास किमिदमाविरासीद्वचो मम ॥ १३ ॥

इति सञ्चिन्त्य विप्रेन्द्र उष्यताम् रात्रिमुत्तमाम् ।

अन्येद्युः प्रातरुत्थाय स्नात्वा पापनिवारिणि ॥ १४ ॥

हनुमत्सन्निधौ स्थित्वा द्विजन्मा स नृपोत्तम ।

ज्येष्ठायाम् मम भार्यायामाविरस्तु सुतद्वयम् ॥ १५ ॥

दिव्यकन्यकाः –
वाचमस्य दयाम् चक्रे तदा द्विजवरो नृप ।

यस्मात्तु दैवयोगेन तथाविरभवत्तदा ॥ १६ ॥
तस्याः पुत्रो यवीयस्या देवव्रत इति श्रुतः ।

यस्य दौहित्र एवासौ ध्रुवो जगति गीयते ॥ १७ ॥

स तेन पुत्रवान् राजन् लोके विख्यातसात्विकः ।

नृहरेरनुभावेन ब्राह्म्यम् तस्मिन्नभूदिदम् ॥ १८ ॥

ब्रह्मा –
निशम्य तद्वचश्श्राव्यम् राजा धर्मभृताम् वरः ।

कन्यास्ता बहु मेनेऽसौ सभार्यो निम्नगापथे ॥ १९ ॥

इन्द्रद्युम्नः –
पुण्यश्लोकवताम् पुम्साम् चरितस्यानुवर्णनात् ।

आद्यारभ्य वयम् हृष्टास्स्वस्ति वोऽस्तु व्रजाम्यहम् ॥ २० ॥

ब्रह्मा –
ता विसृज्य ततः कन्यास्स राजा सहभार्यया ।

घटिकाचलमुद्दिश्य प्रययौ दक्षिणाम् दिशम् ॥ २१ ॥

मार्गमध्ये सुरेशानम् व्यालुलोके महारथम् ।

शतम् शतम् कुण्डलिनस्तदनुव्रजतो नृपः ॥ २२ ॥

इन्द्रोऽपि तम् महाराजम् महाभागम् महामतिम् ।

सभार्यम् दृष्टवाम्स्तत्र धनम् निर्धनिको यथा ॥ २३ ॥

अथाविदूरे मखवान् खस्थ एवाभ्यभाषत ।
इन्द्रः –
राजर्षे भगवन्स्तुभ्यमिन्द्रोहमभिवादये ॥ २४ ॥

यतस्ते श्रीनरहरिस्सुप्रसन्नो भविष्यति ।

ब्रह्मा –
इत्युक्तवति देवेन्द्रे स राजर्षिः प्रतापवान् ॥ २५ ॥

अग्रे सर्वम् जगादेदम् विष्णुपादनिषेवणम् ।

बहोः कालान्मया दृष्ट इन्द्रस्त्वम् बलिसूदन ॥ २६ ॥

इतो निषीद भगवन् रसालविटपोत्तमे ।

तावुभौ नरदेवेन्द्रौ बहुशाखामनुत्तमाम् ॥ २७ ॥

पुष्पिताम् काञ्चनमयीम् तस्थिवाम्सौ तलोपरि ।

तौ काञ्चनमयैः पुष्पैरञ्चितौ रेजतुस्तथा ॥ २८ ॥

स नक्षत्रौ वियद्भागे पुष्पवन्ताविवोदितौ ।

भुजाद्भुजम् पीडयन्तौ तौ मिथो नृसुरोत्तमौ ॥ २९ ॥

हर्षाश्रुवीतनयनाविदमूचतुरेकदा ।
इन्द्रद्युम्नः –

दैवात् प्राप्तो महेन्द्रस्त्वम् दिष्ट्यासि प्रापितो नृप ॥ ३० ॥

इदमेव कृतम् पुण्यमयमेव गुणोदयः ।

इन्द्रः –

इदमेव हि सौहार्दमिदम् चक्षुस्मताम् फलम् ॥ ३१ ॥

यतो वम्शकरस्त्वम् हि यतो विष्णुपरायणः ।
ब्रह्मा –
इत्यन्योऽन्यम् मुदाविष्टौ शिष्टौ सात्विकभावनौ ॥ ३२ ॥
नाटयन्तौ नरसुरौ व्यञ्जनौ तौ निरञ्जनौ ।

नरदेवर्षभौ तत्र नारायणपरायणौ ॥ ३३ ॥

सुवर्णमुखरीतीरे तूष्णीमास्ताम् क्षणम् विभो ।

सस्मितालोकनम् पूर्वम् राजा विबुधशेखरम् ॥ ३४ ॥

प्राह प्रसन्नया वाचा विनयालम्बिचेतनः ।
इन्द्रद्युम्नः –
इदमागमनम् तेऽद्य ह्यपूर्वम् प्रतिभाति मे ॥ ३५ ॥
शम्स श्रीवेङ्कटेशानम् प्रस्तोतुम् यासि वाथवा ।

श्रीमद्दक्षिणकैलासमपि वा स्वर्णनिम्नगाम् ॥ ३६ ॥

अनुग्रहीतुमस्मान् वा विष्णोराज्ञाप्रचोदितः ।

इतीरितो देवराजः प्रश्रयावनताननः ॥ ३७ ॥

कृत्वा मनसि विष्णोर्वै शासनम् प्राह भूमिपम् ।

यतो नारायणे देवे भक्तिरव्याहता त्वयि ॥ ३८ ॥

नारायण त्वमेवासि जगतीति विगीयसे ।

अतो मम महेशानब्रह्मदेवासुरात्मकः ॥ ३९ ॥

श्रीवेङ्कटेशो भगवानवतीर्णस्तवात्मदृक् ।

कालीयफणिमाणिक्यरञ्जितश्रीपदाम्बुजः ॥ ४० ॥

स एव भगवान् कृष्णस्तव रूपी जनार्दनः ।

इत्युक्तो नृपतिश्रेष्ठः किमिति व्याकुलेक्षणः ॥ ४१ ॥

पप्रच्छ मघवानन्तमिदमद्भुतभाषिणम् ।

अदृष्टश्रुतपूर्वम् हि भाषितम् विबुधोत्तम ॥ ४२ ॥

अन्यादृशी परीभाषा पठिता भवताऽनघ ।

नृकीटम् पुरतः कृत्वा प्रव्याहरसि वासव ॥ ४३ ॥

प्राभवानुगुणम् पश्चाद्भणत्वम् सर्वभावितम् ।
ब्रह्मा –
इन्द्रद्युम्नस्य विनयम् व्याहृतिम् निशमय्य सः ॥ ४४ ॥
उपलाल्य महीपालम् प्राह गम्भीरया गिरा ।

न जानासि महत्कर्म जनस्थाने विसृम्भितम् ॥ ४५ ॥

उग्रशासनकर्तॄणाम् रक्षसाम् भीमकर्मणाम् ।
इन्द्रद्युम्नः –
क्वायम् सम्रम्भसमये रक्षसाम् भीमकर्मणाम् ॥ ४६ ॥
कैषा वावासsभूस्तेषाम् कस्माल्लब्धवरास्त्वमी ।

पीड्यन्ते हि जनास्सर्वे सत्यम् शम्स बुधोत्तम ॥ ४७ ॥
इन्द्रः –
अस्ति कश्चिद्वनोद्देशे कालकेयाधिपो बली ।

कुम्भोदर इति ख्यातो नरमाम्सादनो नृप ॥ ४८ ॥

स चैकदा जगत्सर्वम् पीडयानो महासुरः ।

ईशानतो लब्धवर ऋषीन्द्रान् भक्षयन्नृप ॥ ४९ ॥

सुरथेन कृताध्यक्षाम् प्राप्तवान् नृहरेः पुरीम् ।

ततस्तैरभवद्युद्धमतिप्रबलशत्रुभिः ॥ ५० ॥
सुरथो निर्जितस्तस्याः पुर्या निष्कासितो नृप ।

हृतकोशो नृपो राज्यात्परिभ्रष्टो हृतानुगः ॥ ५१ ॥

अमात्यभार्यामात्रेण सहायो वनमभ्यगात् ।

गते तु तस्मिन् सुरथे राक्षसा बलगर्विताः ॥ ५२ ॥

पुरीमावासयाञ्चक्रुस्तत्रत्या अपि बाधिताः ।

घटिकाचलशृङ्गाणि प्रजा आरुरोहस्तदा ॥ ५३ ॥

मया तत्र गतम् दैवात् स्तोतुम् नरहरीश्वरम् ।

पलायमाना बहुशस्तत्र दृष्ट्वा महाप्रजाः ॥ ५४ ॥

तथा प्रजासु निर्व्याजमुत्पन्ना तासु मे घृणा ।

शृङ्गाग्रे वेष्टितम् साक्षादद्राक्षम् परमम् पदम् ॥ ५५ ॥

स्तूयमानम् महर्षीन्द्रे नरकण्ठीरवम् नृप ।

दृश्य प्रत्यक्षमुन्निद्रम् लीलामानुषविग्रहम् ॥ ५६ ॥

स्तुतिपूर्वम् प्रजा रक्ष्या इत्यवोचञ्जनार्दनम् ।

नरकण्ठीरवो वीक्ष्य मामतिस्निग्धया दृशा ॥ ५७ ॥

कालकेया मदोन्मत्ता वरार्हाश्शूलपाणयः ।

त इमे राक्षसा गृह्य सुरथम् पुरवासिनम् ॥ ५८ ॥

वने विवासयाञ्चक्रुर्बाधयन्तो द्विजर्षभान् ।

तैस्तु वित्रासिता ह्येता विद्रवन्ति प्रजा विभो ॥ ५९ ॥

वरदर्पपरीतास्ते बाधन्ते शूलपाणयः ।

इत्युक्तवती भूतानामधिपे भूतभावने ॥ ६० ॥

नृहरौ वचनम् चेदमवोचम् पृथिवीपते ।

हृतराज्यः कदा राजा सुरथश्च पुरीमिमाम् ॥ ६१ ॥

प्राप्स्यति प्राणिनस्सर्वान् कदा वा पालयिष्यति ।
श्रीभगवानुवाच –
शालिवाहनकाले तू योगनिद्राप्रसादतः ॥ ६२ ॥
मत्पुरीम् पुनरभ्येत्य प्रजा रक्षिष्यते स्वकाः ।

आगामिन्याञ्च त्रेतायामिन्द्रद्युम्नो महाद्युतिः ॥ ६३ ॥

अवतीर्य मदम्शाम्श: पृथिवीम् पालयिष्यति ।

तस्यैषाम् नगरी वज्रिन् कल्पिता प्रभविष्यति ॥ ६४ ॥

आञ्जनेयसहाय्येन तेन भग्नास्सयूथपाः ।

नामशेषः कालकेया गमिष्यन्ति यमक्षयम् ॥ ६५ ॥

ब्राह्मण्यमर्थ्यमानाय तस्मै दास्याम्यनन्तरम् ।

ततश्चक्राङ्कितो विप्रो वैष्णवम् रूपमेष्यति ॥ ६६ ॥

इतीरयति राजेन्द्र घटिकाद्रिनिवासिनि ।

मुहूर्तमवसम्स्तत्र प्रजाः पश्यम्स्ततस्ततः ॥ ६७ ॥

भगवानपि विश्वात्मा तत्रैवान्तरधीयत ।

अन्तर्धानङ्गते विष्णावागमम् मत्पुरीम् नृप ॥ ६८ ॥

इदानीम् मामनुप्राप्तो नारदः श्रुतिगोचरः ।

शम्भोरनुज्ञया वज्रिन्निन्द्रद्युम्नः प्रतापवान् ॥ ६९ ॥

घटिकाचलनिष्ट्यूतमभिष्टोतुमना नृपः ।

मध्येमार्गमवातिष्टदिति होवाच वैणिकः ॥ ७० ॥

अहम् तद्वचनात् सर्वानामन्त्र्य दिविषद्गणान् ।

अनुज्ञया च नृहरेस्त्वामद्राक्षम् कथञ्चन ॥ ७१ ॥

कालकेया वराद्धृष्टा बाधन्ते पृथिवीमिमाम् ।

विशिष्य नरसिम्हस्य पुरीम् तापसशालिनीम् ॥ ७२ ॥

त्वमग्रयायी नृपते चक्रमेव हनिष्यति ।

सहायो यस्य भगवान् हनूमान् हरियूथपः ॥ ७३ ॥

तस्य किम् न भवेन्नाम जगत्यामभिलाषितम् ।

चक्रञ्च तस्मै दत्तञ्चेद्धरिणा पापहारिणा ॥ ७४ ॥

तथा शिलावटे दीप्ते मरुतामेलनायितम् ।

बहुना किम् मयोक्तेन ऋषीणाम् भावितात्मनाम् ॥ ७५ ॥
सर्वेषाम् दीनमनसाम् भागधेयायितम् त्वया ।
ब्रह्मा –
इत्युक्तवति देवेन्द्रे मुहूर्त प्रस्थितो नृपः ॥ ७६ ॥

उवाच हृष्टरोमा वै राजा तममृताशिनम् ।

विधूय सात्विकीम् रीतिम् राजसीम् प्रतिपाद्य सः ॥ ७७ ॥

क्रोधसम्रक्तनयनो युगान्ताग्निरिवोत्थितः ।

इन्द्रद्युम्नः –
अद्य को वा ऋषिगणान् विष्णुभक्तान् प्रबाधते ॥ ७८ ॥

अत्र माम् विष्टितम् लोके न जानाति स दुमदः ।

अद्य मत्कोपदीप्ताग्नौ शालभ्यमुपलभ्य वै ॥ ७९ ॥

पश्चाद्यमस्य सदनम् दुर्मदस्समुपेष्यति ।

त्रिषु लोकेषु कोपा मे क्रोधमाहरयिष्यति ॥ ८० ॥

भुवने जयमाकाङ्क्षी को मे कुर्याद्व्यतिक्रमम् ।

अद्य मद्बाणविद्धानाम् रक्षसाम् बलशालिनाम् ॥ ८१ ॥

सविधे गृघ्रराजानाम् बृन्दम् बृन्दम् पतिष्यति ।

विष्णुभक्तिकृतालम्बान्नृषीन्द्रान् पीडयन्ति वै ॥ ८२ ॥

राक्षसा इति विश्राव्य तिष्ठते मादृशः कथम् ।
ब्रह्मा –
इति सामर्षमुत्थाय वर्धमानस्य भूपतेः ॥ ८३ ॥
वज्राद्वज्रम् समुत्पाद्य मखवान् दत्तवान् करे ।

रथम् स्थाद्विनिष्कृष्य शस्त्रमादाच्च वासवः ॥ ८४ ॥

इन्द्राद्या लोकपालास्ते स्वम् स्वमम्शम् ददुः पुनः ।

अस्त्रम् च दत्तवन्तस्ते यातुधानजिगीषवः ॥ ८५ ॥

रत्नाकरो रत्नमालामुरोलङ्कारिणीमदात् ।

मारुतो दत्तवान् वेगम् धर्मराडतनोद्ध्वजम् ॥ ८६ ॥

सारथिम् सारथेस्स्वीयादुत्पाद्यादाद्दिनाधिपः ।

अम्शोरम्शम् समुत्पाद्य वाजिभ्यो वाजनश्च सः ॥ ८७ ॥

देवतानुज्ञया राजा द्विगुणीकृतविक्रमः ।

प्राक्रमद्रथमास्थाय सभार्यस्सपरिच्छदः ॥ ८८ ॥

दत्वा तस्मै स देवेन्द्रस्तूणमक्षयसायकम् ।

यथागतम् सहामात्यस्सदेवैरभ्ययात् तथा ॥ ८९ ॥

युद्धाभिकाङ्क्षी कुशली तयोराजपलाशिनोः ।

निष्क्रम्य स्वपुरादिन्द्रस्सानुगस्सपरिच्छदः ॥ ९० ॥

अन्तरिक्षपथे तिष्ठन् सम्रम्भम् भाविनम् प्रति ।

अथ क्रुद्धो जगन्नेता राजा स मुनिसत्तमः ॥ ९१ ॥

चतुरङ्गबलोपेतः क इमे राक्षसा इति ।

तृणीकृत्य परान् सर्वान्नृहरेः पुरमेयिवान् ॥ ९२ ॥

चेता पथे दृढयति स्म नृपालः श्रीमत् तदेव घटिकाचलवासिदैवम् ।

युद्धाभिकाङ्क्षिभिरनुक्षणमीक्ष्यमाणः कुन्तासिपट्टसधरैरनुयायिवर्गैः ॥ ९३ ॥

परबलकृतमर्मचिन्तचेताः परिणतसङ्गरमर्मणि प्रवीणः ।
परिचितधनुश्शरागमावलिः परिसरमद्रिवरस्य सोऽवतीर्णः ॥ ९४ ॥
अवतीर्णः पुराभ्यर्णम् प्रतिवादिभयङ्करैः ।

ज्यास्वनैः पूरयामास दिङ्मण्डलमतो नृपः ॥ ९५ ॥

प्रत्यग्रशस्स्वपरवेदिषु राजसु द्राक्पूर्णास्त्रवित् सुगणितस्स पुराणवेत्ता ।

शास्ता रिपोर्नृहरिपादसरोजलग्नचेता व्यजृम्भत रणाङ्कणलालनीयः ॥ ९६ ॥

ब्रह्मा –
प्रवर्तमाने राजेन्द्रे शत्रवो रोषविह्वलाः ।

वव्रूरागान्मिथो भूपम् शलभा इव पावकम् ॥ ९७ ॥

इति ब्रह्मकैवर्त्ते उत्तरखण्डे भृगुपराशरसम्वादे घटिकाचलमाहात्म्ये तृतीयोऽध्यायः ॥

चतुर्थोऽध्याय:

श्रीपराशरः –
ऋषयस्ते महात्मानमपदानप्रशम्सिनम् ।

प्रशशम्सुश्च ब्रह्माणम् कथाश्रवणलालसाः ॥ १ ॥

ऋषयः –
ब्रह्मन्नवहिता यस्मात् पुण्यश्लोकश्रवे वयम् ।

अतो मुखैश्चतुर्भिस्त्वम् वद तद्रणवैभवम् ॥ २ ॥

ब्रह्मा –
स्वनितमवनिशम्य चापकोत्थम् चकितमतिः पललाशिसार्वभौमः ।

तदनु तदनुशासनाय भृत्यौ खरमुखदुर्मुखनायकौ व्यनैषीत् ॥ ३ ॥

हाः किमेतदिति क्रोधादाभाष्य स महाशरः ।

प्रेषयन् ज्ञप्तये चाशा विज्वर: प्रबभूव ह ॥ ४ ॥

तौ भृत्यौ स्वामिकार्यार्थे चोदितौ ब्रह्मघातिनौ ।

अभ्याशन्नृपतेस्तस्य प्रापतू राक्षसाधमौ ॥ ५ ॥

अभ्येत्य वाहिनीम् सर्वाम् वाहिनीमिव गर्जतीम् ।

आलोकयामासतुस्तौ राक्षसौ कामरूपिणौ ॥ ६ ॥

आलोक्य पुनरभ्येत्य राजानमिदमूचतुः ।
भृत्यौ – (दुर्मुख-खरमुखौ)
स्वामिन्नास्ते शिलापृष्ठे कस्मिन्श्चित् स नरर्षभः ॥ ७ ॥
अधीश्वरो मानुषाणाम् साक्षाद्विष्णुरिवापरः ।

तुरङ्गमाश्च शतशो द्विपेन्द्राश्च सहस्रशः ॥ ८ ॥

सन्नद्धाश्च रथाः केचिदासते तत्र तत्पदे ।

दशनागबलाः केचित् केचित् सिम्हपराक्रमाः ॥ ९ ॥

तस्यानुगाः परार्था वै वरार्हाभरणान्विताः ।

सायुधास्सपरीवाहा अनुरूपाः परस्परम् ॥ १० ॥
परस्सहस्रमुदिता युवानः ख़ड्गपाणयः ।

सङ्गराजिनसन्नद्धास्सवर्माणस्सपट्टसाः ॥ ११ ॥

दृष्टिविक्षेपमात्रेण निर्दहन्ते परानिमान् ।

इतोऽर्धयोजनपथे तिष्ठते सपरिच्छदः ॥ १२ ॥

युद्धरङ्गाभिमत्तोऽसौ काङ्क्षते भवदागमम् ।

शम्सतोरेवमीशानो रक्षसाम् बलगर्वितः ॥ १३ ॥

भर्त्सनम् व्याकरोदेष तयोररिशुभम् श्रुतः ।
कुम्भोदरः –
हे दुर्मुख मया को वा युद्ध्येत त्रिजगत् स्थले ॥ १४ ॥

मनुष्यमात्रे किम् वा त्वमारोपयसि तद्गुणम् ।

दत्ता हि शम्भुना मह्यम् देवताभिरवध्यता ॥ १५ ॥

नृकीटो दुर्बलः क्षीणः कथम् युद्धे जयिष्यति ।

इत्युक्तवति यातूनावधीशे शत्रुजेतरि ॥ १६ ॥

क्रुद्धस्वामिनमुद्वीक्ष्य अपसर्पत दुर्मुखः ।

खरवक्रस्तु दुष्टात्मा इदम् होवाच स्वामिनम् ॥ १७ ॥

खरमुखः –
ऐरावतम् समानीतम् गजरत्नम् मनोहरम् ।

अश्वरत्नम् च तरवस्सन्तानाद्याहृतास्तथा ॥ १८ ॥

स्त्रीरत्नम् तस्य नृपतेस्सहास्ते राक्षसेश्वर ।

तम् वधित्वा प्रयत्नेन ताम् स्त्रियम् प्राप्स्यते भवान् ॥ १९ ॥

अथवा तमविज्ञाय स्त्रीरत्नम् लाघवाद्धर ।

स हीनः कान्तया राजा प्राणाम्स्त्यक्ष्यति कानने ॥ २० ॥

इति शम्सतमत्यन्तमुद्धतम् निजसेविनम् ।

राक्षसः कृपयाविष्टः पश्यन् वचनमब्रवीत् ॥ २१ ॥

कुम्भोदरः –
साधूदितम् त्वया वत्स नृशम्स गुणशालिना ।

छद्मना व्याहृतम् सर्वम् दशास्येन यथा मया ॥ २२ ॥

इदानीम् तम् रणे हत्वा सामात्यम् सपरिच्छदम् ।

ततो हरिष्ये सुश्रोणिम् तस्य राज्ञस्तपस्विनीम् ॥ २३ ॥

ब्रह्मा –
इतीरयन् क्रोधवशङ्गतोस्तौ पार्श्वे महामात्यसुतान् समीक्ष्य ।

सहायक्लृप्तान् हयसादियुक्तान् रक्षोधिपो युद्धपदाभिलाषी ॥ २४ ॥

हेsमात्यतनया यूयम् सन्नद्धा भवताहवे ।

तम् विजित्य वरारोहाम् समाहरत शीघ्रतः ॥ २५ ॥

शासनम् भर्तुरालभ्य शश्वदाहवलालसाः ।

सोत्साहम् प्रणमन्तस्ते भर्तारमिदमब्रुवन् ॥ २६ ॥

अमात्यपुत्राः –
अत्रैवावस्थितस्स्वामिन् विजयम् त्वमुपेष्यसि ।

गत्वा तस्य वरारोहामाहरिष्यामहे वयम् ॥ २७ ॥

ब्रह्मा –
इत्यमात्यतनूजास्ते वहन्तो भर्तृशासनम् ।

रथानारुरुहुश्शीघ्रम् खरवाजिनियोजितान् ॥ २८ ॥

स्यन्दनाग्रे तु तेषाम् वै श्येनाश्शतसहस्रशः ।

स्वैरमारुरुहुः केचित् कुर्वते च परिभ्रमम् ॥ २९ ॥
रथानाम् परितो वृष्टिम् पाम्सुरूपाम् पयोमुचः ।

अवर्षन्त तथा तेषाम् प्रथमम् भयशम्सनः ॥ ३० ॥

जञ्झूवातस्य निर्घोषो वज्रस्य च महर्षयः ।

पपात च पुरो भागे तेषाम् मन्त्रितनूभुवाम् ॥ ३१ ॥

ततस्ते तानवज्ञाय उत्पातान् मन्त्रिणस्सुताः ।

नगर्या निर्ययुस्तस्य त्रिभागबलसम्वृताः ॥ ३२ ॥

अथ रक्षोमन्त्रिसुतान् समराजिरधिष्ठितान् ।

अवलोक्य महीपालो जहर्ष च ननाद च  ॥ ३३ ॥

नानद्यमाने भूपाले समराङ्गणसीमनि ।

क्रोधमाहारयामासुरट्टहासनि च ते सुताः ॥ ३४ ॥

ते क्रोधवशमापन्ना युगपन्नृपतिम् तथा ।

आववृरभितस्तस्य रथपृष्ठमसृक्प्रभाः ॥ ३५ ॥

तेषामुज्जृम्भणम् दृष्ट्वा राजा रोषवशानुगः ।

मण्डलीकृतचापस्तु ज्यारवैस्तानपूरयत् ॥ ३६ ॥

तस्य ज्याशब्दमसहा रथानुन्मुच्य वाजिनः ।

दिशो दश पलायन्तो नाद्यापि स्वास्थ्यमासते ॥ ३७ ॥

शस्त्राणि जगतुस्तेषाम् पाणिभागात् तरस्विनाम् ।

बधिरा इव रक्षाम्सि ते मुहूर्तम् चकम्पिरे ॥ ३८ ॥

क्षणात् प्रबुद्धमनसस्सचिवात्मभुवस्तदा ।

गृहीतकार्मुकाश्चान्यान् वाजिनो युयुजू रथे ॥ ३९ ॥

एकम् ललाटे द्वे शीर्षे त्रीणि कण्ठे रथोरसि ।

चतुरो भुजयोश्चैते मुमुचुस्सायकान् शितान् ॥ ४० ॥

विमुच्य शरवर्षाणि तदा ते मन्त्रिणस्सुताः ।

अट्टहासम् प्रकुर्वन्तः समरे रोमहर्षणम् ॥ ४१ ॥

विजयी भविता स्वामीत्युच्चैर्व्याजहुराहवे ।

तान् मन्त्रिसुतनिर्मुक्तैश्शीघ्रगैः कङ्कपत्रिभिः ॥ ४२ ॥

रूषितोऽव्यलसद्राजा जातपत्र इव द्रुमः ।

स राजा समरश्लाघी ताननादृत्य वेगतः ॥ ४३ ॥

प्रहर्तुमेकम् जग्राह शस्त्रम् मन्त्रिसुतान् प्रति ।

उद्दिश्य केतूनुद्ग्रीवान् हयान् सारथिनस्तथा ॥ ४४ ॥

मुच्यमानाश्शरास्तेन शिताग्रा गगनान्तरे ।

रेजिरे राहव इवच्छादयन्तो रिपूदयम् ॥ ४५ ॥

ततस्ते मन्त्रितनया वीक्ष्य वेगवतश्शरान् ।

दुर्निवारान् शरैस्तीक्ष्णैर्नालम् वारयितुम् तदा ॥ ४६ ॥

न तत्र वाजिनस्सङ्ख्ये रथिनो नैव केतवः ।

न मन्त्रितनया नापि भटा ददृशिरे तथा ॥ ४७ ॥

केवलम् ददृशे युद्धमूर्धनि व्यग्रचेतसाम् ।

व्यूहेऽमात्यभुवाम् तत्र कङ्कगोमायुलुण्ठितः ॥ ४८ ॥

एतस्मिन्नन्तरे देवास्सर्षिसङ्घास्सचारणाः ।

पुष्पवृष्टिम् प्रमुच्यन्तस्साधु साध्विति सञ्जगुः ॥ ४९ ॥

अथ तान् सङ्गरे दृष्ट्वा यमक्षयमुपेयुषः ।

पुनर्युद्धाभिकाङ्क्षी स युगान्तानलसन्निभः ॥ ५० ॥

खाच्च्युतैः प्रसवै राजा रञ्जितो व्यरुचत्तदा ।

नक्षत्रमालाभरणस्सुमेरुरिव मूर्तिमान् ॥ ५१ ॥

आलस्यमस्य नैवासीद्युद्धरङ्गे महात्मनः ।

विष्णोरम्शावतारस्य नाभदज्जडिमा हृदि ॥ ५२ ॥

पुष्पराशिस्यन्दमानमरन्दरसरूषितः ।

इन्द्रद्युम्नो जहौ जाड्यम् स तदा रणमूर्धनि ॥ ५३ ॥

युगावसानसमये शूलपाणिरिव स्थितः ।

तदन्तरे नालमासन् भूतानि द्रष्टुमाहवे ॥ ५४ ॥

अवशिष्टास्तु क्रव्यादास्तद्दयामोचितास्तदा ।

राजानमब्रुवन्नेवम् सप्त मन्त्रिसुता हताः ॥ ५५ ॥

श्रवणकटुवचस्तदा निशम्य स्वकसचिवात्मजलोपभावलक्ष्यम् ।

हृदयविकलकर्तरिप्रधीरस्सदसि चुकोप स रक्षसामधीशः ॥ ५६ ॥

स मुहूर्तमिव स्थित्वा तूष्णीम् सर्व इव श्वसन् ।

उद्यम्य भुजमुद्ग्रीवो वचनम् चेदमब्रवीत् ॥ ५७ ॥

हे महामात्य तेजस्विन्नितो यामि समिद्भुवम् ।

क्षणेन हत्वा तम् पापमानये तस्य भामिनीम् ॥ ५८ ॥

यातूद्वहमिति व्यक्तमुक्तवन्तमुदारधीः ।

महामात्यस्सदोमध्ये वारयन्निदमब्रवीत् ॥ ५९ ॥

अस्यताम्भवतात्रैव स्वामिन् तव बलान्वितः ।

अहमेको गमिष्यामि वारयिष्ये द्विषद्बलम् ॥ ६० ॥

इति गदितवतीह मन्त्रिवर्ये त्रिदशपतेरिपुरेष राक्षसेन्द्रः ।

धृतकनककृते नवाङ्गदे द्वे श्रवणविभूषणमप्यदादमुष्मै ॥ ६१ ॥

कुण्डलद्वयमृष्टोरुश्रवणो मन्त्रिसत्तमः ।

पुष्पवद्भ्यामिवाकाशो विरराज रथोत्तमे ॥ ६२ ॥

इति ब्रह्मकैवर्त्ते उत्तरखण्डे भृगुपराशरसम्वादे घटिकाचलमाहात्म्ये चतुर्थोऽध्यायः ॥

पञ्चमोऽध्यायः

श्रीपराशरः –
पदे पदे मृतस्यन्दि मनोहरमनुत्तमम् ।

इति ब्रुवाणम् ब्रह्माणमब्रुवनृषयस्तथा ॥ १ ॥
ऋषयः –
ब्रह्मन् हनुमतश्चक्रम् कदा वा समराङ्गणे ।

भुजद्वयम् च पूर्वस्माद्दत्तमित्रानुजन्मना ॥ २ ॥

नृहरेरस्य सन्तोषस्तस्मिन्नाविरभूत् कथम् ।

सर्वम् नो वदताम् श्रेष्ठ विस्तरेण प्रशम्स वै ॥ ३ ॥

ब्रह्मा –
रक्षसाम् कालकेयानाम् तस्मिन्नेव महारणे ।

जयाय नृपतेरिन्द्रो ह्यस्तौषीन्नृहरीश्वरम् ॥ ४ ॥

इन्द्रः –
प्रसीद जगताम् नाथ भगवन्नृहरे हरे ।

परिपालय सर्वन्नः परिपन्थिकुलम् जहि ॥ ५ ॥

धर्मार्थकाममोक्षाणाम् प्रदाता भगवान् भवान् ।

त्वम् यज्ञस्त्वम् वषट्कारः त्वम् ब्रह्मा त्वम् प्रजापतिः ॥ ६ ॥

त्वम् वेद्यो वेदविद्भिस्त्वमोङ्कारस्त्वमसीश्वर ।

सृष्टिस्थितिलयादीनि कृत्यानि भवति प्रभो ॥ ७ ॥

स्थितिभाञ्जीति विद्वाम्सो ब्रुवन्ति ब्रह्मवादिनः ।

त्वम् तेजस्वी त्वमोजस्वी त्वम् वर्चस्वी त्वमीशिता ॥ ८ ॥

षण्णामपि रिपूणाम् त्वमूर्मिणामपि बोधकः ।

कल्पादौ योगनृहरे पाल्यन्ते भवता प्रजाः ॥ ९ ॥

तदन्ते रुद्ररूपेण सम्ह्रियन्ते प्रजास्तथा ।

सृज्यन्ते ब्रह्मरूपेण पुनश्च जगदीश्वर ॥ १० ॥

यच्च त्रिष्वपि वेदेषु एक एव हि गीयते ।

स त्वम् प्रसन्नो देवेश पाहि भक्तानतन्द्रितः ॥ ११ ॥

स त्वम् तत्वमसि व्यक्तोऽव्यक्तातीतस्त्वमेव हि ।

यज्ञगोप्ता यज्ञवेत्ता यज्ञकर्ता त्रयीमयः ॥ १२ ॥

त्वमेव विश्वम् बहुधा जातम् यज्ञाय ते च यत् ।

जायमानम् च सर्वम् यत् त्वम् तत्कर्तासि केशव ॥ १३ ॥

सहस्रशीर्षा पुरुषस्सहस्राक्षस्रहस्रपात् ।

स भूमिम् विश्वतो वृत्वा ह्यत्यतिष्ठद्दशाङ्गुलम् ॥ १४ ॥

पुरुष एवेदगँ सर्वम् यद्भूतम् यच्च भव्यम् ।

उतामृतत्वस्येशानो यदन्येनातिरोहति ॥ १५ ॥

व्यक्ताव्यक्तगिरस्सर्वा वेदाद्या व्याहरन्ति यम् ।

सताम् सर्वप्रदस्सत्यम् प्रत्यग्दृष्टिभिरीड्यते ॥ १६ ॥

पृथिव्यादीनि भूतानि स्थावराणि चराणि च ।

त्वदेकवशगानीति व्याहरन्ति मनीषिणः ॥ १७ ॥

ऋतम् सत्यम् परम् ब्रह्म पुरुषम् कृष्णपिङ्गलम् ।

ऊर्ध्वरेतम् विरूपाक्षम् विश्वरूपाय वै नमः ॥ १८ ॥

त्वामामनन्ति बहुधा भगवन्तमनामयम् ।

दैत्यराजम् विनिर्भिद्य हिरण्यकशिपुम् पुरा ॥ १९ ॥

प्रह्लादम् ह्लादयन् देव योगभावम् समास्थितः ।

सर्वेषाम् कर्मणाम् देव भुवि व्याकुर्वताम् जनैः ॥ २० ॥

पर्वताग्रमधिष्ठाय पश्यसि त्वमनाकुलः ।
ब्रह्मा –

एवम् हि स्तूयमानस्तु देवेन्द्रेण विपश्चिता ॥ २१ ॥

मित्रताम् सर्वदेवानाम् व्याजहार जनार्दनः ।

उदयन्नेव भगवान् सनकादिनिषेवितः  ॥ २२ ॥

स पूरयन्नम्शुजालैरिन्दीवरपरम्पराम् ।

इन्द्रस्तुतिपराधीन इन्दीवरविलोचनः ॥ २३ ॥

नरकण्ठीरवो योगी तमिन्द्रमिदमब्रवीत् ।
श्रीभगवान् –
आगमो ज्ञातपूर्वस्ते निखिलामरनायक ॥ २४ ॥

किमत्र करणीयानि मम शम्स रिपून् प्रति ।
ब्रह्मा –
इत्युपश्लोकितो राजा देवानामरिसूदनः ॥ २५ ॥

प्राह प्रसन्नगम्भीरगीर्भिस्स नृहरीश्वरम् ।

इन्द्रः –
सहायमिन्द्रद्युम्नस्य केनचित् कल्प्यतामिह ॥ २६ ॥

निमित्तमात्रभूतोऽयम् राजा किन्नु जनार्दनः ।
ब्रह्मा –
इति सम्बोधितो देवो नृहरिश्चिन्तयन् क्षणम् ॥ २७ ॥

पुरोभागे हनूमन्तम् तिष्ठन्तम् सन्ददर्श ह ।
श्रीभगवान् –
प्रसन्नोऽहम् वरम् दातुमागतस्तेऽञ्जनासुत ॥ २८ ॥
कृतम् त्वया महत्कर्म ह्यवतारान्तरे पुरा ।

सर्वदा त्वत्सहायेऽहम् रणकर्मणि कीर्तिमान् ॥ २९ ॥

प्रतिकल्पम् च भविता दशकन्धरकर्म तत् ।

इति विज्ञाय च पुनरवतीर्णस्वरूपधृत् ॥ ३० ॥

अतो हनूमान् रुद्राणामवतारस्त्वया कृतः ।

प्रार्थितो दैवतैरेभी रणकर्मणि सर्वदा ॥ ३१ ॥

इदानीम् ते वरम् दातुमागतो भद्रमस्तु ते ।

हनुमन् मा कृथाश्चिन्ताम् वरम् वरय सुव्रत ॥ ३२ ॥

ब्रह्मा –
तमाकर्ण्य तदा वाचम् हनूमान् प्रश्रिताञ्जलिः ।

वरयामास नृहरेर्वरम् परिषदन्तरे ॥ ३३ ॥

श्री हनुमान् –
भगवन्नृहरे मूर्ध्नि सर्वदा पदलाञ्चितः ।

तथापि शङ्खचक्राङ्कमभिवाञ्छामि शास्वतम् ॥ ३४ ॥

एष मे प्रथमः कामः एष मे पुण्यसञ्चयः ।

इदमेव चिराद्भाव्यम् सत्यम् तदिदमीरये ॥ ३५ ॥

ब्रह्मा –
तथास्त्विति प्रतिज्ञाय तस्मै दत्वा भुजद्वयम् ।

शङ्खम् शङ्खाद्विनिष्कृष्य चक्रञ्चक्राच्च केशव ॥ ३६ ॥

इदम् होवाच नृहरिर्हनूमन्तमुपस्थितम् ।
श्रीभगवान् –
कर्मवृत्तम् महत् तत्र पुरतो द्रोहिणामि ॥ ३७ ॥
रक्षसाम् कालकेयानाम् वधार्थम् यत्नमास्थितः ।

इन्द्रद्युम्नो महाराजो हनूमन्तिष्ठते बली ॥ ३८ ॥

बहो: कालात्तपस्तप्त्वा स राजा सह भार्यया ।

ब्राह्म्यम् लब्धुम् महत्तेजो मदभ्याशमुपागतः ॥ ३९ ॥

स दृष्टो मत्पुरम् भग्नम् तैर्नृशम्सैर्दुरात्मभिः ।

योद्धुकामो बली दुष्टैः प्रस्थितः पावनो नृपः ॥ ४० ॥

सहायम् तस्य कुरु वै त्वत्सहायो जयिष्यति ।

तस्मिन् राजनिमित्तेऽद्य वर्तते पवनात्मज ॥ ४१ ॥

श्रूयन्ते क्रोशताम् तेषाम् रक्षसाम् कूटयोधिनाम् ।

भेरीशङ्खमृदङ्गानामतिनादा भयङ्कराः ॥ ४२ ॥

शीघ्रम् गच्छ सुदुर्धर्षा वारयाशरपुङ्गवान् ।
ब्रह्मा –
शिरस्याञ्जलिमादाय शङ्खचक्राङ्कितो बली ॥ ४३ ॥
निष्क्रम्य स गिरेशृङ्गमुत्तरम् समुपस्थितः ।

भगवानपि विश्वात्मा प्रीणयन् सर्वदेवताः ॥ ४४ ॥

सनकाद्यैस्स्तूयमानस्तत्रैवान्तरधीयत ।

इन्द्राद्या अपि ते देवाः प्रणम्य पुरुषोत्तमम् ॥ ४५ ॥

युद्धावलोकनपराः प्राक्रमन्त नभस्थलम् ।

एतस्मिन्नन्तरे वायोस्तनयस्तस्य शृङ्गतः ॥ ४६ ॥
उत्थाय चक्रमुद्यम्य जगर्ज स महाबलः ।

शङ्खम् च दध्मौ रभसात् स्थापितम् वदनान्तरे ॥ ४७ ॥

प्रध्मातशङ्खम् तन्दृष्ट्वा कालकेयास्सहस्रशः ।

मुसलान् पट्टसान् गृह्य रुरुधू रणचत्वरे ॥ ४८ ॥

ततो हनूमान् सम्रब्धो ध्मातशङ्खो महाजवः ।

तेषाम् रथानामुपरि निपपात रुषान्वितः ॥ ४९ ॥

तेषामुपरि क्रुद्धस्य पतनात्ते हनूमतः ।

ऊरुवेगेन महता पतिताः पृथिवीतले ॥ ५० ॥

कतिचिच्छङ्खशब्देन कतिचिद्दर्शनक्षणात् ।

निपेतुरवनीपृष्ठे गृध्राणामुपरीकृताः ॥ ५१ ॥

ततो दृष्ट्वा हनूमन्तम् सानुमन्तमिव स्थितम् ।

प्रतिसूर्यमिवाकाशे देवता हर्षनिर्भराः ॥ ५२ ॥

जयी भवेति वाचम् वै वदन्तः खास्थितास्सुराः ।

पुष्पवृष्टिम् प्रमुमुचुर्दुन्दुभिध्वानबृम्हिताम् ॥ ५३ ॥

अथो हनूमान् हृष्टात्मा पुष्पभारावपीडितः ।

वीक्ष्यमाणो जनैस्सर्वैस्सुपुष्पित इव द्रुमः ॥ ५४ ॥

पवनजवनभाजनो हनूमान् प्रतिनृहरीन्द्रशिलोच्चयस्तनूमान् ।

समरभुवि विजृम्भमाणकर्मा परिणतदिक्करटीप्रभावमाप ॥ ५५ ॥

स रामदूतेन तदा मरुद्भुवा प्रसह्य रक्षोबलविप्रमाथिना ।

महारथस्सज्यधनूरुमापते रुद्रस्य नन्दीभगवानिव स्थितः ॥ ५६ ॥

इति ब्रह्मकैवर्त्ते उत्तरखण्डे भृगुपराशरसम्वादे घटिकाचलमाहात्म्ये पञ्चमोऽध्यायः ॥

षष्ठोऽध्यायः

श्रीपराशरः –
ऋषयस्तु प्रहृष्टास्ते पवनात्मजवैभवम् ।

आकर्णयन्तो धातारमिदमूचुरतन्द्रिताः ॥ १ ॥
ऋषयः –
स्वामिन् हनुमतस्तस्य तपस्थानमनन्तरम् ।

अवोचस्त्वमिदानीम् नो रोचते सगरश्च सः ॥ २ ॥

ब्रह्मा –
सम्हर्तारमशेषाणाम् क्रव्यादानाम् दुरात्मनाम् ।

अपाङ्गयन् हनूमन्तम् राजा स मुमुचे तदा ॥ ३ ॥

तथाविधम् च नासीरम् प्रहर्तरि हनूमति ।

पदे पदे वर्धमानम् हर्षो राजा व्यजृम्भत ॥ ४ ॥

अहो वीर्यमहो धैर्यमहो बहुपराक्रमः ।

दक्षम् हन्तुम् प्रवृत्तस्य रुद्रस्येव प्रदृश्यते ॥ ५ ॥

इति सञ्जगतुस्सर्वे सामरास्समरुद्गणाः ।

ऋषयोऽन्योऽन्यमिलिता दिवि सङ्गरदर्शिनः ॥ ६ ॥
अत्रान्तरे महेन्द्रस्य भेरीशब्दमसासहः ।

केचिद्दुन्दुभिमाघ्नन्तो निर्ययुस्त्रिदशारयः ॥ ७ ॥

इन्द्रद्युम्नो विजयतामिति होवाच देवराट् ।

कुम्भोदरो विजयतामिति होवाच दैत्यराट् ॥ ८ ॥

इति तत्र दिविस्थाने कलहोऽभूत् परस्परम् ।

जायमाने तु कलहे सुराणाम् च सुरद्रुहाम् ॥ ९ ॥

हाहाकारमकुर्वन्त ऋषयो रोमहर्षणम् ।

पर्याकुलमुपाश्रित्य देवासुरबलम् तथा ॥ १० ॥

प्राद्रवद्धनूमान् यत्र वज्रहस्तः पुरन्दरः ।

हुङ्कारेण च तान् सर्वानधःकृत्य स मारुतिः ॥ ११ ॥

पुनरभ्यागतः क्षिप्रमिन्द्रस्तुत्युपलक्षितः ।

तादृग्विधङ्गे कर्म वायोरपि वा तत्तनूभुवः ॥ १२ ॥

अथवा नन्दिनस्साक्षादिति भूतानि मेनिरे ।

तमप्रतिमकर्माणमभिनन्द्य नरेश्वरः ॥ १३ ॥

आर्जिताम् तपसा स्वस्य मणिमालाम् ददौ तदा ।

शुशुभे हनुमान्स्तत्र स तया मणिमालया ॥ १४ ॥

नक्षत्राणामिवाकाशे चन्द्रमा इव मालया ।

उज्जृम्भणम् ततः कृत्वा महामात्यः प्रचोदितः ॥ १५ ॥.

हनूमता वेगवता योद्धुमाभ्याययौ बली ।

तमुद्यन्तम् महामात्यम् राजशासनरक्षकम् ॥ १६ ॥

गृहीता युद्धमुख्यास्ते वज्रहुङ्कृतिकास्सुराः ।

यन्ता तस्य महाशास्ता शास्ता धर्मभृताम् नृणाम् ॥ १७ ॥

स्यन्दनम् प्रेरयामास पवनात्मजसन्निधौ ।

उपस्थितानाम् कङ्कानाम् कलहोऽयमसासहः ॥ १८ ॥

निपपात महीपृष्ठे ध्वजम् तस्य महात्मनः ।

पतितः केतुरवनौ विरराज रथाच्युतः ॥ १९ ॥

पुण्यक्षये दिवोमध्यात् प्रच्युतः कर्मविद्यथा ।

स तमुत्पातमुद्वीक्ष्य दृष्टचेता महाशरः ॥ २० ॥

आस्पन्दम् वामनेत्रस्य तदा नाजीगणद्रणे ।

ततो नालीकनाराचैः पट्टसैरपि मुद्गरैः ॥ २१ ॥

गदाभिर्मुसलैस्तत्र व्याकुर्वन्त रणम् परे ।

हनूमान् राक्षसक्षिप्तान् तानवज्ञाय वेगतः ॥ २२ ॥

शिलामादाय यातूनाम् प्रधावत बलम् प्रति ।

चिक्षेप स शिलाम् तत्र रणमूर्धनि वातभूः ॥ २३ ॥

आस्पोट्य पृच्छम् तेजस्वी अट्टहासमथाकरोत् ।

तामापतन्तीम् ते तत्र दृष्ट्वा वातभुवेरिताम् ॥ २४ ॥

कालकेयाश्शिलाम् तीक्ष्णैर्वारमायासुराशुगैः ।

मोघम् कर्म तदा वीक्ष्य विचिन्त्य च स मारुतिः ॥ २५ ॥

पार्श्वे नभस्थलारूढम् सालवृक्षमुदैक्षत ।

तमेकेनैव हस्तेन सालमुत्पाट्य मारुतिः ॥ २६ ॥

हता यूयमिति व्यक्तमाभाष्य चिक्षिपद्बली ।

तमप्रतिहतम् दृष्ट्वा निशितैस्सायकैरपि ॥ २७ ॥

उन्मुखेन तदा योद्धुम् न शेकुर्भयविद्रुताः ।

यत्र यत्र प्रधावन्तो दृश्यन्ते पललाशिनः ॥ २८ ॥

तत्र गत्वा स तान् सर्वान् ताडयामास पाणिना ।

हनूमता वेगवता हन्यमाने बले तदा ॥ २९ ॥

क्रोधाविष्टो महामात्यो राजानमभिदुद्रुवे ।

अथापतन्तम् सविधे महामात्यमवेक्ष्य सः ॥ ३० ॥

ज्याशब्दमकरोत् तत्र भीषणम् सर्वरक्षसाम् ।

तस्य शब्दश्रवेणैव प्राणान्विजहुरञ्जसा ॥ ३१ ॥

महामात्योऽपि दुर्धर्षो चकम्पे रथविष्ठितः ।

तद्दृष्ट्वा शत्रुहन्तारम् राजा धर्मभृताम् वरः ॥ ३२ ॥

स मर्मस्पृशम् वाचमूचे महामात्यमुपस्थितः ।

इन्द्रद्युम्नः –
त्वमेव समरश्श्लाघी अस्त्रशस्त्रभृताम् वर ॥ ३३ ॥

श्रुते मदीये ज्याशब्दे यतः प्राणान् न हास्यसि ।
ब्रह्मा –

इतीरियति राजेन्द्रे राक्षसः क्रोधमूर्च्छितः ॥ ३४ ॥

प्रहस्य किञ्चिद्राजानमिदमुत्तरमब्रवीत् ।

आस्ताम् तावदिदम् व्यर्थकथनम् समराजितम् ॥ ३५ ॥

भवादृशेषु किम् वायम् वीरवादो विशाम्पते ।

समर्थो यदि युद्ध्यस्व द्वन्द्वम् दास्याम्यनन्तरम् ॥ ३६ ॥

न चेदस्मादपाक्रम्य सुखी भव सुहृज्जनैः ।

एवमुक्त्वा महामात्यो रोषपर्याकुलेक्षणः ॥ ३७ ॥

ज्यास्वनैः पूरयामास समराङ्गणमाशरः ।

अधिज्यधन्विमन्त्रीन्द्रो नाराचयुगमादधे ॥ ३८ ॥

इन्द्रद्युम्नोऽपि राजेन्द्रश्शरयुग्ममुपाददे ।

युद्धम् दिदृक्षवस्तत्र तयो राजसुरदृहोः ॥ ३९ ॥

आजग्मू ऋषयस्सर्वे सासुरास्समरुद्गणाः ।

ततो मन्त्री क्रुधाविष्टो मुमुचे सायकद्वयम् ॥ ४० ॥

उभाभ्यामेव बाणाभ्याम् राजा चिच्छेद तौ शरौ ।

ततः पञ्चशरा मुक्ता महामात्येन धीमता ॥ ४१ ॥

प्राच्छिनत् पञ्चभिर्बाणैरिन्द्रद्युम्नो रुषान्वितः ।

पुनः क्रुद्धश्शरान् पञ्चदशपञ्च जहौ तथा ॥ ४२ ॥

अवारयच्छरे राजा दर्शयन्पाणिलाघवम् ।

ताभ्याम् मुक्ताश्शरास्तीक्ष्णाश्शतशोऽथ सहस्रशः ॥ ४३ ॥

शीर्षापीडा वियद्भागे वीरलक्ष्म्या इवाबभुः ।

ततः क्षणाद्विनिष्पिष्य कालकेयान् समीरभूः ॥ ४४ ॥

स्यन्दने मन्त्रिणस्तस्य वेगवान्निष्पपात ह ।

ऊरुवेगेन महता रथश्चूर्णीकृतस्तथा ॥ ४५ ॥

पुनरन्यो रथस्तत्र समानीतः क्षणेन वै ।

तमारुह्य महामात्यो राजानम् दशभिश्शरैः ॥ ४६ ॥

जघान समरे वीरो मारुतिञ्च शरैश्शनैः ।

ताननादृत्य बाणौघान् हनुमान् भीमविक्रम ॥ ४७ ॥

तलेनाहत्य यन्तारम् शास्तारम् बहु मानयन् ।

अश्वेनाश्वम् द्विपेन्द्रेण द्विपेन्द्रम् नरतो नरम् ॥ ४८ ॥

सम्हृत्य सहसा सङ्ख्ये श्वसमानो ह्यदृश्यत ।

राजापि मकुटम् तस्य महामात्यस्य धीमतः ॥ ४९ ॥

शरेणैकेन महता ह्यपातयदसौ बली ।

शरैश्चतुर्भिस्तस्यासौ शकटानि दुरात्मनः ॥ ५० ॥

शरेणैकेन तेजस्वी वर्मचायसमुत्तमम् ।

अक्षय्यमपि तूणीरम् सायकानाम् त्रयेण वै ॥ ५१ ॥

युगमेकेन बाणेन वाजिनश्च त्रिभिश्शरैः ।

शरेण ध्वजमेकेन तथा शास्तारमाहवे ॥ ५२ ॥

दशभिस्सायकैस्तीक्ष्णैरमात्यम् निजघान ह ।

तमप्रतिमकर्माणम् युद्धसीम्नि व्यवस्थितम् ॥ ५३ ॥

अवलोक्य महाशास्ता पुरीमेवाभ्यधावत ।

तथा क्रुद्धो महामात्यो हताश्वो हतसारथिः ॥ ५४ ॥

सच्छिन्नधन्वाश्वरथो हत सैऽन्योऽपि सोऽभवत् ।

गदामादाय वेगेन क्रुद्धस्सङ्ग्राममूर्धनि ॥ ५५ ॥

हनुमन्मूर्ध्नि चिक्षेप हतस्त्वमिति मन्त्रिराट् ।

गदाम् तामायसीम् मुक्तामष्टघण्टामणीयुताम् ॥ ५६ ॥
आपतन्तीम् रणे दृष्ट्वा राजा रणविशारदः ।

मिषताम् सर्वभूतानामग्रतो नृपसत्तमः ॥ ५७ ॥

शरेणैकेन ताम् भस्मसात् कृत्वा हस्तलाघवम् ।

दर्शयन्नखिलैर्भूतैस्स्तूयमानस्तदाभवत् ॥ ५८ ॥

मोघीभवन्तीम् ताम् दृष्ट्वा गदाम् ब्रह्मर्षिघातिनीम् ।

स विचिन्त्य मुहूर्तम् वै सालमेकम् ददर्श है ॥ ५९ ॥

उत्पाट्य सहसा सालमुद्यम्य भुजयोर्युगे ।

राज्ञस्स्यन्दनमुद्दिश्य स तु चिक्षेप मन्त्रिराट् ॥ ६० ॥

शाखोपशाखामारूढम् मुच्यमानम् नभोऽन्तरे ।

नभस्तरुमिवाश्चर्यकारिणम् ददृशुस्सुराः ॥ ६१ ॥

हनुमान् लघुनाभ्येत्य प्रगृह्य तरुमुत्तमम् ।

प्रचिक्षेप तदा सालम् प्रति राक्षसमन्त्रिणम् ॥ ६२ ॥

स तदायान्तमुद्वीक्ष्य शिलायास्तमपोथयत् ।

आदिदेश महामात्यो शिलामन्याम् वधे रिपोः ॥ ६३ ॥

तलेन हनुमान् तस्य ताम् शिलाम् प्रापतद्भुवि ।

स वन्ध्यम् कर्म तद्वीक्ष्य दन्तान् कटकटापयत् ॥ ६४ ॥

आदाय तु गिरेश्शृङ्गमाययौ मन्त्रिसत्तमः ।

अवलोक्य महीपालः पत्रिणाम् कङ्कपत्रिणाम् ॥ ६५ ॥

एकेन मन्त्रिणो हस्तम् सहशृङ्गमथाच्छिनत् ।

ततोऽन्येन भुजेनासौ महामात्यो रुषान्वितः ॥ ६६ ॥

सालम् कमपि पादाभ्याम् उत्पाट्य रिपवेऽक्षिपत् ।

तम् वृक्षराजमायान्तम् द्रुतमेत्य समीरभूः ॥ ६७ ॥

तेनैव प्राहनत् तत्र राक्षसम् मन्त्रिसत्तमम् ।

प्रहतस्तेन तरुणा महामात्यो महाबलः ।

व्यत्ताननो रणभुवि निरसुः प्रापतद्बली ॥ ६८ ॥
ततो देवास्सगन्धर्वास्सेन्द्राश्च परमर्षयः ।

पुष्पवर्षाणि मुञ्चन्तस्साधु साध्वित्यपूजयन् ॥ ६९ ॥

तदानिलात्मप्रभवस्य वैभवम् रणाजिरे द्रष्टुमसासहस्तदा ।
क्षयम् प्रणीते सचिवाग्रगण्ये शिष्टा निजस्वामिनमापुरासुराः ॥ ७० ॥

तम् पुष्पकासीनमुदारसत्वम् स्वर्वारनारीभिरुपास्यमानम् ।

सम्मन्त्र्यमाणम् सचिवैरनेकैर्द्विजावमन्तारममी ह्यपश्यन् ॥ ७१ ॥

वर प्रमत्तम् वरपीठसम्स्थम् कृतावलेपम् क्षणदाचरेन्द्रम् ।

उपात्तसम्रम्भमुदस्तविक्रमम् प्रसह्य पञ्चास्यमिव प्रबुद्धम् ॥ ७२ ॥

अन्धम् तमः प्रावरणम् गिरीन्द्रमिव स्थितम् नीलवरोत्तरीयम् ।

तम् रत्नमालाभरणम् सुवक्षसम् सौदामिनीरञ्जितमम्बुदम् यथा ॥ ७३ ॥

दृष्ट्वा तमासुराधीशमासुरास्ते ससाध्वसाः ।

हनूमद्दयया मुक्ता भर्तारमिदमब्रुवन् ॥ ७४ ॥

इति ब्रह्मकैवर्ते उत्तरखण्डे भृगुपराशरसम्वादे घटिकाचलमाहात्म्ये षष्ठोऽध्यायः ॥

सप्तमोsध्याय:

श्रीपराशरः –
दक्षिणाभिमुखासीनः पीठे मणिमये शुभे ।

निश्वस्याहिरिवाशेषानूचे रक्षर्षभस्तदा ॥ १ ॥

कुम्भोदरः –
हतः खलु विनिष्क्रान्तो महामात्यो बलान्वितः।

सम्रब्धो युद्धनिर्ह्रादी साहसम् क्रियते वृथा ॥ २ ॥

अथवा यच्च सचिवस्स्वयम् कालवशम् गतः ।

भयम् मुक्त्वा शम्सत वो वाञ्छितम् प्रददाम्यहम् ॥ ३ ॥

ब्रह्मा –
इत्युक्तवन्तम् राजानम् रक्षसामसुरास्तदा ।

किञ्चिद्विमुक्तमोहास्ते साभिषङ्गम् समूचिरे ॥ ४ ॥

असुराः –
यस्ते वैरिविलुण्टावो यस्ते दक्षोभुजो महान् ।

यस्ते विक्रमकाले तु युध्यते वैरिभिस्सह ॥ ५ ॥

यस्ते हर्षकरो मन्त्री यस्ते नासीररक्षकः ।

स इदानीम् वानरेण केनासि विनिपातित ॥ ६ ॥

ब्रह्मा –
निशम्य तद्वचस्सङ्ख्ये पातितम् मन्त्रिशेखरम् ।

पार्श्वे धूम्राक्षभीमाक्षौ विष्ठितौ प्राह नैऋतः ॥ ७ ॥

कुम्भोदरः –
हे सुतौ मम भाव्यौ तौ सर्वदा रणकोविदौ ।

तम् वानरम् च राजानम् निहत्य समरे युवा ॥ ८ ॥

अनन्तरम् च हरतम् राजभार्यामनिन्दिताम् ।

अथवा वानरम् गृह्य जीवग्राहम् महाबलम् ॥ ९ ॥

राजानमपि तत्पत्नीम् शीघ्रमागच्छतामुभौ ।
ब्रह्मा –
इत्याकर्ण्य वचस्तस्य तावुभौ समितिञ्जयौ ॥ १० ॥
अकुर्वताम् महाभीमौ रथारोहणमञ्जसा ।

हुत्वा वह्निमुपस्थाय वर्धमानौ महारथौ ॥ ११ ॥

विरेजतुरुभौ व्योम्नि चन्द्रसूर्याविवास्थितौ ।

अक्षोहिणीसहस्रेण व्यूहम् कृत्वा तु पद्मकम् ॥ १२ ॥

सङ्गरान्वेषिणौ बालौ निर्गतौ नगराद्बहिः ।

निर्यान्तौ तौ समीक्ष्याथ माद्मसागमनहर्षिताः ॥ १३ ॥

शीघ्रमारुरुहुस्तेषाम् कङ्कव्यूहा रथोपरि ।

शिवाश्चाशिवशम्सिन्यो विनेदुस्तत्पुरस्थिताः ॥ १४ ॥

आवर्तमुद्राम् व्याचक्रुर्जुझूवाता: पदे पदे ।

पाम्सुवृष्टिम् प्रमुञ्चन्तः पयोधास्सम्प्रतस्थिरे ॥ १५ ॥
तयोस्सारथिनौ तत्र निर्यत्नात् पतितौ भुवि ।

स्यन्दनस्यापि मकुटम् कार्तस्वरमयम् भुवि ॥ १६ ॥

गतम् देवर्षिशापेन महाग्रह इवाबभौ ।

प्रस्रवन्तो भयात्तत्र वाजिनो रथवाजिनः ॥ १७ ॥

अभिनेतृकशाखाताद्विमुखीभूय शेरते ।

वामञ्चाक्षिसुरारातेस्तयोरपि तनूभुवोः ॥ १८ ॥

प्रास्पन्दत तथा चापमपि भग्नगुणम् स्थितम् ।

ताननादृत्य चोत्पातान् स्थितयोरपि पुत्रयोः ॥ १९ ॥

बभूव महती चिन्ता धैर्यलोपकरी तदा ।

इन्द्रद्युम्नोऽपि धर्मात्मा युद्धकर्मविशारदः ॥ २० ॥

इन्द्रद्युम्नः –
तम् होवाच हनूमन्तम् कृतकर्माणमाहवे ।

सज्जीभव तनूजन्मन् पवनस्य महामते ॥ २१ ॥

दृश्यन्ते बहुधा दूरे यस्य साङ्ग्रामिकारथाः ।

आवयो राक्षसानाञ्च युद्धकर्माभिलाषिणाम् ॥ २२ ॥

इदानीम् सुमहत्कर्म भविष्यति न सम्शयः ।

सर्वदा जयिनस्सङ्ख्ये वयमत्र न सम्शयः ॥ २३ ॥

यस्माद्वायसराजोयमभिकूजति भास्करम् ।

दक्षिणाक्षिभुजस्पन्दश्शम्सते नः क्षणम् रणे ॥ २४ ॥

नृहरेरनुभावेन हनूमन्स्तव दक्षिणे ।

करे भव्यप्रशम्सीव दृश्यते हेतिपावकः ॥ २५ ॥

ब्रह्मा –
एतस्मिन्नन्तरे देवा जयताम् हनुमानयम् ।

देवा दुन्दुभिमाघ्नन्तो व्योमभागे व्यवस्थिताः ॥ २६ ॥

तमाकर्ण्य महाशब्दम् दुन्दुभीनाम् भयावहम् ।

धूम्राक्षस्तु दुराधर्षस्स्यन्दनम् प्राहिणोद्रणे ॥ २७ ॥

हनूमानपि शत्रूणाम् हननेमग्नमानसः ।

जागृहीति महीपालमुक्त्वा प्राद्रवदासुरान् ॥ २८ ॥

शिलाभिस्तरुभिश्शृङ्गैर्निष्प्राणान् रजनीचरान् ।

कृत्वा समरविक्रान्तः प्रदधमौ शङ्खमुत्तमम् ॥ २९ ॥

प्रध्मातशङ्खम् तम् दृष्ट्वा प्राह तानपि राक्षसान् ।

धूम्राक्षः क्रोधताम्राक्षो हनूमन्तमपूजयत् ॥ ३० ॥
धूम्राक्षः –
वानरेन्द्र रणश्लाघी भवानेव न सम्शयः ।

यत्त्वाम् महासुरान् हत्वा ध्मासि शङ्खमलज्जितः ॥ ३१ ॥

ब्रह्मा –
इति ब्रुवाणस्य तथा धूम्राक्षस्य पुरस्थितम् ।

पातालभेदिनम् नागम् ताडयित्वा जगर्ज सः ॥ ३२ ॥

ताडितो गजराजस्तु विमुखीभूय सन्नुतः ।

बृम्हितम् सोsकरोदुच्चै राक्षसेन्द्रभयप्रदम् ॥ ३३ ॥

ततः क्रुद्धो यज्ञशत्रुः प्राहिणोद्रथसादिनम् ।

तम् देशम् यत्र हनुमान् प्रस्थितो व्योम्नि गर्जति ॥ ३४ ॥

स गत्वा वायुजन्मानम् शरानाशीविषोपमान् ।

अष्टौ सन्धाय धनुषि व्याहरन् तदिदम् वचः ॥ ३५ ॥

धूम्राक्षः –
भवान् हरीन्द्र यदिमान् सहते यदि सायकान् ।

अस्माद्वित्रासितस्सङ्ख्यात् पातालमुपयाम्यहम् ॥ ३६ ॥

ब्रह्मा –
इत्युक्त्वा प्राहिणोद्बाणानष्टौ तानसुरोत्तमः ।

पञ्चशीर्षाणि वाहीन्द्रानाकाशे ज्वलदर्चिषः ॥ ३७ ॥

दुर्धर्षान् वारयामास हेतिराजेन मारुतिः ।

व्यर्थम् कर्म स विज्ञाय वितथीकृतकार्मुकम् ।

मारुतिम् तोषयन् सख्ये वचनम् चेदमब्रवीत् ॥ ३८ ॥

धूम्राक्षः –
वानरेन्द्र न चैवासीत् त्रिषु लोकेषु ते समः ।

वर्तते नैव सुमते न च वाविर्भविष्यति ॥ ३९ ॥

अयमेको विमुक्तश्चेच्छरो मे सम्युगे रुषा ।

बिभेति स्वेन सैन्येन साक्षादिव दिवस्पतिः ॥ ४० ॥

अष्टानामपि बाणानां निहन्त्रे हरये नमः ।

सुखी भव हनुमान्स्त्वमितो यास्याम्यधस्थलम् ॥ ४१ ॥

ब्रह्मा –
इति ब्रुवन्नधो यातो योधास्य चरणे हतः ।

वैसारथ्यम् मृथे यस्य न जानन्ति सुरर्षयः ॥ ४२ ॥

गते तु तस्मिन् धूम्राक्षे भीमाक्षः क्रोधमूर्चितः ।

भक्षितोऽयमिति ज्ञात्वा हनुमन्तमुपाद्रवत् ॥ ४३ ॥

इतिकर्तव्यतामूढम् भीमाक्षम् प्रेक्ष्य मारुतिः ।

धनुरारोपणात् पूर्वक्ष्य ताडयामास वेगतः ॥ ४४ ॥

ताडितो गण्डभागे च प्रभ्रष्टस्स्यन्दनोत्तमात् ।

बभ्राम शोणितोद्गारी मुहूर्तम् भ्रान्तचेतनः ॥ ४५ ॥

तमुहू दृष्ट्वा भीमकर्माणमुहू हनूमन्तमथाहवे ।

न शर्म लेभिरे तत्र कालकेया भयाद्रुताः ॥ ४६ ॥

रथपृष्ठावलम्बम् तम् दृष्ट्वा पार्ष्णिनिषेविणः ।

हाहाकारम् प्रकुर्वन्तः प्राद्रवम्स्ते दिशो दश ॥ ४७ ॥

क्षणेन लब्धसञ्ज्ञस्तु भीमाक्षो भीमविक्रमः ।

पातालभेदिनम् नागमारुरोह महारथः ॥ ४८ ॥

आरुह्य नागमायान्तमालोक्य सहसा कपिः ।

भुजमास्फोटयानस्तु खस्थ एवमभाषत ॥ ४९ ॥

अरे भीमाक्ष दैतेय धैर्यमस्ति रणाङ्कणे ।

तव मूर्ध्नि पतन्तम् माम् सहस्व बलभावितम् ॥ ५० ॥

इत्युत्प्लुत्य वियद्भागे स्थित्वा वानरपुङ्गवः ।

गजोपरि स्थितस्यास्य मूर्ध्नि वेगात्पपात ह ॥ ५१ ॥

तस्मिन् पतति दुर्धर्षे वनौकसि गजोपरि ।

भूतानि नैव शेकुस्तम् वेगवन्तमुदीक्षितुम् ॥ ५२ ॥

तम् पतन्तम् ततो बुद्ध्वा नेतारम् जगतामिव ।

मायावी स तु भीमाक्षो गजात् तस्मादपासरत् ॥ ५३ ॥

अपाक्रमन्तम् भीमाक्षमजानन्मारुतिस्तथा ।

निपपात न तन्मूर्ध्नि वेगाविष्टो गजोपरि ॥ ५४ ॥

पादाग्रहतिमात्रेण चूर्णीभूतो गजाधिपः ।

नैऋता अपि पार्श्वस्था ऊरुवेगेन चूर्णिताः ॥ ५५ ॥

हनूमानपि विज्ञाय राक्षसम् मायया गतम् ।

वितथम् कर्म च तथा चिन्तामेव प्रपद्यत ॥ ५६ ॥

अथ रक्षोऽधिपसुतो भीमाक्षो भीमविक्रमः ।

मायी दिवमुपस्थाय शरवर्षमवर्षत ॥ ५७ ॥

तत्र सर्वाणि भूतानि भीमाक्षम् समरे तदा ।

ददृशुर्नैव बाणौघम् पश्यन्ति स्म वियत्पदे ॥ ५८ ॥

कियत् विलम्बम् प्रसहे इत्यालोच्य स मारुतिः ।

दृश्यादृश्यगतिर्व्योम्नि चन्द्रो मेघ इवैक्षत ॥ ५९ ॥

यथा दृष्टो हनुमता गृहीतस्तु तदा पदे ।

घृणितम् प्रथमम् प्राणान् प्राहिणोद्यमसाधनम् ॥ ६० ॥

स वै मुहूर्तम् भीमाक्षम् कुम्भोदरसुतम् तथा ।

घूर्णयन् परिचिक्षेप योजनानाम् शतम् बली ॥ ६१ ॥

तम् प्रेरयित्वा रक्षोभिरनेकैर्यमसादनम् ।

वित्रासयन्नरीम्स्तत्र राजानम् प्राप्तवान् हरिः ॥ ६२ ॥

तम् प्राप्तवन्तम् नृपतिस्समीरणभुवम् तदा ।

पस्पर्श पाणिना गात्रम् हर्षोत्फुल्लतनूरुहः ॥ ६३ ॥

देवदुन्दुभयो नेदुः पुष्पवर्षा दिवश्च्युताः ।

साधु साध्विति भूतानि प्रशशम्सुर्नभस्थले ॥ ६४ ॥

पलायमाना दिशि ये अवशिष्टा रणाजिरे ।

ते मिलित्वा पुरीम् प्राप्ता भर्तुर्भयनिवेदिनः ॥ ६५ ॥

निशम्य कुम्भोदर एष तौ रणे निशम्य पुत्रौ निहताविति स्फुटम् ।

रुषान्वितस्सज्यधनुः खरान्वितम् रथम् समारुह्य पुराद्विनिर्ययौ ॥ ६६ ॥

स लब्धपर्णो रणकर्मसु स्वयम् पुरत्रयारातिमुपेत्य पूजयन् ।
वरम् च तस्मात् प्रतिगृह्य दुर्मदः पलाशिनाम् प्राग्रसरस्तदा बभौ ॥ ६७ ॥

रथस्य तस्योपरि भीमकर्मणो निपेतुरुल्काश्शतशो भयङ्कराः ।

प्रणेदुरुच्चैरशिवम् शिवास्तदा भयावहा राक्षसचक्रवर्तिनः ॥ ६८ ॥

महारथस्याहवरङ्गवर्तिनस्तरस्विनस्स्यन्दनमूर्ध्निविष्टिताः ।

जवादधश्येन परम्परास्तदा वितेनुरुच्चैः परिवेषणक्रियाम् ॥ ६९ ॥

शतम् शतम् कुण्डिलिनोद्यतायुधाः पलाशराजस्य मतानुगामिनः ।

रथाधिरूढाश्च परप्रमाथिनः पुरान्निरीयुः कतिचित् खरान्विताः ॥ ७० ॥

महारथानामुपरिस्थिताः खगा महारथानाम् भ्रमतो ह्यदक्षिणम् ।

प्रसह्य चक्रुः प्रसभम् तरस्विनः प्रणेतुरुच्चैर्बलिभोजिनाम् गणाः ॥ ७१ ॥

स ताननादृत्य शरासबृम्हितैर्दिशश्चतस्रो निनदैः प्रपूरयन् ।

पयोधरस्स्फूर्जधुभिर्यथा नभस्थितस्तथाजृम्भत सङ्गरस्थितः ॥ ७२ ॥

स मण्डलीकृत्य धनुश्शरोत्तमा दशाष्टपञ्चाहवमूर्ध्न्ययोजयत् ।

जवेन लक्ष्यम् विरचय्य मारुतिम् महीपतिम् च क्षणदाचरेश्वरः ॥ ७३ ॥

तदा नरेन्द्रस्य शरासनम् कराच्युतम् शरारोपण काल एव हि ।

प्रभग्नमेतस्य रथाक्षकूबरम् प्रभग्नजङ्घाश्च खरास्तु युग्याः ॥ ७४ ॥

अथैनमायान्तमुदीक्ष्य सत्तमः क्षणाद्द्वितीयम् विरचय्य कार्मुकम् ।

हनूमता वेगवता रणस्थलीमुपेयिवान् प्राग्रसरो धनुष्मताम् ॥ ७५ ॥

उपेत्य गान्धर्वमुदग्रधन्विनाम् पुरस्थितश्शस्त्रमनिन्द्यविक्रमः ।
प्रसह्य नासीरभटेषु केषुचिद्विमुच्य बाणाम्श्च तुतोष सानुगः ॥ ७६ ॥

यमक्षयम् नीतमधीक्ष्य सैनिकम् निशाचरेन्द्रः कुपितो धनुर्धरः ।

अधीशमुद्वीक्ष्य नृणामनन्यधीराग्नेयमस्त्रम् प्रमुमोच वेगवान् ॥ ७७ ॥

स वारुणेनैव रुरोध सम्भ्रमान्नभस्थले विज्वलितम् दुरासदम् ।

तदस्त्रमस्त्रागमवेदिशेखरो दिवौकसाम् प्राग्रसरेण तोषितः ॥ ७८ ॥

अथो हनूमानपि वेगदर्शिनामनुत्तमः पाणिधृतेन हेतिना ।

निवारयामास शरौघमाशरप्रमोचितम् तानपि सञ्जघान ह ॥ ७९ ॥

क्षणेन तत्र व्यथिता यमक्षयम् नीता हनूमत्करशालिनारिणा ।

कुम्भोदरो नाम निशाचरेश्वरस्स एक एव स्थितिमेयिवान् रणे ॥ ८० ॥

स तत्र रुष्टो रणमूर्ध्नि हृष्टो नक्तञ्चरेन्द्रश्शरजालमुच्चकैः ।

ससर्ज कल्पादिषु ताः प्रजा इव प्रजापतिस्तत्र जगर्ज सानुगः ॥ ८१ ॥

समीरजन्मापि रुषावलिप्तः क्लृप्ताट्टहासो जलजम् प्रदध्मौ ।

निवार्य नक्तञ्चरराजमुक्तम् चक्रेण चासीद्रणमूर्ध्नि हृष्टः ॥ ८२ ॥

प्रध्मातशङ्खम् प्रसमीक्ष्य मारुतिम् निशाचरः कोपवशम् गतस्तदा ।

विज्ञाय मोघम् स्वशरौघमाहवे तपः प्रभावार्जितशूलमाददे ॥ ८३ ॥

स शूलमादाय निशाचर: करे पदे पदे चन्दनपङ्कचर्चितम् ।

रणे हयस्यन्दनसूतमाधिनम् समीरजन्मानमुदीक्ष्य सोऽब्रवीत् ॥ ८४ ॥ कुम्भोदरः –

वलीमुखोऽसि त्वमतिप्रसह्य वै स राक्षसम् चापि भवान् प्रबाधते ।
इमम् विमोक्ष्ये त्रिशिखम् पुरारिणा प्रदत्तमुन्मत्तविशीर्य पातितम् ॥ ८५ ॥

स चक्रशङ्खाङ्कभुजम् च वानरम् स चापबाणासिधरम् च भूपतिम् ।

प्रवध्य सङ्ख्ये त्रिशिखेन चामुना प्रमार्जयेऽश्रूणि निशाटसुभ्रुवाम् ॥ ८६ ॥

ब्रह्मा –
इतीरयन् राक्षसशेखरो भुवि स्थितो दुरात्मा लघुविक्रमो बली ।

दुरासदम् दुर्विषहन्तथायुधम् मुमोच मर्त्यक्षतजाभिषेचितम् ॥ ८७ ॥

विमुच्यमाने त्रिशिखे वियत्पथे विजृम्भमाणे विरतप्रमादिनि ।

वितत्रसुस्तस्य तथाविधायुधम् निरीक्ष्य सेन्द्राश्च सुरा विदुद्रुवुः ॥ ८८ ॥
राजा स तस्यागतिमीक्षितुम् प्रभुम् नृसिम्हतेजोभजनेन हेतुना ।

ततो हनूमानपि शक्तिमान् मृथे बभूव हेतिप्रसवेन तेजसा ॥ ८९ ॥

नृपोत्तमोऽसौ दिवि शूलमुज्वलम् परार्ध्यबाणास्त्रसहस्रदुर्गमम् ।

तम् कालदण्डप्रतिमम् विलोकयन् विचिन्तयामास रणाङ्कणस्थितः ॥ ९० ॥

सञ्चिन्तयानम् प्रसमीक्ष्य दूरितिर्निराह भूपालमिदम् वचस्तथा ।

विलम्बनम् किम् कुरुषे नृपाहवे नारायणास्त्रम् प्रतिगृह्यतामिदम् ॥ ९१ ॥

प्रबोधितो भूपतिशस्त्रमुत्तमम् तथा न दैत्यप्रवरेण दुस्सहम् ।

अनेकदीप्ताम्शुकराभमुज्ज्वलम् मुमोच फालम् प्रति वैरिगर्वितः ॥ ९२ ॥

परस्परम् तावभिहन्यमानौ नभस्थले वीक्ष्य तथायुधोत्तमौ ।

सुरा अमन्यन्त भुजङ्गपुङ्गवौ मिथो निगर्वेण रणम् गताविति ॥ ९३ ॥

चिरायमाणे सति शस्त्रपुङ्गवे नारायणेयास्त्रवशम् गतस्तथा ।

प्रचोदितः प्राग्रसरेण देहिनाम् समीरजो हेतिवरम् मुमोच ॥ ९४ ॥

प्रमुच्यमाने हरिहेतिराजे वेगासहिष्णुस्त्रिशिखो महायुधः ।

अमोघवेगोsपि समोघवेगो बभूव वेगेन परोक्षताम् गतः ॥ ९५ ॥

परोक्षभावम् गमिते निजेन वै नारायणे चैव स हेतिराजः ।

उभौ यथावस्थितिमभ्यगाताम् नृपस्य तूणञ्च भुजम् हनूमतः ॥ ९६ ॥

तदा निशम्य प्रवरः पलाशिनाम् स्थातुम् न शक्तो युधि वायुजन्मनः ।

विशम्स मायाम् प्रविधूयमानो रसातलम् सानुचरस्समाविशत् ॥ ९७ ॥

पातालमभ्येयुषि राक्षसाधिपे कुम्भोदरे दीनमनन्यचेतने ।

विनेदुरुच्चैरमरेन्द्रडिम्डिमास्सुरर्षयोsपि प्रशशम्सुरम्बरे ॥ ९८ ॥

दीप्ताम्शुमन्तौ दिवि पुष्पवन्तौ दिशः प्रसन्नास्सुखिनो महर्षयः ।

बभूवुरिन्द्रोऽपि सहानुयायिभिर्गतव्यधोऽमुञ्चत पुष्पवृष्टिम् ॥ ९९ ॥

इति ब्रह्मकैवर्ते उत्तरखण्डे भृगुपराशरसम्वादे घटिकाचलमाहात्म्ये सप्तमोऽध्यायः

अष्टमोsध्यायः

श्रीपराशरः –
इति ब्रह्मणि विस्रब्धमपदानम् प्रवक्तरि ।

तुष्टुवुः परमप्रीता ऋषयो ब्रह्मवादिनः ॥ १ ॥

ऋषयः –
ब्रह्मन् प्रवक्ता तथ्यम् त्वम् त्रिषुलोकेषु विश्रुतः ।

न ह्यन्यचेतनः क्वापि कथाकथनलालसः ॥ २ ॥

त्वम् विना वचसाम् देवा ह्यभ्येष्यति जगत्रये ।

त्वम् वेदवेद्यो वेदाङ्गनिष्टितो वैदिकोत्तमः ॥ ३ ॥

त्वमेव जगताम् धाता विनीतोsसि चतुर्मुख ।

त्वयैकेन प्रजास्सर्वास्सृज्यन्ते चतुरानन ॥ ४ ॥

चतुर्भिश्चतुरो वेदान् सृजसि त्वम् मुखैरपि ।

प्रसीद भगवन् ब्रह्मन् सनकादिनिषेवित ॥ ५ ॥

अस्मासु व्याकुरु गुणान् पुण्यश्लोकानुवर्तिनः।
श्रीपराशरः –
इत्थम् स्तुतो जगद्धाता प्रसन्नो ऋषिसत्तमान् ॥ ६ ॥
उवाच सूनृतम् वाक्यम् प्रहर्षमतुलम् भजन् ।

ब्रह्मा –
इन्द्रद्युम्नोऽपि हनुमान् रणरङ्गमुपेयिषौ ॥ ७ ॥

श्लाघनीयौ सुरैस्सर्वैरास्थितौ हृष्टमानसौ ।

ततो देवास्सगन्धर्वास्सेन्द्राश्च परमर्षयः ॥ ८ ॥

राजानमभिषेक्तुम् वै नृहरिप्रेषिता ययुः ।
देवाः –
इन्द्रद्युम्न महाराज सदा रणविशारद ॥ ९ ॥

वरम् वरय भद्रम् ते वरम् दातुमिहागताः ।
ब्रह्मा –
इति तैरीरितो राजा हर्षगद्गदचेतसः ॥ १० ॥

अवलोक्यागतान् सर्वानिदम् होवाच देवताः ।

इन्द्रद्युम्नः –

यदि प्रसन्ना यूयम् मे वरदा यदि देवताः ॥ ११ ॥

चिरादीप्सितमेतन्मे ब्राह्म्यम् तेजः प्रदीयताम् ।
ब्रह्मा –
इत्थम् राजनि ब्राह्मण्यम् प्रार्थयत्यमितौजसि ॥ १२ ॥
देवाः –
साधु पृष्टम् त्वया राजन् ब्राह्म्यमन्यैर्दुरासदम् ॥ १३ ॥

कञ्चित् कालमुषित्वात्र राजभावेन भूपते ।

श्रीयोगनरसिम्हस्य प्रभावेन भुवि प्रजाः ॥ १४ ॥

पालयन्नविलम्बेन ब्राह्म्यतेज उपेष्यसि ।
ब्रह्मा –
इत्युक्तवन्तो राजानम् सेन्द्रास्सहमरुद्गणाः ॥ १५ ॥

श्रीनृसिम्हपुरे तत्र पुरन्दरपुरोपमे ।

तीर्थोत्तमाहतैस्तीर्थैरभ्यषिञ्चन् दिवौकसः ॥ १६ ॥

इन्द्रद्युम्नेऽभिषिक्ते तु सेन्द्रैर्देवर्षिसत्तमैः ।

साधु साध्विति भूतानि प्रशशम्सुर्जगत्रये ॥ १७ ॥

देवराजस्ततो देवैस्स्तूयमानो यशस्विनम् ।

उपसृत्य हनूमन्तमब्रवीत् प्राञ्जलिस्तदा ॥ १८ ॥

इन्द्रः –

अभ्यर्हितोऽसि नृहरेर्हनुमन् भक्तवत्सल ।

मद्वैरिबलहन्तुस्ते वरम् दास्याम्यनुत्तमम् ॥ १९ ॥

यतो निष्कासितो वैरी पुरादस्मान्महीपते ।

अद्यारभ्य पुरीयम् ते नाम्नाख्याता भविष्यति ॥ २० ॥

ब्रह्मा –
इति दत्वा हनुमते वरम् वरयते सुरैः ।

सुरर्षिभिस्ततो वज्री स्वाम् पुरीमाजगाम ह ॥ २१ ॥

प्रस्तूयमानो ऋषिभिः प्रवरस्तु वनौकसाम् ।

हनूमानपि तेजस्वी नृहरेः पदमभ्यगात् ॥ २२ ॥

चिराय राजा राजर्षिवरेण्यः पालयन् प्रजाः ।

हनुमत्पुरमभ्येत्य तुतोष सह भार्यया ॥ २३ ॥

स कदाचिन्नृपः पूर्वासन्ध्यामन्वास्य वैदिकीम् ।

श्रीनृसिम्हमभिष्टोतुम् प्रायात् पर्वतसत्तमम् ॥ २४ ॥

आन्दोलिकाम् स्वर्णमयीम् समारुह्य महीपतिः ।

सभार्यस्सपरीवारश्शिलापुष्करिणीमगात् ॥ २५ ॥

मध्येमार्गम् महाशैले वन्दित्वा देवतर्षभम् ।

नृपतिः परया भक्त्या ततस्तीर्थतटीमयात् ॥ २६ ॥

ततश्च पुष्पकादीनि यानान्यैरावतादयः ।

तरवः कल्पकाद्याश्च यथागतमुपागताः ॥ २७ ॥

अभिषिक्ते तु धर्मात्मन्यमितौजसि राजनि ।

तुष्ट इन्द्रश्च भूतानि हृष्टानि जगती तले ॥ २८ ॥

वसिष्ठः –

अत्र नागाश्च पुन्नागरसालाः केसरा अपि ।

जम्बूकपित्थजम्भीरतिलकामलकास्तथा ॥ २९ ॥

कर्णिकाराश्च कुरवः पुत्रजीवास्तरूत्तमाः ।

स्वयम्भुवा वर्धितास्ते दृश्यन्ते फलपूर्णिताः ॥ ३० ॥
चन्द्रसूर्यौ च दृश्येते स्नात्वा ब्रह्मसरोजले ।

गगनम् गाहमानौ वै ग्रहादिभिरुपाश्रितौ ॥ ३१ ॥

मम पर्णकुटी चात्र जम्बूमूले प्रदृश्यते ।

सुमतिर्नाम शिष्यौ मे तिष्ठते पालयन् गृहम् ॥ ३२ ॥

अत्र व्याघ्राश्च सृमरास्सिम्हनागाश्शिखावलाः ।

अविरोधेन मनसा क्रीडन्ते च परस्परम् ॥ ३३ ॥

पुरस्तादिह दृश्यन्ते बदर्य: पञ्च भूपते ।

इमे गाधिभुवा शप्ता निष्पत्रा निष्फला इति ॥ ३४ ॥

अत्र द्विजा महात्मान ऋषयश्शम्सि व्रताः ।

पूजयन्ति महात्मानम् नृहरिम् दक्षिणामुखाः ॥ ३५ ॥

पृथुलोमा द्विजः कश्चिन्नृहरिध्यानमाश्रितः ।

सालोक्यमगमद्राजन् सर्वदेवर्षिपूजितः ॥ ३६ ॥

श्रुत्वा वचो वसिष्ठस्य नृपतिर्भावितात्मनः ।

आश्चर्यमुपलेभे च वचनम् चेदमब्रवीत् ॥ ३७ ॥

इन्द्रद्युम्नः –
मुने कथमिह ब्रह्मन् कृतवान्स्तप उत्तमम् ।

विश्वामित्रे च राजर्षौ कथम् ब्राह्म्यम् त्वया कृतम् ॥ ३८ ॥

केनाकारेण नृहरिस्तवाज्ञाम् दत्तवान् पुरा ।

केन वा हेतुना शप्ता बदरा: पञ्चभूरुहः ॥ ३९ ॥

गाधिपुत्रेण तेजस्विन् सर्वम् विस्तरतो वद ।
वसिष्ठः –
स्वारोचिषान्तरे वेदान् चतुरोऽपि स देवराट् ॥ ४० ॥

विपश्चितो मतानाह स्मयापन्नानुदग्रधीः ।
इन्द्रः –
हे वेदा: कमुपासित्वा वदध्वम् गच्छताधुना ॥ ४१ ॥
को नु देवोऽभिलषितो भवद्भिरिह वेद्यताम् ।

वेदाः –

ब्रह्मणो व्यतिरिक्तो वै देवः को वास्ति दुर्मते ॥ ४२ ॥

को नु देवोऽभिलषित इत्यवोचन् विनिर्भयात् ।

स एक एव भगवान्नेता पाता प्रजास्तथा ॥ ४३ ॥

स्रष्टा च ऋषिभिर्वेद्यो वेदवेदान्तगोचरः ।

सम्सारतारकस्ताररूपी ब्रह्मर्षिवन्दितः ॥ ४४ ॥

पञ्चशीर्षश्चतुर्बाहुः पञ्चभूतनिषेवितः ।

इतरद्दैवतम् लोके तत्वज्ञ वद नोचितम् ॥ ४५ ॥

वसिष्ठः –
निशम्य तद्वचस्तीव्रम् तप्तनाराचवेदनम् ।

विपश्चिदिन्द्रो भगवान् प्राह निर्भत्स्य तानिदम् ॥ ४६ ॥

इन्द्रः –

हे वेदा मूढहृदयास्तत्वार्थम् वो निरामयम् ।

ईशानम् जगदीशानम् विहाय वदतापरम् ॥ ४७ ॥

स एव जगताम् धाता नेता पाता जगत् त्रये ।

गीयते ऋषिभिस्सर्वैः ब्रह्मज्ञानिभिरीश्वरः ॥ ४८ ॥
नारायणप्रियो रुद्रः पितामहपितामहः ।

सर्वेषामपि देवानाम् यः परस्स महेश्वरः ॥ ४९ ॥

स एक पञ्चशीर्षो वै त्रिषु लोकेषु गीयते ।

तम् विना पञ्चशीर्षो यस्ते सर्वे तक्षकादयः ॥ ५० ॥

शिवपूजाविधेस्तस्य ब्रह्मणस्स्रष्टुभावना ।

वसिष्ठः –
इत्युक्त्वा कुपितो देवराजो वज्रमुपाददे ॥ ५१ ॥
प्रहर्तुकामस्तान् सर्वान् वेदानुद्धतिमोहितान् ।

तस्य क्रुद्धस्य चेन्द्रस्य वेदा वेगासहिष्णवः ॥ ५२ ॥

ब्रह्माणम् शरणम् जग्मुः कान्दिशीकास्तदा दिवि ।

स ईक्षन्नागतान् ब्रह्मा वेदान्वेधानुधाविनम् ॥ ५३ ॥

कमण्डलूदकेनैव वारयामास वासवम् ।

स वारितोsपि वेगेन वज्रम् चिक्षेप ब्रह्मणि ॥ ५४ ॥

स वज्रो मन्त्रपूतेन कमण्डलुजलेन वै ।

वारितो ब्रह्मणा प्रत्यक् चोदितस्स्वामिनम् प्रति ॥ ५५ ॥

प्रहर्तुम् स्वयमारेभे देवराजम् दुरासदम् ।

इन्द्रो वज्रायुधम् वीक्ष्य ब्राह्ममन्त्राभिचोदितम्  ॥ ५६ ॥

न शशाक पुरस्स्थातुंम् दुद्रुवे स दिवस्पतिः ।

स लब्धप्रत्यभिज्ञानो रुद्रशापविमोचितः ॥ ५७ ॥

यत्रास्ते शङ्करो देवस्तम् देशम् प्राद्रवत् तथा ।
इन्द्रः –
शरणम् भव भूतेश करुणाकर शङ्कर ॥ ५८ ॥
माम् प्रत्यायुधराजस्य वेगमुत्सारयाशु वै ।

इति सम्बोधितश्शम्भुर्विज्ञायास्य पराभवम् ॥ ५९ ॥

हुङ्कारेणैव कुलिशम् निर्वेगमकरोत् प्रभुः ।

भक्तानुकम्पी भगवान् ब्रह्मणश्चेष्टितम् नृप ॥ ६० ॥

जानन्निन्द्रमुखात् सर्वम् किञ्चित् क्रोधवशम् गतः ।

नखेन ब्रह्मणश्शीर्षमूर्ध्वस्थितमकृतन्तत ॥ ६१ ॥

तम् निगर्वम् समुत्सार्य सम्प्रीणयति वासवम् ।

चतुर्मुखो भवेत्युक्त्वा तस्य नाम ददौ पुनः ॥ ६२ ॥

तदा प्रभृति देवेन नखकृत्तशिरास्स्वभूः ।

चतुर्मुख इति ख्यातिम् ब्रह्माविन्दत भूतले ॥ ६३ ॥

चतुर्मुखोऽपि भगवान् स्तुत्वा रुद्रमनामयम् ।

वेदैरभिष्टूयमानस्स्वाम् पुरीम् प्रययौ नृप ॥ ६४ ॥

अङ्गवैकल्यदोषस्य विनिहत्यै प्रजापतिः ।

वसतीह स धर्मात्मा श्रीनृसिम्हप्रचोदितः ॥ ६५ ॥

शुभ्राम्भसि चिरम् स्नाते ब्रह्मणि प्राणिनायके ।

वैकल्यदोषस्तस्यैष न बभूव विशाम्पते ॥ ६६ ॥

चतुर्मुखो गते दोषे श्रीनृसिम्हप्रभावतः ।

ब्रह्मा स्वनाम्ना कासारम् तमकीर्तयदुत्तरम् ॥ ६७ ॥

गुरुवारे च यस्स्नाति समाहितमना नृप ।

मध्याह्नसमये मर्त्यास्तस्य पुण्यफलम् शृणु ॥ ६८ ॥

अग्निष्टोमादिकरणे पुत्रादिकरणे तथा ।

यत्फलम् ब्रह्मसरसि स्नायी तत्फलमश्नुते ॥ ७० ॥

यस्तु तर्पयते देवान् पितृन्वापि समाहितः ।

तस्य सन्ततिविच्छित्तिर्नैवास्ति मनुजर्षभ ॥ ७१ ॥

ब्रह्मपुष्करिणी तीरे वृक्षानारोपयन्ति ये ।

अमुत्र सुखिनस्सर्वे महीयन्ते परत्र च ॥ ७२ ॥
वित्तम् विद्याञ्च कुर्वाणो यो दद्याद्धि द्विजन्मने ।

यो माघमासि ब्राह्मे च स चिरायुस्सुखीभवेत् ॥ ७३ ॥

यो माघमासि मार्ताण्डे किञ्चिदभ्युदिते पुमान् ।

दैवज्ञाम्श्च पुरस्कृत्य इमम् मन्त्रमुदीरयेत् ॥ ७४ ॥

ओम् नमो भगवन् विष्णो वासुदेव जगन्मय ।

हरे नरहरे पाहि घटिकाचलनायक ॥ ७५ ॥

स न विन्दति पाप्मानम् प्रातस्स्नायी द्विजोत्तमः ।

ब्रह्मणोऽनुग्रहेणापि नृसिम्हस्यानुभावतः ॥ ७६ ॥

इति ब्रह्मकैवर्ते उत्तरखण्डे भृगुपराशरसम्वादे घटिकाचलमाहात्म्ये अष्टमोऽध्यायः ॥

नवमोsध्यायः

इन्द्रद्युम्नः –
यस्याज्ञामवलम्ब्यात स्नातव्यम् च फलेच्छुभिः ।

कम् देशम् वा स भगवानद्यास्ते तन्निबोध नः ॥ १ ॥

वसिष्ठः –
इतो हि दृश्यते शैलो राजन्नेकशिलाभिधः ।

दक्षिणस्याम् दिशि ब्रह्मसरस्तरुविभूषितः ॥ २ ॥

शिम्शुपानाम वृक्षोऽसौ दृश्यते विटपान्वितः ।

अस्य मूले स भगवान्तिष्ठते भैरवस्स्वयम् ॥ ३ ॥

नृहरेश्शासनम् गृह्यातीर्थान्येतानि पालयन् ।

ढाकिन्यादिपिशाचादि रक्षाम्स्यपि च वारयन् ॥ ४ ॥
अनुग्रहाय भक्तानाम् बृन्दबृन्दमुपेयुषाम् ।

तस्यैव वामपार्श्वस्थम् भैरवम् तीर्थमुत्तमम् ॥ ५ ॥
अत्र स्नानम् प्रकुर्वन्तो ब्राह्मे काले ह्यतन्द्रितः ।

विपाप्मानो नरास्सर्वे स्वर्गम् यातास्सहस्रशः ॥ ६ ॥

गन्धर्वाणाम् च भूतानाम् किन्नराणाम् च भूपते ।

मज्जताम् भैरवे तीर्थे श्रूयन्ते वैदिका रवाः ॥ ७ ॥

अत्र वैखानसा वालखिल्याश्च परमर्षयः ।

स्नाताश्च शिम्शुपास्कन्धे वल्कलान् छादयन्ति च ॥ ८ ॥

प्रातस्स्नात्वा भैरवोदे ब्रह्मोदे स्नातुमिच्छया ।

वैष्णवाश्च द्विजाश्शैलादवरोहन्ति पार्श्वतः ॥ ९ ॥

अत्र राजर्षयस्स्नात्वा दिलीपाद्या महात्मनः ।

नृहरेरनुभावेन जीवन्मुक्ता नृपोत्तम ॥ १० ॥

नक्षत्राणामधीशस्तु भैरवम् तीर्थमेत्य हि ।

गुरुतल्पगतम् दोषम् त्यक्तवान् दर्शनक्षणात् ॥ ११ ॥

किम् पुनस्स्नानतस्सौख्यम् किम् किम् न भविता नृप ।

प्रह्लादोऽपि महातीर्थे प्रातस्स्नात्वा जितेन्द्रियः ॥ १२ ॥

ऋषिभिस्स्तूयमानोऽयमुपास्ते नृहरिम् सदा ।

पुरायम् शैलराजस्तु भैरवो बाधते मम ॥ १३ ॥

शृङ्गेणेति स्वगर्वेण प्रवर्धयितुमारभत् ।

द्वितीयम् मेरुमिव तमुद्धतम् वीक्ष्य वासवः ॥ १४ ॥

भैरवो रक्षते शैलमिति नासृजदायुधम् ।

किमिति व्याकुलमनाश्चिन्तयानो दिवस्पतिः ॥ १५ ॥

बलभद्रमुपागम्य प्राञ्चलिर्वाक्यमब्रवीत् ।
इन्द्रः –

प्रलम्बासुरविध्वसिन्निन्द्रोऽहमभिवादये ॥ १६ ॥

प्रसीद भगवन् देव वाञ्छितम् पुरयाशु नः ।

भगवानुवाच –
किम् बिभेति भवानिन्द्र देवानामधिपोऽपि सन् ॥ १७ ॥

अद्य शम्स प्रकाशम् त्वम् पूरये काङ्क्षितम् तव ।
इन्द्रः –
स्वामिन् प्रवर्धते स्वैरमयमेव शिलोच्चयः ॥ १८ ॥

भैरवाज्ञामधिष्ठाय कुरु तस्य प्रतिक्रियाम् ।

वसिष्ठः –
इत्युक्तो देवराजेन बलभद्रः प्रतापवान् ॥ १९ ॥
हलाग्रेण विकृष्याधश्शृङ्गम् चक्रे शिलोच्चयम् ।

प्रह्वीभूतम् महाशृङ्गस्तदारभ्य शिलोच्चयः ॥ २० ॥

उद्ग्रीवो मन्त्रराजेन सरीसृप इवाभवत् ।

अवटे तरुभिर्दैर्घ्यमवाप शिखरम् नृप ॥ २१ ॥

हलसूत्रेति विज्ञेया शैलस्योपरि दृश्यते ।

बलभद्रो हलावर्तन्नाम गर्तम् तथाकरोत् ॥ २२ ॥

पनसान्नारिकेलाम्श्च तरूनारोपयद्बली ।

इदम् होवाच भगवान् सेन्द्रान् सर्वमरुद्गणान् ॥ २३ ॥

श्रीभगवान् –
तपस्यन्ति हलावर्ते भैरवोदनिषेविणः ।

ये नरास्ते मदाज्ञप्ता लोकानाप्नुयुरुक्तमान् ॥ २४ ॥
वसिष्ठः –
इतीरयित्वा देवेन्द्रम् सर्षिसङ्घमरुद्गणम् ।

देवताभिष्टुतः प्रायात् प्रलम्बघ्नो यथा गतम् ॥ २५ ॥
हलावर्ते तपस्यन्तस्तरुमूलेषु वाग्यताः ।

अधोमुखाः प्रदृश्यन्ते ऋषयश्शतशो नृप ॥ २६ ॥

वैष्णवा अपि मज्जन्तश्शतशो विप्रसत्तमाः ।

पुष्करिण्यम्भसार्द्रास्तु नृहरिम् पर्युपासते ॥ २७ ॥

इन्दुवारे तु यस्स्नाति भैरवे तीर्थसत्तमे ।

तस्य पुण्यस्य भूपाल फलम् वाचामगोचरम् ॥ २८ ॥

गौतमस्य पुरा पत्नी देवेन्द्रस्यानुषङ्गतः ।

आर्जितम् सुमहत्पापम् मार्जयामास स्नानतः ॥ २९ ॥

तपश्चरति धर्मात्मा गौतमो ऋषिसत्तमः ।

भैरवोदस्योत्तरस्याम् दिशि शिष्यैस्सभार्यया ॥ ३० ॥

गण्डशैलस्य पूर्वस्मिन् भागे किञ्चित्सरोऽकरोत् ।

हलावर्तोत्तरे पार्श्वे तपस्यति स वेदवित् ॥ ३१ ॥

ये स्नान्ति गौतमे तीर्थे नृहरिध्यानतत्पराः ।

ऋषयस्ते विलम्बेन प्राप्नुवन्ति परम् पदम् ॥ ३२ ॥

शिलापृष्टे महात्मानम् पुरस्कृत्य च गौतमम् ।

वटवस्साम घुष्यन्ति कतिचित् सम्श्रितव्रताः ॥ ३३ ॥

गौतमस्य पुरोभागे दृष्यन्ते विविधा द्रुमाः ।
कपित्थाः कुरवस्सालाः कोविदाराश्च तिन्दुकाः ॥ ३४ ॥

मधुकाः केसरा नागाः पुन्नागाश्च सहस्रशः ।

बदराश्च धवा नीपा सिन्धुवाराश्च केतकाः ॥ ३५ ॥
तिन्त्रिनीजम्बुजम्बीरन्यघ्रोधाश्च शिलावटाः ।
इमे हि तरवो राजन्नभ्रसीसानुषङ्गिणः ॥ ३६ ॥

पुष्करिण्यम्भसा पूर्णाः प्रवर्धन्ते महीपते ।

शिलापुष्करिणीतीर्थे स्नात्वा कामान् सहस्रशः ॥ ३७ ॥

आयान्ति स्वर्गतो मर्त्या नानादिग्भ्यश्च मानवाः ।

इमाम् पुष्करिणीम् दिव्यामध्यास्ते विप्रशेखरः ॥ ३८ ॥

नृहरौ जगताम् नाथे भक्तिम् कुर्वन्नतन्द्रितः ।

वैशाखपौर्णमास्याम् यो शिलातीर्थे नृपोत्तम ॥ ३९ ॥

स्नानमाचरति प्रातः प्राप्नोति सुखमेश वै ।

शिलोदे प्रातुरुत्थाय स्नात्वा द्विजवरो नृप ॥ ४० ॥

दद्ध्यान्न प्रतिगृह्णीयाद्विन्यस्य नृहरो मनः ।

मन्दवारे महातीर्थे शिलोदे स्नाति यः पुमान् ॥ ४१ ॥

पूर्वोक्तमन्त्रमुच्चार्य मुच्यते स तु किल्बिषात् ।

पुरादिकाकसामासीत् पुरोधा ब्रह्मणस्सुतः ॥ ४२ ॥

विश्वरूप इति ख्यातो स्त्रीयोदनुजन्मनाम् ।

कैतवम् तस्य विज्ञाय स्वराज्यम् स्वयमिच्छतः ॥ ४३ ॥

इन्द्रस्तु देवतैसर्वैश्चिन्तयन्निदमाह तान् ।

इन्द्रः –

असौ किल पुरोधा मे ब्रह्मणा कल्पितः पुरा ॥ ४४ ॥
निपात्य मामितो राज्ये दैत्येन्द्रमभिषेक्ष्यति ।
इमानि तस्य शीर्षाणि त्रीणि वज्रेण हन्म्यहम् ॥ ४५ ॥
इत्युद्यम्य स वै वज्रम् पालयामास मूर्धनि ।
वसिष्ठः –
कुलिशस्य निपातेन त्यक्तजीवोऽभवत् तथा ॥ ४६ ॥

त्वाष्ट्रस्तु विश्वरूपो वै त्रिभिर्वक्त्रैरवाकिरत् ।

तित्तिरः कलविङ्कश्च कपिञ्जल इति त्रयः ॥ ४७ ॥
ततो देवास्सगन्धर्वा ब्रह्महेति दिवस्पतिम् ।

प्रशम्सन्तो बभूवुस्ते विनिदन्तस्सुरर्षयः ॥ ४८ ॥

आयान्तीम् ब्रह्महत्याम् वै दृष्ट्वा बलनिषूदनः ।

त्रिधा विभज्यतामिन्द्रो बभाषे पृथिवीम् प्रति ॥ ४९ ॥
इन्द्रः –
एकाम्शो ब्रह्महत्यायाः पृथिवि प्रतिगृह्यताम् ।

अपराम्शास्तु तरवः भवद्भिस्सरितः परः ॥ ५० ॥

इति त्रिभङ्गम् सङ्कल्प्य ब्रह्महत्याम् ददौ भुवे ।

ततो महेन्द्रो देवर्षिचोदितः कलिमोचने ॥ ५१ ॥

देवराजस वै राजन्नवतीर्णस्स्वयम् भुवम् ।

यत्रास्ते भगवान् योगनृहरिर्भक्तवत्सलः ॥ ५२ ॥

प्रथमम् ब्रह्मतीर्थेषु स्नात्वा राजा दिवौकसाम् ।

भैरवोदे ततस्तीर्थे गौतमीये तदा नदे ॥ ५३ ॥

शिलापुष्करिणीम् प्राप स्नात्वा विगतकल्मषः ।

सुरर्षिभिस्स्तूयमानो नृहरिम् स्तोतुमभ्यगात् ॥ ५४ ॥

उन्नतम् शैलमारुह्य शृङ्गकोटिविराजितम् ।

तस्योपरि महाशृङ्गे दक्षिणेऽधिष्ठितम् हरिम् ॥ ५५ ॥
सनकप्रमुखैर्दिव्यै ऋषिभिर्भावितात्मभिः ।

प्रह्लादेनापि सततम् स्तूयमानम् महात्मना ॥ ५६ ॥

वामदेवर्षिमुक्त्यर्थमवतीर्णमनामयम् ।

सर्वत्राराधितम् पूर्वम् सप्तर्षिगणसेवितम् ॥ ५७ ॥

रत्नसिम्हासनासीनम् योगासनविभावितम् ।

हेमकोटिविमानस्य प्रणवाकारजन्मनः ॥ ५८ ॥

द्वात्रिम्शस्तम्भविज्ञेयकक्ष्यासु द्वादशस्वपि ।

महाकमलमुन्निद्रम् मध्ये तस्य विराजिते ॥ ५९ ॥

कर्णिकारत्नखचितम् तत्र विज्ञायते नृप ।

भूपुरम् तत्र विज्ञेयम् यन्त्रम् नृपतिसत्तम ॥ ६० ॥

ऋतुकोणस्य मध्ये तु बैन्दवम् स्थानमुच्यते ।

तत्र देवमुपासीनम् नृहरिम् परमे पदे ॥ ६१ ॥

प्रश्रयावनतो वीक्ष्य स्तोत्रयामास वासवः ॥
इन्द्रस्य स्तुतिः –
प्रसीद लोकेश्वर लोकनायक प्रह्लादमुख्यै ऋषिभिः प्रसेवित ।
हिरण्यदैत्येन्द्रवधम् क्षणेन वै विधाय सौख्यम् कुरुषे त्वमेव हि ॥ ६२ ॥

प्रद्युम्नसङ्कर्षणवासुदेवमुखैरनेकैरनुरूपभेदैः ।

महाद्रिवासी नृहरे त्वमेवम् सन्दृश्यसे लास्यकरो यदैकः ॥ ६३ ॥

स वामदेवो भरतोsपि तावुभौ प्रमोचितौ सम्सृति सङ्गबन्धनात् ।

हरे महात्मन् नृहरेऽस्तु ते घृणा तयोस्तवैवम् घटिकैकमात्रतः ॥ ६४ ॥

वैवस्वते सम्प्रति सप्त चर्षयो विमुक्तभावम् गमिता जगत्पते ।

तवानुकम्पामनवाप्य कोपाच्छुकादयो मुक्तिपदम् न भेजिरे ॥ ६५ ॥

तवाक्षिपातेषु सहस्रशो द्विजा महर्षयश्चापि सुरर्षयस्तदा ।

विमुक्तिकामा भगवन्निराकुलास्तपन्ति तीव्रम् तप एव केवलम् ॥ ६६ ॥

त्वमेव खम्भूरुदकम् समीरणशिशखावलश्चापि भवन्तमन्तरा ।

परम् न लोके नृहरे प्रदृश्यते त्वमेव विश्वम् विवृषे तथा कृतिम् ॥ ६७ ॥

असम्शयम् प्राणिपतिर्विरिञ्चनो लयम् व्रजत्यन्तक एष धर्मराट् ।

सर्वे च देवा नृहरे त्वमेकः कल्पावसाने वटपत्रशायी ॥ ६८ ॥

त्वमेक एवेश्वर भावमेयिवान् तुषारशैलेन्द्रसुतापरिग्रहम् ।

तमोगुणास्फीतवपुर्जटाधरो जगन्ति नेता नृहरे हरे सदा ॥ ६९ ॥

हरे भवानेव चतुर्मुखस्स्वयम् सत्वाधिकोद्रेकतया प्रजापतिः ।
वचस्सवित्रीकरपीडनोचितो जगन्ति पाता नृहरे त्रयीमयः ॥ ७० ॥

श्वेते महाद्वीपवटे भुजङ्गमे शेते श्रिया यो भगवान् स राजसः ।

त्वमेव विष्णोर्नृहरे हरे सदा जगन्ति पातासि पवित्रमूर्तिमान् ॥ ७१ ॥

तवैव वक्त्रान्निगमादिका गिरः पुरातनाश्चेतस एव चन्द्रमाः ।

मुखादहञ्चाक्षित एव भानुमान् कर्णाद्दिशो व्याकुरुषे त्रयी हरे ॥ ७२ ॥

वेदैकवेद्यम् पुरुषम् महान्तमादित्यवर्णम् तमसः परस्तात् ।

अवस्थितम् त्वाम् घटिकाचलस्थितम् श्रियानुषक्तम् शरणम् प्रपद्ये ॥ ७३ ॥

वसिष्ठः –
इति स्तुतो हृषीकेशो देवराजेन धीमता ।

सौरबिम्बादिव हरिः प्रादुरासीद्विमानतः ॥ ७४ ॥

श्रीभगवान् –
शचीपतेsमराध्यक्ष वज्रायुधविभूषण ।

जानामि सुरशार्दूल भवदागमकारणम् ॥ ७५ ॥

यथा ब्रह्मसरोमुख्यतीर्थेषु सुरसत्तम ।

स्नातम् त्वया तदारभ्य पातकान्मोचितो भवान् ॥ ७६ ॥

अथापि मम सान्निध्यम् कृतमत्र भवत्कृते ।

वरम् वृणु सुराधीश कामितम् दीयते मया ।

इत्यज्ञप्तो भगवता देवराजस्ततः परम् ॥ ७७ ॥
इन्द्रः –
यदि मारी कृता भक्त्या भगवन्निदमाद्रिये ।

स्तोत्रेणानेन हे देव मानवास्सामभिस्स्तुतम् ॥ ७८ ॥

भवन्तमेव नृहरेस्तोष्यन्त्यानम्रमूर्तयः ।

तेषाम् कदाचिदपि वै न भवेयुश्च किल्बिषाः ॥ ७९ ॥

निरपाया भवेदेषा विष्णुभक्तिश्च शाश्वती ।

अकालमृत्युरपि वै न भवेन्नृहरे सताम् ॥ ८० ॥

वसिष्ठः –
इति पृष्ठो जगन्नाथो नृहरिर्भक्तवत्सलः ।

तथेति व्यक्तमुक्त्वैवम् तत्रैवान्तरधीयत ॥ ८१ ॥

इन्द्रोऽपि दैवैराहूतस्स्तूयमानस्सुरर्षिभिः ।

नृहरिम् भावयन्नेव स्वाराज्यमभजत्तदा ॥ ८२ ॥

इति ब्रह्मकैवर्त्ते उत्तरखण्डे भृगुपराशरसम्वादे घटिकाचलमाहात्म्ये नवमोऽध्यायः ॥

दशमोsध्यायः

इन्द्रद्युम्नः –

भगवन् साधु विदितम् वेदितव्यम् मयाऽनघ ।

विश्वामित्रस्य वै ब्राह्म्यमुपस्थितमुदाहर ॥ १ ॥

वसिष्ठः –
पुरा मायामधिष्ठाय पुरीम् पुरमिवामरीम् ।

विश्वामित्रो नृपश्रेष्ठः पालयामास मेदिनीम् ॥ २ ॥

यथार्थनामा धर्मात्मा ररक्ष सकलाः प्रजाः ।

शतम् शतम् क्रतूनाम् वै कृतवान्नृपसत्तम ॥ ३ ॥

कदाचिदर्थिता तेन क्षात्रगर्वेण भूपते ।

सुरभिर्नाम पीनोध्नी धेनुरेषा प्रसह्य वै ॥ ४ ॥

तमुद्धतमुदीक्ष्याहमभिमन्त्र्य जलेन वै ।

दूरमुत्सादयन् गर्वादवमुच्येदमब्रुवन् ॥ ५ ॥
विश्वामित्र महाराज विमुक्तस्तेजसा मम ।

ब्राह्म्यानुरूपम् किम् क्षात्रमित्यवोचमनन्तरम् ॥ ६ ॥

अथ गाधिसुतस्सम्यग्वेदितस्स्वेन कर्मणा ।

धिक्कृत्य स बलम् क्षात्रम् वनमेवाभ्यगात्तदा ॥ ७ ॥

स गत्वा विपिनम् घोरम् तपस्तेपे सुदारुणम् ।

ब्रह्मतेजोऽभिलाषी वै जीर्णपर्णाशनव्रतः ॥ ८ ॥

जजाप तपनन्स्यस्तललाटो गाधिनन्दनः ।

नासाग्रन्यस्तनयनो महासौरादिकान् मनून् ॥ ९ ॥

अत्रान्तरे प्रसन्नो वै भास्वान् ऋषिनिषेवितः ।

तपस्विनम् तु राजानमाचचक्षे दिवि स्थितः ॥ १० ॥

कुरुषे व्रतमेतत्किम् राजर्षे गाधिनन्दन ।

शैलस्थयोगनृहरिम् भज ब्राह्मण्यमेष्यसि ॥ ११ ॥

स दास्यत्यचिरेणैव कालेन ब्राम्यमुत्तमम् ।

वसिष्ठो जपतासि श्रेष्ठो तपस्यति तदग्रतः ॥ १२ ॥

वामदेवस्य मुक्त्यर्थमाविरेष्यति केशवः ।

नृहरिर्घटिकामात्रतोषितो दास्यते पदम्  ॥ १३ ॥

इतोऽविदूरे धर्मात्मन् दृश्यते घटिकाचलः ।

ऋषयश्शतशस्तत्र नृहरिम् पर्युपासते ॥ १४ ॥

इन्द्रादयश्च दिक्पालाः प्रजापतिपुरोगमाः ।

सुरर्षयश्च नृहरिम् हरिमाराधयन्ति वै ॥ १५ ॥

नृहरेस्तु प्रसादेन महर्षीणामनुग्रहात् ।

ब्रह्मा –
वसिष्ठवचनेन त्वम् ब्रह्मर्षित्वमुपैष्यसि ॥ १६ ॥
इति प्रबोधितो राजा गादिसूनुरुपस्थितम् ।

स दृष्ट्वा द्वादशात्मानम् भानुमन्तम् तदाऽब्रवीत् ॥ १७ ॥

विश्वामित्रः –
आरभ्य तु बहो: कालात् तपाम्सि विविधानि वै ।

कुर्वत्सु विष्णुमृषिषु वामदेवमुखेषु च ॥ १८ ॥

कथम् कथय सर्वर्षिभावितात्मा नमस्कृतिम् ।

करोति सततम् भानोः पुनः पुनरिदम् मनः ॥ १९ ॥
सविता –
पुरा कृतयुगे राजन् ब्रह्मचर्यक्रमे स्थितम् ।

वामदेवम् पिता तस्य वेदमध्यापयत् तथा ॥ २० ॥

अधीतवेदवेदाङ्गो वामदेवः प्रसन्नधीः ।

प्रणम्य पितरम् बाल्यात् प्रहिताञ्जलिरब्रवीत् ॥ २१ ॥

वामदेवः –
स्वामिन्नधीता वेदा मे साङ्गोपाङ्गाश्च सम्प्रति ।

प्रदातुकामो गुरवे दक्षिणाम् प्रतिपादये ॥ २२ ॥

पूषा –
विचिन्त्य बाल्ये सम्रब्धम् कुमारम् कृतचेतनम् ।

परीक्षार्थमिमाम् वाचमवोचद्गुरुसत्तमः ॥ २३ ॥

पिता –
यदि सन्दीयते मह्यम् दक्षिणा सुमते त्वया ।

फाल्गुणे मासि भविता पितॄणाम् श्राद्धमुत्तमम् ॥ २४ ॥

प्रीणनाय पितृणाम् वै सुधा प्रादीयताम् त्वया ।

पूषा –
निशम्य तद्वचस्सर्वम् महर्षीणाम् महात्मनाम् ॥ २५ ॥
तथेति शासनम् गृह्य प्रासर्पत महामतिः ।

दूरमध्वानमासाद्य वामदेवो महामतिः ॥ २६ ॥

सुधा मे भविता कस्मादिति चिन्तापरोऽभवत् ।

चिन्तयानस्य तस्याथ मतिरासीदनुत्तमा ॥ २७ ॥

अगस्त्यो मत्पितृगुरुस्सर्वम् मे वेदयिष्यति ।

अगस्त्यो भगवानेष वर्तते गिरिगह्वरे ॥ २८ ॥

सनन्दाद्यैरुपास्यस्तु ब्रह्मा तु प्राणिभिर्यथा ।

येन विन्द्यो महाशैलः प्रह्वीभूतस्तपोबलात् ॥ २९ ॥

यस्य रोषात् क्षणैनैव समुद्रश्चुलकीकृतः।

यत्प्रभावान्महेन्द्राद्यास्स्वे स्वे धर्मे प्रतिष्ठिताः ॥ ३० ॥

तमेनमुपसर्पामि सैषवेत्ता मदीप्सितम् ।

इति सञ्चिन्तितश्शीघ्रम् वामदेवस्तु धार्मिकः ॥ ३१ ॥

अगस्त्याधिष्ठितम् शैलम् ददर्श गिरिगैरिकम् ।

अथाधिरुह्य शैलेन्द्रम् गिरिगैरिकमुन्नतम् ॥ ३३ ॥

सिम्हव्याघ्रसमाकीर्णम् पुष्पितद्रुममण्डितम् ।

अनेकशतराजर्षिदेवर्षिगणसेवितम् ॥ ३४ ॥

स तदालोक्य शैलेन्द्रम् मुमुदे सहचारिभिः ।

पुरस्तात्तु शिलापृष्ठे तीर्थम् तीर्थनिषेवितम् ॥ ३५ ॥

अगस्त्यमिति विख्यातमवलोक्य तदाऽब्रवीत् ।
वामदेवः –
अकर्दममिदनि तीर्थनि निशामयतनिर्मलम् ॥ ३६ ॥
आगस्त्यशिष्याः पद्मानि गृह्णन्ति गुरवे सदा ।

अत्र पूर्वमहल्यायास्सङ्गदोषं सुरेश्वरः ॥ ३७ ॥

स्नानादुत्सारयामास कुम्भयोनेरनुज्ञया ।

पुराऽस्य दक्षिणे तीरे शबरी वेदवत्यपि ॥ ३८ ॥

तपस्यन्त्यौ महात्मानौ ब्रह्मचर्यव्रते स्थिते ।

कन्याम् वेदवतीम् साक्षादवतीर्णाम् श्रियः प्रभाम् ॥ ३९ ॥
शुश्रूषमाणा शबरी वृद्धा धर्मपराऽभवत् ।

अत्रान्तरे दशास्यो वै दिग्जिगीयः प्रतापवान् ॥ ४० ॥

दृष्ट्वा धर्षितुमारेभे कन्याम् वेदवतीम् तदा ।

सम्रब्धमवलोक्यैनम् धर्षणाय कृतोन्मुखम् ॥ ४१ ॥

शबर्या वार्यमाणम् च धिक्कृत्याह तपस्विनी ।

वेदवती –
प्रमत्तोऽसि दशग्रीव हीनग्रीवो भविष्यसि ॥ ४२ ॥

त्रेतायामवतारो मे भविता त्वद्वधे च या ।

वामदेवः –
प्रतिगृह्य जलम् शापम् तस्मै दत्वा तपस्विनी ॥ ४३ ॥

सिन्धुवारतरोर्मूले क्षणादन्तरधीयत ।

अगस्त्यतीर्थे यस्स्नाति भौमवारे समाहितः ॥ ४४ ॥

सोऽन्यस्त्रीसङ्गदोषेण मुच्यते नात्र सम्शयः ।

सोऽयम् वै दृश्यते वृक्षस्सिन्धुवारस्सरस्तटे ॥ ४५ ॥

गन्धम् गृह्यास्य पवनः कुरुते घ्राणतर्पणम् ।

अस्मिन्नकर्दमे तीर्थे निमज्जामो ह्यतन्द्रिताः ॥ ४६ ॥

देवतास्तर्पयित्वात्र यस्यामः कुम्भसम्भवम् ।
पूषा –
तत्र धर्मभृताम् श्रेष्ठस्स्नात्वा सब्रह्मचारिभिः ॥ ४७ ॥

तर्पयित्वा ऋषीन् देवान् तस्याश्रममुपाययौ ।

वामदेवस्सुधर्मात्मा गत्वाश्रमपदम् तदा ॥ ४८ ॥

अगस्त्यस्य मुनेरस्य जग्राह चरणौ सुधीः ।

उत्थाय पादावनतग्रीवम् सर्षिगणेश्वरः ॥ ४९ ॥

तदागमम् तु तपसा जानन्निदमुवाच ह ।
अगस्त्यः –
वामदेव महाभाग भवदागमनम् मया ॥ ५० ॥
विज्ञातपूर्वम् तपसा तदुपायमुदीरये ।

इतः पश्चिमदिग्भागे शैलराजो विराजते ॥५१ ॥

शुकादीनाम् विमुक्त्यर्थम् नृहरिस्थानमेष्यति ।

चतुर्दशास्य शृङ्गाणि पर्वतस्य महामते ॥ ५२ ॥

पूर्वस्याम् दिशि चत्वारि सामान्यस्य महीभृतः ।

उत्तरस्याम् दिशि त्रीणि पश्चिमस्याम् तथा दिशि ॥ ५३ ॥

दिश्येकम् दक्षिणस्याम् वै त्रिणीशानदिशि स्वयम् ।

विद्योतमानो देवर्षिसेवितो राजते सदा ॥ ५४ ॥

कृते चामीकरमयस्त्रेतायाम् रजतात्मकः ।

द्वापरे ताम्ररूपेण कलौ भाति शिलामयः ॥ ५५ ॥

अस्योपरिष्टान्मुक्त्यर्थम् सुरर्षीणाम् महात्मनाम् ।

हेमकोटिविमानस्थो नृहरिः प्रादुरेष्यति ॥ ५६ ॥

घटिकामात्रतो यस्मान्महर्षीणाम् करस्थिता ।

मुक्तिरस्मादमुम् प्राञ्चश्शम्सन्ति घटिकाचलम् ॥ ५७ ॥

प्राचीनम् शृङ्गमस्यैष हनुमान् प्राप्य दुश्चरम् ।

तपस्तनोति नृहरेः प्रसादम् काङ्क्षयन् वटुः ॥ ५८ ॥
तत्र देवाम्स्सहेन्द्रेण सानुमन्मूर्ध्निविष्टितम् ।

हनूमन्तम् तपस्तीव्रम् चरन्तम् पर्युपासते ॥ ५९ ॥

तस्मिन् शैले महाशृङ्गे हनुमत्तीर्थमुत्तमम् ।

हेमपद्मशताकीर्णम् हेमकारण्डवाकुलम् ॥ ६० ॥

शोभनम् सततम् तस्य तीर्थे हेममया द्रुमाः ।

तत्रावतीर्णा ये मर्त्यास्ते सर्वे हेमरुपिणः ॥ ६१ ॥

आगच्छन्तो मृगा व्याघ्रास्सिम्हानागाश्च पक्षिणः ।

सलिलस्पर्शमात्रेण हेमरूपा भवन्त्यमी ॥ ६२ ॥

हनूमता हता जम्बूचारुशाखा सुरालयात् ।

इह भान्ति सरस्तीरे तच्छायासङ्गिनो जनाः ॥ ६३ ॥

हेमरूपा भवन्त्यत्र हनूमदनुशासनात् ।

वैष्णवाश्च द्विजन्मानश्शैवाश्च जटिला नराः ॥ ६४ ॥

तत्र स्नात्वा हनूमन्तमभीप्सन्ति चिरायुषः ।

ततो भानुरुपेत्यायम् प्रतिभावनतस्स्वयम् ॥ ६५ ॥

नृणाम् विशिष्य वै स्नातुम् भानुवारमकल्पयत् ।

भानुवारे तु यस्स्नाति हनूमद्ध्यानतत्परः ॥ ६६ ॥

सम्प्राप्य सकलान् कामान् दीर्घमायुस्स विन्दति ।

पुरा निहत्य रक्षाम्सि रामश्शस्त्रभृताम् वरः ॥ ६७ ॥

प्रतिप्रयातस्साकेतम् पुष्पकेन प्रभूत्तमः ।

मध्येमार्गे हनुमतो दृष्टवान् सर उत्तमम् ॥ ६८ ॥

हेमशैलेन्द्रशृङ्गस्य मूर्ध्नि प्राग्दिशि भास्वतः ।

निर्मले तु शिलापृष्ठे समुल्लसति वारिणि ॥ ६९ ॥

हनूमताभिलषितस्स्नानम् चक्रे रघूत्तमः |

राघवस्तु तदा स्नातः सभार्यस्तत्र वारिणि ॥ ७० ॥

वलीमुखान् पुरस्कृत्य वाचमूचे सुधामयीम् ।

राघवः –
पवित्रमुदकम् सेव्यम् सर्वैरपि वलीमुखैः ॥ ७१ ॥
विशिष्य हनुमत्सेव्यम् सर्वदा प्रभविष्यति ।

यतोऽभिलाषी हनुमानत्रत्ये तीर्थसत्तमे ॥ ७२ ॥

अतो हनुमतस्तीर्थम् व्याहरन्ति पूराविदः ।
अगस्त्यः –
इति कृत्वाऽभिधाम् तस्य तीर्थस्य भरताग्रजः ॥ ७३ ॥
पुष्पकम् तत्समारुह्य प्रययावुत्तराम् दिशम् ।

तत्र प्रातोत्थितः काले स्नात्वा शैलप्रदक्षिणम् ॥ ७४ ॥

कुरुते यो निराहारम् तस्य किम् नाम नो भवेत् ।

ते च तस्योत्तरे शृङ्गे धर्मपुत्रादयो नृप ॥ ७५ ॥

महामुनिम् पुरस्कृत्य तपाम्सि परिकुर्वते ।

तेषाम् च द्रौपती नित्यम् शुश्रूषणपरा सती ॥ ७६ ॥

जनन्या पूर्ववाक्यानि पुण्यान्यभ्यनुगच्छती ।

तपः कुर्वन्ति नियताहाराशङ्करचोदिताः ॥ ७७ ॥

दुर्योधनवधार्थाय नृहरिप्रीणनाय च ।

अर्जुनेन तपस्तीव्रम् कृष्णसारथ्यमिच्छता ॥ ७८ ॥
अस्त्रम् नारायणम् चापि क्रियते सुदुरासदम् ।

तत्र तीर्थोत्तमम् नाम पाण्डवानाम् सरः कृतम् ॥ ७९ ॥

पाण्डवाधिष्ठितत्वेन पाण्डवोदम् च तद्विदुः ।

तत्र पाण्डवतीर्थे यः प्रातस्स्नातो जितेन्द्रियः ॥ ८० ॥

पुण्यम् तत्समवाप्नोति गोसहस्रप्रदायिनाम् ।

यस्तु पूजयते मोहात्तज्ज्ञात्वा नृहरिम् पुमान् ॥ ८१ ॥
राघवः –
शिलायाम् वा दारुणीह स तन्न सुखमेधते ।

चरन्तस्तापसीवृत्तिम् सहधर्मसुतादिभिः ॥ ८२ ॥

आविर्भावम् प्रतीक्ष्यन्ते नृहरेर्निर्जरा द्विजाः ।

दूर्वासमुनिना शप्तस्तेषाम् तु प्रपितामहः ॥ ८३ ॥

बुधो नाम तपस्तत्र कुर्वन् प्रायात्पुनर्दिवम् ।

सोमस्यापि पिता स्वामी भगवानत्रिगोत्रभूः ॥ ८४ ॥

वामदेवः –
शम्स मे तत् कथम् तेन ऋषिणा शापितो बुधः ।
अगस्त्यः –
दूर्वासस्तपसा श्रेष्ठो रोषशीलस्सतामसः ॥ ८५ ॥
कदाचिद्धेमशैलेन्द्रम् प्राप्तवान् नृहरेः पदम् ।

हेमकोटिविमानस्थम् प्रणमन्नृहरिम् तदा ॥ ८६ ॥

तद्दत्ततुलसीमालाम् शिलालङ्कारिणीम् व्यधात् ।

पुनरादाय ताम् कर्णे कण्ठे कट्याम् भुजे तथा ॥ ८७ ॥

कुर्वाणम् तु बुधो वीक्ष्य जहास स्तम्भपार्श्वतः ।

दूर्वासास्तपसा श्रेष्ठो रोषशीलस्सतामसः ॥ ८८ ॥
तम् नृसिम्हस्य पुरतस्सुरर्षीणाम् पुरस्तदा ।

हसन्तम् बुधमुद्वीक्ष्य दुर्वासा इदमब्रवीत् ॥ ८९ ॥

दुर्वासः –
दुर्बुद्धे हरिणादत्तमालालङ्कारिणो मम ।

अकार्षीत् स्मितमत्यन्तम् यतो भगवतः पुरा ॥ ९० ॥

तस्माद्द्वादश वर्षाणि भवान् भूमौ वसिष्यति ।

अलभ्या भगवन्माला प्रसादात्प्रीणनादृते ॥ ९१ ॥

पुनरभ्येष्यसि दिवम् नृहरिप्रीणनेन वै ।

ग्रहाणामाधिपत्य त्वाम् कल्प्यते चन्द्रमस्सुत ॥ ९२ ॥
अगस्त्यः –

इति सम्शापितस्सौम्यश्शृङ्गेऽस्मिन् हेमभूभृतः ।

तीर्थोत्तमे नगश्रेष्ठे स्नात्वा तेपे महत्तपः ॥ ९३ ॥

तस्य द्वादशवर्षाणि नृहरेस्सुप्रसादतः ।

निमेष इव नीतानि बुधस्य परमात्मनः ॥ ९४ ॥

नृहरेरस्य सान्निध्यात् स्वयम् स्वस्थ्यमविन्दत ।

बुधवारे तु यस्स्नाति समाहितमना नरः ॥ ९५ ॥

ऋषिभिस्तूयमानस्तु स याति परमाम् गतिम् ।

सर्वत्रैवम् प्रियम् ब्रूयात् पाण्डवोदे वसन्पुमान् ॥ ९६ ॥

अहितम् नाभिभाषेत सर्वत्रैव क्षमी भवेत् ।

तिन्त्रिणीतरवस्तत्र रोहिता बहवो नरैः ॥ ९७ ॥.

न्यघ्रोधाश्च वटा नागा यूधिकाश्च सहस्रशः ।

चाम्पेयाश्चम्पका बिल्वा मन्दाराश्चार्जुनास्तथा ॥ ९८ ॥

कुन्दाश्च कोविदाराश्च तरवो हृदयङ्गमाः ।

उद्वहन् पवनश्चात्र तेषाम् गन्धम् पदे पदे ।

विश्रमम् हरते तेषाम् तपस्तीव्रम् प्रकुर्वताम् ॥ ९९ ॥

इति ब्रह्मकैवर्त्ते उत्तरखण्डे भृगुपराशरसम्वादे घटिकाचलमाहात्म्ये दशमोऽध्यायः ॥

एकादशोsध्यायः

अगस्त्यः –
गिरेः प्रदक्षिणम् कार्यम् पुम्साम् यत्किञ्चिदिच्छता ।

ब्रह्मतीर्थादिकास्सर्वास्स्नातव्या दीर्घिकास्सदा ॥ १ ॥

महादेवः –
कस्मिन् तीर्थे कृतस्नानः कर्म विद्वान् लभेत् सदा ।

प्रदक्षिणम् प्रकुरुते गिरेरस्य तटे तथा ॥ २ ॥

अगस्त्यः –
प्रदक्षिणद्वयम् तत्र विज्ञेयम् नगसत्तमे ।

महाप्रदक्षिणम् विद्वानान्तरम् च यथाक्रमम् ॥ ३ ॥

महाप्रदक्षिणम् वक्ष्ये सावधानं निबोधय ।

यत्कृत्वा शौनकाद्यास्ते नृहरेराजगाम ह ॥ ४ ॥

त्रिपुरस्थपतिः प्राक् च प्राक्पथे द्व्यङ्कणाश्रमः ।

तमिन्द्रमिति विख्यातम् तद्गतम् दक्षिणापथे ॥ ५ ॥

हेमशैलस्य शृङ्गे तु दृश्यते विविधद्रुमे ।

यस्मिन् तपस्यते शुक्रः वह्निकुण्डस्य पश्चिमे ॥ ६ ॥

तस्य दक्षिणदिग्भागे ममाश्रम उदाहृतः ।

दृष्टमात्रस्त्वया ब्रह्मन् मत्तीर्थे गिरिगैरिके ॥ ७ ॥

एतस्य पश्चिमपथे नन्दिग्राम इति श्रुतः ।

दूर्वासास्तत्र सततम् तपते ऋषिशेखरः ॥ ८ ॥

नीलोत्फलसमाकीर्णम् कारण्डवनिषेवितम् ।

तिष्ठते तत्र वै तीर्थम् सोमकुण्डमिति श्रुतम् ॥ ९ ॥

चिरिबिल्वाश्च बिल्वाश्च सिन्धुवारा महाद्रुमाः ।

शोभन्ते ऋषयो यत्र दूर्वासाद्या उपासते ॥ १० ॥

तस्याविदूरे धर्मात्मन् महाकाञ्चीति विश्रुता ।

वसते तत्र मद्भ्राता श्रुततीव्रतपा इति ॥ ११ ॥

तत्र पद्मसरोनाम प्राचीनम् परिदृश्यते ।

जलनागा जलव्याला जलमत्स्या वसन्ति ते ॥ १२ ॥

स्नातुकामान् ऋषीन् सर्वान्न बाधन्ते तदाज्ञया ।

तत्तीरे कुटजा: कूटशाल्मलीतरवस्तथा ॥ १३ ॥

पाटलीपनसाश्वत्थनीपनागाः कपित्थकाः ।

स्वच्छच्छाया: प्रदृश्यन्ते पुष्पोदयफलोदयाः ॥ १४ ॥

अस्माकमपि तत्रैव राजते जातुचिन्मनः ।

पुरा मुनिवरस्तत्र कञ्चित्कालम् मया स्थितम् ॥ १५ ॥

बिसिन्यास्तूत्तरे तीरे बहुभिर्मुनिपुङ्गवैः ।

तत्र रामस्सह भ्रात्रा ततः प्रादुरभून्मुने ॥ १६ ॥

राममिन्दीवरश्याममाविर्भूतम् मदन्तिके ।

आजानुलम्बितभुजमासीनम् देवमुज्जवलम् ॥ १७ ॥

चीरकृष्णाम्बरधरम् जटिलम् सुमहत्प्रभम् ।

अवलोक्य पटैर्दिव्यैः पूजामकरवम् तदा ॥ १८ ॥

दशाननवधार्थाय सोऽहम् राममुपादिशम् ।

अस्त्रम् चानुमयात्तस्मै भ्रात्रा सह निषेवते ॥ १९ ॥

तत्र तेन सह भ्रात्रा स्नातुम् सरसि निर्मले ।

मयानुज्ञापितो रामो दशास्यमजयद्रणे ॥ २० ॥

तत्र गन्धर्वपतयो मोचिता मदनुग्रहात् ।

हेमाङ्गदश्चित्ररथो हेमकेशो महारथः ॥ २१ ॥

श्वेतकेतुश्च पञ्चैते गन्धर्वाणाम् धुरिस्थिताः ।

दत्तात्रेयाद्वरम् लब्ध्वा दुर्मदा निवसन्ति वै ॥ २२ ॥

दत्तदत्तवरास्सर्वे मदमत्तहृदस्तदा ।

स वयोभिश्च सन्नद्धैश्चापतूणीधरैश्च तैः ॥ २३ ॥

ते कदाचिद्दुरात्मानः ब्रह्मलोकजिगीषया ।

धर्मराजपुरीम् याता गन्धर्वपतयस्तदा ॥ २४ ॥

किङ्कराम्श्शतशो दृष्ट्वा बाधमानान्विनादितान् ।

सर्वान्नरान् रौरवके नरकेषु निपातितान् ॥ २५ ॥

श्रुत्वा हाहाकृतम् तत्र नरकस्थैर्जनैः कृतम् ।

तत्क्रोधवशमापन्नाः किङ्करानिदमब्रुवन् ॥ २६ ॥

हे किङ्करा भवन्तः के बाधन्ते वा जनानिमान् ।

कस्य वा शासनम् गृह्यनोऽभिशम्सत निश्चयम् ॥ २७ ॥

किङ्करास्ते महात्मानो भृत्या राजवशे स्थिताः ।

अलक्षीकृत्य गन्धर्वान् बाधन्ते निरये नरान् ॥ २८ ॥

ते दृष्ट्वा दुर्वरान् दग्धान् वरमत्तान्महात्मनः ।

किङ्करा लक्षयन्तो वै कूटमुद्गरपाणयः ॥ २९ ॥

पुष्टा प्रमुमुचुस्तेषु शरानासीविषोपमान् ।

पट्टसान्भिण्डिवालाम्श्च तोमराम्श्छास्त्रसत्तमान् ॥ ३० ॥

विमुच्य तेषु सर्वेषु वितन्वति महास्वरम् ।

किङ्कराश्च मृधङ्कृत्वा चिराय सुमहाबलाः ॥ ३१ ॥

जेतुम् गन्धर्वराजेन्द्रान् न शेकुस्तत्र सर्वशः ।

गन्धर्वैश्च विनिर्मुक्ता निष्टप्ताश्शरपीडिताः ॥ ३२ ॥

शरणम् धर्मराजानम् किङ्करास्समुपाययुः ।

गन्धर्वपतयो मत्ता इति वाचम् प्रशम्सिनः ॥ ३३ ॥

नरकान्मोचितास्सर्वे नरा इत्यभिशम्सतः ।

स तानालोक्य धर्मात्मा पितृणामीश्वरस्तदा ॥ ३४ ॥

विज्ञाय धर्मराजस्तु दत्तात्रेयजरोदितान् ।

मदेन मुदितान् सर्वान् हेमाङ्गदमुखान् तदा ॥ ३५ ॥

मृत्युम् कृत्वा पुरःकालः कालदण्डम् प्रगृह्य वै ।

निर्गत्य सह सैन्येन कोपाविष्टः परेतराट् ॥ ३६ ॥

ममाथ कालदण्डेन गन्धर्वेन्द्रान्विगर्वितान् ।

कालदण्डेन मथितान् गन्धर्वेन्द्रान्विगर्वितान् ॥ ३७ ॥

कालत्रिकोऽपि तम् दृष्ट्वा दत्तात्रेय व्यचिन्तयत् ।

विचिन्त्य सुचिरम् कालम् माम् तीव्रतपसि स्थितम् ॥ ३८ ॥

वसन्तम् तत्र सम्प्रेक्ष्य प्रत्यक्षमिदमूचिवान् ।

दत्तात्रेयः –
मया दत्तवरा: केच गन्धर्वाणाम् तरस्विनाम् ॥ ३९ ॥
पतयः पञ्चनगरीम् गता धर्मपतेरमी ।

तान्वीक्ष्य सुदुराधर्षान् कालकिङ्करचोदितः ॥ ४० ॥

दण्डमुद्यम्य चोद्युक्तः प्रहर्तुम् मुनिपुङ्गव ।

कालदण्डो दुराधर्षो भविता च वचो मम ॥ ४१ ॥

यथार्हति तथा त्वम् वै कुरु तत्र गतो मुने ।

स्वामिबुद्धिम् विधधते त्वयि सर्वे सुरर्षयः ॥ ४२ ॥

यतो नरहरिस्साक्षादध्यास्ते भवदाशये ।

इत्यहम् बोधितस्तेन धर्मराजमुपेत्य वै ॥ ४३ ॥

दत्ताज्ञाम् च पुरस्कृत्य गन्धर्वाम्श्च व्यमोचयः ।

मया सुबोधिता ह्येते धर्मराजाद्विमोचिताः ॥ ४४ ॥

पञ्चगन्धर्वपतयो न्यवसन् भ्रातुराश्रमे ।

ते मया बोधिता नित्यम् धर्म्यम् पन्थानमाश्रिताः ॥ ४५ ॥

कृतावगाहाः पद्मोदे ब्रह्मर्षिगणसेविताः ।

उषित्वा सुचिरम् कालम् तपः कृत्वा सुदारुणम् ॥ ४६ ॥
विधूतमददुर्गर्वाः प्रयातास्स्वाम् पुरी पुरा ।

तत्र ये पितृदेवाम्स्तु तर्पयन्ति द्विजर्षभाः ॥ ४७ ॥
तुलसीकाननम् ये वै बिल्वानारोपयन्ति ये ।

ते सर्वे मत्प्रसादेन मम भ्रातुश्च वैभवात् ॥ ४८ ॥

नृहरौ भक्तिमन्तस्तु सात्विकाः प्रभवन्ति वै ।

पश्चिमे तस्य दृश्यन्ते वृक्षा गगनहेलिनः ॥ ५०

सततम् फलपूर्णास्तु पूर्णास्सर्वर्षिसत्तमैः ।

ते तु वाल्मीकिना सम्यग्वर्धिता मुनिना सदा ॥ ५१ ॥

शाखोपशाखा शोभन्ते भूरुहः पुष्पशालिनः ।

वाल्मीकेराश्रमपदम् तत्रैव प्रतिभासते ॥ ५२ ॥

कुर्वन्ति नियताहारास्तपो यत्र सुरर्षयः ।

पुरा स ऋषिशार्दूलस्तपस्तेपे महातपाः ॥ ५३ ॥

सप्ताशीतिसहस्राणि वर्षाणि नियतव्रतः ।

निरास्थस्य मुनेस्तस्य जलपर्णाशनादिषु ॥ ५४ ॥

वल्मीकभूतदेहस्तु सर्वाणामभवत् पदम् ।

तस्मिन् काले प्रजानाथो नारदेन प्रचोदितः ॥ ५५ ॥

तस्याश्रमपदव भेजे सरस्वत्या पितामहः ।

वीक्षमाणो दिशस्सर्वा ववशपुञ्चमवैक्षत ॥ ५६ ॥

तत्र वल्मीकभवनम् प्रजानाम् पतिरुत्तमम् ।

स विस्मयाकुलो वाणीमभाणीदन्तिकस्थिताम् ॥ ५७ ॥

ब्रह्मा –
प्रिये पश्य महात्मायमात्मानम् नावबुध्यते ।

ईदृशी भक्तिरन्येषाम् नृहरौ नैव केवलम् ॥ ५८ ॥

अयम् तु कुरुते तीव्रम् निराशी तप उत्तमम् ।

मयापि शङ्करेणापि दुरवापमिदम् प्रिये ॥ ५९ ॥

अगस्त्यः –
इत्युक्त्वा स गिराम् देवीम् वल्मीकस्य पदम् गतः ।

दैवतैस्स्तूयमानो वै प्राह गम्भीरया गिरा ॥ ६० ॥

उत्तिष्ठोत्तिष्ठ भद्रम् ते अस्माद्वाल्मीकतो मुने ।

चतुर्मुखोऽयमभ्येति भवदीयाश्रमम् पदम् ॥ ६१ ॥

इति सम्बोधितस्तस्य वचनैव महातपाः ।

तस्माद्वल्मीकतो मुक्तिस्सर्पस्त्वच इवाभवत् ॥ ६२ ॥

बहिर्निर्गत्य तेजस्वी कमण्डलुनवोदकैः ।

नयने मार्जयन् पार्श्वे ब्रह्माणम् दृष्टवान् मुनिः ॥ ६३ ॥

वाल्मी किः –
धातश्चेमानि भूतानि जायन्ते हि जगत्पते ।

येन जातानि जीवन्ति यत्प्रयान्ति नमोस्तु ते ॥ ६४ ॥

यतो वाचो निवर्तन्ते अप्राप्य मनसा सह ।

नमस्ते पूष्णिसम्स्थाय ब्रह्मणे परमेष्ठिने ॥ ६५ ॥

यस्याज्ञया तिष्ठतीदम् जगत् स्थावरजङ्गमम् ।

नमो वेदान्तवेद्याय ब्रह्मणे ते महात्मने ॥ ६६ ॥

भगवन् त्वन्मुखे भाति यथा गीर्देवता सती ।

इयम् हि सर्वभूतानाम् कुरुते स्वरभेदनम् ॥ ६७ ॥

पाशाङ्कुशधरा वाणी वीणापुस्तकधारिणी ।

एषा वसति सर्वेषु मुग्धकुन्देन्दुनिर्मला ॥ ६८ ॥

इयम् प्रसन्ना नृणाम् वै प्रवर्तयति सम्पदः ।

दीर्घमायुश्च निरतम् कविताम् च सुधामयीम् ॥ ६९ ॥

सुधास्वधास्वाहा स्तुतिश्च धृतिरेव च ।

गायत्र्यादीनि छन्दाम्सि ब्रह्मन्नस्याम् भवन्ति वै ॥ ७० ॥

ह्रीर्धीर्भीरपि सम्पुष्टिर्निद्रा हिम्सा तथा मतिः ।

इयम् देवी भगवती दुर्गा लक्ष्मी सरस्वती ॥ ७१ ॥
छाया सुवर्चला सेयम् एकाकी बहुरूपिणी ।

अगस्त्यः –

इति स्तुवन् मुनिश्रेष्ठः परमेष्ठिनमन्तिके ॥ ७२ ॥

अध्यासीनम् गिरा सार्थम् दण्डवत् प्रणनाम ह ।

उत्थाप्य भगवान् ब्रह्मा प्रणमन्तम् मुनीश्वरम् ॥ ७३ ॥

सम्स्थाप्य पार्श्वभागे तम् प्राह सूनृतया गिरा ।
ब्रह्मा –
अमुना तपसा भूम्ना यस्माद्वल्मीकतो जनिः ॥ ७४ ॥
अभवत्ते ततस्सद्भिस्तस्माद्वाल्मीकिरुच्यते ।

इत्थम् निर्गलिता वाणी वाल्मीके भवतो मुखात् ॥ ७५ ॥

पुरा हि मा निषादेति श्लोकरूपिण्यनुत्तमा ।

व्याकुलस्त्वम् नदीतीरे किमेतदिति चिन्तया ॥ ७६ ॥

मुनिस्तु वैणिको ब्रह्मन् तदा ते निकटम् गतः ।

तद्वाक्यान्नृहरेः पादे शैलस्य क्रियते तपः ॥ ७७ ॥

आनुपूर्व्येण भगवानेष ते बोधयिष्यति ।

तदहम् वचसाम् देव्यास्सर्वैरपि सुरोत्तमैः ॥ ७८ ॥

तव प्रज्ञाम् च कीर्तिम् च दातुकाम इहागतः ।

अद्य प्रभृति कीर्तिस्ते ब्रह्मन् तेजो मदीप्स्यसि ॥ ७९ ॥

वचो देवी भवद्वक्त्रे प्रादुर्भवति भारती ।

ब्राह्मणैः क्षत्रियैर्वैश्यशूद्रैरपि समाद्रुतम् ॥ ८० ॥

काव्यम् रामायणम् नाम करिष्यति भवान् मुने ।

अनन्यसुलभा कीर्तिस्ते समाविर्भविष्यति ॥ ८१ ॥

भविताssदिकविस्त्वम् हि त्रिषु लोकेषु विश्रुतः ।
अगस्त्यः –
मन्त्रपूतम् जलम् गृह्य कमण्डलुमुखाच्च्युतम् ॥ ८२ ॥
सारस्वतमनुम् तस्मै सोपदेश्य दिवम् गतः ।

सारस्वतमनुम् ग्राह्य ब्रह्मणो वचनाच्च्युतम् ॥ ८३ ॥

गिराम् देवीम् मनसि वै सम्स्थाप्य ध्यानमास्थितः ।

गिराम् देव्यनुभावेन वाल्मीकिर्मुनिपुङ्गवः ॥ ८४ ॥

कृत्स्नम् रामायणम् तत्र व्याकरोन्नृहरेः पदे ।

तस्याश्रमपदे तीर्थम् रामनामाङ्कितम् महत् ॥ ८५ ॥

तत्तीरे भूरुहः पञ्च पुष्पिणः फलिनस्सदा ।

आम्रः कपित्थः पनसो नारिकेलोऽथ जम्बुकः ॥ ८६ ॥

इमे हि पञ्च तरव ऋषीन् सम्प्रीणयन्ति वै ।

तस्योत्तरस्याम् दिशि वै शिलाकूट इति श्रुतः ॥ ८७ ॥

यस्तु योगनृसिम्हादेः पादोत्तम इतीर्यते ।

तत्र सर्वेषु च स्वैरम् षड्जस्वरविहारिणः ॥ ८८ ॥

बर्हिणः परिहृष्यन्तः परिनृत्यन्ति सर्वशः ।

स तनोति तपस्तीव्रम् मन्ता तत्र ऋषीश्चरः ।

यस्य विष्णुश्च रुद्रश्च ब्रह्मा तनुभुवः पुरा ॥ ८९ ॥

इति ब्रह्मकैवर्त्ते उत्तरखण्डे भृगुपराशरसम्वादे घटिकाचलमाहात्म्ये एकादशोऽध्यायः

द्वादशोऽध्यायः

वामदेवः –
ब्रह्मन् ब्रह्मादयो देवास्सङ्गताः पुत्रताम् पुरा ।

अत्रेरस्य प्रभावम् वै वद मे वदताम् वर ॥ १ ॥

अगस्त्यः –
पुरा तु सिम्हलद्वीपे सिन्धुद्वीपर्षिचोदितः ।

और्वो नाम तपस्श्रेष्ठः पुत्रकानम्श्चकोर ह ॥ २ ॥

निराहारो जितक्रोधो यस्मिन् पुष्करसत्तमे ।

स ब्रह्मर्षिगणैरीड्यो विष्णुभक्तिपरोऽभवत् ॥ ३ ॥

वैष्णवोऽसौ द्विजातेषु दृष्टेषु भरतर्षभ ।

सम्फुल्लमानस्तपसे स क्षेत्रस्तापसस्सदा ॥ ४ ॥

सताम् प्रीणयते नित्यमनाहारो जितेन्द्रियः ।

जितामर्षो जितोऽयस्तु विष्णुभक्तिपरायणः ॥ ५ ॥

और्वस्त्रिषवणस्नायी वासुदेवकृताशयः ।

त्रिसन्ध्यम् वन्द्यमानो वै वैष्णवानृषिसत्तमान् ॥ ६ ॥

तस्य शुश्रूषते भार्या श्रुतकीर्तिरिति प्रिया ।

अरुन्धतीव भर्तारमनिन्द्यगुणशालिनी ॥ ७ ॥

भर्तुर्विलम्बमसहा भर्त्रनन्तरभोजिनी ।

भर्तुर्विलोकनपरा नित्यम् भर्तृहिते रता ॥ ८ ॥
सा सत्यवादिनी साध्वी विष्णुभक्तसहोदरी ।

उपास्ते पुत्रकामा वै वैष्णवाम्श्च द्विजर्षभान् ॥ ९ ॥

ते सर्वे ऋषयस्तत्र वैष्णवाः पुत्रमिच्छतोः ।

दम्पत्योर्विनमन्त्योर्वै व्रतम् वीक्ष्येदमब्रुवन् ॥ १० ॥

ऋषयः –
यद्वयम् वैष्णवा विष्णो यद्वयम् वेदवादिनः ।

वाक्कायमनसैः शुद्धाः प्रसन्नो भविता भवान् ॥ ११ ॥

षट्किम्बन्धमया देवा गौरवम् ग्रहणम् तथा ।

अनुल्लङ्घितमस्माभिः प्रसन्नो भविता भवान् ॥ १२ ॥

तत्कृत्वा भक्तिरन्यासु देवतासु कदाचन ।

कृता न चेद्यदास्माभिः प्रसन्नो भविता भवान् ॥ १३ ॥

कायेन मनसा वाचाप्याचार्ये दैवते गुरौ ।

भक्तिमन्तो यदि वयम् प्रसन्नो भविता भवान् ॥ १४ ॥

विद्यावृत्तम् विबोधो वा विनयो वाऽथ शेमुषी ।

धर्मस्सत्यम् सदास्मासु प्रसन्नो भविता भवान् ॥ १५ ॥

परदारपरद्रव्य परहिम्सापराङ्मुखाः ।

वयम् यदि महाविष्णो प्रसन्नो भविता भवान् ॥ १६ ॥

जिता यद्यरयो देव जिता यदि षडूर्मयः ।

प्रीतिः कृता चेत् सर्वत्र प्रसन्नो भविता भवान् ॥ १७ ॥

अगस्त्यः –
इत्थम् प्रबोधितो विष्णुर्लक्ष्मीवान् शुभलक्षणः ।

प्रादुर्भवन्नाह गिरा तेषामग्रे प्रसन्नया ॥ १८ ॥
भगवान् –
त्वद्विधा वैष्णवा लोके न भवन्ति कदाचन ।

प्रसन्नो भवतामग्रे वाञ्छितम् करवाण्यहम् ॥ १९ ॥

ऋषयः –
यदि प्रसन्नो भगवानस्माकम् पुरतो भवान् ।

और्वाय पुत्रसम्पत्तिर्दीयताम् निरवग्रहा ॥ २० ॥

श्रीभगवान् –
अथाह तान् महानासीज्जम्बूद्वीपे महर्षयः ।

हनुमत्पर्वतो नाम तत्रास्ते मम वासभूः ॥ २१ ॥

चतुर्दशास्य शृङ्गाणि प्रसेव्यन्ते सुरर्षिभिः ।

तेषु द्वे शिखरे रम्ये सनकादिनिषेविते ॥ २२ ॥

तत्र दक्षिणशृङ्गाग्रे ममैव भवनम् विदुः ।

तत्र ब्रह्मर्षिदेवर्षिपूजितम् भवसेवितम् ॥ २३ ॥

हिरण्मयम् तद्विमानम् हेमकोटीति विश्रुतम् ।

पुराऽहम् प्रार्थितो देवैर्हिरण्यनिधनेच्छुभिः ॥ २४ ॥

सिम्हरूपम् समास्थाय मया तस्य वधः कृतः ।

तदा सर्वा मिलित्वा वै देवता इदमूचिरे ॥ २५ ॥

नरोत्तमार्थे भगवान् नरसिम्हाभिधो भवान् ।

इदम् तत्त्वाभिधाम् गृह्य देवास्सेन्द्रास्सहर्षिभिः ॥ २६ ॥

स्तुवन्ते हृष्टमनसः प्राप्नुवन्ति यथागतम् ।

हिरण्यकशिपोः पुत्रः प्रह्लाद इति विश्रुतः ॥ २७ ॥

आजन्मसिद्धमद्भक्तिपरिणामप्रसन्नधीः ।

इदम् होवाच मामेत्य बालः प्रह्लादनो नृणाम् ॥ २८ ॥
प्रह्लादः –
विष्णो भीममिदम् रूपम् सम्हरेति स भक्तिमान् ।

प्रशान्तो योगनृहरिस्तदा तेन प्रबोधितः ॥ २९ ॥

सात्विको भावमव्यग्रस्सर्वर्षिगणसेवितः ।

सम्योगम् हृदये कृत्वा कर्म कर्मविदाम् वरः ॥ ३० ॥

अहम् हनुमतश्शैलम् प्रह्लादेन प्रचोदितः ।

तत्र भक्तपराधीनो हेमकोटिविमानगः ॥ ३१ ॥

प्रादुर्भूतस्तु तत्राहम् प्रददामि शुभम् नृणाम् ।

बिम्बो मे सर्वदा तत्र हेमकोट्याम् विराजते ॥ ३२ ॥

यथा सन्निहितस्तत्र तथा प्रादुर्भवाम्यहम् ।

शुकादयस्तु ऋषयो भवितारो मुमुक्षवः ॥ ३३ ॥

तपाम्सि कुर्वते तत्र मद्भक्ता मत्परायणाः ।

वसिष्ठाद्याश्च ऋषयस्सप्तसप्तार्चिरर्चिषः ॥ ३४ ॥

सामीप्यम् प्राप्तुकामास्तु कुर्वते केवलम् तपः ।

चतुर्णाम् पुरुषार्थानाम् काङ्क्षिणश्च पृथक्पृथक् ॥ ३५ ॥

कतिचित्पर्णभक्षास्तु चरन्ति तप उत्तमम् ।

सान्निध्यम् कर्तुकामोऽहम् हेमकोटिपदे स्थितः ॥ ३६ ॥

प्रीणयिष्यामि सततम् ब्रह्मर्षीन् भावितात्मनः ।

वसिष्ठः कश्यपश्चात्रिर्जमदग्निश्च गौतमः ॥ ३७ ॥

भरद्वाजोऽपि धर्मात्मा तपस्यति शिलोच्चये ।

सवित्रैर्वाभ्यनुज्ञातो ब्राह्म्यमिच्छन् महातपाः ॥ ३८ ॥

विश्वामित्रस्तु हनुमच्छैलराजमुपेष्यति ।

शैलस्य पश्चिमपथे शिलाकूटे महर्षिभिः ॥ ३९ ॥

पूज्यमानस्तपस्तीव्रम् मन्त्रिराट् तनुते सुधीः ।

सम्स्तुतो यदि धर्मात्मा तपस्तीव्रो जितेन्द्रियः ॥ ४० ॥

सभार्याय प्रजाम् स्निग्धामत्रिरूर्वाय दास्यति ।

अहम् च तुष्टो देवर्षिगणवाक्येन चोदितः ॥ ४१ ॥
अत्रेः पुत्रत्वमापन्नो मार्जये पैतृकम् ऋणम् ।
अगस्त्यः –
इत्युक्त्वा भगवान् तान् वै सनकादिप्रपूजितः ॥ ४२ ॥

लक्ष्म्या सह हृषीकेशश्शीघ्रमन्तरधीयत ।

अथ ते ऋषयस्तत्र वत्साद्या हष्टचेतसः ॥ ४३ ॥

ऊचुः प्रसन्नया वाचा तमौर्वम् ऋषिसत्तमम् ।
ऋषयः –
श्रुता हि भगवद्वाचा भवता ऋषिसत्तम ॥ ४४ ॥
गच्छ शीघ्रम् महाशैलमत्रेराश्रममुत्तमम् ।
अगस्त्यः –
इति सम्सूचितस्त्वौर्वः पुत्रार्थम् सह भार्यया ॥ ४५ ॥

अत्रेराश्रममासाद्य लब्धवान् पुत्रमुज्ज्वलम् ।

एतस्याश्रममभ्येत्य स्नाति वज्रसरोजले ॥ ४६ ॥

अत्रेः प्रसादात् सर्वे ते लभन्ते पुत्रसम्पदः ।

नारङ्गा नारिकेलाश्च पूगा जम्बीरजम्बवः ॥ ४७ ॥

रसालामलकाश्चात्र सर्वे च फलशालिनः ।

तस्य शीलवती नाम कन्याऽत्रेर्भाविणात्मनम् ॥ ४८ ॥

स दक्षिणाम् गतश्चाशामौर्वोऽत्युग्रतपामुनिः ।

सुवर्च इव मार्ताण्डमुद्वाह्योग्रतपो मुनिः ॥ ४९ ॥

तस्या भर्ता सुदुष्टात्माऽन्यस्त्रीसक्तमनास्सदा ।

ताम्रपर्णानदीतीरे वासम् चक्रे सुदुर्मदः ॥ ५० ॥

तथापि तस्य शुश्रूषाम् कुरुते धर्मचारिणी ।

सदा व्यग्रमनास्साध्वी भर्तुरीप्सितकर्मसु ॥ ५१ ॥

केनचित् त्वथकालेन तस्योग्रतपसो मुनेः ।

अगम्यागमनद्वारा व्याधिरासीद्दुरासदा ॥ ५२ ॥

बहिर्निर्गमने शक्तिर्नैव तस्य बभूव ह ।

आहारादौ स्पृहा नैव फलादीनाम् मुनेरभूत् ॥ ५३ ॥

यत्र वेश्योद्भवा गीता यत्र गीता मनोरमा ।

यत्र हास्यकथास्तत्र स करोति सदा मनः ॥ ५४ ॥

सन्ध्याकर्मसु नैवासीन्मनस्तस्य कदाचन ।

वेदाश्च विस्मृतास्तेन शास्त्राणि विविधानि च ॥ ५५ ॥

पूतिगन्धस्तुतस्याभूत् सर्वैरपि च दुस्सहः ।

कुत्सितम् वपुरास्थाय ग्राममध्ये स्थितोऽभवत् ॥ ५६ ॥

तस्य शीलवती भार्या सततम् प्रियभाषिणी ।

पदे पदे वीक्षमाणागृह्य प्रियमपोषयत् ॥ ५७ ॥

स्यन्दमानाञ्चलालाम् वै मार्जयन्ती पटाञ्चलात् ।

शोणितानि स कीटानि महाग्रन्थिशतानि च ॥ ५८ ॥

व्याधेः प्रतिक्रियामस्य कोऽपि लोके वदेत्प्रभुः ।

इत्यस्या महती चिन्ता यदा प्रादुरभून्मुने ॥ ५९ ॥

तदाsशरीरवचनमन्तरिक्षे बभूव ह ।

मा भीतिः क्रियताम् वत्से हरिष्यामि तव व्यथाम् ॥ ६० ॥

दिव्यञ्च रूपम् भर्तुस्ते प्रभविष्यति बालिके ।

त्वय्येव भर्ता निरतो रम्स्यते नात्र सम्शयः ॥ ६१ ॥

उत्तरस्याम् दिशि महान् दृश्यते हनुमद्गिरिः ।

तस्यैव भविता नाम घटिकाचल इत्यपि ॥ ६२ ॥
तत्रास्ते जनकस्तेऽत्रिरनसूया च तत्प्रिया ।

वत्से तत्पार्श्वमभ्येहि सर्वम् तद्वेदयिष्यति ॥ ६३ ॥

इत्यनुज्ञापिता साध्वी भर्तारम् गृह्य पाणिना ।

आरोपितकटीभर्त्रा प्रयया उत्तराम् दिशम् ॥ ६४ ॥

विज्ञातुमस्य माहात्म्यम् बहुशोऽभिप्रशोभितम् ।

नृहरिः कल्पयामास दूरमध्वानमात्मनः ॥ ६५ ॥

अनेकशतवर्षाणि गामिनी पथि भामिनी ।

साध्वी प्रगृह्य भर्तारम् चिन्तया सह दुःखिता ॥ ६६ ॥

मूर्छालुरेव भविता श्वोभूते व्याधिपीडितः ।

कुत्सितोsपि चिरायुर्वा जीवेदिति हि मे मतिः ॥ ६७ ॥

दीर्घमायुश्च ते भर्ता दिव्यरूपञ्च यास्यति ।

इति यद्युदितम् वाक्यम् नभसा किमु साम्प्रतम् ॥ ६८ ॥

कियद्दूरम् भगवतो नृहरेरचलस्य वा ।

अमुना हि वनेनाहम् शक्नुयान्न निषेवणे ॥ ६९ ॥

इति चिन्त्य वरारोहा भर्तुराज्ञास्पृहा सती ।

हुत्वा वह्निमुपस्थाय प्राब्रवीत्प्राञ्जलिस्तदा ॥ ७० ॥

शीलवती –
यदि प्रसन्नो भगवान् चित्रभानुर्मया हुतः ।

यद्यस्ति मयि साध्वी त्वम् मा भवित्री विभावरी ॥ ७१ ॥

अगस्त्यः –
इति सा शम्सिता देव्याशीलवत्या विभावरी ।

नालमागमनायाभूत्तपस्वी ब्राह्मिणीस्थलम् ॥ ७२ ॥

मार्ताण्डोत्थारुचिर्मध्ये नभः प्रतपदम्शुकः ।

द्विजर्षभस्तूयमानः पूज्यमानः पदे पदे ॥ ७३ ॥

त्रिमूर्तिरनघोऽचिन्त्यो द्वादशात्मा दिवाकरः ।

कर्मसाक्षी नभोमध्ये प्राम्शुको वै व्यजृम्भत ॥ ७४ ॥

चिरायमाणो मार्ताण्डो मध्ये व्योमपदम् तदा ।

ऋषयश्चिन्तयामासुर्यज्ञकर्मसु कोविदाः ॥ ७५ ॥

दिनानाम् सङ्ख्यया शून्याः ज्योतिष्टोमादिकाःक्रियाः ।

कर्तुम् न प्रभवोलोके ऋषयो धर्मचारिणः ॥ ७६ ॥

दुष्टात्मानस्तु मन्देहास्तदानीम् राक्षसाधमाः ।

वर्धते जनतास्सर्वा अर्घ्याभावेन गर्विणः ॥ ७७ ॥

स्वर्गात्प्रच्यावयन्ति स्म सेन्द्रानपि मरुद्गणान् ।

धनदञ्च महात्मानम् वरुणञ्च जलाधिपम् ॥ ७८ ॥

सर्वाधिपत्ये ते सर्वे मन्देहा नाम राक्षसाः ।

द्विजानामर्घ्यराहित्याद्दुश्चिन्ताश्च बभूविरे ॥ ७९ ॥

सन्ध्यासु ब्राह्मणाश्चापः त्रिरुर्ध्वम् विक्षिपन्ति हि ।

ता आपो वज्रसदृशाः मन्देहान्दारयन्ति हि ॥ ८० ॥

मन्त्रपूतार्घ्यराहित्या दुर्मदा गर्वभूषिताः ।

क्रुद्धास्ते राक्षसास्सर्वे बाधन्ते बहुशो जनान् ॥ ८१ ॥

तेषाम् महत्वम् विज्ञाय सेन्द्राविष्णुपुरस्सराः ।

ब्रह्माणम् शङ्करञ्चापि पुरस्कृत्य च देवताः ॥ ८२ ॥

ततो हनुमतश्शैलम् नृहरिस्थानमुत्तमम् ।

अभ्येत्य पश्चिमे शृङ्गे ददृशुर्मुनिसत्तमम् ॥ ८३ ॥

अनसूयामपि मुनेर्धर्मपत्नीम् यशस्विनीम् ।

ददृशुर्भक्तिनिरताम् छायामिव दिवाकरे ॥ ८४ ॥

अधावलोक्य ते सर्वे दिविस्थास्समुपागताः ।

अब्रुवन्निदमत्रेस्तु भामिनीम् धर्मचारिणीम् ॥ ८५ ॥

ब्रह्मविष्णुशिवा देवि त्वत्सन्निधिमुपागताः ।

अभ्येत्यैवासते पुण्यः त्वद्दाम्पत्यव्रतेन च ॥ ८६ ॥

अनसूये त्वया भर्त्रा निरसूयम् तपः कृतम् ।

इदानीम् फलितम् तत्ते श्रीनृसिम्हपदाश्रयात् ॥ ८७ ॥

इहावतीर्णा देवि त्वत्पार्श्वे नारायणादयः ।

देवा देवि प्रसादम् ते कीर्तिञ्च तपसाम् बलात् ॥ ८८ ॥

कन्या शीलवती याते तया सा शापिता निशा ।

शून्या भवेति यदि तन्मूर्छागमनशङ्कया ॥ ८९ ॥

तदाप्रभृति मन्देहा बाधन्ते ब्राह्मणानिमे ।

अनुस्मरन्तः पूर्वाणि वैराणि जगतीतले ॥ ९० ॥

त्वया मानयितव्या ते कन्या शीलवती सती ।

मानिता यदि सेदानीम् शर्वरीमुद्धरिष्यति ॥ ९१ ॥

ततो निशम्य ताम् वाचमनसूया सुधामयीम् ।

शिरस्यञ्जलिमाधाय प्राप्य कन्यामभाषत ॥ ९२ ॥

अनसूया –
प्रसिद्धकन्ये भवति प्रशम्स त्वम् निशाम् प्रति ।

आगच्छेति महाधर्मलोपो मा प्रास्यदाम् त्वया ॥ ९३ ॥

ब्रह्मादयोऽपि ते देवा इदमूचुरुपेत्य माम् ।

त्वद्दाम्पत्योद्धृतम् रक्षो बाधते जनता इति ॥ ९४ ॥

अगस्त्यः –
इति सम्बोधिता मात्रा तथेति प्रत्यभाषत ।

तस्मिन्नेव क्षणे शैलमद्राक्षीन्नृहरेः पदम् ॥ ९५ ॥

ततो देवा वरम् तस्यै मुनेरत्रेर्नतभ्रुवे ।

ददुस्ते पुत्रकामा ये पद्मनाभमुखास्तदा ॥ ९६ ॥

देवि प्रसन्नो भगवान् विष्णू रुद्रः पितामहः ।

एते त्रयो ह्यपत्यार्थे विनियुक्ता भवन्त्विमे ॥ ९७ ॥

इह वज्रसरो नाम शिलाकूटे विशोभते ।

अत्र स्नानेन तपसा वज्रिभूतो भविष्यति ॥ ९८ ॥

इति दत्वा वरम् तस्मै देवतास्स्वस्थचेतसः ।

ब्रह्मादयो महात्मानः प्रययुस्स्वस्वमन्दिरम् ॥ ९९ ॥

दूर्वासाश्शङ्करस्याम्शो दत्तात्रेयस्तु वैष्णवः ।

ब्रह्मा तु चन्द्रमा अत्रेः पुत्रत्वे तेऽभवम्स्तदा ॥ १०० ॥

स च तस्मिन् सरसि वै स्नातो विगतकल्मषः ।

वज्रीकृतशरीरोऽभूच्छीलवत्या मनोहरः ॥ १०१ ॥

वज्रपुष्करिणीमेत्य यस्स्नाति सह भार्यया ।

स पुत्रवान् चिरायुस्तु स भवत्यत्रिशासनात् ॥ १०२ ॥

तस्याः प्रागन्तरे पार्श्वे भरद्वाजाश्रमो महान् ।

बहुपादपसम्शोभी दृश्यते ऋषिसेवितः ॥ १०३ ॥

पुरा तत्र महाराजो भरतो नाम वीर्यवान् ।

साकेतवासी धर्मात्मा रघुवम्शविवर्धनः ॥ १०४ ॥

रावणापहृता भार्या ज्येष्टभ्रातुरितीर्षया ।

चतुरङ्गबलोपेतस्सहायकरणाय सः ॥ १०५ ॥

शत्रुघ्नेन सह भ्रात्रा सर्वशस्त्रभृताम् वरः ।

रथमारुह्य सैन्येन प्राप्तवान् स मुनेः पदम् ॥ १०६ ॥

भरद्वाजाश्रमपद प्राप्य रामानुजो बली ।

विसर्जयित्वा सैन्यानि तदाश्रमपदम् ययौ ॥ १०७ ॥

स निशम्य भरद्वाजम् शिष्यवाक्येन राघवः ।

प्राप्तस्सुमन्त्रिणा राजा शत्रुघ्नेनानुमोदितः ॥ १०८ ॥

अथ तौ मुनिशार्दूलौ राघवौ पदसेविनौ ।

प्रेक्षयामास तेजस्वी प्रहृष्टेनान्तरात्मना ॥ १०९ ॥

नृहरेस्तु प्रसादेन भरतस्य महात्मनः ।

स सैन्यस्य तथातिथ्यम् भरद्वाजश्चकार ह ॥ ११० ॥

पदे पदे वर्धमानैः फलमूलरसादिभिः ।

तोषयामास सर्वाम्स्तान् नृहरेरनुभावतः ॥ १११ ॥
पूजान्ते मुनिशार्दूलो विदित्वा स तदागमम् ।

रामानुजम् महात्मानमूचे मधुरया गिरा ॥ ११२ ॥
भरद्वाजः –
रामस्तवाग्रजो धर्मवत्सलो नयकोविदः ।

निहत्य रावणम् सङ्ख्ये स्वभार्याम् प्राप्नुवानि ह ॥ ११३ ॥

क्षिप्रमेष्यति धर्मात्मा सभार्यस्ससुहृद्गणः।

गृह्याग्रजन्मनोऽनुज्ञाम् रक्ष राज्यम् समेत्य वै ॥ ११४ ॥

अद्यागतोऽहम् नृपते सहागस्त्येन धीमता ।

रामरावणयोर्युद्धम् निरीक्ष्य सह देवतैः ॥ ११५ ॥

प्रतिगृह्य वचस्तस्य यातुकामः पुरीम् प्रति ।

इदम् होवाच भरतस्सत्कृतिम् श्लाघयन् वचः ॥ ११६ ॥

भरतः –
स्वामिन्नक्षौहिणी सेना तोषिता भवताऽनघ ।

आश्चर्यमेतद्वद मे तपः कीदृशमार्जितम् ॥ ११७ ॥

भरद्वाजः –
अयम् नृप महाशैलो दृश्यते धातुमण्डितः ।

अत्रास्ते भगवान्विष्णुस्सिम्हरूपीश्रिया सह ॥ ११८ ॥

अथ तस्योत्तरे पादे यो माया सेव्यते सदा ।

अत्र कल्हारसरसि नित्यम् कल्हारभूषिते ॥ ११९ ॥

तपस्यतामृषीणाम् वै किम् किम् न भविता नृप ।

ब्रह्मन्नृसिम्हशैलोऽयमद्य प्रभृति गण्यताम् ॥ १२० ॥

चिन्तामणिरिति स्वैरम् तृप्ता येन चिराद्वयम् ।
अगस्त्यः –
भरद्वाजाभ्यनुज्ञातो भरतस्सह सेनया ॥ १२१ ॥
हृष्टचेता सह भ्रात्रा साकेतम् प्रययौ तदा ।

तदा प्रभृति शैलोऽयम् चिन्तामणिरितीर्यते ॥ १२२ ॥

ये तपस्यन्ति शैलेऽस्मिन् तपस्विष्वीप्सितप्रदे ।

कुर्वते ये तपस्तत्र कल्हारोदनिषेविणः ॥ १२३ ॥

चिन्तामणीशसान्निध्यान्नित्यतृप्ता भवन्ति हि ।

नृसिम्हनगरी तस्य पुरो भागे महामते ॥ १२४ ॥

दृश्यते विष्णुभक्तानामास्पदम् भावितात्मनाम् ।

सुरथोनाम धर्मात्मा तिष्ठते पालयन्प्रजाः ॥ १२५ ॥

धनानामधिपो राजा ताम् पुरीमलकामिव ।

इतः परम् तु भविता इन्द्रद्युम्नो नृपोत्तमः ॥ १२६ ॥

सौरीमिव पुरीम् तत्र रक्षिष्यति पुरीमिमाम् ।

तत्र भक्तोचित इति प्रथाम् कृत्वा सह श्रिया ॥ १२७ ॥

कामिदम् पूरयन्नृणामास्ते नारायणस्स्वयम् ।

वसन्तकाले नृहरिग्रीष्मे तत्रावतारयेत् ॥ १२८ ॥

चिक्रीडतो श्रिया मासे मार्गशीर्षे तु फाल्गुणे ।

उत्सवानान्तु सप्तानाम् पदम् भक्तोचितस्स्वयम् ॥ १२९ ॥

अनुगृह्यति भूतानि तदायातानि भूतले ।

सप्तर्षिभिः कृता पूर्वम् इमे सप्त महोत्सवाः ॥ १३० ॥

पञ्चानामपि बिम्बानामुत्तमोऽयमुदीर्यते ।

अतो भक्तोचिते बिम्बे नित्यम् सन्निदधाति सः ॥ १३१ ॥

अत्र वैखानसानाम पूजकास्तु प्रकीर्तिताः ।

अभ्यर्हिताश्श्रीनृहरेर्वसन्त्यागमकोविदाः ॥ १३२ ॥

तत्र दीर्घसरो नाम सततम् दीर्घपङ्कजैः ।

तत्र दीर्घाश्च तरवः स्नाता दीर्घायुषो नराः ॥ १३३ ॥

गन्धर्वाणाञ्च मरुताम् किन्नराणाम् शतम् शतम् ।

बृन्दम् बृन्दम् च यक्षाणाम् चिक्रीडति सरस्तटे ॥ १३४ ॥
इमानि श्रीनृसिम्हाद्रिपादाश्रमपदानि च ।

प्रदक्षिणीकृत्य नरो मुच्यते सर्वकिल्बिषात् ॥ १३५ ॥

इदम् गिरेरस्य महाप्रदक्षिणम् प्रकुर्वते ये नृहरेरनुज्ञया ।

सुखी भवन्तो मनुजास्तथासुराश्चिरायुषो जाग्रति सद्भिरीडिताः ॥ १३६ ॥

गुरोर्मुखाद्यश्श्रृणुते महात्मा तच्छायमेतच्चिरभक्तिशाली ।

ददाति तस्मै नृहरिः प्रसन्नो ह्यायुश्च विद्याम् च यशश्च मुक्तिम् ॥ १३७ ॥

इति ब्रह्मकैवर्त्ते उत्तरखण्डे भृगुपराशरसम्वादे घटिकाचलमाहात्म्ये द्वादशोऽध्यायः

त्रयोदशोऽध्यायः

अगस्त्यः –
अतः परम् च वक्ष्येsहमान्तरम् च प्रदक्षिणम् ।

यत् कृत्वा लभते सर्वसम्पदो निरूपाधिकाः ॥ १ ॥

ब्रह्मणा सृष्टिकर्तृत्वम् कुबेरेण धनेशता ।

स्वर्गाधिपत्यमिन्द्रेण यत्कृत्वा प्रापितम् पुरा ॥ २ ॥

ब्रह्मतीर्थे पुरा स्नानम् कर्तव्यम् फलमिच्छता ।

वेदानध्यापयन्नास्ते यत्र शिष्याननेकशः ॥ ३ ॥

विश्वामित्रस्तु राजर्षिः ब्रह्मतेजोभिलाषवान् ।

तपाम्सि कृत्वा तत्रैव प्रादुरेष्यति सानुगः ॥ ४ ॥

कर्तव्यम् भैरवोदे च स्नानम् पुम्साभिलाषिणा ।

पुमर्थान् लभते तत्र चतुरश्चतुरोपि सः ॥ ५ ॥

अनन्तरम् हलावर्ते तपः कर्तव्यमेव हि ।

ततो गौतमतीर्थे वै स्नातव्यम् फलकाङ्क्षिभिः ॥ ६ ॥

तस्योत्तरे पथे भूमौ महावनमिति श्रुतम् ।

ऋक्षाणामधिपो यत्र तपश्चरति जाम्बवान् ॥ ७ ॥

तत्र जाम्बवती नाम कन्या तस्याभवन्मुने ।

यया तु भगवान् विष्णुर्लङ्घितप्रथमाश्रमः ॥ ८ ॥

पुरा जाम्बवती नाम कृष्णम् भर्तारमिच्छती ।

बोधिता वायुना तत्र तपः कृतवती महत् ॥ ९ ॥

काले तस्मिन्निरालम्बाम् निराहाराम् तपस्विनीम् |

वीक्ष्य विस्मयमापन्नो वराहः कोऽप्यचिन्तयत् ॥ १० ॥

वराहः –
अष्ट वर्षाणि कन्येयम् दुःश्चरम् तनुते तपः ।

अशक्यमीशानमुखैस्सुरैरेव न सम्शयः ॥ ११ ॥
जलम् पर्णम् फलम् वापि कन्दमूलम् तथादरात् ।

अयाचितव्रतानाम् वै दातव्यम् दर्शनक्षणात् ॥ १२ ॥

इतो हि दृश्यते वल्ली पूर्णकन्दा ह्यनिन्दिता ।

एतामुत्कृत्य कन्यायै एतस्मै प्रददाम्यहम् ॥ १३ ॥

अगस्त्यः –
इति सञ्चित्य पोत्रीन्द्रः धर्म्याम् पन्थानमाश्रितः ।

पाणिभ्याम् घोणया पद्भ्यामखनन्मेदिनीम् शनैः ॥ १४ ॥

खात्वा भूमिम् तदा कोलो घर्घरध्यानशोभितः ।

दीर्घकन्दाम् महावल्लीम् मन्दम् मन्दम् चकर्ष सः ॥ १५ ॥
लतायाम् गृह्यमाणायाम् मध्ये विघ्नो महानभूत् ।

पार्श्वस्था च शिला तत्र महती निरूपाधिकी ॥ १६ ॥

त्रुटिताभून्महावल्ली मध्येकूटम् तु पोत्रिणा ।

पोत्री च चिन्तयामास त्रुटिताम् तस्य वल्लरीम्  ॥ १७ ॥

चिन्तयित्वा वराहस्तु घोणयोद्धृत्य ताम् शिलाम्

करेण कन्दमुत्पाट्य व्यनैषीद्बहिरङ्कणम् ॥ १८ ॥

अथ दृष्ट्वा तु ताम् मूले भिद्यमानम् नवम् पयः ।

तत्रत्यै ऋषिभिर्दान्तैः प्रथमानम् सदा भवेत् ॥ १९ ॥

वनकोलस्तदा दृष्ट्वा ददर्श बिलमादरात् ।

पयः पत्रपुटे गृह्य सकन्दरसमेदुरम् ॥ २० ॥

ततः स्निग्धाम् जाम्बवर्ती निराहाराम् च कन्यकाम् ।

मुनिकन्याम् जनैर्दत्ते वस्तुन्यपि निराशयाम् ॥ २१ ॥

अनालम्बामनाधाराम् तारामिव भुवम् गताम् ।

केनापि हेतुनात्रत्याम् विद्यामिव निरामयीम् ॥ २२ ॥

गन्धर्वानुज्ञया तीर्णाम् कन्याम् वेदश्रुतीमिव ।

पार्वतीमिव भर्तारम् काङ्क्षिर्णी तपसि स्थिताम् ॥ २३ ॥

अनाविद्धामनाहारामष्टवर्षामनिन्दिताम् ।

समीक्ष्य ताम् ततस्तस्यै ददौ कन्दम् च वारि च ॥ २४ ॥

अनादरा सखीदत्तजीर्णपर्णाशनादिषु ।

वन्येन पोत्रिणा दत्तमादायेदमुवाच ह ॥ २५ ॥

जाम्बवती –
अहो वराहो भगवान् कथमीदृशकर्मणि ।

प्रकल्पिते किमेतद्धि शम्स मे त्वमन्यधीः ॥ २६ ॥

वराहः –
पुराऽभूद्दण्डको देशे वराहध्वजनामभाक् ।

राजा सर्वस्य लोकस्य रथकुञ्जरवाजिमान् ॥ २७ ॥

तस्याहमग्रजः पुत्रो नाम्ना सिम्हध्वजो युवा ।

जनकेनादृतो नित्यम् सर्वकर्मसु सम्मतः ॥ २८ ॥

यौवराज्याभिषिक्तोऽहम् गुरुणा नयशालिना ।

सर्वप्रीतिकरो नित्यम् वैरिवम्शविदारकः ॥ २९ ॥

कदाचिदुद्भटैरश्वैस्सन्नह्यैरपि कुञ्जरैः ।

यौवने समये गर्वी युवभिः परिवारितः ॥ ३० ॥

उद्भटैश्च भटैरश्वैः कोलाखेटविशारदैः ।

सायुधस्तुरगारूढः सोष्णिषो वनमेयिवान् ॥ ३१ ॥

मृगयासमये कोऽपि वराहः प्रत्यदृश्यत ।

स भयानुद्रुतः पार्श्वम् मुनेस्तण्डोरुपाविशत् ॥ ३२ ॥

मुनेश्शापादहम् तत्र सद्यः पोत्रीत्वमाप्तवान् ।

विज्ञाय सेना माम् तत्र पोत्रिरूपिणमञ्जसा ॥ ३३ ॥

प्रशशम्सेदमखिलम् भर्तुः पार्श्वमुपेत्य वै ।

निशम्य तद्वचस्सैन्यैः ज्ञायमानो वनम् गतः ॥ ३४ ॥

तण्डोरागमनाकाङ्क्षी प्रातिष्ठथ विचक्षणः ।

अथ शिष्येण केनापि सहायान्तम् महामुनिः ॥ ३५ ॥

वराहध्वजः –
स्यन्दनादवरुह्यासौ नमस्कृत्येदमब्रवीत् ।

अज्ञानादवतीर्णोऽयम् मत्पुत्रो भवदाश्रमम् ॥ ३६ ॥

स्वामिन् सहस्व ब्रह्मर्षे शापान्मोचय मत्सुतम् ।
तण्डुः –
न लङ्घनीयश्शापो मे राजन् ब्रह्मादिभिस्सुरैः ॥ ३७ ॥
कथमेष नृकीटस्तु लङ्घते इह मद्वचः ।

यतोऽसि त्वमिहायातो राजन् सर्वजनेश्वरः ॥ ३८ ॥

अतश्शृणु त्वम् पुत्रस्य शापमोक्षणकारणम् ।

पयोष्ण्याश्चोत्तरे तीरे श्रीनृसिम्हाचलो महान् ॥ ३९ ॥

बोधायनादिमुनिभिस्सेव्यते सर्वदा नृप ।

तत्र नीतो यदि सुतो वराहत्वमुपेयिवान् ॥ ४० ॥

जातिस्मरो भवेत्तत्र विचारः क्रियताम् त्वया ।

तत्र जाम्बवतः कन्या कृष्णम् मनसि काङ्क्षिणी ॥ ४१ ॥

निराहारा जितक्रोधा तपश्चरति दुश्चरम् ।

तस्याश्शुश्रूषणपरो भविता भवदात्मजः ॥ ४२ ॥

कन्यकायाः प्रसादेन शापान्मुक्तो भविष्यति ।

महावराहे भगवत्यनिशम् जगदीश्वरे ॥ ४३ ॥

लयमेष्यति पुत्रस्ते नात्र कार्या विचारणा ।
वराहः –
इत्युक्त्वा पितरम् तत्र ऋषिरन्तर्गतो महान् ॥ ४४ ॥

घृणामपि कृताम् पुत्रपूर्वस्नेहानुबन्धतः ।

गुरुणा सम्प्रणीतोऽहमत्र शैलेषु सञ्चरे ॥ ४५ ॥

ततस्ततश्चरित्वा त्वामद्राक्षम् समयाद्बहोः ।

दैवाद्वल्लीयमुत्कृष्टा दृष्टा प्रतिनवोदका ॥ ४६ ॥

इदम् स्वीकुरु भद्रम् ते तथा वारि च मद्धृतम् ।
जाम्बवती –
इदम् सरश्च भवता घोणया विहितम् यतः ॥ ४७ ॥
त्रीणि नामानि करवै सरसोऽस्य महामते ।

वल्लीतीर्थम् शिलातीर्थम् वाराहमिति च क्रमात् ॥ ४८ ॥

प्रसन्नसलिलम् स्वादु सर्वर्षिगणसेवितम् ।

अस्मिन् वाराहतीर्थे यस्स्नाति पाति निषेवते ॥ ४९ ॥

महावराहकृपया सविष्णो: पदमेष्यति ।

तत्रान्तरे महापोत्री भगवान् विश्वरूपधृक् ॥ ५० ॥

तस्मिन् पोत्रिण्यदृश्ये तु घर्घरध्वनिशङ्किते ।

सर्वब्रह्मर्षिदेवर्षिद्विजर्षिगणसेवितः ॥ ५१ ॥

महावराहो भूमेर्यः पतिर्वै प्रादुरास ह ।

अवाप्य ताम् तु भगवान् पोत्री चरति दुस्स्वरः ॥ ५२ ॥

प्राह प्रसन्नया वाचा स्तूयमानो मुनीश्वरैः ।
भगवान् –
कायेन मनसा वाचा करणीयम् च जातुचित् ॥ ५३ ॥

जागर्ति यादृशम् देवि तादृशम् कुरुषे तपः ।

लोकानुद्धरसे किञ्च सप्त सप्तर्षिपूजिते ॥ ५४ ॥

शम्स जाम्बवतः कन्ये भवत्याः प्रीणये मनः ।

अहमीप्सितदानेन सत्यम् प्रतिशृणोमि ते ॥ ५५ ॥

अगस्त्यः –
नाविर्भूतम् तदा दृष्ट्वा केशवम् वनपोत्रिणम् ।

कन्यास्तौषीदमुम् कोलम् हर्षसम्पुल्लमानसा ॥ ५६ ॥
जाम्बवती स्तुतिः –
महावराह भव ते दम्ष्ट्रिणे भगवन्निदम् ।

मनः प्रयच्छ त्वय्येव भक्तिषु व्यभिचारिणीम् ॥ ५७ ॥

त्वमेव ब्रह्म परममापो ज्योतिरनामयम् ।

अनिलश्च तथा व्योम भवान् भक्तैर्निगद्यते ॥ ५८ ॥

यच्च किञ्चिज्जगत्सर्वम् दृश्यते श्रूयतेऽपि वा ।

अन्तर्बहिश्च तत्सर्वम् व्याप्य नारायणस्स्थितः ॥ ५९ ॥

उत्सन्नान् सकलान्वेदानुद्धर्तुम् प्रार्थितो बुधैः ।

अवतीर्णो भवेद्यस्तु तस्मै मत्स्यात्मने नमः ॥ ६० ॥

भारासह धरित्रीति प्रेरितो दैवतैस्स्वयम् ।

अवतीर्णो भुवः पृष्ठे तस्मै कूर्मात्मने नमः ॥ ६१ ॥

समुद्रान्तरिताम् भूमिमुद्धर्तुम् ब्रह्मणेरितः ।

मिमक्षुर्वारिधिम् तस्मै वराहवपुषे नमः ॥ ६२ ॥

प्रह्लादप्रीतये दैत्यराजम् हन्तुम् य उद्यतः ।

आर्विभूतो मणिस्तम्भे तस्मै सिम्हात्मने नमः ॥ ६३ ॥

महाबलेस्तु दैत्यस्य मानभङ्गाय य: पुमान् ।

याचते त्रिपदम् लोके नमस्ते वामनात्मने ॥ ६४ ॥

यः प्रीतये पितुर्युद्धे कर्तुम् क्षत्रविदारणम् ।

बिभर्ति परशुम् हस्ते तस्मै रामात्मने नमः ॥ ६५ ॥

पितुर्वचनरक्षार्थम् सभार्यस्सानुजो वनम् ।

संप्राप्तो यस्तु भगवान् तस्मै रामात्मने नमः ॥ ६६ ॥

प्रलम्बासुरभङ्गाय प्रार्थितो यस्स्वयम् हलम् ।

बिभर्ति यो विष्णुरूपः तस्मै रामात्मने नमः ॥ ६७ ॥

जन्मक्षणे चतुर्बाहुम् शङ्खचक्रगदाधरम् ।

नन्दो ननन्दयन् दृष्ट्वा तस्मै कृष्णात्मने नमः ॥ ६८ ॥

सर्वानपि महादैत्यान् हेषया भीषयन् बली ।

यः पुमानाविरभवत्तस्मै कल्क्यात्मने नमः ॥ ६९ ॥
ब्रह्म त्वम् चाप्यणुस्त्वम् हि सत्यस्त्वम् सविता विभुः ।

त्वम् सोमस्त्वम् यमोरुद्रस्त्वम् विष्णुस्त्वम् प्रजापतिः ॥ ७० ॥

त्वम् यज्ञस्त्वम् वषट्कारस्त्वम् ब्रह्म त्वम् प्रजापतिः ।

नमः प्रसीद भगवन् महापोत्रिवपुष्मते ॥ ७१ ॥

घोराय दम्ष्ट्रिणे तुभ्यम् वासुदेवाय विष्णवे ।
अगस्त्यः –
इति स्तुतो हृषीकेशो वराहपुरास्थितः ॥ ७२ ॥

प्राह जाम्बवती कन्याम् प्रसन्नोन्तरात्मना ।
श्रीभगवान् –
कन्ये ते काङ्क्षितम् जाने फलिष्यति तपस्तव ॥ ७३ ॥

कृष्णम् भर्तारमासाद्य भवती सुखमेष्यति ।

भद्रे वनमिदम् रामे तवाभीष्टकृतो भवेत् ॥ ७४ ॥

भवेयुः फलिनो मर्त्याः वासाज्जाम्बवती पदे ।

शिलापुष्करिणीतीरे वसन्नहमनिन्दिते ॥ ७५ ॥

भक्तेभ्यो वाञ्छितम् दद्याम् तोषितस्स्नानवैभवात् ।

अयने विषुवे चैव ग्रहणे चन्द्रसूर्ययोः ॥ ७६ ॥

अत्र स्नानम् प्रकुर्वाणो जीवन्मुक्तो न सम्शयः ।

पितृन् वै देवता वापि प्रीणयन्ति नरोत्तमाः ॥ ७७ ॥

वराहतीर्थसलिलैर्ह्येतेन निरयैषिणः ।

तपाम्सि कुर्वताम् तत्र यानि कानिचिदेव वा ॥ ७८ ॥

नराणाम् क्षीणपापानाम् मयि भक्तिः प्रजायते ।
अगस्त्यः –
इत्युक्त्वान्तर्दधे देवः पोत्रिरूपी जनार्दनः ॥ ७९ ॥
ऋषीणाम् मिषतामेव सनकादिस्स्तुतस्तदा ।

कन्यापि भगवन्नेत्रपात्रभूता निरञ्जना ॥ ८० ॥

वरम् लब्ध्वाऽश्रमपदम् प्रायाज्जाम्बवतो मुनेः ।

तत्र यस्स्नाति मध्याह्ने प्रातःकालेऽथवा मुने ॥ ८१ ॥

स महाकोलसान्निध्यात् सर्वान् कामानवाप्नुयात् ।

तत्र स्नानम् सदा कार्यम् सद्भिस्सर्वहितेरतैः ॥ ८२ ॥

पाण्डवोदे ततस्स्नायात् यत्र पार्थस्तपस्यति ।

तस्य प्राग्दक्षिणे पार्श्वे हनूमत्तीर्थमुत्तमम् ॥ ८३ ॥

अध्यास्ते भगवान् यत्र शङ्खचक्राभिलाषवान् ।

प्रदक्षिणम् प्रकुर्वीत तत्र स्नात्वा बुधोत्तमः ।

हनूमदनुमत्या वै तस्यापि क्षेममिच्छतः ॥ ८४ ॥

इति ब्रह्मकैवर्ते उत्तरखण्डे भृगुपराशरसम्वादे घटिकाचलमाहात्म्ये त्रयोदशोsध्यायः ॥

चतुर्दशोsध्यायः

अगस्त्यः –
तस्याविदूरे धर्मात्मा दक्षिणे गिरिसानुनि ।

कापिलः कुरुते तीव्रं तपः पञ्चाग्निमध्यम् ॥ १ ॥

तस्य धर्मव्रता नाम भार्या प्रियमनुव्रता ।

प्रभेव भासामधिपम् चन्द्रिकेव सुधाकरम् ॥ २ ॥

लक्ष्मीरिव महाविष्णुम् पार्वतीव महेश्वरम् ।

सरस्वतीव ब्रह्माणम् भर्तारमुपजीवति ॥ ३ ॥

पिटकम् गृह्य बाहुभ्याम् खनित्रम् च यशस्विनी ।

कश्यपस्य मुनेः पत्नी मूलमानेतुमभ्यगात् ॥ ४ ॥

पार्श्वेषु पर्वतेन्द्रस्य तथाग्रेषु तपस्विनी ।

वनमेत्य ततस्तत्र कन्दानाम् खननाय वै ॥ ५ ॥

शृङ्गे कस्मिन्श्चिदद्रेस्तु कपित्थानाम् शतम्शतम् ।

दृष्ट्वा गृहीतुकामा तान् व्याघ्रम् क्वापि ददर्श ह ॥ ६ ॥

सापि गृह्य कपित्थानाम् फलानि सुबहून्यपि ।

निधाय पिटके साध्वी गमनायोपचक्रमे ॥ ७ ॥

महाव्याघ्रः क्षुधार्तस्तु तामुपेत्य यशस्विनीम् ।

महाक्रोधो वने तत्र वाक्यमेतदुवाच ह ॥ ८ ॥

व्याघ्रः –

कश्यपस्य मुनेस्तत्र धर्मपत्नि यशस्विनि ।

फलमेकम् महास्वादु प्रदेयम् क्षुधिताय मे ॥ ९ ॥

न चेद्ददासि धर्मिष्ठे सफलाम् त्वामनिन्दिते ।

क्षुधार्तहृदयोsहम् च भक्षिष्ये विजने वने ॥ १० ॥

धर्मव्रता –

काले फलानाम् ग्रहणे प्रतिज्ञातमिदम् मया ।

अमूनि रसवन्त्यस्मै काश्यपाय ददाम्यहम् ॥ ११ ॥

अतो नैकम् फलमपि प्रदेयमिति मे मतिः ।

अन्यतो गच्छ भद्रम् ते भविता मृगसत्तम ॥ १२ ॥

अथवा यत्त्वयोक्तम् वै खादेयम् सफलामिमाम् ।

तत्पश्चादहमभ्येत्य करवै भवतादयम् ॥ १३ ॥

दत्वा फलानि मुनये काश्यपाय क्षुधायुजे ।

चरितार्थम् व्रतम् कृत्वा भवन्तम् प्रीणये ततः ॥ १४ ॥

व्याघ्रः –
गच्छ सुश्रोणि भद्रन्ते मा विलम्बम् सहामि ते ।

जीवामि घटिकाम् पश्चात्प्राणाम्स्त्यक्ष्ये भवत्कृते ॥ १५ ॥

धर्मव्रता –

पुण्डरीकसरस्तीरे तपस्यति महातपाः ।

इतोsविदूरे धर्मात्मा काश्यपः प्रयतात्मवान् ॥ १६ ॥
व्याघ्रः –
पुण्डरीकस्य सरसि क्वास्ते सानुनि शम्स मे ।

यत्नात्ते वादकथया मा व्याघ्रः प्रीणयसि धर्मिणी ॥ १७ ॥

निर्यातुकामाः प्राणा मे क्षुधार्तस्य तपस्विनी ।

पुण्डरीकस्मृतिर्वात्र किल तेषाम् प्रजायते ॥ १८ ॥
अगस्त्यः –
तपस्विनी तमालोक्य विस्मयापन्नमानसम् ।

स्वयम् च विस्मयव्यग्रमानसा व्याघ्रमब्रवीत् ॥ १९ ॥

किमिदम् शम्स वृत्तान्तम् स्वस्ति तेऽस्तु मृगोत्तम ।

यत्स्मृत्या हर्षसम्फुल्लमानसो जायते भवान् ॥ २० ॥

व्याघ्रः –
नर्मदातटिनीतीरे पुरा द्विजर्षयस्तपः ।

चक्रिरे बहुभिश्शिष्यैः सह सद्भिरनिन्दिताः ॥ २१ ॥

अथ तेषामयत्नेन पुराणम् पापमागतम् ।

तर्कविद्या मूर्तिमती प्राप्य पापीयसाम् नृणाम् ॥ २२ ॥

सन्निधिम् तपसाम् विघ्नम् कर्तुम् समुपचक्रमे ।

तत्र मे तातपादस्तु विष्णुभक्तो निरङ्कुशः ॥ २३ ॥

नाम्ना धर्मव्रतो ब्रह्मा ऋषिर्दैवादुपागतः ।

नर्मदापयसि स्नात्वा सन्ध्यामन्वास्य मध्यमाम् ॥ २४ ॥

सभार्यस्सह शिष्येण दक्षिणम् पदमेयिवान् ।

तत्राश्रमे जननाम् वै ऋषीणाम् भावितात्मनाम् ॥ २५ ॥

दृष्ट्वा धर्मव्रतो दैवात्तीरबालद्रुमानगात् ।

षट्त्रिम्शत् तत्र वर्तन्ते तर्कविद्यामत क्रमात् ॥ २६ ॥

अद्राक्षीद्व्याकुलधियो द्विजान् बालानतन्द्रितान् ।

वीक्ष्य धर्मभृताम् श्रेष्ठस्तातपादस्तटद्रुमान् ॥ २७ ॥

पालाशहरणार्थम् वै प्रायाच्छिष्येण भार्यया ।

तानासाद्य ततस्तत्र दुरुक्तिश्रवणे मनः ॥ २८ ॥

चकार घटिकामात्रम् पत्राहरणदुर्मनाः ।

मनश्चक्रे स तेषाम् वै विद्याया श्रवणे सुधीः ॥ २९ ॥

पञ्चयज्ञाधिकरणे न चक्रे तापसव्रते ।

शिष्योsपि गौरवीम् रीतिमभजत् क्षणतस्तदा ॥ ३० ॥

भार्यानिबोधितोऽप्यासीत् सर्वकर्मण्यलोलुपः ।

मासमात्रम् स्थितस्तत्र वेदवेदान्तवर्जितः ॥ ३१ ॥

केवलम् तर्कविद्यासु मनश्चक्रे ह्यनन्यधीः ।

मासमात्रोषितस्तत्र दुरुक्तिपथगोचरः ॥ ३२ ॥

अन्वहम् तास्स्मरन्नेव दास्यामिव बभूव ह ।

कस्यचित्त्वथ कालस्य पश्चाच्छिष्येण धीमता ॥ ३३ ॥

अभ्ययाद् भार्यया सार्थम् गुरोर्व्यासस्य सन्निधिम् ।

पराशरात्मजो दृष्ट्वा दुरुक्तिम् वक्तुचेतसम् ॥ ३४ ॥

शिष्यम् धर्मव्रतम् नाम सशिष्यमिदमाह सः ।

विहाय वैदिकीम्विद्याम् दुर्विद्यामाश्रितोsसि यत् ॥ ३५ ॥
सहशिष्यस्सभार्यस्त्वम् पुण्डरीको भविष्यसि ।

तत्र वासोऽपि भविता ह्यपि जातेश्च सम्स्मृतिः ॥ ३६ ॥

यत्रास्ते भगवान् शैले योगानन्दनृकेसरी ।

जीर्णपर्णाशिषु प्रायश्चरत्सु तप उत्तमम् ॥ ३७ ॥

अव्यग्रवैष्णवीम् भक्तिम् दृष्ट्वा तु प्रादुरेष्यति ।

केषुचित्त्वथ कालेषु नीतेषु नरकेसरी ॥ ३८ ॥

प्रसन्नो भवतो लोकान् सम्प्रदास्यति मास्तु भीः ।

इति सम्बोधितस्तेन व्यासेन स महर्षिणा ॥ ३९ ॥

प्रणम्य लज्जावनतः प्रायादेनम् नगोत्तमम् ।

सप्तर्षिम् हृदये कृत्वा सशिष्यस्सह भार्यया ॥ ४० ॥

नृहरिध्यानमासीनः केवलम् कुरुते तपः ।

जीर्णपर्णजलाहारः कन्दमूलफलादनः ॥ ४१ ॥
न भयम् कुरुते नृणाम् दुष्टानाममृताशनः ।

कालेन महता तत्र तपःकरणशीलयोः ॥ ४२ ॥

पुत्रोऽहमभवम् व्याघ्र: दम्पत्योर्भावितात्मनोः ।

पुण्डरीकवने व्याघ्रः पोषितोऽहम् दिने दिने ॥ ४३ ॥
जातिस्मरः फलान्येव भुजन् बाल्यम् प्रणीतवान् ।

तपस्यतोस्तयोरत्र कालेन महता हरिः ॥ ४४ ॥

प्रादुर्भूतस्तदा सर्वान् प्रापयत्पदमात्मनः ।

अहम् वा गीयते शैले सर्वैरपि द्विजर्षभैः ॥ ४५ ॥

पुण्डरीकस्स धर्मात्मा पुण्यश्लोको जितेन्द्रियः ।

यस्मिन्नृसिम्हः प्रत्यक्षम् प्राप सर्वैरगोचरः ॥ ४६ ॥

आत्मनामाङ्कितम् तीर्थम् पुण्डरीको व्यकल्पयत् ।

मज्जतामत्र पुम्साम् वै जातिस्मृतिरुदेष्यति ॥ ४७ ॥

धर्मव्रतः –
साधु दैवादुपक्रान्तम् कर्मवृत्तमिदम् सता ।

इदानीम् प्रीणये श्रोत्रम् भवद्वाक्यामृतेन वै ॥ ४८ ॥

कथम् जातिस्स्मरस्त्वम् हि व्याघ्रभावम् भजन्नपि ।

वद त्वमधुनेदम् हि चिराय तु मराजिते ॥ ४९ ॥

व्याघ्रः –
आसीद्गन्धर्वनगरे राजा चित्ररथस्विति ।

चतुर्दशाभवन् पुत्रास्तस्य गन्धर्वस्वामिनः ॥ ५० ॥

इल्वालवङ्कावङ्काश्च मणिकण्ठो मणिध्वनिः ।

चित्रभानुश्चित्रकेतुर्मणिभद्रो महारथः ॥ ५१ ॥

श्वेतकेतू रश्मिकेतू रत्नकेतुश्च धूसुरः ।

एतेषामग्रजो नाम्ना कलकण्ठो महाव्रतः ॥ ५२ ॥

सर्वानपि सभामध्ये स्थापयन् चित्रमाप्तवान् ।

पिता वैणिकमाहूय नारदम् मुनिसत्तमम् ॥ ५३ ॥

विद्याभ्यासमयम् तस्मै प्रददौ मधुरस्वरम् ।

तदाहम् नारदमुखात्तन्त्रीकण्ठोत्थितान् स्वरान् ॥ ५४ ॥

निषादादीन्सप्त तन्तौ जातवान्स्सुहृदाम् ततः ।

श्रुतिभेदाः कथङ्कारमासन् कीदृग्विधास्त्विमाः ॥ ५५ ॥

जानन्नपि दुरुक्त्याहम् तदा दूषितवान् श्रुतीः ।

तदा माम् वीक्ष्य सक्रोधो मुनिवैणिकसत्तमः ॥ ५६ ॥

इदमाह सताम् मध्ये गन्धर्वाणाम् च पश्यताम् ॥ ५७ ॥
नारदः –
साङ्गोपाङ्गमधीत्यापि स्वरभेदान्तथा श्रुतीः ।

दुरुक्त्या दूषयसि यत्तद्व्याघ्रो भव भूतले ॥ ५८ ॥

हनूमच्छैलपादेषु चरिष्यति ममाज्ञया ।

पुण्डरीकस्य पुत्रत्वम् प्राप्य जातिस्मरो भव ॥ ५९ ॥

कश्यपस्य मुनेर्भार्याम् नितराम् वेदयिष्यसि ।

शरीरादेव वैयाघ्रान्मुच्यसे त्वमनिन्दितः ॥ ६० ॥

हिरण्मयवपुर्धीमान् हिरण्मयविमानगः ।

पुनरभ्येष्यति भवान् तापसीवचसो बलात् ॥ ६१ ॥

गन्धर्वः –
इति शापम् विशापम् च कृत्वा वैणिकपुङ्गवः ।

उद्वेगवान् विनिष्क्रम्य यथागतमविन्दत ॥ ६२ ॥

पश्याद्य विष्णुभक्ताया भवत्या दर्शनादहम् ।

रुपम् जीर्णम् च वैयाघ्रम् त्यक्ष्ये दैवतकम् श्रये ॥ ६३ ॥

पश्यन्त्याम् कश्यपमुनेर्धर्मपत्न्याम् तदा वने ।

पुण्डरीकम् वपुर्हित्वा गान्धर्वम् रूपमाददे ॥ ६४ ॥

स तदा लोकयन्तीन्ताम् विस्मयापन्नमानसाम् ।

तापसीम् वीक्ष्य धर्मात्मा कलकण्ठस्तदाऽवदत् ॥ ६५ ॥
कलकण्ठः –
शक्तेरिव मणिर्देवि मूषाया इव काञ्चनम् ।

मुक्तोऽहमद्य माम् पश्य सा त्वम् वात्सल्यवीक्षणा ॥ ६६ ॥

विष्णुभक्तानुषङ्गेण वपुषोऽस्मात्प्रमोचितः ।

स्वस्ति वोऽस्तु गमिष्यामि यथागतमनिन्दिते ॥ ६७ ॥
धर्मव्रतः –

कलकण्ठम् ततो ध्यात्वा दृष्टेर्दूरपथम् गतम् ।

आश्चर्यपथमापन्ना भर्तुराश्रममभ्यगात् ॥ ६८ ॥

सर्वम् निवेद्य भर्त्रे वै ह्यविलम्बनकारणम् ।

पुण्डरीकसरस्तीरे निवासमकरोत् तदा ॥ ६९ ॥

श्रीनृसिम्हपदाकाङ्क्षी कश्यपो नाम धर्मवित् ।

वैष्णवागमनम् मन्ये शिष्यान् व्याख्यापयत्यसौ ॥ ७० ॥

यस्स्नाति नियतो विद्वान् पुण्डरीकसरो ले ।

जातिस्मरस्स वै लोकम् वैष्णवम् प्राप्नुयान्नरः ॥ ७१ ॥

वृश्चिकम् याति मार्ताण्डे यस्स्नाति विजितेन्द्रियः ।

समुक्तकिल्बिषो जीवन्मुक्तो भवति वै नरः ॥ ७२ ॥

कङ्केलयश्च न्यग्रोधा मधूका उत्पला धवाः ।

वसन्तस्तरवस्तत्र पञ्चैते फलशालिनः ॥ ७३ ॥

तस्य दक्षिणपार्श्वस्थशृङ्गराजो विराजते ।

निषेव्यस्सततम् सर्वैर्ब्रह्मर्षिभिरनुत्तमैः ॥ ७४ ॥

शैलस्य दक्षिणे पार्श्वे प्रतिभाति शिलावटः ।

शोभन्ते विविधा यत्र शाखाश्शतसहस्रशः ॥ ७५ ॥

अवष्टभ्य तमव्यग्रा ऋषयस्सप्तशो मुने ।

लम्बमानास्तपस्यन्ति नृहरिर्ध्यानतत्पराः ॥ ७६ ॥

ऊर्ध्वी भवन्महाशाखाभुजालङ्कृतवल्कलाः।

दृश्यते यस्तपस्वीव जटाभिः परिमण्डितः ॥ ७७ ॥

गिरेः प्रदक्षिणम् कृत्वा स गन्तव्यो मनीषिणा ।

यत्रास्ते भगवान् पक्षी गरुत्मान् पन्नगाशनः ॥ ७८ ॥

तस्य पश्चिमसानुस्थो दृश्यते भगवान् मुनिः ।

तपश्चरति धर्मात्मा सपत्नीकस्सुदारुणम् ॥ ७९ ॥

तस्य शिष्या महात्मानो नित्यम् धर्मसुता मुने ।

शुश्रूषणपरास्तत्र सुनन्दाद्या वसन्ति हि ॥ ८० ॥

राजर्षयो द्विजन्मानो यूथश: पङ्क्तिपावनाः ।

सभार्याश्च तपस्यन्ति स्वस्वधर्मनिषेविणः ॥ ८१ ॥

अग्न्यगारोदिता धूमा अभ्रमार्गावलम्बिनः।

दृश्यन्ते वातसच्छिन्नाः पयोमुचि निलीय वै ॥ ८२ ॥

गिरिप्रदक्षिणकृताम् नराणाम् भावितात्मनाम् ।

श्रमम् हरन्ति तत्रत्या मारुता भव्यगन्धिनः ॥ ८३ ॥

इति ब्रह्मकैवर्ते उत्तरखण्डे भृगुपराशरसम्वादे घटिकाचलमाहात्म्ये चतुर्दशोsध्याय: ॥

पञ्चदशोsध्याय:

अगस्त्यः –
तस्योत्तरदिशि ज्ञानशालिनाम् भावितात्मनाम् ।

आश्रमेषु मुनिः कश्चिदास्ते श्रीमान्निशाकरः ॥ १ ॥

तत्राश्रमपदे साध्वी कीर्तनीया मुनीश्वरैः ।

निशाकरो रोहिणीम् च रोहिणी च निशाकरम् ॥ २ ॥

अनुव्रता धर्मपत्नी तथा च मुनिपुङ्गवः ।

तस्य शिष्योऽस्ति मतिमान्नाम्ना कौत्स इति स्मृतः ॥ ३ ॥

गुरोश्च गुरुपत्न्याश्च सदा शुश्रूषणे रतः ।

पित्रोरिव तयोर्नित्यम् प्रेष्यताम् प्रययौ तथा ॥ ४ ॥

स कदाचित् पुरा विद्वानेणम् दृष्टम् वनान्तरे ।

निवेदयामास मुनिः कौत्सस्तु महदद्भुतम् ॥ ५ ॥

कौत्सः –

भवता प्रेरितस्स्वामिन् अहमेको वनम् गतः ।

इहाविदूरे कन्दानाम् मूलानाम् खननाय च ॥ ६ ॥

स्नातुकामो महातीर्थे स्वामिन् पापविनाशने ।

गत्वा माध्याह्निकम् कर्म निर्वर्त्य गतवाम्स्तथा ॥ ७ ॥

मृगः कोऽपि मया दृष्टो नानावर्णविशोभितः ।

स्नातुकामो महातीर्थे दर्शनीयतनूरुहः ॥ ८ ॥

स्वामिन्नदृष्टपूर्वोऽसौ श्रुतपूर्वो न मे मृगः ।

मया मुहूर्तम् दृष्टो वै जपव्याजेन तिष्ठता ॥ ९ ॥

स तु पीत्वोदकम् तत्र निर्गन्तुम् बहिरुत्थितः ।

इतस्ततोऽवलोकम् च चकार हरिणोत्तमः ॥ १० ॥

तत्रान्तरे पूर्वशृङ्गदिशानिर्गतवानिह ।

मुखरीकृतदिग्भागप्रभावस्सिम्हहुङ्कृतिः ॥ ११ ॥

हुङ्कृतानुपदो सिम्हे विनिर्गत्य गुहान्तरात् ।

विलोलमाननयनम् प्रास्पृशम् मृगमञ्जसा ॥ १२ ॥

स्पर्शनानुपदम् स्वामिन्नदृष्टो मृगसत्तमः ।

मृगराजोsपि तद्भूत्वा केवलम् राक्षसम् वपुः ॥ १३ ॥

अनन्तरमहालोकः केशमात्रपरिष्कृतः ।

समूहीधूयरश्मीनाम् शतम् शान्त इवाभवत् ॥ १४ ॥

अथान्तरिक्षे सूर्याणाम् द्वादशानामिव क्षणम् ।

मण्डलानि विमानानाम् दृष्टानि सुबहून्यपि ॥ १५ ॥

दृष्ट्वा प्रसन्नमनसो वैष्णवास्तत्र पङ्क्तिशः ।

हिरण्यश्मश्रवो हेमकेशाश्चक्रभुजाङ्गिताः ॥ १६ ॥

ऐन्द्रजालीव सा विद्या दर्शिता दैवतेन मे ।

क्षणमात्रम् तदा सर्वम् प्रत्यदृश्यत पूर्ववत् ॥ १७ ॥

पथि मूलानि सङ्गृह्य व्याकुलेनान्तरात्मना ।

भगवन्स्त्वत्पदे सर्वम् विज्ञापितमिदम् मया ॥ १८ ॥

अगस्त्यः –
आकर्ण्य हर्षसम्फुल्लमानसस्तु निशाकरः ।

तद्वैभवम् पूर्ववृत्तमाख्यातुमुपचक्रमे ॥ १९ ॥

पुरा पुण्यतमो नाम वैखानसकुलोत्तमः ।

नृहरेरर्चनपरश्शीलवान् प्रबभूव ह ॥ २० ॥

तस्य भाग्योदयात् कश्चिद्धरिदत्त इति श्रुतः ।

पुत्रोsजनिष्ट नृहरेः प्रसादात् तदनुग्रहात् ॥ २१ ॥
अथ पुत्रम् समालोक्य शीलवन्तम् गुणान्वितम् ।

आगमप्राप्तये सोऽयम् पिता दूर्वाससे ददौ ॥ २२ ॥

हरिदत्तोऽपि धर्मात्मा गुरोर्दूर्वाससो मनः ।

प्रहर्षयन् प्रतिपदम् विद्यामभ्यासयत् तदा ॥ २३ ॥

अदक्षिणमहे विद्या तेनाभ्यस्तेति दुर्मनाः ।

दुर्वासा हरिदत्ताय ब्राह्मणायेदमूचिवान् ॥ २४ ॥

दुर्वासः –
त्वम् प्राज्ञस्त्वम् कुलीनश्च सत्यसन्धो जितेन्द्रियः ।

हरिभक्तस्सदापि त्वमागाविद्यामदक्षिणाम् ॥ २५ ॥

कञ्चित् कालमुषित्वात्र राक्षसम् रूपमास्थितः ।

कामरूपी भवान् सर्वम् काननम् प्रचरिष्यति ॥ २६ ॥

याश्च पश्य महारण्ये जातयः प्रसवन्ति हि ।

तासु तद्रूपभाक्त्वम् वै क्रीडावान्पापहा भव ॥ २७ ॥

तत: कालेन महता ममानुग्रहतो भवान् ।

निशाकराश्रमम् प्राप्य स्वस्वरूपम् व्रजेद्वने ॥ २८ ॥

पापनाशमहातीर्थे सेवया मुक्तकल्मषम् ।

त्वाम् नृसिम्होऽनुग्रहात्तु स्वपदम् प्रापयिष्यति ॥ २९ ॥

निशाकरः –
इत्थम् दूर्वाससश्शापात् हरिदत्तो महातपाः ।

शरीरम् राक्षसम् गृह्य वनमध्यम् जगाम ह ॥ ३० ॥

येषु जन्तुषु यद्रूपम् तेषु रूपम् तदाऽऽविशत् ।

रममाणो वनम् दैवात् मामकम् प्रापितो महत् ॥ ३१ ॥

दूर्वाससोऽनुग्रहेण सत्सम्सर्गवशादपि ।

पूर्वम् नृहरिसान्निध्यात् तीर्थमेतन्निषेवितम् ॥ ३२ ॥

नरकेसरिणस्सङ्गाद्विमुक्तस्स च राक्षसः ।

दिव्यरूपम् समास्थाय वैष्णवम् लोकमेयिवान् ॥ ३३ ॥

त्वम् हि भाग्यवताम् श्रेष्ठश्शुश्रूषणपरस्सताम् ।

वेदैरदृष्टोsपि हरिः यत्ते दृष्टिपथम् गतः ॥ ३४ ॥

वैष्णवाश्च महात्मानश्शङ्खचक्रधरास्स्वयम् ।

विमानेषु यतो दृष्टास्तस्माद्धन्यतमो भवान् ॥ ३५ ॥

सर्वपापविनिर्मुक्तस्स यास्यति पराम् गतिम् ।
अगस्त्यः –
इत्युक्तो हृष्टचेतास्तु कौत्सश्शिष्यतमो गुरोः ॥ ३६ ॥
पादाभिवन्दनरतः प्रमुमोद तदा मुनिः ।

तत्र पापविनाशे यस्स्नाति तीर्थनिषेविते ॥ ३७ ॥

सौषेणस्सङ्गवादर्वाक् सेवते तीर्थमुत्तमम् ।

भवेत् पापविनिर्मुक्तो नृसिम्हानुग्रहेण सः ॥ ३८ ॥

तस्याविदूरे सौषेण वनमुन्निद्रपालितम् ।

उन्निद्रतरुसुच्छायमुन्निद्रमृगसङ्कुलम् ॥ ३९ ॥

सुषेणवनमाप्ता ये विदूरात् सर्वजन्तवः ।

बिभ्यन्ति व्याधयस्सर्वे तत्र गन्तुम् महामते ॥ ४० ॥

सञ्जीवनकरी तत्र सन्धानकरणी तथा ।

विशल्यकरणी चापि वल्लयस्तु वसन्ति हि ॥ ४१ ॥

मन्दारपारिजातश्च पुन्नागो नागकेसरः ।

रसालाश्च पलाशाश्च कङ्कास्त्विन्दुरकास्तथा ॥ ४२ ॥

अश्वत्थाःकेसराश्चापि कर्णिकाराश्च मल्लिकाः ।

चम्पकास्तिलकाश्चूतास्सिन्धुवाराश्च तिन्दुकाः ॥ ४३ ॥

जम्बूमधूककङ्कोलाश्चाम्पेयपनसास्तथा ।

कुन्दाश्च स्यन्दनास्साला: पाटलाश्च वटास्तथा ॥ ४४ ॥
भद्राश्चामलाका द्राक्षास्समाध्वीकाश्च वर्षिणः ।

तत्र दीर्घाटवी मध्ये कुल्या चोत्तरवाहिनी ॥ ४५ ॥

तीरस्थद्रुमपुष्पान्तश्च्युतमाध्वीकपूरिता ।

तत्तीरे भगवान् योगी जाबाली ऋषिसत्तमः ॥ ४६ ॥

तपस्यति दुराधर्षा योगम् कृत्वा महातपाः ।

आलम्बिकायोगरतास्तिष्ठन्त्यमृतसेविनः ॥ ४७ ॥

अनुग्रहन्ति सादृश्यम् तरवस्ते निषेविणाम् ।

तत्पुष्पमालाभरणो भगवान् नृहरिस्तथा ॥ ४८ ॥

दीर्घानुषङ्गानस्मिन् वै कुरुतेऽनन्यदुर्लभान् ।

क्रियते नृहरेर्यत्र दीर्घापाङ्गपरम्पराम् ॥ ४९ ॥

तरूणाम् तद्वनम् सर्वैर्दीर्घारामोऽभिधीयते ।

यत्र दीर्घतपस्तत्र जाबालिः कुरुते मुनिः ॥ ५० ॥

तद्वनम् मुनिभिस्सर्वैर्दीर्घारामस्तदुच्यते ।

कुल्यायाः पश्चिमे तीरे दीर्घारामान्तरे मुने ॥ ५१ ॥

सर्वदामृतकुण्डो हि दृश्यते पूरितामृतम् ।

तत्रावतीर्य ते धन्या गृह्य वारि पिबन्ति ये ॥ ५२ ॥

अभिमन्त्र्य नृसिम्हाष्टवर्णैरागमगोचरैः ।

वैखानसा वालखिल्य ऋषयश्शम्सितव्रताः ॥ ५३ ॥

पराशरादयस्तत्र पीत्वा दीर्घायुषोऽभवन् ।

दीर्घारामतरुच्छायामाश्रितानाम् महात्मनाम् ॥ ५४ ॥

हेमकोटिपदच्छाया भजने कापिलम् वनम् ।

उन्नता विटपाश्चैव तरूणाम् फलशालिनाम् ॥ ५५ ॥

हरिध्यानवताम् पुम्सामुद्बाहव इवाभवन् ।

तस्योत्तरदिशि स्फीते शृङ्गे वेदान्तगोचरः ॥ ५६ ॥

दत्तात्रेयस्स भगवान् तिष्ठते तपसि स्थितः ।

शृङ्गस्य वामपार्श्वस्था दृश्यते वामदीर्घिका ॥ ५७ ॥

यत्र दत्तो महातेजा उन्मज्जति निमज्जति ।

पुरा देवासुरे युद्धे दैत्येन्द्रान् जेतुचेतसाम् ।

सुराणाम् बुद्धिरभवत् वासवस्यावनाय वै ॥ ५८ ॥

अयम् हि वर्तते वह्निर्वोढुम् भारमतन्द्रितः ।

अस्मै दास्यामहे वामम् वस्वीतीमेऽनुमेनिरे ॥ ५९ ॥
हे वह्नेऽस्मद्धनमिदम् गोप्यताम् भवता महत् ।

अथासुरान् विजित्यैतत् प्रतिगृह्यामहे वयम् ॥ ६० ॥

वह्निः –
बलवन्तोऽसुरा यत्र इष्टम् सन्निदधत्यमी ।

कुशली नाहमेतद्धि वोढुमन्यत्र दाप्यताम् ॥ ६१ ॥

सुराः –
महानुभावो विश्वात्मा हव्यकव्यवहो बली ।

अनुगृह्णातु भगवान् वसूनाम् ग्रहणे मनः ॥ ६२ ॥
अगस्त्यः –
अमरैर्दीप्यमानम् तदादाय सुमहामनाः ।

आवहत्सु चिरम् कालम् हवीम्षीव वसूत्करम् ॥ ६३ ॥

तदा दृष्ट्वा दैत्यसेनाः वामम् वसु हविर्भुजि ।

चिन्तयाना हव्यवहम् परिवव्रुः परश्शतम् ॥ ६४ ॥

सन्नह्यानवलोक्याथ कान्दिशीकस्तु हव्यभुक् ।

दिशो दश हि `दुद्राव अत्यनाशीरविद्रुतः ॥ ६५ ॥

तत्रान्तरे विगलितम् वसु वामम् मरुद्धनम् ।

वह्निम् प्रसाद्य तत्सैन्यमवलोक्य सुरा ययुः  ॥ ६६ ॥

ततो विजित्य वै दैत्यानुद्धतान् रणकोविदान् ।

अयाचन्त सुरा वह्निम् दीयताम् वसुमद्धनम् ॥ ६७ ॥
पु नः पुनश्च पृष्ठोऽपि वह्निर्यत्नमुपास्थितः ।

किमिति व्याकुलमनास्सभयम् प्राह तान् सुरान् ॥ ६८ ॥
वह्निः –
भवद्भिर्दत्तमेतद्धि धनम् दुष्टा दनूद्भवाः ।

सन्नह्य माम् तदालोक्य दैत्याश्च पुरसेवकाः ॥ ६९ ॥

चारैरपि प्रहर्तुम् माम् कूटमुद्गरपाणयः ।

पलायमाने सहसा प्रहर्तुमनसोऽसुरान् ॥ ७० ॥

निरीक्ष्य दक्षिणस्याम् वै दिशि निर्गलितम् वसु ।

वसुभिश्शून्यमालोक्य निराशास्स्वाम् पुरीम् गताः ॥ ७१ ॥

अतो विलोक्यतासद्भिर्भवद्भिस्तत्ववेदिभिः

दक्षिणस्याम् दिशि सुराः दृश्यते भुवि नानृतम् ॥ ७२ ॥
अगस्त्यः –
ततो देवाः सहेन्द्रेण मार्गमाणा वसूत्तमम् ।

वह्निना दर्शितपथा भुवः पृष्ठमुपाययुः ॥ ७३ ॥

यत्र तिष्ठति धर्मात्मा सर्वपापविशोधकः ।

तस्याम् दिशि सुरास्सर्वे ययुस्सेन्द्रासहानलाः ॥ ७४ ॥

चन्तामणिगिरेस्तस्य शृङ्गमुन्नतमुत्तमम् ।

अवलोक्य ततस्सर्वे सुराः प्राहुरिदम् वचः ॥ ७५ ॥

सुराः –
अत्रास्ते भगवान् साक्षादितो नारायणाम्शकः ।

अस्मै विज्ञापितम् चैतदस्मभ्यम् ज्ञापयिष्यति ॥ ७६ ॥

इति सञ्चिन्त्य मनसा दत्तात्रेयमनुत्तमम् ।

योगिनाम् प्रवरम् सर्वे शरणम् प्रययुस्सुराः ॥ ७७ ॥
अगस्त्यः –
प्रसीद भगवन् स्वामिन् भक्तमुक्तिप्रदायक ।

परिपालय नस्सर्वान् दत्तात्रेय नमोऽस्तु ते ॥ ७८ ॥

समुद्रशायी भगवान् विष्णुस्सर्वामरैस्स्तुतः ।

अत्रिज त्वम् प्रसन्नोऽसि दत्तात्रेय नमोऽस्तु ते ॥ ७९ ॥

मरुद्वृथासरित्तीरे सन्नद्धामुदमावहन् ।

अर्थितो मुनिकन्याभिः दत्तात्रेय नमोऽस्तु ते ॥ ८० ॥

नर्मदातीरवासी त्वम् दृश्यादृश्यवपूरिह ।

विमोहयस विश्वात्मन् दत्तात्रेय नमोऽस्तु ते ॥ ८१ ॥

अधित्य कायम् सन्धास्य ततो यत्पुलकावृतम् ।

प्रहर्षयसि गन्धर्वान् दत्तात्रेय नमोऽस्तु ते ॥ ८२ ॥

जमदग्निप्रिया येन द्रवीभूता सुराशिना ।

पुरा निष्पन्दमभवत् दत्तात्रेय नमोऽस्तु ते ॥ ८३ ॥

नानारूपम् समास्थाय विना वर्णैस्समाधृतः ।

सम्प्रीणयसि धर्मात्मन् दत्तात्रेय नमोऽस्तु ते ॥ ८४ ॥

भक्तिम् वै भुक्तिकामेषु मुक्तिम् मुक्त्यभिकामिषु ।

प्रदास्यति भवानेव दत्तात्रेय नमोऽस्तु ते ॥ ८५ ॥

केनापि कामेन भवान् तपाम्सि कुरुते क्वचित् ।

क्वचित्विहरते रागी दत्तात्रेय नमोऽस्तु ते ॥ ८६ ॥

इति स्तुतो महायोगी प्रीणयन्नखिलान् सुरान् ।

दत्तात्रेयस्स भगवानूचिवान् वचनम् तदा ॥ ८७ ॥
दत्तात्रेयः –
भो महेन्द्रादयो देवाः किमिदानीमुपस्थितम् ।

प्रशम्सत भयम् त्यक्त्वा क्रियते भवदीप्सितम् ॥ ८८ ॥
सुराः –
महाकुलधनम् सूर्यरक्षितम् वसु वामकम् ।

पुरास्माभिर्दैत्ययुद्धे दत्तम् हव्यभुजाश्रमे ॥ ८९ ॥

अस्य दुर्ललिते भीत्या कुतोऽपि दलितम् वसु ।

सर्वे वयम् विचिन्वन्तस्सेन्द्रास्साग्निपुरोगमाः ॥ ९० ॥

प्रसीद वासम् शरणम् भवन्तमिह विष्ठितम् ।

तन्निवेदयिता त्वाम् वै विना कोऽपि न विद्यते ॥ ९१ ॥

भवद्वसूनि सङ्गृह्य बलवन्तो वयम् सदा ॥ ९२ ॥
दत्तात्रेयः –
इतो रक्तशिलायाम् वै लक्ष्यते वसुवामकम् ।

युष्मन्मूलधनम् वह्नेर्दूरात् सम्पतितम् भुवि ॥ ९३ ॥

भूताधिपोऽरक्षदिमम् निकुम्भ इति विश्रुतः ।

मदाज्ञया प्रेरितस्तु निस्तारयति वैरिणः ॥ ९४ ॥

तत्र गच्छत हा देवाः यूयम् स्वस्ति भवद्वचः ।

निकुम्भस्स तु विज्ञाय सर्वम् विज्ञापयिष्यति ॥ ९५ ॥

अगस्त्यः –
ततो निशम्य तद्वाक्यम् सम्प्रहृष्टा दिवौकसः ।

निकुम्भरक्षितम् वामम् वसु गृह्येदमब्रुवन् ॥ ९६ ॥

सुराः –
दत्तेन वसु वामम् वै रक्षितम् निम्नसीमनि ।

वसुप्रभृतिसम्पूर्णम् सलिलैः प्रभविष्यति ॥ ९७ ॥

इदम् क्रीडासरो नाम दत्तात्रेयस्स यास्यति ।

इदम् रत्नतटाकम् च व्याहरन्ति पुराविदः ॥ ९८ ॥

वामानाम् च वसूनाम् वै रक्षणादेव कारणात् ।

इदम् देवसरो नाम व्याहरन्ति मनीषिणः ॥ ९९ ॥

अत्र ये मनुजा देवाः गन्धर्वाश्चापि किन्नराः ।

स्नान्ति दत्तह्रदे तैस्तु प्राप्यन्ते सर्वसम्पदः ॥ १०० ॥
अगस्त्यः –
गृह्य वामम् वसु सुराः नृहरिम् वन्द्य तत्क्षणात् ।

दत्तम् च श्लाघयन्तो वै स्वाराज्यम् प्रतिपेदिरे ॥ १०१ ॥

तत्र रक्ततटाके यस्स्नाति मर्त्यस्स्वबन्धुभिः ।

भोगाननन्तान् सम्प्राप्य प्रेत्य स्वर्गे महीयते ॥ १०२ ॥

अस्य प्राचीनसद्रोण्याम् कान्तारम् व्याघ्रसेवितम् ।

नाना ऋषिगणाकीर्णंम् दृश्यते बहुपादपम् ॥ १०३ ॥
विश्वामित्रस्य भविता तस्याश्रमपदम् परम् ।

यस्य ब्राह्म्यम् महातेजो नृसिम्हो दास्यति क्षणात् ॥ १०४ ॥

वसिष्ठस्याश्रमपदम् तस्य दक्षिणतो मुने ।

तस्य सौरमहाराजा तमर्थयति सङ्गमात् ॥ १०५ ॥

गीयते च पुराणेषु श्लोकोऽयम् ब्रह्मणा पुरा ।

पुराणकर्ता भगवान् नप्ता यस्य मुनीश्वरः ॥ १०६ ॥

स ब्रह्मयोगद्वेद्या यस्य सुभ्रू अरुन्धती ।

पुरा रामस्य धर्मात्मा सानुजो वम्शवर्धनः ॥ १०७ ॥

सरयूरोधवसतिर्जानकीवाक्यचोदितः ।

वसिष्ठम् जपताम् श्रेष्ठमिदम् वचनमब्रवीत् ॥ १०८ ॥
रामः –
चिरस्थायि चरित्रम् वै यथा भवति तद्भवान् ।

मुने सम्स्कृतया वाचा करोतु चरितम् मम ॥ १०९ ॥

नरकेसरिशैलस्य पादपार्श्वे मनः कृथाः ।

यत्राञ्जनेयो नृहरेः प्रीतये कुरुते तपः ॥ ११० ॥

गत्वा तत्र महाभाग नृसिम्हानुज्ञया भवान् ।

मामकम् चरितम् कृत्वा वैष्णवम् लोकमेष्यति ॥ १११ ॥
अगस्त्यः –
इत्युक्तोऽरुन्धतिपतिरनुज्ञाप्य रघूद्वहम् ।

वसन्निह वसिष्ठस्य प्रीणयामास वैष्णवान् ॥ ११२ ॥

अनुग्रहेण नृहरेर्वैष्णवानाम् द्विजन्मनाम् ।

माहात्म्यम् रघुनाथस्य कृतवान् भगवान् मुनिः ॥ ११३ ॥

अस्याश्रमपदम् नानाऋषिसङ्घनिषेवितम् ।

वसिष्ठतीर्थम् तत्रैव शोभते निर्मलोदकम् ॥ ११४ ॥

वसिष्ठतीर्थे ये स्नान्ति ये वा तत्पदवासिनः ।

ते माहात्म्यविदो विष्णोस्सान्निध्यम् प्राप्नुयुर्नराः ॥ ११५ ॥

अद्यायम् पठते भक्त्या य इदम् शृणुते नरः ।

समर्त्यस्सगणो लोकान्वैष्णवान्प्राप्नुयात् सुधीः ॥ ११६ ॥

इति ब्रह्मकैवर्त्ये उत्तरखण्डे भृगुपराशरसम्वादे घटिकाचलमाहात्म्ये पञ्चदशोsध्यायः ॥

षोडशोsध्यायः

अगस्त्यः –
ब्रह्मरुद्रेन्द्रमरुतामपि गृह्य प्रदक्षिणम् ।

अन्तरम् च तथा गृह्य दृश्यते तदनुग्रहात् ॥ १ ॥

तथा प्रदक्षिणद्वन्द्वम् कुरु त्वम् विजितेन्द्रियः ।

स्नानम् च भवता कार्यम् हनुमत्कमलाकरे ॥ २ ॥

तमुपास्य हनूमन्तम् प्रार्थितम् लभ्यते त्वया ।

तोषणेन पितृणाम् च नृहरेः पदमेष्यति ॥ ३ ॥

इतोऽवरुन्द्य शैलेन्द्रात्पश्चिमाम् दिशमास्थितः ।

गच्छ शीघ्रम् महात्मम्स्त्वम् सुधा सम्प्राप्यते त्वया ॥ ४ ॥

यथा हनूमान् तेजस्वी प्रसन्नो भविता तथा

क्रियताम् यत्नसम्पत्तिस्सर्व सेत्स्यति चिन्तितम् ॥ ५ ॥

किमत्र बहुनोक्तेन श्रोतव्यो भगवान् त्वया ।

स्तुतिप्रसन्नो भगवान् दद्यान्नृणामभीप्सितम् ॥ ६ ॥

अजानन् स्वबलम् नित्यम् स्तुत्या जानन्महामते ।

अलक्षीकुरुते सर्वान् सूर्यो वा यदि चन्द्रमाः ॥ ७ ॥

पुरा यम् मन्दरम् शैलमध्युवास समीरणः । अञ्जनास्पर्शनेनामुमजीजनदनुत्तमम् ॥ ८ ॥

प्रादुर्भावक्षणेनायम् क्षुधितो बलगर्वितः ।

अथ तम् भास्करम् दृष्ट्वा प्रायाद्दाडिमशङ्कया ॥ ९ ॥

उड्डीयमाने व्योमस्था देवास्सेन्द्राः प्रदुद्रुवुः ।

आःकिमेतदिति व्यग्रा यक्षा भूतानि मेनिरे ॥ १० ॥

अभियान्तम् ततो दृष्ट्वा हनूमन्तमहःपतिः ।

समीरणस्य माहात्म्याद्वेगवन्तमकीर्तयत् ॥ ११ ॥

भास्करः –

हनूमन् बाल्यसमये वेगो ह्यनुपमस्तुतः ।

पूर्वक्षणे समुत्पन्नो द्वितीयक्षणविह्वलः ॥ १२ ॥

ईदृग्विधो जवस्स्वस्य गुरोरप्यधिका गुणाः ।

तस्मात्तव प्रसन्नोऽहम् सद्विद्या वैदिकी तव ॥ १३ ॥

चतुर्भुजत्वमपि ते ब्रह्मचर्येण सेत्स्यति ।

यो ब्रह्मणा स्तौति दत्तवरमज्ञमनिन्दितम् ॥ १४ ॥

तस्य स्वबलविज्ञानीम् घटयिष्यति चिन्तितम् ।
अगस्त्यः –
एवमुक्त्वा दिनाध्यक्षः करस्थकमलादिभिः ॥ १५ ॥
विकृष्य कमलम् तस्मै रसपूर्णम् प्रदत्तवान् ।

हनूमान् प्रणम्य शिरसा प्रगृह्य मधुवारिजम् ॥ १६ ॥

हर्षफुल्लदनाक्लेशः प्रययौ पितुराश्रमम् ।

तादृग्विधम् विक्रमम् च कृत्वा विक्रमचेतसा ॥ १७ ॥

वायुना पाल्यमानस्तु प्रावर्धत दिने दिने ।

कदाचित् क्रीडमानस्तु बालभावेन चैन्दवम् ॥ १८ ॥

कलङ्कहरिणम् ज्ञात्वा कृतवान् ग्रहणे मतिम् ।

ततो जवेन भास्वन्तम् नभोमध्ये सुधाकरम् ॥ १९ ॥

ग्रहीतुकामो भगवान् पुप्लुवे चन्द्रमण्डलम् ।

गृहीतुमनसम् दृष्ट्वा चिह्नमज्ञानतो मृगम् ॥ २० ॥

शशिराम् प्रेरयामास हिमानीम् हिमदीधितिः ।

सा तेन प्रेरिता वायुनन्दनम् जवशालिनम् ॥ २१ ॥

शिशिरार्तस्समायाति किमित्युक्त्वा तमाप वै ।

तत्र वृत्तिम् ततो दृश्य स्वभूवात्सल्यतो मुने ॥ २२ ॥

समीरणोsपि भगवान् प्रायात्तान्दिशमाकुलम् ।

मूर्तिमन्तमथो दृष्ट्वा समीरस्ताम् प्रविश्य वै ॥ २३ ॥

पदात् पदम् प्रचलितुमक्षमाम् व्याकरोत् तदा ।

मारुतिस्तु ततो वेगात् हिमानीम् दृश्य चाक्षमः ॥ २४ ॥

प्रायाच्चन्द्रमसो बिम्बम् निरुपाधिजवस्तथा ।

चन्द्रमास्तु मरुत्पुत्रम् मृगीण्यामाकृतिम् तदा ॥ २५ ॥

जवमामास्थाय विक्रान्तम् दृश्य सस्मार वासवम् ।

विधोस्सम्स्मृतिमात्रेण वासवः प्रत्यदृश्यत ॥ २६ ॥

वज्रधन्वा गजाद्यक्षमधिरुह्य वियत्स्थितः ।

एष विष्णुशरीरस्स इति सञ्चिन्त्य मारुतिः ॥ २७ ॥

करेण ताडयामास गजराजम् बलोद्धतः ।

ताडितस्तेन नागेन्द्रः पलायनपरोऽभवत् ॥ २८ ॥

प्रधावतो गजेन्द्रस्य स्कन्धारूढो दिवस्पतिः ।

उन्मुखीभूय चिक्षेप वज्रम् पवनजम् प्रति ॥ २९ ॥

तेन वज्रेण किञ्चिद्वै निहतो हनुभागतः ।

मारुतिर्हनुमान्नाम वहन् चन्द्रमधावत ॥ ३० ॥

चन्द्रस्तु देवतात्मासौ तमालोक्य निराकुलम् ।

अभीकम् तम् हनूमन्तमिदमूचुर्महामते ॥ ३१ ॥

चन्द्रः –
मम लक्षणमेतद्धि दुर्ग्रहम् ह्यगमत् त्वया ।

तथापि भवतो यानम् सफलम् कर्तुमाद्रिये ॥ ३२ ॥

इमाम् स्वीकुरु भद्रम् ते सुधाम् सुरवरोचिताम् ।

यथा यद्याचितम् तद्धि दीयते नात्र सम्शयः ॥ ३३ ॥

जवातिरेको भवतो मनो मे प्रीणयन्नयम् ।

प्रदापयति ते वायुसूनो त्वद्याचितम् सदा ॥ ३४ ॥

हनूमान् –
वधो त्वयि त्वया दत्ता सुधा नक्षत्रनायक ।

निक्षिप्यते यथा काङ्क्ष्यमेतदादीप्यताम् त्वया ॥ ३५ ॥

अगस्त्यः –
इति चन्द्रमसि क्षिप्य दीप्यमानाम् सुधाम् नवाम् ।

हनूमान् वेगसम्पन्नो जगाम भवनम् तथा ॥ ३६ ॥

तद्गत्वा हनुमत्पार्श्वम् स्मर्तव्यम् वृत्तमीदृशम् ।

ततो हनूमान् सर्वम् ते तद्दास्यति न सम्शयः ॥ ३७ ॥

पूषा –
इतीदम् बोधितस्तेन तत्रागस्त्येन धीमता ।

वामदेवो हृष्टमनाः पश्चिमाम् दिशमभ्ययात् ॥ ३८ ॥

अगस्त्य वचनम् चित्ते कृत्वा तत्वावबोधकः ।

वामदेवो हनुमतश्शैलपादमुपारुहत् ॥ ३९ ॥

तत्रापश्यन्महाव्याघ्रान्सिम्हान्नागान्बहून्मृगान् ।

पञ्चवक्त्रान्सप्तवक्त्रान्दशवक्त्राननेकशः ॥ ४० ॥

सरीसृपान्धावमानान्शतशीर्षाम्श्च काम्श्चन ।

प्रलम्बमानान्कुहरे जृम्भमानाम्श्च पङ्क्तिशः ॥ ४२ ॥

क्वचित्पर्वतसङ्काशान् क्वचिद्घनसमान् गजान् ।

क्वचिदैरावतप्रख्यान् गजराजान् ददर्श ह ॥ ४३ ॥
चतुर्दन्तानपि गजान् पञ्चदन्तान्मृगाधिपान् ।

क्वचिच्च किन्नरा हृष्टाः क्वचित्किम्पुरुषाङ्गनाः ॥ ४४ ॥

क्वचिद्गन्धर्वपतयः क्वचिद्दैत्याः क्वचित्सुराः ।

क्रीडन्ति वानरान्गृह्य विटावेश्याजनान् क्वचित् ॥ ४५ ॥

एतान् सर्वान् समालोक्य वामदेवः प्रसन्नधीः ।

चरितार्थमिवात्मानम् मन्वानो वाक्यमब्रवीत् ॥ ४६ ॥

हे वयस्या न वो भीतिर्मनसाम् वीक्ष्य कुञ्जरान् ।

इमे हि हनुमत्सृष्टा न बाधन्ते सदा जनान् ॥ ४७ ॥
अत्र सन्निहतश्शैलपादे हनुमतो महान् ।

भगवान्स्तत्पिता यस्माद्वाति जाम्बवदद्य धृक्  ॥ ४८ ॥

इह देवास्सगन्धर्वा वायुनन्दनसेविनः ।

स्नात्वा हनूमतस्तीर्थे विनिर्गच्छन्ति सङ्घशः ॥ ४९ ॥

विश्वावसुमुखा देवाः प्रत्यहम् हनुमत्पदम् ।

आश्रित्य कुर्वते स्नानम् तत्तीरे मुक्तिकाङ्क्षया ॥ ५० ॥

अत्र सन्निहितो माघस्सर्वपापविदारकः ।

अत्र स्थित्वा तपः कुर्मो मासमेकम् प्रयत्नतः ॥ ५१ ॥

पश्चाद्विधास्यति क्षिप्रम् हनुमानस्मदीप्सितम्।

इत्युक्त्वा तानृषिसुतानगस्त्याभिमतेन वै ॥ ५२ ॥

वर्त्मना गिरिराजस्य प्रदक्षिणमथाकरोत् ।

पूर्वचिन्तनमव्यग्रो गर्भिणीवत्पदात् पदम् ॥ ५३ ॥

पूर्वोक्तविधिना स्नातो व्यनैषीत् प्रत्यहम् तु यः ।

उत्तरस्मिन् हनुमतः पार्श्वे पर्णमयीम् कुटीम् ॥ ५४ ॥

कृत्वा तपाम्सि कुरुते सह सद्ब्रह्मवादिभिः ।

एवम् काले नीयमाने प्रादुरासीत् तपोवने ॥ ५५ ॥

भानुवारसमायुक्ता दृश्यते माघपौर्णिमा ।

तस्मिन् दिने वामदेवः प्रातरुत्थाय निर्मलः ॥ ५६ ॥

गत्वा हनुमतस्तीर्थम् मलम् प्रक्षाल्य वारिणा ।

त्रिराचम्य शुचिर्भूत्वा प्राङ्मुखो विनयान्वितः ॥ ५७ ॥

पारिजाततरोर्मूलेवासिनम् वनवासिनम् ।

पश्चिमाभिमुखम् बालम् हनूमन्तम् भजम्स्तदा ॥ ५८ ॥

नाभिदघ्ने जले स्थित्वा वैदिकम् मन्त्रमुच्चरन् ।

स्नात्वा धृतपरीधानः पक्षमन्वास्य पूरकम् ॥ ५९ ॥

सरस्तीरे समासीनम् हनूमन्तमतन्द्रितः ।

त्रिम्शत्कृत्वस्समाप्लुत्य स्तोत्रयामास केवलम् ॥ ६० ॥
वामदेवः –
त्वम् वै वरेण्यो हनुमन् वनौकसाम् त्वम् कीर्तनीयस्सततम् महीभुवा ।

त्वम् श्लाघनीयो रघुवम्शकेतुना त्वम् नन्दमीयोsसि दिवौकसाम् गणैः ॥ ६१ ॥

अशोकवन्याम् त्वमशोकदाता त्वमक्षहन्ता त्वमनिन्द्यविक्रमः ।

त्वम् गोष्पदीभूतमहार्णवोऽसि त्वमन्तवेद्यस्स्तुतवेगलाञ्छन ॥ ६२ ॥

रक्षःपुरद्वारकृतावतारलङ्काभिदम् कातरितोऽङ्गुलिक्रमात् ।
निरर्गलम् सौरिपुरी प्रवेशिता तस्मै नमो मारुतये महात्मने ॥ ६३ ॥

सम्पातिवाक्येन वनौकसाम्स्तवैर्निरस्य विघ्नान् पथि भव्यशालिना ।

विलङ्घितो येन महापयोनिधिर्नमो नमस्ते महते हनूमते ॥ ६४ ॥

वालाग्रनिष्ठ्यूत महानलेन यो लङ्काम् निराकारमहन्निरङ्कुशम् ।

महीभुवम् प्रीणयति स्म जानकीम् नमो नमस्ते महते हनूमते ॥ ६५ ॥

हिरण्यनाभः पथि ताडितोsपि सन् यम् रामदूतम् समनन्दयत् पुरा ।

फलैश्च पुष्पैरपि साधयन् गिरा नमो नमस्ते महते हनूमते ॥ ६६ ॥

मुक्ताट्टहासान्विरचय्य मन्त्रिजान् कुमारमक्षम् च मृथे प्रसह्य वै ।

विनिष्पिपेष प्रसभम् च तद्वनम् नमो नमस्ते महते हनूमते ॥ ६७ ॥

जनिक्षणादेव शशिप्रभाकरौ जवातिरेकाद्बलवान्निरस्य तौ ।

स्तुतस्तुताभ्यामधतन्महिङ्गतो नमो नमस्ते महते हनूमते ॥ ६८ ॥

विदेहकन्या चिकुरे परीप्सितम् मणिम् समाधाय विलङ्घ्य चार्णवम् ।

प्रदापयामास रघूद्वहाय यो नमो नमस्ते महते हनूमते ॥ ६९ ॥

कृत्वाऽभिषेकम् तरुणाम्बुधारया दृढाम् कपालीमपि राघवेश्वरः ।

यस्मै ददातीतरमृग्यमन्वहम् नमो नमस्ते महते हनूमते ॥ ७० ॥

वचोऽनुरोधेन पुरा महामृधे वर्षीयसो जाम्बवतो महौषधीः ।

प्रगृह्य योऽजीवयदूर्मिलासखम् नमो नमस्ते महते हनूमते ॥ ७१ ॥

त्वम् रामदूतोऽसि दशास्यदर्पहा त्वम् वेदवेद्योऽसि महर्षिपूजितः ।

त्वम् रुद्ररूपोऽसि भवान् हि वैष्णवः पुराविदस्त्वाम् विविधा गृणान्ति वै ॥ ७२ ॥

त्वम् पुत्रकामेषु सुपुत्रदाता त्वम् वीर्यकामेषु सुवीर्यदाता ।

त्वम् भक्तिकामेषु हि भक्तिदाता किम् किम् न दाताऽसि नृणाम् हनूमन् ॥ ७३ ॥

स्तुतिप्रियस्त्वम् पवनप्रियस्त्वम् भक्तप्रियस्त्वम् नृहरिप्रियस्त्वम् ।

रामप्रियस्त्वम् सवितृप्रियस्त्वम् प्रसीद मह्यम् हनुमन्नमस्ते ॥ ७४ ॥

नमस्ते नमस्तेऽस्तु नाथाय तुभ्यम् नमस्ते नमस्तेऽक्षप्राणहन्त्रे ।

नमस्ते नमस्तेऽसुरगर्भहन्त्रे नमस्ते समस्ताभिलाषप्रदात्रे ॥ ७५ ॥

पूषा –

इति स्तुतो महायोगी वानरेन्द्र प्रहर्षितः ।

ऊचे सम्स्कृतया वाचा वामदेवम् कृताञ्जलिम् ॥ ७६ ॥
श्रीहनुमान् –
वामदेव त्वया यद्वा वाञ्छितम् वद साधये ।

विवादो नात्र कर्तव्यो नृहरौ शास्तरि स्थिते ॥ ७७ ॥

वामदेवः –
महातपा नाम पिता मम मारुतनन्दन ।

वेदानध्यापयामास सानुक्रोशेन मादृशान् ॥ ७८ ॥

तत्रायम् शैशवात् स्वामी पिता सम्प्रार्थितो मया ।

अधीताश्श्रुतयस्तात दीयते गुरुदक्षिणा ॥ ७९ ॥

तदा माम् बालिशम् वाक्यमूचिवान् स महातपाः ।

वारयामास बहुशस्सहशिष्यमनादृतः ॥ ८० ॥

अथो निर्बन्धतो राजन् वासराणाम् महातपाः ।

सुधा मे दीयताम् वस्तु पितुश्श्राद्धाय गुर्विणे ॥ ८१ ॥

इत्युक्तोऽहममीभिस्तु सह भ्रात्रैः पितुर्गुरोः |

अगस्त्यस्याश्रमपदम् प्राप्तवान् पवनात्मज ॥ ८२ ॥

नमस्कृतो मयागस्त्यस्सर्वम् बुद्ध्वा मदीप्सितम् ।

इह याहीति मामाह हनूमन्स्तव सन्निधौ ॥ ८३ ॥

स हि स्तुतस्सर्वकामान् प्रदास्यति न सम्शयः ।

प्रार्थितादधिकम् दातुम् क्षमते हनुमानिति ॥ ८४ ॥

इत्युक्तो मुनिना सोऽहमगस्त्याधिष्ठवर्त्मना ।

सम्प्राप्तो दैवयोगेन हनूमन् भवदन्तिकम् ॥ ८५ ॥

श्रीहनुमन् –

सुधा निक्षेपरूपेण स्थापिता चन्द्रमण्डली ।

सा हीदानीम् भवद्वस्तु दीप्यते सुमनोहरम् ॥ ८६ ॥

पूषा –
तत्रान्तरे स भगवान् चन्द्रमा हनुमत्पदम् ।

नमस्कृत्यास नृहरेरवतीर्णो नगोत्तमम् ॥ ८७ ॥

अवगाह्य महातीर्थे पावनेः पावने तथा ।

भगवान्श्चन्द्रमाः पार्श्वम् हनूमन्तमुपासदत् ॥ ८८ ॥

अथोत्थाय हनूमान्स्तु बहुमानेन चक्षुषा ।

पश्यन्नपश्यायकरमिदमूचे सुधाकरम् ॥ ८९ ॥

श्रीहनुमान् –
नक्षत्रेश महाभाग त्वयि गुप्ता मया पुरा ।

या सुधा मुनिपोताय दीयताम् तदिदम् त्वया ॥ ९० ॥

जन्मप्रभृति वत्सोऽयम् हरिभक्तो जितेन्द्रियः ।

वामदेवो महायोगी विशेषम् हनुमत्प्रियः ॥ ९१ ॥

हनुमत्प्रीणनाच्चैव पितॄणाम् प्रीणनेन च ।

गुरुप्रीणनयाप्यस्मिन् प्रसन्नो नरकेसरी ॥ ९२ ॥

चन्द्रमाः –
दुर्लभा हि सुधा लोके यदस्मिन् दीयते त्वया ।

हनूमन्स्तद्दयादेव देवो मर्त्यो न केवलम् ॥ ९३ ॥

अमुना रचितस्स्तोत्रम् त्वत्कृते पवनात्मज ।

विलिख्य पठते यस्तु श्रुणुते वा सताम् मतः ॥ ९४ ॥

विशिष्य पौर्णमास्याम् वै भानुवारे पठेन्नरः ।

त्वत्कृपालम्बनद्वारा विष्णुभक्तिः प्रजायते ॥ ९५ ॥

सुदुर्लभम् नृणाम् जन्म नरकेसरिणः पथे ।

तत्रापि दुर्लभा विष्णौ भक्तिरव्यभिचारिणी ॥ ९६ ॥

भवत्कृपातिरेकेण नरो वा देवतापि वा ।

नृहरौ भक्तिमभ्येत्य जीवन्मुक्तो न सम्शयः ॥ ९७ ॥

पूषा –
इति सङ्कीर्त्य च ददौ सुधाम् तापसयोगिने |

हनूमतोऽनुमत्यासौ नृहरेः पदमभ्यगात् ॥ ९८ ॥

ततो हनूमान् मुनये दापयन् चन्द्रमस्सुधाम् ।

निश्रेयसम् ते भावीति व्याहृत्यान्तरधात्तदा ॥ ९९ ॥

वामदेवः –
सुधाम् प्रगृह्य धर्मात्मा हनुमद्वाक्ययोदितः ।

हस्तामलकवन्मेने नृहरेरपरोक्षताम् ॥ १०० ॥

वाञ्छितादधिकम् दद्याद्धनुमानिति यद्वचः ।

कुम्भयोनीरितम् तथ्यम् सर्वथा नात्र सम्शयः ॥ १०१ ॥

इति विस्मयमापन्नो वामदेवस्सहानुगः ।

नृहरिम् च हनूमन्तम् ध्यायन्नाश्रममभ्यगात् ॥ १०२ ॥

ततो गत्वाश्रमपदम् प्रश्रयावनतो मुनिः ।

अभिवाद्य गुरुम् पश्चाद्दर्शयामास ताम् सुधाम् ॥ १०३ ॥

ततो वाहतवर्णी ताम् सुधाम् गृह्य महातपाः ।

मूर्ध्न्युपाघ्राय तनयम् पस्पर्श स मुहुर्मुहुः ॥ १०४ ॥

तामेव गाथामनिशम् श्राव्याम् हनुमतः प्रियाम् ।

शृण्वन् दुरुस्तथा पुत्रम् प्रीणयन् स जहर्ष ह ॥ १०४ ॥

राजर्षे तादृशस्यैव महिम्नः पदमास्थितः ।

वामदेवो नरहरेः प्रसादान्मुक्तिभाक् क्षणात् ॥ १०५ ॥

किम् पुनः पुनरुक्तेन नरसिम्हपदे वसन् ।

वैष्णवीम् भक्तिमासाद्य जीवन्मुक्तो भवेन्नरः ॥ १०६ ॥

इति ब्रह्मकैवर्त्ते उत्तरखण्डे भृगुपराशरसम्वादे घटिकाचलमाहात्म्ये षोडशोऽध्यायः ॥

सप्तदशोsध्यायः

श्रीवसिष्ठः –

इतीरितस्तु भगवान् विश्वामित्रो महामुनिः ।

हर्षसङ्कुलया वाचा प्रस्तोतुमुपचक्रमे ॥ १ ॥

सहस्रशीर्षाय सहस्रबाहवे सहस्रपादाय सहस्ररोचिषे ।

महानुभावाय महास्त्रचारिणे नमः परस्मै पतये महात्मनाम् ॥ २ ॥

अगाधसत्वाय तमोsपहारिणे महात्मने सत्यमहावियत्स्पृशे ।

अनामयायामितधीमयाय ते नमो नमः कारणकारणाय ॥ ३ ॥

अजाय लोकत्रयपावनाय भूतात्मने शिक्षितसम्हताय ।

सूर्याय सर्गप्रलयालयाय नमो महाकारुणिकोत्तमाय ॥ ४ ॥

नमः प्रशास्त्रे जगताम् त्रयाणाम् नमः प्रशास्त्रे जहि विद्विषे मे ।

तमोनिहन्त्रे हृदयङ्गमाय नमः प्रवक्त्रे निगमादिवाचम् ॥ ५ ॥
विवस्वते ज्ञानिहृदन्तरात्मने जगत्प्रतीताय जगद्धितैषिणे ।

स्वयम्भुवे दीप्तसहस्रचक्षुषे सुतोत्तमायामिततेजसे नमः ॥ ६ ॥

नमः सवित्रे जगदेकचक्षुषे जगत्प्रसूतिस्थितिनाशहेतवे ।

त्रयीमयाय त्रिसूमूर्तिधारिणे विरिञ्चिनारायणशङ्करात्मने ॥ ७ ॥

ज्योतिर्गणानाम् पतये नमस्ते दिनाधिनाथाय दिवाकराय ।

नमः प्रभाणामधिपाय शास्वते नमः परस्मै महते बलाय ॥ ८ ॥

हिरण्यरूपाय हिरण्मयाय हिरण्यकेशाय हिरण्यबाहवे ।

हिरण्यधूम्ने च हिरण्ययोनये हिरण्यनाभाय नमो हिरण्वते ॥ ९ ॥

विश्वात्मने पूर्वमहीघ्ररूपिणे नमः परायावनिभृद्विहारिणे ।

छायाप्रमाथिप्रमदाकुटुम्बिने नमो नमस्ते त्रिजगत्कुटुम्बिने ॥ १० ॥

त्वम् यत्र रूपी प्रतिभानवानसि त्वम् सत्प्रणेता भगवानसि प्रभुः ।

त्वम् तत्फलानामशनायकल्पितस्त्वम् हव्यकव्यप्रसवस्त्वमीश्वरः ॥ ११ ॥

योsसौ तपन्नुदयमेति नभोऽन्तराले वह्निभ्य एव किरणान् प्रतिगृह्य शान्तान् ।

भूयोsपि तत्र विसृजस्यधिकम् त्वमेव सायन्तनेषु समयेषु तथा गृणन्ति ॥ १२ ॥

वसिष्ठः –
इति स्तुतिनमस्याभ्याम् तोषितो भास्करो विभुः ।

विश्वामित्रम् तथा राजन्निदम् वचनमब्रवीत् ॥ १३ ॥

पूषा –
स्तवेनानेन राजर्षे तोषितोऽहम् त्वयाभितः ।

यद्यद्वाञ्छसि धर्मात्मन् तत्तत्ते दीयते मया ॥ १४ ॥
विश्वामित्रः –
भगवन् त्वत्प्रसादेन सर्वम् मे साधु लक्षितम् ।

ब्राह्मण्यम् च प्रदत्तम् चेदुत्तीर्णोऽहम् त्वदाज्ञया ॥ १५ ॥

श्रीनृसिम्हतनौ भक्तिर्मम भूयादचञ्चला ।

वसिष्ठवचसा यस्मात् ब्राह्मण्यया प्रादुरेष्यति ॥ १६ ॥

दुर्लभा वैष्णवी भक्तिर्यया मुक्तो भवेन्नरः ।

सामर्थ्यम् दीयताम् भानो प्रसन्नो यदि सर्वदा ॥ १७ ॥

पूषा –
अयम् हि घटिकाशैलश्शृङ्गकोटिविराजितः ।

प्रधानान्यत्र सानूनि चतुर्दश महान्ति वै ॥ १८ ॥

शैलोत्तरे शृङ्गवरे ब्रह्माध्यापयति श्रुतीः |

शिष्येभ्यस्तु विशिष्टेभ्यो ब्रह्मतीर्थतटे सदा ॥ १९ ॥

तस्याविदूरे महतामृषीणाम् पुण्यकर्मणाम् ।

तत्राश्रमस्ते भविता राजर्षे भवदाख्यया  ॥ २० ॥

सरश्च तत्र सततम् निर्मलोदकमुत्तमम् ।

तावकम् दीप्यतस्तस्मात् श्रीर्जज्ञे विदुषाम् पते ॥ २१ ॥
तस्योत्तरदिशि स्फीतम् महासर इति श्रुतम् ।

यस्य पादे नरहरिर्लक्ष्मीमुदवहद्धरिः ॥ २२ ॥

अभ्रङ्कषमहावृक्षास्तत्र सन्ति फलोपगाः ।

पुष्पोपगाश्च तरवस्समृद्धविटपैस्सदा ॥ २३ ॥

मृगाश्च शतशस्तत्र द्वन्द्वम् द्वन्द्वम् रमन्ति वै ।

प्रसन्नाः पक्षिणस्तत्र तथा क्रीडन्ति रागिनः ॥ २४ ॥

विश्वामित्रः –
भास्वन् कथम् जनिर्वास्मिन् सुधार्णवभुवश्रियः ।

अभवद्भगवान् वायम् पाणिग्रहणतत्परः ॥ २५ ॥

पूषा –
पुरा लक्ष्मी महामाया स्वोत्पत्तिम् पुनरिच्छती ।

सहस्रपत्रकमलाज्जज्ञे त्रिजगदीश्वरी ॥ २६ ॥

सा कन्यारूपमास्थाय श्रीनृसिम्हपुरे वरे ।

अवतीर्य सरस्तीरे वासम् चक्रे सखीजनैः ॥ २७ ॥

पुरस्य नैऋते पार्श्वे घटिकाद्रेस्तथोत्तरे ।

ब्रह्मोदस्याविदूरे सा स्वनाम्ना सरसीम् व्यधात् ॥ २८ ॥

नत्र श्री रमते बाला डोलामारुह्य काञ्चनीम् ।

स्तूयमाना महद्भिश्च नित्यमप्सरसाम् गणैः ॥ २९ ॥

स्तुता गन्धर्वकन्याभिर्मुनिकन्याभिरीडिता ।

मुमुक्षुभिस्सदैश्वर्यकामिभिस्स्तूयते सदा ॥ ३० ॥

गजाभ्याम् हेमकुम्भाभ्याम् स्थापिता कर्णिकापदे ।

निषेदुषी कटाक्षेण जनयन्ती शुभम् नृणाम् ॥ ३१ ॥

तत्रान्तरे महाविष्णुर्मदनास्त्रविमोहितः ।

दैवतैः प्रार्थ्यमानस्तु श्रियमुद्वोढुमैच्छत ॥ ३२ ॥

पक्षिराजम् समारुह्य महेन्द्रवचसा हरिः ।

विचिन्वानो महालक्ष्मीम् जम्बूद्वीपमविन्दत ॥ ३३ ॥

विन्द्यम् च मन्दरम् चाद्रिम् तत्र शेषाचलम् तथा ।

आर्यावर्तम् महाविष्णुराकाशस्थो ददर्श ह ॥ ३४ ॥

अनन्तरम् च घटिकाशैलराजम् समुन्नतम् ।

वामदेवादिमुनिभिः पूजितम् पुण्ययोगिभिः ॥ ३५ ॥

अगस्त्येन शुकेनापि ब्रह्मणा पाण्डवैस्तथा ।

दुर्वाससा सप्तर्षिभिः पूजितञ्च महर्षिभिः ॥ ३६ ॥

तस्योत्तरदिशि स्फीतमुद्यानमुदकारजम् ।

नानापक्षिभिराकीर्णम् पश्यताम् लक्ष्मिवर्धनम् ॥ ३७ ॥

तत्रोद्याने महाचैत्ररथप्रख्ये विहारिणीम् ।

लक्ष्मीम् दृष्ट्वा प्रहृष्टात्मा बभूव सह दैवतैः ॥ ३८ ॥

भूयोऽन्तिकमुपाश्रित्य शङ्खचक्रधरो हरिः ।

गरुडस्थो लीलयैव जग्राह करवारिजम् ॥ ३९ ॥

पाणिस्थिम् पङ्कजम् गृह्यापश्यमानम् तथा हरिम् ।

दृष्ट्वादृष्ट्वा नतमुखीम् प्रभावाद्वारिजोद्भवाम् ॥ ४० ॥

पाणिम् गृह्य ततो विष्णुः परिष्वज्य च वार्धिजाम् ।

अङ्के निधाय सस्मेरमिदमूचे सुरान् प्रति ॥ ४१ ॥

विष्णुः –
अनया खलु सुश्रोण्या सर्वेषाम् भवतामपि ।

दिवि वा भुवि वा नृणाम् समृद्धास्सम्पदो गृहे ॥ ४२ ॥

एतदर्थम् पुरास्माभिर्मथितो दुग्धवारिधिः ।

इत्थम् खलु वरारोहाम् नारीणामुत्तमाम् सुराः ॥ ४३ ॥

क्षणमात्रमपि त्यक्तुम् लक्ष्मीमेनाम् मनोहराम् ।

न जीवेयमहम् थोबहिष्टो मस्त्यराडिव ॥ ४४ ॥

पुरा गौरीम् श्रियम् वाणीम् दृष्ट्वाहम् रुद्रवेधसौ ।

सर्वैश्चिन्तितमेतद्धि यासाम् वरयते नरः ॥ ४५ ॥
ततो माम् वरयामास लक्ष्मीरीशानमीश्वरी ।

सरस्वती च ब्रह्माणम् यथातथमुपागताः ॥ ४६ ॥

तदा प्रभृति बालेयम् मनो हरति मामकम् ।

सैषा प्रसन्ना वरदा नृणाम् च मरुतामपि ॥ ४७ ॥

महेन्द्र! भवता कार्यम् स्तवनम् कमलाम् प्रति ।

इयम् खलु महाभागा भुक्तिमुक्तिफलप्रदा ॥ ४८ ॥

महेन्द्र स्तुतिः –
त्वम् श्रीः ही: प्रिया विष्णोस्त्वमीशानि महेश्वरी ।

सरस्वती त्वमेकैव दृश्यसे नर्तकीव हि ॥ ४९ ॥

त्वदाश्रितानाम् प्रभवन्ति सम्पदः प्रसन्नभावेन परैर्दुरासदा ।

पुराणवाचोविषया त्वमेकिका सङ्गीयसे वेदवचोभिरादरात् ॥ ५० ॥

त्वम् विश्वगोप्त्री जगताम् जनित्री तथा निहन्त्री त्रिगुणाश्रया त्वम् ।

विष्णोरुरस्सीमनिषेदुषी त्वम् ददासि पुत्राम्श्च तथा फलानि ॥ ५१ ॥

कल्पादयो भूमिरुहाश्च चन्द्रमास्सुधा तथा कामगवी महाप्सराः ।

चिन्तामणिश्च मणिरेव समुज्ज्वलश्री सर्वाण्यमूनि तव सोदरभावभाञ्जि ॥ ५२ ॥

विष्णोरमुष्यत्रिजगत्प्रणेतुर्वक्षस्थले कौस्तुभरत्नभूषया ।

सहाधिवासम् भवतीव च स्म करोति काला भुवनेषु पद्मे ॥ ५३ ॥

अनादिभावम् गमितापि दुग्धपयोनिधौ जन्म तथा पयोजे ।

इतः परम् जन्म कुतोsपि देवि भावीति किम् सादिगणेषु गण्या ॥ ५४ ॥

यामेति वाग्भनवतीत च चन्द्रलेखा मूलेति शान्तिरिति पुष्टिरिति प्रमेति ।

इष्टिस्तथा मणिरिति प्रमदेति विष्णोस्स्वाहास्वधेतिविबुधाभवतीम् भणन्ति ॥ ५५ ॥

ह्रीम् क्लीमिति स्वकमलोपरि सम्स्थवर्णावाभ्याम् पुटीकृतमुपेत्य विभाति पद्मम् ।

श्रीम् श्रीमिति प्रतिपदम् जपताम् त्वदाख्याम् किन्नाम भाविनजगत्रितये बुधानाम्  ॥ ५६ ॥

दिग्दन्ति पुष्करगृहीतनवोदकुम्भधारातिनिर्यदुदकप्लवमानदेहाम् ।

दिव्याम्बराभरणमाल्यसुगन्धधूपदीपोपहारबलिभिः कमले भजे त्वाम् ॥ ५७ ॥

विश्वामयीति वचसामधिदेवतेति गौरीति भूमिरिति दीधितिरित्यजस्रम् ।

विद्याकरेति कमलेति शचीति च त्वां व्याकुर्वते निगमवाक्प्रवरास्सवित्रि ॥ ५८ ॥

इति स्तुता तदा देवी लक्ष्मीरुन्निद्रलक्षणा ।

अदादभीप्सितम् सर्वम् तस्मै विबुधस्वामिने ॥ ५९ ॥

विष्णुः –
यस्त्वनेन स्तवेनैव स्तोष्यत्यानम्रमूर्तिमान् ।

तस्य गेहे महालक्ष्मीस्तिष्ठते नात्र सम्शयः ॥ ६० ॥
इदम् सरोवरम् देव लक्ष्मीसर इतीर्यते ।

अत्र यस्स्नाति मनुजो वाञ्छितानि स वै लभेत् ॥ ६१ ॥

भृगुवारे श्रिया सङ्गो मम जातो महासुराः ।

विशिष्य भृगुवारे तु स्नातव्यम् नियमादितः ॥ ६२ ॥

अत्र सन्निहितो लक्ष्म्या वसन्ते समये त्वहम् ।

तदा ममोत्सवो लक्ष्म्या मम च प्रभविष्यति ॥ ६३ ॥

सुराः किम् बहुनोक्तेन नित्यम् सन्निहितस्त्वहम् ।

नरकेसरिणस्स्वैरम् बिम्बे विहतिमाद्रिये ॥ ६४ ॥

पूषा –
स्तूयमानो महाविष्णुर्महालक्ष्म्या सहामरैः ।

सनकादिस्तुतो देवस्तत्रैवान्तरधीयत ॥ ६५ ॥

भृगुवारे तु यस्स्नाति लक्ष्मीसरसि नित्यदा ।

सर्वान्कामान् समभ्येत्य विष्णुलोके महीयते ॥ ६६ ॥

वासो वापि फलम् वापि ताम्बूलम् वा गुडम् पयः ।

हरिद्रा वा सुवासिन्यै दातव्यम् तत्र शक्तितः ॥ ६७ ॥

कल्पोक्तेन प्रकारेण लक्ष्मीसरसि यः पुमान् ।

सुवासिनीम् प्रीणयते यथाशक्ति भृगोर्दिने ॥ ६८ ॥

लक्ष्मीसरसि यस्स्नात्वा भृगुवारे ह्यतन्द्रितः ।

लक्ष्मीनृसिम्हपूजाम् च कुरुते वै स सिद्धभाक् ॥ ६९ ॥

तस्मात् सर्वप्रयत्नेन नियमादादरात् तथा ।

नृसिम्हपूजा कर्तव्या पुम्सा साजुज्यमिच्छता ॥ ७० ॥

इति ब्रह्मकैवर्ते उत्तरखण्डे भृगुपराशरसम्वादे घटिकाचलमाहात्म्ये सप्तदशोऽध्यायः ॥

अष्टादशोsध्यायः

श्रीवसिष्ठः –
इति निर्दिश्य तपसे विश्वामित्रस्य धीमतः ।

द्वादशात्मा स भगवान् यथागतमुपेयिवान् ॥ १ ॥

विश्वामित्रस्तु धर्मात्मा राजर्षिस्समुपेष्य सः ।

ब्राह्मण्यकामो घटिकाशैलराजमुपासदत् ॥ २ ॥

पदे पदे चिन्तयानो वाक्यानि द्वादशात्मनः ।

प्रहृष्टचेता राजर्षिर्व्यतनोत् तत्प्रदक्षिणम् ॥ ३ ॥

प्रदक्षिणीकृत्य गिरिम् त्रिस्तथा नृपसत्तमः ।

सर्वान् ऋषीन्नमस्कृत्य ब्रह्माणमपि भैरवम् ॥ ४ ॥

रविनोक्तेन विधिना लक्ष्मीसरसि मज्जनम् ।

कृत्वा सुवासिनीपूजाम् भृगुवारे निराकुलः ॥ ५ ॥

तस्य दक्षिणपार्श्वस्थस्तपस्तेपे ह्यनुत्तमम् ।

दुर्दर्शम् च दुराधर्षम् सर्वैरपि महात्मभिः ॥ ६ ॥

विश्वामित्रो महाभागः कुरुते तादृशम् तपः ।

ग्रीष्मे पञ्चाग्निमध्यस्थो वर्षतौ सलिलम् गतः ॥ ७ ॥

शिशिरेषु तदा चक्रे तपः परमदारुणम् ।

अलक्ष्मीकृत्य विघ्नाम्श्च देवराजकृताम्स्तदा ॥ ८ ॥

फलमूलजलालम्बो मुमोचाशामतन्द्रितः ।

शाखोपशाखाश्शतशो वम्शवल्यस्तथाविधाः ॥ ९ ॥

तथ्यम् कलेबरम् तस्य व्यावव्रुः परतो भृशम् ।

पुरा फलाशसमये विष्णुमित्राय देवराट् ॥ १० ॥

प्रदर्शयामास पञ्च बदरान् विघ्नकारिणः ।

एषाम् फलानि भुक्त्वा वै नरो राजवशम् गतः ॥ ११ ॥

भ्रमते कामिनीपार्श्वे तान् पञ्चादर्शयन् बुधः ।

तानाश्रमपदापन्नानलीनान् फलशालिनः ॥ १२ ॥

महेन्द्रप्रेरितान् काम्ये स धर्मात्मा निराशयः ।

शशाप वीरुधः पञ्चनिष्पत्रा निष्फला इति ॥ १३ ॥

तदाप्रभृति दृश्यन्ते वीरुधो विटपात्मकाः ।

ब्राह्मण्यकामम् विज्ञाय तमृषिम् द्युम्नतेजसम् ॥ १४ ॥

मामीयुरमृतार्थम् वै श्रीनृसिम्हनिबोधिताः ।

अभ्येत्य मम सन्दिग्धगिरिम् सर्वे सुधाशनाः ॥ १५ ॥

देवाः –
तस्थिवाम्समिमम् देशम् मामूचुस्निग्धया गिरा ।

अस्तु भद्रम् भगवतो मित्रावरुणजन्मनः ॥ १६ ॥

भवतस्तत्रभवतो वसिष्ठो जपताम् वरः ।

अयम् महात्मा तपसाम् प्रभावेन बलम् द्विषः ॥ १७ ॥

महामराणाम् नृहरेरनुकम्पामवाप सः ।

विश्वामित्रस्य पार्श्वे तु गतमस्माभिरादरात् ॥ १८ ॥

ब्रह्मर्षित्वम् च भवते ददुरित्युक्तवर्तिने ।

वसिष्ठवचसा मह्यम् ब्रह्मर्षित्वम् प्रयच्छत ॥ १९ ॥

इतीरयति धर्मात्मा विश्वामित्रो महातपाः ।

विश्वामित्रस्य चरितम् श्रुत्वा योगभृताम् वरः ॥ २० ॥

श्रीनृसिम्हस्स भगवान् विस्मयम् परमेयिवान् ।

ततोऽस्माम्श्च सहेन्द्रेण चोदयामास तेऽन्तिकम् ॥ २१ ॥

भवद्वाक्येन लभताम् ब्रह्मर्षित्वम् मुनीश्वरः ।

वसिष्ठः –
इत्युक्तोऽहम् महीपाल हर्षनिर्भरमानसः ॥ २२ ॥
नृहरेश्शासनम् गृह्या देवानामनुगोऽभवम् ।

अद्राक्षमाश्रमपदम् विश्वामित्रस्य योगिनः ॥ २३ ॥

अद्राक्षम् च ततस्तत्र तरुवृद्धिमनेकशः ।

तत्र काञ्चन गुल्माम्श्च लताश्च विविधा द्रुमाः ॥ २४ ॥

भूत्वा बहुफलापुष्पैर्युञ्जवन्त्यश्च वीरुधः ।

क्रीडन्ति जन्तवस्तत्र द्वन्द्वशोऽपि तथापि सः ॥ २५ ॥

कथङ्कारी तपस्तीव्रम् क्रीडावानित्यचिन्तयन् ।

ततो लक्ष्मीसरस्याम् वै कृत्वाऽहम् कर्म चाह्निकम् ॥ २६ ॥

पश्चात्तस्याश्रमपदम् सह देवैस्तथागमम् ।

मालाकारो नृसिम्हस्य मया दृष्टो वनान्तरे ॥ २७ ॥

वनमालापि पतिता तन्मूर्ध्नि नभसश्च्युता ।

तदुत्तरक्षणे वापि शङ्खचक्रधरो युवा ॥ २८ ॥

हेमवर्णविमानस्थो लक्ष्यते स्म नभः पथा ।

तद्भुतम् समालोक्य हर्षविस्मयमानसः ॥ २९ ॥

ततोऽहम् देवतानाम् वै राजानमिदमब्रुवन् ।

कुतः कथम् समुत्पन्ना माला मूर्ध्नि निपातिता ॥ ३० ॥

अमुष्य वैष्णवम् रूपम् कस्मादेतत् प्रशम्स मे ।

इन्द्रः –
आसीत् सत्यव्रतो नाम हनूमन्नगरे पुरा ॥ ३१ ॥

सुशीलगुणसम्पन्नो वैष्णवो द्विजसत्तमः ।

गिरेः प्रदक्षिणम् नित्यम् कृत्वा कर्मान्तरे मतिम् ॥ ३२ ॥
तनोति ज्ञानवृद्धोऽसौ वृद्धसेवी जितेन्द्रियः ।

निरीक्ष्य विष्णुभक्ताम्श्च देवताश्च द्विजन्मनः ॥ ३३ ॥

दण्डवत् प्रणमेन्नित्यमादृतोऽभून्मनीषिभिः ।

स कदाचिन्नरहरिम् वन्दितुम् पुरुषर्षभम् ॥ ३४ ॥

घटिकाचलराजानमारुरोह शनैश्शनैः ।

तस्याहम् व्यजने धुत्वा व्यनैषीच्छ्रमशीकरम् ॥ ३५ ॥

तथा वैष्णवकैङ्कर्यात् प्राप्तवान् पदमुन्नतम् ।

कलवङ्को नाम वणिक् पुरा वम्शवने स्थितः ॥ ३६ ॥

वरतन्तोः प्रसादेन मुनेर्जज्ञे सुतद्वयम् ।

तस्यायमग्रजः पुत्रो नाम्ना पिङ्गलको मुने ॥ ३७ ॥

वरतन्तुमुनेस्तस्य नित्यम् शुश्रूषणे रतः ।

विष्णुभक्तो वैष्णवेभ्यो यथाशक्ति प्रयच्छति ॥ ३८ ॥

एवम् पञ्चाशदब्दास्तु जातास्तस्य महामुने ।

तथापि पुत्रसम्पत्तिरासीन्नैव सुखप्रदा ॥ ३९ ॥

तस्य चिन्ता समभवत् पिङ्गलस्य महाश्रुतेः ।

स पुत्राभावतो लोकैर्दूष्यमानश्च मानवैः ॥ ४० ॥

तस्य चिन्तयमानस्य दुस्समाधिमधान सः ।

सन्तानार्थम् महामन्त्रम् वरतन्तुरूपादिशत् ॥ ४१ ॥

स गोपालमनुम् तस्मै उपदिश्य महामुनिः ।

वैष्णवम् तमुपासीनमिति होवाच पिङ्गलम् ॥ ४२ ॥

वरतन्तुः –
चतुर्वर्णममुम् मन्त्रराजम् सन्तानसिद्धये ।

प्रातःकाले च मध्याह्ने त्रिकाले च शतम् शतम् ॥ ४३ ॥

जपम्स्तु हि स गोपालस्सान्निध्यम् कुरुते हृदि ।

सन्निधाय च गोपालः प्रयच्छति सुतान् बहून् ॥ ४४ ॥
इतः पश्चिमदिग्भागे घटिकाद्रिरिति श्रुतः ।

यत्रास्ते भगवान् भूतभावनो नरकेसरी ॥ ४५ ॥

प्रयाहि तत्परिसरम् सर्वर्षिगणसेवितम् ।

स एव भगवान् दाता भुक्तिमुक्ती महात्मनाम् ॥ ४६ ॥

वैष्णवाश्च द्विजन्मानस्सन्ति तत्र महामते ।

तेषाम् शुश्रूषणे बुद्धिरुदेष्यति न सम्शयः ॥ ४७ ॥

त्वम् विष्णुभक्तस्सततम् प्रियवादी जितेन्द्रियः ।

ब्रह्मोदादिमहातीर्थस्नानम् कुरु समाहितः ॥ ४८ ॥

गिरिप्रदक्षिणम् चैव कर्तव्यम् भुक्तिमिच्छता ।

तत्रत्येषु च तीर्थेषु स्नातव्यम् मुक्तिमिच्छता ॥ ४९ ॥

भुक्तिमुक्तिफले भव्ये एतानि च सताम् नृणाम् ।

प्रयच्छति हृषीकेशो घटिकाद्रौ वसन्पुमान् ॥ ५० ॥

पुरा पुण्यपुराध्यक्षो राजा शत्रुञ्जयाभिधः ।

अपत्यार्थी गुरोः पार्श्वम् काश्यपस्य जगाम ह ॥ ५१ ॥

स गत्वा काश्यपमुनेः पादौ गृह्य स याचितः ।

भार्यया मन्त्रिणा साकमिदमूचे पुरोधसम् ॥ ५२ ॥

शत्रुञ्जयः –
कश्यप त्वयि धर्मात्मन्नत्र स्थितिमुपेयुषि ।

अनपत्यतया व्यग्राः कुतो वयमिदयः वद ॥ ५३ ॥

अनपत्यस्य मे ब्रह्मन् क्व राज्यम् क्व च मन्त्रिणः ।

क्व सेवा क्व च मे भोगः क्व चातुर्वर्ण्यरक्षणम् ॥ ५४ ॥
काश्यपः –
शत्रुञ्जय महाभाग विष्णुभक्तिम् दृढम् कुरु ।

क्रियताम् पुत्रकामेष्टिर्घटिकाद्रिपतौ त्वया ॥ ५५ ॥
नृहरिस्स तु विज्ञाय पुत्रमित्रादिसम्पदः ।

प्रदास्यति महाराजन्नात्र कार्या विचारणा ॥ ५६ ॥

वैष्णवास्तत्र शतशो ब्राह्मणा वेदपारगाः ।

सन्ति तेषाम् नियोगेन प्राप्यन्ते पुत्रसम्पदः ॥ ५७ ॥
शत्रुञ्जयः –

प्रतिगृह्य मुनेर्वाचम् तेनानुज्ञापितस्तथा ।

पुत्रकामेष्टिमकरोन्नृहरेः पदमेयिवान् ॥ ५८ ॥

अचिरेणैव कालेन वैष्णवानाम् समागमात् ।

अनुग्रहान्नरहरेः प्राप्तवान् पुत्रसम्पदम् ॥ ५९ ॥

अतस्त्वया नरहरेः पादे मालाकृतः पदम् ।

आस्थाय भार्यया शक्त्या ब्राह्मणेभ्यः प्रदीयताम् ॥ ६० ॥

तुलस्या मालिका कार्या नृसिम्हाय महात्मने ।

अन्येषाम् चैव पुष्पाणाम् माला कार्या प्रयत्नतः ॥ ६१ ॥

वैष्णवेषु सदा कुर्वन् भक्तिमव्यग्रया धिया |

तत्तत्तीर्थेषु च स्नात्वा यथाशक्ति प्रदीयताम् ॥ ६२ ॥

वैष्णवेभ्यः प्रदानेन पुत्रान् प्राप्य सुखी भव ।

मालाकरणतो भक्त्या प्रयास्यसि च वैष्णवम् ॥ ६३ ॥

तत्र सत्यव्रतो नाम हनुमत्पुरि तिष्ठति ।

तस्य शुश्रूषणद्वारा सर्वम् तव भविष्यति ॥ ६४ ॥

अस्मिन् विनयसम्पन्ने वैष्णवे द्विजसत्तमे ।

सदा विहरते देवश्श्रीमान् नरहरिः पुमान् ॥ ६५ ॥

कदाचित् पिङ्गलो नाम वैणिको मुनिपुङ्गवः ।

उपवीणाहृतः पार्श्वमभ्येष्यति हरेरथ ॥ ६६ ॥

उपवीण्या चिरम् कालम् गातुकामस्स वै मुनिः ।

नरसिम्हः प्रसन्नात्मा दापयिष्यति मालिकाम् ॥ ६७ ॥

स तया मालया वीणामलङ्कृत्वा वियत्पथे ।

गमिष्यति प्रहृष्टात्मा वल्गु गायन् पदे पदे ॥ ६८ ॥

वनमाला वायुनुन्ना तव मूर्ध्नि पतिष्यति ।

तदलङ्कृतमूर्धा त्वम् वैष्णवम् लोकमेष्यति ॥ ६९ ॥

इन्द्रः –
अङ्गीकुर्वन् वचस्तस्य वरतन्तोर्महामुनेः ।

अभ्यगादमुमुद्दिश्य घटिकाद्रिमनुत्तमम् ॥ ७० ॥

यदुक्तम् गुरुणा वाक्यम् हृदि कृत्वा स पिङ्गलः ।

सत्यव्रतानुग्रहेण प्राप्तवान् पुत्रसम्पदः ॥ ७१ ॥

प्राप्य पौत्रान् स तेजस्वी वैष्णवानामनुग्रहात् ।

पदमीदृशमापन्नो नृहरेश्च प्रसादतः ॥ ७२ ॥

वसिष्ठ: –
अहो वैष्णवमाहात्म्यम् अहो नृहरिसेवनम् ।

यदेष सभ्यसङ्गेन वैष्णवम् लोकमेयिवान् ॥ ७३ ॥
ब्रह्मा –
बहुमान्य ततो देवम् ऋषिर्धर्मार्थकोविदः ।

विश्वामित्राश्रमपदम् सह शिष्यैरुपागमत् ॥ ७४ ॥

विश्वामित्रस्तु तच्छ्रुत्वा महेन्द्रेण सहामरैः ।

वसिष्ठागमनम् तत्र शुभम् मेने तपस्थितः ॥ ७५ ॥

विश्वामित्रः –
तपसा मम माहात्म्यम् किम् भूमौ वयमुन्नतम् ।

यदेष्यति वसिष्ठो मे नः पदम् हरिमेयिवान् ॥ ७६ ॥

अद्य मे सफलम् जन्म अद्य मे सफलम् तपः ।

अद्य मे सफलम् ज्ञानम् नृहरेः पदसेवनात् ॥ ७७ ॥
ब्रह्मा –
ततोऽन्तरे महेन्द्रेण मैत्रावरुणिरुत्तमः |

कौशिकस्याश्रमपदम् प्रेत्य वज्रिणमूचिवान् ॥ ७८ ॥

वसिष्ठः –
इदम् तपस्याश्रमपदम् तस्येमे तरवो मुनेः ।

तस्य शिष्या इमे वज्रिन् मदामगनकाङ्क्षिणः ॥ ७९ ॥

एतस्मिन्नन्तरे विश्वामित्रश्शिष्येण सङ्गतः ।

वज्रिणम् माम् च नृपते पूजयामास सादरम् ॥ ८० ॥

पत्रैः पुष्पैः फलैर्मूलैस्मन्त्रैः कृत्वार्हणम् मुनिः ।

विशिष्य पूजयन् माम् तु नययुक्तमुदाहरत् ॥ ८१ ॥
विश्वामित्रः –
यथाशक्ति मया दत्तम् वसिष्ठः प्रतिगृह्यताम् ।

न मे कामदुघा धेनुर्यया सर्वम् भविष्यति ॥ ८२ ॥

तदा सञ्चित्य मनसा तदा चाकर्ण्य शब्दितम् ।

मामुद्वीक्ष्य सुराध्यक्षो वचः प्रोवाच वासवः ॥ ८३ ॥

अङ्गीकृत्य फलम् दत्तम् विश्वामित्रेण धीमता ।

नृहरेः प्रीतये चास्मै ब्रह्मर्षित्वम् प्रयच्छ वै ॥ ८४ ॥

श्रद्ददानो वचस्तस्य वज्रिणो नृहरेः प्रियम् ।

कौशिकम् नियताहारम् मुनिमेनमभाषत ॥ ८५ ॥
वसिष्ठः –
सन्तुष्टोऽहम् मुनिश्रेष्ठ ब्रह्मर्षित्वम् प्रयाहि वै ।

महर्षीणाम् च नृहरेरिन्द्रस्यानुग्रहादपि ॥ ८६ ॥

वराहकल्पे सप्तर्षिप्रवरो भव सर्वदा ।

वैवस्वतान्तरे सर्वे वयम् त्वत्प्रीतिकाङ्क्षिणः ॥ ८७ ॥

उपश्लोक्य च माहात्म्यम् विश्वामित्रो महामुनिः ।

प्रमोद निर्भरमनास्सस्वजे माम् तथा नृप ॥ ८८ ॥

ब्रह्मर्षित्वम् ततो दत्वा तस्मै गाधितनूभुवे ।

आमन्त्र्य च सुराधीशम् प्राप्तवानहमाश्रमम् ॥ ८९ ॥

ततो गाधिसुतो राजा ब्रह्मर्षीणामनुत्तमः ।

सालोक्यम् नृहरेरिच्छन् तपस्यति महामुनिः ॥ ९० ॥

गौतमस्य च दौहित्रः पृथुलोमेति विश्रुतः ।

अत्राश्रमपदे राजन् तपस्तेपे सुदारुणम् ॥ ९१ ॥

विष्णुभक्तो जितामर्षस्त्रिसन्ध्ये नृहरेस्स्तवम् ।

विकुर्वाणोsमिताहारो गायत्रीमन्वहन् जपम् ॥ ९२ ॥

पर्वतारोहणपथे तृणम् चेत्तुम् तथैच्छत ।

करे लवित्रमादाय भार्यया सह तापसः ॥ ९३ ॥

तृणाविच्छेदने काले श्रमवन्तम् पदे पदे ।

पृथुलोमानमुद्वीक्ष्य प्रशशम्सुर्महर्षयः ॥ ९४ ॥

पृथुलोमा –
भो भो महर्षयस्सर्वे सभार्यस्य ममाच्युतः ।

हरिः प्रसन्नो भवति कर्तव्योऽनुग्रहो महान् ॥ ९५ ॥

अमोघो वेदिको मन्त्रः अमोघा ब्राह्मणाशिषः ।

हरिभक्तिरमोघेति व्याहरन्ति विपश्चितः ॥ ९६ ॥

ऋषयः –
अद्य प्रसन्नो भगवान् नृहरिर्भवितानघ ।

सालोक्यमपि धर्मात्मन् प्रयच्छत्यपि राजिते ॥ ९७ ॥
वसिष्ठः –
तत्रान्तरे नरहरिः प्रादुर्भूत्वा सुरारिहा ।

सभार्यम् पृथुलोमानमनयद्वैष्णवम् पदम् ॥ ९८ ॥

मार्गम् विशोधयति यो घटिकाद्रेरतन्द्रितः ।

स ब्रह्मर्षिप्रसादेन सर्वान् कामानवाप्नुयात् ॥ ९९ ॥

यश्शृणोति कथामेतामशक्तो मार्गशोधने ।

तस्यापि सफलम् ज्ञानम् तपश्च सफलम् भवेत् ॥ १०० ॥

इति ब्रह्मकैवर्त्ते उत्तरखण्डे भृगुपराशरसम्वादे घटिकाचलमाहात्म्ये अष्टादशोsध्यायः

एकोनविम्शोsध्यायः

पराशरः –
इत्युक्तो राजशार्दूलो वसिष्ठेन महात्मना

मुहूर्तम् ध्यायन् प्रोवाच हर्षगद्गदया गिरा ॥ १ ॥
इन्द्रद्युम्नः –
वसिष्ठ तापसश्रेष्ठ शृण्वतो मम साम्प्रतम् ।

कर्णौ पूरितवान् तात वैष्णवानाम् कथामृतम् ॥ २ ॥

परावरज्ञो भगवान् नृहरौ भक्तिमान् भवान् ।

यदस्य दर्शया पुण्यकथया प्रीणयत्यमुम् ॥ ३ ॥

वाणी सञ्चारिणी ब्रह्मनुच्चनीचेsपि यत्पदे ।

तावकी किमु नान्येषामित्येषा वैदिकी श्रुतिः ॥ ४ ॥

केनोपायेन लघुना लघुना सर्वकर्मणाम् ।

फलमाविर्भवेत्तन्नो वद ब्रह्मर्षि सत्तम ॥ ५ ॥

वसिष्ठः –
नृसिम्हकवचम् पुण्यम् तच्छ्रुणुत्वम् महीपते ।
एनम् सम्प्रोक्तमनसम् दृष्ट्वा धावन्त्यपग्रहाः ॥ ६ ॥

जपन्नृसिम्हस्य मनुम् पश्चात् तत्कवचम् पठन् ।

लभते पुरुषो लोके पुरुषार्थचतुष्टयम् ॥ ७ ॥

मन्त्रस्यास्य महाभाग ऋषिराश्लायनस्स्मृतः ।

छन्दोऽनुष्टुप् तथा देवो भगवान्नृहरिर्हरिः ॥ ८ ॥

सकलाभीष्टसिध्यर्थे विनियोग उदाहृतः ।

आदौ प्रणवमुच्चार्य लक्ष्मीर्बीजन् ततः परम् ॥ ९ ॥

नृसिन्हेति पदन् पश्चात् चतुर्थ्यन्तन् समुच्चरेत् ।

नमस्कृत्य ततो धीमान् मन्त्रराजन् समुच्चरेत् ॥ १० ॥
तेनैव हृदिगुप्तेन भुक्तिमुक्ती प्रविन्दति ।

प्रजापतिसहस्रम् तु प्रजपेन्मन्त्रमुत्तमम् ॥ ११ ॥

ध्यायेदुक्तेन विधिना जानुन्यस्तकरद्वयम् ।

योगासने समासीनम् शङ्खचक्रमहायुधम् ॥ १२ ॥

सुरर्षिभिर्युतम् देवैस्सेव्यमुत्पलकोमलम् ।

प्रशमम् निरतारूढयोगोद्धृतपयोरुहम् ॥ १३ ॥

नम तद्घटिकाशैलाध्यक्षम् तम् पुरुषोत्तमम् ।

नृहरीति कृताभिख्यम् सत्परित्राणसम्भवम् ॥ १४ ॥

प्रभाते तत्स्तवन्नित्यम् कर्तव्यम् फलमिच्छता ।

जपान्ते कवचम् तस्य नृसिम्हस्य महामनोः ॥ १५ ॥

पठेत् त्रिसन्ध्यम् नियतो नृहरि प्रीतये नृप ।

ओं नृसिम्होऽग्रतः पातु श्रीनृसिम्हस्तु पृष्ठतः ॥ १६ ॥

अच्युतो वामतः पातु पातु दक्षिणतो हरिः ।

हिरण्यदारको वक्त्रम् कण्ठम् रौद्राकृतिः पुमान् ॥ १७ ॥

प्रह्लादाह्लादकारी मे बाहू रक्षतु सर्वदा ।

हृदयम् केसरी रक्षेद्दम्ष्ट्रावान् मम चोदरम् ॥ १८ ॥

कटिम् करालवदनो जघनम् जगदीश्वरः ।

वृषणम् वृषपर्वा मे पातु मेढ्रम् महाभुजः ॥ १९ ॥

अष्टादशभुजो रक्षेदूरू मे जानुनी विभुः ।

जङ्घे मे पातु दैत्येन्द्र वसमालाविभूषणः ॥ २० ॥

घटिकाचलवासो मे सदा रक्षतु गुल्फयोः ।

पादौ स्तम्भोद्भवः पातु पदपृष्ठे महीधरः ॥ २१ ॥

पादाङ्गुलीस्तु मे रक्षेत्कोलाहलकरः पुमान् I

रोमकूपाणि सिम्हेन्द्रस्त्वचम् मे योगशीलवान् ॥ २२ ॥

रक्तमज्जवसामाम्सान्यस्थीन्मे भैरवस्वनः ।

अङ्गानि दीर्घश्रवणो मकुटम् मे किरीटवान् ॥ २३ ॥

ज्वालामुखस्तथा ज्वालास्सर्वात्मा पादसन्धिषु ।
शङ्खचक्रधरश्शुक्लम् छायाम् छायापतिः प्रभुः ॥ २४ ॥

अहङ्काराधनेकानि हुङ्कारध्यानभीषणः ।

प्राणापानौ तथा व्यानमुदानम् च समानकम् ॥ २५ ॥

यशः कीर्ति च लक्ष्मीम् च रक्षेद्भक्तोचितो हरिः ।

हेमकोटिविमानस्थो गोत्रम् मे पातु शाश्वतम् ॥ २६ ॥

भार्याम् मे रक्षतु सदा वामदेवादिमुक्तिदः ।

सप्तर्षिवन्द्यः पुत्रान् मे पशून् मे हनुमप्रियः ॥ २७ ॥

मार्गम् रुद्रप्रियो रक्षेत् सर्वतस्तुतिमेयिवान् ।

इदम् हि कवचम् पुण्यम् सुराणामपि दुर्लभम् ॥ २८ ॥

यः पठेत्प्रयतात्मा वै त्रिसन्ध्यम् नृहरेः पुरः ।

निश्चला वैष्णवीभक्तिस्तस्मिन्नव्यभिचारिणी ॥ २९ ॥

अपग्रहा: प्रधावन्ति कवचे हृदिसम्स्थिते ।

ढाकिन्याद्याः पिशाचाश्च शाकिन्याद्यास्तथा रिपुः ॥ ३० ॥

नश्यन्ति व्याधयस्सर्वे भूतादिस्फोटकादयः ।

अभिचारीणि सर्वाणि मन्त्रयन्त्राणि वै तथा ॥ ३१ ॥

कवचेनामुना यस्तु सम्परिष्कुरुते मनः ।

सिध्यन्त्युच्चाटनादीनि तस्य विष्णोः प्रसादतः ॥ ३२ ॥

मनोन्मथीर्भवेद्राजन् प्रभवेद्ब्रह्मवर्चसम् ।

यः त्रिसन्द्यम् पठेन्नित्यम् श्रद्धया हरिसन्निधौ ॥ ३३ ॥

यम् यम् चिन्तयते कामम् तम् तमाप्नोत्ययत्नतः ।

पुरा विष्णूपदिष्टेन कवचेनामुना नृप ॥ ३४ ॥

ब्राह्मण्यम् गाधितनयः प्रविन्दत मुनीश्वरः ।
ब्रह्मोवाच –
तथाकर्ण्य स राजेन्द्रो त्रिराचम्य शुचिर्भवान् ॥ ३५ ॥

शिलापुष्करिणीतीरे उपदेशम् गतो मुनेः ।

उपदिष्टस्ततो राजा प्रत्युत्पन्नमनीषया ॥ ३६ ॥

अभिपूज्य गुरुम् तत्र धृतपद्मासनस्तदा ।

कवचम् मनुमुद्गृह्य सर्वेषामग्रणीरभूत् ॥ ३७ ॥

वज्रेण कवचेनैव स चिरेण धनुर्धरः ।

ततस्तत्रत्यतीर्थेषु वसिष्ठेन प्रचोदितः ॥ ३८ ॥
स्नात्वा शैलाधिरोहे माम् इदम् वचनमब्रवीत् ।

इन्द्रद्युम्नः –

किमिदम् प्रोन्नतम् शृङ्गम् सर्वदेवर्षिवन्दितम् ॥ ३९ ॥

कस्याश्रमपदम् ब्रह्मन् वद मे वदताम् वर ।

वसिष्ठः –
अधित्यकेयम् राजर्षिन्निदम् शृङ्गम् च पुत्र वै ॥ ४० ॥
वामदेवादयो मुक्तास्तपस्यन्ति तपोधनाः ।

शिलापृष्ठे नरहरिस्स्वनाम्ना कृतवान् सरः ॥ ४१ ॥

नाविर्भूतोऽत्र भगवानृषीणाम् मुक्तये पुरा ।

श्रीनृसिम्हस्सरस्तीरे व्यपनेतुम् स्वकिल्विषम् ॥ ४२ ॥

उमया चोदितो रुद्रः प्राप्तवान् प्रमथाधिपः ।

नृसिम्हकरुणायोगात् ब्रह्महत्याम् प्रपोह्य सः ॥ ४३ ॥

पुनः कैलासमगमन् सोमस्सोमार्धशेखरः ।

वामदेवाश्रमो नाम राजन्नत विराजते ॥ ४४ ॥

नृसिम्हतीर्थमेतस्य मध्ये तिष्ठति निर्मलम् ।

अत्र देवास्सगन्धर्वास्सेन्द्राश्च परमर्षयः ॥ ४५ ॥

नृसिम्हप्रीतये सर्वे सततम् तर्पयन्ति वै ।

राजानश्च तथा वैश्या द्विजन्मानश्च वैष्णवाः ॥ ४६ ॥

प्रातस्स्नात्वा च मध्याह्ने देवर्षिम् तर्पयन्ति च ।

इङ्गुदीसप्तपर्णाश्च तमालाश्च कपित्यकाः ॥ ४७ ॥

सन्तानाद्याश्च तरवः पञ्च सन्निहिता नृप ।

तत्र कल्पतरोर्मूले नृहरिः पद्मया सह ॥ ४८ ॥

शङ्खचक्रवराभीतिमुद्रितस्तिष्ठते सदा ।

गयाक्षेत्राधिकम् क्षेत्रम् नृसिम्हस्य महामते ॥ ४९ ॥

तुलाविन्यसने पूर्वम् गया किञ्चिदुदञ्चिता ।

तदा वीक्ष्य सुरास्सर्वे ब्रह्माद्याश्च महर्षयः ॥ ५० ॥

नृसिम्हक्षेत्रमेतद्धि निस्तुलम् बहु मेनिरे ।

जन्मक्षणात् पुरा वीक्ष्य दत्तो नाम द्विजर्षभः ॥ ५१ ॥

विष्णुभक्तिमवष्टभ्य नितराम् धर्मचिन्तनः ।

यादवाद्रौ तपस्तेपे कल्याणसरसस्तटे ॥ ५२ ॥

उपास्ते विष्णुभक्ताम्श्च विष्णुभक्तो ह्यतन्द्रितः ।

पितरम् स्वम् तदा श्रुत्वा मृतम् यवनकर्मणा ॥ ५३ ॥

चिन्तयानम् तमुद्वीक्ष्य व्याजहार मुनिस्तथा ।
पुरुकुत्स उवाच –
किमर्थम् चिन्तितम् विद्वन्निराकुलधिया त्वया ॥ ५४ ॥
अश्राव्यमस्ति किञ्चित्तत्तत् प्रशचिस ममान्तिके ।
विष्णुदत्तोवाच –

गृहीतशतधर्माख्यः पिता मे वत्सवम्शजः ॥ ५५ ॥

जनयित्वा स माम् धन्वी यवनानाम् पुरीमगात् ।

तत्र गत्वा स तेषाम् वै वृत्तिम् नित्यम् समाचरत् ॥ ५६ ॥

तत्रत्या रमते भार्या मधुसेवी सदा मुने ।

कदाचिदपि मे मातुः कदाचिदपि मे मुखम् ॥ ५७ ॥
कदाचिदपि बन्धूनामनालोकितवान् मुने ।

तथापि देव यम् सर्वे सर्वदा प्रियकारिणः ॥ ५८ ॥

मातृदेवो भवेत्येतत् पितृदेवो भवेति च ।

आचार्य देव इत्येतद्वाक्यन्न हि मया श्रुतम् ॥ ५९॥

कुत्सितो वा दरिद्रो वा पतितो वा बहिष्कृतः ।

हीनसेवो यदि पिता सेव्यः पुत्रेण धीमता ॥ ६० ॥

इति स्मृतो वचो नैव विस्मृतम् गुरुचोदितम् ।

पितृतृप्तिम् प्रवक्तृभ्यो न मुञ्चामि पदम् मुने ॥ ६१ ॥

स हि मे तातपादस्तु अद्य कालवशम् गतः ।

किम् कुर्म इति चिन्ता मे प्रादुरासीन्महामुने ॥ ६२ ॥

पुरुकुत्सः –
गयाम् गच्छ महाभाग तथाऽस्थीनि निगृह्य वै ।

गदाधरः प्रसन्नश्चेत् पिता ते मुच्यते कलेः  ॥ ६३ ॥

तत्र विद्वन् गयायाम् वै श्राद्धम् कुरु समाहितः ।

गदाधरस्तु प्रियतामिति वाचमुदाहरन् ॥ ६४ ॥

वसिष्ठः –
तथेति वचनम् गृह्य पुरुकुत्सस्य वै मुनेः ।

सभार्यया विष्णुदत्तो गयाम् गन्तुम् तथैच्छत ॥ ६५ ॥

तत्रान्तरे सुप्रसन्ना वाणी वाणीयसी नृप ।

काप्यासीदन्तरिक्षस्था विष्णुदत्तशुभावहा ॥ ६६ ॥

यदि ते पितरम् घोरनरकादुद्धरिष्यति ।

इतो गच्छ महाभाग घटिकाचलमुत्तमम् ॥ ६७ ॥

यत्रास्ते नृहरिस्सर्वान् प्रणयन्नृषिसत्तमान् ।

तस्योत्तरोपत्यकायाम् श्रीनृसिम्हसरस्तटे ॥ ६८ ॥

इङ्गुदीनामथ वनम् वर्धितम् तन्महीपते ।

आविर्भवन्तम् नृहरिम् स्वमुक्त्यर्थमरिन्दमम् ॥ ६९ ॥

इदमूचे हरिम् तत्र वामदेवो महामुनिः ।

वामदेवः –
स्वामिन्निङ्गुदिपार्श्वे यमुद्दिश्य च यः पुमान् ॥ ७० ॥

कुरुते गुरुविश्वासी तस्य तत्तद्भवेद्धरेः ।

अस्मिन् नृसिम्हक्षेत्रे यः कुरुते पितृतर्पणम् ॥ ७१ ॥

गयाक्षेत्रादभ्यधिकम् तस्याविर्भवतात् फलम् ।
आरभ्य हेमकोटिम् मे परितो योजनापदम् ॥ ७२ ॥

मत्क्षेत्रम् भविता ब्रह्मन् भुक्तिमुक्तिफलप्रदम् ।

यस्त्वत्र कुरुते श्राद्धम् पितृन्नुद्दिश्य वा मुने ॥ ७३ ॥

फलम् तस्य महाभाग गयातो द्विगुणम् भवेत् ।

इदमत्र सरो ब्रह्मन् ममाङ्गुष्ठपरिच्युतम् ॥ ७४ ॥

भागीरथी जलमिति अवैहि तपताम् वर ।

इह यस्तनुते दानम् ब्राह्मणेभ्यो यथा बलम् ॥ ७५ ॥

स ममानुग्रहाज्जीवन्मुक्तो भवति तापस ।
वसिष्ठः –
तदाsशरीरवाक्यम् वै श्रुत्वा हर्षाकुलेन्द्रियः ॥ ७६ ॥
वाक्यमेतद्धि नृहरेर्भवेदिति तदूचिवान् ।

विष्णुदत्तस्सपत्नीको वचनम् गृह्य नाभसम् ॥ ७७ ॥

इहावतीर्य वै श्राद्धम् कारयामास भक्तिमान् ।

एतस्मिन्निङ्गुदीमूले क्षेत्रे नरहरेरहम् ॥ ७८ ॥

पितॄणाम् करवै श्राद्धम् नृसिम्हः प्रियतामयम् ।

इति मन्त्रम् द्विरुच्चार्य श्रद्धया पितृतर्पणम् ॥ ७९ ॥

प्रकुर्वन्ति तदा विप्र प्रसन्नाः पितृदेवताः ।
पितरः –
श्राद्धेनानेन ते विप्र तृप्तास्मस्सर्वदा वयम् ॥ ८० ॥

किमीप्सितम् तवेदानीम् तन्नो वद महामते ।

विष्णुदत्तः –
भवन्तो मे प्रसन्नाश्चेत् तृप्ता वा हृदयङ्गमाः ॥ ८१ ॥

पितरम् नरकाम्भोधेः द्रुतमुद्धर तम् च मे ।

पितरः –
यदा त्वया पितृश्राद्धम् कर्तव्यमिति चिन्तया ॥ ८२ ॥

प्राप्तमेतत् पदं तावत् प्राप्तो विष्णुपदम् पिता ।

यस्त्वयम् देशमुद्दिश्य कुरुतेऽन्यत्र पैतृकम् ॥ ८३ ॥

तस्य वै पितरस्तृप्ता: प्रयच्छन्ति मनीषितम् ।

दीर्घायुर्भव भद्रम् ते बहुपुत्रा भवन्तु ते ॥ ८४ ॥

भक्तिश्च वैष्णवी नित्या प्रादुरेष्यति ब्राह्मण ।
वसिष्ठः –
इत्युक्त्वा पितरस्तत्र वरम् दत्वा च वाञ्छितम् ॥ ८५ ॥
पितृलोकम् गतास्सर्वे मिषति ब्राह्मणे नृप ।

गतेषु तेषु धर्मात्मा विप्रो हृष्टमनास्तदा ॥ ८६ ॥

पिण्डापाकसशेषम् वै भुक्तवान् भार्यया सह ।

पितृप्रसादान्नृहरेः प्रसादेन च भूपते ॥ ८७ ॥

सुतद्वयम् प्रलेभेऽथ स्वानुरूपम् द्विजस्तथा ।

अचिरेणैव कालेन भुङ्क्त्वा भोगाननुत्तमान् ॥ ८८ ॥

अथ प्रसादान्नृहरेरुन्नतम् पदमेयिवान् ।

तस्य वम्शभवो योगी तपसा विप्रशेखरः ॥ ८९ ॥

पित्रानुद्धर्तुकामोऽयम् भगीरथ इवोदितः ।

अस्मिन् वराहसरसि तपस्तपति दारुणम् ॥ ९० ॥

प्रसादकाङ्क्षी नृहरेर्दीर्घकालमतन्द्रितः ।

पुञ्जिक्यस्तादयो राजन् बभूवुः प्रपितामहाः ॥ ९१ ॥

पुरास्य दुर्विदग्धास्ते कर्मणा प्रविनिन्दिताः ।

आचार्यद्रोहिणो नित्यम् देवतायाम् तथा गुरौ ॥ ९२ ॥

सत्सु कर्मसु विश्लेषम् दुर्विदग्धाः प्रकुर्वते ।

गर्वितास्सज्जनैर्निन्द्यास्सन्ध्याकर्मनिरादराः ॥ ९३ ॥

सादरा पिशुने मन्त्रे तथान्यस्त्रीपरिग्रहे ।

दुर्विनीतिम् ततस्तेषाम् श्रुत्वा ब्रह्मर्षयस्तथा ॥ ९४ ॥

प्रकोपस्फुरितोष्ठास्तु तेषु चक्रुर्बहिष्क्रियाम् ।

प्रक्षीणतेजसोऽभूवन्नद्य ते ब्रह्मबन्धवः ॥ ९५ ॥
न तेषाम् वचनग्राही भर्तापि न तथाभवत् ।

क्रमेण ते बहिष्कारभारपीडामसासहाः ॥ ९६ ॥

उत्सृज्य च शरीरन्ते पिशाचाः प्रबभूविरे ।

न क्रोष्टा तेन वा कङ्का श्वापदा वा न वा शशाः ॥ ९७ ॥

लेढुमङ्गानि तेषाम् वै न काका न मरीचयः ।

कीटवन्ति शरीराणि बहुकालात् प्रतीक्ष्य वै ॥ ९८ ॥

पूतिगन्धासहाः केचिन्मुनयोऽन्यत्र सम्स्थिताः ।

अङ्गानि तेषाम् दृष्ट्वा वै कुदुर्गन्धानि केचन ॥ ९९ ॥

भस्मीभवन्त्विति तदा शेपुर्गृह्य जलम् करे ।

गतिमन्वेषयन् तेषाम् सतामनुमताम् तथा ॥ १०० ॥

प्रबोधितस्तु मनुना विन्ध्ये तेपे तपः परम् ।

पदे पदे नमस्कुर्वन् देवलो नाम वैष्णवान्  ॥ १०१ ॥

तानुद्धर्तुमशक्तो वै तपसा कालमेयिवान् ।

तस्यायम् प्रथमः पुत्रो विश्रुतो विप्रशेखरः ॥ १०२ ॥

विष्णुभक्तिविशुद्धात्मा सर्वेषाम् प्रियकारकः ।

अगस्त्यभ्रातृवचनादेत्य वल्लीसरस्तटे ॥ १०३ ॥

पितृनुद्धर्तुचेतास्तु तपश्चरति दारुणम् ।

विष्णुभक्तो जितक्रोधो जितारातिर्जितेन्द्रियः ॥ १०४ ॥

सानुक्रोशो विष्णुभक्तान् दण्डवत्प्रणमटेस्तदा ।

महाप्रदक्षिणम् शैलराजस्य तनुते नृप ॥ १०५ ॥

तथान्तरम् च धर्मात्मा काले कालेऽप्यतन्द्रितः ।

दिने दिने शैलराजारोहणव्यावृतात्मनाम् ॥ १०६ ॥

महात्मनाम् श्रमहरो व्यजनादिनिषेवनात् ।

मार्गस्य शोधनविधौ व्याकुलो नृपसत्तम ॥ १०७ ॥

स्थित्वात्र भार्यया युक्तो प्रददौ च फलादिकम् ।

सप्तर्षीम्श्च प्रतिदिनम् यथाशक्ति प्रतोषयन् ॥ १०८ ॥

महात्मानो विष्णुभक्तान् हनूमत्पुरनिष्ठितान् ।

दिनम् दिनम् नमस्कुर्वन् वर्धते तत्कृताशिषा ॥ १०९ ॥

त्रिसन्ध्यम् प्रजपन्नित्यम् नृहरौ ध्यानतत्परः ।

भार्यया सह विश्रब्धम् स्तुवन्नर्चन् पितुः प्रियः ॥ ११० ॥

हेमकोटिविमानस्थम् जानुन्यस्तप्रकोष्टकम् ।

शङ्खचक्रधरम् पीतवासोद्भासिकटीतटम् ॥ १९१ ॥

योगासने समासीनम् किरीटिनमनामयम् ।

दूर्वानीलोत्पलवनश्यामलम् कोमलाकृतिम् ॥ ११२ ॥

प्रसन्नवदनम् लक्ष्मीभासितोरस्कमुज्वलम् ।

नतमर्त्यप्रसन्नार्तिहरिणम् वनमालिनम् ॥ १९३ ॥

श्रीवत्सकौस्तुभधरम् चन्द्रसूर्यविलोचनम् ।

सिम्हस्कन्धम् सिम्हमुखम् प्रह्लादप्रियकारिणम् ॥ ११४ ॥

दानवेन्द्रविभेत्तारम् कर्तारम् जगतामपि ।
गोप्तारम् च तदा विष्णुम् प्रणतारमनिन्दितम् ॥ ११५ ॥

दम्ष्ट्रिणम् तम् केसरिणम् नरकेसरिणम् विभुम् ।

सप्तर्षिवन्दितम् भीमम् गदाधरमधीश्वरम् ॥ १९६ ॥
व्यक्ताननम् महोरस्कम् ज्वालामालाविभूषणम् ।

षट्कोणमध्यनिलयमुन्नतश्रुतिमुद्धरम् ॥ ११७ ॥
उदग्रनासमुच्चण्डकालमुत्तममस्तकम् ।

वामदेवादिब्रह्मर्षिसेवितम् शिवसेवितम् ॥ ११८ ॥

सर्वकामप्रदम् व्यक्तमव्यक्तम् पुरुषोत्तमम् ।

सिहङ्गामिनमीशानम् निधिमच्युतमव्ययम् ॥ ११९ ॥

पिङ्गलाक्षम् पृथुग्रीवम् विमलम् स्तम्भसम्भवम् ।

मुक्तिदम् भुक्तिदम् शान्तम् दान्तमानन्दकन्दलम् ॥ १२० ॥

मन्दारमालाभरणमष्टबाहुम् महोदरम् ।

सनकादिनुतम् देवम् राजपूजितमीश्वरम् ॥ १२१ ॥

सूर्यकोटिप्रतीकाशम् चन्द्रकोटिसमद्युतिम् ।

शृङ्गकोटिमहाशैलवासिनम् हृदिवासिनम् ॥ १२२ ॥

हनुमद्वन्दितम् लोकशङ्करम् शङ्करप्रियम् ।

भक्तार्चितम् यथाभक्तिदायिनम् शुभदायिनम् ॥ १२३ ॥
सटालङ्कृतमव्यग्रमुग्रशासनमुद्धतम् ।

विस्तीर्णवदनम् दीनरक्षकम् सुररक्षकम् ॥ १२४ ॥

जपाकुसुमवर्णाभम् हेमयज्ञोपवीतिनम् ।

धृतहेमकटीसूत्रम् हेमाङ्गम् हेमकुण्डलम् ॥ १२५ ॥

हेमपुष्पमाहामालापरिष्कृतभुजान्तरम् ।

दैत्यराजवसामालाभरणम् शरणम् नृणाम् ॥ १२६ ॥

उत्तमानुत्तमम् देवराजमाजानुबाहुकम् ।

पोषणम् जगताम् भूतपावनम् पत्रिवाहनम् ॥ १२७ ॥

वेदान्तवेद्यमव्यग्रम् वैखानससुपूजितम् ।

वालखिल्यादियोगीन्द्रसम्स्तुतम् परमार्थदम् ॥ १२८ ॥

महाक्षम् च हिरण्याक्षशिक्षकम् भक्तरक्षकम् ।

अपराजितमक्षोभ्यमनन्तम् परमम् परम् ॥ १२९ ॥

अनेकरूपमादित्यमण्डलस्थमकृत्रिमम् ।
हिरण्मयम् हिरण्याक्षम् हिरण्यश्मश्रुकम् प्रभुम् ॥ १३० ॥

नायकम् सुरमालाया घटिकालयनायकम् ।

नमस्कुर्वन् सदा विप्रशेखरो विष्णुभक्तिमान् ॥ १३१ ॥

एकविम्शोत्तरशतम् नाम्ना नरहरेरिदम् ।

चतुर्थ्यन्तेन सहितम् समर्चयति भूपते ॥ १३२ ॥

पुत्रम् दुर्ललितम् दृष्ट्वा प्रह्लादम् ह्लादनम् सता ।

पुरा हिरण्यकशिपूरूचे सन्देशकारिणः ॥ १३३ ॥

हिरण्यकशिपुरुवाच –
हे दूता यूयमव्यग्राः प्रह्लादम् दुष्टचारिणम् ।

अनुक्तकारिणम् वार्धौ क्षिपध्वम् हर्षमानिनम् ॥ १३४ ॥

वसिष्ठः –
प्रतिगृह्य वचस्तस्य स्वामिकार्यधुरन्धराः ।

प्रचिक्षिपुस्तदा वार्धौ प्रह्लादम् निरवग्रहम् ॥ १३५ ॥

प्रह्लादस्तत्र वै मग्नो हरिभक्तिपरायणः ।

सर्वम् भगवतो माया इति मेने महामतिः ॥ १३६ ॥

तदा हरिस्तमभ्येत्य प्रसन्नेनान्तरात्मना ।

नामान्यमूनि भक्ताय तस्मै तान्युपदिष्टवान् ॥ १३७ ॥

उपदिष्टस्तु प्रह्लादो नाम्नामुच्चारणात्ततः ।

उन्मज्जन् वार्धिरागत्य जग्राह चरणौ पितुः ॥ १३८ ॥

इति ब्रह्मकैवर्ते उत्तरखण्डे भृगुपराशरसम्वादे घटिकाचलमाहात्म्ये एकोनविम्शोsध्यायः

विम्शोsध्यायः

श्रीवसिष्ठः –
इदम् पवित्रम् परमम्म्म् पापघ्नम् वेदसम्मितम् ।

पठेन्नरहरेर्नाम्नामेकविम्शोत्तरम् शतम् ॥ १ ॥

महत्पापौघसम्प्राप्तौ नामान्येतानि कीर्तयेत् ।

नरस्तु तस्मादुत्तीर्णो भवेद्देवोsपि देवराट् ॥ २ ॥

पुरन्दरो नाम देवो देवराजः प्रसन्नधीः ।

अहल्यासक्तिदोषेण शापान्निर्वृषणोऽभवत् ॥ ३ ॥

अथ लज्जानतमुखो नैच्छतामरसङ्गमम् ।

इन्द्रो मानसकासारपद्मषण्डमुपागतः ॥ ४ ॥

चिराय तत्र भगवानिन्द्रस्सम्स्फीतिमेयिवान् ।

गोपयन्निखिलान्यङ्गान्यर्णोजदशमालया ॥ ५ ॥

सहस्रदलसञ्छन्नतनुरिन्द्रस्तु मूर्तिमान् ।

शृङ्गार इव तेजस्वी दृश्यते जलजन्तुभिः ॥ ६ ॥

अथ हम्समुखाद्वेधा विज्ञायेन्द्रपराभवम् ।

स्तूयमानस्त्रयीभिस्तु प्रादुरासीत् सरस्तटे ॥ ७ ॥

विचिन्वानस्सुरेशानम् जगत्कर्ता ततस्ततः ।

कुत्रचित् कर्णिकायाम् वै तस्थिवाम्सम् ददर्श ह ॥ ८ ॥

ब्रह्मा –
शतक्रतो महाभाग वृथा मज्जसि वारिधौ ।

नृहरेः खलु नामानि वर्तन्ते तानि सम्स्मर ॥ ९ ॥

इन्द्रः –
भगवन् हृदये ब्रह्मन् प्रत्यभिज्ञा कृता त्वया ।

स्मृतिक्षणादेव महाड्वृषणम् समजायत ॥ १० ॥

वसिष्ठः –
इन्द्रस्तु सहसोत्थाय स्तुत्वा स्वायम्भुवम् महः ।

स्तूयमानोऽमरैर्सर्वैस्स्वाम् पुरीमन्वपद्यत ॥ ११ ॥
ब्रह्मा –
इन्द्रद्युम्नस्तु सन्तुष्टो गृह्यनामानि तन्मुखात् ।

विमुक्तपाप्मा प्रोवाच वसिष्ठम् प्राञ्जलिस्तथा ॥ १२ ॥

अत्युन्नतमिदम् शृङ्गम् हेमकोटिपदानुगम् ।

मनः प्रसीदयति मे प्ररूढमिव पर्वतम् ॥ १३ ॥

वसिष्ठः –
बहो: कालात्तपस्तप्त्वा परम् पदमिव ध्रुवः ।

प्रह्लादसुचिरम् शृङ्गम् प्राप्तवान् नृहरेस्स्तवात् ॥ १४ ॥

अत्र स्थित्वा महायोगी प्रहलादो धर्मवत्सलः ।

तपस्यति गतक्लेशो अन्तरङ्गे स्मरन् हरिम् ॥ १५ ॥

शृङ्गस्य दक्षिणे पार्श्वे चक्रतीर्थमिति श्रुतम् ।

पश्चिमे तु महातीर्थम् शङ्खाभिधमनिन्दितम् ॥ १६ ॥

मत्स्यकारण्डवाकीर्णम् अम्भोरुहशताकुलम् ।

घटिकाशैलराजस्य नेत्रद्वयमिदम् नृप ॥ १७ ॥

शङ्खम् च चक्रतीर्थम् च सदा सर्वर्षिसेवितम् ।

सदा सलिलसम्पूर्णम् सन्मनोवद्विनिर्मलम् ॥ १८ ॥

ययोस्तीरद्रुमाणाम् वै छाया भास्कररोधिनी ।

अत्र पूर्व महालक्ष्मीमुपास्य हरिशङ्करौ ॥ १९ ॥

चन्द्रादित्यौ तथा ब्रह्म प्राप्तवन्तौ वरान् पृथक् ।

हरेर्ज्ञानप्रदातृत्वम् शङ्करे श्रीप्रदादृता ॥ २० ॥

चन्द्रे कला प्रदातृत्वम् रवेरारोग्यदातृता ।

प्रवक्तृता प्रजानाथे श्रिया सर्वाणि जझिरे ॥ २१ ॥

कुबेरो नारदमुखात् सर्वमालोक्य वैभवम् ।

धनद त्वम् महाभागस्स्वामिन्निच्छन् हि भागतः ॥ २२ ॥

बहुकालम् तपस्तेपे फलमूलाशनो नृप ।

नृसिम्हभक्तानन्वीक्ष्य चान्वीक्ष्य प्रणमम्स्तथा ॥ २३ ॥

तत्रत्यऋषिहर्षायामृतवल्लीरनेकशः ।

आरोपयद्वैश्रवणो लक्ष्मीसूक्तम् जजाप ह ॥ २४ ॥

तत्रान्तरे महालक्ष्मीर्वल्लीमूले तदा हिते ।

हर्षायाविरभूत् राजन् कमलम् गृह्य पाणिना ॥ २५ ॥

आविर्भवन्तीम् ताम् दृष्ट्वा पुरुषार्थप्रदायिनीम् ।

उवाच परमप्रीतः प्रणमन् गुह्यकेश्वरः ॥ २६ ॥

कुबेरः –
अम्ब त्वत्सन्निधानेन कृतार्थोऽहम् तथा परः ।

चरितार्थम् च विज्ञानम् तथा सन्दर्शनम् सता ॥ २७ ॥

अद्य ते पादपद्मस्य दर्शनाज्जगदीश्वरि ।
चरितार्थमिवात्मानम् मन्ये कन्ये पयोनिधेः ॥ २८ ॥

श्रीलक्ष्मीरिन्दिरा पद्मा लोकमाता जनेश्वरी ।

पद्मालया पद्महस्ता नित्या पद्मप्रिया सती ॥ २९ ॥

योगिनी सा योगनिद्रा कमला मालिका रमा ।

हरिप्रिया सिन्धुकन्या पद्मजन्माथ भार्गवी ॥ ३० ॥

सर्वकामप्रदा नृणाम् मङ्गला चेन्दिरा स्वधा ।

स्वाहा पुष्टिस्तथा तुष्टिस्सर्वकामदुघा प्रिया ॥ ३१ ॥

सतैर्नामपदैरम्बा नित्यम् सम्पूज्यताम् नृभिः ।

किम् किम् न प्रार्थिता कुर्याद्भवती हरिवल्लभे ॥ ३२ ॥
लक्ष्मीरुवाच –
स्वस्ति तेऽस्तु प्रसन्नात्मा वरदा समुपास्थिता ।

स्तवेनानेन सन्तुष्टा सर्वदा यक्षपुङ्गव ॥ ३३ ॥

कुबेरः –
धनानामाधिपत्यम् च तद्दातृत्वम् च साम्प्रतम् ।

देहि मेऽत्र जगद्धात्रि करुणाम् च निधेहि मे ॥ ३४ ॥

वसिष्ठः –
उत्सार्य पाणिना देवी शिलामुपरिवेष्टिताम् ।

तत्रत्याम्श्च निधीन्प्रोक्ष्य शङ्खपद्मादिकान्नव ॥ ३५ ॥

अत्रत्यनिधये लक्ष्म्याश्शङ्खपद्मादयो नव ।

अभीष्टितानि गृह्णीष्व विचारम् मा कृथा इह ॥ ३६ ॥

पञ्चषट् च निधीन् गृह्याप्रहृष्टहृदयस्तथा ।

अभिवाद्य जगद्धात्रीम् प्राप्तवान् धनदः पुरीम् ॥ ३७ ॥

तत्रत्यऋषयो देवीम् प्रशशम्सुर्यथामति ।

तथामृतलतामूले समुत्पन्नामनिन्दिताम् ॥ ३८ ॥

दुग्धाब्धिजान्तु ताम् दृष्ट्वाऽमृतवल्लीश्वरीति व ।

नामधेयम् तथा चक्रुः ऋषयो ब्रह्मवादिनः ॥ ३९ ॥

यतश्शङ्खादयस्तत्र समुत्पन्नास्सरोऽन्तरे ।

ततश्चक्रुर्महातीर्थम् शङ्खाभिधमकृत्रिमम् ॥ ४० ॥

वसिष्ठः –
सर्वर्षिभिस्तूयमाना तदा प्रभृति भार्गवी ।

शङ्खपुष्करिणी तीरे सर्वदा तिष्ठते रमा ॥ ४१ ॥

यद्यत्कामयते लक्ष्मी सन्निधानादभिस्तुवन् ।

तत्तदाप्नोति निखिलम् महालक्ष्मीप्रसादतः ॥ ४२ ॥

तस्याग्नेयाम् दिशि नृप तयोः पार्श्वे सुशृङ्गयोः ।

चक्रतीर्थमिति ख्यातः द्योतते सलिलाशयः ॥ ४३ ॥

विभ्राजमानाश्शतशस्तीरे तस्य तपस्विनः ।

तपश्चरन्ति नियताहारास्तत्र तपस्विनः ॥ ४४ ॥

शिलावटस्य मूले तु न्यग्रोधस्य च केचन ।

अश्वत्थानाञ्च बिल्वानाम् तथाम्राणाञ्च केचन ॥ ४५ ॥

जम्बूमूले शिलापृष्ठे तथार्जुनतरौ नृप ।

तपस्तीव्रम् प्रकुर्वन्ति ऋषयस्सम्शितव्रताः ॥ ४६ ॥
पुरा तत्र महीपाल ऋषिरोद्दालिकीश्श्रुतः ।

पशुकामस्तपस्तीव्रम् तेपे नृहरिसन्निधौ ॥ ४७ ॥

स कदाचिद्धनूमन्तम् नृसिम्हस्य प्रतोषणात् ।

चक्रम् लब्ध्वा स निर्यान्तमूचे सूनृतया गिरा ॥ ४८ ॥

औद्दालिकः –
मारुतस्यौरसः पुत्र प्रसीद त्वमरिन्दम ।
न वै त्वद्व्यतिरिक्तोऽस्ति स्तोता नृहरिमीश्वरम् ॥ ४९ ॥

अतिपाटलवक्त्राब्जम् धृतहेमाद्रिविग्रहम् ।

आञ्जनेयम् शङ्खचक्रपाणिम् चेतसि धीमहि ॥ ५० ॥

पारिजातप्रियो योगी हनुमान् नृहरिप्रियः ।

प्लवगेन्द्रः पिङ्गलाक्षश्शीघ्रगामी दृढव्रतः ॥ ५१ ॥

शङ्खचक्रवराभीतिपाणिरानन्ददायकः ।

स्थायी विक्रमसम्पन्नो रामदूतो महायशाः ॥ ५२ ॥

सौमित्रिजीवनकरो लङ्काविक्षोभकारकः ।

उदधिक्रमणस्सीताशोकनाशकरो हरिः ॥ ५३ ॥

बली राक्षससम्हर्ता दशकण्ठमदापहा ।

बुद्धिमान् नैऋतवधूकण्ठसूत्रविधारकः ॥ ५४ ॥

सुग्रीवसचिवो भीमो भीमसेनसहोदरः ।

सावित्रीविद्यासम्सेवी चरितार्थो महोदरः ॥ ५५ ॥

वासवाभीष्टदो भव्यो हेमशैलनिवासवान् ।

किम्शुकाभोऽव्यग्रतनू ऋजुरोमा महामतिः ॥ ५६ ॥

महाक्रमो वनचरस्स्थिरबुद्धिरभीशुमान् ।

सिम्हिकागर्भनिर्भेत्ता भेत्ता लङ्कानिवासिनाम् ॥ ५७ ॥

अक्षघ्नशत्रुनिघ्नश्च रक्षोsमात्यभयावहः ।

वीरहा मृदुहस्तश्च पद्मपाणिर्जटाधरः ॥ ५८ ॥

सर्वप्रियस्सर्वकामप्रदः प्राम्शुमुखः शुचिः ।

विशुद्धात्मा विज्वरश्च सटावान् पाटलाधरः ॥ ५९ ॥
भरतप्रेमजनको चीरवासा महाक्षधृक् ।
महास्त्रबन्धनसहो ब्रह्मचारी व्रतेश्वरः ॥ ६० ॥
महौषधोपहर्ता च वृक्षपर्वा वृषोदरः ।

सूर्योपलालितस्सामी पारिजातावतश्चसकः ॥ ६१ ॥

सर्वप्राणधरोऽनन्तस्सर्वभूतातिगो मनुः ।

रौद्राकृतिर्भीमकर्मा भीमाक्षो भीमदर्शनः ॥ ६२ ॥
सुदर्शनकरोऽव्यक्तो व्यात्तास्यो दुन्दुभिस्वनः ।

सुवेलचारी मैनाकहर्षदो हर्षणप्रियः ॥ ६३ ॥

सुलभस्सुव्रतो योगी योगिसेव्यो भयापहा ।

वालाग्निमथितानेकलङ्कावासिगृहोच्चयः ॥ ६४ ॥

वर्धनो वर्धमानश्च रोचिष्णू रोमशो महान् ।

महादश्चष्ट्रो महाशूरस्सद्गतिस्त्परायणः ॥ ६५ ॥

सौम्यदर्शी सौम्यवेषो हेमयज्ञोपवीतिमान् ।

मौञ्जीकृष्णाजिनधरो मन्त्रज्ञो मन्त्रसारथिः ॥ ६६ ॥

जितारातिष्षडूर्मिश्च सर्वप्रियहितेरतः ।

एतैर्नामपदैर्दिव्यैर्यस्तौति तव सन्निधौ ॥ ६७ ॥
हनूमन्स्तस्य किम् नाम नो भवेत् भक्तिशालिनः ।

प्रणवञ्च पुरस्कृत्य चतुर्थ्यन्तैर्नमोन्तकैः ॥ ६८ ॥

एतैर्नामभिरव्यग्रैरुच्यते हनुमान् भवान् ।

व्रणरोगादिदारिद्र्यम् पापक्षुदपमृत्यवः ॥ ६९ ॥

विनश्यन्ति हनूमन्स्ते नाम्नाम् सङ्कीर्तने क्षणे ।

भगवन् हनुमन्नित्यम् राजवश्यम् तथा सताम् ॥ ७० ॥

लक्ष्मीवश्यम् च स्त्रीवश्यम् आरोग्यम् दैर्घ्यमायुषः ।

प्राधान्यम् सकलानाम् च ज्ञाति प्राधान्यमेव च ।

वीर्यम् तेजश्च भक्तानाम् प्रयच्छसि महामते ॥ ७१ ॥
श्रीवसिष्ठः –
इति सन्तोषितस्तेन हनूमानपराजितः ।

प्राह प्रसन्नया वाचा किमभ्यर्थयते वरान् ॥ ७२ ॥

हनूमान् –
प्रसन्नोऽहम् तवाभ्यर्णे सम्स्तुतो नामभिर्मुने ।

वद सुव्यक्तया वाचा ऋषिमौद्दालिकीम् तथा ॥ ७३ ॥
एतैर्नामपदैर्दिव्यैरर्चयन्ति निराकुलाः ।

स्तुवन्ति वा सकृत्तेषाम् कामदोऽहम् सदा मुने ॥ ७४ ॥

एतेन मम वै नाम्नामष्टोत्तरशतेन च ।

कौण्डिन्यो माम् समभ्यर्च्य प्राप्तवान् पुत्रसम्पदः ॥ ७५ ॥

अकातर्यञ्च मनसो निर्मर्यादाम् तथाधिपः ।

अक्षोभ्यमिन्द्रियाणाञ्च दीयतेऽस्मै सदा मुने ॥ ७६ ॥

आयुरारोग्यमैश्वर्यम् तस्मै दत्तान्यमूनि वै ।

तदाभिलषितम् सद्यो दद्मि स्तोत्रेण तोषितः ॥ ७७ ॥

श्रीवसिष्ठः –
ततः प्रहृष्टो भगवान् ऋषिरौद्दालिकस्तदा ।

हनूमन्तम् समभ्यर्च्य वाक्यमुत्तरमब्रवीत् ॥ ७८ ॥
औद्दालिकः –

स्वामिन्नचञ्चला भक्तिरस्ति मे त्वयि सर्वदा ।

प्रसादम् कुरु सर्वत्र प्रसन्नेनान्तरात्मना ॥ ७९ ॥

एतस्मिन्नेव तीर्थे वै कौण्डिन्याद्या द्विजर्षयः ।

तपः कुर्वन्ति निरतम् हनुमत्प्रियकाङ्क्षिणः ॥ ८० ॥

सर्वेषाम् चैव देवानामृषीणाञ्च महात्मनाम् ।

प्रीतये चक्रसङ्गेन पवित्री कुरु दीर्घिकाम् ॥ ८१ ॥

एष नः प्रथमः कामः पवनानन्दवर्धन ।

चक्रतीर्थमिति ह्यस्य नामख्यातम् भविष्यति ॥ ८२ ॥

वसिष्ठः –
अथाञ्जनेयो धर्मात्मा ब्रह्मर्षिप्रीतये नृप ।

चक्रम् सम्योज्य सलिले स्वपदम् पुनरेयिवान् ॥ ८३ ॥

गते तु तस्मिन् सरसि चक्रपाणौ हरीश्वरे ।

चक्राख्यया च जयते त्रिषु लोकेषु विश्रुतः ॥ ८४ ॥

चक्रपुष्करिणीस्नायी नरो मुच्येत किल्बिषात् ।

श्रोता वाध्यायमेतद्धि जपन्वा नात्र सम्शयः ॥ ८५ ॥

इति ब्रह्मकैवर्त्ते उत्तरखण्डे भृगुपराशरसम्वादे घटिकाचलमाहात्म्ये विम्शोऽध्यायः ॥

एकविम्शोsध्यायः

ब्रह्मा –
अरुन्धतीसहायेन गुरुणा चोदिताः कथाः ।

इन्द्रद्युम्नस्तथा शृण्वन् हृष्टो नाविन्दत श्रमम् ॥ १ ॥

घटिकामात्रतस्तस्य घटिकाचलरोहणम् ।

अभवन्मुनयस्तत्र पुण्यतीर्थकथाश्रवात् ॥ २ ॥

गुरुणोक्तेन विधिना शङ्खतीर्थे महर्षयः ।

चक्रतीर्थे च स स्नात्वा तर्पयामास देवताः ॥ ३ ॥

पादप्रक्षालनादूर्ध्वम् त्रिराचम्य शुचिस्तदा ।

आरुरोह वसिष्ठेन दक्षिणम् शृङ्गसत्तमम् ॥ ४ ॥

आरोर्हा विविधम् तीर्थम् विविधा अगवल्लरीः ।

पश्यन् काञ्चन वै लेखामपश्यन्नृपतिस्तथा ॥ ५ ॥

आमूलम् शिखरम् रम्यम् स्फुरन्तीम् दृष्टिगोचराम् ।

अवलोक्य तदा लेखाम् वसिष्ठमिदमब्रवीत् ॥ ६ ॥

इन्द्रद्युम्नः –
हेमकोटिसरोजस्य नालामिव मनोहराम् ।

लेखाम् पश्यास्य शृङ्गस्य वनमालामिव प्रियाम् ॥ ७ ॥

श्रीवसिष्ठः –
पुरा मानसकासारवासी कोऽपि मृणालवान् ।

हम्सराजस्तु तुण्डेन नालाम् जग्राह चैकिकाम् ॥ ८ ॥

निगृह्य नालमेकम् वै गरुडम् पन्नगो यथा ।

वियत्पथम् जगाहेऽथ रथपत्री स्वयम्भुवः ॥ ९ ॥

श्वेतद्वीपे महाविष्णोर्नाभीकमलवासिनम् ।

उद्योदमात्मनो नाथम् जगाम स मृणालवान् ॥ १० ॥

मध्ये व्योमपथे तुण्डाद्गलिता सा मृणालिका ।

पतिता घटिकाशैलशृङ्गपृष्ठे लता यदा ॥ ११ ॥

दूरनिष्पतनाद्धेतोः नृसिम्हस्य च वैभवात् ।

दृढलग्ना भवन्नाला धृतहेमद्रुमैश्शुभा ॥ १२ ॥

अथ हम्सस्समुत्साद्य गृहीतुम् न शशाक ह ।

नरसिम्हमहात्मानमस्तौषीत् केवलम् तदा ॥ १३ ॥

हम्सः –
देव देव जगन्नाथ कृपालो भक्तवत्सल ।

प्रसादम् कुरु मे क्षिप्रम् घटिकाचलनायक ॥ १४ ॥

हेमकोटिपदाध्यक्ष हृदयानन्दकेशव ।

भगवन् भवरोगघ्न नमस्ते नृहरे हरे ॥ १५ ॥

नामरूपात्मना विश्वम् विभज्य परिपाल्यते ।

सृज्यते नीयते येन नमस्ते नृहरे हरे ॥ १६ ॥
यस्याज्ञामवलम्ब्यैष वायुपुत्रश्चतुर्भुजः ।

शङ्खचक्रधरो ह्यास्ते नमस्ते नृहरे हरे ॥ १७ ॥

प्रह्लादभक्तिवरद वामदेवादिमुक्तिद ।

सप्तर्षिप्रिय सर्वेश नमस्ते नृहरे हरे ॥ १८ ॥

सम्सारवैरी दैत्यारिदम्ष्ट्री भीमपराक्रमः ।

आपातालनभोवासी नमस्ते नृहरे हरे ॥ १९ ॥

सिद्ध्यन्ति सिद्धयो यस्मात्सर्वरूपात् सहस्रशः ।

वेदाश्च भूतयस्सर्वाः नमस्ते नृहरे हरे ॥ २० ॥

विश्वस्येशानमपि यम् मतीनाम् पुरुषर्षभः ।

सङ्गिरन्ते घृणापूर्णा नमस्ते नृहरे हरे ॥ २१ ॥
श्रीवसिष्ठः –
इति स्तुवति धर्मात्मन्नात्मयोनिम् यथा तथा ।

स प्राह भगवानाह योगवान् नरकेसरी ॥ २२ ॥

श्रीभगवानुवाच –
प्रसन्नस्ते पुरस्सोऽहम् पत्रिराज महामते ।

वरम् वरय भद्रम् ते विना नालग्रहादरम् ॥ २३ ॥

अन्यञ्च नागशृङ्गस्थो मम पश्य मृणालवान् ।

दैत्यराजवसामालाकण्ठमाविष्करोति ह ॥ २४ ॥

हम्सः –
स्वामिन्नियमनायासः कृता यदि मया सदा ।

अतः परम् भयन्नाम भवते भवतात् कथम् ॥ २५ ॥

त्वन्नाभिकमलस्थेन वरेण्यम् पद्मयोनिना ।

धृतम् भगवता साक्षात् भाग्यम् मे किमतः परम् ॥ २६ ॥

भगवान् –
साधु हम्स तव ब्रह्मा नित्यम् प्रीतिकरो भवेत् ।

सर्वेषामपि वाहानाम् मुख्यस्त्वम् प्रभविष्यसि ॥ २७ ॥
वसिष्ठः –
इति प्रियम्वदे देवे तिरोधानमुपेयुषि ।

हम्सः परमहृष्टात्मा श्वेतद्वीपमविन्दत ॥ २८ ॥

तदा प्रभृति नालोऽयम् युगभेदेन भूपते ।

वर्णभेदम् गतो भाति भूषा शिखरिणो यथा ॥ २९ ॥

अयम् नृप महाशैलो हेमनालाविभूषितः ।

दैत्यसिम्हवसाभूषो नृसिम्ह इव लक्ष्यते ॥ ३० ॥
ग्रथिमानम् च नालस्य यस्तु पश्यति सानुनि ।

सुतसन्ततिदैर्घ्यञ्च आयुर्दैर्घ्यञ्च विन्दति ॥ ३१ ॥

कुरुते श्रद्धया विद्वान् यो हम्सबलिमत्र वै ।

हम्समुद्दिश्य विधिवत् सन्तुष्टः पुरुषो भवेत् ॥ ३२ ॥

हम्सश्शुचिषदित्येतत् त्रिरुच्चार्य महामनुम् ।

बलिम् वितनुते यस्तु धूतमाप्मा स सम्भवेत् ॥ ३३ ॥
इन्द्रद्युम्नः –
श्लाघयम्श्च गुरोर्वाक्यम् हेमनालावलोककः ।

उक्तेन विधिना चक्रे बलिम् सन्तुष्टमानसः ॥ ३४ ॥

हम्सतीर्थावगाहेन पूतात्मा नृपपुङ्गवः ।

ततो दक्षिणपार्श्वस्थम् हेमकोटिम् ददर्श ह ॥ ३५ ॥

सिम्हस्कन्धैश्च सम्वाह्याम् प्रत्यङ्कणमृदि त्वराम् ।

अनेकर्षिषिसम्सेव्याम् परमाम् प्रणवात्मिकाम् ॥ ३६ ॥

पराम् कोटिम् गाहमानाम् शृङ्गकोटिविराजिताम् ।

भूतप्रेतपिशाचादिब्रह्मराक्षसरक्षसाम् ॥ ३७ ॥

दुरापाम् दुष्टसङ्घैश्च दुर्धर्षाम् दुरवग्रहाम् ।

दिक्पालगणसम्वीताम् ब्रह्मशङ्करवन्दिताम् ॥ ३८ ॥

वेदवाह्याम् च सूर्यस्य शकटाम् मणिकूबराम् ।

वैखानसार्चिताम् नित्याम् अप्सरोगणसेविताम् ॥ ३९ ॥

नृसिम्हमणिपेटीम् ताम् हेमकोटिमुदीक्ष्य वै ।

इन्द्रद्युम्नो महाभागो मुमुदे सपरिच्छदः ॥ ४० ॥

ततः प्राङ्मुखमासीनम् हेमकोटिपदम् गतम् ।

योगारूढम् नरहरिम् दृष्ट्वा नत्वा मुहुर्मुहुः ।

रोमाञ्चिताशेषवपुः स्तोत्रयामास भूपतिः ॥ ४१ ॥
यद्द्वाराधिप चाटुका न सरणिः प्रार्थ्या विरिञ्चादिभि-

श्चिन्वन्ति श्रुतयोsप्यलब्धविषयाश्चिद्रूपमद्यापि यम् ।

स त्वम् लोचनगोचरो भवसि यत् तत्काकतालीयक-

न्यायोदाहरणैकका नरहरे लक्ष्मीपते ते वयम् ॥ ४२ ॥

लक्ष्मीमहीकरसरोजसुधावमर्दलीलावहौ नरहरे घटिकाद्रिनाथ ।

उल्लासिनौ चरणपल्लवतल्लजौ ते सम्लालितौ समवलोक्य भवाम धन्याः ॥ ४३ ॥

योऽनन्तरूपोऽखिलविश्वमेतत् बिभर्ति सत्वम् नृहरे रमेश ।

त्वमक्षरम् तम् सवितुर्वरेण्यम् यतः प्रसूतिः प्रसृता पुराणी ॥ ४४ ॥

शास्ता जनानाम् च तथा नियन्ता तथा विसृष्टा भगवन् महात्मा ।

त्रिमूर्तिरूपोऽसि गुणत्रयीकः त्वमेक एवात्र परम् नृसिम्ह ॥ ४५ ॥

अस्मादृशो भूमितले नृकेसरिन् पदम् परम् त्वामवमत्य दुर्मतिः ।

वृतो जगत्स्यन्दनसिन्धुजन्मभिस्सुधर्मताधामगतो नृपाधमाः ॥ ४६ ॥

विभ्रान्तचित्ता भवदेकमायया वरासनस्था वयमित्यशङ्कया ।

निगर्वभाजो निवसन्त्यहङ्कृतः स्वल्पक्षयासङ्गतयो नराः पदे ॥ ४७ ॥

त्वयि स्थिते दातरि मानवाद्यहम् वरेण्यतात्वेन हरौ सदा हरौ ।

दातृभ्रमादन्यमुपासते जना: प्रमूढचित्ताः प्रमदानुसङ्गिनः ॥ ४८ ॥

भक्तिम् च मुक्तिम् भवदङ्घ्रिसेविनाम् ददासि विष्णो नृहरे त्वमेव हि ।
नतेतराणामविवेकशालिनाम् वृथा शुकानामिव निष्फलद्रुमः ॥ ४९ ॥

स्वतन्त्रभावेन सनातनो भवान् विमुक्तये सर्वनृणाम् प्रकल्प्यते ।

उतामृतेति श्रुतिराह तत्र वै प्रमाणमव्याजघृणा च हि प्रभो ॥ ५० ॥

महानुभावो भगवान् नृसिम्हलोकत्रयेऽप्यप्रतिमप्रभाव ।

प्रह्लादसे पादसरोजभाजो प्रह्लादनाह्लादकरस्त्वमेव ॥ ५१ ॥

परात्परम् वस्तु पुमान् पुराणस्त्वम् कारणम् कारणकारणम् गुरुः ।

सताम् गतिस्त्वम् नरसिम्हपच्छो व्याकुर्वते नान्य इति श्रुतिश्च ॥ ५२ ॥

अनिन्द्यमेकम् परमम् महान्तमादित्यवर्णम् तमसः परस्तात् ।

त्वामेव विद्वानमृतत्वमेति दुरापमन्यामरसङ्गिलोकैः ॥ ५३ ॥

सत्यञ्च दिव्यामितधारितम् हरे ब्रह्माणमेवार्यमणम् तथाविधम् ।

दूर्वादळश्यामलपीतवाससम् तथा नृसिम्ह प्रियशङ्करार्चितम् ॥ ५४ ॥

किरीटिनम् हेमविमानमध्यगम् जानुद्वयन्यस्तकराम्बुजद्वयम् ।

गृहीतशङ्खारिभुजम्सुदम्ष्ट्रिणम् नृसिम्हरूपम् भगवन्तमाश्रये ॥ ५५ ॥

श्रीवत्सचिह्नम् जयशालिनन्दकम् श्रियानुषक्तम् गळशोभिकौस्तुभम् ।

कौमोदकीलक्षणमाश्रये सदा गळादधो मर्त्यवपुर्धरम् हरिम् ॥ ५६ ॥

त्वद्योगनिद्रा जगताम् प्रबोधिनी शिवा सती शुम्भविशुम्भरोधिनी ।

सरस्वती श्रीरीति नामभिस्सदा प्रकीर्त्यते श्रीनृहरे त्वदाज्ञया ॥ ५७ ॥

त्वम् वै हिरण्याक्षमुखामरद्गुहाम् हन्ता गळादूर्ध्वमृगेन्द्ररूपः ।

रौद्राकृतिस्ते भगवन् सतानाम् सौम्या किमीदृग्विधया प्रवेशिता ॥ ५८ ॥

नमस्ते परस्मै नमो विश्वकर्त्रे नमो विश्वगोप्त्रे नमो विश्वनेत्रे ।

नमो भक्तिदात्रे नमो दुष्टशास्त्रे नमो वेदवेत्रे नमो वेदप्रौक्ते ॥ ५९ ॥

नमस्ते नृसिम्हाय विश्वप्रियाय नमस्ते हेमकोटिविमानानुगाय ।

नमो नीलवेद्याचलश्यामलाय नमस्ते नमस्ते नमस्ते नमस्ते ॥ ६० ॥
ब्रह्मोवाच –
इति स्तुतो जगदभिरामविग्रहः श्रियान्वितो नरहरिरादियोगिनम् ।

सुधामयीम् गिरमवदत्सुखोदयाम् तथा नदन् स्मितवदनाम्बुजो हरिः ॥ ६१ ॥
श्रीभगवानुवाच –
भक्तिम् पराम् कोटिमयादयम् मे वसिष्ठ तस्माद्ब्राह्म्यमुपैतु राजा ।

इन्द्रद्युम्नो विष्णुभक्तो जगत्याम् प्रायश्श्रोता सत्यवादी जितारिः ॥ ६२ ॥

जन्मारभ्य व्याकरोद्विष्णुविद्याम् नित्यैषा वै यातिगाधा जगन्ति ।

पूतात्मानो योगिनो भक्तिमन्तः पुण्यश्लोकाः कुम्भयोन्यादयोऽन्ये ॥ ६३ ॥

सन्त्यैतेषामग्रयायी ऋषीणामिन्द्रद्युम्नो यातु ब्राह्म्यम् महीपः ॥ ६४ ॥

श्रीवसिष्ठः –
स्वामिननन्यसुलभाम् नरसिम्हभक्तिमस्मै वितीर्य परिपालयसि प्रजानाम् ।

तैनैव सम्प्रति ददासि परञ्च तेजो ब्राह्म्यम् च राजनि सुखादनवाप्यमेतत् ॥ ६५ ॥

प्रसीद भक्तेषु परावरज्ञ त्रिलोकसाक्षी ननु भक्तरक्षिन् ।

कृपाम्बुवर्षेण निषिञ्च दीनान् भक्तोचितश्रीनृहरे यतस्त्वम् ॥ ६६ ॥

ब्रह्मोवाच –
अथ नरहरिवीक्षया स राजा निरुपममेत्यददग्रजन्मतेजः ।

मिषति निजपुरोहिते वसिष्ठे परममविन्दत वैष्णवम् च लोकम् ॥ ६७ ॥

ब्रह्मर्षिभावम् गमितो महात्मा राजाथ सालोक्यमवाप्य हृष्टः ।

सनन्दनादिस्तुतमर्चयन्वै प्रीणाति च श्रीनरसिम्हरूपम् ॥ ६८ ॥

इति ब्रह्मकैवर्त्ते उत्तरखण्डे भृगुपराशरसम्वादे घटिकाचलमाहात्म्ये एकविम्शोऽध्यायः

द्वाविम्शोsध्यायः

इत्थम् चतुर्मुखाद्देवाद्बोधिताः प्राक्तनीः कथाः ।

श्राव्याश्चाकर्ण्य ऋषयो मुमुदुर्हृष्टचेतसः ॥ १ ॥

विशिष्य घटिकाद्रेस्तु माहात्म्यश्रवणोत्सुकाः ।

पुनश्च ऋषयस्सर्वे ब्रह्माणमिदमूचिरे ॥ २ ॥

ऋषयः –
घटिकाचलमाहात्म्यकथनैर्भवतोऽनघ ।

अपर्याप्तास्य माल्यानि आश्रयन्ताम् बहूनि वै ॥ ३ ॥

अहो करोति माहात्म्यम् घटिकाद्रेर्महामते ।

जयावहमिदम् ब्रह्मन् श्राव्यम् लक्ष्मीकरम् नृणाम् ॥ ४ ॥

पठताम् श्रृण्वताम् ब्रह्मन् माहात्म्यम् लिखितामपि ।

अर्चताम् पुस्तकम् नृणाम् श्रीनृसिम्हः प्रसीदति ॥ ५ ॥

किम् पितृणामुद्धरणम् कृतवान्विप्रशेखरः ।

केन वा तपसा तस्य श्रीनृसिम्हः प्रसादकृत् ॥ ६ ॥

ब्रह्मोवाच –
स्वयम्भुवे कृते पादे त्रितये मुनिसत्तमाः ।

निजर्क्षे शुक्लपूर्णायाम् भार्गवे मासि माधवे ॥ ७ ॥

उत्तमायाम् तु सन्ध्यायाम् प्रातस्तन्यामहस्पृशि ।

प्रह्लादप्रीतये योगभावेन भगवान् हरिः ॥ ८ ॥

प्रकृत्या घटिकामेकाम् कुर्वताम् तप उत्तमम् ।

वामदेवमुखर्षीणाम् मुक्तये च नृकेसरी ॥ ९ ॥

यतो हेमशिलापृष्टे हरिराविर्बभूव ह ।

घटिकातोषितस्तस्माद्घटिकाचलनामभाक् ॥ १० ॥

तत्र जज्ञे महाभागो विखना इति विश्रुतः ।

सदा सम्प्रीणयन् सर्वान् विष्णुभक्तिपरायणान् ॥ ११ ॥

खनसम् घ्नन्तिरित्युक्त्वा नामैषाम् तु न विद्यते ।

ततो वैखानसा नाम ब्रह्मर्षय उदीरिताः ॥ १२ ॥

वैखानसास्स्मृतास्तेऽपि वृत्तविद्योपजीविनः ।

स्वसूत्रोक्तेन विधिना हरिमाराधयन्ति वै ॥ १३ ॥

भगवानपि विश्वात्मा नृहरिः प्रीणयन् सदा ।

वैखानसेभ्यस्स्त्वाम् पूजामनुगृह्णाति शाश्वतः ॥ १४ ॥

इति ब्रह्मकैवर्ते उत्तरखण्डे भृगुपराशरसम्वादे घटिकाचलमाहात्म्ये द्वाविम्शोsध्यायः ॥

फलश्रुतिः

यः पठतीदम् चरितम् श्रुणुयाद्वा भक्तितो लिखेत्तस्य

घटिकाद्रिनाथकृपया घटिकामाद्राद्भवन्ति दुर्घटाः कामाः ॥

 ॥ शुभमस्तु ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.