श्रीरस्तु
श्रीमते नारायणाय नमः
श्रीमते रामानुजाय नमः
श्रीनारदपुराणान्तर्गत-श्रीमद्यादवागिरिमाहात्म्यम्
अथ षष्ठोऽध्यायः
श्रीरामस्य नारायणमूर्तिलाभः
मुनयः –
उक्तं हि भवता सर्वं भगवन्मुनिपुङ्गव ।
अस्माकं कर्णयोरासीदमृतस्यन्दिसेचनम् ।। (१)
तथाऽप्यस्माकमपरं वक्तुं त्वं किञ्चिदर्हसि ।
वासुदेवकथां वक्तुं त्वत्तः कोऽन्यो विशारदः ।। (२)
नारदः –
मुनयः पृच्छताशेषं यद्युष्माकं विवक्षितम् ।
अविवक्षितवक्तृत्वं विदुषां हि न युज्यते ।। (३)
मुनयः –
यद्रूपं ब्रह्मणे दत्तं हरिणा पूर्वमद्भुतम् ।
किमास्ते ब्रह्मलोके तत्किं वाऽत्र धरणीतले ।। (४)
एतदिच्छामहे श्रोतुं महत्कौतूहलं हि नः ।
नारदः –
स्मारितोऽस्मि मुनिश्रेष्ठा मम लोचनपारणाम् ।। (५)
रूपं तदिह युष्माभिर्युक्तकालानुयोगिभिः ।
पुण्यं किञ्चित्प्रवक्ष्यामि पूर्ववृत्तं मुनीश्वराः ।। (६)
भवद्भिरवधातव्यं भगवद्भक्तिभाजनैः ।
पत्न्या सह विशालाक्ष्या नित्यं नारायणार्चनम् ।। (७)
अकरोद्धि पुरा रामश्श्रीमान् काकुत्स्थवंशजः ।
स खल्वरण्यमासाद्य वसन्प्राप कदाचन ।। (८)
नारायणाचलं देव्या साकं सौमित्रिणापि च ।
निवसन्तं गिरेस्सानौ सीतया सह राघवम् ।। (९)
उवाच लक्ष्मणः श्रीमानुल्लसद्विस्मयाननः ।
अस्त्येतस्य गिरेरग्रे सरो मानसनिर्मलम् ।। (१०)
तस्य चास्ति तटे दिव्यं विमानं सुमनोहरम् ।
मध्ये विमानं महती विष्णोर्मूर्तिश्च दृश्यते ।। (११)
समाभ्यधिकनिर्मुक्तं तस्यास्सौन्दर्यमीक्ष्यते ।
भवता सदृशं तस्य मया रूपं विलोक्यते ।। (१२)
यदि ते द्रष्टुमिच्छाऽस्ति भवानीक्षितुमर्हति ।
ततः प्रीतमना भूत्वा सहसोत्थाय राघवः ।। (१३)
जगाम सीतया सार्धं कल्याणसरसस्तटम् ।
तत्रापश्यज्जगन्नाथं नलिनायतलोचनम् ।। (१४)
राकाचन्द्रमुखाम्भोजं रत्नकुण्डलमण्डितम् ।
किरीटमकुटाद्यैश्च भूषणैः भूषिताकृतिम् ।। (१५)
अञ्जनाचलसङ्काशं रञ्जकं पश्यतां दृशोः।
सौभाग्यं सर्वलोकनां भूषणानाञ्च भूषणम् ।। (१६)
आयुधैरद्भुताकारैरभितः परिवारितम् ।
दृष्ट्वा नारायणं देवं ववन्दे रघुनन्दनः ।। (१७)
विस्मयोत्फुल्लनयना वैदेही तं रमापतिम् ।
आकर्णपूर्णया दृष्टया निर्निमेषं व्यलोकत ।। (१८)
लक्ष्मणेनोपनीतैश्च कमलैः कमलेक्षणम् ।
अर्चयन्कतिचिन्मासाननैषीत्तत्र राघवः ।। (१९)
प्राह नारायणश्श्रीमान् राममाहवपुङ्गवम् ।
रक्षो वंशस्य निधनं कृत्वा साकेतमागते ।। (२०)
त्वयि राघव तत्राहमायास्याम्यंशतो मम ।
इति तेन समादिष्टो रामो रक्षः कुलान्तकः ।। (२१)
चतुर्दशसु वर्षेषु व्यतीतेषु निजां पुरीम् ।
अविशत्कपिशार्दूलैः अमरांशसमुद्भवैः ।। (२२)
ततो रघुपतिः श्रीमान् त्राता भक्तिमुपेयुषाम् ।
विभीषणस्य भक्तस्य स्ववियोगासहिष्णुताम् ।। (२३)
दृष्ट्वा प्रादित रङ्गेशं आत्मनाराधितं तदा ।
मदभ्यर्चितमेनं त्वमर्चयेति महामनाः ।। (२४)
विभीषणे गते रामो रङ्गनाथे च दूरगे ।
विषीदन्निव तत्रत्यैः पौरैः क्षणमदृश्यत ।। (२५)
अत्रान्तरे विमानेन ब्रह्मलोकादुपागतः ।
अब्रवीत् रघुशार्दूलं ब्रह्मा लोकपितामहः ।। (२६)
नारायणाचलस्थेन काकुत्स्थ-कुलनन्दन ।
अर्चितस्य त्वया पूर्वं विष्णोरंशोऽयमद्भुतः ।। (२७)
मा विषीद गृहाण त्वं रूपमेतन्ममार्पितम् ।
सहसोत्थाय परया भक्त्या कौतूहलान्वितः ।। (२८)
गृहीत्वा रघुनाथस्तां मूर्ति पद्मासनार्चिताम् ।
अर्चयामास सुचिरं सुमित्रानन्दनान्वितः ।। (२९)
सस्मितं राघवः प्राह सौमित्रिं सविधस्थितम् ।
तात लक्ष्मण सौमित्रे पुण्यारण्ये मयार्चिताम् ।। (३०)
मूर्तिमेनाञ्च मन्येऽहमेकामेव न संशयः ।
निशम्य राघवस्यैतद्वचनं पवनात्मजः ।। (३१)
पप्रच्छ कुत्र सा मूर्तिरिति काकुत्स्थसोदरम् ।
ततो यादवशैलाग्र अब्रवीत् स च लक्ष्मणः ।। (३२)
आकर्ण्य लक्ष्मणस्यैतद्वचनं पवनात्मजः ।
आजगाम ततो वेगाद्गत्वा दृष्ट्वा च मारुतिः ।। (३३)
रामं प्राह रघुश्रेष्ठमाञ्जनेयस्ततः परम् ।
एतद्रूपञ्च तद्रूपं त्वां चैकं मन्यते मनः ।। (३४)
ततो रामश्च तं प्राह पवनस्य सुतं मुदा ।
यथा मां सेवसे वीर तथा तत्रापि सेवय ।। (३५)
काले काले च लक्ष्मीशं परितोषय मारुते ।
नियोगं रघुनाथस्य धारयन् पवनात्मजः ।। (३६)
अद्यापि कुरुते सेवाम् आञ्जनेयस्तु तद्गिरौ ।
उपेतकौतुको नित्यमुपचारैस्सहस्रशः ।। (३७)
सिषेवे रघुनाथस्तां मूर्ति विष्णोर्मुदान्वितः ।
साकं लक्ष्म्या च भूम्या च साकेतकुलदैवतम् ।। (३८)
चराचरं यदा नैषीद्दिव्यं धाम स राघवः ।
तदा हनुमतो हस्ते प्रादादादिमदैवतम् ।। (३९)
कुशाय रामपुत्राय ततः पवनसम्भवः ।
अदिशद्दिव्यरूपं तदर्चितं पद्मयोनिना ।। (४०)
कनकमालिन्युपाख्यानम्
ततः कुशोऽपि तद्राजा राघवेण समर्चितम् ।
रूपमभ्यर्थयामास पित्र्यं धनमिति स्मरन् ।। (४१)
लक्षणैर्गुणतश्चापि तस्य कन्याभवत्ततः ।
सा च कण्ठस्थया साकं जाता कनकमालया ।। (४२)
अतस्तां बान्धवाः प्राहुर्नाम्ना कनकमालिनीम् ।
सुकेशीमसितापाङ्गां सुभ्रुवं शुभदर्शनाम् ।। (४३)
सुनासां सुस्मितां रम्यां सुमध्यां हंसगामिनीम् ।
पद्मपर्यायचरणां तरुणीमरुणाधराम् ।। (४४)
नतनाभिं वराङ्गीं तां मधुरां मधुरस्वनाम् ।
विष्णुभक्तिपरां नित्यं कन्यकां धन्यरूपिणीम् ।। (४५)
अवलोक्य कुशः प्रीतमुपलेभे महत्तराम् ।
कुशस्य कुलदैवं तत्कुशेशयविलोचनम् ।। (४६)
अवलोक्य विशालाक्षी नित्यं परिचचार सा ।
तदा कुशलवौ नित्यं कुशीलवकुलैर्युतौ ।। (४७)
रामप्रियस्य तस्याग्रे रामायणमगायताम् ।
अथ राघववंशस्य कर्ता स खलु भूपतिः ।। (४८)
अलसापाङ्गसन्दर्भाम् अङ्कुरत्कुचकुड्मलाम् ।
अपरां कान्तिमापन्नामधिकारुणिताधराम् ।। (४९)
अङ्गेष्वाविर्विलासां तामनङ्गस्येव देवतां ।
सम्प्रेक्ष्य तनयामेनां कुशः संज्ञातयौवनाम् ।। (५०)
भर्तारमुचितं तस्यास्साकं पत्न्या व्यचारयत् ।
तद्गुणानुगुणं किञ्चिन्नोपलेभे रघूद्वहः ।। (५१)
एवं चिन्तयतस्तस्य निशि निद्रा व्यजायत ।
ददर्श राघवं स्वप्ने कुशस्सौमित्रिणान्वितम् ।। (५२)
भरतं सहशत्रुघ्नं जननीं चापि जानकीम् ।
ततः परमया भक्त्या कुशः कौतूहलान्वितः ।। (५३)
सानुजं सहितं देव्या ववन्दे रघुनन्दनम् ।
तं प्राह रघुनाथोऽपि ताराधिपनिभाननः ।। (५४)
तापापहारिभिः वाक्यैस्सस्मितं चन्द्रिकामलैः ।
कुशाग्रबुद्धे बुध्यस्व हितं च कुरु मद्वचः ।। (५५)
कन्यां प्रयच्छ ते वत्स तस्मै कल्याणरूपिणी ।
यस्तु नारायणपरो नाम्ना च यदुशेखरः ।। (५६)
जननी चापि तं प्राह पुत्रं जनकनन्दिनी ।
यदिच्छेत् स्त्रीधनं तन्वी तत्प्रयच्छ कुमारक ।। (५७)
पित्रा दत्तं हि पुत्रीणां प्रीतेः परमकारणम् ।
अबुध्यत ततस्सद्यः स राजा रघुकुञ्जरः ।। (५८)
पत्न्यै निवेदयामास तत्सर्वं स्वप्नदर्शनम् ।
सापि सम्फुल्लनयना सर्वं श्रुत्वा पुनः पुनः ।। (५९)
प्रतिपेदे परां प्रीतिं पार्थिवेन्द्र-कुटुम्बिनी ।
अत्रान्तरे मुनिश्रेष्ठास्सोऽहं कल्याणकौतुकी ।। (६०)
अगच्छ राजधानीं तां यदुशेखररक्षिताम् ।
स खल्वाराध्य लक्ष्मीशं पुरा नारायणाचले ।। (६१)
सार्वभौमपदं प्राप सर्वैः मुनिभिरावृतः ।
पिता तस्य च भूपालो नाम्ना यादवभूषणः ।। (६२)
तद्गुणानुगुणां कन्यामन्वियेष तदा पुनः ।
अहं तस्य च भूषस्य सन्निधिं प्राप्य सादरम् ।। (६३)
रघुनायककन्यां तामवोच तद्गुणोचिताम् ।
अन्वेषयितुमागच्छदयोध्यां स च भूपतिः ।। (६४)
अन्विष्यान्विष्य बहवो भूपालाः पूर्वमागताः ।
न लेभिरे च तां कन्यां कुशात्कुशलचेतसः ।। (६५)
पितोर्वाक्यप्रमाणेन कन्यां कनकमालिनीम् ।
यदुशेखरनाम्ने तां प्रदाद्राघवनन्दनः ।। (६६)
यौवनं च ततो दातुं प्रमोदादुपचक्रमे ।
शतं रथाणां रम्याणां दासीनां त्रिशतानि च ।। (६७)
सहस्रं वारणेन्द्राणामयुतं वाजिनामपि ।
नियुतं नवरत्नानां कोटिं जाम्बूनदस्य च ।। (६८)
शतयोजनविस्तीर्णां वसुधां सस्यशालिनीम् ।
तस्यै कनकमालिन्यै कौतुकाददिशत्कुशः ।। (६९)
ततः कन्या च तं प्राह वैदहीनन्दनं नृपम् ।
अहं वाञ्छामि नैतानि तात दत्तानि मे त्वया ।। (७०)
मत्वा नालमिति प्रोक्तमिति तद्द्विगुणं ददौ ।
राजा राघवशार्दूलो धनेन धनदाधिकः ।। (७१)
सा कन्या पुनरप्याह तात नैतन्ममेप्सितम् ।
किन्ते वाञ्छितमित्याह स राजा कन्यकाञ्च ताम् ।। (७२)
काङ्क्षितं तु वदिष्यामि यदि मे दास्यसि ध्रुवम् ।
किमदेयं तवेत्याह तां कन्यां जानकीसुतः ।। (७३)
अयाचत च सा पुत्री पितरं प्रीतमानसा ।
अर्चितं रघुनाथेन रम्यं किमपि तद्धनम् ।। (७४)
जनकश्च ततस्तस्या जानकीवचनं स्मरन् ।
दिदेश दिव्यां तां मूर्तिं दिनकृद्वंशवर्धनः ।। (७५)
प्राक्प्रदत्तं च यच्चान्यद्-दातव्यमदिशच्च तत् ।
लब्ध्वा कन्यां ततो राज्ञां शेखरो यदुपुङ्गवः ।। (७६)
निर्जगाम पुरा तस्मान्निर्जराधिपविक्रमः ।
रुरुधुर्नृपशार्दूलं रुष्टा दुष्टा महीक्षितः ।। (७७)
वधूरत्नं तदाहर्तुं मध्ये मार्गं मदोद्धताः ।
समराङ्गणदीप्ते न तस्य तेजो दवाग्निना ।। (७८)
दग्धपक्षा विपक्षास्ते सर्वे शलभतां ययुः ।
अपि चाहवसन्नाहे रक्षन् राघवदैवतम् ।। (७९)
ताडयामास तान् सर्वान् लङ्कादहनवानरः ।
आसीदासेदुषी तत्र मम लोचनपारणा ।। (८०)
तद्धि सर्वं मुनिश्रेष्ठास्तस्य विष्णोः प्रभावतः ।
दैवं नारायणो येषां तेषां परिभवः कुतः ।। (८१)
रत्नान्दोळिकया देवं राजा यादवभूषणः ।
निन्ये धन्यमना भूत्वा दम्पत्योरग्रतस्स्थितः ।। (८२)
आसेदुरथ सर्वेऽपि मधुरां मधुराकृतिम् ।
ततस्समागमं श्रुत्वा विष्णोरमिततेजसः ।। (८३)
उद्वाहमङ्गलं चापि निर्ययुः पौरयोषितः ।
कङ्कणध्वनिसम्भिन्नैर्मणिनूपुरशिञ्जितैः ।। (८४)
स्त्रीणामन्योन्यसल्लापास्तिरोधानं प्रपेदिरे ।
कोणाभिघातसंक्षुब्ध-भेरीकुहरसम्भ्रमैः ।। (८५)
मर्दलध्वनयो वीणावेणुनिस्वनकर्बुराः ।
विष्णुक्षुश्रुविरे विष्णोरागमोत्सवसम्भवाः ।। (८६)
वैकुण्ठसेवां कुर्वाणा वैताळिककुलोद्भवाः ।
प्रशशंसुः प्रभावं च रघुयादववंशयोः ।। (८७)
काहळी-चिह्ननिक्वाण-मिळत्कळकळां पुरीम् ।
प्रावेशयत्तदा राजा दम्पतीभ्यां जगत्पतिः ।। (८८)
ततः कनकमालिन्या सहितो यदुशेखरः ।
अर्चयामास देवेशमर्थिताधिकदायिनम् ।। (८९)
प्रसादात्तस्य देवस्य प्रभावं जग्मुषोस्तयोः ।
आसीदखण्डमैश्वर्यमभवन्नभिताः सुताः ।। (९०)
यदुवंशक्रमेणाथ भगवान्भक्तवत्सलः ।
वसुदेवस्य भवने वासं चक्रे ततः परम् ।। (९१)
देवकीजठरे वासं स्वोदरे विश्वदर्शनम् ।
बन्धच्छेदनमन्येषां स्वबन्धनमुलूखले ।। (९२)
पुत्रार्थं कुत्रचिद्यानं घण्टाकर्णस्य मोक्षणम् ।
पलायनं च यवनान्मुचुकुन्दस्य मोक्षणम् ।। (९३)
परिष्वङ्गं च गोपीनां ब्रह्मचर्यस्य पालनम् ।
अपालनं स्वपुत्राणाम् अन्यपुत्राभिरक्षणम् ।। (९४)
प्रकाशं विश्वरूपस्य पाण्डवस्यन्दने स्थितिम् ।
अनिरुद्धकिरीटस्य पिञ्छस्यापि च धारणम् ।। (९५)
सत्यप्रतिष्ठारूपत्वं नवनीतस्य मोक्षणम् ।
नित्याव्याहतमैश्वर्यमुग्रसेननियाम्यताम् ।। (९६)
ब्रह्मरुद्रार्चितत्वं च कुन्त्यादीनां नमस्क्रियाम् ।
एवमादीनि चित्राणि चरितानि विलोकयन् ।। (९७)
वसुदेवस्य भवने वासं चक्रे रमापतिः ।
मुनयः –
सर्वं जानीमहे ब्रह्मन्निदमेकं त्वयोच्यताम् ।। (९८)
अनिरुद्धकिरीटस्य कथं कृष्णेन धारणम् ।
अनिरुद्ध किरीटवैभवम्
नारदः –
पुरा प्रह्लादतनयो नाम्ना योऽभूद्विरोचनः ।। (९९)
स तु क्षीरांबुधेर्मध्ये चकाराच्युतसेवनम् ।
कदाचिद्योगनिद्रायां निर्जग्मुः मुनयः परे ।। (१००)
प्रह्लादान्वययोगेन प्रभूतां भक्तिमुद्वहन् ।
अन्तरंगत्वमास्थाय सिषेवे स विरोचनः ।। (१०१)
अवकाशे किरीटश्च विष्णोरपजहार सः ।
पलायिष्ट च वेगेन पाताळोदरगह्वरे ।। (१०२)
प्राबुध्यत ततः पश्चाद्भगवान् रमया सह ।
आजग्मुस्सहसा सर्वे भगवत्सेवका जनाः ।। (१०३)
ददृशुः पुण्डरीकाक्षं किरीटं नोपलेभिरे ।
भगवन्तं च पप्रच्छुः भक्त्या भीत्या च विह्वलाः ।। (१०४)
भगवानपि तान् प्राह निद्राळुः किं नु वेद्म्यहम् ।
इति तद्वचनं श्रुत्वा सर्वे ते विष्णुकिङ्कराः ।। (१०५)
प्रायो विरोचनेनैव लुण्टाकेनात्र भूयते ।
अन्ये वयममी सर्वे वसामो ह्यत्र सेवकाः ।। (१०६)
स खल्वसुरवंश्योऽभूत् सर्वदा वाममीक्षते ।
अधुना च पलायिष्ट तस्मात् चोरो विरोचनः ।। (१०७)
इति सर्वेऽपि निश्चित्य वैनतेयं वभाषिरे ।
त्वं हि सर्वेषु चास्मासु वेगवान् बलवत्तरः ।। (१०८)
गत्वा विरोचनं जित्वा किरीटं सहसानय ।
इति तैश्चोदितः श्रीमान् विनतानन्दनो ययौ ।। (१०९)
त्रिभिर्मुहूर्तैः वनं पर्यटनं पक्षिपुङ्गवः ।
पाताळोदरकोणस्थं ददर्श स विरोचनम् ।। (११०)
द्वयोरायोधनं तत्र बभूव सुमहत्तरम् ।
तीक्ष्णेन शङ्कुलाकोटिवक्रेण विहगेश्वरः ।। (१११)
तुण्डाग्रेण शिरस्तस्य ताडयामास वेगतः ।
ततो विरोचनं जित्वा समरे विहगाधिपः ।। (११२)
आदाय तु किरीटं तदाजगाम नभस्थले ।
अग्रतो ददृशे किञ्चित् धामश्यामळमद्भुतम् ।। (११३)
आब्रह्मलोकविततं गच्छता हि गरुत्मता ।
विस्मयाविद्धनयनः परितोऽयं व्यलोकयन् ।। (११३)
अथ बृन्दावने कञ्चित् कर्णोपान्तस्स्वलद्दृशम् ।
व्यत्यस्तन्यस्तचरणं विमलाननपङ्कजम् ।। (११४)
पिञ्छावतं स सुभगं गुञ्जाहारविभूषणम् ।
लाङ्गलीकर्णपूरन्तं कलितस्मितशालिनम् ।। (११५)
उत्पलारण्यकान्तीनां उपदेशविधायिमिः ।
अलोकनैश्च गोपीनाम् अधिकश्यामविग्रहम् ।। (११६)
अश्रान्तमपि सन्तोषादधरामृतपायिनः ।
रन्ध्रे रन्ध्रे च वंशस्य व्यापृताङ्गुलिपल्लवम् ।। (११७)
अर्धदष्टतृणाङ्गुरैः गोभिरालोकितं मुदा ।
गोपालकुलसम्भूतैः बालैश्च परिवारितम् ।। (११८)
गायन्तं कुहनागोपं ददर्श विनतासुतः ।
द्विलक्षार्धप्रमाणस्य योजनानां महीयसाम् ।। (११९)
क्षीराब्धिशायिनो विष्णोः किरीटं तन्महत्तरम् ।
मूर्ध्नि तस्यैव बालस्य मुदितो विनतासुतः ।। (१२०)
निचिक्षेप ततस्तस्य किरीटं शिरसि स्थितम् ।
समप्रमाणमभवत् सह पिञ्छविभूषणैः ।। (१२१)
ततः प्रणम्य गरुडो भक्त्या गोपालबालकम् ।
जगाम वेगाद् दुग्धाब्धिं जगाद च कृतं तदा ।। (१२२)
श्रोतृणां मुनिमुख्यानां मध्ये शंसन्मुरद्विषः ।
श्रुत्वा तत्कलशांभोधिशायी कारुण्यवारिधिः ।। (१२३)
सस्मितं गरुडं वीक्ष्य सन्तोषं परमं ययौ ।
अनिरुद्धकिरीटं तदद्भुतं यदुकुञ्जरः ।। (१२४)
समर्प्य कमलाभर्तुः समाराधयदन्वहम् ।
इति नारदवाक्येन श्रुतवृत्ता मुनीश्वराः ।। (१२५)
उत्फुल्लनयनास्सर्वे सन्तोषं प्रतिपेदिरे ।
कृष्णबलभद्रयोः श्रीनारायणाद्रिगमनम् ।। (१२६)
नारदः –
कदाचित्तीर्थयात्रार्थं गतस्तीर्थीकृताभिलः ।
रेवतीपतिरद्राक्षीद्रुचिरं यादवाचलम् ।। (१२७)
तस्य शृङ्गं समासाद्य तीर्थे कल्याणसंज्ञिते ।
स्नात्वा मुनिगणैस्सार्धं कञ्चित्कालमुवास सः ।। (१२८)
भेजे नारायणं तत्र भेषजं भवरोगिणाम् ।
चक्षुषा मनसा वाचा केवलं सेव्यमद्भुतम् ।। (१२९)
द्वारकामथ संप्राप्य पोतपात्रीं भवाम्बुधेः ।
बलभद्रो यदुश्रेष्ठं बभाषे बलिनां वरः ।। (१३०)
अस्ति कृष्णदिशायां हि दक्षिणस्यां महीधरः ।
कश्चिद्विपश्चितामासीद्यत्र धीर्नित्यसङ्गिनी ।। (१३१)
तस्याग्रे भगवानास्ते भवसन्तापनाशनः ।
तस्य रूपन्तु पश्यामि देवेऽप्यस्मत्कुलार्चिते ।। (१३२)
तयोरन्योन्यवैषम्यं नैव पश्यामि किंचन ।
एवंवादिनमालोक्य प्राह यादवकुञ्जरः ।। (१३३)
भगवन् रेवतीजाने मैवं वादीः कदाचन ।
अस्मत्कुलधनस्यास्य को वा तुल्यो भविष्यति ।। (१३४)
अग्रजाभिनवं वाक्यं किमिदं श्रूयते त्वयि ।
बलभद्रश्च तं प्राह ततो बलवतां वरः ।। (१३५)
नाहं वदामि वितथं स्पृष्ट्वा कृष्णं त्वया शपे ।
एवं कलहसंयुक्तौ बलभद्रवलानुजौ ।। (१३६)
द्रक्ष्याव इति तं देवं पुरस्कृत्य कुतूहलात् ।
शैलेन्द्रं प्रापतुर्यस्मिन्नास्ते नारायणश्श्रिया ।। (१३७)
तस्याग्रतस्स्वयं देवं स्थापयित्वा यदूद्वहौ ।
नापश्यतां तयोर्मत्योर्वैषम्यं कलयापि तौ ।। (१३८)
ततः प्रशान्तकलहौ मुदितौ यदुपुङ्गवौ ।
अन्योन्यसङ्गमादेवमधिकोर्जितवैभवम् ।। (१३९)
रूपं तदुभयं विष्णोरन्वभूतां चिराय तौ ।
ततो यादववंश्यास्तं गिरिं सर्वे सिषेविरे ।। ।। (१४०)
नारायणगिरिः पूर्व स गिरिमुनिसत्तमाः ।
तदाप्रभृति तस्यासीद्यादवाद्रिरिति प्रथा ।। (१४१)
यश्चेममागमं विष्णोराकर्णयति वक्ति वा ।
लप्स्यते गुणिनं पुत्रं धनिनं धर्मचारिणम् ।। (१४२)
उत्तारकश्च पित्रादेर्नारायणपरायणम् ।
तुलया कनकमालिन्या लप्स्यते स च कन्यकाम् ।। (१४३)
अन्ते च लप्स्यते लक्ष्म्या सह वैकुण्ठदैवतम् ।
बहुना किमिहोक्तेन रघुनायक-कृष्णयोः ।। (१४४)
कटाक्षैरभिवर्धेरन् सद्यस्तस्य हि सम्पदः ।
तस्माद्भिभ्यति दैतेयाः प्रणमन्ति च देवताः ।। (१४५)
तस्योपचारः कर्तव्यो नापचारः कथञ्चन ।
स चोद्धरति संसाराद्दशपूर्वान् दशापरान् ।। (१४६)
इति शिखरिकुलानां शेखरे यादवाद्रौ
कनकरजतमुख्यैः धातुभिः कान्तशृङ्गे ।
उदितविरहमादावुत्सकीकर्तुमस्मान्
उभयमपि च विष्णोदिव्यरूपं चकाशे ।। (१४७)
इति श्रीनारदीये पुराणे ज्ञानकाण्डे श्रीमद्यादवगिरि–माहात्म्ये श्रीरामस्य श्रीनारायणमूर्तिलाभादि–कथनं नाम षष्ठोऽध्यायः
अथ सप्तमोऽध्यायः
हरिरातोपाख्यानम्
मुनयः –
भगवन्नारद त्वत्तः श्रुतो विष्णोरिहागमः ।
अस्माकं चक्षुषोरग्रे भवानिव विलोक्यते ।। (१)
कृतिनश्चापि धन्याश्च कृतास्त्वद्वाक्यतो वयम् ।
अथापि पृच्छ्यते किञ्चिदभिधातुं त्वमर्हसि ।। (२)
अकर्तव्यं भवानाह यदुशैलनिवासिनाम् ।
हरिकीर्तिप्रसक्तानामपराधं महात्मनाम् ।। (३)
अपराद्ध्यन्ति ये लोके यादवाद्रिनिवासिनाम् ।
आकर्णयितुमिच्छामस्तेषां किन्नु भविष्यति ।। (४)
नारदः –
मुनयः शृणुताशेषमत्रोदन्तं पुरातनम् ।
मुहुरुक्तं गुणैस्सर्वैर्गुरुणा भृगुणा मम ।। (५)
बभूव हि पुरा प्राज्ञः कश्चिद्राजपुरोहितः ।
चतुर्वेदीति विख्यातः कर्मस्वपि विचक्षणः ।। (६)
नारायणैकनिष्ठेषु भक्ति नापि चकार सः ।
नानादैवतसङ्कीर्णान् सर्वदा बहुमन्यते ।। (७)
नित्यं च नियताहारान्निनिन्द धरणीतले ।
सर्वातिथ्य इति ख्यातिमकरोत्सर्वतोऽपि सः ।। (८)
राजाश्रयेण तस्यासीदैश्वर्यं च महत्तरम् ।
तस्य पुत्रोऽभवत्कश्चिन्मेधावीति च विश्रुतः ।। (९)
त्रयश्चाप्यपरे पुत्रास्तादृशैरेव नामभिः ।
नामवन्तः पितृगुणैर्गुणवन्तस्ततोऽभवन् ।। (१०)
राज्ञो राजभटानाञ्च द्रव्यमादाय भूयसा ।
इयाज डम्भमात्रेण वत्सरे वत्सरेऽपि सः ।। (११)
कदाचित्पैतृकं कर्म कर्तुं स तु कृतोद्यमः ।
स्वगृहे ब्राह्मणैस्तस्थौ स्वगुणानुगुणैस्सह ।। (१२)
अत्रान्तरे महाभागो विष्णुभक्तिपरायणः ।
नित्यं वर्णाश्रमाचारनिष्ठो नियतमानसः ।। (१३)
हरिभक्तेषु भक्तिञ्च कुर्वन् सर्वदशास्वपि ।
नारायणाद्रिवासेन नन्तव्यस्त्रिदशैरपि ।। (१४)
हरिरात इति ख्यातो नामतोऽपि च भूतले ।
मानावमानयोस्तुल्यस्तद्ग्रामं ब्राह्मणोऽविशत् ।। (१५)
अध्वश्रान्तस्सपुत्रश्च दुर्बलश्च स्वभावतः ।
वृद्धश्चाप्यपरिज्ञानात् तद्गृहं ब्राह्मणोऽविशत् ।। (१६)
चतुर्वेदिनमालोक्य ब्राह्मणैः परिवारितम् ।
वेषमात्रेण तं मेने वैदिकं स द्विजोत्तमः ।। (१७)
नारायणपदाम्भोजवासितं तुलसीदलम् ।
करेणादाय तस्मै स दातुं समुपचक्रमे ।। (१८)
चतुर्वेदी च तं दृष्ट्वा ब्राह्मणं प्राह दुर्मदात् ।
चतुर्वेदी –
अहं स्नातो भवानद्य मार्गदोषेण दूषितः ।। (१९)
नाहमिच्छामि तुलसीं स्प्रष्टुं तव करे स्थिताम् ।
अथवानुपनीतोऽयं पुत्रो मे तत्करे स्पृश ।। (२०)
यद्वा तिष्ठतु ते हस्ते तुलसी सुलभा हि नः ।
तवागमनकार्यं मे सद्यो वक्तुमिहार्हसि ।। (२१)
अहं कर्मणि निष्णातो नानुष्ठानं निरुन्धि मे ।
नारदः –
इत्युक्तो ब्राह्मणस्तेन सडम्भं ब्रह्मबन्धुना ।। (२२)
बहुदूरादुपेतस्य बालस्य श्रान्तिमालपत् ।
चतुर्वेदी ततः प्राह पैतृकं कर्म वर्तते ।। (२३)
नान्नं ददामि तस्याहं गच्छ त्वं ब्राह्मणान्यतः ।
ब्राह्मणोऽपि ततः प्राह नान्नमिच्छामि ते गृहे ।। (२४)
अध्वश्रान्तस्य बालस्य तण्डुलं सम्प्रदीयताम् ।
यत्र कुत्रापि भवने पाचयिष्यति बालकः ।। (२५)
अवदब्राह्मणं पश्चात् सर्वातिथ्योऽतिगतिः ।
न च तण्डुलमप्यस्मै प्रदास्याम्यद्य भूसुर ।। (२६)
अब्रवीद्ब्राह्मणस्सीदन्नध्वश्रान्त्या पुनश्च तम् ।
सर्वातिथ्यचतुर्वे दिन्मैवं वक्तुमिहार्हसि ।। (२७)
विजानासि च धर्म त्वं व्यक्तं चिन्तय चेतसा ।
न प्रयच्छसि चेत्त्वं तु त्वद्गहे तस्य किञ्चन ।। (२८)
तव बन्धुगृहे वापि दापयैतस्य किञ्चन ।
अस्त्वेव तच्चतुर्वेदिन्नह्यास्था त्वद्गहे मम ।। (२९)
चतुर्वेदी ततः किञ्चित् क्रुद्धो ब्राह्मणमब्रवीत् ।
निरस्तोऽपि द्विवारं त्वं याचसे किं पिशाचिवत् ।। (३०)
भवनानि बहून्यत्र नगरे किं न पश्यसि ।
विचारय स्वयं गत्वा गच्छ गच्छ ममान्तिकात् ।। (३१)
अधिक्षिप्तस्ततस्तेन श्रान्त्या गन्तुमशक्नुवन् ।
असिष्टाङ्गेण भागे तु ब्राह्मणस्सहपुत्रकः ।। (३२)
ततः क्रोधसमाविष्टश्चतुर्वेदी स्वपुत्रकैः ।
ब्राह्मणं निर्गमय्यैनं बवन्ध च कवाटिकाम् ।। (३३)
कवाटवेगसम्भ्रान्तः पतितो भुवि बालकः ।
नष्टो भवेति तन्प्राह बाष्पगद्गदया गिरा ।। (३४)
रुदन्तं पुत्रमुत्थाप्य करेण भृशमामृशन् ।
एवं पुत्रक मावादीरित्यवोचद्विजोत्तमः ।। (३५)
विष्णुभक्तस्य न क्रोधो न लोभो नातिमानिता ।
न हि प्रदीपमाश्रित्य वर्तन्ते तमसां चयाः ।। (३६)
ततस्तस्य गृहद्वाराद्ययौ दूरं द्विजोत्तमः ।
वरं सर्पगृहे वासो वरं वह्निशिखास्वपि ।। (३७)
न वरं विष्णुभक्तानां परिभावि गृहे स्थितिः ।
इत्युक्त्वा सहसा धर्मस्सह तेनैव निर्ययौ ।। (३८)
पित्रर्थे कल्पितं द्रव्यम् अप्रदेयं विदुर्बुधाः ।
अप्रदानव्रतं ह्येतदहो धर्मव्यतिक्रमः ।। (३९)
ततश्च पैतृकं कर्म समारेभे द्विजाधमः ।
तस्य ब्राह्मणवर्यस्य निर्याणेन मुदान्वितः ।। (४०)
विद्यामदान्धचित्तस्य धनिनो राजसेविनः ।
युक्तमेव हि तत्तस्य युक्तायुक्तविचारणम् ।। (४१)
विषीदन् ब्राह्मणस्सोऽपि पुत्रश्रान्त्या पुनः पुनः ।
निर्जगाम पुरात् तस्मात् निष्कृपाधिष्ठितात्ततः ।। (४२)
व्यक्तोर्ध्वपुण्ड्रतिलकं विष्णुचक्रादिमुद्रितम् ।
विलसत्कण्ठभागं तं पद्माक्षमणिमालया ।। (४३)
गच्छन्तं नगरात्तस्मात् ददर्श ब्राह्मणोत्तमः ।
पप्रच्छ च त्वं कुत्रत्यः को वाऽसौ तव बालकः ।। (४४)
तव किं नाम कस्माच्च विषीदन्निव लक्ष्यसे ।
पृष्टश्च तेन तत्सर्वं हरिरातोऽब्रवीत्ततः ।। (४५)
निशम्य वचनं तस्य स सन्तुष्टो महीसुरः ।
अवदच्च शुभं वाक्यम् आदरेण कृताञ्जलिः ।। (४६)
अहं खलु महाभाग विष्णुभक्ताङ्घिरेणुभिः ।
परिपूतशिरावर्ते त्वमागच्छ गृहं मम ।। (४७)
मुष्टिमात्रप्रमाणेन याचित्त्वाहं ततस्ततः ।।
पुत्रैः सुखेन जीवामि विष्णुरातोऽस्मि नामतः ।। (४८)
मम द्वादशपुत्राश्च सन्ति द्वादशनामतः ।
तेषां नामानि लोकेषु प्रथन्ते भूसुरोत्तम ।। (४९)
अहं नारायणादन्यं देवं नाराधयामि च ।
न जहाति व्रतं चैतत्सहधर्मचरी मम ।। (५०)
हरिरातस्ततस्तेन विष्णुरातेन याचितः ।
सदनं तस्य संप्राप पुत्रेणापि समन्वितः ।। (५१)
विष्णुभक्तगृहे वासो विष्णुभक्तस्य युज्यते ।
क्षीरं शर्करया योज्यं न तु निम्बफलैरपि ।। (५२)
ततश्च सुमुखी नाम विष्णुरातस्य गेहिनी ।
पपाच हरिराताय पात्रैः परमपावनैः ।। (५३)
सपुत्रो ब्राह्मणश्चापि कृत्वा माध्यन्दिनोचितम् ।
कृत्यं भगवतः प्रीत्यै कृत्वा नियतमानसः ।। (५४)
नारायणाय पक्वं तत् परभक्त्या न्यवेदयत् ।
एतस्मिन्नन्तरे कश्चिच्चरमाश्रमिणां वरः ।। (५५)
अन्तेवासिभिरागच्छच्चतुर्भिः परिवारितः ।
गृहस्थश्चातिथिश्चापि तावुभौ पुण्यशालिनौ ।। (५६)
ववन्दाते मुनिश्रेष्ठं वासुदेवमिवागतम् ।
परिवर्धिततोषौ तौ तं दृष्ट्वा ब्राह्मणावुभौ ।। (५७)
अहो भाग्यमहो भाग्यमिति चाहतुरग्रतः ।
विष्णुरातस्ततस्तस्य प्रक्षाल्य चरणौ मुनेः ।। (५८)
प्रददौ हरिराताय तीर्थं पश्चात्स्वयं पपौ ।
स सन्यासीद्विजश्चापि चत्वारस्तेऽपि भूसुराः ।। (५९)
बालकश्चेति सप्तैते सह पङ्क्तावभुञ्जत ।
भुक्त्वा तेष्वासनस्थेषु विष्णुरातस्य बालकः ।। (६०)
पितुरन्तिकमासाद्य रुरोद क्षुधितो भृशम् ।
स च तन्मातरं प्राह पुत्रस्य क्षुधितस्य ते ।। (६१)
पात्रेषु शिष्टमन्नं त्वं प्रयच्छेति द्विजोत्तमः ।
नावशिष्टं किमप्यस्तीत्यवदत्सुमुखी ततः ।। (६२)
पश्येति तां पुनः प्राह ब्राह्मणो बालपीडया ।
ततस्संप्रेक्षमाणा सा तानि पात्राण्यवैक्षत ।। (६३)
पूर्ववत्परिपूर्णानि दृष्ट्वाऽभूत्सुमुखी भृशम् ।
ब्राह्मणस्तस्य पत्नी च पुत्रास्ते द्वादशापि च ।। (६४)
अभुञ्जत भृशं तुष्टा मिष्टमन्नं ततः परम् ।
तस्य ब्राह्मणवर्यस्य भवने सत्वशालिनः ।। (६५)
तानि स्वयमपूर्यन्त पात्राण्येव दिने दिने ।
सुमुखी विष्णुरातश्च तावुभौ तत्सुताश्चते ।। (६६)
गतान्यैष्णवान् सर्वान् अप्रयत्नादभोजयन् ।
येषु येषु च पात्रेषु पपाच सुमुखी ततः ।। (६७)
तानि तानि च पात्राणि राजतान्यभवंस्ततः ।
यत्र सन्यासिना भुक्तं तत्र सद्यो भुवस्स्थले ।। (६८)
ददृशे विष्णुरातेन विधिर्निरवधिः पुनः ।
सन्यासिवेषमाश्रित्य साक्षान्नारायणः स्वयम् ।। (६९)
अनुयायिभिराम्नायैः आगतो हि मुनीश्वराः ।
पाषण्डवारणोद्योगात् त्रिदण्डं धारयन्पुरा ।। (७०)
दत्तात्रेय इति ज्ञेयो युष्माभिस्सतु मस्करी ।
अतो यस्य गृहे भुङ्क्ते नारायणपरायणः ।। (७१)
तस्यैव भवने भुङ्क्ते साक्षानारायणस्स्वयम् ।
विष्णुभक्तापमानाच्चतुर्वेदिनो यातनाप्राप्तिः
चतुर्वेदी ततः पश्चाद्भोजयामास भूसुरान् ।। (७२)
तद्गृहे च पयः पात्र्याम् उद्ववाम विषं फणी ।
भोजनानन्तरं सर्वे मरणं प्रतिपेदिरे ।। (७३)
स्वयं तु पाकभेदेन भुक्तवान् पुत्रकैस्सह ।
न ममार ततस्सोऽयं न मम्रुः पुत्रकाश्च ते ।। (७४)
द्विजानां पुत्रपौत्राद्याः चक्रुशुस्सर्वतस्ततः ।
न च संप्राप पञ्चत्वं गृहिणी तस्य दुर्मुखी ।। (७५)
चतुर्वेदी विषेणैव जघानास्मात्पितृनिति ।
ततो राजभटाः केचिद्घोरा घोषेण रूपिताः ।। (७६)
ताडयामासुरत्यर्थं चतुर्वेदिनमुद्धटाः ।
विगतासुश्चतुर्वेदी तदा मर्मसु ताडितः ।। (७७)
मायावी च वनं भीत्या गच्छन् व्याघ्रणमारितः ।
तदनन्तरपुत्रश्च त्रासादारुह्य भूरुहम् ।। (७८)
बभूव शाखा भङ्गेन शतधा शीर्णमस्तकः ।
वनवारणहस्तेन गृहीत्वा चरणद्वयम् ।। (७९)
अपरोऽपि सुतो वेगादाहन्यत महीतले ।
चतुर्थोऽनुपनीतश्च चरंस्त्रासादितस्ततः ।। (८०)
पपात पन्नगैर्युक्ते कूपे तृणकुलावृते ।
भर्तृपुत्रमृतिं दृष्ट्वा दुर्मुखी भृशदुर्मुखी ।। (८१)
बद्ध्वा कवाटं सुदृढमुद्बबन्ध गृहान्तरे ।
राजदण्डभयोद्वेगात्तस्य कन्यायुगं ततः ।। (८२)
निक्षिप्याग्निं गृहद्वारे सद्यस्स्वयमदह्यत ।
वह्निना तेन दीप्तेन ज्वालाडम्बरशालिना ।। (८३)
सकलञ्च पुरं दग्धं विष्णुशतगृहं विना ।
ततो नृपभटैरुग्रैः तत्सम्बन्धोपजीविनः ।। (८४)
बद्धाः कारागृहे गाढं तत्रैव मरणं ययुः ।
त्रिदिनाभ्यन्तरे चैतत्सर्वमासीन्मुनीश्वराः ।। (८५)
अमानाद्गुरुभूतानामतिमानाच्च चेतसि ।
हरिभक्तावमानाच्च नश्यन्त्येव हि सम्पदः ।। (८६)
विष्णुभक्तिपराणाञ्च यः करोति विमाननाम् ।
तस्यैहिकं फलं प्रोक्तं शृणुतामुष्मिकं फलम् ।। (८७)
क्रूरै : कालभटैर्बद्ध्वा पादयोश्चर्मरज्जुभिः ।
आकृष्यत चतुर्वेदी सहपुत्रैरधोमुखः ।। (८८)
तत्सम्बधा मृतास्सर्वे तथाकृष्यन्त किङ्करैः ।
सर्वातिथ्य–यमसंवादः
वैवस्वतं ततो दृष्ट्वा सर्वातिथ्यस्तु दूरतः ।। (८९)
धर्मराजमहाराजसमवर्तिंस्त्वदग्रतः ।
अन्याय्यमिदमन्याय्यम् इति चुक्रोश भूयसा ।। (९०)
दारुणं तद्वचश्श्रुत्वा शमनस्समदर्शनः ।
मोचयित्वा तमाहूय वचनं चेदमब्रवीत् ।। (९१)
अन्याय्यमत्र किं ब्रह्मन् यद्यस्ति वद तन्मम ।
प्राञ्जलिः ब्राह्मणः प्राह प्रेतनाथाय सन्नतः ।। (९२)
चतुर्वेदी –
अध्यैषं चतुरो वेदान् अर्थानश्रौषमप्यतः ।
आश्रावयं च मीमांसामकार्षं कर्म वैदिकम् ।। (९३)
इमेऽपि मत्सुता राजन्मत्तोऽप्यधिकवेदिनः ।
एषा मद्गृहिणी चापि नित्यं मद्धर्मधर्मिणी ।। (९४)
नाहमर्हामि धर्मज्ञ नानानरकयातनाम् ।
कुरु तद्रोचते यत्ते परतन्त्रा हि ते वयम् ।। (९५)
नारदः –
इति तद्वचनं श्रुत्वा धर्मराजस्ततोऽब्रवीत् ।
यमः –
सत्यं ब्राह्मण ते वाक्यं तथापि शृणु मद्वचः ।। (९६)
नारायण परं दान्तं श्रान्तं नारायणाचलात् ।
आगतं त्वमविज्ञातं दुर्मते वेत्सि वा न वा ।। (९७)
पद्मारमणपादाब्जवासितं तुळसीदळम् ।
अवजानन्तमात्मानं पातकिन्वेत्सि वा न वा ।। (९८)
प्रदश्र्य बालकं श्रान्तं याचमाने द्विजोत्तमे ।
पिशाचवचनं प्रोक्तं दुर्मते वेत्सि वा न वा ।। (९९)
परे च विष्णुभक्तानां वन्दनीये ममापि च ।
प्रतिक्षेपणवाक्यानि पाप त्वं वेत्सि वा न वा ।। (१००)
अङ्कणे तव कुब्रह्मन् अनुत्सादितकश्मले ।
अध्वश्रान्तिपरीतं तम् आसीनं वेत्सि वा न वा ।। (१०१)
निर्गमय्य गृहात् कस्मान्निष्ठुरैर्ब्राह्मणं सुतैः ।
बध्यमानकवाटं त्वां दुर्बुद्धे वेत्सि वा न वा ।। (१०२)
कवाटवेगपतितं बाष्पपर्याकुलेक्षणम् ।
दुर्ब्रह्मन् हरिरातस्य बालं त्वं वेत्सि वा न वा ।। (१०३)
निष्क्राम्य तं महाभागं निष्कृषैस्तव चेष्टितैः ।
परिहासकथामिष्टैर्दुष्ट त्वं वेत्सि वा न वा ।। (१०४)
तथा च राजवाल्लभ्याद्विहितां भवता मुहुः ।
चक्रादिधारिणां निन्दां निन्द्यत्वं वेत्सि वा न वा ।। (१०५)
मुक्तिमार्गोपदेष्टृणां मुनीनां वचनेष्वपि ।
मुहुरप्यप्रमाणोक्तिं मूढ त्वं वेत्सि वा न वा ।। (१०६)
वेदैर्नारायणस्यैव पारम्ये प्रतिपादिते ।
वदने तव वैवर्ण्यं दुरात्मन् वेत्सि वा न वा ।। (१०७)
नित्यं च नृपगोष्ठीषु नास्तिकानां प्रशंसनं ।
अधिक्षेपञ्च साधूनाम् असाधो वेत्सि वा न वा ।। (१०८)
बहुना किमिहोक्तेन ब्रह्मबन्धो नृपाग्रतः ।
शरणागतिधर्मस्य दूषणं वेत्सि वा न वा ।। (१०९)
नारदः –
इत्युक्तो ब्राह्मणस्तेन धर्मराजेन तत्वतः ।
सत्यमेतन्महाराज मूढस्य मम चेष्टितम् ।। (११०)
कथमस्मान्महापापादुत्तरेयमिति ब्रुवन् ।
तस्य पादयुगं मूर्ध्ना प्रणनाम पुनः पुनः ।। (१११)
प्रणतं वेपमानं तं व्याहरच्छमनस्ततः ।
सर्वेषामेव पापानामहं जानामि निष्कृतिम् ।। (११२)
विष्णुभक्तापराधस्य नाहं जानामि निष्कृतिम् ।
चतुर्वेदी ततस्तस्य पादं शिरसि धारयन् ।। (११३)
त्वामहं शरणं प्राप्तो या रक्षेति तमब्रवीत् ।
अथ तं प्राह शमनो विप्रं विह्वलचेष्टितम् ।। (११४)
सकुटुम्बस्य चतुर्वेदिनो ब्रह्मरक्षस्त्वसंप्राप्तिः ।
यमः –
त्वत्प्रमापणकाले तु हरिराती दयान्वितः ।। (११५)
गोविन्देति वचः प्राह सप्तकृत्यो महामतिः ।
तव तत्कृपया माभूत्क्रूरा नारकयातना ।। (११६)
कर्मणा तव घोरेण भव त्वं ब्रह्मराक्षसः ।
अरण्ये निर्जले देशे वासस्तव भविष्यति ।। (११७)
भवित्री तव भार्या च महती ब्रह्मराक्षसी ।
इमे भवन्तु पुत्राच तत्रापि तव पुत्रकाः ।। (११८)
ततो गृध्रा भविष्यन्ति विप्रास्त्वद्गृहमोजिनः ।
त्वया हतानां सत्त्वानां मांसच्छेदोपजीविनः ।। (११९)
नारदः –
इत्युक्त्वा विरते तस्मिन् धर्मराजे द्विजस्ततः ।
संभ्रान्तचेतास्तं प्राह दृष्ट्वा दैन्यं प्रकाशयन् ।। (१२०)
चतुर्वेदी –
अवधिर्जन्मनस्तस्य कदा मम भविष्यति ।
दयाळो धर्मराज त्वं वक्तुमर्हसि तन्मम ।। (१२१)
यमः –
चतुर्वेदिन् महापापिन् ब्रह्मराक्षसरूपिणः ।
केषांचिद्विष्णुभक्तानां दर्शनादवधिस्तव ।। (१२२)
नारदः –
चतुर्वेदिनमित्युक्त्वा प्राहैषीप्रेतनायकः ।
ततस्स किंकरैर्मुक्तस्सपत्नीकस्सपुत्रकः ।। (१२३)
ब्रह्मराक्षसरूपेण विन्ध्यारण्यं विवेश ह
हरिरातस्य वृत्तान्तं ये शृण्वन्ति पठन्ति वा ।। (१२४)
तेषां हरिस्सदा भुङ्क्ते भवने स्वयमागतः ।
धनञ्च वर्धते तेषां ते भवन्त्यन्नदायिनः ।
तेषां विरोधिनश्चैव नश्यन्त्येव न संशयः ।। (१२५)
मधुरिपुपदसेवापक्त्रिमस्वान्तवृत्ते
यदुगिरितटभाजो यस्य कस्यापि पुंसः ।
अवमतिमिति कृत्वा यश्चतुर्वेदवेदी
समजनि स च सद्यो यातनाचक्रवर्ती ।। (१२६)
इति श्रीनारदीये पुराणे ज्ञानकाण्डे श्रीमद्यादवगिरिमाहात्म्ये हरिरातोपाख्यानं नाम सप्तमोऽध्यायः
अथ अष्टमोऽध्यायः
विष्णुभक्तसन्दर्शनाच्चतुर्वेदिनो ब्रह्मरक्षस्त्वनिवृत्तिः
ततस्ते मुनयस्सर्वे सन्तोषोत्फुल्लचेतसः ।
पप्रच्छुर्मुनिशार्दूलं नारदं परितस्स्थिताः ।। (१)
मुनयः –
कथं तस्य मुनिश्रेष्ठ ब्रह्मराक्षसरूपिणः ।
ब्राह्मणस्याभवन्मोक्षस्तत्सर्वं वक्तुमर्हसि ।। (२)
नारदः –
अरण्ये कण्टकैर्युक्ते फलमूलविवर्जिते ।
प्रतप्तवालुकामध्ये क्षुधादाहेन पीडितः ।। (३)
सिराळस्सर्वतो गात्रे सततं करदर्शनः ।
केशैरग्निशिखाकारैः परितः कीर्णमस्तकः ।। (४)
काळाकृतिः कृशो गण्डे दग्धद्रुम इवाचलः ।
जिह्वापन्नगभीमश्च पाताळप्रतिमाननः ।। (५)
दंष्ट्राकराळासृक्कान्तर्लग्नमांसं लिहन्मुहुः ।
लम्बोष्ठो निम्नदृष्टिश्च शूर्पकर्णश्शुभेतरः ।। (६)
दन्तुरो वक्रनासश्च धिष्ण्योन्नतललाटकः ।
तिर्यक्प्रेक्षणशीलश्च कुक्कुटोरस्थलस्तथा ।। (७)
अशिवाभिश्शिवाभिश्च परीतः पललाशया ।
तालप्रमाणपादश्च शूलखड्गधरस्तथा ।। (८)
प्रेतचीवरवासी च कर्णालन्वितपालकः ।
कङ्काळमालाधारी च भस्मना भृशधूसरः ।। (९)
प्रकृत्या धूम्रवर्णश्च पापिनां दृष्टिगोचरः ।
आन्त्रमालोपवीतश्च धमनीकटिबन्धनः ।। (१०)
भैरवस्वननादी च भग्नसर्वसुखोचितः ।
इत्थं दुःखशतैस्तप्तस्सपुत्रो ब्रह्मराक्षसः ।। (११)
पञ्चवर्षसहस्राणि स तस्थौ भार्यया सह ।
हत्वा हत्वा च भूतानि जघास क्रूरचेष्टितः ।। (१२)
गृध्ररूपैस्स्थितास्ते च ब्राह्मणास्तस्य पार्श्वतः ।
तत्खादितावशिष्टानि खादन्ति स्म दिने दिने ।। (१३)
न हीदृशं फलं तेषां पर्याप्तं मुनिपुङ्गवाः ।
ब्रह्मविद्वेषिणां नित्यं निरयः खलु युज्यते ।। (१४)
तस्मिन्काले महाभागावागतौ ब्राह्मणावुभौ ।
सत्यनिष्ठ इति ख्यातस्तयोरेको महीतले ।। (१५)
वैकुण्ठप्रिय इत्युक्तः परोऽप्यन्वर्थनामवान् ।
तौ हि नारायणाद्रिस्थं देवं नारायणं प्रभुम् ।। (१६)
आराध्यागच्छतां तत्र द्विजौ परमपावनौ ।
गन्तुकामौ च काश्मीरं तद्देशादागतौ पुरा ।। (१७)
साकं ताभ्यां परे केचित्समाजग्मुः द्विजोत्तमाः ।
हरिभक्तिसमायुक्ता हरिक्षेत्रनिवासिनः ।। (१८)
सर्वे च विष्णुभक्तास्ते हरिकीर्तनतत्पराः ।
तौ तत्र वासं चक्राते चक्रपाणेः प्रियौ द्विजौ ।। (१९)
दूरागमपरिश्रान्तैः साकमन्यैर्द्विजोत्तमैः ।
तटाके कुत्रचित्स्नात्वा कृत्वा वेदविधानतः ।। (२०)
स्वाधिकारोचितं कर्म देवमाराध्य केशवम् ।
स्वीकृत्य तत्प्रसादं च सुखं तत्रासने स्थितौ ।। (२१)
तौ च ताभ्यां सहायातास्सर्वे तदनुतोषितः ।
हरिकीर्तनमालाभिः कालक्षेपं वितेनिरे ।। (२२)
ततस्स राक्षसस्तत्र पर्यटन्परितो वनम् ।
सर्वेषामपि पापानां प्रायश्चित्तमितीरितम् ।। (२३)
श्रुत्या स्मृत्या पुराणैश्च सेतिहासमुहुर्मुहुः ।
शुश्राव दूरतस्स्थित्वा हरिसङ्कीर्तनाक्षरम् ।। (२४)
सहितो भार्यया पुत्रैर्गृध्रैरपि सहागतैः ।
दर्शनाद्धरिभक्तानां तेषां सङ्कीर्तनादपि ।। (२५)
प्रसन्नमभवच्चेतस्तस्य ब्राह्मणरक्षसः ।
विष्णुभक्तपदाम्भोजसङ्गपूतं जलं ततः ।। (२६)
रक्षो दृष्टिपथं प्राप तत्पषौ स च राक्षसः ।
ततो वैकुण्ठतद्भक्तभुक्तशिष्टानि यानि च ।। (२७)
पात्रक्षालनतोयेन परिकीर्णानि सर्वतः ।
जग्ध्वा सर्वाणि गृध्रास्ते पर्यटन्तस्ततस्ततः ।। (२८)
जातिस्मरत्वमापन्नास्सर्वे ते सहसा ततः ।
वैवस्वतेन कथितं सस्मार स च राक्षसः ।। (२९)
विष्णुभक्ताङ्घ्रितीर्थेन पूतानां मुनिसत्तमाः ।
अकृष्टपच्यतां याति मुक्तिः किमु फलान्तरम् ।। (३०)
ततः प्रीतमना भूत्वा तादृशस्मृतियोगतः ।
प्रायेणामी भविष्यन्ति धर्मराजसीरिताः ।। (३१)
धरणीतलसौभाग्यसञ्चया भगवत्पराः ।
अन्नवत्स्मरणं जातेरन्यथा कथमद्य मे ।। (३२)
इति सञ्चिन्तयामास स तु ब्राह्मणराक्षसः ।
महानुभावौ दृश्यते द्वावेतौ भगवत्परौ ।। (३३)
प्रसादादेतयोरेव मम पापं विनङ्क्ष्यति ।
इति निश्चित्य सहसा दूरतः प्रणनाम सः ।। (३४)
तं दृष्ट्वा प्रणतं तौ च ब्राह्मणौ भगवत्परौ ।
आहतुः को भवान्के च तवैते राक्षसा इति ।। (३५)
अब्रवीदादितस्सर्वं प्राञ्जलिर्विनयान्वितः ।
तयोर्ब्राह्मणयोरग्रे चरितं ब्रह्मराक्षसः ।। (३६)
उत्तरिष्यामि कथमित्युवाच प्रणतः पुनः ।
करुणापरिणामेन कलितौ तौ द्विजोत्तमौ ।। (३७)
अस्योत्तारं करिष्याव इति चक्रतुराशयम् ।
सत्यनिष्ठस्ततः प्राह तमेन ब्रह्मराक्षसम् ।। (३८)
सत्यनिष्ठः –
सङ्कीर्तनं तवालम्बस्सत्यं राक्षस दृश्यते ।
पश्चापि कीर्तनाद्विष्णोः पातकान्याशु बिभ्यति ।। (३९)
उपपातकमुख्यानामन्येषां तु कुतस्स्थितिः ।
नारायणकथां मुक्त्वा यः कथान्तरमिच्छति ।। (४०)
अवमत्य पयः पानमारनाळं स वाञ्छति ।
मथ्ना मन्दररूपेण मथनादभवत्सुधा ।। (४१)
लभ्यते रसनाग्रस्थं हरिकीर्तिरसायनम् ।
संसारमरुकान्तार-सञ्चारमलिनात्मनाम् ।। (४२)
पुंसां प्रक्षालनं युक्तं पुण्यैर्हरिकथामृतैः ।
दुष्टसर्पेण दष्टानां गाढं दुरितरूपिणा ।। (४३)
औषधं परमं पुंसामाहुः केशवकीर्तनम् ।
दुःखवारिधिकल्लोलमुल्लचयितुमिच्छताम् ।। (४४)
नामानि विष्णोर्दिव्यानि पोतपात्री खलु स्थिरा ।
तापत्रयमहाज्वाला-मालाशमनकर्मणि ।। (४५)
वासुदेवगुणालापपरीवाहाः परंक्षमाः ।
नारायणाक्षरं पुण्यं न कदाप्युच्चरन्ति ये ।। (४६)
वल्मीकं वदनं प्राहुस्तेषां जिह्वाञ्च पन्नगीम् ।
उचितं पापिनां पुंसामुपेक्षा हरिकीर्तने ।। (४७)
खादन्ति मुक्त्वा माकन्दं निम्बपत्रं क्रमेलकाः ।
विमुखा ये हरेः कीर्तौ तेषां हि यमकिङ्कराः ।। (४८)
अनालोक्य मुखं कुर्वन्त्यहो नरकयातनाः ।
अच्युतानन्तगोविन्देत्यावर्तनपरायणाः ।। (४९)
नावर्तन्ते हि संसारसिन्धोरावर्तगह्वरे ।
श्रुतिभिः कर्मभिः ज्ञानैर्योगैर्वा तन्न लभ्यते ।। (५०)
लभ्यते हरिकीर्त्यैव यत्फलं ब्रह्मराक्षस |
अतस्त्वं तव सर्वेषामंहसामपनुत्तये ।। (५१)
नारायणेति जिह्वाग्रे निधिवन्निक्षिपाक्षरम् ।
नारदः –
इत्युक्त्वा सत्यनिष्ठे तु विरते सत्यवादिनि ।। (५२)
वैकुण्ठप्रियनामापि व्याहरद्विबुधोत्तमः ।
वैकुण्ठप्रियः –
ब्रह्मराक्षस मद्वाक्यं शृणु सत्यं समाहितः ।। (५३)
त्वत्पापपरिहाराय गत्वा नारायणाचलमं ।
विबुधानां शिरोधार्यैः विष्णुभक्ताङ्घ्रिरेणुभिः ।। (५४)
परिपूतं जलं मूर्ध्ना धृत्वा पिब च भक्तितः ।
पादतीर्थेन पूतात्मा पर्यटन्नभितो गिरिम् ।। (५५)
प्रदक्षिणनमस्कार-कीर्तनादिपरो भव ।
ततः प्रीतस्स भगवान् पापात्वां मोचयिष्यति ।। (५६)
नारदः –
इत्युक्त्वा ब्रह्मरक्षस्तौ ब्राहाणौ भगवत्परौ ।
काश्मीरदेशमुद्दिश्य जग्मतुर्जातकौतुकौ ।। (५७)
चतुर्वेदिनो नारायणगिरिगमनान्मोक्षः
ब्रह्मरक्षश्च तद्भार्या तत्पुत्राश्च सगृध्रकाः ।
नारायणगिरिं प्राप्य ततश्चक्रुः प्रदक्षिणम् ।। (५८)
तीर्थं च विष्णुभक्तानां पपुः पर्यन्तवर्तिनाम् ।
एवं तु वर्तमानैस्तैर्नीता मासास्तु पञ्चषाः ।। (५९)
ततो नारायणश्श्रीमान्करुणाकलशाम्बुधिः ।
प्रदक्षिणैः प्रणामैश्च पारतन्त्रमुपेयिवान् ।। (६०)
विसस्मार पुरा तेन पातकं कृतमुत्कटम् ।
जयश्च विजयश्चैव जयशब्दाभिधायिनौ ।। (६१)
ततस्सञ्चोदयामास वाचा मधुरशीलया ।
भगवान् –
हरिरातापचारेण चतुर्वेदी पुराभवत् ।। (६२)
पुत्रैश्च भार्यया सार्धं बन्धुभिः ब्रह्मराक्षसः ।
स चाद्य मम भक्तानां पादतीर्थ-निषेवणात् ।। (६३)
पूतः पर्वतपार्श्वेषु सर्वतः परिवर्तते ।
अनिशं तेन मद्भक्तपादोदकनिषेवणम् ।। (६४)
कीर्तनानि च मन्नाम्नां कृतान्यवशयन्ति माम् ।
मम तीर्थेषु सर्वत्र स्नापयित्वा क्रमेण तम् ।। (६५)
तत्सुतानपि सर्वांस्तांत्समानयतमाशु वै ।
मद्भक्तपादतीर्थाम्बुपूतानामग्रतो नृणाम् ।। (६६)
न हि तिष्ठन्ति पापानि सिंहस्याग्रे यथा गजाः ।
ये च तेनागतास्सर्वे तस्य बन्धुजनाश्च ते ।। (६७)
साकमायान्तु मत्तीर्थस्नानाद्यैः पूतमूर्तयः ।
नारदः –
जयश्च विजयश्चापि ततो निर्गत्य कौतुकात् ।। (६८)
ब्राह्मणं तं बभाषाते ब्रह्मराक्षसरूपिणम् ।
जय-विजयौ –
विष्णुभक्तपदाम्भोजतीर्थे विगतकल्मषः ।। (६९)
त्वं हि नारायणं देवं स्तोत्रैर्दिव्यैरतूतुषः ।
स प्रसीदति ते लक्ष्म्या साकं कारुण्यरूपया ।। (७०)
न हि सङ्कीर्तनालाषात्परं विष्णोः प्रसादनम् ।
अष्टतीर्थ्यां तु दिव्यायामादौ स्नातुं त्वमर्हसि ।। (७१)
ततः कल्याणतीर्थे च स्नात्वा शुद्धो भविष्यसि ।
नारदः –
इत्युक्तो द्वारपालाभ्यां चतुर्वेदी मुदान्वितः ।। (७२)
तद्दर्शितेषु तीर्थेषु स्नानं चक्रे यथाक्रमम् ।
वेदपुष्करिणीतीर्थ प्रथमं स्नानमातनोत् ।। (७३)
दर्भतीर्थे ततः पश्चात् पालाशे च ततः परम् ।
यादव्यामथ दिव्यायां पद्मतीर्थे ततः परम् ।। (७४)
तीर्थे पाराशरस्याथ ततो नारायणह्रदे ।
अथ वैकुण्ठगङ्गायाम् इत्येवं दर्शितः क्रमः ।। (७५)
सर्वत्र स्नानकाले तु सत्त्वनिष्ठेन चेतसा ।
त्रिस्त्रिरावर्तयामास नाम नारायणस्य सः ।। (७६)
स्नाने चैवं कृते सद्यो ब्रह्मराक्षसरूपतः ।
मुक्तो ब्राह्मणरूपेण ददृशे सानुगश्च सः ।। (७७)
यद्यद्राह्मणरूपाङ्गं तत्सर्वञ्च तदाभवत् ।
शिखी यज्ञोपवीती च दण्डी धृतकमण्डलुः ।। (७८)
कुण्डली सपवित्रश्च कुशासनसमन्वितः ।
धौतोत्तरीयधारी च भृशं धर्मपरायणः ।। (७९)
मृदुभाषी मृदुगतिः काममार्द्रीकृताशयः ।
जपशीलः प्रशान्तात्मा मन्त्राणामपि भक्तितः ।। (८०)
प्रियवादी समन्तानां सत्त्वशाली च सर्वदा ।
एवं ब्राह्मगुणैर्युक्तस्स च सौम्यस्तदाभवत् ।। (८१)
ये च पुत्रादयस्ते च सर्वे ब्राह्मणतां ययुः ।
इत्थं ब्राह्मणरूपस्य तस्य पुत्रादिभिस्सह ।। (८२)
स्नातुं कल्याणतीर्थेऽपि क्रमादासीदधिक्रिया ।
स्नात्वा तत्रोत्थिते तस्मिंत्सहसा पौर्वदैहिकम् ।। (८३)
विद्याजातमशेषञ्च हस्तामलकतां ययौ ।
कल्याणीतीर्थ-माहात्म्यमन्यत्खलु मुनीश्वराः ।। (८४)
स्नाति यस्तत्र तत्पादतीर्थं वाञ्छन्ति निर्जराः ।
तुलसीमणिमालाभिर्युक्तां पद्माक्षमालिकाम् ।। (८५)
स कण्ठे धारयामास सर्वपापविनाशिनीम् ।
स्थानेषु केशवादीनां धारयामासुतश्च तम् ।। (८६)
जयश्च विजयश्चापि द्वारपालावूर्ध्वपुण्ड्रकम् ।
तप्तचक्राङ्कनं तस्य चकार विजयः पुनः ।। (८७)
न हि विष्णोः प्रियः कश्चिद्विना चक्रादिधारणात् ।
ब्राह्मणैः क्षत्रियैर्वैश्यैश्शूद्रैश्च नियतात्मभिः ।। (८८)
चक्रादिलाञ्छनं धार्यमिति हि श्रूयते श्रुतौ ।
लक्ष्मत्वादात्मनां भर्तुः कर्मणामङ्गभावतः ।। (८९)
प्रकृतिग्रन्थिदाहत्वाद्धितत्वादपि चात्मनाम् ।
स्वस्य च प्रियरूपत्वात् संस्काराद्देहदेहिनोः ।। (९०)
हेतुत्वात्सद्गृहीतेश्च तदन्यैरपवारणात् ।
द्रावणात् किङ्करादीनां धार्य चक्रादिलाञ्छनम् ।। (९१)
कृतभिश्चेतरैश्चापि श्रेयसे मुक्तयेऽपि च ।
रहितः शङ्खचक्राद्यैः भोजनादिषु कर्मसु ।। (९२)
विष्णुभक्तिपराणां तु पङ्क्तौ न स्थातुमर्हति ।
हरिभक्तिसमेतानां तप्तचक्रादिधारिणाम् ।। (९३)
निन्दां यः कुरुते नित्यं स वै पाषण्ड उच्यते ।
ततोऽयं तप्तचक्राद्यैर्भूषितस्सोर्ध्वपुण्ड्रकः ।। (९४)
नारायणपदाम्भोजं सिषेवे ब्राह्मणोत्तमः ।
अथायं विष्णुभक्तानां सेवया पूतमानसः ।। (९५)
विष्णोराराधनं कृत्वा सपुत्रस्सहबान्धवः ।
ऐहिकं वाञ्छितं सर्वं फलं तस्य प्रसादतः ।। (९६)
लब्ध्वा तदनु दिव्यं तन्निरपायं पदं ययौ ।
य इदं शृणुयान्नित्यमाख्यानं सुमनोहरम् ।
मुच्यते पाप्मभिस्सर्वैर्मुक्तिं याति च निर्मलः ।। (९७)
अमृतमतिशयानात् कीर्तनाद्दिव्यनाम्नाम्
अपि च हरिपराणां पादतीर्थप्रभावात् ।
इति गतपरितापः कश्चिदाश्चर्यशाली
कमपि यदुगिरिस्थं कान्तिस्सिन्धुं ददर्श ।। (९८)
किमपि किमपि कृत्वा व्याजमव्याजबन्धुः
सकलभुवनरक्षासावधानैः कटाक्षैः ।
स खलु यदुगिरिस्थः पक्षिणो वा पशून्वा
शमितनिखिलतापस्त्रायते चक्रपाणिः ।। (९९)
इति श्रीनारदीये पुराणे ज्ञानकाण्डे श्रीमद्यादवगिरिमाहात्म्ये चतुर्वेदिमोक्षणकथनं नाम अष्टमोऽध्यायः (Continued)