श्रीमदहोबिलमाहात्म्यम् Part 3

श्रीः

श्रीमते रामानुजाय नमः

॥ श्रीमते श्रीलक्ष्मीनृसिम्हपरब्रह्मणे नमः ॥

॥ श्रीब्रह्माण्डपुराणे श्रीमदहोबिलमाहात्म्यम् ॥ (Continued)

॥ श्रीमदहोबिलमाहात्म्ये षष्ठोऽध्यायः ॥

ऋषयः

कथमेतद्वधम् चक्रे भगवान् पुरुषोत्तमः ।

कथम् वा ब्रह्मणा दत्तमरक्षत्वरमात्मनः ॥ १ ॥

हिरण्यकशिपोश्चैव प्रह्लादस्य महात्मनः ।

कथमासीन्महद्वैरम् तन्मेब्रूहि सविस्तरम् ॥ २ ॥

श्रीनारदः

विप्रचित्तसुतस्यास्य हिरण्यस्य सुरद्विषः ।

चत्वारस्तनया आसन् बलवीर्यगुणालयाः ॥ ३ ॥

अनुह्लादश्च ह्लादश्च सम्ह्लादश्चैव धर्मवित् ।

प्रह्लादश्च महावीर्यो दैत्यवम्शविवर्धनः ॥ ४ ॥

तेषाम् मध्ये महाभागः समदृक् सचराचरे ।

प्रह्लादः परमाम् भक्तिम् य उवाह जनार्दने ॥ ५ ॥

स तु बाल्ये विवेकात्मा गुरोर्वचनगौरवात् ।

पपाठ बालवाक्यानि गुरुगेहे महर्षिभिः ॥ ६ ॥

कदाचिद् गुरुणा सार्धम् जगाम पितृमन्दिरम् ।

पानासक्तस्य पुरतो हिरण्यकशिपोः पदम् ॥ ७ ॥

कराभ्याम् प्रतिजग्राह सुतमुत्थाप्य सोऽसुरः ।

हिरण्यकशिपु प्राह प्रह्लादम् धर्मवित्तमम् ॥ ८ ॥

सुभाषितम् सारतमम् वत्स प्रह्लाद कथ्यताम् ।

शिक्षितम् गुरुणा यत्तु कालेनैतावता त्वया ॥ ९ ॥

प्रह्लाद:

वक्ष्यामि शृणु तातेदम् सारभूतम् तवाज्ञया ।

चित्तम् समाहितम् कृत्वा यन्मे मनसि सम्स्थितम् ॥ १० ॥

आदिमध्यान्तरहितमवृद्धिक्षयमव्ययम् ।

प्रणतोऽस्मि सदानन्दम् सर्वकारणकारणम् ॥ ११ ॥

श्रुत्वैतद्वचनम् घोरम् कोपेन स्फुरिताधरः ।

तद्गुरुम् प्राक्षितम् प्राह किमेतदिति चिन्तयन् ॥ १२ ॥

किमेतत् कृतवान् मूढो विपक्षस्तुतिसम्युतम् ।

बालम् हि मूढमाचेख्युः पुनर्मूढमुपागतम् ॥ १३ ॥

गुरुः

दैत्येन्द्र मयि कोपोऽयमकाण्डे कल्पितः प्रभो ।

मयोक्तम् वचनम् किञ्चिन्न गृह्लाति तवात्मजः ॥ १४ ॥

हिरण्यः

प्रह्लाद कथ्यतामेतत् शिक्षायाः कस्य वा फलम् ।

न मया प्रोक्तमित्याह गुरुस्ते मूढचेतनः ॥ १५ ॥

प्रह्लादः

हृदि स्थितः समस्तानाम् भूतानाम् भगवान् हरिः ।

तमृते परमात्मानम् तात कः केन शास्यते ॥ १६ ॥

हिरण्यः

मयि स्थिते महाभागे त्रैलोक्यैश्वर्यभर्तरि ।

मूढ विष्णुरिति प्रोक्तम् मृषैवेत्यवधारय ॥ १७ ॥

प्रह्लादः

सूक्ष्मज्ञो विभुरज्ञेय आत्मदः शब्ददूरगः ।

यो विश्वम् विश्वतो व्याप्तः स विष्णुः परमेश्वरः ॥ १८ ॥

हिरण्यः

यदयम् बालिश: प्राह वचनम् त्वसमञ्जसम् ।

ध्रुवम् चेतसि यः कश्चिदस्य विष्णुर्दुरात्मनः ॥ १९ ॥

प्रह्लादः

हृदयम् हि ममाविष्टः केवलम् परमेश्वरः ।

भुवादीनखिलान् लोकान् सम्युक्तः सर्वगोचरः ॥ २० ॥

हिरण्यः

निष्क्राम्यतामयम् दुष्ट: शासनीयः पुनः पुनः ।

केनेयम् कल्पिता वार्ता विपक्षस्तुतिसम्युता ॥ २१ ॥

श्रीनारदः

इत्युक्ते बालिशे दैत्याः प्रह्लादम् धर्मसुंयुतम् ।

आनिन्युर्गुरुगेहम् तु नीतिम् जग्राह सोऽप्यथ ॥ २२ ॥

कालेऽतीते तु महति प्रह्लादमसुरेश्वरः ।

समाहूयाब्रवीत् काचित् गाथा पुत्रक गीयताम् ॥ २३ ॥

प्रह्लादः

यस्मात् तु प्रकृतिर्जीवः प्रपञ्चोऽयम् यतो बभौ ।

स मे देवः प्रसन्नः स्यात् कारणस्यापि कारणम् ॥ २४ ॥

हिरण्यः

वध्यताम् वध्यतामेनम् व्यर्थमेतस्य जीवितम् ।

शुष्कवम्श इवाभाति स्वकुलस्य विनाशकः ॥ २५ ॥

इत्थमाकर्ण्य वचनम् दैतेयास्तु सहस्रशः ।

जगृहुः शस्त्रजालानि ज्वालामालाकुलानि वै ॥ २६ ॥

प्रह्लादः

नाक्रमिष्यन्त्यायुधानि सत्यमेतद्वदामि वः ।

दैतेया मयि युष्मासु विष्णुः शस्त्रेषु सम्स्थितः ॥ २७ ॥

तस्य वाक्यमनादृत्य दैत्यास्ते शस्त्रपाणयः ।

प्रह्लादम् परितः स्थित्वा जघृरत्यन्तकोपिताः ॥ २८ ॥

हिरण्यः

प्रह्लाद विनिवर्तस्व जहि शत्रुकथासुत ।

अभयम् ते प्रदास्यामि मौढ्यम् ते कथमागतम् ॥ २९ ॥

प्रह्लादः

भूतानाम् प्रभवै विष्णौ हृदिस्थे कुत्र वा भयम् ।

तस्मिन्स्थिते जन्मजरामृतिके न विपद्यते ॥ ३० ॥

हिरण्यः

भो भो सर्पा गुरोर्भारम् कालकूढविषोल्बणाः ।

समानयत सद्यो वै यमस्यायतनम् प्रति ॥ ३१ ॥

इत्युक्तास्तक्षकमुखाः पन्नगास्तु सहस्रशः ।

ददम्षुः सर्पगात्रेषु मर्मस्वतिविषोल्बणाः ॥ ३२ ॥

प्रह्लादश्चिन्तयन् विष्णुम् गरुडोपरि सम्स्थितम् ।

न वेद सर्व सम्भूताम् वेदनामतिदुस्तराम् ॥ ३३ ॥

सर्पाः

फणिनाम् हृदये तापो विशीर्णा दन्तपङ्क्तयः ।

तव पुत्रस्य गात्रेषु न छिद्रम्विद्यते क्वचित् ॥ ३४ ॥

ततस्तु दिग्गजा मत्ताः प्रेषिताः सुरवैरिणा ।

भूभृच्छिखरमारोप्य पातयन्ति स्म भूतले ॥ ३५ ॥

अपीड्यत स तैर्बालो विषाणैरुग्रकर्मभिः ।

नावाप वेदनाम् किञ्चिद् गोविन्दासक्तमानसः ॥ ३६ ॥

शीर्णा दन्ता गजेन्द्राणामुवाच पितरम् सुतः ।

तात नैतत्त्बलम् मेऽस्ति प्रभावः परमात्मनः ॥ ३७ ॥

यतः शीर्णा गजेन्द्राणाम् दन्ताः कुलिशनिष्ठुराः ।

हिरण्यकशिपुः क्रुद्धो दैतेयानिदमब्रवीत् ॥ ३८ ॥

जाज्वल्यतामयम् वह्निरपसर्पत दिग्गजाः ।

वायो समेधयाग्ने त्वम् दहैनम् पापकृत्तमम् ॥ ३९ ॥

इत्युक्ताश्चितिमारोप्य महाकाष्ठसमुच्छ्रिताम् ।

प्रज्वाल्य दानवा वह्निम् ददहुः सोऽब्रवीद् वचः ॥ ४० ॥

वायुना वर्धितो ह्येष वह्निरत्यन्तमुल्बणः ।

न माम् दहति पश्यामि पद्मास्तरणमीदृशम् ॥ ४१ ॥

इदम् वचनमाकर्ण्य दैत्यराजम् पुरोहितः ।

वचनैश्चन्दयामास दैत्येन्द्रमतिकोपनम् ॥ ४२ ॥

बालोऽयम् किम् न जानाति बाल्यम् दोषकरम् महत् ।

कृत्याकृत्यविमुक्तात्मा बाल्य एव हि वर्तते ॥ ४३ ॥

तस्मादस्मद्वासनया बुद्धियुक्तो भविष्यति ।

नो चेत् कृत्याम् प्रमोक्ष्यामो यया मृत्यम् गमिष्यति ॥ ४४ ॥

इत्युक्त्वा बालको नीतः पुरोहितगृहान् प्रति ।

तत्र स्थित्वा नीतिशास्त्रम् पपाठ बहुविस्तरम् ॥ ४५ ॥

मध्येऽवकाशमालम्ब्य विप्राम्स्तानिदमब्रवीत् ॥ ४६ ॥

विवेको नास्ति युष्माकम् यथादैत्यपतेर्द्विजाः ।

सम्सारे वीतसारेऽस्मिन् कुतः सौख्यम् तु विद्यते ॥ ४७ ॥

सुप्तावस्तास्वयम् जन्तुर्दुःखदुखेन जीवति ।

षड्भावानाम् विकाराणाम् कथम् सम्हरणक्रमः ॥ ४८ ॥

दुःखमेवम् हरिध्यानम् तदेवात्यन्तिकम् भिषक् ।

कथम् तेषाम् न सन्देहो युष्माकमपि लभ्यते ॥ ४९ ॥

इत्येवम् बहुधा प्रोक्तमाकर्ण्य च पुरोहिताः ।

हिरण्यकशिपोर्भीतास्तस्मै सर्वम् न्यवेदयन् ॥ ५० ॥

स तु कोपेन सम्रक्तनयनस्त्वसुरेश्वरः ।

सूदानाहूय बलिनो वचनम् चेदमबवीत् ॥ ५१ ॥

अन्नेन दीयतामस्मै विषम् हालाहलाह्वयम् ।

तद्भुक्त्वा बालिश: क्षिप्रम् यमलोकम् गमिष्यति ॥ ५२ ॥

इत्युक्तैस्तैस्तु तद्दत्तम् प्रह्लादोऽनन्तचिन्तकः ।

जरयामास धर्मात्मा यदा ह्यन्नम् सुसम्स्कृतम् ॥ ५३ ॥

सूदाश्च भयमापन्ना दैत्यराजमथाब्रुवन् ॥ ५४ ॥

राजन् विषम् दत्तमतीव भीषणम्

अस्मोभिरत्यन्त समाहितात्मभिः ।

अन्नेन भक्ष्यैः सह पेयवर्गैः

जीर्णम् विचित्रम् भुवनेष्वदृष्टम् ॥ ५५ ॥

एतच्छ्रुत्वा दैत्यराजः प्राह चैतान् पुरोहितान् ।

त्वरयन्तु विनाशाय दुष्टस्यास्य समीहिताम् ॥

उत्पादयन्तु कृत्याम् वै सद्यो नाशकरीम् पराम् ॥ ५६ ॥

ततः सकाशमागत्य प्रह्लादस्य पुरोहिताः ।

सामपूर्वमथोचुस्ते प्रह्लादम् विनयान्वितम् ॥ ५७ ॥

प्रह्लाद जातो विख्याते कुले महति वेधसः ।

हिरण्यकशिपोः पुत्रो ज्ञातोऽसि पृथिवीतले ॥ ५८ ॥

किम् देवैरल्पवीर्यैस्तु किमनन्तेन शम्भुना ।

समस्तलोकशास्तायम् त्वत्पिता तु हिरण्यकः ॥ ५९ ॥

तस्मात् परित्यज कथाम् विपक्षस्तुतिसम्युताम् ॥ ६० ॥

प्रह्लादः

तथ्यमेतद्गुरुवराः श्लाघ्यमेतद्गुरोः कुलम् ।

पिता च सर्वलोकानाथा श्लाघ्यश्च परिपालकः ॥ ६१ ॥

इदमन्यत् प्रवक्ष्यामि सत्यमेवावधार्यताम् ।

यदुक्तम् किमनन्तेनेत्युक्तम् युष्माभिरञ्जसा ॥

विविधानर्थजननाद्वाक्यमेतदनर्थकम् ॥ ६२ ॥

इत्युक्त्वा सोऽपि मुनिवत् तूष्णीम् तेषाम् व्यवस्थितः ।

पुनः प्रहस्य प्राहेदम् किमनन्तेन सात्त्विकी || ६३ ॥

यस्माद् भवति लोकेऽस्मिन् पुरुषार्थचतुष्टयम् ।

को वा ब्रूते विवेकात्मा किमनेनेत्यचोदितः ॥ ६४ ॥

मरीचिमिश्रा मुनयो जनकाद्याश्च भूमिपाः ।

स्वेप्सितार्थमनुप्राप्ता यस्मात् स केथमल्पकः ॥ ६५ ॥

कथञ्चिद् गुरवो यूयम् श्रोतव्यम् वचनम् मम ॥ ६६ ॥

इत्युक्ते त्वतिसङ्क्रुद्धा दैत्यराजपुरोहिताः ।

कृत्यामुत्पादयामासुर्ज्वालामालाकरालिकाम् ॥ ६७ ॥

सातिभीमातिसङ्क्रुद्धा सम्हरन्ती जगत्रयम् ।

शूलेन निशिताग्रेण प्रह्लादम् सञ्जघान वै ॥ ६८ ॥

यतापात्रे कृतम् दानम् यथा षण्डे तु कन्यका ।

तथा प्रह्लादमासाद्य शूलम् तच्च वृथाभवत् ॥ ६९ ॥

शूले भग्ने तु सव्रीडा शिथिलीकृतवैभवा ।

पुरोहितान् दैत्यपतेः पुनर्दग्धम् प्रचक्रमे ॥ ७० ॥

एतद् वीक्ष्य महद्घोरम् प्रह्लादो धर्मवित्तमः ।

कृपया परया भक्त्या ह्यनन्तम् शरणम् गतः ॥ ७१ ॥

देवदेव जगन्नाथ अनन्त पुरुषोत्तम ।

कृत्यया दह्यमानम् माम् त्राहि त्राहि जगत्पते ॥ ७२ ॥

यथा मयि तथा तेषु तथा सर्वेषु जन्तुषु ।

अवतीर्णोऽसि भगवन् अतः पाह्यच्युताग्रजान् ॥ ७३ ॥

यथा सर्पा गजेन्द्राश्च माम् च बाधितुमक्षमाः ।

तथा द्विजोत्तमान् कृत्या न बाधेत् पुरुषोत्तम ॥ ७४ ।

इत्युक्ते तेन कृत्या तत्प्रभावान्नाशमागता ।

द्विजा भूयः प्रसन्नाश्च आशीर्भिस्तमतोऽषयन् ॥ ७५ ॥

ततः प्राञ्जल्यः सर्वे हिरण्याय न्यवेदयन् ।

सोऽपि विस्मयमापन्नः पुत्रम् पप्रच्छ सादरम् ॥ ७६ ॥

प्रह्लाद सुप्रभावोऽसि किमेतत् ते विचेष्टितम् ।

किमेतत् साहसम् तात किम् वा मन्त्रादिसम्भवः ॥ ७७ ॥

इत्युक्ते प्रणिपत्यासौ पितुः पादावथाब्रवीत् ।

मम नैसर्गिकोऽयम् वै नैव मन्त्रादिसम्भवः ॥ ७८ ॥

सामान्योऽयम् प्रभावस्तु हृदिस्थो यस्य केशवः ॥ ७९ ॥

यस्तु सर्वेषु भूतेषु पापानि न विचिन्तयन् ।

तस्य पापागमस्तात् हेत्वभावान्न विद्यते ॥ ८० ॥

नाहम् परेषाम् दोषाम्स्तु चिन्तयामि कदाचन ।

चिन्तयामि हरिम् साक्षात् सर्वत्रास्मिन् व्यवस्थितम् ॥८१॥

सर्वत्रात्मेश्वरम् ज्ञात्वा सर्वभूतेष्ववस्थितम् ।

कर्तव्यापण्डितैर्नूनम् भक्तिरव्यभिचारिणी ॥ ८२ ॥

एतच्छुत्वा तु दैत्येन्द्रः प्रासादाग्रमुपस्थितः ।

कोपसम्रक्तनयनो दैत्यानाह सनिष्ठुरम् ॥ ८३ ॥

प्रासादात् क्षिप्यतामेष शतयोजनमायतात् ।

ततस्ते चिक्षिषु सर्वे प्रह्लादम् दैत्यकिङ्कराः ॥ ८४ ॥

हृद्यनन्तम् समास्थाय पपात पृथिवीम् प्रति ॥ ८५ ॥

धरणी लोकमाता तु पतमानम् तु भूतले ।

दधार सहसा देवी दधानम् हृदये हरिम् ॥ ८६ ॥

हिरण्यकशिपुर्दृष्ट्वा सुतमव्याकुलाङ्गकम् ।

शम्बरम् प्राह दुष्टात्मा मायाशत विधायकम् ॥ ८७ ॥

हेशम्बर महाशक्ते दुर्जयोऽयम् सुतो मम ।

मायासहस्रम् निर्माय शीघ्रमेनम् निघातय ॥ ८८ ॥

शम्बरः

दैत्येन्द्र सूदयाम्येनम् पश्य मायाबलम् मम ।

सहस्रमन्त्रमायानाम् पश्य कोटिशतम् तथा ॥ ८९ ॥

इत्युक्त्वा सोऽसृजन्मायाः शतशोऽथ सहस्रशः ।

प्रह्लादे भगवद्भक्ते सर्वत्र समदर्शिनि ॥ १० ॥

प्रह्लादोऽपि विशुद्धात्मा शम्बरे वीतमत्सरः ।

हृदये स्वे समाधाय चिन्तयामास वै हरिम् ॥ ९१ ॥

नृहरिश्चिन्त्यमानस्तु चक्रम् चैव सुदर्शनम् ।

सहस्रादित्यासङ्काशम् सहस्रवदनम् परम् ॥ ९२ ॥

वहन्तम् हारकेयूरकटकाङ्गदभूषणम् ।

सर्वलोकक्षयकरम् सर्वाभरणभूषितम् ॥ ९३ ॥

क्वणत्किङ्किणिजालेन राक्षसघ्नम् महारवम् ।

व्याप्तकेशम् विरूपाक्षम् प्रणतार्तिहरम् परम् ॥ १४ ॥

रक्तमल्याम्बरधरम् रक्तचन्दनचर्चितम् ।

रक्तवर्णम् रक्तनेत्रम् सहस्रारम् सदा शुचिम् ॥

सुदर्शनाभिधानम् तु प्रेषयामास वै हरिः ॥ ९५ ॥

तच्च शीघ्रम् समागत्य शम्बरेण विनिर्मिताः ।

मायाश्चिच्छेद तरसा तूलराशिमिवानलः ॥ ९६ ॥

सहसा निधनम् नीते मायाभिः सह शम्बरे ।

शोषकम् नाम वै वायुम् प्रेषयामास दैत्यराट् ॥ ९७ ॥

सोऽपि सूक्ष्मातिवेगेन प्रविष्टो ह्यतिदुस्सहः ॥ ९८ ॥

प्रह्लादस्तमतिक्रूरम् ज्ञात्वा शोषकमारुतम् ।

तस्यापि शोषकम् देवम् चिन्तयामास वै हरिम् ॥ ९९ ॥

स हरिःक्षणमात्रेण शोषयामास मारुतम् ॥ १०० ॥

एवम् कृतेषु सर्वेषु मारणोपायराशिषु ।

व्यर्थीकृतेषु सर्वत्र प्रह्लादे भगवत्प्रिये ॥ १०१ ॥

क्षयम् गते शम्बरस्य मायाशतसहस्रके ।

शोषिते शोषके वायौ तप्तायसि जलम् यथा ॥ १०२ ॥

प्रह्लादस्तु विशुद्धात्मा प्रविश्य गुरुमन्दिरम् ।

पपाठ नीतिशास्त्राणि गुरोरुच्चारितम् यथा ॥ १०३ ॥

कालेऽतीते हिरण्यस्य पितुर्गृहमुपागतः ।

पित्रा तु चोदितः प्राह गोविन्दासक्तमानसः ॥ १०४ ॥

शास्त्राणि शास्त्रज्ञानानि शास्त्रसाध्यम् च यत् फलम् ।

सर्वम् विफलताम् याति गोविन्दे विमुखीकृते ॥ १०५ ॥

गोविन्दासक्ताचित्तानाम् यान्येव वचनानि वै ।

तान्येव धर्मशास्त्राणि नीतिशास्त्राणि वा पुनः ॥ १०६ ॥

इत्युक्ते क्षुभितोऽत्यर्थनी हिरण्यकशिपुस्तदा ।

स्वकिङ्करानुवाचेदम् बलवीर्यसमन्वितान् ॥ १०७ ॥

दुरात्मा क्षिप्यतामेष प्रह्लादः कुलकण्ठकः ।

नागपाशैर्दृढम् बद्ध्वा सागरे तु भयङ्करे ॥ १०८ ॥

इत्युक्तास्तेन ते सर्वे विक्षिपुर्लवणार्णवे ।

यथा पारम् न गच्छेत् तु कथञ्चिदपि बालकः ॥ १०९ ॥

तस्योपरि तरुञ्छैलान् पूरयामासुरञ्जसा ॥ ११० ॥

स तु ध्यायन् विशुद्धात्मा प्रणतार्तिहरम् हरिम् ।

क्षणेन तीरमानीतो न वेद स तु वेदनाम् ॥ १११ ॥

यस्त्वासक्तमतिः कृष्णे तस्य साम्सारिकाः क्रियाः ।

क्षणेन विलयम् यान्ति स्वप्नलब्ध धनम् यथा ॥ ११२ ॥

असङ्गतम् ह्याश्रयणम् ह्याश्रयो महदाश्रयः ।

कर्तव्यः स महाविष्णुर्येनैवम् रक्षतोऽर्भकः ॥ ११३ ॥

प्रायेण मनुजा लोके सेवन्ते पुरुषाधमान् ।

न चिन्तयन्ति गोविन्दम् चिन्तामात्रैण सर्वदम् ॥ ११४ ॥

इति बहुविधदुःखैर्भीषणैरुग्ररूपैः

दितिसुतपरिवृत्तैः पीडितो दैत्यसुनुः ।

न चलति करुणार्तश्चैव सर्वेशभक्तेः

अचल इव महौघैः पीडितस्तोयपूरैः ॥ ११५ ॥

॥ इति श्रीब्रह्माण्डपुराणे क्षेत्रकाण्डे श्रीमदहोबिलमाहात्म्ये

षष्ठोऽध्यायः ॥

श्रीः

श्रीमते रामानुजाय नमःऋ

॥ श्रीमते श्रीलक्ष्मीनृसिम्हपरब्रह्मणे नमः ॥ ॥ श्रीमदहोबिलमाहात्म्ये सप्तमोऽध्यायः ॥

श्रीनारदः

प्रह्लादस्तु विशुद्धात्मा तीराद् वै सागरस्य तु ।

हिरण्यकशिपोर्गेहमाससाद मुदान्वितः ॥ १ ॥

पितुर्जाग्राह पादौ च बहुमानपुरस्सरम् ।

सोऽपि सूनुम् समुत्थाप्य परिष्वज्य च सादरम् ॥ २ ॥

मूर्ध्न्याघ्राय सुतम् प्राह हृदि कोपम् निवेशयन् ।

कुतस्ते भगवानास्ते यम् ब्रवीषि पुनः पुनः ॥ ३ ॥

प्रह्लादः

त्वय्यस्ति मयिचाप्यस्ति समस्तेषु च जन्तुषु ॥ ४ ॥

ब्रह्माद्याः सकला देवा मनुष्याः पशवस्तथा ।

जङ्गमाजाङ्गमम् सर्वम् जगन्नारायणात्मकम् ॥ ५ ॥

उर्व्यामस्त्युदकेषु चाप्युडुपतावप्यस्ति चोष्णद्युतौ

वह्नौ दिक्षु विदिक्षु वायुनभसोऽस्तिर्यक्ष्वतिर्यक्षु च ।

अस्त्यन्तर्बहिरस्ति सत्यवचने सारेष्वारेषु च

सर्वत्रास्ति सदास्ति किम् बहुगिरात्वय्यस्तिमय्यस्ति च ॥ ६ ॥

इत्युक्ते सहसा प्राह प्रह्लादमसुरेश्वरः ।

यद्यस्ति भगवानत्र स्तम्भे मे बाल दर्शय ॥

इत्युक्त्वा ताडयामास स्तम्भम् वै पुरतः स्थितम् ॥ ७ ॥

ततो घुमुघुमाशब्दो ब्रह्माण्डम् प्रविदारयन् ।

उच्चैर्बभूव लोकानाम् बहिरन्तर्भयङ्करः ॥ ८ ॥

तन्मध्ये भगवान् विष्णुर्नरसिम्हस्वरूपधृक् ।

सटाच्छटाचोटनेन कुट्यद्गुणद्गुणध्वनिः ॥ ९ ॥

दम्ष्ट्राकरालवदनो दर्शनत्रस्तदैत्यराट् ।

दम्भोलिनिशिताकारनखरोज्वलविग्रहैः ॥

करैरापुरयन् दिक्षु कलयन् दैत्यकिङ्करान् ॥ १० ॥

सहस्रशतदम्भोलिसम्भ्रमातिशयाशयम् ।

अट्टहासमतीवोग्रम् कुर्वन् निष्क्रामसङ्क्रमम् ॥ ११ ॥

हिरण्यकशिपुम् दैत्यम् विदारयितुमागतः ।

ततस्त्रस्ता: सुरगणाः सर्वे ऋषिगणैः सह ॥ १२ ॥

अद्यैव प्रलयः कालः सर्वथा नास्ति सम्शयः ।

क्क गमिष्याम सर्वे वै सर्वेषाम् शरणम् कुतः ॥ १३ ॥

इत्युद्भ्रान्ताशयाः सर्वे कान्दिशीकाः सुरोत्तमाः ।

दिशश्च विदिशश्चैव याता विभ्रान्तलोचनाः ॥ १४ ॥

ततो हिरण्यकशिपुम् जग्राह निशितैः करैः ।

सोऽपि जग्राह दैत्येन्द्रो नृसिम्हमतिभीषणम् ॥ १५ ॥

ततो युद्धमभूत् तत्र नृसिम्हदितिपुत्रयोः ॥ १६ ॥

शङ्खचक्रगदाखड्गमुसुलाङ्कशडिण्डिमाः ।

शङ्खचक्रविहीनास्तु दैत्यराजस्य हेतयः ॥  १७ ॥ खड्गस्य खड्गम् स मुमोच वीर्यवान्

पाशस्य पाशम् सह भिण्डिपालम् ।

यान्यायुधान्यच्युतनिर्मितानि

दैत्येन्द्रमुक्तानि ततोऽधिकानि ॥ १८ ॥

यतो यतो धावति दैत्यराजः ततस्ततो धावति नारसिम्हः ।

यतो हि रक्षोऽधिपतेरवस्था ततो न विश्रान्तिरधोक्षजस्य ॥ १९ ॥

हिरण्यकशिपोस्तस्य शोणितम् कणमात्रकम् ।

यत्र यत्रापतत् तत्र शतशोऽथ सहस्रशः ।

असुरास्तु समुत्पन्ना हिरण्याधिकतेजसः ॥ २० ॥

एकैकस्य तु दैत्यस्यविनाशाय जगत्पतिः ।

शतरूपाणि विदधे ह्यमितात्मा जगन्मयः ॥ २१ ॥

तत्र दैत्यासृगवनौ यत्र यत्र पतिष्यति ।

तत्र तत्रासुशतम् नृसिम्हायुधकम् बभौ ॥ २२ ॥

बाह्वोस्तु बाहुयुद्धाभ्याम् कराभ्याम् तु करस्य तु ।

पादयोश्चैव पदयोश्चोरसा चोरसस्तथा ॥

युयुधाते महावीर्यौ नृसिम्हदितिनन्दनौ ॥ २३ ॥

न बलम् कस्यचिद् ज्ञातम् न जयो वा कथञ्जन ।

पराजयो वा दौर्बल्यम् निश्चितम् न कथञ्चन ॥ २४ ॥

एवम् हि युद्धे सम्प्राप्ते नृसिम्हस्यारिणा सह ।

पृथिव्यामन्तरिक्षे च नृसिम्हासुरताभवत् ॥ २५ ॥

इदमित्थमिदम् रूपमीदृशाकारसम्युतम् ।

इति वक्तुम् तत्र शक्यम् न सुरासुरकिन्नरैः ॥ २६ ॥

देवा महर्षर्यः सिद्धाः साध्याश्च पितरस्तथा ।

अस्तुवन् मनसा देवम् जयशब्दपुरस्सरम् ॥ २७ ॥

जय देव जगन्नाथ जय लोकैकपालक ।

जहि शत्रुममेयात्मन् किमर्थम् त्वम् विलम्बसे ॥ २८ ॥

त्वया सृष्टमिदम् विश्वम् सङ्कल्पात् पुरुषोत्तम ।

त्वय्येव लीनम् भगवन् पिता त्वम् च जगत्पते ॥ २९ ॥

समाः सहस्रम् देवेश व्यतीता देवमानतः ।

विलम्बसे किमर्थम् त्वम् देवकार्यम् कुरुप्रभो ॥ ३० ॥

इत्येवम् बहुधा वाक्यम् मान्यम् दैन्यपुरस्सरम् ।

श्रुत्वा नृकेसरी देव: कोपसम्रक्तलोचनः ॥ ३१ ॥

अट्टहासम् प्रकुर्वन् वै ब्रह्माण्डम् दारयन्निव ।

अङ्के हिरण्यमारोप्य वीक्ष्य तन्मुखमण्डलम् ॥ ३२ ॥

नखैर्विदारयामास साटोपरवसम्युतम् ।

हाहाकारम् ततश्चक्रे भाङ्कारम् च पुनः पुनः ॥ ३३ ॥

रोषताम्रैः सनयनैर्विकिरन् वह्निजालकम् ।

हुङ्कारेण जगत्सर्वम् तर्जयन्निव केसरी ॥ ३४ ॥

अन्धीचकार भुवनम् हाहाकारपुरस्सरम् ।

मुहूर्तमात्रम् सकलम् जगदेकार्णवीकृतम् ॥ ३५ ॥

ततो देवाः सगन्धर्वास्तुष्टुवुः पुरुषोत्तमम् ।

नमस्ते पुण्डरीकाक्ष नमस्ते विश्वभावन ॥ ३६ ॥

नमस्तेऽस्तु हृषीकेश महापुरुष पूर्वज ।

नमस्ते सर्वलोकात्मन् नमस्ते तिग्मचक्रिणे ॥ ३७ ॥

नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च ।

जगद्धिताय कृष्णाय गोविन्दाय नमो नमः ॥ ३८ ॥

नमस्ते सृजते विश्वम् पालयित्रे स्थितौ नमः ।

रुद्ररूपाय कल्पान्ते नमस्तुभ्यम् त्रिमूर्तये ॥ ३९ ॥

देवाः यक्षाः सुराः सिद्धाः नागगन्धर्वकिन्नराः ।

पिशाचा राक्षसाश्चैव मनुष्याः पशवस्तथा ॥ ४० ॥

पक्षिणः स्थावराश्चैव पिपिलिकसरीसृपाः ।

भूरापोऽग्निर्नभोवायुः शब्दः स्पर्शस्तथा रसः ॥ ४१ ॥

रूपम् गन्धो मनो बुद्धिरात्मा कालस्तथा गुणाः ।

एतेषामन्तरात्मा त्वम् त्वमेव परमेश्वर ॥ ४२ ॥

विद्याविद्ये भवान् सत्यमसत्यममुतामृते ।

प्रवृत्तिम् च निवृत्तिम् च कर्म वेदोदितम् भवान् ॥ ४३ ॥

समस्तकर्मभोक्ता च कर्मोपकरणानि च ।

त्वमेव विष्णो सर्वाणि सर्वकर्मफलम् च यत् ॥ ४४ ॥

योगिनस्त्वाम् चिन्तयन्ति याजकाश्च यजन्ति हि ।

हव्यकव्यभुगेकस्त्वम् पितृदेवस्वरूपधृक् ॥ ४५ ॥

रूपम् महच्च भवनम् ततः सूक्ष्मम् च किञ्चन ।

भूतरूपाणि सूक्ष्माणि ह्यन्तरात्मा च सूक्ष्मधृक् ॥ ४६ ॥

अगोचरम् यत्परमम् प्रमाणम् च प्रमातृ च ।

अचिन्त्यरूपम् यस्तस्मै नमस्ते पुरुषोत्तम ॥ ४७ ॥

सर्वभूतेषु या शक्तिः सर्वात्मन् नरकान्तक ।

गुणाश्रय नमस्तस्मै शाश्वताय सुरेश्वर ॥

ओम् नमो वासुदेवाय तस्मै भगवते नमः ॥ ४८ ॥

व्यतिरिक्तो न वाप्यस्ति व्यतिरिक्तोऽखिलस्य यः ।

नमस्तस्मै नमस्तस्मै नमस्तस्मै महात्मने ॥ ४९ ॥

यस्य सूक्ष्मम् परम् रूपमपशयन्तो महर्षयः ।

अवतारेषु यद्रूपम् तदर्चन्ति महौजसः ॥ ५० ॥

ओम् नमः परमार्थाय स्तूलसूक्ष्माक्षराक्षर ।

व्यक्ताव्यक्तकलातीत सकलेश निरञ्जन ॥ ५१ ॥

मूर्तामूर्तमहामूर्त सूक्ष्ममूर्तेस्फुटास्फुट ।

कलारूपेश सौम्यात्मन् विद्याविद्यामयाच्युत ॥ ५२ ॥

नित्यानित्य प्रपञ्चात्मन् निष्प्रपञ्चामराच्युत ।

नारसिम्ह महादेव ब्रह्मन्नव्याप्तविग्रह || ५३ ॥

त्वया कृतमिदम् कर्म चिन्तनीयम् न मादृशैः ।

लोकाः समस्ता भगवन् रक्षिताः क्षणमात्रतः ॥ ५४ ॥

यदि त्वम् न करोषीश रूपमेतादृशम् हरे ।

अन्धीभवति लोकोऽयम् दर्शे रात्रिर्यथा तथा ॥ ५५ ॥

महत् कर्म कृतम् देव हिरण्यकशिपुर्हतः ।

स्थापितानि सुरेन्द्राणाम् स्थानानि जगतीपते ॥ ५६ ॥

कोपम् सम्हर सर्वात्मन् कस्ते कोपस्य गोचरः ।

एतादृशान् सुररिपून् सहसा परिशिक्षय ॥ ५७ ॥

अनुग्रहाय भक्तानाम् रूपमेतदवाप्तवान् ॥ ५८ ॥

अहो वीर्यमहो शौर्यमहो बाहुपराक्रमः ।

नारसिम्हः परम् दैवमहोबिलमहोबलम् ॥ ५९ ॥

श्रीनारदः

इत्थम् प्राञ्जलयः स्थित्वा शतशोऽथ सहस्रशः ।

स्तोत्रैर्वेदमयैः सारैस्तुष्टुवुः पुरुषोत्तमम् ॥ ६० ॥

ततः प्रसन्नो भगवानव्यक्तो व्यञ्जयन् महः ।

ब्रह्मरुद्रादिकान् देवानिदम् वचनमब्रवीत् ॥ ६१ ॥

श्रीभगवान्

ब्रह्माद्याः सकला देवाः ऋषयश्च महौजसः ।

हिरण्येनातिपापेन पीडिता मूढ चेतसा ॥ ६२ ॥

हतः शत्रुर्न सन्देहो निर्वृत्तम् नः प्रयोजनम् ।

स्वम् स्वम् पदमनुप्राप्य मोदध्वम् विगतज्वराः ॥ ६३ ॥

इति सन्दिश्य सर्वास्तान् प्रेषयामास माधवः ।

प्रह्लादमग्रनिलयम् प्राह वै नरकेसरी ॥ ६४ ॥

कुर्वतस्ते प्रसन्नोऽहम् भक्तिमव्यभिचारिणीम् ।

यथाभिलषितम् मत्तः प्रह्लाद व्रियताम् वरः ॥ ६५ ॥

प्रह्लादः

नानायोनिसहस्रेषु येषु येषु व्रजाम्यहम् ।

तेषु तेष्वचलाभक्तिरच्युतास्तु सदा त्वयि ॥ ६६ ॥

श्रीभगवान्

तवास्ति भक्तिः प्रह्लाद यथा वै शङ्करस्य तु ।

तुष्टोऽस्म्यहम् न सन्देहो हतस्ते कण्टकः पिता ॥ ६७ ॥

कुरु राज्यम् पितुर्व्यम् त्वम् न हि ते कण्टको भुवि ।

यावश्चन्द्रश्च सूर्यश्च यावत् तिष्टतिमेदिनी ॥ ६८ ॥

तावत् ते कथयिष्यन्ति कीर्तिः देवाः सवासवाः ।

भुङ्क्ष्व राज्यम् समृद्धम् त्वम् सवाहनपरिष्कृतम् ॥ ६९ ॥

सपुत्रपौत्रपत्नीकम् सबान्धवसमित्रकम् ।

कुरु धर्मानलग्नस्त्वम् कर्तृत्वत्यागपूर्वकम् ॥ ७० ॥

अर्थानार्जय धर्मेण कुरु देवर्षिपूजनम् ।

कामानाप्नुहि धर्मेण शास्त्रीयान् दैत्यनन्दन ॥ ७१ ॥

त्रिवर्गसङ्ग्रहम् कुर्वन् मद्भक्त्या तु न सीदति ।

अन्ते विरक्तिमासाद्य विषये दोषदर्शनात् ॥ ७२ ॥

याहि वै मामकम् स्थानम् यतो नावर्तते पुनः ।

तव चान्यानि भूतानि ममाज्ञापरिपालनात् ॥ ७३ ॥

ये द्विषन्ति महात्मानम् माम् सर्वत्र व्यवस्थितम् ।

तेऽपि त्वत्पितृवत् प्राज्ञ यास्यन्ति यमसादनम् ॥ ७४ ॥

जन्मान्तरसहस्रेषु तपोध्यानसमाधिभिः ।

नराणाम् क्षीणापापानाम् मयि भक्तिः प्रजायते ॥ ७५ ॥

तावन्मत्कृपया तात जात बुद्धिस्तु सात्त्विकी ।

यथा भक्तिस्समुत्पन्ना सर्वभूताभयप्रदा ॥ ७६ ॥

ये तु माम् सम्स्मरन्त्यद्धा मद्भक्तेरेकभाजनम् ।

ते च भक्तियुताः सर्वे मुच्यन्ते सर्वपातकैः ॥ ७७ ॥

इदम् क्षेत्रम् महापुण्यम् ममाविर्भावकारणात् ।

अद्य प्रभृति लोकोऽयमहोबलमितीरयेत् ॥ ७८ ॥

ममातुलम् बलम् ज्ञात्वा दैवतैरेवमीरितम् ।

अहो वीर्यमहो शौर्यमहो बाहुपराक्रमः ॥

नारसिम्हः परम् दैवमहोबिलमहोबलम् ॥ ७९ ॥

तस्मादहोबलम् क्षेत्रमिदम् तावद् भविष्यति ।

निवसाम्यहमत्रैव गजकुण्डसमीपतः ॥ ८० ॥

तीरे तु भवनाशिन्यास्त्वम् च तिष्ठाग्रतो मम ।

अत्रैव त्वम् वसन् सर्वम् भुङ्क्ष्व राज्यम् समृद्धिमत्  ॥ ८१ ॥

ऋषयः पितरो देवा मामत्रैव स्तुवन्ति हि ॥ ८२ ॥

इति किल परमात्मा धारयन् नारसिम्ह

वपुरखिलजनानाम् कण्टकम् दैत्यराजम् ।

निशितनखरजालैर्दारयम्स्तस्य सूनुम्

महति विपुलराज्ये ह्यभ्यशिञ्चन्मुरारिः ॥ ८३ ॥

गरुडाभिधभूधरस्य भागे

निवसन वै भवनाशिनी तटे ।

विनुतस्सकलैर्महीसुरेन्द्रै –

र्विजयी तिष्ठति नारसिम्हरूपी ॥ ८४ ॥

॥ इति श्रीब्रह्माण्डपुराणे क्षेत्रकाण्डे श्रीमदहोबिलमाहात्म्ये

सप्तमोऽध्यायः ॥

 

॥ श्रीः ॥

॥ श्रीमते लक्ष्मीनृसिम्हपरब्रह्मणे नमः ॥

॥ श्री मदहोबिलमाहात्म्ये अष्टमोऽध्यायः ॥

ऋषयः –

श्रुतम् प्रह्लादचरितम् पावनम् परमाद्भुतम् ।

लोकत्रयैकनिलयम् श्रुतम् पूर्वम् न केनचित् ॥ १ ॥

श्रुता भागवताः पुण्याः कथा कलिमलापहाः ।

एतादृशी कथा ब्रह्मन् न श्रुता कल्पकोटिषु ॥ २ ॥

अहोबिलस्य माहात्म्यम् हरौ निष्ठा तु कीदृशी ।

कथमेतादृशी बुद्धिः सञ्जाताऽसुरजन्मनि ॥

अद्यैव पावना नूनम् कथा साररसाप्लुता ॥ ३ ॥

न हायनैर्न पलितैर्न वित्तैर्न च बन्धुभिः ।

इष्टो भवति धर्मात्मा यथा भक्त्या जनार्दनः ॥ ४ ॥

भक्तोक्ति समकालम् तु ह्युदतिष्ठत् त्वरान्वितः ।

कथमेतादृशम् दैवम् भुवनेषु भविष्यति ॥ ५ ॥

अहो मूढा नरा लोके न जानन्ति हरेः पदम् ॥ ६ ॥

यस्तु भक्त्यैकनिलयम् प्रह्लादमभिषिञ्चयन् ।

कथम् न सेव्यते देवश्चिन्तयद्भिस्तु मानवैः ॥ ७ ॥

अहो घोरे पतन्त्येव निरये व्यर्थजीविनः ।

कृतार्थाः स्म वयम् लोके वयमेव महामुने ॥ ८ ॥

शरभम् नाम लोकानाम् भयङ्कररवान्वितम् ।

तत्रैवोग्रम् निहतवान् नखराग्रैर्नृकेसरी ॥ ९ ॥

इति श्रुतम् वामदेवात् तन्नो विस्तरतो वद ॥ १० ॥

नृसिम्हस्य कथायाम् तु शृण्वतो बुवतोऽपि वा ।

न तृप्तिर्जायते पुम्साम् कल्पकोटिशतैरपि ॥ ११ ॥

अमृताब्धौ निमग्नस्तु कथमन्यद्विचिन्तयेत् ॥ १२ ॥

श्रीनारदः

शृणुध्वम् मुनयः सर्वे शरभस्योपसम्हृतिम् ।

यथा तु कृतवान् देवो नरसिम्हस्वरूप धृक् ॥ १३ ॥

हत्वा तु तम् दुरात्मनम् हिरण्यमसुरेश्वरम् ।

प्रशान्तरवकोपस्तु पुनः प्रक्रमतेतराम् ॥ १४ ॥

नारसिम्होऽखिलान् लोकान् पुनर्दग्धम् प्रचक्रमे ।

तस्योग्रमभवत् तत्र नृसिम्हस्य जगत्पते ॥

दृष्ट्वा भयात्मकम् रूपम् तत्रासुर्देवदानवाः ॥ १५ ॥

ततः प्रणम्य तम् देवम् देवाः सर्षिगणास्तथा ।

तुष्टुवुः पुण्डरीकाक्षमसुरेन्द्रनिबर्हणम् ॥ १६ ॥

देवाः

जयदेव जगन्नाथ जय चक्रिन् गदाधर ।

जयादि देव देवेश जय दैत्यनिबर्हण ॥ १७ ॥

जय देव जगन्नाथ शरणागतरक्षक ।

जय विज्ञान चिद्रूप गुणातीत परायण ॥ १८ ॥

जय निर्द्वन्द्व विश्वात्मन् विश्वभूतिविभावन ।

जयाखिल जगद्धामन् जय पङ्कजलोचन ॥ १९ ॥

जयाखिल जगत्सृष्टिस्थिति सम्हारकारण ।

जन्तुम् त्राहि जगत्सर्वम् नृसिम्हासुरसूदन ॥ २० ॥

हिरण्यकशिपोस्त्रस्तान् लोकान् स्थावरजङ्गमान् ।

रक्षितुम् देवदेवेश प्राप्तोऽसि नरसिम्हताम् ॥ २१ ॥

त्यज कोपममेयात्मन् यतस्तेनासुरो हतः ।

पाहि लोकानिमान् सर्वान् पवित्रचरिताव्ययः ॥ २२ ॥

एवम् सम्स्तूयमानस्य देवैरिन्द्रपुरोगमैः ।

रौद्रमासीद्वपुस्तत्र युगान्ताग्निरिव प्रभोः ॥ २३ ॥

ततो भयेन निहता समुद्विग्नः शतक्रतुः ।

जगाम ब्रह्मभवनम् देवर्षिगणसेवितः ॥ २४ ॥

तम् दृष्ट्वा भगवन्तम् वै ब्रह्माणम् पाकशासनः ।

प्रणिपद्य महोतेजाः कृताञ्जलिरभाषत ॥ २५ ॥

इन्द्रः

हतो हिरण्यकशिपुर्नारसिम्हेण विष्णुना ।

बाधमानोऽखिलान् लोकान् त्वत्तो लब्धवरोऽसुरः ॥ २६ ॥

यस्तम् जघान दैत्येन्द्रम् रक्षितुम् भुवनत्रयम् ।

कोपः प्रवर्धते तस्य नृसिम्हस्य महात्मनः ॥ २७ ॥

समीक्ष्य कुपितम् देवम् तम् दैत्येन्द्रनिबर्हणम् ।

भयेन वेपथे सर्वम् त्रैलोक्यम् सचराचरम् ॥ २८ ॥

लोकानामिह सर्वेषाम् स्रष्टा त्वम् भूतभावन ।

कृपया पाहि सर्वाम्स्त्वमुद्विग्नान्नरसिम्हतः ॥ २९ ॥

ब्रह्मा

भयम् त्यजध्वम् त्रिदशा अभयम् वो ददाम्यहम् ।

करिष्यत्येव भगवान् रक्षामस्माकमच्युतः ॥ ३० ॥

तमेवमुक्त्वा भगवान् ब्रह्मा शतमखम् प्रति ।

ध्यात्वा किञ्चिदुवाचेदम् भीतान् काले दिवौकसः ॥ ३१ ॥

नैष शक्यः शमयितुमस्माभिर्नरकेसरी ।

क्रोधाभिभूतो भगवानृते देवम् पिनाकिनम् ॥ ३२ ॥

प्रपद्यामो महादेवम् शूलिनम् वृषभध्वजम् ॥ ३३ ॥

तेन देवादिदेवेन शङ्करेणामिततेजसा ।

जगतस्त्राणकामेन कृतम् कर्म सुदुष्करम् ॥ ३४ ॥

उग्राणामुग्रचेष्टानामसुराणाम् पुरत्रयम् ।

दग्धम् क्षणेन विभुना चतुर्वर्गप्रदायिना ॥ ३५ ॥

भञ्जनो नाम दैत्येन्द्रो युधि नित्यापराजितः ।

शतयोजनविस्तीर्णः शतयोजनमायतः ॥ ३६ ॥

तेन कृत्वा महादेवः सम्युगम् शरदाम् शतम् ।

निजघान महातेजाः शूली शूलेन तम् शिवः ॥ ३७ ॥

सामादिभिरुपायैस्तमशक्यम् चन्द्रशेखरः ।

शमयिष्यति सर्वेषाम् देवानाम् हितकाम्यया ॥ ३८ ॥

सोऽस्माभिः प्रार्थितो देवो मन्मथारिरुमापतिः ।

नरसिम्हसमुद्भूतम् भयम् नः शमयिष्यति ॥ ३९ ॥

तमेवमुक्वा भगवान् देवराजम् चतुर्मुखः ।

जगाम देवमीशानम् द्रष्टुम् कैलासपर्वतम् ॥ ४० ॥

गच्छन्तम् तम् तदा देवा यक्षगन्धर्वचारणाः ।

वायुभूताः पिशाचाश्च समुद्राः सरितो दिशः ॥ ४१ ॥

लोकपालास्तथा चाष्टौ पर्वताश्च सरीसृपाः ।

जग्मुस्तम् परिवार्यैनम् मुनयश्च तपोधनाः ॥ ४२ ॥

ततोऽचिरेण भगवान् सहितो देवदानवैः ।

कैलासम् पर्वतश्रेष्ठमाससाद पितामहः ॥ ४३ ॥

प्रविश्य शम्भुम् भगवानपश्यद्वृषकेतनम् ।

विद्योतमानम् प्रभया सूर्यकोटिंसमप्रभम् ॥

सेव्यमानम् गिरिजया श्रियैव पुरुषोत्तमम् ॥ ४४ ॥

स तम् समीक्ष्य भगवान् ब्रह्माणम् ब्रह्मसम्भवः ।

उवाच वचनम् श्लक्षणम् बहुमानपुरस्सरम् ॥ ४५ ॥

आगतोऽसि किमर्थम् त्वम् चतुर्मुख सुरैः सह ।

कच्चित् क्षेमम् तु सर्वेषाम् देवानाममितौजसाम् ॥ ४६ ॥

किमर्थमागतश्चायम् सुरैः सह शतक्रतुः ।

देवगन्धर्वयक्षाश्च ऋषयश्च तपोधनाः ॥ ४७ ॥

ब्रह्मा

येषाम् चैव पुरो देवा प्राणकामवरप्रभुः ।

कुतः स्यादशुभम् तेषाम् शङ्करात्र दिवौकसाम् ॥ ४८ ॥

तथापि किञ्चिद्वक्तव्यमस्ति नः परमेश्वर ।

तच्छ्रुत्वा कुरु देवानाम् रक्षणम् चन्द्रशेखर ॥ ४९ ॥

पुरा हिरण्यकशिपोरस्माभिर्वधकाङ्क्षिभिः ।

प्रार्थितो लोकरक्षार्थम् विष्णुर्दानवसूदनः ॥ ५० ॥

नैव शान्तिम् गतो रोषस्तस्य देवस्य शार्ङ्गिणः ।

तस्मिन् भगवति क्रुद्धो नरसिम्हे महात्मनि ॥

प्रवेपते जगदिदम् देवेशे कुपिते भृशम् ॥ ५१ ॥

त्वत्तो हि नान्यच्छरणम् देवनामिह विद्यते ।

नरसिम्ह समुद्भूतम् भयम् नाशय नो हर ॥ ५२ ॥

पितामहस्य वचनम् श्रुत्वा पशुपतिस्तदा ।

मुहूर्तम् चिन्तयित्वा तु ब्रह्माणमिदमब्रवीत् ॥ ५३ ॥

शङ्करः

हतो हिरण्यकशिपुर्येन दैत्यो महाबलः ।

कोऽन्यः शमयिता तस्य कोपस्य हयमेधसः ॥ ५४ ॥

त्वम् मे जनयिता देव स ते जनयिता हरिः ।

तस्य देवस्य कः शक्ता विष्णोर्वै निग्रहो भवेत् ॥ ५५ ॥

यद्भयात् पवते वायुः सूर्यस्तपति यद्भयात् ।

यद्भयात् धरणी धत्ते निग्रहे तस्य कः प्रभुः ॥ ५६ ॥

तथाप्युपायो दृष्टे मे परमेण समाधिना ।

कृते तस्मिन् भवेच्छ्रेयस्तूष्णीम्भूतेन चेतसा ॥ ५७ ॥

अश्वानाम् महिषः शत्रुर्वारणानाम् मृगाधिपः ।

वानराणाम् तथा मेष: फणिनाम् गुरुडस्तथा ॥ ५८ ॥

मूषिकाणाम् तु मार्जारो मुगाणाम् श्वा प्रकीर्तितः ।

वायसानाम् दिवाभीतः सिम्हानाम् शरभस्तथा ॥ ५९ ॥

अतो निर्वापयिष्यामः शरभम् भयशान्तये ।

शरभोऽधिष्ठितोऽस्माभिर्नृसिम्हम् शमयिष्यति ॥ ६० ॥

इत्येवमुक्त्वा भगवान् ससर्ज शरभम् तदा ।

यस्य सन्दर्शनादेव त्रस्तमासीज्जगत्त्रयम् ॥ ६१ ॥

ततस्तस्याथ गौरीशस्तुण्डस्थानमरोचत ।

पृष्ठभागे चतुर्वक्त्रम् तस्य रुद्रो न्यवेशयत् ॥ ६२ ॥

चन्द्रसूर्यौ नयनयोर्मारुतम् पक्षयोर्द्वयोः ।

पादेषु भूधरान् सर्वान् शिवस्तस्य न्यवेशयत् ॥ ६३ ॥

एवम् निर्माय शरभम् भवम् प्रमथनायकः ।

ससर्ज नारसिम्हम् तम् समुद्दिश्य भयानकम् ॥ ६४ ॥

स विसृष्टो भगवता देवानाम् पुरतस्तदा ।

जगाम शरभो हन्तुम् नृसिम्हममसुरान्तकम् ॥ ६५ ॥

गच्छतस्तस्य वेगेन जगद् विपरिवर्तितम् ।

नादेन सकला लोकाः सहसा त्वधरीकृताः ॥ ६६ ॥

चचाल पृथिवी सर्वा चेलुश्चाष्टौ च दिग्गजाः ।

अधरोत्तरविन्यासा बभूवुः सप्तसागराः ॥ ६७ ॥

ततः क्षणेन शरभो नादपूरितदिङ्मुखः ।

अभ्याशमगमद् विष्णोर्विन्दन् भैरवरस्वनम् ॥ ६८ ॥

तौ युध्यमानौ तु तदा चिरेण बलवत्तरौ ।

न शमम् जग्मतुर्देवौ नृसिम्हशरभाकृती ॥ ६९ ॥

ततः क्रुद्धो महाकायो नृसिम्हो भीमनिस्स्वनः ।

सहस्रकरजैस्त्रस्तस्य गात्राणि पीडयन् ॥ ७० ॥

ततः स्फुरच्छटाचोटो रुद्रम् शरभरूपिणम् ।

व्यदारयन्नखैस्तीक्ष्णैर्हिरण्यकशिपुम् यथा ॥ ७१ ॥

निहते शरभे तस्मिन् रौद्रे मधुनिघातिना ।

तुष्टुवुः पुण्डरीकाक्षम् देवा देवर्षिणस्तदा ॥ ७२ ॥

तदा प्रसन्नो भगवानिदम् वचनमब्रवीत् ।

क्रोधः सर्वात्मना शान्तो युष्माभिः कृतसाधनात् ॥ ७३॥

अद्य प्रभृति लोकोऽयम् भवेत् विगतसञ्ज्वरः ।

तत्त्वतस्तु न मे कोपो न मे शान्तिः सुरेश्वराः ॥ ७४ ॥

तत्तत्कार्यानुकारेण तत्तत्कार्यञ्चि ग्रहीष्यते ।

शरभो निहतः सङ्ख्ये कृत्रिमोऽयम् न सम्शयः ॥ ७५ ॥

स्वम् स्वम् पदमनुप्राप्य मोदध्वम् विगतज्वराः ।

इत्युक्तवति सर्वेशे ब्रह्मा वचनमब्रवीत् ॥ ७६ ॥

ब्रह्मा

शङ्करेण कृतम् कर्म जगदर्ते महात्मना ।

न तु द्रोहाभिभूतेन तव वीर्यमजानता ॥ ७७ ॥

यत्किञ्चिद् वापि क्षन्तव्यम् प्रेष्यास्ते सर्वदेवताः ॥ ७८ ॥

यत्रासौ निहतः शेते हरः शरभरूपधृक् ।

तत्स्थानम् सर्वपूज्यम् स्यात् तव देव प्रसादतः ॥ ७९ ॥

अस्मिञ्छैले तु ये कुण्डा: स्वल्पाः स्थूलतरास्तथा ।

सर्वास्तव प्रसादेन शर्वरूपा भवन्ति हि ॥ ८० ॥

इत्येवमुक्तो वचनम् भगवान् पद्मयोनिना ।

श्रुत्वा तु सादरम् तस्मै दत्वा वरमनुत्तमम् ॥

पश्यताम् सर्वदेवानाम् तत्रैवान्तरधीयत ॥ ८१ ॥

अयम् तु पर्वतो विप्रा गरुडाद्रेरदूरतः ।

अच्छायमेरोः प्राग्भागे ह्यद्यापि परिदृश्यते ॥ ८२ ॥

तत्र स्थिताः शिलाः सर्वाः शिवलिङ्गवपुर्धराः ॥ ८३ ॥

ये तत्र शिवसूक्तानि पठन्त्यहरहर्नराः ।

षण्मासैः शिवसालोक्यम् यास्यान्ति गतबन्धनाः ॥ ८४ ॥

एतत्सर्वम् समाख्यातम् शरभागमकारणम् ॥ ८५ ॥

अन्तर्धानम् गतवति हरौ देवदेवे नृसिम्हे

हत्वा रौद्रम् शरभमभयम् देवताभ्यः प्रदाय ।

सर्वान् देवान् निजसुरपदे स्थापयित्वाब्जयोनिः

प्रायात् स्थानम् निजमनुपमम् स्तूयमानो मुनीन्द्रैः ॥८६ ॥

॥ इति श्रीब्रह्माण्डपुराणे क्षेत्रकाण्डे श्रीमदहोबिलमाहात्म्ये

अष्टमोऽध्यायः ॥

श्रीः

॥ श्रीमते श्रीलक्ष्मीनृसिम्हपरब्रह्मणे नमः ॥ ॥ श्रीमदहोबिलमाहात्म्ये नवमोऽध्यायः ॥

श्रीनारदः

इदम् वः कथयिष्यामि चरितम् रोमहर्षणम् ।

नद्यास्तु भवनाशिन्याः सर्वेषामुपकारकम् ॥ १ ॥

अच्चायमेरोरुद्भूता धर्मात्मा भवनाशिनी ।

पूर्णयन्ती जगत्सर्वम् कल्लोलैरमितप्रभा ॥ २ ॥

स्वर्लोकवासिदेवानाम् निर्लेपगुणखण्डिनी ।

मण्डयन्ती जगत्सर्वम् मण्डिताखिलमण्डला ॥ ३ ॥

चण्डप्रतापदोर्दण्ड आकण्डल इवापरः ।
लोलयन्ती सहस्राक्षभवनम् भुवनत्रयम् ॥ ४ ॥
प्रवहत्यतिवेगेन प्रलये सागरो यथा ।
अन्तरिक्षगता ये च ये च गन्धर्वकिन्नराः ॥ ५ ॥

स्वर्लोकम् समनुप्राप्ताः ते च शर्म न लेभिरे ।
तत्रत्यैः सह सर्वैस्तुः महर्लोकम् प्रपेदिरे ॥ ६ ॥

एवम् जाते महाघोरे तेन धर्मेण दारुणे ।
बृहस्पतिमुवाचेदमिन्द्रः स्वेन्द्रत्व सिद्धये ॥ ७ ॥
भगवन् कथमेतद्धि नद्या वै सम्भ्रमो महान् ।
लोकान् सर्वान् भ्रामयति मेदनीमधरोत्तरम् ॥ ८ ॥
किमेतत् सहजम् कर्म आहो ऋष्यादि सम्भवः ।
प्रभावो वा नृसिम्हस्य क्षेत्रमाहात्म्यमेव वा ॥ ९ ॥

कथमेतादृशी शक्तिर्नदीमात्रस्य कल्पते ।
बृहस्पतिः

न ह्येषा तु नदीमात्रा हरिपाद समुद्धवा ॥ १० ॥

स्तोष्यामस्ताम् नदीमेव सा प्रसन्ना भविष्यति ।

लोकस्य परितापोऽयम् किमर्थम् परिकल्प्यते ॥ ११ ॥

एतदाकर्ण्य वचनम् भगवान् पाकशासनः ।

गरुडाचलमासाद्य तुष्टाव भवनाशिनीम् ॥ १२ ॥

नमस्तुभ्यम् भगवति भवनाशिनि पावनि ।

त्राहि त्रस्तानिमाँल्लोकान् विष्णुपादब्जसम्श्रये ॥ १३ ॥

माता त्वम् सरिताम् प्रसीद करुणेसम्सक्तचित्ते परम्

लोकान् रक्ष महारवम् त्यज जगज्जालम् मुदा पालय ।

भीतानुद्धर मेघवाहनमुखान् देवाम्श्च लोकाधिपान्

कल्याणम् करुणालये करुणया देहि प्रसन्ना भव ॥ १४ ॥

मातः माम् परिपाहि पुण्यनिलये पापौघविध्वम्सिनि

क्षोणीरक्षणलक्षणेन चतुरे चञ्चत्कटाक्षान्विते ।

धीरोदात्तधराधरप्रभृतयेस्तेष्वष्टदिक्पालका

धर्तुम् तावकनिर्झरीकणलवम् शक्तेन लोकाः किमु ? ॥ १५ ॥

इति स्तोत्रे कृते प्रेम्णा देव्याः कोपो व्यवर्धत ।

अजानन्त्या परम् कार्यम् जडता प्रकटीकृता ॥ १६ ॥

आकाशे वागुवाचेदमातुरम् तम् शतक्रतुम् ।

मघवन् परितापोऽयमकस्मात् सम्भवस्तव ॥ १७ ॥

तव स्तोत्रेण देवीयम् न याति तव वश्यताम् ॥ १८ ॥

गरुडाचलभूभागे भैरवो लोकभैरवः ।

रक्षन् समस्तभूतानि तत्रास्ते हरितोषकृत् ॥

सम्रम्भम् भवनाशिन्याः स तु क्षामयितुम् क्षमः ॥ १९ ॥

इत्युक्तो वासवस्तूष्णीमामन्त्र्य तु कपालिनम् ।

जगाम त्रिदिवम् विप्राः कपाली तु व्यचिन्तयत् ॥ २० ॥

शमयिष्यामि साम्ना तु नदीम् वै भवनाशिनीम् ।

अन्यथा तादृशी शक्तिः कथम् शामयितुम् क्षमा ॥ २१ ॥

इति सञ्चिन्त्य मनसा तुष्टाव स नदीञ्चि तदा ॥ २२ ॥

भैरव

नमस्ते भवनाशिन्यै नरकोत्तारहेतवे ।

विष्णुपादसमुद्भूते विष्णुना परिपालिते ॥ २३ ॥

विष्णुरूपे विष्णुमये विविधागमसम्स्तुते ।

प्रसीद देवि पद्माक्षि प्रसन्नवदनाम्बुजे ॥ २४ ॥

धर्मात्मिके धर्मधात्रि धर्मसञ्चयवर्धिनि ।

दुर्मानसञ्चिताशेषकर्मनिर्मूलनक्षमे ॥ २५ ॥

अकाण्डे ताण्डवीतन्त्रे दानवा तत्परागमैः ।

पाहि लोकान् भयत्रस्तान् पालनी भवनाशिनी ॥ २६ ॥

इति स्तोत्रम् बहुविधम् भैरवेण समीरितम् ।

अनादृत्य ययौ देवि पश्चिमाभिमुखी तदा ॥ २७ ॥

उत्खातयन्ती वेगेन पर्वताम्स्तरुसञ्चयान् ।

पृथिव्याकाशयोमध्ये ह्यन्तरालम् न विद्यते ॥ २८ ॥

तदा तु भैरवः क्रुद्धः कोपसम्रक्तलोचनः ।

देवकार्यमनुस्मृत्य कर्मान्तर पराङ्मुखः ॥ २९ ॥

शमयिष्यामि वेगेन साहसेनैव कर्मणा ।

ज्वलितस्य न तोयेन शान्तिः कल्पशतैरपि ॥ ३० ॥

इत्यालोचयतु मनसा खङ्गेन निशितेन तु ।

शिरः कृन्त्वा स्वकम् कोपात् नदीमध्ये ह्यपातयत् ॥ ३१ ॥

सा रूद्धवेगा सहसा दारुणेनैव कर्मणा ।

किम् मे भविष्यतीत्येवम् चिन्ताकुलितमानसा ॥ ३२ ॥

पातालम् सा जगामाशु यत्रास्ते फणिनाम् वरः ।

फणिराट् सहसोत्थाय कृताञ्जलिरभाषत ॥ ३३ ॥

देवि कल्याणनिलये किमर्थम् त्वमिहागता ।

कस्यायमुत्तमः कायः किमर्थम् व्यग्रमानसाः ॥ ३४ ॥

का त्वम् भवसि कल्याणि कस्य वा त्वम् परिग्रहः ।

नदी नदाः सागराश्च भूलोके कृतकेतनाः ॥ ३५ ॥

श्रुत्वेदम् वचनम् तेन शेषेण परिभाषितम् ।

भीषणम् भीषणाकारा वचनम् चेदमब्रवीत् ॥ ३६ ॥

नहरेः पादसम्भूता मामाहुर्भवनाशिनीम् ।

जलौघैघौरसङ्काशैः पूरयन्ती जगत्त्रयम् ॥ ३७ ॥

स्तुता भगवता साक्षात् सादरम् वज्रपाणिना ।

न श्रोत्रपदवीम् यातम् स्तोत्रम् सत्त्वानुभाषितम् ॥ ३८ ॥

तत्प्रेषितेन महता लोकण्ठककर्मणा ।

स्तुताहम् भैरवेणास्मिन् लोके भैरवकर्मणा ॥ ३९ ॥

न शमम् गमिता किञ्चित् स्त्रीस्वभावानुबन्धनात् ॥  ४० ॥

ततः क्रद्धेन महता तरसा भैरवेण तु ।

शिरो निपातितम् तेन रुद्धाहम् त्वामुपागता ॥ ४१ ॥

इत्येवम् वचनम् घोरमाश्रुतम् देवदानवैः ।

शिरः प्रकम्पयन् देवः शेषो वचनमब्रवीत् ॥ ४२ ॥

न ह्यत्र प्रसरो देवि नदीनाम् तु प्रवर्तते ।

भूतलम् गच्छ तत्रैव प्रवहस्व यथेप्सितम् ॥ ४३ ॥

सर्वम् सहा वसुमती सहिष्यति हि ते रवम् ॥ ४४ ॥

इति श्रुत्वा वचस्तस्य ह्यङ्गीकृत्य च सादरम् ।

पुनर्जगाम भूलोकम् यत्रास्ते तिन्त्रिणी तरुः ॥ ४५ ॥

कर्मणा कायिकेनैव तरुः कश्चिद्विजोत्तमाः ।

तत्रोद्भूता महापुण्या लोकपावनपावनी ॥ ४६ ॥

यत्रोद्भूता तु तत्रैव तिन्त्रिणीतरुमूलके ।

भैरवस्य शिरः पुण्यम् स्थापयामास पावनी ॥ ४७ ॥

तच्छिरः पूज्यमानम् तु जनैरिष्टार्थदायकम् ।

सा नदी कृष्णवेण्यास्तु सङ्गमे ह्यविदूरतः ॥ ४८ ॥

योजनद्वयमात्रे तु गमिता सागरम् प्रति ।

पृथग्भूता तु तत्रैव भर्तारम् परिषस्वजे ॥ ४९ ॥

यथा कृष्णा यथा वेणी यथा तुङ्गा तु भद्रका ।

यथा भीमरथी पुण्या यथैव मलहारिणी ॥

पृथक्पृथक् सागरगा तथेयम् भवनाशिनी ॥ ५० ॥

भैरवः खण्डरूपस्तु सुप्रीतो हयमेधसा ।

रूपलावण्यसौन्दर्यम् दत्तम् मूर्तान्तरम् तदा ॥ ५१ ॥

पतिजग्राह नैवायमुग्रकर्मा तु भैरवः ।

देवदेवम् जगन्नाथमिदम् वचनमब्रवीत् ॥ ५२ ॥

महत्यापत्तिस्तु सम्प्राप्ता नद्यास्तु जगदीश्वर ।

शर्मणे जगताम् दत्तम् शिरस्तु तटिनीम् प्रति ॥ ५३ ॥

अहमेवम् विशिष्यामि त्वत्प्रसादैकभाजनम् ।

माम् वदिष्यन्ति सर्वत्र दुष्करम् कर्म वै कृतम् ॥ ५४ ॥

भैरवेण सुपूर्णेन लोकानुग्रहमिच्छता ।

इयम् मे परमा कीर्तिर्यन्मुण्डितैव सम्स्थितिः ॥ ५५ ॥

अद्य प्रभृति लोकोऽयम् मुण्डो भैरव इत्यपि ।

वदिष्यति न सन्देहो न मेऽस्ति परिवेदना ॥ ५६ ॥

इत्येवम् वचनम् श्रुत्वा भगवान् नरकेसरी ।

यदुक्तम् भवता लोके तत्तथैवास्तु भैरव ॥ ५७ ॥

ये तु साधारणजना मयि भक्तिम् प्रकुर्वते ।

ते जनाः प्रीतिसम्युक्ता द्रक्ष्यन्ति क्षेत्रपालकम् ॥ ५८ ॥

ये त्वत्र समयाचार लङ्गनैकपरायणाः ।

तेषाम् वै पापचित्तानाम् शासनैकपरो भव ॥ ५९ ॥

इति सन्दिश्य भगवाम्स्तत्रैवान्तरधीयत ।

श्रीनारदः

इति सर्वम् समाख्यातम् भवनाशिनिवैभवम् ॥ ६० ॥

भैरवस्योत्तरे भागे गुहा वै पर्वताभिधा ।

अष्टयोजनविस्तीर्णा श्रीशैलान्तिकमागता ॥ ६१ ॥

तत्र देवः समध्यास्ते नृसिम्हो गह्वराधिपः ।

एतद्गह्वरमाविष्टा गन्धर्वाश्चैव किन्नराः ॥ ६२ ॥

गायन्ति परमम् गानम् परमानन्दकारणम् ।

अच्युतानन्तगोविन्द मुकुन्द मुरनाशन ॥

नृकेसरिन् जगद्धामेत्युच्छार्यान्योन्यमोदिताः ॥ ६३ ॥

इत्थम् गुहासु सर्वासु ऋषयश्च तपोधनाः ।

ऋग्यजुस्सामवेदानाम् गायका विचरन्ति हि ॥ ६४ ॥

वदन्ति च पुराणार्थानागमार्थाननेकधा ।

सद्विद्यानिरताः केचिदन्तरादित्यनिश्चयाः ॥ ६५ ॥

परविद्यारताः केचित् केचिद्भूमैकवादिनः ।

केचित् कर्म प्रशम्सन्ति केचित्तु शरणागतिम् ॥ ६६ ॥

एकान्तिनः सदा सर्वे परमात्मपरायणाः ।

पाञ्चरात्रविदः केचित् सम्हिता वेदपारगाः ॥

अर्चयन्ति जगन्नाथम् कापिञ्जलविधानतः ॥ ६७ ॥

तन्त्राणामुत्तमम् ज्ञेयम् वेदसारम् महोदयम् ।

साङ्ख्ययोगकृतान्तेन पाञ्चरात्रानुशब्दितम् ॥ ६८ ॥

इदम् श्रेयम् इदम् ब्रह्म इदम् हितमनुत्तमम् ।

ऋग्यजुस्सामाभिर्जुष्टमथर्वाङ्गिरसस्तथा ॥ ६९ ॥

प्रमाणमेतदुदितम् साक्षान्नारायणोदितम् ।

तन्त्रेषु सात्तित्वकम् प्रोक्तम् सकलागममूलकम् ॥ ७० ॥

इति सकलजनानाम् सर्वदा पापराशिम्

स्ववचनपरिपाटीमात्रतः क्षालयन्ती ।

भवहरतटिनीयम् वर्णिता सानुभावा

हृदि विलसतु नित्यम् सर्ववर्णामृतानाम् ॥ ७१ ॥

कालेऽवगाह्य भवनाशिनितीर्थसारम्

कल्पेषु सञ्चितमपोह्यमहाघराशिम् ।

अल्पीकृतासुरबलस्य नृसिम्हमूर्तेः

कल्पेत पादयुगलीपरिचारकृत्ये ॥ ७२ ॥

अलमिह मुनिवर्याः सम्पदोघैरमेयैः

अमितगुणगणानामालये नारसिम्हे ।

दधत विपुलभक्तिम् दीनभावम् त्यजध्वम्

वितरति फलराशिम् वीतशोकाम् मुदम् वः ॥ ७३ ॥

धिग्धिग् देवान् क्षुढ्रकान् प्रार्थयन्ते ।

तैर्वा दत्तम् तत्क्षणे नश्वरम् च ।

गीर्वाणानामीश्वरो गीतमात्रात्

सर्वान् कामान् सर्वदा सन्दधाति ॥ ७४ ॥

गृहेषु सक्ताः प्रलपन्त्यनेकधा

गृहेषु वासः सकलार्तिसाधकः ।

विवेकिनस्तत्परिभूय भुञ्जते

गुहासु तीर्थेषु हरे: कथामृतम् ॥ ७५ ॥

शाकान् कणान् वा फलमूलकम् वा

कृत्वा शरीरेन्द्रियधारणाय ।

तीरे तटिन्या भवनाशहेतोः

सदा मधुद्विट् सुकथानुदृप्राः ॥ ७६ ॥

सम्सारसारस्त्वयमेक एव

दुःखावहान्यन्यविचरणानि ।

यत्पादभक्तिर्भगवत्यनन्ते

विविक्तवासो गिरिगह्वरेषु ॥ ७७ ॥

॥ इति श्रीब्रह्माण्डपुराणे क्षेत्रकाण्डे श्रीमदहोबिलमाहात्म्ये

नवमोऽध्यायः ॥

॥ श्रीः ॥

॥ श्रीमते लक्ष्मीनृसिम्हपरब्रह्मणे नमः ॥

॥ श्री मदहोबिलमाहात्म्ये दशमोऽध्यायः ॥

ऋषयः

भगवन् ब्रह्मसम्भूत श्रुता विस्तरतः कथाः ।

नारायणैकनिलयाः श्रुतिपीयूषकल्पकाः ॥ १ ॥

इदानीम् श्रोतुमिच्छामो मोक्षोपायविनिर्णयम् ।

साङ्ख्ययोगादिके धर्मे नाधिकारोऽस्ति कस्यचित् ।

यद्यस्ति सुकृतोपायः कृपया वै प्रकाशय ॥ २ ॥

श्रीनारदः

कालदोषान्मनुष्याणाम् मनश्चाञ्चल्ययोगतः ।

दुर्ग्राह्यत्वादिन्द्रियाणाम् विश्वासाधिक्यहानितः ॥ ३ ॥

कर्मादिष्वधिकारस्तु नराणाम् नोपजायते ॥ ४ ॥

शुश्रूषणविधानेन हरेर्मूर्तिमवाप्नुयात् ।

क्रिययोगो ह्ययम् मार्गो योगवन्मुक्तिसाधकः ॥ ५ ॥

स्नानैस्तीर्थोदकैर्हूद्यैः पुष्पगन्धानुलेपनैः ।

विविधैर्भूषणैर्भक्ष्यैर्गीतनादैर्मनोहरैः ॥ ६ ॥

चन्दनागरुधूपैश्च किञ्चिद्भोग्यादिकेन च ।

भक्त्या नमेन्नरश्रेष्ठः कुर्याद्विष्णवर्चनम् परम् ॥ ७ ॥

रागेणाकृष्यते चेतो गान्धर्वाभिमुखम् यदि ।

हरौ बुद्धिम् समावेश्य गातव्यम् गानमुत्तमम् ॥ ८ ॥

श्रोतव्याः प्रीतियुक्तेन अवतारकथाः शुभाः ।

हरौ विन्यस्य सर्वस्वम् आत्मानम् यत तदग्रतः ॥ ९ ॥

तदर्थम् कुरुते धर्ममधर्मस्तव्यतिक्रमः ।

राज्यम् वापि मुनिश्रेष्ठा निवेद्य हरिसन्निधौ ॥ १० ॥

अत्रैवोदाहरन्तीममितिहासम् पुरातनम् ॥ ११ ॥

चक्रवर्ती महावीर्यो मान्धाता युवनाश्वजः ।

शशास स महाबाहुः सप्तद्विपाम् वसुन्धराम् ॥ १२ ॥

यावत्सूर्य उदेति स्म यावत्तिष्ठति मेदिनी ।

तत्सर्वम् यौवनाश्वस्य मान्धातुः क्षेत्रमुच्यते ॥ १३ ॥

स कदाचित् सपत्नीको वसिष्ठम् वाक्यमब्रवीत् ।

कथमेतादृशी सम्पदावयोः समुपस्थिता ॥ १४ ॥

वसिष्ठाः

त्वमासीः शूद्रजातीयः परहिम्सापरायणः ।

इयम् च भवतो भार्या पूर्वमप्यायतेक्षणा ॥ १५ ॥

प्रेष्या बभूव त्वच्चित्ता तव शुश्रूषणे रता ।

वासुदेवालये नित्यम् कृतम् सम्मार्जनम् त्वया ॥ १६ ॥

तथैवाभ्युक्षणम् भूप नित्यम् चैवानुलेपनम् ।

पत्न्यानया च धर्मज्ञ युष्मच्चित्तानुवृत्तया ॥ १७ ॥

अहन्यहनि तत्कर्म युवयोर्नाम कुर्वतोः ।

अत्रैव तन्मयत्वेन पापहानिरजायत ॥ १८ ॥

विष्णोः कार्यम् मया कृत्यम् योगशुश्रूषणे रता ।

न प्रभाम् तु प्रभावम् तु चिन्तया च भवन्निशि ॥ १९ ॥

कदाहम् भगवत्कार्यम् करिष्येऽभ्युक्षणादिकम् ।

इति चिन्तयतो नित्यम्मनश्शुद्धिरभूत् तव ॥ २० ॥

स्मारितः पुण्डरीकाक्षः कार्येणातिदृढात्मना ।

निश्शेषमपयातम् तत् पापम् योगनिषेवणात् ॥ २१ ॥

ततोऽधिकतरम् तस्मादगाराद्यनुलेपनम् ।

सम्मार्जनम् च बहुशः सपत्नीकेन वै कृतम् ॥ २२ ॥

तत्रागतश्च सौवीरः कुरुजन्मा तु भूपतिः ।

महासैन्यपरीवारः प्रभूतगजवाहनः ॥ २३ ॥

सर्वसम्पदुपेतम् तम् सर्वाभरणभूषितम् ।

वृतम् भार्योसहस्रेण दृष्ट्वा स्रक्चन्दनोज्ज्वलम् ॥ २४ ॥

स्पृहा कृता त्वया तत्र चारुमालिनि पार्थिवे ।

सर्वकामप्रदम् कर्म देवस्यार्ते प्रकुर्वता ॥ २५ ॥

तेनेदमखिलम् राज्यमशेषम् नृपसत्तम ॥ २६ ॥

तत्रैवावसथेदीपः प्रशान्तः स्रेहसङ्क्षयात् ।

निजभोजनतैलेन पुनः प्रज्वलितस्त्वया ॥ २७ ॥

अनया चोत्तरीयान्तचीरलेशोपबृम्हितः ।

तव पत्न्या स जज्वाल कान्तिरस्यास्ततोऽधिका ॥ २८ ॥

तवाप्यखिलभूपालमनः क्षोभकरम् ततः ।

तेजो नरेन्द्र न स्याद्वा किमाराध्य जनार्दनम् ॥ २९ ॥

एवम् नरेन्द्र शूद्रस्त्वम् विष्णुकर्मपरायणः ।

तन्मयत्वेन सम्प्राप्तो महिमानमनूपमम् ॥ ३० ॥

किम् पुनर्यो नरो भक्तो विष्णुशुश्रूषणादृतः ।

करोति सततम् पूजाम् निष्कामोऽनन्यमानसः ॥ ३१ ॥

ततोसमृद्धिमिमाम् लब्ध्वा सर्वलोकेश्वरेश्वरम् ।

पूजयाच्युतमीशेशपू तमाराध्य न सीदति ॥ ३२ ॥

पुष्पैर्धूपैस्तथा चान्यैर्दीपैर्वस्त्रानुलेपनैः ।

आरधयाच्युतम् तस्य वेश्मसम्मार्जनादिना ॥ ३३ ॥

यद्यदिष्टम् तु किञ्चिद्यद्यदत्यन्तदुर्लभम् ।

तत्तदत्वा जगद्धात्रे वैकुण्ठाय न सीदति ॥ ३४ ॥

सुगन्धागरुकर्पूरचन्दनक्षौद्रकुङ्कुमैः ।

वासोभिर्विविधैर्धूपैः पुष्पस्रक्चामरध्वजैः ॥ ३५ ॥

अन्नोपहारैविविधैर्घृतक्षीराभिषेचनैः ।

गीतवादित्र नृत्ताद्यैस्तोषयन्वाच्युतम् नृप || ३६ ||

पुण्यरात्रिषु गोविन्दम् नृत्तगीतरथोत्सवैः ।

भूप जागरणैर्भक्त्या तोषयाच्युतमव्ययम् ॥ ३७ ॥

एवम् सन्तोषितो भक्त्या भगवान् भवभङ्ग कृत् ।

करोति सकलम् सम्यगन्ते विष्णुपदम् तथा ॥

श्रीनारदः

इत्युक्त्वा तु वसिष्ठस्तु स्वाश्रमम् प्रययौ मुदा ॥ ३८ ॥

यावत्यः पाम्सुकणिका मार्जने केशवालये ।

वर्षाणि दिवि तावन्ति तिष्ठत्यस्तमलो नरः ॥ ३९ ॥

उपलेपनकर्तारः सम्मार्जनकराश्च ये ।

कृष्णालये परित्याज्यम् यमेन तु कुलत्रयम् ॥ ४० ॥

शनैः सम्मार्जनम् कुर्यान्मार्जन्या मृदुकूर्चया ।

पश्यन् परिहरन् जन्तून् चान्द्रायण फलम् लभेत् ॥ ४१ ॥

अग्निष्टोमम् तु पक्षेण वाजपेयम् तु मासतः ।

सम्वत्सरेणाश्वमेधम् मार्जनात् फलमुच्यते ॥ ४२ ॥

नैरन्तर्येण यः कुर्यात सम्मार्जनमतन्द्रितः ।

युगकोटिशतम् दिव्यम् विष्णुलोके महीयते ॥ ४३ ॥

तस्यान्ते तु चतुर्वेदी सुरूपः प्रियदर्शनः ।

अर्च्यः सर्वगुणोपेतो राजा वा भवति प्रियः ॥ ४४ ॥

यावज्जीवम् नरः कुर्वन् कर्म विष्णुगुहे तथा ।

तत्फलम् शतसाहस्रम् ज्ञानम् प्राप्य हरिम् व्रजेत् ॥ ४५ ॥

प्रतिष्ठाम् नृहरेर्यस्तु करोति दृढमानसः ।

वैकुण्ठम् लभते मर्त्यो यतो नावर्तते पुनः ॥ ४६ ॥

प्रतिमाम् लक्षणोपेताम् नारसिम्हस्य कारयेत् ।

भक्त्या यः स तु पापानि त्यक्त्वा विष्णुपुरे वसेत् ॥ ४७ ॥

विधिवत् स्थापयेद्यस्तु कारयित्वा जनार्दनम् ।

न जाने निर्गमम् तस्य विष्णुलोकादहम् द्विजाः ॥ ४८ ॥

योहि स्थापयते विष्णुम् सर्वदेवनमस्कृतम् ।

स्थापितम् तेन सर्वम् स्याज्जगत्स्थावरजङ्गमम् ॥

पूजितम् च यथान्यायमत्र मे नास्ति सम्शयः ॥ ४९ ॥

काष्ठलोहशिलामृद्धिः प्रतिमा क्रियते नरैः ।

मातृतः पितृतश्चैव यतश्चोद्वहते स्त्रियम् ॥

कुलैकविम्शमुद्धृत्य विष्णुलोके महीयते ॥ ५० ॥

सागराणाम् क्षयोऽप्यस्ति क्षीयते हिमवानपि ।

विष्णुलोकक्षयो नास्ति ये तु नारायणाश्रयाः ॥ ५१ ॥

शरीरममृतम् प्रोक्तम् शरीरम् बिम्बमुच्यते ।

तस्य प्राण इति प्रोक्तम् कौतुकम् मुनिसत्तमाः ॥ ५२ ॥

लोहम् तु कौतुकायैव पूर्वम् सृष्टम् स्वयम्भुवा ।

सुवर्णम् रजतम् ताम्रमित्येतत् कौतुकावहम् ॥ ५३ ॥

मणिभिश्चापि निर्दिष्टम् कौतुकम् तु विशेषतः ।

ताम्रात्सहस्रगुणितम् राजतम् कौतुकाकृति ॥ ५४ ॥

तस्माद्दशसहस्रन्तु सौवर्णकुतुके फलम् ॥ ५५ ॥

अकौतुकालये यस्तु कौतुकम् स्थापयेन्नरः ।

लभते स तु पुण्यात्मा अपरावर्तिनीस्र स्मृतिम् ॥ ५६ ॥

ये भविष्यन्ति येऽतीताः आकल्पाः पुरुषाः कुले ।

तान् स्थापयति सम्स्थाप्य देवस्य प्रतिमाम् हरेः ॥ ५७ ॥

येन चायतनम् विष्णोः कारितम् तत्कुलोद्भवम् ।

पुम्साम् शतम् न च लोक्यम् यमदूतैः कदाचन ॥ ५८ ॥

यस्तु देवालयम् विष्णोर्दारबम् शैलजम् तथा ।

मृन्मयम् वा हरेः कुर्यात् श्रोतव्यम् तस्य वैभवम् ॥ ५९ ॥

अहन्यहनि यज्ञेन याजितो यत्फलम् महत् ।

प्राप्नोति तत्फलम् विष्णोर्यः कारयति मन्दिरम् ॥ ६० ॥

कुलानाम् शतमागामि समतीतम् तथा शतम् ।

ज्येष्ठताम् च विमानेन यात्यच्युतसलोकताम् ॥ ६१ ॥

सप्तजन्मकृतम् पापम् स्वल्पम् वा यदि वा बहु ।

विष्णोरालयनिर्माण प्रारम्भादेव नश्यति ॥ ६२ ॥

सर्वलोकमयो विष्णुस्तस्या यः कुरुते गृहम् ।

प्रतिष्ठाम् वा समाप्नोति स नरः सार्वकालिकम् ॥ ६३ ॥

इष्टकायाश्च विन्यासो यावद्वर्षाणि तिष्ठति ।

तावद् वर्षसहस्राणि धर्मवान् दिवितिष्ठति ॥ ६४ ॥

आलयम् मण्टपम् चैव प्राकारम् गोपुरम् तथा ।

उद्यानमुदकम् चैव पीठतोरणापालिकाः ॥

हरेर्दत्वा महाभाग सोऽनन्तम् फलमश्नुते ॥ ६५ ॥

मृण्मयात् कोटिगुणितो धर्मः स्याद् दारुणाकृतिः ।

कोट्याः कोटिगुणम् तस्य दारवादिष्टकाकृतिः ॥ ६६ ॥

ततो द्विगुणितो धर्मः शैलजः स्याद्धरेर्गृहे ।

मृच्छैलजम् समम् ज्ञेयम् पुण्यमाढ्यदरिद्रयोः ॥ ६७ ॥

अपीष्टकामायुक्तम् यो विष्णोर्गृहकम् नरः ।

विदूतपापसङ्घातो विष्णुलोकम् व्रजेच्च सः ॥ ६८ ॥

क्रीडमानोऽपि यः कुर्याद् बालो विष्णुगृहम् शुचिः ।

लभते सर्वलोकेषु विमानम् सर्वगम् शुभम् ॥ ६९ ॥

खण्डस्फटिकसङ्काशम् यः कुर्याद् वै हरेर्गृहम् ।

आरामावसथाद्येषु लभते मौलिकम् पदम् ॥ ७० ॥

प्रत्यक्षम् च प्रकुर्वीत विष्णोरायतनम् महत् ।

धवलक्षीरसुधया बहुशोभनवर्णकैः ॥ ७१ ॥

यावतोऽब्दान् प्रकुरते धवलम् तु सुरालयम् ।

तावद्युगसहस्राणि सवितुर्लोकमेष्यति ॥

भुक्त्वा तत्र महाभोगान् विष्णुलोके महीयते ॥ ७२ ॥

यः कुर्यात् कुट्टिमाम् भूमिम् दर्पणोदरसन्निभाम् ।

नानामणिविचित्रान्ताम् विचित्रकुसुमोत्कराम् ॥ ७३ ॥

क्वचित् कुशलविन्यासैः फलकैरूपशोभिताम् ।

मनोऽभिरामाम् सुशुभाम् नारायणगृहोच्छ्रिताम् ॥ ७४ ॥

यावद् दण्डा भवेद् भूमिः समन्ताश्चैव शोभना ।

तावद्युगसहस्राणि विष्णुलोके महीयते ॥ ७५ ॥

देवतालयकर्तुश्च सुधालेपनकारिणः ।

प्रतिमायाश्च पीठस्य कौतुकस्य तथैव च ॥ ७६ ॥

नवकर्भकृतश्चैव पञ्चानाम् तत्फलम् समम् ।

समम् फलतमम् तेषाम् भोगदाता समश्नुते ॥ ७७ ॥

प्राकारगोपुरादीम्श्च विमानम् मण्टपम् तथा ।

भूषणादीनि पात्राणि जीर्णान्यन्यानि यो नरः ॥ ७८ ॥

यदि कुर्यात् पुनस्तानि कर्तुः शतगुणम् भवेत् ।

सर्वेषामेव पात्राणामतिपात्रम् तु केशवः ॥ ७९ ॥

पातकात् त्रायते यस्मादतीव नरकार्णवे ।

तस्मात् `पात्रमिति प्राहुः पात्राणामुत्तमो हरिः ॥ ८० ॥

तस्य पात्रस्य माहात्म्याद् दानम् दत्तमनन्तकम् ।

तस्मादस्मै सदा देयमप्रमेयपदार्थिभिः ॥ ८१ ॥

नारायणे हुतम् जप्तम् दत्तम् पूजा बलिक्रिया ।

एकेकमत्यन्तफलम् तद्भवेन्नात्र सम्शयः ॥ ८२ ॥

ताम्रपात्र प्रदानेन यत् पुण्यम् वेदपारगे ।

तस्मात् सहस्रगुणितम्` काँस्यपात्रप्रदानतः ॥ ८३ ॥

हेमपात्रम् तु यद्दत्तम् पुण्यम् वै वेदपारगे ।

ताम्रपात्रेषु तत् सर्वम् सहस्रगुणितम् भवेत् ॥ ८४ ॥.

फलम् कोटि सुवर्णस्य दानाद् यद्वेदपारगे ।

नारायणे रूप्यदानात् तत्पुण्यमयुतायुतम् ॥ ८५ ॥

हेमपात्रम् तु यो दद्याद् विष्णवे भक्तिसम्युतः ।

न शक्यम् तस्य तद् वक्तुम् पुण्यम् वर्षशतैरपि ॥ ८६ ॥

तुल्यमेव फलम् प्रोक्तम् यत् तदाढ्यदरिद्रयोः ।

तयोरप्यधिकम् तस्य यस्य भक्तिर्हरौ भवेत् ॥ ८७ ॥

ध्वजम् च विष्णवे यस्तु गरुडेन समन्वितम् ।

दद्यात् कोटिध्वजाकीर्णम् विमानेन विराजितम् ॥ ८८ ॥

विष्णुलोकम् अवाप्नोति सेव्यमानो अप्सरोगणैः ।

यो गाम् पयस्विनीम् विष्णोः कपिलाम् सम्प्रयच्छति ।

स सर्वपापहरितः सर्वभूषणभूषितः ॥

गवाम् सहस्रदानस्य फलम् प्राप्य हरिम् व्रजेत् ॥ ८९ ॥

आराधनाय यो गाम् तु यत्किञ्चिद्द्रव्यमुत्तमम् ।

नरसिम्हाय दद्यात् स विष्णूलोके महीयते ॥ ९० ॥

वासुदेवम् समुद्दिश्य सर्वदानानि मानवैः ।

वेदिविद्भयः प्रयत्नेन दातव्यानि मनीषिभिः ॥ ९१ ॥

आराध्य वैष्णवम् शान्तम् सदा तद्भावभावितम् ।

प्रीयताम् भगवान् विष्णुरिति सङ्कल्प्य भोजयेत् ॥ ९२ ॥

वेदाध्ययनसम्पन्नम् सदाचारम् कुटुम्बिनम् ।

विष्णुप्रीत्या समभ्यर्च्य भोजयेद् भक्तिसम्युतः ॥ ९३ ॥

यत्र नारायणो देवः परमात्मा सनातनः ।

यत्र सर्वम् जगत्सर्वम् तीर्तान्यायतनानि च ॥ ९४ ॥

नारायणोदरो विप्रो यस्यान्नम् प्रीतमानसः ।

अश्णाति तद्धरेरास्ये गतमन्नम् न सम्शयः ॥ ९५ ॥

यतिर्यस्य गृहे भुङ्क्ते तत्र भुङ्क्ते हरिः स्वयम् ।

हरिर्यस्य गृहे भुङ्क्ते तत्र भुङ्क्ते जगत्रयम् ॥ ९६ ॥

क्रियायोगो बहुविधो निर्मलो मुक्तिसाधकः ।

इदम् वः कथयिष्यामि शृणुध्वमृषिसत्तमाः ॥ ९७ ॥

गारुडम् शैलमासाद्य नद्याम् स्नात्वा शुचिर्नरः ।

मार्गशीर्षे तु यो मासे एकभुक्तेन सङ्क्षिपेत् ॥ ९८ ॥

कुर्वन् वै विष्णोः शुश्रूषाम् सा वम्शे जायते शुभे ।

पौषे स्यात् सङ्गरहितः सौभाग्यम् फाल्गुने लभेत् ॥९९ ॥

चैत्रे सुवर्णरत्नाढ्यो वैशाखे स्वकुलोत्तमः ।

ज्येष्ठे तु सम्पदम् विद्यादाषाढे धनपुत्रवान् ॥ १०० ॥

श्रावणे धान्यनिलयो मासिभाद्रपदेऽन्नवान् ।

प्रजावान् मानवोऽप्याश्व युजे मासे तु पुत्रवान्  ॥ १०१ ॥

कार्तिके चैकधा भुक्ते यश्च विष्णुपरो नरः ।

शूरश्च कृतविद्यश्च बहुपुत्रश्च जायते ॥ १०२ ॥

फाल्गुने मासि सम्प्राप्ते पूर्णिमायाम् नृकेसरी ।

त्रयस्त्रिम्शत्कोटि सङ्ख्यैर्देवैरिन्द्रेण शम्भुना ॥ १०३ ॥

चतुर्मुखेन मुनिभिर्ब्रह्मैपूर्वैरनेकशः ।

महषिभिर्महाभागैर्भूभागनिलयैः शुभैः ॥ १०४ ॥

पितृदेवैः कर्मदेवैर्यक्षगन्धर्वकिन्नरैः ।

भूलोकवासिभिश्चैव नरैर्भक्तिसमन्वितैः ॥

आराध्यते जगन्नाथो वर्षे वर्षे त्वनेकधा ॥ १०५ ॥

गङ्गाद्याः सरितश्चैव सागराश्च सराम्सि च ।

तस्मिन् दिने समागत्य विशन्ति भवनाशिनीम् ॥ १०६ ॥

नृहरेरुत्सवम् द्रष्टुम् नरा भक्त्या प्रतस्थिरे ।

पदे पदेऽश्वमेधस्य फलम् तेषाम् न सम्शयः ॥ १०७ ॥

ये तु पिण्डान् प्रयच्छन्ति पितृनुद्दिश्य तद्दिने ।

तरन्ति पितरस्तस्य कुयोनिष्वाश्रिता अपि ॥ १०८ ॥

वैशाखे मासि सम्प्राप्ते ध्वजारोहम् प्रकुर्वते ।

देवस्य नरसिम्हस्य गरुडाचलवासिनः ॥ १०९ ॥

ब्रह्मणा कल्पितम् पूर्वम् कमलोदरजन्मना ।

श्रुत्वा भगवतः साक्षात् तन्त्रम् वैपाञ्चरात्रकम् ॥ ११० ॥

कापिञ्जलविधानेन तीर्थम् वै लोकपावनम् ।

अद्यापि क्रियते सद्धिर्भक्त्या पूर्तैः स उत्सवः ॥ १११ ॥

तीर्थार्तमागतानाम् तु अन्नम् पानीयमेव वा ।

प्रयच्छन्त्यतिसन्तोषात् तेषाम् तु निलयाः शुभाः ॥ ११२ ॥

ये त्वावासम् प्रयच्छन्ति येत्वेवमुपकुर्वते ।

तेषाम् तु सुखदान् लोकान् प्रयच्छति नृकेसरी ॥ ११३॥

ये तु दानानि कुर्वन्ति हिरण्यादीन्यसङ्ख्यया ।

एकैकस्याक्षयो लोको भवत्येव न सम्शयः ॥ ११४ ॥

इत्येतत्सकलमुदीरितम् मुरारेः

अत्यन्तप्रवणमतेः स्वभावहेतोः ।

त्यक्त्वान्यद्भवरससम्भवम् प्रमोदम् भक्त्या तम् भजति नृकेसरि स्वरूपम् ॥ ११५ ॥

इत्येवमुक्ता हयमेधसः कथा:

श्रुत्वापि याः पामरताम् जहाति ।

आमन्त्र्य मोदेन च शौनकादीन्

ययौ स्वकम् धाम स नारदो मुनिः ॥ ११६ ॥

श्रावम् श्रावम् मुररिपुकथाः श्रोत्रपीयूषपूरान्

स्मारम् स्मारम् सकलसुखदम् भाषितम् नारदेन ।

सारम् सारम् हृदि मुनिजनाः कल्पवल्लीसमानाम्

वारम् वारम् भवहरभवम् वारिजाक्षम् भजन्ते ॥ ११७ ॥

देवो हरिर्दैत्यपतेर्निहन्ता

अहोबिलम् क्षेत्रमनुत्तमम् च ।

तीर्थम् च पुण्यम् भवतापमोचनम्

एतत्रयम् यस्य स वै महान् भुवि ॥ ११८ ॥

न प्रार्थनीयम् सुरराजवैभवम्

प्रजापतेर्वा पशुपालकस्य ।

यस्याधिवासो गरुडाचलेऽभूद्

द्रुमादिभिर्मोक्षपदेन किम् वा ॥ ११९ ॥

बाल्ये वयस्याप्तजने च पूर्णे

सर्वङ्कषे शास्त्रवरेषु चित्ते ।

त्यक्त्वा समस्तम् जयति क्रियार्थम्

कर्तव्यमेको   गरुडाद्रिवासः ॥ १२० ॥

न ब्रह्मचर्यम् नगरे निवासो

न काननस्थो न गृहे निवासः ।

तीर्थान्यनन्तानि वसन्तु लोके

वसन्तु वा भूधरनायकाश्च ॥ १२१ ॥

देवास्त्वनेके किटिवामनाद्याः

तथापिचित्ते न हि रोचनीयाः ।

तीर्थम् त्वमेयम् भवनाशिनीयम्

गिरिश्च वेदात्मक भूधरेन्द्रः ॥ १२२ ॥

देवो नृसिम्हो जगताम् निवासो

भवे भवे तिष्ठतु पावनाय ॥ १२३ ॥

इदम् महोपनिषदम् चतुर्वेदसमन्वितम् ।

आख्यानानाम् महाख्यानम् गुह्यानाम् गुह्यमुत्तमम् ॥ १२४ ॥

चतुर्मुखादिभिर्दृष्टम् नानार्थैरुपबृम्हितम् ।

अहौबिलनृसिम्हस्य माहात्म्यम् रोमहर्षणम् ॥ १२५ ॥

ऋषिभिर्बहुधा गीतम् नारदाद्यैर्मह॒र्षिभिः ।

धर्मार्थकाममोक्षाणामालयम् धर्मसञ्चयम् ॥ १२६ ॥

नास्तिकाय न वक्तव्यम् न चान्यगतचेतसे ।

अवेदान्तविदे चैव हरिम् वा योऽभ्यसूयति ॥

तद्भक्तान् सात्त्विकाम्श्चैव यस्तु विप्राम्श्च निन्दति ॥ १२७ ॥

श्रोत्रियाय सुशीलाय विष्णुभक्ताय् चैव हि ।

वक्तव्यम् सादरम् ह्येतन्माहात्म्यम् हयमेधसः ॥ १२८ ॥

इदम् तत्सर्वमाख्यातमाख्यानम् लोकपूजितम् ।

यः पठेच्छृणुयाद्वापि महद्भयः श्रावयिष्यति ॥

ते त्रयः परया भक्त्या विशन्ति परमाम् गतिम् ॥ १२९ ॥

य एतब्द्धरिमाहात्म्यम् लिखित्वा पुस्तकम् तु वै ।

ददाति भक्तिवर्यभ्यस्तस्य पुण्यमनन्तकम् ॥ १३० ॥

यद्गृहे पुस्तकम् चैतदर्चितम् गन्धधूपकैः ।

तद्गृहे भूतवेतालकूश्माण्डाद्याः सहस्रशः ॥

न शक्नुवन्ति तद् द्रष्टुम् स तु पुण्यवताम् वरः ॥ १३१ ॥

जयतु जयतु देवो देवतामौलिरत्नम्

जयतु जयतु नित्यः सच्चिदानन्दरूपः ।

जयतु जयतु देवः प्राणशैलाधिवासो

जयतु जयतु देवो नारसिम्हो मुकुन्दः ॥ १३२ ॥

न नारसिम्हादधिकश्च देवो

न तीर्थमन्यद्भवनाशहेतोः ।

न गारुडाद्रेरपरोऽस्ति शैलो

न भक्तजन्तोरपरोऽस्ति योगी ॥ १३३ ॥

लोके द्वयम् सारतमम् वदन्ति

विचार्यमाणे परमार्थ एव ।

विलोकनम् वा सुरसुन्दरीणाम्

आलोचनम् वा गिरिगह्वरेषु ॥ १३४ ॥

प्रमेयम् नृहरिः साक्षात् प्रमातारश्च सात्त्विकाः ।

प्रमाणम् वेदवचनम् जयत्वाचन्द्रतारकम् ॥ १३५ ॥

अहोमुचामात्मविदाम् मुनीनामनन्यसाधारणदेवतानाम् ।

हरि प्रियोत्पादनतत्पराणामहम् पदाम्भोरुहमाश्रयामि ॥ १३६॥

त्यक्त्वा समस्ताधनदारसुताम्श्च बालान्

त्यक्त्वा क्रियात्मक विमोचनसाधनानि ।

भक्त्या नृकेसरकथामृतसारमाशु

मर्त्या भजन्तु शुभया मधुकैटभारेः || १३७ ॥

॥ इति श्रीब्रह्माण्डपुराणे क्षेत्रकाण्डे श्रीमदहोबिलमाहात्म्ये

दशमोऽध्यायः ॥

॥ श्रीमदहोबिलमाहात्म्यम् सम्पूर्णम् ॥

——————————————

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.