श्रीरस्तु
श्रीमते नारायणाय नमः
श्रीमते रामानुजाय नमः
श्रीसात्त्वतसंहितान्तर्गत–श्रीमद्यादवगिरिमाहात्म्यम्
* * *
अतः परं प्रवक्ष्यामि भूलोकस्य च विस्तरम् ।
योजनानामियं पृथ्वी पञ्चाशत्कोटिसंमिता ।। (१)
विस्तीर्णा सर्वतो दिक्षु तथा वै कोटियोजना ।
द्वीपानि सप्त सर्वत्र तावन्तस्तोयराशयः ।। (२)
अङ्गुळीयकवत्सर्वे भूमेरुपरि वेष्टिताः ।
भूभागो मध्यतो जंबूद्वीपमानं कथञ्चन ।। (३)
लक्षयोजनविस्तारं सर्वतस्तदनन्तरम् ।
विस्तारो वारिधेस्तावान् यावद्वीपमनन्तरम् ।। (४)
उत्तरोत्तरमेकैकं द्विगुणायामविस्तरम् ।
द्विधा द्वीपसमुद्राभ्यां विभक्ता सा निगद्यते ।। (५)
भागे च मध्यमे मेरुछ्रायो लक्षसंमितः ।
कर्णिकेन च भूपद्ममध्ये सम्यग्व्यवस्थितः ।। (६)
शृङ्गैः शतसहस्रेण शतयोजनसंमितैः ।
तत्संख्यापरिणाहेश्च तस्य पार्श्वे महीधराः ।। (७)
विस्तारो मूर्ध्नि शैलस्य मेरोः भागोऽथ मध्यमे ।
चतुर्विंशतिभिश्चैव सहस्रैः निर्मिता पुरी ।। (८)
योजनैः संमितायामा कणिकेवाचलाम्बुजे ।
विदिक्षु दिक्षु चाष्टासु परितो ब्रह्मणः पुरी ।। (९)
इन्द्रादिलोकपालानां पुरं पूर्वादिषु स्थितम् ।
विस्तारायाममानेन शतयोजनसंमिताः ।। (१०)
भगवन्मूर्तिभेदानां पुरस्सन्ति पुरस्कृताः ।
शैलानामन्तरं द्रोण्याः सेव्यते सिद्धचारणैः ।। (११)
अन्यैः कर्मण्यकृत्याभिः दैत्यदानवकिन्नरैः ।
भूमौ ह्येते कृताः स्वर्गाः दुर्लभाः पापकर्मभिः ।। (१२)
ज्ञानमूर्तिर्हयग्रीवो भद्राश्वे वसति स्वयम् ।
सदा कृतयुगं कालो वर्तते चतुरानन ।। (१३)
धर्मश्चतुष्पात्सकलं ध्यानमेवार्चनं हरेः ।
मेरोर्दक्षिणदिग्भागे हिमवान्नाम शैलराट् ।। (१४)
योजनानां सहस्राणि विस्तारो नैव कथ्यते ।
स्वर्गापवर्गफलदं कर्मकार्यं नृणामिह ।। (१५)
पर्वताः स्रोतसस्सन्ति हिमाद्रेर्दशदक्षिणे ।
सिंहो महेन्द्रो विन्ध्यश्च मलयश्श्रीगिरिस्तथा ।। (१६)
माल्यवान् चित्रकूटश्च किष्किन्धो नाम पर्वतः ।
ततश्श्रीवेङ्कटाद्रिश्च नारायणगिरिस्तथा ।। (१७)
पर्वता सरितश्चैव तत्र तत्र पुराणि च ।
ग्रामाश्च सन्ति बहवः स्वधर्मनिरताः सदा ।। (१८)
ब्राह्मणा भूमिपालाश्च प्रजापालनतत्पराः ।
स्वधर्मनिरताश्चैव चातुर्वर्ण्यमवस्थितम् ।। (१९)
चतुराश्रममप्येवं मयोक्तं चतुरानन ।
तत्फलं क्रियमाणस्य कर्मणो नातलादिषु ।। (२०)
प्रासादभूमयो रम्याः काननानि च निम्नगाः ।
नागकन्याश्च शतशः सन्ति सर्वाङ्गशोभनाः ।। (२१)
रत्नानां दीप्तिजालेन ध्वान्ते ध्वस्ते दिवानिशम् ।
नार्को न चन्द्रमास्तत्र जनैराकाङ्क्षितः क्वचित् ।। (२२)
या प्रीतिस्सर्वदा तत्र तेषां मुक्तात्मनामपि ।
यद्भोक्तुमिष्यते वस्तु दृश्यते तदुपस्थितम् ।। (२३)
न दृश्यते क्वचिद्ध्यात्वा वस्तु तद्भोगतत्परैः ।
स्वर्गादष्टगुणं भोगम् अतलादिषु सप्तसु ।। (२४)
भुञ्जते भोगनिरता रक्षो दैतेयदानवाः ।
सर्पैः पारिषदैस्सार्धं पुरे महति शोभिते ।। (२५)
तामसीं तनुमास्थाय विष्णोरेवमवस्थितः।
सप्तानामतलादीनां शेषाख्यो बलवत्तरः ।। (२६)
अनन्त इति च प्राज्ञैः ख्यातो लोके महर्षिभिः ।
तत्र तावत्प्रवक्ष्यामि मुक्तिक्षेत्राणि पद्मज ।। (२७)
जम्बूद्वीपाख्यभूभागे मेरोर्दक्षिणतो दिशि ।
मुक्तिक्षेत्राणि भूमौ तु तत्र तत्र वसन्ति च ।। (२८)
मूर्तिभेदैरपर्यन्तैः परमः पुरुषस्स्थितः ।
कुमुदादिगणश्चात्र चक्रादीन्यायुधानि च ।। (२९)
देव्यौ मही च लक्ष्मीश्च विष्वक्सेनः पतत्रिराट् ।
स्थानानि मूर्तिभेदानां विष्णोः परिजनस्य च ।। (३०)
सन्ति भूम्यां सुरम्याणि तत्र तत्र चतुर्मुख ।
ब्रह्मा –
नष्टमज्ञानतिमिरं ज्ञानं च दर्शितं महत् ।। (३१)
सर्वे च संशया नष्टाः प्रसादाद्भगवंस्तव ।
भगवान् –
स्वयं व्यक्तं तु मद्धाम चतुस्थानेषु संमतम् ।। (३२)
श्रीरङ्गं वेङ्कटाद्रिश्च हस्तिशैलस्त्वनन्तरम् ।
ततो नारायणाद्रिश्च मम धाम चतुर्विधम् ।। (३३)
अनादिर्वासुदेवश्च प्रासादे हेमनिर्मिते ।
तैलकुण्डे सेव्यमाने सरोभिर्विविधैस्तथा ।। (३४)
विभवाख्यो वासुदेवस्तदनन्तरमीरितः ।
आत्मानं हेतुना चक्रे पुनः केनापि हेतुना ।। (३५)
अनादिर्वासुदेवाख्यो भूमण्डलनिवासिनः ।
कृपया रक्षितुं श्रीमान् क्षीरसागरमागतः (३६)
मध्ये क्षीरार्णवे चैव गोपुरे मणिमण्डपे ।
आस्तेऽनन्तासने देवः श्रीभूमिभ्यां सह प्रभुः (३७)
ततश्श्रीरङ्गमासाद्य कावेर्यां पुलिने शुभे ।
शेषभोगासने दिव्ये श्रीमहीभ्यां सह स्थितः (३८)
रक्षितुं रङ्गवासस्थान् कृपया समुपागतः ।
शैले च वेङ्कटाख्ये च पीताम्बरधरो हरिः (३९)
सर्वलोकहितार्थाय सन्निधत्ते परः पुमान् ।
हस्तिशैले ततो ब्रह्मन् चक्राद्यायुधलाञ्छितः । (४०)
ऋषिभिः दैवतैस्सार्धं सेव्यमानो मुदान्वितः ।
नारायणाख्य-शैले च विश्वात्मा विश्वकृद्धरिः । ४१
स्मृतो नारायणश्चेति शङ्खचक्रगदाधरः ।
आस्ते श्रीभूमिसहितो वैनतेयेन सेवितः । ४२
भूमण्डलानि सर्वाणि व्याप्य नारायणः स्थितः ।
अन्तश्च तेषां भगवान् सर्वव्यापी परः पुमान् । ४३
बहिश्च साक्षिवत्सर्वम् ईक्षमाणोऽवतिष्ठते ।
आदौ कृतयुगे प्राप्ते ब्रह्मणा पूज्यते सदा । ४४
नारायणेति शैलस्य नामधेयमुदाहृतम् ।
त्रेतायां सनकाद्यैश्च पूज्यते च परः पुमान् । ४५
वेदाद्रिरिति विख्यातः सेव्यते योगिभिस्सदा ।
द्वापरे तु युगे प्राप्ते रामकृष्णादिनार्चितः । ४६
यादवाद्रिरिति ख्यातः सर्वलोकेषु कीर्तितः ।
कलौ युगे तु संप्राप्ते यतिना पूजितस्ततः । ४७
यतिशैलमिति प्रोक्तं नामधेयान्तरं स्मृतम् ।
एवं युगे युगे ब्रह्मन् सम्भवानि पुनः पुनः । ४८
नारायणगिरिश्चैवमनादिर्न विनश्यति ।
भूवैकुण्ठमिति प्रोक्तं ममावासं परं पदम् । ४९
नारायणगिरेः मूर्ध्नि सेव्यते भूसुरोत्तमैः ।
नारायणोऽथ भगवान् गोपुरादिविराजिते । ५०
शेषभोगासने दिव्ये श्रीमहीभ्यां सह स्थितः ।
चण्डाद्यैर्द्वारपालैश्च भूतेशैः कुमुदादिभिः । ५१
विष्वक्सेनगरुत्मद्यां सेव्यमानो मुदान्वितः ।
श्रीवत्सवक्षा नित्यश्श्रीः अजरश्शाश्वतस्स्थिरः । ५२
अनिरुद्धश्च मद्वंश्यैः इन्द्राद्यैरेव पालयन् ।
श्रीरङ्गे हरिशैले च गिरौ नारायणे तथा । ५३
पञ्चरात्रोक्तमार्गेण भगद्वंशजैर्द्विजैः ।
आराधयति शास्त्रोक्तविधिना देशिकोत्तमैः ।
शान्तैरलोलुपैः ब्रह्मन् मां हि प्रीतिकरं शुभम् ।। ५४
इति श्रीपाञ्चरात्रे सात्त्वतसंहितायां भुवनकोशे भूमौ स्वयंव्यक्तस्थलनिर्णयः पटलः
******
श्रीः
श्रीमते रामानुजाय नमः
श्री पाञ्चरात्रे ईश्वरसंहितोक्ते २० अध्याये
ज्ञानमण्डपवैभवः
श्री यादवाचल माहात्म्यम्
मुनयः-
भगवन्मुनिशार्दूल सर्वज्ञ वदतां वर ।
श्रीरङ्गं वेङ्कटाद्रिश्च हस्तिशैलस्त्वनन्तरम् ।। (१)
ततो नारायणाद्रिश्च मम धाम चतुष्टयम् ।
एवमुक्तं भगवता साक्षान्नारायणेन हि ।। (२)
अस्मिन् क्षेत्रचतुष्केषु संस्थितं पुरुषोत्तमम् ।
महाभक्ति-समायुक्ताः सेवन्ते ये नरोत्तमाः ।। (३)
सर्वक्षेत्रस्थिता देवास्सेवितास्तैर्न संशयः ।
नारायणाद्रि-माहात्म्यं श्रोतुमिच्छामहे वयम् ।। (४)
इह नारायणस्यैव ध्यानमाराधनादिकम् ।
कथितं हि त्वया पूर्वं न तु नारायणो हरिः ।। (५)
कथं प्राप्तो गिरिवरं महत्ता तस्य कीदृशी ।
तत्सर्वं विस्तरेणैव वदस्व वदतां वर ।। (६)
नारदः –
साधु पृष्टं महाभागाः भवद्भिर्मुनिपुङ्गवाः ।
नारायणाचलस्थस्य हरेर्माहात्म्यमुत्तमम् ।। (७)
सङ्क्षेपेण प्रवक्ष्यामि श्रृणुध्वमवधानतः ।
आदौ नारायणः श्रीमान् स्वस्यनाभीसरोरुहात् ।। (८)
चतुर्मुखं समुत्पाद्य सर्वसंस्कार-संस्कृतम् ।
वेदशास्त्रार्थ-तत्त्वज्ञं कृत्त्वा तं पुरुषोत्तमः ।। (९)
सृष्टौ नियोज्य ब्रह्माणं तत्सत्त्वन्तर्हितोऽभवत् ।
इतिकर्तव्यतामुग्धो बभूवोद्विग्नमानसः ।। (१०)
तद्दासौ तप आतिष्ठत् द्रष्टुकामो जगत्पतिम् ।
बहुकालेष्वतीतेषु तप्यमाने पितामहे ।। (११)
आविरास जगन्नाथो ब्रह्मणः पुरतो द्विजाः ।
तं दृष्ट्वा कमलाकान्तं परमाश्चर्यसंयुतः ।। (१२)
तुष्टाव विविधैः स्तोत्रैः श्रुतिसिद्धेश्चतुर्मुखः ।
तेन स्तुतोजगद्धाता करुणापूर्णमानसः ।। (२३)
ब्रह्माणं समुवाचेदं मेघगम्भीरया गिरा ।
त्वया वत्स कुतस्त्वेवं तपस्तप्तं सुदुस्तरम् ।। (२४)
तुष्टोऽहं तपसा तेऽद्य किं तवाभीप्सितं वद ।
ब्रह्मा –
नान्यदस्ति फलं देव भवतो दर्शनादृते ।। (२५)
त्वया नियोजितोऽहं हि जगत्सृष्टौ पुरा विभो ।
स्रष्टुं जगदिदं सर्वं का शक्तिर्मम माधव ।। (२६)
अत्रोपायं समाचक्ष्व करुणामृतवारिधे ।
इत्युक्तो ब्रह्मणा देवो मन्त्रमष्टाक्षरं परम् ।। (२७)
तस्योपदिश्य भगवान् तदर्थांश्च विशेषतः ।
अष्टाक्षरमिमं मन्त्रं सन्ततं हृदि चिन्तयन् ।। (२८)
मन्त्रस्यास्यप्रभावेण जगत्स्रष्टुं त्वमर्हसि ।
सर्गकर्मणि संवृत्ते एतन्मन्त्रप्रभावतः ।। (२९)
आविर्भविष्यति पुरः साक्षान्नारायणो विभुः ।
तमभ्यर्चय देवेशं मन्त्रेणानेन पद्मज ।। (३०)
ततस्त्वदधिकारान्ते मत्पदं प्राप्यसि ध्रुवम् ।
इत्युक्त्वान्तर्दधे देवः ततस्तुष्टश्चतुर्मुखः ।। (३१)
जपमानो मूलमन्त्रं चेतनाचेतनात्मकम् ।
सृष्ट्वा जगदिदं सर्वं विरञ्चिर्मुनिपुङ्गवाः ।। (३२)
नारायणं द्रष्टुकामस्तपस्तेपे सुदुस्तरम् ।
आविरासीत्ततो दिव्यं विमानं शुभलक्षणम् ।। (३३)
श्रीवैकुण्ठाच्चतुर्वक्त्र तपःफलमिवाद्भुतम् ।
अनेककोटिमार्ताण्ड विलसत्तेजसावृतम् ।। (३४)
अनन्तविहगेशेन विष्वक्सेन पुरोगमम् ।
श्रिया सुदर्शनेनापि पार्श्वयोः समनुद्रुतम् ।। (३५)
कुमुदाद्यैः परिवृतं सर्वावयव-शोभितम् ।
वृत्ताकारं शुभकरं सर्वालङ्कारशोभितम् ।। (३६)
तं दृष्ट्वा सह स्थिथाय सन्तुष्टः कमलासनः ।
पुलकाञ्चितसर्वाङ्गः सन्तोषाद्भ्रान्तलोचनः ।। (३७)
प्रणम्यः प्राञ्जलिः स्थित्वा विमानमवलोकयत् ।
पीठाद्येषु शिखान्तेषु विमानाऽवयवेषु च ।। (३८)
भूराद्यं सत्यपर्यन्तं लोकानां सप्तकं क्रमात् ।
अध्वनां भुवनाध्वादिषट्कम वर्णाध्वपश्चिमम् ।। (३९)
धरादिपुरुषान्तं च तत्त्वबृन्दं मुनीश्वराः ।
सत्तारूपमवस्थाय संस्थितं सन्ददर्श ह ।। (४०)
ततस्तु देवताबृन्दं क्रमेण समलोकयत् ।
घटाधारशिलाधस्तात् अनन्तममितद्युतिम् ।। (४१)
चक्रं तदूर्ध्वे सामर्थ्यशक्तिं चापि शिलान्तरे ।
मन्त्रनादं मध्यकुम्भे प्रागादिकलशाष्टके ।। (४२)
वासुदेवादिकांश्चैव प्रभवाप्यययोगतः ।
संस्थितान् तत्पिधानेषु मध्यादीश-दिगान्तिमम् ।। (४३)
ज्ञानभासादिकानां च शक्तीनां नवकं क्रमात् ।
धर्मादीनामष्टकं च तथापादशिलाष्टके ।। (४४)
अकरादिक्षकारान्तं वर्णचक्रं तदन्तरे ।
सर्वाधारमयं चक्रं शाखामूलं समाश्रितम् ।। (४५)
ज्ञानक्रियात्मके तत्त्वे शाखयोः परमेश्वरम् ।
आद्यं ह्युदुम्बरस्योर्ध्वे तत्पृष्ठे धर्ममेव च ।। (४६)
कवाटयोस्तुकालाग्निं वरुणं च मुनीश्वराः ।
शङ्खपद्मनिधी चैव तदग्रद्वार-पार्श्वयोः ।। (४७)
ततो जङ्घासमूहे तु तथैवान्तरभूमिषु ।
कालादिवसुधान्तांश्च भावोपकरणामरान् ।। (४८)
जङ्घाग्रे केशवादीनां द्विषट्कं प्रस्तरस्थले ।
चक्राद्यायुधसङ्घं च सत्तारूपेण संस्थितम् ।। (४९)
नासाचतुष्कस्थानेषु वराहादिचतुष्टयम् ।
सशक्तिकं पत्राद्यैः भूषितेवेदिकातले ।। (५०)
सुदर्शनं शिखाकुम्भे वासुदेवं परात्परम् ।
तदग्रदेशे हेतीशं सूर्यकोटिसमप्रभम् ।। (५१)
सर्वलोकमयं विप्राः सकलाध्वमयं तथा ।
सर्वतत्त्वमयं चैव सर्वदेवमयं तथा ।। (५२)
आनन्दमयसञ्ज्ञं तद्विमानं कमलासनः ।
एवं क्रमेणाऽवलोक्य प्रणिपत्य पुनः पुनः ।। (५३)
तथा प्रदक्षिणीकृत्य विष्वक्सेनाभ्यनुज्ञया ।
विमानान्तः संप्रविश्य जपन्नष्टाक्षरं मनुम् ।। (५४)
अभ्यन्तरे विमानस्य गर्भभूमौ तु मध्यतः ।
सरसीरुहमास्थाय संस्थितं पुरुषोत्तमम् ।। (५५)
प्रावृड् जलद-सन्दोह-विलसद्दिव्यविग्रहम् ।
सर्वदेवमयं देवं सर्वेषां तेजसान्निधिम् ।। (५६)
सर्वलक्षणसम्पूर्णं सार्वज्ञादिगुणैर्युतम् ।
वपुषासुन्दरेणैव दिव्येनाविष्कृतेन च ।। (५७)
मुञ्चन्तमनिशं देहादालोकं ज्ञानलक्षणम् ।
प्रयत्नेन विनाऽज्ञाननाशकृद् ध्यायिनां महत् ।। (५८)
घनकुञ्जितनीलाळि दळिताञ्जनसन्निभैः ।
कर्पूरदूसरैर्दिव्यैः पुष्पसंवलितान्तरैः ।। (५९)
किरीटमकुटाक्रान्तैः शोभितं स्वशिरोरुहैः ।
बालचन्द्रप्रतीकाश-फालोद्यत्तिलकोज्वलम् ।। (६०)
सुभ्रुवं सुनसंशान्तं सविलासस्मिताधरम् ।
किञ्चिदारक्तगोक्षीर-शुद्धनीलाज्बलोचनम् ।। (६१)
शीतलैर्दृष्टिपातैस्तु जगदाप्यायकारिणम् ।
विलसद्गण्डफलकं श्रवणोज्वल-कुण्डलम् ।। (६२)
मुखसौन्दर्य-निष्यन्द-चुबुकस्थल-शोभितम् ।
विकळङ्क-शरच्चन्द्र-विलसन्मुखमण्डलम् ।। (६३)
कंबुग्रीवं पीवरांसं दीर्घबाहुं महोरसम् ।
चतुर्भुजमुदाराङ्गं विलसत्पाणिपङ्कजम् ।। (६४)
पीतकौशेयवसनं निम्ननाभिं तनूदरम् ।
चारूरुयुगळं चारुजङ्घाद्वितयमुज्वलैः ।। (६५)
मणिनूपुरभूषाद्यैः विलसत्पादपङ्कजम् ।
दिव्यगन्धानुलिप्ताङ्गं दिव्याम्बरधरं तथा ।। (६६)
दिव्यस्रग्वेष्टनोपेतं दिव्यालङ्कारमण्डितम् ।
अनेकरत्नखचित-किरीटमकुटोज्वलम् ।। (६७)
कौस्तुभेनोरसिस्थेन श्रीवत्सेनोऽप्यलङ्कृतम् ।
रक्तकाञ्चनसन्मुक्तायुक्तया वनमालया ।। (६८)
सब्रह्मसूत्रया चैव शोभितं परमेश्वरम् ।
मुख्यदक्षिणहस्तेन भीतानामभयप्रदम् ।। (६९)
श्रोणीतटनिविष्टेन वामहस्तेन लीलया ।
घ्रियमाणं गदां गुर्वीं निषण्णां धरणीतले ।। (७०)
पश्चाद्दक्षिणहस्तेन चक्रं कालानलद्युति ।
प्रणवध्वनिगर्भं तु हिमाद्रिशतशोऽधिकम् ।। (७१)
शङ्खवामकरेणापि दधानमतुलप्रभम् ।
स्वदेहतेजस्संभूत-ज्वालामण्डल-मध्यगम् ।। (७२)
करुणापूर्णहृदयं जगदुद्धारणोद्यतम् ।
अभिन्नपूर्णषाड्गुण्य-विभवेनोपबृंहितम् ।। (७३)
योगिध्येयमजं नित्यं जगजन्मादिकारणम् ।
साक्षाल्लक्ष्मीपतिं देवं नारायणमनामयम् ।। (७४)
दृष्टा प्रहृष्टहृदयः प्रणिपत्य मुहुर्मुहुः ।
तुष्टाव कमलाकान्तं स्तोत्रैर्नानाविधैर्विधिः ।। (७५)
ततः तत्स्तोत्रसन्तुष्टो नारायण उदारधीः ।
पितामहमुवाचेदं मेघगम्भीरया गिरा ।। (७६)
सन्तुष्टस्तपसा तेऽहमष्टाक्षरपरायण ।
समभ्यर्चय मामत्र युगानामयुतं विधे ।। (७७)
ततो भुवं गमिष्यामि केनचित्कारणेन तु ।
इत्युक्तः चतुर्वक्त्रो हर्षेण महतान्वितः ।। (७८)
विमानं तत्समादाय स्थापयित्वा निजे गृहे ।
सात्त्वतोक्तविधानेन मनुनाऽष्टाक्षरेण तु ।। (७९)
पूजयामास विधिवद्भोगैः नानाविधैर्विभुम् ।
एवं बहुषु कालेषु व्यतीतेषु मुनीश्वराः ।। (८०)
सनत्कुमारो योगीन्द्रः कदाचित् क्षीरसागरात् ।
सत्यलोकं समासाद्य तव नारायणं प्रभुम् ।। (८१)
दृष्ट्वा श्रिया समोपेतं सर्वचित्तापहारिणम् ।
प्रणम्य प्राञ्जलिः तुष्टन्नुवाचेदं चतुर्मुखम् ।। (८२)
भवान् गुरुः पिता चापि मम वात्सल्यवारिधे ।
त्वत्तोऽन्यो नास्ति मे लोके गतिः सर्वार्थदायक ।। (८३)
इयन्तं कालमीशोऽयं श्रीमन्नारायणो विभुः ।
भवताराधितः सम्यग् भोगैर्नानाविधैरपि ।। (८४)
अद्याऽहं यष्टुमिच्छामि भवधाराधितं विभुम् ।
नारायणं जगन्नाथं दातुमर्हसि मे पितः ।। (८५)
इति संप्रार्थितो ब्रह्मा पुत्रवात्सल्यवानपि ।
विप्रयोगभिया विष्णोः चिन्तापरवशोऽभवत् ।। (८६)
तदा नारायणः श्रीमान् चिन्ताव्याकुलमानसम् ।
दृष्ट्वाऽब्जसम्भवं प्रीत्या वाक्यमेतदुवाच ह ।। (८७)
चिन्ता जहि महाबुद्धे विश्लेषान्मम पद्मज ।
अर्चान्तरमिदं मेऽपि ददामि तव संप्रति ।। (८८)
मामादाय मुनीन्द्रोऽयं संप्राप्य धरणीतलम् ।
संस्थाप्य पूजयेन्नित्यं पद्मकूटाभिधे गिरौ ।। (८९)
यत्र मां द्रष्टुमनिशं तपस्यन्ति मुनीश्वराः ।
इत्युक्त्वा भगवान् देवो रूपं स्वं हृदयोद्भवम् ।। (९०)
श्रिया पुष्ट्या च सहितं प्रायच्छद्ब्रह्मणे तदा ।
पितामहस्तदादाय रूपं श्रीपुष्टिसंयुतम् ।। (९१)
अभ्यर्चयद्विशेषेण भोगैर्विस्मितमानसः ।
ततः सनत्कुमारं तमाहूय कमलोद्भव ।। (९२)
सन्तोषोत्फुल्लनयनः प्रोवाचेत्थं मुनीश्वराः ।
सनत्कुमार हे वत्स! सुपुत्रोऽसि भवान्मम ।। (९३)
साक्षान्नारायणो देवो यतः सानुग्रहन् त्वयि ।
इत्युक्त्वाऽथ मुनीन्द्राय दिव्यमष्टाक्षरं मनुम् ।। (९४)
उपदिश्य तदर्थांश्च तथा सात्त्वतसञ्ज्ञकम् ।
महोपनिषदं तन्त्रं ग्राहयामास योगिनम् ।। (९५)
यो मूलवेदो विख्यातः तादृक्तस्मात्परिस्रुतम् ।
सिद्धिमोक्षप्रदं विप्राः सर्वशास्त्रार्थगर्भितम् ।। (९६)
यत्र शान्तातरं व्यूहं शान्तोदितमनन्तरम् ।
सुषुप्तिसञ्ज्ञं स्वप्नाख्यं जाग्रद्व्यूंह यथोदितम् ।। (९७)
मूत्र्यन्तरं केशवाद्यं प्रादुर्भावान्तरं तथा ।
हृत्पद्म-पद्मपीठादौ लक्ष्मीपुष्ट्यादिशक्तिभिः ।। (९८)
लाञ्छनैः शङ्खचक्राद्यैः गरुडप्रमुखैरपि ।
भूतसिद्धादिभिः शास्त्रपर्यन्तैः पूजनं हितम् ।। (९९)
विश्वत्रातृ नृसिंहस्य दीक्षापूर्वं तथा परम् ।
विभवव्यूहसूक्ष्माख्यम् अधिकारं यथाक्रमम् ।। (१००)
समयी पुत्रकादीनां चतुर्णामभिषेचनम् ।
तथैव समयाचारं मूर्तीनां स्थापनक्रमः ।। (१०१)
मन्त्रमण्डलमुद्राणां कुण्डादीनां च लक्षणम् ।
यत्र प्रोक्तं भगवता लोकोज्जीवनहेतुना ।। (१०२)
तदर्थांश्चोपदिश्याऽथ तत्प्राप्तिं च व्यवर्णयत् ।
इदं हि सात्त्वतं तन्त्रं वासुदेवाज्जगत्प्रभोः ।। (१०३)
सङ्कर्षणेन संप्राप्तं तस्मात्सङ्कर्षणात्मनः ।
प्रद्युम्नाख्येन संप्राप्तम् अनिरुद्धेन वै ततः ।। (१०४)
अनिरुद्धान्मया प्राप्तं मत्तो रुद्रादिभिस्तथा ।
सर्वेषु दिव्यशास्त्रेषु नास्त्यस्मादधिकं मुने! ।। (१०५)
यथा सर्वेषु मन्त्रेषु नास्ति चाष्टाक्षरात्परम् ।
एतदुक्त-विधानेन नारायणमनुं मुने ।। (१०६)
समभ्यर्चय लोकेशं भोगैः सांस्पर्शिकादिभिः ।
वैकुण्ठवर्धनं नाम क्षेत्रमस्ति महीतले ।। (१०७)
तत्रास्ति पद्मकूटाख्यः कश्चिद्गिरिवरो महान् ।
कावेर्या उत्तरे भागे मुने योजनमात्रतः ।। (१०८)
अप्राकृतं हि तत्स्थानं भूवैकुण्ठमिति श्रुतम् ।
पुरा भगवता ज्ञप्तः साक्षाच्छेषो हि शैलताम् ।। (१०९)
सम्प्राप्याऽगमनं विष्णोः प्रतीक्षन् वर्ततेऽधुना ।
विरजाप्यंशभागेन तद्गिरेरुत्तरे तटे ।। (११०)
प्रवहत्यमला नित्यं सर्वदोष-प्रणाशिनी ।
तथैवानेक-तीर्थानि क्षेत्राणि विविधानि च ।। (१११)
सन्ति तत्र गिरे श्रेष्ठे सेव्यानि विबुधोत्तमैः ।
कलौ युगेऽपि तत्रात्या न दूष्यन्ति कदाचन ।। (११२)
तस्य प्रळयकालेऽपि नाशो नास्ति गिरोर्मुने ।
ततस्तत्सदृशं स्थानं ब्रह्माण्डान्तर्न किञ्चन ।। (११३)
तस्मिन् गिरौ मुनिवरा बहवः संशितव्रताः ।
नारायणममुं द्रष्टुं तपस्यन्त्यमलाशयाः ।। (११४)
तेष्वप्यनुग्रहो जातो देवस्यास्य कृपानिधे ।
तस्माद्विमानमेतत्त्वं समदाय समाहितः ।। (११५)
तस्मिन् गिरिवरे स्थाप्य यज नारायण प्रभुम ।
फाल्गुण्या पौर्णमास्यां हि हस्तर्क्षे मुनिसत्तमाः ।। (११६)
तमानीय गिरिश्रेष्ठं तन्मूर्ध्नि मुनिसेविते ।
तीरे तत्तीर्थवरस्यैत-द्विमानममति प्रभम् ।। (११७)
संस्थापयामास तदा तत्रत्या मुनिपुङ्गवाः ।
दृष्ट्वा नारायणं देवं हर्षेण महतान्विताः ।। (११८)
अस्माकमिह कल्याणं कल्याणमिति चोचिरे ।
ततः कल्याणतीर्थं तत्प्रवदन्ति मनीषिणः ।। (११९)
ततःसनत्कुमारस्तु सात्त्वतोक्तविधानतः ।
समर्चयन् जगन्नाथ सन्तुष्टहृदयोऽभवत् ।। (१२०)
अतो नारायणस्तत्र गिरौ वसति सन्ततम् ।
नारायणाचल इति ततःप्रभृति कथ्यते ।। (१२१)
तत्र नारायणस्यैवमवतारः समीरितः ।
अर्चान्तरस्तु यत्प्रोक्तं नारायणहृद्भवम् ।। (१२२)
तच्चापि तं गिरि प्राप कुतचित्कारणात्पुरा ।
तत्तमिह वक्ष्यामि श्रृणुध्वं मुनिपुङ्गवाः ।। (१२३)
पुरा नारायणः श्रीमान् लोकरक्षणहेतुना ।
अवतीर्य रघोर्वंशे रामो रक्षः कुलान्तकः ।। (१२४)
पितृवाक्यापदेशेन दण्डकारण्य-वासिनाम् ।
मुनीनां रक्षणार्थाय तत्र तत्राश्रमे वसन् ।। (१२५)
लक्ष्मणेन च लावण्यपूर्णया सीतयान्वितः ।
नारायणगिरिं प्राप्य कदाचिन्मुनिसेवितम् ।। (१२६)
कृतातिथ्यो मुनिगणैः कौतूहलसमन्वितैः ।
अधित्यकायां तस्याद्रेः तुङ्गशृङ्गेऽतिमञ्जुळे ।। (१२७)
सीतावारिविहारार्थं सुमित्रा सूनुना क्षणात् ।
धनुष्कोट्या कृते खाते सद्यस्सञ्जातवारिणि ।। (१२८)
विहृत्य सीतया सार्धं निमज्यान्तर्जले जपन् ।
ऋचोऽघमर्षणीस्तत्र ददर्श परमाद्भुतम् ।। (१२९)
रूपं भगवतः पश्चादुन्मज्यालोच्य राघवः ।
पर्यटन् परितश्शैलं विस्मयाविष्टमानसः ।। (१३०)
पारे कल्याणतीर्थस्य पद्मपत्रायतेक्षणम् ।
पश्यन्नारायणं देवं प्रणम्य शिरसासकृत् ।। (१३१)
पूजयन् कतिचिन्मासानुवास तदनन्तरम् ।
उवाच भगवान् रामं परितुष्टोऽस्मि पूजया ।। (१३२)
दत्ताभयो मुनीनां त्वं जित्वा राक्षसपुङ्गवान् ।
सर्वैः परिजनैः सार्धं साकेतपुरमाविश ।। (१३३)
तत्रांशेनागमिष्यामि तदा मां यष्टुमर्हसि ।
इत्युक्तो रघुशार्दूल इन्दिरारमणाज्ञया ।। (१३४)
कृत्वा निष्कण्टकां पृथ्वीं साकेतनगरे वरे ।
अभिषिक्तः स्वभक्ताय राक्षसेन्द्राय धीमते ।। (१३५)
स्ववंशाराधितं देवं दत्वा रङ्गेश्वरं विभुम् ।
नीते रङ्गाधिपे तेन चिन्ताविष्टोऽभवत्तदा ।। (१३६)
तद्विदित्वा चतुर्वक्त्रः श्रीभूसहितं विभुम् ।
नारायणांशमादाय साकेतनगरी जवात् ।। (१३७)
समभ्येत्य च रामाय ददौ स्वाराधितं हरिम् ।
ततो रामः संप्रहृष्टः श्रीभूमिसहितं विभुम् ।। (१३८)
अर्चयामास विधिवच्चिरं निजगृहे द्विजाः ।
अतो रामप्रिय इति तस्य नामाभवद्विजाः ।। (१३९)
ततः कुशो रामपुत्रः स्वपित्राराधितं विभुम् ।
पूजयन् स्वसुतां काञ्चिद्यदुवंश्याय भूभृते ।। (१४०)
दत्वा तथा प्रार्थितः सन् प्रादात्तस्मै तमच्युतम् ।
लब्ध्वा कन्यां च तं देवं यदुशेखरसञ्ज्ञकः ।। (१४१)
मधुरा नगरीमेत्य तत्रैव निजमन्दिरे ।
संस्थाप्य कमलाकान्तं समभ्यर्चयदादरात् ।। (१४२)
ततस्तु तत्क्रमाल्लब्ध्वा यदुवंशसमुद्भवः ।
कृष्णः श्रियःपतिं देवं पूजयन् विनतासुतात् ।। (१४३)
प्राप्तं किरीटमतुलं कलशार्णवशायिनः ।
समर्प्य तस्मै देवाय विविधोत्सवमातनोत् ।। (१४४)
ततः कदाचिन्मुसली तीर्थयात्रानिमित्ततः ।
गत्वा नारायणगिरिं तत्र कल्याणनामके ।। (१४५)
तीर्थे तथाऽष्टतीर्थेषु स्नात्वा तच्छैलमूर्धनि ।
योगासनसमासीनं योगानन्दं जगत्प्रभुम् ।। (१४६)
सर्वदेवमयं देवं सर्वेषां तेजसां निधिम् ।
सर्वलक्षणसंपूर्णं सार्वज्ञादिगुणैर्युतम् ।। (१४७)
निष्टप्तकनकाभं च संपूर्णाङ्गं महत्तनुम् ।
घोरशार्दूलवदनं चण्डमार्ताण्डलोचनम् ।। (१४८)
सौदामी निचयप्रख्यैः लोमिभिः परिपूरितम् ।
अरुणाम्भोजपत्राभ वज्राधिक करोरुहम् ।। (१४९)
चलत्पणीश्वरसटं चन्द्रकोटि तटिद्द्युतिम् ।
प्रळयांबुधिनिर्घोषमुगिरन्तं स्ववाचकम् ।। (१५०)
युगान्तहुतभुग्ज्वाला मण्डलान्तर्व्यवस्थितम् ।
जान्वासक्तभुजद्वन्द्वं योगपट्ट-विभूषितम् ।। (१५१)
रथाङ्ग शङ्खधर्तारं पश्चाद्बाहुद्वयेन च ।
मार्ताण्डकोटिसदृश किरीट-मकुटोज्वलम् ।। (१५२)
कौस्तुभेनोरसिस्थेन श्रीवत्सेनाऽप्यलङ्कृतम् ।
रत्नकाञ्चनसन्मुक्त-युक्तया वनमालया ।। (१५३)
सब्रह्मसूत्रया चैव शोभितं परमेश्वरम् ।
दिव्यगन्धानुलिप्ताङ्गं दिव्यांबरधरं तथा ।। (१५४)
दिव्यस्रग्वेष्टनोपेतं दिव्यालङ्कार-मण्डितम् ।
सुभीषणं सौम्यरूपं स्वाश्रिताभीष्ट-सिद्धिदम् ।। (१५५)
देवं नरहरिं दृष्ट्वा नत्वा तत्पादपङ्कजे ।
स्तोत्रैर्नानाविधैः स्तुत्वा सन्तुष्टहृदयो हली ।। (१५६)
तस्मिन् गिरिवरे विप्रास्तत्र तत्र च सञ्चरन् ।
आनन्दमय-मध्यस्थं सौन्दर्यामृत-वारिधिम् ।। (१५७)
दृष्ट्वा नारायणं देवं निमग्नो विस्मयां बुधौ ।
नत्वा तत्पादकमले तुष्टावेत्थं जगत्पतिम् ।। (१५८)
जितन्ते पुण्डरीकाक्ष जितन्ते भक्तवत्सल ।
जितन्ते कमलाकान्त जितन्ते पुरुषोत्तम ।। (१५९)
नारायण नमस्तेऽस्तु वासुदेव नमोऽस्तु ते ।
नमोऽस्तु विष्णवे तुभ्यं नमस्ते सर्वशेषिणे ।। (१६०)
नमस्ते पररूपाय नमस्ते व्यूहरूपिणे ।
नमो विभवरूपाय नमस्ते त्वन्तरात्मने ।। (१६१)
नमस्तेऽर्चावताराय नानाकाराय ते नमः ।
भवान् हि लोकरक्षार्थं लक्ष्म्या कारुण्यरूपया ।। (१६२)
सुदर्शनेन समायुक्तो विहरस्यत्र भूधरे ।
अद्य मे सफला दृष्टिः सौन्दर्यामृतवारिधिः ।। (१६३)
यद्भवान् सर्वलोकेशो मम दृष्टिपथं गतः ।
पुण्यक्षेत्रेषु सर्वेषु सर्वेष्वायतनेषु च ।। (१६४)
न पश्यामि जगन्नाथ भगवन्तं भवादृशम् ।
शरणं त्वां प्रपन्नोऽस्मि शरणागत वत्सल ।। (१६५)
कटाक्षैः करुणापूर्णैः समालोकय मां विभो ।
एवं नानाविधैः स्तोत्रैः स्तुतो नारायणो हरिः ।। (१६६)
उवाच बलभद्रं तं करुणापूर्णमानसः ।
बलभद्र भवान् भक्तः शेषोऽसि मम किङ्करः ।। (१६७)
अभीप्सितं किं भवतो ब्रूहि तत्प्रददामि ते ।
इत्युक्तो बलभद्रोऽयं प्रत्युवाच जगत्प्रभुम् ।। (१६८)
नारायण दयां बोधे तव कैङ्कर्यतो विना ।
किमस्त्यभीप्सितं नाथ त्वामिहार्चयितुं विभो ।। (१६९)
अभीप्सामि रमाकान्त पूरयास्म मनोरथम् ।
इति संप्रार्थितो देवः प्रत्युवाच बलं तदा ।। (१७०)
श्री नारायणः –
अस्ति ते विमलाभक्तिः मयि यादवनन्दन ।
प्रथमं शेषरूपो मे कैङ्कर्यमकरोद्भवान् ।। (१७१)
ततस्तु लक्ष्मणो भूत्वा मामाराधितवानिह ।
इदानीमपि मां यष्टुं बलभद्र त्वमर्हसि ।। (१७२)
कलावपि युगे भूयः कश्चिद्भूत्वा द्विजोत्तमः ।
नानाविधैर्भोगजालैः अर्चनं मे करिष्यसि ।। (१७३)
इत्युक्तो देवदेवेन बलभद्रः प्रहृष्टधीः ।
पूजयामास विधिवद्भोगैः नानाविधैर्हरिम् ।। (१७४)
तदर्चनेनाति तुष्टः श्रीमान्नारायणो विभुः ।
उत्सवादीन् कर्तुकाम बलमेवमुवाच ह ।। (१७५)
श्रिया भूम्या च सहितं रूपं मम हृदुद्भवम् ।
मधुरायां भवद्गेहे पूज्यते किल यादव ।। (१७६)
तदानीतोत्सवाचार्यां मे कृत्वा नानाविधोत्सवान् ।
कर्तुमर्हसि भक्त्या त्वं तेन तुस्याम्यहं हलिन् ।। (१७७)
एवमुक्तो रोहिणेयः त्वरया मधुरापुरीम् ।
एत्य कृष्णाय तद्वृत्तं विस्तरेण न्यवेदयत् ।। (१७८)
तच्छ्रुत्वा भगवान् कृष्णो बभूवातीव विस्मितः ।
ततो यदूद्वहौ कृष्णबलरामौ श्रियःपतिम् ।। (१७९)
शिभिकायां समारोप्य सर्वाभरणभूषितम् ।
यात्रोपकरणैः सर्वैश्चतुरङ्गबलैः सह ।। (१८०)
माघमासे तु चित्रर्क्षे सुमुहूर्ते मनोहरे ।
नीत्वा गिरिवरं तत्र नारायणपुरो भुवि ।। (१८१)
संस्थाप्य च महानन्दात् पूजयामासतुर्हरिम् ।
ततस्तु देवदेवस्य कर्तुकामौ महोत्सवम् ।। (१८२)
बल्यर्चां स्नपनार्चां च प्रतिष्ठाप्याऽऽज्ञया हरेः ।
महोत्सवं तु विधिवत्कृत्वा देवस्य शार्ङ्गिणः ।। (१८३)
फाल्गुणे मासि हस्तर्क्षे सर्वतीर्थ-समाश्रिते ।
तस्मिन् कल्याणसरसि चक्रातेऽवभृतोत्सवम् ।। (१८४)
यतस्तत्रार्चितो देवो यादवाभ्यां रमासखः ।
तदाप्रभृति तच्छैलो यादवाद्रिरितीर्यते ।। (१८५)
इति नारायणस्यास्य माहात्म्यं कीर्तितं मया ।
इतः परं यच्छ्रोतव्यं कथ्यतां तन्मुनीश्वराः ।। (१८६)
मुनयः –
सर्वज्ञ मुनिशार्दूल तत्र यादवभूधरे ।
अस्ति कल्याणतीर्थस्य [1]चोत्पत्तिं तथैव हि ।। (१८७)
तच्छैलाग्रे संस्थितस्य नृहरेः वैभवं वयम् ।
आकर्णयितुमिच्छामः तदपि त्वं प्रकाशय ।। (१८८)
नारदः –
साधु पृष्टं महाभाग भवद्भिः सारवेदिभिः ।
कल्याणतीर्थमाहात्म्यं वक्ष्यामि शृणुताधुना ।। (१८९)
पुरा वराहो भगवान् मग्नमब्धौ वसुन्धराम् ।
समुद्धृत्य यथापूर्वं संस्थाप्याथ महीधरे ।। (१९०)
तस्मिन् शेषात्मके देव्या भूम्या सह समास्थितः ।
तदा देवाङ्गसंलग्नाः समुद्रजलबिन्दवः ।। (१९१)
गाळितास्तत्र तत्तीर्थं कल्याणमभवद्-द्विजा ।
तदा देवाः पुष्पवर्षैः समाकीर्य जगत्पतिम् ।। (१९२)
तुष्टुवुर्विविधैः स्तोत्रैः ननृतुश्चाप्सरोगणाः ।
दिव्यदुन्दभयो नेदुः बभूव मुदितं जगत् ।। (१९३)
ततो ब्रह्मादयो देवाः सर्वे देवर्षिपुङ्गवाः ।
तत्रागत्य वराहान्तं प्रार्थयामासुरच्युतम् ।। (१९४)
देवाः –
देवदेव जगन्नाथ सर्वलोकैकरक्षक ।
त्वया हतो महादैत्यो वसुधापि समुद्धृता ।। (१९५)
वयं च रक्षिता देव करुणामृत-वारिधे ।
इहानेनैव रूपेण भवान् भूम्या समन्वितः ।। (१९६)
स्थातुमर्हसि लोकेश भक्तानुग्रहकाम्यया ।
इति देवैः प्रार्थितोऽहं वराहो भगवान् हरिः ।। (१९७)
स्वाङ्गे वसुन्धरां न्यस्य तस्या उपदिशन् मनुम् ।
प्राग्भागे तस्य तीर्थस्य ह्यद्याप्यास्ते मुनीश्वराः ।। (१९८)
तत्र तेन वराहेण स्वाज्ञप्तः पतगेश्वरः ।
श्वेतद्वीपाच्छुद्धमृदं समाहृत्य सरस्तटे ।। (१९९)
पुरा निक्षिप्तवान् सा हि मृत्तिका लोकपूजिता ।
फाल्गुणे मासि कल्याणसंज्ञे तस्मिन् सरोवरे ।। (२००)
गङ्गाद्याः सकला नद्यो भजन्ते सन्निधिं द्विजाः ।
तन्मासि पौर्णमास्यां हि ब्रह्माद्या देवतोत्तमाः ।। (२०१)
नास्ति त्वत्तोऽधिका लोके देवता पुरुषोत्तम ।
वेदान्तेषु विचिन्वन्ति त्वां मुनीन्द्राः सनातनम् ।। (२०२)
स भवान् करुणाम्भोधे मम दृष्टिपथं गतः ।
शरणं मां प्रपन्नोऽस्मि आत्मसात्कुरु मां विभो ।। (२०३)
इति नानाविधैः स्तोत्रैः स स्तुतो नरकेसरी ।
उवाचाऽमृतवर्षिण्या गिरा प्रह्लादसंज्ञकम् ।। (२०४)
प्रह्लाद ते च तपसा तुष्टोऽहं वरमीप्सितम् ।
वृणीष्व तत्प्रदास्यामि इत्युक्तः प्रह्लादनामकः ।। (२०५)
बद्धाञ्जलिपुटो भूत्वा प्रत्युवाच महामतिः ।
भवान् गुरुः पिता माता सुहृद्बन्धुश्च मे विभो ।। (२०६)
विद्या धनं च सकलं नास्ति त्वत्तो परं यतः ।
त्वां विनाऽहं क्षणमपि वस्तुं नेच्छे भुवीश्वर ।। (२०७)
तस्मान्निरन्तरं देव भवत्पादाब्जसेवनम् ।
दातुमर्हसि देवेश त्विति संप्रार्थितो विभुः ।। (२०८)
प्रह्लादानुग्रहार्थाय तस्मिन्नेव महीधरे ।
कृतावासो नरहरिस्तेन संपूजितो भृशम् ।। (२०९)
अद्यापि राजते तत्र स्वाश्रिताभीष्टसिद्धिकृत् ।
एवं नारायणगिरेः माहात्म्यं लेशतो मया ।
सङ्कीर्तनं मुनिवराः किमन्य च्छोतुमिच्छथ ।। (२१०)
इति ईश्वरसंहितायां विंशत्यध्याये वर्तमाने यादवाचलमाहात्म्यं संपूर्णम् ।