श्रीमदहोबिलमाहात्म्यम् Part 2

श्रीः

श्रीमते रामानुजाय नमः

॥ श्रीमते श्रीलक्ष्मीनृसिम्हपरब्रह्मणे नमः ॥

॥ श्रीब्रह्माण्डपुराणे श्रीमदहोबिलमाहात्म्यम्

॥ श्रीमदहोबिलमाहात्म्ये प्रथमोऽध्यायः ॥

नारायणम् नमस्कृत्य नरम् चैव नरोत्तमम् ।
देवीम् सरस्वतीम् व्यासम् ततो जयमुदीरयेत् ॥
प्रणम्य परमात्मानम् परमानन्दकारणम् ।
प्रवक्ष्यामि यथापूर्वम् माहात्म्यम् हयमेधसः ॥ १ ॥

पुरा तु जाह्नवीतीरे मुनयः शौनकादयः ।
कृतात्मानः परप्रीत्या पप्रच्छुर्नारदम् मुनिम् ॥ २ ॥

भगवन् ज्ञानिनाम् श्रेष्ठ भवसन्तप्तचेतसाम् ।
उत्तारणकर प्राज्ञ सत्यसङ्कल्पवैभव ॥ ३ ॥

हिरण्यगर्भादमलादवतीर्णमहात्मनः ।
भूतभव्यभवत्कालजन्तुजालविनिर्णये  ॥ ४ ॥

समर्थ सकलातीत सर्वज्ञ ऋषिसत्तम ॥ ५ ॥

श्रुत्वा हिमवतः पार्श्वे सेतोरुत्तरतस्तटे ।
यानि तीर्थानि पुण्यानि दैवतायतनानि च ॥ ६ ॥

नद्यश्च गिरयश्चैव पुण्यान्युपवनानि च ।
तथा ह्रदाश्च पुण्यानि गुहागहनकाननम् ॥ ७ ॥
श्रीमुष्णम् वेङ्कटाद्रिश्च सालग्रामम् च नैमिषम् ।
तोताद्रिम् पुष्करम् चैव नरनारायणाश्रमम् ॥ ८ ॥
श्रीरङ्गम् वृषभाद्रिश्च नारायणगिरिस्तथा ।
अनन्तशयनम् बैल्वम् कुरङ्गम् मलयाचलम् ॥
कृतशौचहरम् पापम् सिम्हाद्रिश्चाप्यहोबिलम् ॥ ९ ॥

इत्येवमादयः सर्वे श्रुता वै ब्रह्मणो मुखात् ।
ततस्तु विस्तराद्वक्तुमेतन्माहात्म्यमुत्तमम् ॥ १० ॥
भगवान् वृषभः प्राह कपिलाय महात्मने ।
कपिलः पुरुकुत्साय पुरुकुत्सोऽङ्घ्रिचक्षुषे ॥ ११ ॥
तत्राहोबिलमाहात्म्यमत्यद्भुतमुदाहृतम् ।

अस्माभिः सावधानैस्तु न श्रुतम् कर्मचोदितैः ॥ १२ ॥
इदानीम् श्रोतुमिच्छामो विस्तरेण महामते ।
माहात्म्यम् देवदेवस्य क्षेत्रस्य हयमेधसः ॥ १३ ॥
न प्रीतिराश्रमाचारे न प्रीतिर्गृहकर्मणि ।
न प्रीतिः परचिन्तायाम् न प्रीतिः सुखवर्धने ॥ १४ ॥
तृष्णार्तस्तु यथा तोयम् क्षुधार्तो भुक्तमादरात् ।
यथा गृह्णन्ति तद्वच्च माहात्म्यम् हयमेधसः ॥ १५ ॥
त्वम् तु कल्यः कविर्दक्षः परार्थैकप्रयोजनः ।
कृतार्थान् कुरु नो मौने वचोगुम्भैरनुत्तमैः ॥ १६ ॥
एतञ्छ्रुत्वा तु वचनम् परमम् रोमहर्षणम् ।

प्रसन्नवदनः प्राह भगवान् नारदो मुनिः ॥ १७ ॥
श्रीनारदः –
शृणुध्वम् मुनयः सर्वे शौनकात्रिपुरोगमाः ।
क्षेत्राण्यन्यानि सन्त्येव लोके पुण्यतराणि वै ॥ १८ ॥
पुरुषार्थेकभूतानि निर्मितानि स्वयम्भुवा ।
तैषाम् नामानि सङ्ख्यातुम् माहात्म्यम् च न शक्यते ॥ १९ ॥
तथापि श्रूयताम् किञ्चित् प्रीत्या चैव वदामि वः ।
अवन्ती च कुरुक्षेत्रम् काशी बदरिकाश्रमम् ॥ २० ॥
गया प्रयाग केदारम् देवदारुवनानि च ।
एतेषामुत्तमम् क्षेत्रम् प्रयागम् लोकपावनम् ॥ २१ ॥
दशतीर्थसहस्राणि तिस्रः कोट्यस्तथा पराः ।
समागच्छन्त्यमायाम् वै प्रयागे मुनिसत्तमाः ॥ २२ ॥
अहोबिलनृसिम्हस्य समन्ताद् योजनत्रयम् ।
गयाप्रयागकाशिभ्यः सत्यम् शतगुणाधिकम् ॥ २३ ॥
गयाम् गच्छेत् पितृप्रीत्यै तनुत्यागाय जाह्नवीम् ।
काशीम् तारोपदेशाय एभिस्त्रिभिरहोबिलम् ॥ २४ ॥
काश्याम् युगसहस्राणि प्रयागे युगविम्शतिः ।
गयाम् युगशतम् चैव वसेद्दिनमहोबिले ॥ २५ ॥
गयायामयुतम् भुक्तम् प्रयागे लक्षभोजनम् ।
काश्याम् चैव द्विलक्षम् तु ग्रासमेकमहोबिले ॥ २६ ॥
अहोबिलार्पितद्रव्यमणुमात्रमपि द्विजाः ।

तद् द्रव्यम् मेरुणा तुल्यम् वर्धते वटबीजवत् ॥ २७ ॥
पञ्चानामपि पापानाम् पञ्चकोऽयम् महामनुः ।
प्रातरुत्थाय वक्तव्यमहोबिलमहोबिलम् ॥ २८ ॥
अहोबिलमिति ह्येतञ्चतुरक्षरमुत्तमम् ।
चतुर्वर्गफलाकारम् चतुराननपूजितम् ॥ २९ ॥
योजनत्रयविस्तीर्णम् योजनत्रयमायतम् ।
वीरक्षेत्रमिति ख्यातम् नृसिम्हस्याभिमानतः ॥ ३० ॥
यस्मिन् वसन्ति मुनयो वीतरागा भयद्रुहः ।
कृतात्मानः कृतावासा नारायणपदाम्बुजे ॥ ३१ ॥
अम्बक्षा वायुभक्षाश्च निराहाराश्च केचन ।
जटिलाश्चैव मुण्डाश्च साधारणपरिग्रहाः ॥ ३२ ॥
तथा शब्दे च निष्णाता ब्रह्मण्यानन्दरूपिणि ।
अमाययात्मव्यक्त्या च तोषयन्तो जगद्गुरुम् ॥ ३३ ॥
सर्वतो मनसोऽसङ्गम् कुर्वन्तः साधुसङ्गमम् ।
दयाम् मैत्रीम् प्रश्रयम् च कुर्वन्तो जन्तुराशिषु ॥ ३४ ॥
ब्रह्मचर्यम् समत्वम् च मौनम् स्वाध्यायमार्जवम् ।
शौचम् तपस्तितिक्षाम् च सर्वत्वम् च सहिष्णुताम् ॥ ३५ ॥
सर्वत्रात्मेश्वरान्वीक्षाम् कलयन्तोऽमलाशयाः ।
विविक्तचीरवसनाः सन्तुष्टा येन केन च ॥ ३६ ॥
मनोवाक्कायदण्डम् च सत्यम् शमदमावपि ।
श्रवणम् कीर्तनम् ध्यानम् नृहरेः प्रियमित्यतः ॥ ३७ ॥
सम्पादयन्तो यद्दत्तमिष्टम् यज्जप्तमात्मनः ।
दासान् सुतान् गृहान् प्राणान् परेशायेति चिन्तकाः ॥३८॥
अनन्ययाजिनः सर्वे सदा कैवल्यचिन्तकाः ।
तस्मिन् क्षेत्रे महाशैलो गरुडाद्रिरिति श्रुतः ॥ ३९ ॥
योजनत्रयविस्तीर्णम् योजनत्रयमायतम् ।
वीरक्षेत्रमिति ख्यातम् नृसिम्हस्याभिमानतः ॥ ४० ॥
उच्छ्रितैः शृङ्गनिचयैः चलद्भास्करचन्द्रमाः ।
दूरादालक्ष्यते शृङ्गैर्दुःखसागरसेतुभिः ॥ ४१ ॥
मेरुवत् प्रकटाकारम् कश्चिच्छृङ्गस्तु लक्ष्यते ।
तच्छायाचलनम् नास्ति मुक्तानाम् पदवी यथा ॥ ४२ ॥
हिरण्यकशिपोः पूर्वमसुराणाम् महीयसः ।
गृहस्य स्तम्भभूतोऽयम् कालादचलताम् गतः ॥ ४३ ॥
अद्यापि दृश्यते तत्र मध्यदेशे हरिः स्वयम् ।
ज्वालाऽऽकारोनृसिम्होऽयमयुतार्कसमप्रभः ॥ ४४ ॥
हिरण्यकशिपोस्तत्र वक्षःपीठम् व्यदारयत् ।
नखैर्दम्भोळिसङ्काशैर्नाकिप्रीतिकरैः शुभैः ॥ ४५ ॥
तत्र देवः क्षालितवान् करपङ्केरुहद्वयम् ।
रक्तकुण्डमिति ख्यातम् मध्यदेशे विराजितम् ॥ ४६ ॥
न वायुना नातपेन कतिचित् क्षीयते जलम् ।
ये तु तज्जलमालोक्य नृसिम्हम् सम्स्मरन्ति वै ॥ ४७ ॥
ते रक्तमिश्रिताम् योनिम् न यान्ति हि कदाचन ।
अस्य चोग्रस्य देवस्य शान्त्यर्थम् देवतागण: ॥ ४८ ॥
गङ्गाम् त्रिपथगान्नीय स्नापयामास सादरम् ।
सा पश्चिमाभिमुखतः प्रवहन्त्यतिभीषणा ॥ ४९ ॥
भवसन्तापहरणात् तन्नामा भवनाशिनी ।
ऋषयो निश्चयम् चक्रुः निर्मलाञ्चप्रभावतः ॥ ५० ॥
अस्य गारुडशैलस्य शतयोजनसम्मिते ।
मुनयो दक्षभागे तु ये विशेषा महीयसः ॥ ५१ ॥
भूधरस्योत्तरे भागे योजनद्वयसम्मि॒ते ।
नन्द्याश्रमम् महापुण्यम् यत्र वै नन्दिकेश्वरः ॥ ५२ ॥
शिवमुद्दिश्य भगवान् तपस्तेपे सुदारुणम् ।
ततः प्रसन्नो भगवान् शिवस्त्रैलोक्यपूजितः ॥ ५३ ॥
प्रमथानामाधिपत्यम् दत्वा तन्नाम तत्सरः ।
भूमिम् विभज्य हर्षेण शिवः सान्निध्यमातनोत् ॥ ५४ ॥
तस्य चोत्तरभागे तु श्रीशैल इति विश्रुतः ।
गरुडाचलभागोऽयम् गहनो देवदानवैः ॥ ५५ ॥
यत्र प्रीतिम् हरश्चक्रे हित्वा रजतभूधरम् ।
स्वयम्भूस्तत्र देवोऽयम् वरदोऽद्यापि दृश्यते ॥ ५६ ॥
तत्र कृष्णा प्रवहति लोककण्ठकलोपिनी ।
सावधिः पर्वतस्यास्य ततः प्रत्यन्तपर्वताः ॥ ५७ ॥
ये के चात्र स्थिताः पुण्या नद्यो भूधरकन्दराः ।
सिद्धाश्रमाः सुरावासा यक्षा गन्धर्वकिन्नराः ॥ ५८ ॥
वैभवान्नारसिम्हस्य सर्वे पूज्यतमा भुवि ।
ऋषयः –
कुत्रेदम् पावनम् क्षेत्रम् यत्र वै गरुडाचलः ।
विस्तीर्णस्यास्य शैलस्य कथमेकत्र वैभवः ॥ ५९ ॥
श्रीनारदः –
पञ्चाशत्कोटिविस्तीर्णा धरणी हरिवल्लभा ।
द्वीपैः समुद्रैः सहिता सप्तभिश्च शिलोच्चयैः ॥ ६० ॥
तस्याम् पृथिव्याम् द्वीपेषु जम्बूद्वीपमनुत्तमम् ।
कर्मभूमिर्यतो लोके साधकत्वान्महत्तमा ॥ ६१ ॥
तस्मिन् द्वीपे महाभागे खण्डे भरतसञ्ज्ञिके ।
मेरोर्दक्षिणभागे तु कृष्णवेण्याश्च दक्षिणे ॥ ६२ ॥
सप्तयोजनमात्रे तु पूर्वाम्भोधेस्तु पश्चिमे ।
अहोबिलम् तु विख्यातम् भागे वै सप्तयोजने ॥ ६३ ॥
तस्मिन्नहोबिलक्षेत्रे गरुडाद्रिरिति श्रुतः ।
यथा भगवतो व्यक्तिः परिपूर्णस्य सर्वतः ॥ ६४ ॥
एकत्र दृश्यते तद्वत् गरुडाचलसञ्ज्ञितः ।
एवम् क्षेत्रस्य नामेदम् पर्वतस्यास्य विश्रुतम् ॥ ६५ ॥
नानादृमलताकीर्णम् नानापक्षिनिषेवितम् ।
तरुभिश्चम्पकैस्तालैस्तमालैर्हेमभूरुहैः ॥ ६६ ॥
अशोकैस्तिलकैर्नागैर्नालिकैरैर्नभोगतैः ।
भूनिम्बैश्च कदम्बैः खर्जूरैः केतकीदृमैः ॥ ६७ ॥
पनसैः पाटलैश्चूतैः फलपुष्पविभूषितैः ।

पारिभद्रैः कदम्बैश्च सालैः सरलभूरुहैः ॥ ६८ ॥
करञ्जस्तिन्त्रणीभिश्च कपित्थैः पिप्पलदृमैः ।
चन्दनैः पनसैः काण्डैः सदा पुष्पलतान्वितैः ॥ ६९ ॥
शुकशारिमयूरादिकोकिलालापसम्युतैः ।
मरन्दपानादुन्मत्तभ्रमरैरुपशोभितम् ॥ ७० ॥

मदोन्मत्तैर्नीलमेघसङ्काशैर्गजपङ्क्तिभिः ।
परितः शोभमानोऽयम् मृगेन्द्ररुग्रकर्मभिः ॥ ७१ ॥
सारङ्गैः शरभैरुष्ट्रैर्भल्लूकैगौमृगैः शतैः ।
मृगधूर्तैर्मृगैरन्यैः फणिभिर्मणिशोभितैः ॥ ७२ ॥
कारण्डैः कलहम्सैश्च नीलकण्ठैर्मनो॒हरैः ।
नीलाञ्चनसमप्रख्यैघोर्रैः परमदारुणैः ॥ ७३ ॥
धनुर्बाणधरैर्म्लेच्छैः स्त्रीयुक्तैरुग्रदर्शनैः ।
शोभितः सर्वजन्तूनाम् रक्षणोपायदक्षकः ॥ ७४ ॥
मुनीन्द्रैः सेवितो नित्यम् सदानुष्ठानतत्परैः ।
भूसुरैर्भासितालापैः गुरुपूजापरायणैः ॥ ७५ ॥
क्रीडद्भिरप्सरोभिश्च सेवितः सर्वकामदः ।
महाशैलस्य माहात्म्यम् वक्तुम् वर्षशतैरपि ॥ ७६ ॥
न शक्यम् ब्रह्मणा वापि किम् पुनर्मादृशैर्जनैः ।
शैलस्य दक्षिणे भागे दशयोजनसम्मिते ॥ ७७ ॥
वेङ्कटाख्यो महाशैलो यत्रास्ते भगवान् हरिः ।
सेवितो नित्यमुक्तैश्च ऋषिभिश्च महात्मभिः ॥ ७८ ॥
एवमामलयाच्छैलो विस्तृतो गरुडाभिधः ।
एतद्वः सर्वमाख्यातम् यथासान्त्वम् सुभाषितम् ॥ ७९ ॥


॥ इति श्रीब्रह्माण्डपुराणे क्षेत्रकाण्डे

श्रीमदहोबिलमाहात्म्ये प्रथमोऽध्यायः

॥ श्रीः ॥
॥ श्रीमते लक्ष्मीनृसिम्हपरब्रह्मणे नमः ॥
॥ श्रीमदहोबिलमाहात्म्ये द्वितीयोऽध्यायः ॥

ऋषयः
भगवन् तपसाम् श्रेष्ठ नारदानादिपूरुष ।
कथमस्य तु शैलस्य नामासीद् गरुडाचलः ॥ १ ॥
श्रीनारदः
शृणुध्वम् मुनयः सर्वे सावधानमिदम् वचः ।
पुरा कृतयुगे पुण्ये गरुडो विनतासुतः ॥ २ ॥
तपश्चर्तुम् मनः कुर्वन् पितरम् वाक्यमब्रवीत् ।
केनोपायेन भगवन् सर्वेषामिष्टसम्भवः ॥ ३ ॥
को वा पूरयिता लोके मनोरथशतस्य तु ।
त्वम् हि नो जनकः साक्षाद् गुरुराचार्य एव च ॥ ४ ॥
यद्धितम् ब्रूहि मे तत्त्वम् नान्यम् पश्याम्यहम् गतिम् ।
अनाथम् कृपणम् मूढम् मग्नम् सम्सारसागरे ||
उपदेशप्रदानेन समुद्धर्तुमिहार्हसि ॥ ५ ॥

कश्यपः
ये भवार्णवसम्मग्नाः विषयाक्रान्तचेतसाः ।
आराधनीयस्तैः सर्वैर्विष्णुरेव महीतले ॥ ६ ॥
स एव तेषामुद्धर्ता नान्योऽस्ति विनतासुत ।
तस्माज्जगत्पतिम् विष्णुम् तमाराधय सुव्रत ॥ ७ ॥
अनाराध्य हरिम् भक्त्या को लोकान् कामयेद् बुधः ।
हरावाराधिते तस्मिन् सुलभाः सर्वसम्पदः ॥ ८ ॥
यमाराध्य चतुर्वक्त्रः कृतवान् सृष्टिसम्भवम् ।
यद्भक्त्या देवराजत्वम् पुरुहूतस्तदाप्तवान् ॥ ९ ॥
सम्स्मृतः पूजितो धार्यो यः पुम्साम् भवहानिदः ।
स ते श्रेयः करोत्येव यदि भक्तिः सुनिश्चला ॥ १० ॥
न तथा विविधैर्यज्ञैर्न पुष्पैर्नानुलेपनैः ।
आराध्यते यथाभक्त्या विष्णुर्लोकनमस्कृतः ॥ ११ ॥
नाश्वमेधसहस्राणाम् सहस्रैरपि स प्रभुः ।
तुष्यते खगवर्यैवम् यथाभक्त्या जनार्दनः ॥ १२ ॥
न वेदैर्न तपोभिर्वा सन्तप्तैर्विविधैः प्रभुः ।
तुष्टिम् याति नृसिम्होऽयम् यथाभक्त्या जगत्पतिः ॥ १३ ॥
निष्किञ्चना ये ऋषयो भक्त्याराध्य जगत्पतिम् ।
यथा मुक्तिम् द्विजश्रेष्ठ धर्मार्थे च यथा परैः ॥ १४ ॥
यस्येश्वरे न भक्तिः स्यात् तम् विद्यात् पुरुषाधमम् ।
नाधीतवेदशास्त्रेऽपि न कृताध्वरविस्तरः ॥ १५ ॥
यो भक्तिम् कुरुते विष्णौ तेन सर्वम् कृतम् भवेत् ।
स्वाधीने चक्षुषि श्रोत्रे वाचा कायेन यो नरः ॥ १६ ॥
न पश्यति हरेर्मूर्तिम् तत्कथाम् न शृणोति यः ।
न वदेत गुणान् वापि तत्पूजाम् न करोति वा ॥ १७ ॥
स नरः पक्षिराजेह वृथा जीवति केवलम् ।
स्मर्यते न च सर्वात्मा विष्णुस्तन्नाम नानघे ॥ १८ ॥
स्तौति विष्णुम् यया वाचा सा वागित्यभिधीयते ।
श्रोत्रे ते तद्गुणा याभ्याम् श्रूयन्ते खगनायक ॥ १९ ॥
तावेव तु करौ यौ तु हरिपूजापरायणौ ।
यत्र क्वापि हरेर्मूर्ति प्रतिमाम् लक्षणान्विताम् ॥ २० ॥
आदरेण न पश्येद् यः सोऽन्ध इत्यभिधीयते ।

 ऋग्यजुःसामगाथाभिः श्रुतिभिः सेतिहासकैः ॥ २१ ॥
न स्तौति देवदेवेशम् यः स मूढोऽभिधीयते ।
न शृणोति गुणान् वापि लीला नरमृगात्मनः ॥ २२ ॥
स नरो बधिरो ज्ञेयः सर्ववेदबहिष्कृतः ।
तस्मात् त्वम् शुद्धभावस्तु मनोवाक्कायकर्मभिः ॥ २३ ॥
आराधयन् हृषीकेशम् मनोनयननन्दनम् ।

तदा सुकुसुमैर्गन्धैः कर्पूरागरुचन्दनैः ॥ २४ ॥
सुवस्त्रैरर्चितो भक्त्या यथा देवो नृकेसरी ।
तस्मात् त्वम् सात्त्विको भूत्वा भक्तिम् कृत्वा तु निश्चलाम् ॥ २५ ॥
भज पापहरम् देवम् नारायणमनामयम् ।
स ते समस्तभूतात्मा सम्सारोच्छित्तये हरिः ॥ २६ ॥
भवत्यव्याहतैश्वर्यो भक्त्या सम्पूजितोऽनघः ।
श्रुत्वा सुभाषितम् तस्य कश्यपस्य महात्मनः ॥ २७ ॥
ननाम शिरसा भूमौ गरुडः पतगेश्वरः ।
उत्थाय च पुनः प्राह भगवन्तम् मुनीश्वरम् ॥ २८ ॥
तव वाक्येन ज्ञातोऽहम् कृतार्थो ह्यधुना मुने ।
पिता मम तव प्रेष्यः भूयो भूयोऽनुशाधि माम् ॥ २९ ॥
दर्शनात् तव वै ब्रह्मन् कृतार्थोऽस्मि न सम्शयः ।
कश्यपः
आराधय जगन्नाथमखिलाधारमच्युतम् ।

सर्वभावेन देवेशम् शरणम् गच्छ पुत्रक ॥ ३० ॥
भक्त्या त्वनन्यया पूज्यः पूजितः सर्वदो हरिः ।
किम्नाम दुर्लभम् लोके प्रसन्ने पुरुषोत्तमे ॥ ३१ ॥
गरुडाचलचेतास्त्वम् तपसे कृतनिश्चयः ।
अहोबिलमाहाक्षेत्रम् सर्वपापविनाशनम् ॥ ३२ ॥

साक्षादधिष्ठितम् प्रीत्या हरिणालोकेधरिणा ।
तत्र शैलो महानास्ते गुहाशत समन्वितः ॥ ३३ ॥
स तु नारायणाख्यस्तु शैलशृङ्गः समुच्छ्रितः ।
तपसस्तव माहात्म्यात् गरुडाद्रिर्भविष्यति ॥ ३४ ॥
श्रीनारदः

इत्युक्त्वा पुत्रमालिङ्ग्य कश्यपो गरुडम् तथा ।
प्रेषयामास तपसे ह्याशीर्भिः पूरयन् सुतम् ॥ ३५ ॥
सोऽपि गत्वा महाशैलम् गरुडः पतगेश्वरः ।
तूष्णीम् बभूव मनसा न किञ्चिदपि चिन्तयन् ॥ ३६ ॥
पर्वतोऽयम् सुविस्तीर्णम् तपः कुत्र चरामि वै ।
सिद्धिक्षेत्रम् कथम् ज्ञास्ये किम् वा निर्णयकारणम् ॥ ३७ ॥
इत्येवम् चिन्तयानस्य पुरतो वाक्यमुत्थितम् ।
किम् चिन्तयसि वै बाल गरुडामरपूजित ॥ ३८ ॥
इदम् क्षेत्रम् नृसिम्हस्य अहोबिलमिति श्रुतम् ।
अत्रायम् भूधरेन्द्रस्तु सुरगन्धर्वसेवितः ॥ ३९ ॥
ऋषयः पितरश्चैव सिद्धगन्धर्वमानुषाः ।
अत्रेप्सितफलम् प्राप्ता नृसिम्हस्य प्रसादतः ॥ ४० ॥
तस्मात् त्वमपि शुद्धात्मा जिताहारो जितेन्द्रियः ।
ध्यायस्व जगतामीशम् स ते श्रेयो विधास्यति ॥ ४१ ॥
इत्युक्त्वा तु महावाणी विरराम क्षणान्तरे ।
गरुडोऽपि विशुद्धात्मा परम् विस्मयमागतः ॥ ४२ ॥
तमर्थम् चिन्तयामास इदम् वाक्यम् पुनः पुनः ।
कथमेतदिदम् वाक्यमकारणसमुद्भवम् ॥ ४३ ॥
मम भाग्यप्रभावो वा प्रभावो वा हरेः स्वयम् ।
क्षेत्रस्य वाथ शैलस्य देवदेवस्य वा गुरोः ॥ ४४ ॥
एवम् वै चिन्तयानस्तु सन्तुष्टः पूर्णमानसः ।
तपश्चर्तुम् मनश्चक्रे भूधरस्य तटान्तरे ॥ ४५ ॥
तीरे तु भवनाशिन्याः गजकुण्डसमीपतः ।
आराधयन् जगन्नाथमनन्तम् पुरुषोत्तमम् ॥ ४६ ॥
जजाप च परम् ब्रह्म द्वादशाक्षरमुत्तमम् ।
केवलम् मौनमास्थाय वायुभक्षो जितेन्द्रियः ॥ ४७ ॥
चिन्तयामास गोविन्दम् द्विजः शुद्धेन चेतसा ।
तस्यैवम् चिन्तयानस्य हृदिस्थो भगवान् हरिः ॥ ४८ ॥
अरक्षत् सकलापत्सु नृहरिर्भक्तवत्सलः ।
स्तुतिसङ्कीर्तनादेव सम्यक्तत्त्वविचिन्तनात् ॥ ४९ ॥
पूजनाञ्च तपोवृद्धिरभूत् तस्य महात्मनः ।
पूर्वार्जितम् च यत् पापमिह जन्मनि वा पुनः ॥ ५० ॥
तत्सर्वम् लयमापन्नम् नृसिम्हस्य प्रभावतः ।
चिन्तिते तु जगन्नाथे मुक्तिरेव करस्थिता ॥ ५१ ॥
तस्मिन्नासक्तचित्तानाम् का चिन्ता वृजिनक्षये ।
एवम् हि सङ्क्षयात् तस्य शुद्धे मनसि चिन्तया ॥ ५२ ॥
सर्वव्याप्तोऽपि सर्वेशस्तत्रैवाभूज्जगद्गुरुः ।
एवम् तपसि तिष्ठन्तम् सर्वाधारमनामयम् ॥ ५३ ॥
वहन्तम् चेतसा विष्णुमुद्दोढुम् न शशाक भूः ।
शैलकाननसम्पूर्णा चचाल पृथिवी तदा ॥ ५४ ॥
क्षोभम् गताः समुद्राश्च दिग्विभागो न शोभते ।
पुरुहूतमहादेवा भयम् प्राप्ता महत्तरम् ॥ ५५ ॥
तपसस्तस्य माहात्म्यान्न लोका लेभिरे सुखम् ।
तत उद्विग्नचित्तस्तु चिन्तयानः पुरन्दरः ॥ ५६ ॥
परितोऽप्सरसः प्रेक्ष्य उर्वशीम् प्राह गर्विताम् ।
भो भो शाधि महाभागे देवकार्यार्थनिर्मिते ॥ ५७ ॥
शीघ्रम् याहि ममादेशात् यत्रास्ते गरुडो मुनिः ।
विलासैर्विविधैर्स्तस्य निष्ठाम् भञ्जय सुव्रते ॥ ५८ ॥
ब्रह्मा विष्णुश्च रुद्रश्च मोहमापुः सविस्मयाः ।
मानवा मुनिशार्दूलाः स्मृत्वा ते मुखचन्द्रिकाम् ॥ ५९ ॥
मोहम् गता मुनीन्द्राश्च किमन्ये तु पृथग्जनाः ।
इत्युक्ता प्रेषिता तेन पुरुहूतेन कुट्टनी ॥ ६० ॥
आजगाम मुहूर्तेन योषाशतसमावृता ।
गत्वा सा सुमहात्मानम् तपसा रूढचेतसम् ॥ ६१ ॥
उर्वशी मधुरालापैर्गरुडम् वाक्यमब्रवीत् ।
पश्य मामगताम् स्वर्गात् पतगेन्द्र सविस्मयम् ॥ ६२ ॥
पुरन्दरेण प्रहितामुर्वशीम् नामविश्रुताम् ।
क्षणेनैतेत् क्षणार्धेन यदस्ति सचराचरम् ॥ ६३ ॥
सर्वम् स्ववशमानेतुम् समर्था लोकविश्रुता ।
मद्दृष्टिगोचरा ये तु विमुक्ताऽशेषबन्धवाः ॥ ६४ ॥

मुमुक्षव इवाभान्ति रसान्तरपराङ्मुखाः ।
ब्रह्मन् यदस्ति वा लोके हित्वा रूपवतीः स्त्रियः ॥ ६५ ॥
परमानन्दकारिण्यः प्रजानाम् सृष्टिहेतवः ।
योषितो न कथम् ब्रह्म परचिन्ता परार्थके ॥ ६६ ॥
ब्रह्मेति कीर्तिते लोके जन्मना जडचेतसाम् ।
विविक्तचेतसो लोका जानन्त्येवामृतम् परम् ॥ ६७ ॥
यस्तु योषामृतम् त्यक्त्वा परमस्तीति मन्यते ।
लब्धम् त्यक्त्वा धनम् मूढो गुप्तमन्वेति च क्षितौ ॥ ६८ ॥
अहो बत महत् कष्टम् विपरीतमिदम् जगत् ।
सुखदुःखम् न जानाति दुःखेष्वेव प्रवर्तते ॥ ६९ ॥
अपरोक्षम् तु योषायाः रूपम् त्यक्त्वान्यदिच्छति ।
करस्थमुदकम् त्यक्त्वा घनस्थमभिवाञ्छति ॥ ७० ॥
इत्येवम् सादरालापैः शतशोऽथ सहस्रशः ।
मोहयामास तनयम् कश्यपस्य महात्मनः ॥ ७१ ॥
एतच्छ्रुत्वा तु वचनम् असदालापसम्युतम् ।
अपार्थकमनर्थम् च परलोकविदूषकम् ॥ ७२ ॥
शृण्वताम् पापजनकम् श्रुतिमार्गविदूषकम् ।
किञ्चिन्नोवाच गरुडः कृष्णसम्सक्तमानसः ॥ ७३ ॥
पुनः प्रोवाच दयया अनादरपुरस्सरम् ।
गच्छ त्वम् धूर्तवनिते विफलस्ते मनोरथः ॥ ७४ ॥
गिरयो वर्षधाराभिर्हर्न्यमाना यथा व्यथाम् ।
नाप्नुवन्ति तथा दुःखम् हरिसम्सक्तचेतसः ॥ ७५ ॥
क्वा वाच्युतसमासक्तचेतसाम् सात्त्विकोदयः ।
क्व वा दिङ्मूढमनसः प्रीतयो दारसङ्ग्रहः ॥ ७६ ॥
अत्यन्तस्तिमिताङ्गानाम् ह्यायामेन सुखैषिणाम् ।
भ्रान्तज्ञानवताम् पुम्साम् प्रहारोऽपि सुखायते ॥ ७७ ॥
चर्माऽसृङ्माम्समेदोऽस्थिमज्जाशोणोपसम्हतौ ।
देहेस्मिन् प्रीतिमान् मूढो भविता नरकेऽपि सः ॥७८ ॥
स्नेह्यन्ति योषितः काम्श्चित् काम्श्चिद्विभ्रमयन्ति च ।
तेषाम् वापि प्रियम् केन कुतेस्तासाम् विनिर्णयः ॥ ७९ ॥
इत्येवम् ताम् विनिर्भर्त्स्य उर्वशीम् कश्यपात्मजः ।
पुनर्ध्यायन् हरेः पादौ निश्चलोऽभूद्विजोत्तमः ॥ ८० ॥
सा तु व्रीडानम्रमुखी गत्वा तु त्रिदशालयम् ।
पुरन्दरम् नमस्कृत्य वचनम् चेदमब्रवीत् ॥ ८१ ॥
भगवन् देवदेवेश ! भवता प्रेषितास्म्यहम् ।
तपोलोके ब्रह्मलोके लोके वा हयमेधसः ॥ ८२ ॥
पाताले वापि यत्कार्यम् साधयामि न सम्शयः ।
अत्र मे कुण्ठिता शक्तिरनर्हे पापकर्मणि ॥ ८३ ॥
कथम् बन्धयितुम् शक्यः मत्तेभो बिसतन्तुना ।
कथम् चण्डप्रभावस्तु तमसा क्षीयते रविः ॥ ८४ ॥
कथम् वा बडवाग्निस्तु समुद्रैरभिभूयते ।
कथम् मण्डूकघोषेण समुद्रे क्षीयते रवः ॥ ८५ ॥
ब्रह्मण्यासक्तचित्तानाम् विवेकामलचेतसाम् ।
केन वा शक्यते लोके हृदयस्य विमर्दनम् ॥ ८६ ॥
न सुरालयकाङ्क्षी च नामरेन्द्रपदम् प्रियम् ।
नचापि ब्रह्मपदवीम् साभिलाषी तपोधनः ॥ ८७ ।।
केवलम् हरिपादाब्जदर्शनोत्कण्ठमानसः ।
एतत्सर्वम् मया ज्ञातम् दृष्ट्वा रूपम् महात्मनः ॥ ८८ ॥
इत्येवम् बहुधा वाक्यैर्दुःखसन्तापजम् भयम् ।
उर्वशी पुरुहूतस्य श्रावयामास कुट्टिनी ॥ ८९ ॥
गरुडोऽपि विशुद्धात्मा चिन्तयन् पुरुषोत्तमम् ।
नान्यद् वै मेरुसङ्काशम् फलम् किञ्चिदचिन्तयत् ॥ ९० ॥
ततः प्रसन्नो भगवान् शङ्खचक्रगदाधरः ।
चतुर्भुजश्चतुर्वक्त्रः पुरन्दरनिषेवितः ॥ ९१ ॥
शारदाम्भोजसदृशः पुण्डरीकनिभेक्षणः ।
सहस्रसूर्यद्युतिना किरीटेन विराजितः ॥ ९२ ॥
सुनासया समायुक्तः नीलकुञ्चितमूर्धजः ।
चारुपल्लवसङ्काशः मृणालज्वलिताधरः ॥ ९३ ॥
कम्बुग्रीवो विचित्राङ्गः कुण्डलद्वयमण्डितः ।
कौस्तुभालङ्कतोरस्कः श्रीवत्सेन समाश्रितः ॥ ९४ ॥
हारी हारयुतः श्रीमान् केयूरविलसद्भुजः ।
विचित्रवलयानम्र अङ्गुलीवरभूषितः ॥ १५ ॥
नीलमेघप्रतीकाशो भातः पीतेन वाससा ।
तारामण्डलसम्युक्तः शशीव पुरुषोत्तमः ॥ ९६ ॥
कनकाचलमध्यस्थः अद्रिराज इवापरः ।

अनन्ताद्यैः सुरगणैरमलैरुपसेवितः ॥ ९७ ॥
वैनतेयस्य पुरतः कृत्वा सन्नाहसम्पदम् ।
इदम् प्रोवाच भगवान् श्लक्ष्णम् वचनमुत्तमम् ॥ ९८ ॥
भो भो बालिश कल्याण विनतानन्दवर्धन ।
तुष्टोऽहम् तपसोग्रेण तव साहसकर्मणा ॥ ९९ ॥
उत्तिष्ठोत्तिष्ठ कार्यम् ते किमर्थम् विनतासुत ।
किम् तेऽभिलषितम् ब्रूहि सर्वम् ते करवाण्यहम् ॥ १०० ॥

श्रीनारदः
एतच्छ्रुत्वा वचस्तस्य साक्षाद् भगवतो हरेः ।
गरुडः प्रणनामोच्चैः शतशोऽथ सहस्रशः ॥ १०१ ॥
उत्थायोत्थाय तम् दृष्ट्वा प्रणम्य च पुनः पुनः ।
अपूर्वम् रूपमालोक्य विस्मयोत्फुल्ललोचनः ॥ १०२ ॥
पुलकाङ्कितसर्वाङ्गः वासुदेवमथास्तुवत् ।
नमस्ते जगताम् स्रष्ट्रे जगद्रूपाय शाश्वते ॥ १०३ ॥

रक्षकाय नमस्तेऽस्तु लयस्थाय च सम्हृते ।

नमः कार्यस्वरूपाय  कारणाय नमो नमः ॥ १०४ ॥
पुरुषोत्तमाय नमः परेशाय नमो नमः ।
रूपभेदेन सकलमाक्रान्ताय नमो नमः ॥
नमोऽस्तु शार्ङ्गसिगदाशङ्गचक्रधाराय च ॥ १०५ ॥

नमोऽस्तु ते पद्मदळायताक्ष नमोऽस्तु ते भक्तजनानुकम्पिनम् ।

नमोऽस्तु ते सर्वजगन्निवास नमोऽस्तु ते कारणकारणात्मन् ॥ १०६ ॥
स्वयम्भुवस्ते विभवम् स्तोतुम् कस्यापि निश्चयः ।
क्वाहमत्यन्तदुर्बुद्धिः कथम् स्तोष्ये जगद्गुरो ॥ १०७ ॥
किम् वा स्तोतुम् देवदेव कथम् जिह्वा प्रवर्तते ।
चतुर्मुखायुर्यदि कोटिवक्त्रः भवेन्नरः क्वापि विशुद्धचेताः ।
स ते गुणानामयुतैकदेशम् वदेन्नवा देववर प्रसीद ॥ १०८ ॥
आयुरारोग्यमर्थाश्च भोगाम्श्चैवानुषङ्गिकान् ।
ददाति ध्यायिनाम् नित्यमपवर्गप्रदो हरिः ॥ १०९ ॥
देवत्वम् मनुजैः कैश्चिद् गन्धर्वत्वम् तथा परैः ।
यक्षत्वमपि सिद्धत्वम् त्वामाराध्य प्रपेदिरे ॥ ११० ॥
इन्द्रः क्रतुशतेनेश समाराध्य जगद्गुरुम् ।
देवेन्द्रत्वम् गतस्तस्मान्नान्यः पूज्यतमः क्वचित् ॥ १११ ॥
आराध्य त्वाम् विदेहानाम् पुरुषाः सप्तसन्ततिः ।
हेहयानाम् च पञ्चाशदाममृतत्वमुपागताः ॥ ११२ ॥
योऽर्थम् विपुलमाकाङ्क्षी त्वामाराध्य जगत्पते ।
निस्सम्शयमवाप्नोति दुन्दुमारो नृपो यथा ॥ ११३ ॥
आराध्य त्वाम् कार्तवीर्यो राज्यम् विपुलमाप्तवान् ।

धर्मस्तवप्रप्रसादेन  मुद्गलो बाष्कलः कृणिः ॥ ११४ ॥
प्रापुरन्ये महाभागा नरेन्द्रा नहुषादयः ।

नृपः कुशध्वजो नाम जनकः समितिञ्जयः ॥ ११५ ॥
धर्मध्वजस्तथा मुक्तिम् कृपया तव सङ्गताः ।
तथान्ये मुनयो दैत्या राजानश्च सहस्रशः ॥ ११६ ॥
प्रापुर्मुक्तिम् महाभागाः कृत्वा भक्तिम् त्वयि प्रभो ।
यथा प्रज्वलितो वह्निस्तमो हन्ति तदर्थिनाम् ॥ ११७ ॥
शीतहानिम् तथान्येषाम् स्वेदम् स्वेदाभिलाषिणाम् ।
करोति क्षुधितानाम् च भोज्यपाकक्रियाम् शिखी ॥
तथैव कामान् भोगाम्श्च ददाति पुरुषोत्तमः ॥ ११८ ॥
मेरुमन्दरमात्रोऽपि राशिः पापस्य कर्मणः ।
भवन्तम् वैद्यमासाद्य दुर्व्याधिरिव नश्यति ॥ ११९ ॥
अव्याहतानि सौम्यानि चक्रादीन्यायुधान्यपि ।
रक्षन्ति सकलापद्भयो ये त्वाम् देव समाश्रिताः ॥ १२० ॥
सर्वदुःखविमुक्तस्य सौम्यास्तस्य सदा ग्रहाः ।
देवानामप्यदृश्योऽसौ तुष्टो यस्य जनार्दनः ॥ १२१ ॥
पृथिव्याम् विजयो वापि त्रैलोक्यविजयोऽपि वा ।
ध्रुवो वा यदि देवेश येषाम् तुष्टोऽसि माधव ॥ १२२ ॥

नाधिः प्राप्नोति न व्याधिर्न विषग्रहबन्धनम् ।
कृत्या स्वप्नभयम् वापि तोषिते त्वयि माधव ॥ १२३ ॥
आरोग्यम् परमामृद्धिम् मनसा यद्यदिच्छति ।
तत्तदाप्नोत्यसन्दिग्धः प्रसन्ने त्वयि माधव ॥ १२४ ॥
धर्मार्थकाममोक्षाणाम् पुरुषार्थः प्रकल्पितः ।
लोभादिव्याप्तचित्तो यस्त्वामुपास्ते नरो यदि ॥
तत्पापम् विलयम् याति तोयस्थलवणम् यथा ॥ १२५ ॥
न तेषाम् दुष्करम् किञ्चित् त्रिषु लोकेषु विद्यते ।
सर्वलोकगुरुर्येषाम् तम् नाथो मधुसूदन ॥ १२६ ॥
न तेषाम् विद्यते पापम् सङ्ग्रामे वा पराजयः ।
त्रिदशेश्वरनाथस्त्वम् येषाम् तुष्टोऽसि माधव ॥ १२७ ॥
स्रष्टारम् सर्वलोकानाम् परमात्मानमच्युतम् ।
ये प्रपन्ना हृषीकेशम् न ते मुह्यन्ति कर्मसु ॥ १२८ ॥
पृथिवी वायुराकाश आपोऽग्निश्चन्द्रमा रविः ।
सर्वम् ते रूपमेवेदम् सर्वदेवनमस्कृत ॥ १२९ ॥
इत्यनेकविधैः स्तोत्रैः स्तुत्वा देवम् जनार्दनम् ।
तूष्णीम् बभूव गरुडः प्रश्रयावनतस्तदा ||
ततस्तु भगवान् प्राह प्रसन्नवदनस्तदा ॥ १३० ॥

श्रीभगवान्

परितुष्टोऽस्मि भद्रम् ते स्तोत्रेण विनतासुत ।
यच्छेष्टम् तव मे ब्रूहि सर्वम् सम्पादयाम्यहम् ॥ १३१ ॥
देवेशवचनम् श्रुत्वा खगेशः पुनरब्रवीत् ॥ १३२ ॥
गरुड:
यदि तुष्टोऽसि भगवन्नवधारय मद्वचः ।
पृथिव्याम् विजयो वापि त्रैलोक्यविजयोऽपि वा ॥ १३३ ॥
ध्रुवो वा यदि देवेश येषाम् तुष्टोऽसि माधव ।
अद्य प्रभृति देवेश तव माम् कुरु वाहनम् ॥ १३४ ॥
स्कन्धे मम वसन्नेव मत्प्रीतिर्दीयताम् प्रभो ।
सर्वाधारस्य देवेश वाहनत्वम् महत् फलम् ॥
केन वा शक्यते प्राप्तुमृते च विनतासुतम् ॥ १३५ ॥
नामरत्वम् सुरेन्द्रत्वम् न ब्रह्मत्वमुमेशताम् ।
नन्दनानुभवम् वापि वाञ्छन्ति हरिकिङ्कराः ॥ १३६ ॥
भूयः पप्रच्छ मतिमान् वरमन्यमनुत्तमम् ॥ १३७ ॥
गरुड:
देवेश बहुकालोऽयम् पर्वतः समुपाश्रितः ।
मन्नामव्यवहारम् तु देवदेवास्य कल्पय ॥ १३८ ॥
एवम् वरद्वयम् दत्वा देवदेवो जनार्दनः ।
प्रीतः प्रसन्नवदनः पाणिना देहमस्पृशत् ॥ १३९ ॥
श्रीभगवान्
सुबालोऽसि कृशोऽसि त्वम् कथम् ते बुद्धिरीदृशी ।
महान्तो मुनयः पूर्वम् बहवो मामुपाश्रिताः ॥
तेषामेतादृशी बुद्धिर्न कदाचिदजायत ॥ १४० ॥
भवान् कल्यः कविर्दक्षो बुद्धिनीतिविशारदः ॥ १४१ ॥
वरद्वयम् त्वया प्रोक्तम् वाहनत्वम् मदीयकम् ।
त्वन्नाम गिरिविख्यातिरुभयम् स्यात् तथैव तु ॥ १४२ ॥
गरुडः पन्नगारातिर्वेदात्मा विहगेश्वरः ।
नारायणरथश्चेति त्वाम् वक्ष्यन्ति जना भुवि ॥ १४३ ॥
यावच्चरति वै भानुर्यावच्चरति चन्द्रमाः ।
तावद्भवति लोकेऽयम् गारुडः पृथिवीधरः ॥
इत्येवमुक्त्वा देवोऽयम् तत्रैवान्तरधीयत ॥ १४४ ॥
इत्येवम् भवनाशिन्यास्तीरम् दक्षिणमाश्रितः ।
गारुडो राजते शैलः सुरालय इवापरः ॥ १४५ ॥
खगपतितपसोच्चैः सर्वतो भासमानः
फलतृणजलपानैः सेवितस्तापसौघैः ।
सकलभुवनरक्षादक्षिणः सर्वदायी
विलसतु भुवि नित्यम् पर्वतो गारुडाद्रिः ॥ १४६ ॥

॥ इति श्रीब्रह्माण्डपुराणे क्षेत्रकाण्डे
श्रीमदहोबिलमाहात्म्ये द्वितीयोऽध्यायः ॥

॥ श्रीः ॥

॥ श्रीमते लक्ष्मीनृसिम्हपरब्रह्मणे नमः ॥

॥ श्रीमदहोबिलमाहात्म्ये तृतीयोऽध्यायः ॥

इत्थम् गारुडशैलस्य श्रुत्वा माहात्म्यमुत्तमम् ।
आनन्दाम्बुनिधौः मग्ना नारदम् पुनरब्रुवन् ॥ १ ॥

ऋषयः
भगवन् ब्रह्मसम्भूत परमानन्दनिर्भर ।
त्वत्प्रसादाच्छ्रुतम् सर्वम् गरुडाचलवैभवम् ॥ २ ॥
नित्यानाम् चैव मुक्तानाम् स्वभावाद् ध्वस्तकर्मणाम् ।
सम्सारेऽस्मिन् कथम् जन्म कथम् वै तापासी क्रिया ॥ ३ ॥
अयम् तु गरुडः साक्षान्नित्यमुक्त उदाहृतः ।
अस्य वाहनभावश्च श्रुतिभिः परिगीयते ॥
इमम् नः सम्शयम् छिन्धि तवाज्ञातम् न विद्यते ॥ ४ ॥
नारदः
यदा धर्मस्य हानिः स्यादधर्माभिरतिर्जने ।
तदापि भगवान् साक्षादवतारम् करोति वै ॥ ५ ॥
रक्षायै सर्वमर्त्यानाम् पापिनाम् पीडनाय च ।
पालनाय च धर्मस्य आत्मानम् सृजति प्रभुः ॥ ६ ॥
अजहत् स्वस्वभावोऽयमवतारम् करोति वै ।
तस्यानुधावनम् सर्वे कुर्वन्ति गरुडादयः ॥ ७ ॥
अवतारेषु या चेष्टा मानुषी दैविकी च या ।
तामेवानुगमिष्यन्ति नित्यम् वै गरुडादयः ॥ ८ ॥
क्वचिद् ग्रुह्णन्ति वै देहम् केषाञ्चिद् बान्धवो भवेत् ।
क्वचित् पिता तु काचित् तु माता स्यात् प्रेमनिर्भरा ॥९॥
केचित् सखायः सञ्जाताः केचित् प्रद्वेषिणस्तथा ।
क्वचिज्जयति युद्धेन क्वचिज्जयति सामतः ॥ १० ॥
क्वचिदुग्रम् तपश्चक्रे क्वचिच्छास्त्रप्रवर्तकः ।
क्वचिदुत्पथगामी स्यात् क्वचिद्धाचारवर्जितः ॥ ११ ॥
इत्येवम् ह्यवतारेषु लौकिकाभिरताः क्रियाः ।
करोति भगवान् साक्षान्नित्यास्तदनुसारिणः ॥ १२ ॥

लीलेयम् कमलाक्षस्य केवलानन्दरूपिणः ॥ १३ ॥
स धर्मो वाप्यधर्मो वा धर्माधर्मसमुच्चयः ।
जन्मनः कारणम् विष्णोर्धर्मत्राणाय कैवलम् ॥ १४ ॥
तस्मान्न चित्रताम् याति गरुडस्य तपः क्रिया ।
एतद्वः सर्वमाख्यातम् किमन्यच्छ्रोतुमिच्छति ॥ १५ ॥

ऋषयः
तस्मिन् शैले तु भगवन् यानि तीर्थानि सन्ति वै ।
तानि नो विस्तराद् ब्रूहि त्वम् नः साक्षाद् गुरुः पिता ॥ १६ ॥
तारयास्मान् सागरतः सम्साराख्यान्महामुने ॥ १७ ॥
नारदः
अस्मिञ्छैले तु यत्तोयम् यत्र क्वापि च दृश्यते ।
तत्सर्वम् तीर्थमुद्दिष्टम् साक्षात् त्रिपथगोपमम् ॥ १८ ॥
तस्मान्न चित्रताम् याति गरुडस्य तपः क्रिया ।
एतद्वः सर्वमाख्यातम् किमन्यच्छ्रोतुमिच्छति ॥ १५ ॥
तस्मिन् शैले तु भगवन् यानि तीर्थानि सन्ति वै ।
तानि नो विस्तराद् ब्रूहि त्वम् नः साक्षाद् गुरुः पिता ॥ १६ ॥
तारयास्मान् सागरतः सम्साराख्यान्महामुने ॥ १७ ॥
नारदः
अस्मिञ्छैले तु यत्तोयम् यत्र क्वापि च दृश्यते ।
तत्सर्वम् तीर्थमुद्दिष्टम् साक्षात् त्रिपथगोपमम् ॥ १८ ॥
बहून्यनन्ततीर्थानि बहुदेशेषु सन्ति वै ।
तेषाम् नामानि सङ्ख्यातुम् ब्रह्मणापि न शक्यते ॥ १९ ॥
यानि तीर्थानि सर्वाणि लोके पुण्यतराणि वै ।
सितासितम् चन्द्र॑मार्गमिन्द्रतोयमनुत्तमम् ॥ २० ॥
कन्याकूपम् शरच्छैलम् कौशिकम् च कपोतकम् ।
कपालमोचनम् धारा धनुष्कोटो विवर्तकम् ॥ २१ ॥
कुशेशयम् च केदारम् तथा नर्तकहिङ्गळम् ।
महाह्रदम् महापुण्यम् मरुद्गणमनुत्तमम् ॥ २२ ॥
गुञ्जानुगम् सप्तगङ्गम् तथा गाङ्गमनुत्तमम् ।
केदारम् कलिकातीर्थम् कौशाम्बम् कविदाक्रमम् ॥ २३ ॥
बिम्बाश्रमम् जम्बुमार्गम् कम्बुमार्गमनुत्तमम् ।
रामातीर्थम् रामसरो भद्रम् भद्रवटम् तथा ॥ २४ ॥
दशाश्वमेधकम् तीर्थम् मत्स्योदम् पुष्करम् सरः ।
हृत्तापनाशिनी पुण्या स्वामिपुष्करिणी तथा ॥ २५ ॥
आकाशगङ्गा भूगङ्गा कौमारी तुलिताह्वया ।
गृध्रपुष्करिणी चैव हेमाम्भोजसरस्तथा ॥ २६ ॥
अनन्ताह्वम् सरश्चैव चन्द्रपुष्करीणी तथा ।
गङ्गा गोदावरी चैव गोमती गौतमी तथा ॥ २७ ॥
कावेरी कौशिकी चैव कालिन्दी कनकावती ।

वेणी वेत्रवती चापि ताम्रपर्णी च नर्मदा ॥ २८ ॥
वीरस्तनी भीमरथी पुण्या चर्मण्वती नदी ।
सिद्धमाहेश्वरी चैव सिन्धुर्वे भोजनावती ॥ २९ ॥
पूर्वाभाद्रा पराभाद्रा देविका सरयूस्तथा ।
शरावती शतदूश्च नन्दा मन्दाकिनी तथा ॥ ३० ॥
एता नद्यः समाख्यातास्तीर्थानि विविधानि च ।
आज्ञया नृहरेस्तत्र ऋषीणाम् च प्रभावतः ॥
निवसन्ति समस्तानि गरुडाद्रेः समन्ततः ॥ ३१ ॥
तीर्थानामेव सर्वेषामुत्तमा भवनाशिनी ।
साक्षात् त्रिपथगा गङ्गा ह्यवतीर्णा महाचले ॥ ३२ ॥
अहोबिलपथम् गत्वा दृष्ट्वा वै भवनाशिनीम् ।
जन्मकोट्यार्जितात् पापान्मुच्यते नात्र सम्शयः ॥ ३३ ॥
अत्रत्यानाम् तु तीर्थानामुत्तमा भवनाशिनी ।
यथा त्रिपथगा लोके नदीनामुत्तमा तथा ॥ ३४ ॥
नद्यन्तरे नदीमन्याम् न प्रशम्सेत् कदाचन ।
लोके द्वे तु प्रशस्येते गङ्गा च भवनाशिनी ॥ ३५ ॥
विष्णुम् सदा समभ्यर्च्य तस्य पादोदकम् त्विदम् ।
धारयेच्छिरसा भक्त्या गङ्गास्नातो न सम्शयः ॥ ३६ ॥
एतत्तीर्थम् समादाय भक्त्या देवमनुस्मरेत् ।
आत्मानम् प्रोक्षयेद् यस्तु सर्वपापैः प्रमुच्यते ॥ ३७ ॥
इदम् तीर्थम् तु शिरसा धारयन् वा पिबन्स्तु वा ।
जन्मनः कलुषम् हित्वा स याति परमम् पदम् ॥ ३८ ॥
तदैव पितरस्तेषाम् नृत्यन्ति च पितामहाः ।
यदैव भवनाशिन्यास्तीरम् गच्छति मानवः ॥ ३९ ॥
प्रायश्चित्तमिदम् प्राप्तम् कृच्छ्रम् वाप्यघमर्षणम् ।
एतत्तीर्थोदकम् पीत्वा शुद्धिमाप्नोति तत्क्षणात् ॥ ४० ॥
इदम् तीर्थम् पिबेद्यस्तु सालग्रामशिलार्पितम् ।
प्रक्षालयति तत्तीर्थम् ब्रह्महत्यादिपातकम् ॥ ४१ ॥
सद्यः फलप्रदम् पुण्यम् सर्वपापप्रणाशनम् ।
सर्वमङ्गलमाङ्गल्यम् सर्वाधिपरिमोचनम् ॥
सर्वपापप्रशमनम् सर्वरोगकभेषजम् ॥ ४२ ॥
दुष्टग्रहोपशमनम् सर्वाधिपरिमोचनम् ।
सर्वपापप्रशमनम् सर्वरोगविभेदनम् ॥ ४३ ॥
सर्वकल्याणसुखदम् सर्वकामफलप्रदम् ।
सर्वसिद्धिप्रदम् सद्यः सर्वसन्तोषकारणम् ॥ ४४ ॥
न हि तत् सर्वतीर्थेषु सरित्सु च निमज्जनात् ।
फलम् भवति वै विप्रा यादृगेतन्निषेवणात् ॥ ४५ ॥
सङ्ग्रामे निहतानाम् च कुर्वतोऽनशनव्रतम् ।
ये वर्जयन्ति माम्सानि तथा ह्युपवसन्ति ये ॥ ४६ ॥
तेषाम् लोकास्तु ये प्रोक्तास्तत्तीर्थतटसेवनात् ।
त्रिषु लोकेषु ये तीर्थाः कूपा नदनदीह्रदाः ॥ ४७ ॥
स्रोत: समुद्राश्चत्वारो ह्रदाः पुण्याः शिलोच्चयाः ।
कुरुक्षेत्रम् नैमिशम् च भूमिभागाश्च ये शुभाः ॥ ४८ ॥
सर्वे तु भवनाशिन्याः कलाम् नार्हन्ति षोडशीम् ।
इमम् मन्त्ररहस्यम् वा कथयामि मुनीश्वराः ॥ ४९ ॥
भूतप्रेतपिशाचानाम् डाकिनीनाम् च नाशनम् ।
यक्षराक्षसकूष्माण्डखेचराणाम् च नाशनम् ॥ ५० ॥
ज्वरव्याप्तशरीराणाम् केसरीणाम् च दारणम् ।
तीर्थस्य भवनाशिन्याः स्वभावोऽयमुदाहृतः ॥ ५१ ॥
रोगिणाम् मूर्तिखिन्नानाम् विषशस्त्रहतात्मनाम् ।
पित्तवातकफश्लेष्मसर्वव्याधिविनाशनम् ॥ ५२ ॥
ज्वरव्याप्तशरीराणाम् सर्वव्याधिविनाशनम् ।
अपि चोरभयम् किञ्चिदप्यग्निजभयम् तथा ॥
तथा चोष्णभयम् नास्ति यत्तु तत्तोयमाश्रितः ॥ ५३ ॥
आशौचम् विद्यते नैव सूतके म्रुतके तथा ।
प्राशनाद्धारणात्तस्य तीर्थस्य मुनिसत्तमाः ॥ ५४ ॥
अन्त्यकाले तु यस्यास्ये दीयते तोयमुत्तमम् ।
सोऽपि सद्गतिमाप्नोति यश्चाचारबहिष्कृतः ॥ ५५ ॥
अपेयम् पिबते यस्तु यस्तु भुङ्क्तेऽप्यभोजनम् ।
अगम्यागमना ये वै पापाचाराश्च ये नराः ॥ ५६ ॥
तेऽपि पूता भवन्त्याशु एकतीर्थनिषेवणात् ॥ ५७ ॥
तप्तकृच्छ्रान्महाकृच्छ्रात् पञ्चगव्याद् विशिष्यते ।
चान्द्रायाणात् सर्वकृच्छ्रात् पराकादपि सुव्रताः ॥ ५८ ॥
किमुच्यतेऽस्या माहात्म्यादपि तीर्थोदके नरः ।
सलिलम् तस्य तीर्थस्य कथम् श्रेयो विधास्यति ॥ ५९ ॥
इति सञ्चिन्त्य भगवानब्जयोनिः पितामहः ।
धर्मम् समीपतो दृष्ट्वा द्रवीभव महामते ॥ ६० ॥
लोकानाम् पावनार्थाय भव त्वम् भवनाशीनी ।
द्रवीभूतस्तथा धर्म आज्ञयाब्जभवस्य तु ॥ ६१ ॥
तुष्टये जगदीशस्य बभूव भवनाशिनी ।

बहुनात्र किमुक्तेन माहात्म्येनास्य वै द्विजाः ॥ ६१ ॥
यद्यदिच्छति वै मर्त्यो ह्वैहिकम् पारलौकिकम् ।
तत्तदाप्नोत्सन्देहस्तीर्थस्यास्य तु वैभवात् ॥ ६३ ॥
नद्याम् ह्यस्याम् तु यानीह तीर्थानि मुनिसत्तमाः ।
ऋषिभिः परिगीतानि तैरेवाधिष्ठितानि च ॥

कथयामि यथापूर्वम् शृणुध्वम् मुनिसत्तमाः ॥ ६४ ॥
अचलच्छायमेरोस्तु पश्चिमे भाग उत्तमे ।
अधस्तान्नारसिम्हस्य तीर्थम् स्यादचलध्रुवम् ॥ ६५ ॥
गालवस्तु मुनिश्रेष्ठस्तपस्तेपे सुदारुणम् ।
तस्य तीरे महाबाहो बहून्यब्दशतानि वै ॥ ६६ ॥

जजाप परया भक्त्या नारसिम्हम् महामनुम् ।
द्वात्रिम्शद्वर्णसम्युक्तमग्निष्टोमसमन्वितम् ॥ ६७ ॥
मृत्युमृत्युकरम् ह्युग्रम् मृदुशान्तिसमन्वितम् ।
अजप्यमसुरैरन्यैरात्मरक्षाकरम् परम् ॥
अष्टाशीतिसहस्राणाम् मन्त्राणाम् मूर्ध्नि सम्स्थितम् ॥ ६८ ॥
ततः प्रसन्नो भगवानव्यक्तो व्यक्तरूपधृक् ।

गालवम् तपसा क्लिन्नमिदम् वचनमब्रवीत् ॥ ६९ ॥
श्रीभगवान्
भो भो द्विज प्रसन्नोऽहम् तपसानेन सुव्रत ।
यथेच्छसि वरम् यत्ते प्रयच्छामि न सम्शयः ॥ ७० ॥

गालवः
भगवन् परमानन्द परमानन्दमन्दिर ।
सन्निधत्ते यतो मह्यम् किमन्यद्वरमस्ति मे ॥ ७१ ॥
वाञ्छन्ति मुनयः सर्वे वीतरागा विमत्सराः ।
सम्सारोच्छिन्नकरणम् तव पादाब्जदर्शनम् ॥ ७२ ॥
ये चाप्यन्येऽन्यदिच्छन्ति लौकिकम् पारलौकिकम् ।
तेऽपि त्वद्दर्शनेनैव विमुक्तान्यकथारसाः ॥ ७३ ॥
नाहम् सुरपदाकाङ्क्षी न शतक्रतुलुब्धकः ।
न धिष्ण्यमब्जसम्भूतम् न रौद्रपदमुत्तमम् ॥ ७४ ॥
न कैवल्यम् त्वद्रचितम् नान्यद्वा सुखमुत्तमम् ।
सेवा भवत्पदाम्भोजे भक्तिरव्यभिचारिणी ॥
जन्मान्तरेऽपि मे भूयादचला पुरुषोत्तम ॥ ७५ ॥
श्रीभगवान्
सम्यग् व्यवसिता बुद्धिरध्यात्मगहने वरे ।
तत्तथैव न सन्देहो मत्प्रसादान्मुनीश्वर ॥ ७६ ॥
अद्य प्रभृति निष्कामश्चर धर्माननुत्तमान् ।
हित्वा त्वम् धर्मसङ्घातम् चर तूष्णीम् तु गालव ॥ ७७ ॥
गरुडस्कन्धमारोप्य यथेष्टमनिवारितः ।
त्वाम् नयामि परम् स्थानम् यद् गत्वा न निवर्तते ॥ ७८ ॥

अद्य प्रभृति ये ह्यस्मिन् तीर्थे स्नानम् प्रकुर्वते ।

तेऽपि मत्कृपया सर्वे विमुक्ताः स्युर्न सम्शयः ॥ ७९ ॥

कार्तिके मासि तीर्थेऽस्मिन् स्नानम् दानम् च कुर्वते ।

ते समृद्धाम् श्रियम् भुक्त्वा अन्ते मत्पदमाप्नुयुः ॥ ८० ॥

इत्युक्त्वा तु तदा देवस्तत्रैवान्तरधीयत ।

इदम् तु प्रथमम् तीर्थम् नारसिम्हमुदाहृतम् ॥ ८१ ॥

द्वितीयम् च तृतीयम् च रामलक्ष्मणसञ्ज्ञितम् ।

चरन् वै दण्डकारण्ये पितुर्वचनकारणात् ॥ ८२ ॥

तत्र सन्ति च तीर्थानि सरितश्च सराम्सि च ।

काननानि विचित्राणि विविधाश्च शिलोच्चयाः ॥ ८३ ॥

चरन् सौमित्रिणा रामः सीतया च समोदया ।

कदाचिद् भवनाशिन्यास्तीरदेशमुपागतः ॥ ८४ ॥

तत्र चूताम्श्च पनसान् नालिकेराम्श्च चम्पकान् ।

अहोकान् करवीराम्श्च तथा पूगवनानि च ॥ ८५ ॥

अन्याम्श्च विविधान् वृक्षान् लताश्च कनकप्रभाः ।

पुष्पिताः फलिताश्चैव सर्वर्तुषु विशेषतः ॥ ८६ ॥

ददर्श भगवान् श्रीमद्राघवो लक्ष्मणाग्रजः ।

सीता च परमप्रीता ह्यावासाय मतिम् दधे ॥ ८७ ॥

अवसम्स्तत्र सुप्रीता दिनानि कतिचित् तदा ।

रामकुण्डाद्वये तत्र नित्यानुष्ठानतत्पराः ॥ ८८ ॥

तदा प्रभृति वै नाम्ना रामलक्ष्मणसञ्ज्ञिते ।

तत्र स्नात्वा च पीत्वा च जन्मत्रयसमार्जितात् ॥

पातकान्मुच्यते जन्तुः राघवस्य प्रभावतः ॥ ८९ ॥

मार्गशीर्षे च पौषे च स्नात्वा दानम् करोति यः ।

तद्दानमक्षयम् चैव स याति परमम् पदम् ॥ ९० ॥

चतुर्थम् भीमतीर्थम् तु भीमम् पापस्य कर्मणः ॥ ९१ ॥

यत्र रुद्ध्वा पुरा सिन्धुम् भगवान् पार्वतीपतिः ।

मार्गप्रदर्शनम् चक्रे भञ्जयित्वा शिलोच्चयम् ॥ ९२ ॥

तत्र भीमरवा सिन्धुरत्यन्तकलुषाशाया ।

भञ्जयत्तरुषण्डानि मण्डितानि महीधरे ॥ ९३ ॥

तथा पुष्टातिभीमाम् ताम् सुरसङ्गा महर्षयः ।

भीमसञ्ज्ञाम् ततश्चक्रुः प्रदेशस्य विशेषतः ॥ ९४ ॥

तदा प्रभृति लोकोऽयम् भीमतीर्थम् प्रचक्षते ।

तत्र स्नात्वा तु यो मर्त्यो निष्कम् निष्कार्धमेव वा ॥ ९५ ॥

श्रोत्रियाय दरिद्राय हरिभक्ताय सादरम् ।

ददाति दशदानानाम् फलमाप्नोत्यसम्शयम् ॥ ९६ ॥

प्रयतो माघमासे तु किञ्चिदभ्युदिते रवौ ।

समन्त्रकम् तु यः स्नाति स याति विपुलाम् श्रियम् ॥ ९७ ॥

तत्काले जलमध्ये तु गायत्रीम् तु सहस्रधा ।

आवर्तयन् नरो याति यत्र देवः पुरन्दरः ॥ ९८ ॥

मासमेकम् व्रतम् कुर्वन् ब्रह्मणा पूज्यते सदा ।

नित्यम् स्नानम् तु यः कुर्यादच्युतास्तस्य सम्पदः ॥ ९९ ॥

पञ्चमम् शङ्खतीर्थम् तु शङ्खो यत्र महामुनिः ।

लिखितेन सह भ्रात्रा तताप परमम् तपः ॥ १०० ॥

लोकानाम् तु हितार्थाय विगताम् वेदसम्हिताम् ।

समाहृत्य स्तुतिम् चक्रे द्वितीयाम् युगपद्धतिम् ॥ १०१ ॥

तस्मादिदम् महातीर्थम् भुवनेषु प्रशस्यते ॥ १०२ ॥

अस्मिन्स्तीर्थे च यः स्नाति षडङ्गम् तु निरन्तरम् ।

जन्मान्तरस्मृतिस्तत्र जायते धर्मसम्हिता ॥ १०३ ॥

पितॄनुद्दिश्य यः स्नाति फाल्गुणे मासि मानवः ।

भोजयेत् प्रयतो विप्रानन्नम् बहुगुणान्वितम् ॥

तृप्यन्ति पितरस्तेन दशपूर्वा दशापराः ॥ १०४ ॥

वाराहम् षष्ठमुद्दिष्टम् तीर्थम् तीर्थकुलोत्तमम् ॥ १०५ ॥

पुरा तु प्रलये भूमिम् निमग्नाम् सलिलाशये ।

उद्धर्तुकामो भगवान् वाराहम् रूपमाप्तवान् ॥ १०६ ॥

ऋषिभिर्देवगन्धर्वैः सम्स्तुतः परमेष्ठिना ।

लोकानाम् तु हितार्थाय उज्जहार महीम् प्रियाम् ॥ १०७ ॥

यथा तु धून्वता तेन किटिरूपादनुत्तमात् ।

सलिलम् तत्र पतितम् वाराहम् तेन सम्स्मृतम् ॥ १०८ ॥

तदङ्गभावमाश्रित्य भगवान् किटिरूपधृत् ।

एतत्तीर्थे महादेव्यै पुराणम् चोपदिष्टवान् ॥ १०९ ॥

धर्मार्थकामसम्युक्तम् मोक्षार्थैकप्रयोजनम् ।

वाराहम् सात्त्विकम् प्रोक्तम् सात्त्विकी यत्र देवता ॥ ११० ॥

अत्र तीर्थे नरः स्नात्वा भक्त्याभ्यर्च्य च केशवम् ।

उपवासत्रयम् कुर्वन् त्रैलोक्ये सर्वमाप्नुयात् ॥ १११ ॥

मुस्तामूलसमायुक्तम् तण्डुलम् सितमव्रणम् ।

सगुडम् देवदेवस्य ह्यर्पयन् सर्वमाप्नुयात् ॥ ११२ ॥

चैत्रै मासि सिते पक्षे द्वादशीम् वापि पूर्णिमाम् ।

समाश्रित्य तु यद्दत्तम् तत्सर्वम् चाक्षयम् भवेत् ॥ ११३ ॥

वस्त्रदानम् तु यः कुर्याज्जीर्णवस्त्राय सादरम् ।

एकैकतन्तोर्दशधा सर्वलोके महीयते ॥ ११४ ॥

सौदर्शनम् महातीर्थम् सप्तमम् समुदाहृतम् ।

तत्र स्नात्वा तु मनुजाः सप्तावस्था न भेजिरे ॥ ११५ ॥

अम्बरीषस्तु भगवानब्जयोनेः प्रसादतः ।

सुदर्शनमहामन्त्रम् जजाप सरहस्यकम् ॥ ११६ ॥

तत: प्रसन्नो भगवान् सहस्रारः सहस्रजित् ।

तदा प्रभृति तत्तीर्थम् सौदर्शनमुशन्ति वै ॥ ११७ ॥

कुदर्शनाश्च ये लोके मनुजाः पापकर्मणः ।

सुदर्शनाश्च जायन्ते स्मरणात् तीर्थदर्शनात् ॥ ११८ ॥

तत्र वेदानधीयन्ते भृग्वाद्याश्च महर्षयः ॥ ११९ ॥

वैशाखे तु विशाखायाम् दध्यन्नम् च सुसम्स्कृतम् ।

ददद् विप्राय मनुजो नित्यतृप्तोऽभिजायते ॥ १२० ॥

अष्टमम् चूततीर्थम् स्यात् कष्टसम्सारनाशनम् ।

दुष्टानामपि जन्तूनामभीष्टफलदायकम् ॥ १२१ ॥

अष्टाशीतिसहस्राणामृषीणामूर्ध्वरेतसाम् ।

आवासोऽयमिहापूर्वमचलस्य समीपतः ॥ १२२ ॥

अत्र तीर्थे पुरा विष्णुर्दुर्भिक्षे द्वादशाब्दिके । क्षुधया पीडिते जन्तौ परिवृत्ते जगत्त्रये ॥ १२३ ||

कुब्जाम्रभूरुहो भूत्वा फलैरमृतसम्मितैः ।

सर्वेषामेव जन्तूनाम् क्षुधादैन्यमपाकरोत् ॥ १२४ ॥

तदा प्रभृति लोकेऽस्मिन् चूततीर्थमुदाहृतम् ।

चूततीर्थे तु यः स्नायाञ्च्युतः पापात् तु कर्मणः ॥ १२५ ॥

ज्येष्ठमासे तु ज्येष्ठर्क्षे साक्षरान् वेदपारगान् ।

कन्याम् पृथ्वीम् सुवर्णम् वा ददाति प्रयतात्मधृत् ॥ १२६ ॥

कन्याप्रदानात् कल्पान्तम् रमते ब्रह्मणा सह ।

भूप्रदानात् तु साम्राज्यम् भुङ्क्ते ह्यव्याहतम् पदम् ॥ १२७ ॥

कनकस्य प्रदानेन कनत्कनकसन्निभः ।

कुबेरभवनम् गत्वा तस्याध्यक्षो भवेद् ध्रुवम् ॥ १२८ ॥

धारातीर्थम् महापुण्यम् मुक्तिधाराप्रदायकम् ।

कारागारसमम् विश्वमारात् पारयितुम् क्षमम् ॥ १२९ ॥

साक्षाद् भगवतो विष्णोर्नृसिम्हस्य महात्मनः ।

आराधनोपयुक्तानि तीर्थान्यत्र तु गृह्णते ॥ १३० ॥

आषाढे मासि द्वादश्याम् स्नात्वा गाम् च पयस्विनीम् ।

ददद् विप्राय मनुजो याति विष्णोः परम् पदम् ॥ १३१ ॥

सालग्रामम् तु यो दद्यात् तस्य पुण्यम् महत् फलम् ॥ १३२॥

दशमम् गजकुण्डम् स्यादवगाहितुमक्षमम् ।

यस्मिन् गजेन्द्राः कृष्यन्ते विचरन्ति महीतले ॥ १३३ ॥

गारुडस्योत्तरे भागे भूधरस्य तटान्तरे ।

छत्रीकृतगुहायाम् तु समध्यास्ते नृकेसरी ॥

तस्येदम् पुरतस्तीर्थम् गम्भीरम् लोकपावनम् ॥ १३४ ॥

सिम्हम् दृष्ट्वा यथा लोके गजयूथानि बृन्दशः ।

परिधावन्ति वेगेन भयेनाविष्टचेतसा ॥ १३५ ॥

तद्वन्नरस्य पापानि ब्रह्महत्याकृतीनि वै ।

धावन्ति नरमुत्सृज्य ह्येतत्तीर्थनिषेवणात् ॥ १३६ ॥

महाशान्तो दोषवशात् गजेन्द्रत्वमुपाश्रितः ।

यत्र स्नात्वा विशुद्धात्मा जन्मान्तरमचिन्तयत् ॥ १३७ ॥

श्रावणे मासि तत्तीरे धान्यदानम् ददाति यः ।

तस्य पुण्यफलम् वक्तुम् ब्रह्मणापि न शक्यते ॥ १३८ ॥

एकादशम् तु तीर्थम् स्याद्वैनायकमनुत्तमम् ।

तपश्चरति धर्मात्मा यत्र वै विघ्ननायकः ॥

तदा प्रकृति लोकेस्मिन् नैनायकमुशन्निवै ॥ १३९ ॥

मासि भाद्रपदे चैव पितॄणामन्नेदो यदि ।

तदन्नमक्षयम् चैव स याति परमम् पदम् ॥ १४० ॥

द्वादशम् भैरवम् तीर्थम् यत्र तीर्थे भयङ्करः ।

अध्यासीनः शिरोहीनो भैरवो लोकभैरवः ॥ १४१ ॥

आश्वयुङ्ग्माम्सि यो मर्त्यः स्नात्वा स्वर्णम् प्रयच्छति ।

तस्य विष्णुः प्रसन्नात्मा पुत्रपौत्रान् प्रयच्छति ॥ १४२ ॥

त्रयोदशम् तु यत् तीर्थम् रक्तकुण्डमुदाहृतम् ॥ १४३ ॥

एतानि सर्वतीर्थानि विश्रुता भवनाशिनी ।

तस्याः प्रदेशे भेदाश्च माहात्म्यम् तु पृथक् पृथक् ॥  १४४ ॥

॥ इति श्रीब्रह्माण्डपुराणे क्षेत्रकाण्डे श्रीमदहोबिलमाहात्म्ये

तृतीयोऽध्यायः ॥

श्रीः

श्रीमते रामानुजाय नमः

॥ श्रीमते श्रीलक्ष्मीनृसिम्हपरब्रह्मणे नमः ॥
॥ श्रीमदहोबिलमाहात्म्ये चतुर्थोऽध्यायः ॥

ऋषयः

आख्यातम् भवनाशिन्या माहात्म्यम् चफलम् विभो ।

तत्रत्यानाम् च तीर्थानाम् वैभवम् च पृथक् पृथक् ॥ १ ॥

नह्येतादृशसौभाग्यमनुभूतम् कदाचन ।

न श्रुतम् नापि दृष्टम् वा विद्यते वा न च क्वचित् ॥ २ ॥

अहो बत महत् कष्टम् गृहेष्वासक्तचेतसः ।

जानन्ति तीर्थमाहात्म्यम् न जातु नरपेशलाः ॥ ३ ॥

वृथा जन्म वृथा जन्म वृथा जन्म दुरात्मनः।

यो न पश्यति न स्नायात् पावनीम् भवनाशिनीम् ॥ ४ ॥

अलम् तपोभिस्तीर्थैर्वा श्रुतैर्वा विविधैर्मखैः ।

यः स्नाति भवनाशिन्याम् हरिम् पश्यति तत्तटे ॥ ५ ॥

वयम् पूज्यतमा लोके वयम् धन्यतमा भुवि ।

येनैव भवनाशिन्या ह्यर्पितम् वैभवम् हृदि ॥ ६ ॥

कृतार्थाः स्म वयम् ब्रह्मन् भगवन् ब्रह्मसम्भव ।

इदानीम् श्रोतुमिच्छामो महान् हर्षः प्रवर्तते ॥ ७ ॥

नवानाम् नारसिम्हानाम् नामानि च पृथक् पृथक् ।

स्थानानि ब्रूहि तत्त्वेन स्थास्यामो विगतज्वराः ॥ ८ ॥

श्रीनारदः

स्थानानामेव सर्वेषाम् गजतीर्थतटम् शुभम् ।

विदारयन् रिपूम्स्तत्र नरसिम्हः प्रकाशते ॥ ९ ॥

चक्रासने समासीनश्चक्राद्यायुधसेवितः ।

चङ्क्रमक्रमितानाम् तु वक्त्राशयविनाशनः ॥ १० ॥

सटाच्छटासमायुक्तो विधूतासुरमण्डलः ।

दम्ष्ट्राकरालवदनो भयस्यापि भयङ्करः ॥ ११ ॥

शितदम्भोलिपरुषैर्नखैर्विलुलितासुरः ।

फालेक्षणसमुद्भूतवह्निना दारुणात्मना ॥

अप्रमेयकृताकारस्त्रिलोकम् निर्दहन्निव ॥ १२ ॥

भक्तानुकम्पया नित्यम् भावितामृतवीक्षणः ॥ १३ ॥

अग्रे प्राञ्जलिमासीनम् प्रह्लादम् प्रियपूरितम् ।

प्रेम्णानुगृह्णन् सद्भक्तम् समध्यास्तेऽतिहर्षितः ॥ १४ ॥

इदम् तु प्रथमम् स्थानम् ब्रह्मादिभिरुपासितम् ।

स्थानान्यन्यानि सन्त्येव शतशोऽथ सहस्रशः ॥ १५ ॥

नसिम्हरहितम् क्षेत्रम् न भूतम् न भविष्यति ।

नृसिम्हनायको विश्वम् व्याप्तवान् पुरुषोत्तमः ॥ १६ ॥

भूमौ नृसिम्हो भुवने नृसिम्हो वायौ नृसिम्हो वचने नृसिम्हः ।

अग्नौ नृसिम्होऽप्यमृते नृसिम्होऽप्याकाशदेशेऽप्यखिले नृसिम्हः ॥ १७ ॥

कायो नृसिम्हः कनकम् नृसिम्हश्छाया नृसिम्हः सवनम् नृसिम्हः ।

वनम् नृसिम्हो वनता नृसिम्हो यदस्ति यन्नास्ति च तन्नृसिम्हः ॥ १८ ॥

नृसिम्हदेवादपरम् विजानन्नरः पशुः पादयुगप्रसूतः ।

ततो वरम् ह्यप्रसवो मृतिर्वा यतो हरिम् सर्वगतम् न वेद ॥ १९ ॥

जानन्तोऽपि न जानन्ति जाङ्यासक्तमनीषकाः ।

किमु देहात्मविज्ञानरहितानाम् दुरात्मनाम् ॥ २० ॥

श्रुणुध्वम् मुनयः सर्वे नारसिम्हानक्रमात् ॥ २१ ॥

वाराहम् रूपमास्थाय धत्ते जायाम् वसुन्धराम् ।

वेदाद्रेः पृष्ठभागे तु स्थित्वा देवः सनातनः ॥ २२ ॥

तस्य भूधरवर्यस्य उन्नते मस्तकोत्तमे ।

दक्षिणाभिमुखः श्रीमान् नरसिम्हः प्रकाशते ॥ २३ ॥

तस्य भागे महाभागा कनकाख्या महानदी ।

सदा द्रवति धाराभिरुद्वहन्ती सदा मुदम् ॥ २४ ॥

प्राधान्यम् तत्र देव्यास्तु हरिः कल्पितवान् पुरा  ।

ततः प्रभृति लोकास्तु लक्ष्म्यास्पदमवादयन् ॥ २५ ॥

ऋषयः

कथितम् भगवन् पूर्वम् गरुडाचलवैभवम्  ।

वेदाचल इति प्रख्या मध्ये कथमभूत् प्रभो ॥ २६ ॥

किमेतन्नामभेदानि वस्तुभेदानि वा पुनः  ।

कथ्यताम् तपताम् श्रेष्ठ यत्तत्त्वम् मुनिपुङ्गव ॥ २७ ॥

श्रीनारदः

गरुडाचलनामा तु भूधराणाम् तु पुङ्गवः ।

तस्यावयवभूतोऽयम् भूधरो वेदसञ्ज्ञितः ॥ २८ ॥

पुरा कृतयुगे क्रूरः सोमको नाम दुर्मतिः ।

वेदापहरणम् चक्रे अब्जयोनेः पितामहात् ॥ २९ ॥

ततः सङ्क्षोभितो धाता त्रैलोक्यम् सचराचरम् ।

न स्वाध्यायवषट्कारौ नाग्निहोत्रक्रियास्तदा ॥

न वर्णाश्रमधर्माणामाचारस्तु प्रवर्तते ॥ ३० ॥

एतत्सर्वम् समालोक्य भगवान् पुरुषोत्तमः ।

जघान सोमकम् रक्षम् आजहार च वै त्रयीम् ॥ ३१ ॥

ततस्तु दत्तवान् देवः शोचते वेधसे पुनः ।

वेदास्तु सर्वे सम्भूय परस्परमचिन्तयन् ॥ ३२ ॥

ब्रह्मायम् वरदाने तु न समर्थः कथञ्चन ।

तपस्यामो वयम् नूनम् यास्यामः सर्वजिष्णुताम् ॥ ३३ ॥

असुरैर्वा सुरैर्वापि नरैर्वा ह्यजितात्मभिः ।

शास्त्रैरन्यैः पुराणैर्वा स्मृतिभिः सेतिहासकैः ॥ ३४ ॥

यथास्माकम् परिभवो न जायेत तथा वयम् ।

यतिष्यामो न सन्देह इति याता वनाद्वनम् ॥ ३५ ॥

आरुह्य पर्वतम् सर्वे ह्यग्रतः कमलापतेः ।

नृसिम्हस्य तपश्चक्रुर्दारुणम् रोमहर्षणम् ॥ ३६ ॥

ततः प्रसन्नो भगवान्स्तानुवाच जटाधरान् ।

किमर्थम् तप्यते घोरमात्मविज्ञानहीनवत् ॥ ३७ ॥

युष्मदर्थम् जनाः सर्वे: तप्यन्ते रोमहर्षणम् ।

इत्येवमुक्तास्ते वेदा नारायणमथाब्रुवन् ॥ ३८ ॥

सर्वज्ञस्त्वम् जगन्नाथ न जानासि हिताहितम् ।

किमर्थम् मोहयस्येश पृथग्जनमिव प्रभो ॥ ३९ ॥

श्रीभगवान्

जाने युष्मत्कथाम् सर्वाम् तत्तथैवास्त्वसम्शयः ।

दत्तो वरो मया चाद्य सेन्द्रैरपि सुरासुरैः ॥ ४० ॥

सर्वैः परिभवो वेदाः न कदाचिद् भविष्यति ।

ये निन्दन्ति त्रयीमार्गम् सर्वे पाषण्डिनस्तथा ॥ ४१ ॥

यानि युष्मद्विरुद्धानि शास्त्राणि विविधानि च ।

पुराणानीतिहासाश्च स्मृतयश्च सहस्रशः ॥

दूषितानि न सन्देहो गङ्गाम्भः सुरया यथा ॥ ४२ ॥

अद्य प्रभृति लोकोऽयम् युष्मन्नाम्ना तु पर्वतम् ।

वदिष्यति न सन्देह इत्युक्त्वान्तर्दधे हरिः ॥ ४३ ॥

ततः प्रभृति शैलस्य नामासीत् वेदसञ्ज्ञितम् ॥ ४४ ॥

लक्ष्मीकटाक्षविक्षेपात् सदायम् पर्वतोत्तमः ।

फलपुष्पलताकीर्णः सर्वतः सम्प्रकाशते ॥ ४५ ॥

वेदाद्रेः पश्चिमे भागे लक्ष्मीस्थानात् समीपतः ।

दक्षिणाभिमुखो देवो योगानन्दोनृकेसरी ॥ ४६ ॥

योगाभ्यासम् तु कृतवान् प्रह्लादस्य महात्मनः ।

तदा प्रभृति लोकस्तु योगानन्द इति ब्रुवन् ॥ ४७ ॥

तस्य वायव्यभागे तु भगवान् नरकेसरी ।

योगानन्दस्वरूपेण गुहायाम् सम्प्रकाशते ॥ ४८ ॥

गरुडाद्रेर्दक्षिणतः पावनम् नाम तीर्थकम् ।

तत्रास्ते भगवान् विष्णुर्नृसिम्हस्य स्वरूपधृत् ॥

सम्श्रितानाम् तु जन्तूनामभीष्टार्थप्रदायकः ॥ ४९ ॥

गरुडाद्रेः पश्चिमतः ह्यविदूरे करञ्जकः ।

महान् वृक्षस्तत्र चास्ते तन्मूले नरकेसरी ॥ ५० ॥

तत्स्थानान्नैर्ऋते भागे क्रोशार्धे ह्यविदूरतः ।

आस्ते छत्रवटच्छायामाश्रितो नरकेसरी ॥ ५१ ॥

तस्य चोत्तरभागे तु पर्वतान्तरिते स्थले ।

भार्गवे तीर्थवर्ये तु समास्ते नरकेसरी ॥ ५२ ॥

अचलच्छायमेरोस्तु मध्ये ज्वालानुकेसरी ।

एते नवविधाः प्रोक्ता नृसिम्हा नवधा स्मृताः ॥ ५३ ॥

एकैकस्य प्रभावस्तु वक्तुम् शक्यम् न वेधसा ।

तथाप्युद्देशतो वक्षये किञ्चिदेव पृथक्पृथक् ॥ ५४ ॥

वाराहारूपी भगवान्यत्रास्ते मधुसूदनः ।

वाराहम् क्षेत्रमुद्दिष्टम् क्षेत्राणामुत्तमोत्तमम् ॥ ५५ ॥

ये केचन नरास्तत्र वैष्णवम् मन्त्रमुत्तमम् ।

जपन्ति पुष्कराक्षस्य पुरतो नियतव्रताः ॥ ५६ ॥

सप्ताहात् पञ्चरात्राद्वा सिद्धिस्तेषाम् न सम्शयः

भूकामा राज्यकामा वा ये वै केचन मानवाः ॥ ५७ ॥

अनेन स्तोत्रवर्येण सायम् प्रातः समाहिताः ।

स्तुवन्तो मासषट्के न स्वेप्सितार्थमवाप्नुयुः ॥५८ ॥

भूमिः

नमस्ते सर्वरूपाय तुभ्यम् खड्गधराय च ।

मामुद्धरास्मादद्य त्वम् त्वत्तोऽहम् पूर्वमुत्थिता ॥ ५९ ॥

त्वत्तोऽहमुत्थिता पूर्वम् त्वन्मयाहम् जनार्दन ।

तथान्यानि च भूतानि गगनादीन्यशेषत: ॥ ६० ॥

नमस्ते परमात्मात्मन् पुरुषात्मन्नमोऽस्तु ते ।

प्रधानवस्तुभूताय कालभूताय ते नमः ॥ ६१ ॥

त्वम् कर्ता सर्वभूतानाम् त्वम् पिता त्वम् विनाशकृत् ।

स्वर्गादिषु परो ब्रह्मा विष्णुरुद्रात्मरूपधृत् ॥ ६२ ॥

सम्भक्षयित्वा सकलम् जगत्येकार्णवीकृते ।

शेषे त्वमेव गोविन्द चिन्त्यमानो मनीषीभिः ॥ ६३ ॥

भवतो यत्परम् रूपम् तन्न जानन्ति केचन ।

अवतारेषु यद्रूपम् तदर्चन्ति दिवौकसः ॥ ६४ ॥

त्वामाराध्य परम् ब्रह्मा याता मुक्तिम् मुमुक्षवः ।

वासुदेवमनाराध्य को मोक्षम् समवाम्नुयात् ॥ ६५ ॥

यत्किञ्चिन्मनसा ग्राह्यमग्राह्यम् चक्षुरादिभिः ।

बुद्ध्या च यत्परिज्ञेयम् तद्रूपमखिलम् तव ॥ ६६ ॥

त्वन्मयाहो त्वदाधारा त्वत्सृष्टा त्वामुपाश्रिता ।

माधवीति च विज्ञेयमभिधत्ते ततो हि माम् ॥ ६७ ॥

जयाखिलजगन्नम्य जय स्थूलमयाय च ।

जयानन्दमयाव्यक्त जय व्यक्त मय प्रभो ॥ ६८ ॥

परावरात्मन् विश्वात्मन् जय यज्ञपतेऽनघ ।

त्वम् यज्ञस्त्वम् वषट्कारस्त्वमोङ्कारस्त्वमग्नयः ॥ ६९ ॥

त्वम् वेदास्त्वम् षडङ्गानि त्वम् यज्ञपुरुषो हरे ।

सूर्यादयो ग्रहास्तारा नक्षत्राण्यखिलम् जगत् ॥ ७० ॥

मूर्तामूर्तमदृश्यम् च दृश्यम् च पुरुषोत्तम ।

यच्चोक्तम् यच्च नैवोक्तम् मयोक्तम् परमेश्वर ॥

तत्सर्वम् त्वम् नमस्तुभ्यम् भूयो भूयो नमो नमः ॥ ७१ ॥

इदम् स्तोत्रम् भगवतो धरण्या परिकीर्तिततम् ॥ ७२ ॥

ये पठन्ति नरा लोके श्रावयन्ति च मानवान् ।

ते यान्ति परमाम् सिद्धिम् लभन्ते पार्थिवम् फलम् ॥ ७३ ॥

वेदाद्रेः शिखरे रम्ये लक्ष्म्याः क्षेत्रमुदाहृतम् ।

तत्रास्ते भगवान् विष्णुर्लक्ष्म्या सह नृकेसरी ॥ ७४ ॥

श्रीकामा ये नरा लोके सम्पदम् वा सुरेशताम् ।

लक्ष्मीनृसिम्हमन्त्रे तु अष्टाक्षरसमन्वितम् ॥ ७५ ॥

जपन्तो मासषट्कम् तु हविष्यान्नमुपाश्रिताः ।

ते प्राप्नुवन्ति विपुलाम् श्रियम् वा यदभीप्सितम् ॥ ७६ ॥

योगानन्दनृसिम्हस्य योगक्षेत्रमुदाहृतम् ।

योगिनो मुनयो यत्र योगसिद्धिम् प्रपेदिरे ॥ ७७ ॥

मनश्चञ्चल्ययुक्तस्तु पुरा ब्रह्मा चतुर्मुखः ।

तत्रैवाराध्य गोविन्दम् प्रतिष्ठितमना ह्यभूत् ॥ ७८ ॥

चित्ते प्रतिष्ठिते पुम्साम् किमन्यद्भुवि दुर्लभम् ॥ ७९ ॥

क्षेत्ररत्नमिदम् प्रोक्तम् पावनम् लोकपावनम् ।

यत्र पूर्वम् भरद्वाजो ब्रह्महत्यामपाकरोत् ॥ ८० ॥

महापातकसम्युक्ता ह्युपपातकसम्श्रिताः ।

जातिभ्रम्शकरा ये च ये चान्ये पापसम्श्रयाः ॥ ८१ ॥

सर्वे ते विप्रमुच्यन्ते क्षेत्रस्यास्य तु दर्शनात् ॥ ८२ ॥

करञ्जमूले भगवान् यत्रास्ते शार्ङ्गचक्रधृत ।

कारञ्जम् क्षेत्रमुद्दिष्टमोश्रितम् भवनाशिनीम् ॥ ८३ ॥

येषाम् स्नानरतिः काङ्क्षा येषाम् वै ज्ञाननिश्चयः ।

तत्तदिष्टफलम् प्रादाद्भगवान् नरकेसरी ॥ ८४ ॥

पुरा दुर्वाससा शप्तो गोभिलो मुनिसत्तमः ।

तताप कतिचित् कालान् जपन् वै मन्त्रराजकम् ॥ ८५ ॥

सर्वशास्त्रेष्वभिज्ञत्वम् मनसा चिन्तयन् बुधः।

ततः प्रसन्नो भगवान् गोभिलम् प्राह सादरम् ॥ ८६ ॥

परितुष्टोऽस्मि भद्रम् ते शास्त्रज्ञानम् ददामि ते ।

सारासारविवेकज्ञः सर्वशास्त्रविशारदः ॥ ८७ ॥

अन्ते विरक्तिमासाद्य प्रविश त्वम् ममालयत् ।

अद्य प्रभृति ये ह्यत्र मामुद्दिश्य जपन्ति वै ॥ ८८ ॥

नारसिम्हम् मनुवरम् तेषाम् दास्याम्यभीप्सितम् ।

इति गोभिलमामन्त्र्य तत्रैवान्तरधीयत ॥ ८९ ॥

तथा छत्रवटम् क्षेत्रम् सुत्रामादिभिराश्रितम् ।

यत्रास्ते भगवान् प्रचीमनृगृह्णनृकेसरी ॥ ९० ॥

सिद्धगन्धर्वयक्षाद्याः शतशोऽथ सहस्रशः ।

गायन्ति विविधैर्गानैः क्षेत्रेऽस्मिन् पुरुषोत्तमम् ॥ ९१ ॥

हाहाहूह्वाख्यगन्धर्वौ मेरुपृष्ठादुपागतौ ।

अगायेताम् तु नृहरेरग्रतः स्वरसम्युतम् ॥ ९२ ॥

निषादर्षभगान्धारषड्जमध्यमधैवताः ।

पञ्चमश्चेत्यमी सप्तस्वराः कल्याणहेतवः ॥ ९३ ॥

तेषाम् सर्वप्रभेदज्ञौ कालमानविशारदौ ।

तौ तु दृष्ट्वा हरिः प्रीतो दत्तवानुत्तमम् वरम् ॥ ९४ ॥

अद्य प्रभृति लोकेऽस्मिन् गायकेषु वरौ मतौ ।

युष्मत्सदृशगातारो न भविष्यन्ति वै भुवि ॥ ९५ ॥

ये त्वत्र भरते शास्त्रे नियता ब्रह्मवादिनः ।

ते वदिष्यन्ति गानेषु नियतौ लोकविश्रुतौ ॥ ९६ ॥

भार्गवाख्यम् तथा क्षेत्रम् पुण्यम् स्वर्गापवर्गदम् ।

अत्रैव ह्यक्षयम् तीर्थम् रक्षकम् भुवनत्रयम् ॥ ९७ ॥

तत्रास्ते भगवान् शैले ह्यविदूरे नृकेसरी ।

पद्मैः सौगन्धिकैः फुल्लैर्नीलोत्पलवनैरपि ॥ ९८ ॥

परितो नीपवानीरैः परिमण्डितमण्डलम् ।

हम्सकारण्डवाकीर्णम् सम्सारार्तिच्छिदम् वरम् ॥ ९९ ॥

पनसैः पाटलैः पूगैरन्यैः फलितभूरुहैः ।

वनान्युपवनान्यत्र तीरदेशे समावृतम् ॥ १०० ॥

अक्षयम् तीर्थमुद्दिष्टम् सर्वपापविनाशनम् ।

यः स्नात्वा तत्र देवेशम् नियतात्मा दृढव्रतः ॥ १०१ ॥

पूजयेत् परया भक्त्या भगवन्तमधोक्षजम् ।

पारमेष्ठ्यम् चन्द्रधिष्ण्यम् पादाक्रान्तम् तु तस्य वै ॥ १०२ ॥

किम् क्षुद्रा भोगसम्भूतिर्मुक्तिर्यस्य करे स्थिता ।

अद्यापि भार्गवस्तत्र तपश्चरति निश्चलम् ॥ १०३ ॥

अनुगृह्णन् हि ये केचित् स्वस्वेप्सितफलार्थिनः ।

स्तुवन्ति वा नमस्यन्ति भार्गवम् भक्तवत्सलम् ॥ १०४ ॥

इदम् तीर्थमुपाश्रित्य वसिष्ठाद्या महर्षयः ।

स्वम् स्वम् पदमनुप्राप्ता नृसिम्हस्य प्रसादतः ॥ १०५ ॥

ज्वालाख्यमुक्तिक्षेत्रम् तु अवग्रहनिबर्हणम् ।

अव्यग्रास्तत्र तिष्ठन्ति ऋषयः सम्शितव्रताः ॥ १०६ ॥

कार्तिके मासि नियता दीपमारोपयन्ति ये ।

घृतेन वाथ तैलेन देवदेवस्य सन्निधौ ॥ १०७ ॥

तेजः कान्तिसमायुक्ताः सायुज्यम् प्राप्नुवन्ति ते ।

वीतरागाश्च मुनयो बहवः समुपाश्रिताः ॥ १०८ ॥

उद्यद्भास्वत्सहस्रप्रभमशनिनिभम् स्वेक्षणैर्विष्किरन्तम्

वह्रीनह्नाय विद्युत्ततिविततिसटाभीषणम् भूषणैश्च ।

दिव्यैरादीप्तदेहम् निशितनखलसद्वाहु दण्डैरनेकैः

सम्भिन्नम् भिन्नदैत्येश्वरतनुमतनुम् नारसिम्हम् भजामः ॥ १०९ ॥

इत्थम् नवानाम् क्षेत्राणाम् माहात्म्यमुपवर्णितम् ।

नारसिम्हाधिष्ठितानि सन्त्यन्यानि सहस्रशः ॥ ११० ॥

यस्त्वेतच्छृणुयान्नित्यम् यस्त्वेतत् परिकीर्तयेत् ।

तावुभौ परमाम् सिद्धिम् नियमादुपगच्छतः ॥ १११ ॥

यथा हरेरभिव्यक्तेरेकस्यापि सहस्रशः ।

तत्तथाहोबिलम् क्षेत्रम् तत्तद्देशेऽभिधीयते ॥ ११२ ॥

पक्षीन्द्रम् पोत्रसञ्ज्ञम् जलनिधितनयासञ्ज्ञितम् योगसञ्ज्ञम्

कारञ्जम् क्षेत्रवर्यम् फलितफलचयम् छत्रपूर्वम् वटम् च ।

ज्वालाख्यम् भार्गवाख्यम् भगवदभिमतम् भावितम् योगिवर्यैः

पुण्यम् तत्पावनाख्यम् हृदि कलयताम् कल्पते सत्फलाय ॥ ११३॥

॥ इति श्रीब्रह्माण्डपुराणे क्षेत्रकाण्डे श्रीमदहोबिलमाहात्म्ये चतुर्थोऽध्यायः ॥

॥ श्रीः ॥

॥ श्रीमते लक्ष्मीनृसिम्हपरब्रह्मणे नमः ॥

॥ श्रीमदहोबिलमाहात्म्ये पञ्चमोऽध्यायः ॥

ऋषयः

श्रुतम् विस्तरतो ब्रह्मन् माहात्म्यम् हयमेधसः ।

नारसिम्हाधिष्ठितानाम् क्षेत्राणाम् सुखसङ्ग्रहम् ॥ १ ॥

इदानीम् श्रोतुमिच्छामो देवस्य हयमेधसः ।

कथमासीत्समुद्भूतिः स्तम्भे सम्भावितात्मनः ॥ २ ॥

कथम् विरोध उत्पन्नो जनकस्य सुतस्य च ।

एताम् विस्तरतो ब्रूहि कथाम् नृहरिसम्श्रिताम् ॥ ३ ॥

श्रीनारदः

वैकुण्ठाख्ये कार्यलोके श्रीभूमिसहितो हरिः ।

आस्ते विष्णुरमेयात्मा भक्तैर्भागवतैः सह ॥ ४ ॥

सनकाद्याः मुनिवराः सदा हरिपरायणाः ।

स्वयम् आगत विज्ञाना: निवृत्तिम् धर्मम् आश्रिताः ॥ ५ ॥

बाल्यात् अनुपनीताश्च दिगम्बर पदाश्रिताः ।

भगवन्तमथो द्रष्टुम् नारायणमनामयम् ॥ ६ ॥

वैकुण्ठपुरमाजग्मुः अनिवारित चेष्टिताः ।

तन्मध्ये भगवद्दाम नानामणिविचित्रितम् ॥ ७ ॥

हेम प्राकारसम्युक्तम् पताकाभिः अलङ्कृतम् ।

दिव्यैः मणिमयैः कान्तैः गोपुरैश्च विचित्रितम् ॥ ८ ॥

परितः कल्पतरुभिः सारिकाशुकसेवितम् ।

मण्डितम् पुण्डरीकाक्ष मन्दिरम् विविशुः तदा ॥ ९ ॥

विशमानास्तु ते सर्वे वारिता द्वारपालकैः ॥ १० ॥

तत्र द्वौ द्वारपालौ तु जयश्च विजयस्तथा ।

तौ तु पुण्यविशेषेण भगवद्वारमाश्रितौ ॥

तौ तु दृष्ट्वा महाकायौ योगिनः कोपकर्शिताः ॥ ११ ॥

निस्पृहाणामिहास्माकम् किमर्थम् वारणम् कृतम् ।

सस्पृहाणाम् वारणार्थम् कल्पितौ हरिणा युवाम् ॥ १२ ॥

यस्मादनपराधानाम् भवद्भ्याम् वारणम् कृतम् ।

तेन पापेन सम्भूतमसुरत्वम् गमिष्यथः ॥ १३ ॥

इति शापे दीयमाने भगवान् पुरुषोत्तमः । करौ धून्वन् सम्भ्रमेण श्रियमङ्कगताम् नुदन् ॥ १४ ॥

इदमर्घ्यमिदम् पाद्यमिदमाचमनीयकम् ।

इदमासनमित्येवम् प्राह तान् पुरुषोत्तमः ॥ १४ ॥

तदाकर्ण्य तु सन्त्रस्ता मुनयः सनकादयः ।

त्वरया परया युक्तम् भगवन्तम् ववन्दिरे ॥ १६ ॥

भगवानपि सर्वात्मा प्राह तानृषिसत्तमान् ।

क्षेमम् वो मुनयस्सर्वे सनकाद्या महौजसः ॥ १७ ॥

दीयतेऽत्र समर्थम् हि भवद्भिः सत्त्वम्सम्स्थितैः ।

अस्माकम् गुरवः साक्षात् पोषकाः सौम्यहेतवः ॥ १८ ॥

युष्मत्प्रसादादखिलम् परिपूर्णम् जगत्त्रयम् ।

सृष्टिस्थिति अन्तकरणे शक्ति: युष्मत् प्रसादतः ॥

स्वयम् दाराश्च मित्राणि बान्धवाः पादचारकाः ॥ १९ ॥

आधिपत्यम् सुरेन्द्राणामनन्य॒गतवैभवम् ।

युष्मत्प्रसादात् सन्देहो नमे स्याद् वाञ्छितम् फलम् ॥२०॥

अहो भाग्यमहो भाग्यमद्यापि भुवनेश्वरः । यदहम् दृष्टवान् युष्मान् सनकादीन् महामुनीन् ॥ २१ ॥

कृतार्थोऽस्मि न सन्देहो यन्मे स्याद् वाञ्छितम् फलम् ।

यन्मे गृहाङ्गणम् प्राप्ता मुनयः सनकादयः ॥ २२ ॥

इत्येवम् बहुधा स्तुत्वा तूष्णीम् भूते जनार्दने ।

मुनयः साध्वसम् प्राप्ताः किञ्चित् पीडितचेतसः ॥

भगवन्तमथ प्रोचुः प्रश्रयानतकन्धराः ॥ २३ ॥

सनकादयः

भगवन् क्षम्यतामेतद् यच्छप्तौ द्वारपालकौ ।

मूढैरेवम् कृतो ब्रह्मन् कुतः शापो मनीषिणाम् ॥ २४ ॥

देहानुबन्धो यावत् तु यावत् स्यादिन्द्रियाश्रयः ।

तावत् कथम् महाभाग हृदये ज्ञानमुत्तमम् ॥ २५ ॥

क्रोधादिदूषिते चित्ते कथम् विष्णर्वसिष्यते ।

कथम् वा पङ्किलो तीर्थे हम्सो बध्नाति वै रतिम् ॥ २६ ॥

इत्येवम् बहुधा नैच्यम् ब्रुवन्तस्ते मुनीश्वराः ।

शरण्यम् शरणम् जग्मुर्भगवन्तमधोक्षजम् ॥ २७ ॥

श्रीभगवन्

अनुग्रहो हि युष्माभिरेतयोः परिकल्पितः ॥ २८ ॥

तथैव त्रीणि जन्मानि मत्कथापरिपन्थिनौ ।

भविष्यतो न सन्देहो विप्रवाक्यम् तु तत्तथा ॥ २९ ॥

इत्युक्त्वा तान् समाश्वास्य तयोः कार्यम् विनिर्दिशन् ।

पश्यताम् योगिवर्याणाम् तत्रैवान्तरधीयत ॥ ३० ॥

योगिनः स्मयमापन्नाः स्मरन्तो हरिभाषितम् ।

पुलकाङ्कितसर्वाङ्गाः स्वम् स्वम् धाम प्रपेदिरे ॥ ३१ ॥

जयश्च विजयश्चैव तौ हरेर्द्वारपालकौ ।

प्रारब्दशेषमापन्नौ जनने दधतुर्मनः ॥ ३२ ॥

हिरण्यकहिरण्याक्षौ सञ्जातौ लोककण्टकौ ।

अत्यन्तभीषणाकारावमर त्रासकारिणौ ॥

तपसाराध्य धातारम् तल्लब्धवरदर्पितौ ॥ ३३ ॥

हिरण्याक्षस्तु बलवान् क्रोडरूपेण विष्णुना ।

प्रसह्य निहतः सङ्ख्ये लोकानुग्रहकारिणा ॥ ३४ ॥

हिरण्यकशिपुर्धीमान् शौर्यवीर्यपराक्रमैः ।

ससुरासुरगन्धर्वम् जिगाय भुवनत्रयम् ॥ ३५ ॥

ईश्वरोऽहमहम् भोगी सिद्धोऽहम् बलवान् सुखी ।

आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया ॥ ३६॥

अहम् विष्णुरहम् ब्रह्मा अहम् लोकान्तकः शिवः ।

सृष्टिस्थित्यन्तकर्माणि अहमेव करोमि वै ॥ ३७ ॥

हरिर्हरो विधातेति मूढैरेव प्रकल्पितः ।

स्वसामर्थ्यमनादृत्य कथमन्येन सिध्यति ॥ ३८ ॥

न स्वाध्यायवषट्करौ नाग्नयः सवनम् तथा ।

न वेदशास्त्रपठनम् नाग्निहोत्र क्रियास्तथा ॥ ३९ ॥

न कर्तव्यम् द्विजवरैर्देवतोद्देशतः क्वचित् ।

मामुद्दिश्यैव कर्तव्यमहम् भोक्ता फलप्रदः ॥ ४० ॥

ये तु विष्णुम् हरिम् वापि स्मरन्ति गतचेतसः ।

ये कुर्वन्ति हरिम् प्रीत्या इष्टापूर्तादिकम् विधिम् ||

ते निर्वाप्या न सन्देहोऽस्मद्विषय वासिनः ॥ ४१ ॥

इत्येवम् दुष्टचेष्टोऽयम् हिरण्यकमहासुरः ।

शशास पृथिवीमेताम् विधातृवरदर्पितः ॥ ४२ ॥

हिरण्यकशिपोस्त्रस्ताः सेन्द्राः देवगणास्तदा ।

परमापदमापन्ना बृहस्पतिमथाब्रुवन् ॥ ४३ ॥

कथम् निस्तरणोपायो हिरण्यकशिपोर्भवेत् ।

एवमुक्तस्तदा तैस्तु बृहस्पतिरभाषत ॥ ४४ ॥

बृहस्पति:

क्षीरोदस्योत्तरतटे स्तूयताम् तत्र केशवः ।

युष्माभिः सम्स्तुतो विष्णुः प्रसन्नो भवति क्षणात् ॥ ४५॥

तस्मिन् प्रसन्ने दैत्यस्य वधोपायो भविष्यति ।

इत्युक्तास्तु तदा देवाः साधु साध्विति तेऽब्रुवन् ॥ ४६ ॥

प्रीत्या परमया युक्ता गतिम् चक्रुर्यथोदितम् ।

पुण्ये तिथौ दिने लग्ने पुण्याहम् स्वस्ति मङ्गलम् ॥ ४७ ॥

कारयित्वा मुनिवरैः प्रस्थितास्ते दिवौकसः ।

नाशाय दुष्टदैत्यस्य स्वभूत्यै च द्विजोत्तमाः ॥ ४८ ॥

ते शर्वमग्रतः कृत्वा क्षीराब्धेरुत्तरम् तटम् ।

तत्र गत्वा सुरास्सर्वे सेन्द्रा विष्णुम् जनार्दनम् ॥

अस्तुवन् विविधैः स्तोत्रैः पूजयन्तोऽवतस्थिरे ॥ ४९ ॥

भवोऽपि भगवद्भक्त्या भगवन्तम् जनार्दनम् ।

अस्तुवन्नामभिः पुण्यैरेकान्तमनसा हरिम् ॥ ५० ॥

महादेवः

विष्णुर्जिष्णुर्विभुर्यज्ञो यज्ञेशो यज्ञपालकः ।

प्रभविष्णुर्ग्रसिष्णुश्च लोकात्मालोकनायकः ॥ ५१ ॥

मोदकः पुण्डरीकाक्षः क्षीराब्धिकृतकेतनः  ।

पूज्यः सुरासुरैरीशः प्रेरकः पापनाशनः ॥ ५२ ॥

वैकुण्ठः कमलावासः सर्वदेवनमस्कृतः ।

त्वम् यज्ञस्त्वम् वषट्कारस्त्वमोङ्कारस्त्वमग्नयः ॥ ५३ ॥

त्वम् स्वाहा त्वम् स्वधा देवस्त्वम् सुधा पुरुषोत्तमः ।

नमो देवाधिदेवाय विष्णवे शाश्वताय च ॥ ५४ ॥

अनन्तायाप्रमेयाय नमस्ते गरुडध्वज ।

इति स्तोत्रम् महच्चक्रे भगवान् पार्वतीपतिः ॥

तत: प्रसन्नो भगवानिदम् वचनमब्रवीत् ॥ ५५ ॥

युष्माभिः सम्स्रुतो देवाः शिवेन च महात्मना ।

अहम् किमर्थम् तद्भूत श्रुत्वा सर्वम् करोमि व: ॥ ५६ ॥

देवदेव हृषिकेश पुण्डरीकाक्ष माधव ।

त्वमेव जानासि हरे किमस्मान् परिपृच्छसि ॥ ५७ ॥

श्री भगवान्

युष्मदागमनम् सर्वम् जानाम्यसुरमर्दनाः ।

हिरण्यकविनाशाय स्तुतोऽहम् शङ्करेण तु ॥ ५८ ॥

पुण्यैर्नामविशेषैस्तु स्तुतोऽहम् परितोषितः ॥ ५९ ॥

एतेन यस्तु माम् नित्यम् शङ्करोक्तेन भावयेत् ।

तेनाहम् पूजितो नित्यम् शङ्करेण यथा तथा ॥ ६० ॥

इत्युक्त्वा शङ्करम् प्राह बहुमानपुरस्सरम् ।

प्रीतोऽहम् गच्छ शम्भो त्वम् कैलासनिलयम् शुभम् ॥ ६१ ॥

त्वया स्तुतो हनिष्यामि हिरण्यकशिपुम् भव ।

गच्छध्वमधुना देवाः स्वस्थानम् विगतज्वराः ॥ ६२ ॥

अहमद्य गमिष्यामि वधार्थम् सुरवैरिणः ।

इत्युक्त्वान्तर्दधे देवः स्वम् स्वम् स्थानम् सुरा ययुः ॥ ६२ ॥

कर्मणा कल्पितम् कालम् स्वाज्ञारूपम् जनार्दनः ।

अवेक्षमाणः सम्स्तस्थौ कालो हि दुरतिक्रमः ॥ ६४ ॥

हिरण्यकशिपुर्विप्रान् पीडयन् पृथिवीमिमाम् ।

शशान बलदोर्दण्डखण्डिताखण्डलद्युतिः ॥ ६५ ॥

शून्यमासिज्जगत्रस्तम् वैदिकाचारवर्जनात् ॥ ६६ ॥

इति भुवनमशेषम् पीडयन् पद्मयोनेः

अनुपमवरदानाद् दर्पितो दैत्यराजः ।

न गणयति सुरेशम् शूलिनम् वा मुरारिम्

कमलभवमथान्यान् का कथा मानुशेषु ॥ ६७ ॥

॥ इति श्रीब्रह्माण्डपुराणे क्षेत्रकाण्डे श्रीमदहोबिलमाहात्म्ये

पञ्चमोऽध्यायः ॥

 

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.