श्रीः
श्रीमहाभारतम्
||१ आदिपर्वम् ||
001-अध्यायः–अनुक्रमणीपर्व
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् |
देवीं सरस्वतीं चैव ततो जयमुदीरयेत् ||०||
लोमहर्षणपुत्र उग्रश्रवाः सूतः पौराणिको नैमिषारण्ये शौनकस्य कुलपतेर्द्वादशवार्षिके सत्रे | ००१ |
समासीनानभ्यगच्छद्ब्रह्मर्षीन्संशितव्रतान् |
विनयावनतो भूत्वा कदाचित्सूतनन्दनः ||२||
तमाश्रममनुप्राप्तं नैमिषारण्यवासिनः |
चित्राः श्रोतुं कथास्तत्र परिवव्रुस्तपस्विनः ||३||
अभिवाद्य मुनींस्तांस्तु सर्वानेव कृताञ्जलिः |
अपृच्छत्स तपोवृद्धिं सद्भिश्चैवाभिनन्दितः ||४||
अथ तेषूपविष्टेषु सर्वेष्वेव तपस्विषु |
निर्दिष्टमासनं भेजे विनयाल्लोमहर्षणिः ||५||
सुखासीनं ततस्तं तु विश्रान्तमुपलक्ष्य च |
अथापृच्छदृषिस्तत्र कश्चित्प्रस्तावयन्कथाः ||६||
कुत आगम्यते सौते क्व चायं विहृतस्त्वया |
कालः कमलपत्राक्ष शंसैतत्पृच्छतो मम ||७||
सूत उवाच||
जनमेजयस्य राजर्षेः सर्पसत्रे महात्मनः |
समीपे पार्थिवेन्द्रस्य सम्यक्पारिक्षितस्य च ||८||
कृष्णद्वैपायनप्रोक्ताः सुपुण्या विविधाः कथाः |
कथिताश्चापि विधिवद्या वैशम्पायनेन वै ||९||
श्रुत्वाहं ता विचित्रार्था महाभारतसंश्रिताः |
बहूनि सम्परिक्रम्य तीर्थान्यायतनानि च ||१०||
समन्तपञ्चकं नाम पुण्यं द्विजनिषेवितम् |
गतवानस्मि तं देशं युद्धं यत्राभवत्पुरा ||
पाण्डवानां कुरूणां च सर्वेषां च महीक्षिताम् ||११||
दिदृक्षुरागतस्तस्मात्समीपं भवतामिह |
आयुष्मन्तः सर्व एव ब्रह्मभूता हि मे मताः ||१२||
अस्मिन्यज्ञे महाभागाः सूर्यपावकवर्चसः |
कृताभिषेकाः शुचयः कृतजप्या हुताग्नयः ||
भवन्त आसते स्वस्था ब्रवीमि किमहं द्विजाः ||१३||
पुराणसंश्रिताः पुण्याः कथा वा धर्मसंश्रिताः |
इतिवृत्तं नरेन्द्राणामृषीणां च महात्मनाम् ||१४||
ऋषय ऊचुः||
द्वैपायनेन यत्प्रोक्तं पुराणं परमर्षिणा |
सुरैर्ब्रह्मर्षिभिश्चैव श्रुत्वा यदभिपूजितम् ||१५||
तस्याख्यानवरिष्ठस्य विचित्रपदपर्वणः |
सूक्ष्मार्थन्याययुक्तस्य वेदार्थैर्भूषितस्य च ||१६||
भारतस्येतिहासस्य पुण्यां ग्रन्थार्थसंयुताम् |
संस्कारोपगतां ब्राह्मीं नानाशास्त्रोपबृंहिताम् ||१७||
जनमेजयस्य यां राज्ञो वैशम्पायन उक्तवान् |
यथावत्स ऋषिस्तुष्ट्या सत्रे द्वैपायनाज्ञया ||१८||
वेदैश्चतुर्भिः समितां व्यासस्याद्भुतकर्मणः |
संहितां श्रोतुमिच्छामो धर्म्यां पापभयापहाम् ||१९||
सूत उवाच||
आद्यं पुरुषमीशानं पुरुहूतं पुरुष्टुतम् |
ऋतमेकाक्षरं ब्रह्म व्यक्ताव्यक्तं सनातनम् ||२०||
असच्च सच्चैव च यद्विश्वं सदसतः परम् |
परावराणां स्रष्टारं पुराणं परमव्ययम् ||२१||
मङ्गल्यं मङ्गलं विष्णुं वरेण्यमनघं शुचिम् |
नमस्कृत्य हृषीकेशं चराचरगुरुं हरिम् ||२२||
महर्षेः पूजितस्येह सर्वलोके महात्मनः |
प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः ||२३||
आचख्युः कवयः केचित्सम्प्रत्याचक्षते परे |
आख्यास्यन्ति तथैवान्ये इतिहासमिमं भुवि ||२४||
इदं तु त्रिषु लोकेषु महज्ज्ञानं प्रतिष्ठितम् |
विस्तरैश्च समासैश्च धार्यते यद्द्विजातिभिः ||२५||
अलङ्कृतं शुभैः शब्दैः समयैर्दिव्यमानुषैः |
छन्दोवृत्तैश्च विविधैरन्वितं विदुषां प्रियम् ||२६||
निष्प्रभेऽस्मिन्निरालोके सर्वतस्तमसावृते |
बृहदण्डमभूदेकं प्रजानां बीजमक्षयम् ||२७||
युगस्यादौ निमित्तं तन्महद्दिव्यं प्रचक्षते |
यस्मिंस्तच्छ्रूयते सत्यं ज्योतिर्ब्रह्म सनातनम् ||२८||
अद्भुतं चाप्यचिन्त्यं च सर्वत्र समतां गतम् |
अव्यक्तं कारणं सूक्ष्मं यत्तत्सदसदात्मकम् ||२९||
यस्मात्पितामहो जज्ञे प्रभुरेकः प्रजापतिः |
ब्रह्मा सुरगुरुः स्थाणुर्मनुः कः परमेष्ठ्यथ ||३०||
प्राचेतसस्तथा दक्षो दक्षपुत्राश्च सप्त ये |
ततः प्रजानां पतयः प्राभवन्नेकविंशतिः ||३१||
पुरुषश्चाप्रमेयात्मा यं सर्वमृषयो विदुः |
विश्वेदेवास्तथादित्या वसवोऽथाश्विनावपि ||३२||
यक्षाः साध्याः पिशाचाश्च गुह्यकाः पितरस्तथा |
ततः प्रसूता विद्वांसः शिष्टा ब्रह्मर्षयोऽमलाः ||३३||
राजर्षयश्च बहवः सर्वैः समुदिता गुणैः |
आपो द्यौः पृथिवी वायुरन्तरिक्षं दिशस्तथा ||३४||
संवत्सरर्तवो मासाः पक्षाहोरात्रयः क्रमात् |
यच्चान्यदपि तत्सर्वं सम्भूतं लोकसाक्षिकम् ||३५||
यदिदं दृश्यते किञ्चिद्भूतं स्थावरजङ्गमम् |
पुनः सङ्क्षिप्यते सर्वं जगत्प्राप्ते युगक्षये ||३६||
यथर्तावृतुलिङ्गानि नानारूपाणि पर्यये |
दृश्यन्ते तानि तान्येव तथा भावा युगादिषु ||३७||
एवमेतदनाद्यन्तं भूतसंहारकारकम् |
अनादिनिधनं लोके चक्रं सम्परिवर्तते ||३८||
त्रयस्त्रिंशत्सहस्राणि त्रयस्त्रिंशच्छतानि च |
त्रयस्त्रिंशच्च देवानां सृष्टिः सङ्क्षेपलक्षणा ||३९||
दिवस्पुत्रो बृहद्भानुश्चक्षुरात्मा विभावसुः |
सविता च ऋचीकोऽर्को भानुराशावहो रविः ||४०||
पुत्रा विवस्वतः सर्वे मह्यस्तेषां तथावरः |
देवभ्राट्तनयस्तस्य तस्मात्सुभ्राडिति स्मृतः ||४१||
सुभ्राजस्तु त्रयः पुत्राः प्रजावन्तो बहुश्रुताः |
दशज्योतिः शतज्योतिः सहस्रज्योतिरात्मवान् ||४२||
दश पुत्रसहस्राणि दशज्योतेर्महात्मनः |
ततो दशगुणाश्चान्ये शतज्योतेरिहात्मजाः ||४३||
भूयस्ततो दशगुणाः सहस्रज्योतिषः सुताः |
तेभ्योऽयं कुरुवंशश्च यदूनां भरतस्य च ||४४||
ययातीक्ष्वाकुवंशश्च राजर्षीणां च सर्वशः |
सम्भूता बहवो वंशा भूतसर्गाः सविस्तराः ||४५||
भूतस्थानानि सर्वाणि रहस्यं त्रिविधं च यत् |
वेदयोगं सविज्ञानं धर्मोऽर्थः काम एव च ||४६||
धर्मकामार्थशास्त्राणि शास्त्राणि विविधानि च |
लोकयात्राविधानं च सम्भूतं दृष्टवानृषिः ||४७||
इतिहासाः सवैयाख्या विविधाः श्रुतयोऽपि च |
इह सर्वमनुक्रान्तमुक्तं ग्रन्थस्य लक्षणम् ||४८||
विस्तीर्यैतन्महज्ज्ञानमृषिः सङ्क्षेपमब्रवीत् |
इष्टं हि विदुषां लोके समासव्यासधारणम् ||४९||
मन्वादि भारतं केचिदास्तीकादि तथापरे |
तथोपरिचराद्यन्ये विप्राः सम्यगधीयते ||५०||
विविधं संहिताज्ञानं दीपयन्ति मनीषिणः |
व्याख्यातुं कुशलाः केचिद्ग्रन्थं धारयितुं परे ||५१||
तपसा ब्रह्मचर्येण व्यस्य वेदं सनातनम् |
इतिहासमिमं चक्रे पुण्यं सत्यवतीसुतः ||५२||
पराशरात्मजो विद्वान्ब्रह्मर्षिः संशितव्रतः |
मातुर्नियोगाद्धर्मात्मा गाङ्गेयस्य च धीमतः ||५३||
क्षेत्रे विचित्रवीर्यस्य कृष्णद्वैपायनः पुरा |
त्रीनग्नीनिव कौरव्याञ्जनयामास वीर्यवान् ||५४||
उत्पाद्य धृतराष्ट्रं च पाण्डुं विदुरमेव च |
जगाम तपसे धीमान्पुनरेवाश्रमं प्रति ||५५||
तेषु जातेषु वृद्धेषु गतेषु परमां गतिम् |
अब्रवीद्भारतं लोके मानुषेऽस्मिन्महानृषिः ||५६||
जनमेजयेन पृष्टः सन्ब्राह्मणैश्च सहस्रशः |
शशास शिष्यमासीनं वैशम्पायनमन्तिके ||५७||
स सदस्यैः सहासीनः श्रावयामास भारतम् |
कर्मान्तरेषु यज्ञस्य चोद्यमानः पुनः पुनः ||५८||
विस्तरं कुरुवंशस्य गान्धार्या धर्मशीलताम् |
क्षत्तुः प्रज्ञां धृतिं कुन्त्याः सम्यग्द्वैपायनोऽब्रवीत् ||५९||
वासुदेवस्य माहात्म्यं पाण्डवानां च सत्यताम् |
दुर्वृत्तं धार्तराष्ट्राणामुक्तवान्भगवानृषिः ||६०||
चतुर्विंशतिसाहस्रीं चक्रे भारतसंहिताम् |
उपाख्यानैर्विना तावद्भारतं प्रोच्यते बुधैः ||६१||
ततोऽध्यर्धशतं भूयः सङ्क्षेपं कृतवानृषिः |
अनुक्रमणिमध्यायं वृत्तान्तानां सपर्वणाम् ||६२||
इदं द्वैपायनः पूर्वं पुत्रमध्यापयच्छुकम् |
ततोऽन्येभ्योऽनुरूपेभ्यः शिष्येभ्यः प्रददौ प्रभुः ||६३||
नारदोऽश्रावयद्देवानसितो देवलः पितृन् |
गन्धर्वयक्षरक्षांसि श्रावयामास वै शुकः ||६४||
दुर्योधनो मन्युमयो महाद्रुमः; स्कन्धः कर्णः शकुनिस्तस्य शाखाः |
दुःशासनः पुष्पफले समृद्धे; मूलं राजा धृतराष्ट्रोऽमनीषी ||६५||
युधिष्ठिरो धर्ममयो महाद्रुमः; स्कन्धोऽर्जुनो भीमसेनोऽस्य शाखाः |
माद्रीसुतौ पुष्पफले समृद्धे; मूलं कृष्णो ब्रह्म च ब्राह्मणाश्च ||६६||
पाण्डुर्जित्वा बहून्देशान्युधा विक्रमणेन च |
अरण्ये मृगयाशीलो न्यवसत्सजनस्तदा ||६७||
मृगव्यवायनिधने कृच्छ्रां प्राप स आपदम् |
जन्मप्रभृति पार्थानां तत्राचारविधिक्रमः ||६८||
मात्रोरभ्युपपत्तिश्च धर्मोपनिषदं प्रति |
धर्मस्य वायोः शक्रस्य देवयोश्च तथाश्विनोः ||६९||
तापसैः सह संवृद्धा मातृभ्यां परिरक्षिताः |
मेध्यारण्येषु पुण्येषु महतामाश्रमेषु च ||७०||
ऋषिभिश्च तदानीता धार्तराष्ट्रान्प्रति स्वयम् |
शिशवश्चाभिरूपाश्च जटिला ब्रह्मचारिणः ||७१||
पुत्राश्च भ्रातरश्चेमे शिष्याश्च सुहृदश्च वः |
पाण्डवा एत इत्युक्त्वा मुनयोऽन्तर्हितास्ततः ||७२||
तांस्तैर्निवेदितान्दृष्ट्वा पाण्डवान्कौरवास्तदा |
शिष्टाश्च वर्णाः पौरा ये ते हर्षाच्चुक्रुशुर्भृशम् ||७३||
आहुः केचिन्न तस्यैते तस्यैत इति चापरे |
यदा चिरमृतः पाण्डुः कथं तस्येति चापरे ||७४||
स्वागतं सर्वथा दिष्ट्या पाण्डोः पश्याम सन्ततिम् |
उच्यतां स्वागतमिति वाचोऽश्रूयन्त सर्वशः ||७५||
तस्मिन्नुपरते शब्दे दिशः सर्वा विनादयन् |
अन्तर्हितानां भूतानां निस्वनस्तुमुलोऽभवत् ||७६||
पुष्पवृष्टिः शुभा गन्धाः शङ्खदुन्दुभिनिस्वनाः |
आसन्प्रवेशे पार्थानां तदद्भुतमिवाभवत् ||७७||
तत्प्रीत्या चैव सर्वेषां पौराणां हर्षसम्भवः |
शब्द आसीन्महांस्तत्र दिवस्पृक्कीर्तिवर्धनः ||७८||
तेऽप्यधीत्याखिलान्वेदाञ्शास्त्राणि विविधानि च |
न्यवसन्पाण्डवास्तत्र पूजिता अकुतोभयाः ||७९||
युधिष्ठिरस्य शौचेन प्रीताः प्रकृतयोऽभवन् |
धृत्या च भीमसेनस्य विक्रमेणार्जुनस्य च ||८०||
गुरुशुश्रूषया कुन्त्या यमयोर्विनयेन च |
तुतोष लोकः सकलस्तेषां शौर्यगुणेन च ||८१||
समवाये ततो राज्ञां कन्यां भर्तृस्वयंवराम् |
प्राप्तवानर्जुनः कृष्णां कृत्वा कर्म सुदुष्करम् ||८२||
ततः प्रभृति लोकेऽस्मिन्पूज्यः सर्वधनुष्मताम् |
आदित्य इव दुष्प्रेक्ष्यः समरेष्वपि चाभवत् ||८३||
स सर्वान्पार्थिवाञ्जित्वा सर्वांश्च महतो गणान् |
आजहारार्जुनो राज्ञे राजसूयं महाक्रतुम् ||८४||
अन्नवान्दक्षिणावांश्च सर्वैः समुदितो गुणैः |
युधिष्ठिरेण सम्प्राप्तो राजसूयो महाक्रतुः ||८५||
सुनयाद्वासुदेवस्य भीमार्जुनबलेन च |
घातयित्वा जरासन्धं चैद्यं च बलगर्वितम् ||८६||
दुर्योधनमुपागच्छन्नर्हणानि ततस्ततः |
मणिकाञ्चनरत्नानि गोहस्त्यश्वधनानि च ||८७||
समृद्धां तां तथा दृष्ट्वा पाण्डवानां तदा श्रियम् |
ईर्ष्यासमुत्थः सुमहांस्तस्य मन्युरजायत ||८८||
विमानप्रतिमां चापि मयेन सुकृतां सभाम् |
पाण्डवानामुपहृतां स दृष्ट्वा पर्यतप्यत ||८९||
यत्रावहसितश्चासीत्प्रस्कन्दन्निव सम्भ्रमात् |
प्रत्यक्षं वासुदेवस्य भीमेनानभिजातवत् ||९०||
स भोगान्विविधान्भुञ्जन्रत्नानि विविधानि च |
कथितो धृतराष्ट्रस्य विवर्णो हरिणः कृशः ||९१||
अन्वजानात्ततो द्यूतं धृतराष्ट्रः सुतप्रियः |
तच्छ्रुत्वा वासुदेवस्य कोपः समभवन्महान् ||९२||
नातिप्रीतमनाश्चासीद्विवादांश्चान्वमोदत |
द्यूतादीननयान्घोरान्प्रवृद्धांश्चाप्युपैक्षत ||९३||
निरस्य विदुरं द्रोणं भीष्मं शारद्वतं कृपम् |
विग्रहे तुमुले तस्मिन्नहन्क्षत्रं परस्परम् ||९४||
जयत्सु पाण्डुपुत्रेषु श्रुत्वा सुमहदप्रियम् |
दुर्योधनमतं ज्ञात्वा कर्णस्य शकुनेस्तथा ||९५||
धृतराष्ट्रश्चिरं ध्यात्वा सञ्जयं वाक्यमब्रवीत् ||९५||
शृणु सञ्जय मे सर्वं न मेऽसूयितुमर्हसि |
श्रुतवानसि मेधावी बुद्धिमान्प्राज्ञसंमतः ||९६||
न विग्रहे मम मतिर्न च प्रीये कुरुक्षये |
न मे विशेषः पुत्रेषु स्वेषु पाण्डुसुतेषु च ||९७||
वृद्धं मामभ्यसूयन्ति पुत्रा मन्युपरायणाः |
अहं त्वचक्षुः कार्पण्यात्पुत्रप्रीत्या सहामि तत् ||९८||
मुह्यन्तं चानुमुह्यामि दुर्योधनमचेतनम् ||९८||
राजसूये श्रियं दृष्ट्वा पाण्डवस्य महौजसः |
तच्चावहसनं प्राप्य सभारोहणदर्शने ||९९||
अमर्षितः स्वयं जेतुमशक्तः पाण्डवान्रणे |
निरुत्साहश्च सम्प्राप्तुं श्रियमक्षत्रियो यथा ||१००||
गान्धारराजसहितश्छद्मद्यूतममन्त्रयत् ||१००||
तत्र यद्यद्यथा ज्ञातं मया सञ्जय तच्छृणु |
श्रुत्वा हि मम वाक्यानि बुद्ध्या युक्तानि तत्त्वतः ||१०१||
ततो ज्ञास्यसि मां सौते प्रज्ञाचक्षुषमित्युत ||१०१||
यदाश्रौषं धनुरायम्य चित्रं; विद्धं लक्ष्यं पातितं वै पृथिव्याम् |
कृष्णां हृतां पश्यतां सर्वराज्ञां; तदा नाशंसे विजयाय सञ्जय ||१०२||
यदाश्रौषं द्वारकायां सुभद्रां; प्रसह्योढां माधवीमर्जुनेन |
इन्द्रप्रस्थं वृष्णिवीरौ च यातौ; तदा नाशंसे विजयाय सञ्जय ||१०३||
यदाश्रौषं देवराजं प्रवृष्टं; शरैर्दिव्यैर्वारितं चार्जुनेन |
अग्निं तथा तर्पितं खाण्डवे च; तदा नाशंसे विजयाय सञ्जय ||१०४||
यदाश्रौषं हृतराज्यं युधिष्ठिरं; पराजितं सौबलेनाक्षवत्याम् |
अन्वागतं भ्रातृभिरप्रमेयै; स्तदा नाशंसे विजयाय सञ्जय ||१०५||
यदाश्रौषं द्रौपदीमश्रुकण्ठीं; सभां नीतां दुःखितामेकवस्त्राम् |
रजस्वलां नाथवतीमनाथव; त्तदा नाशंसे विजयाय सञ्जय ||१०६||
यदाश्रौषं विविधास्तात चेष्टा; धर्मात्मनां प्रस्थितानां वनाय |
ज्येष्ठप्रीत्या क्लिश्यतां पाण्डवानां; तदा नाशंसे विजयाय सञ्जय ||१०७||
यदाश्रौषं स्नातकानां सहस्रै; रन्वागतं धर्मराजं वनस्थम् |
भिक्षाभुजां ब्राह्मणानां महात्मनां; तदा नाशंसे विजयाय सञ्जय ||१०८||
यदाश्रौषमर्जुनो देवदेवं; किरातरूपं त्र्यम्बकं तोष्य युद्धे |
अवाप तत्पाशुपतं महास्त्रं; तदा नाशंसे विजयाय सञ्जय ||१०९||
यदाश्रौषं त्रिदिवस्थं धनञ्जयं; शक्रात्साक्षाद्दिव्यमस्त्रं यथावत् |
अधीयानं शंसितं सत्यसन्धं; तदा नाशंसे विजयाय सञ्जय ||११०||
यदाश्रौषं वैश्रवणेन सार्धं; समागतं भीममन्यांश्च पार्थान् |
तस्मिन्देशे मानुषाणामगम्ये; तदा नाशंसे विजयाय सञ्जय ||१११||
यदाश्रौषं घोषयात्रागतानां; बन्धं गन्धर्वैर्मोक्षणं चार्जुनेन |
स्वेषां सुतानां कर्णबुद्धौ रतानां; तदा नाशंसे विजयाय सञ्जय ||११२||
यदाश्रौषं यक्षरूपेण धर्मं; समागतं धर्मराजेन सूत |
प्रश्नानुक्तान्विब्रुवन्तं च सम्य; क्तदा नाशंसे विजयाय सञ्जय ||११३||
यदाश्रौषं मामकानां वरिष्ठा; न्धनञ्जयेनैकरथेन भग्नान् |
विराटराष्ट्रे वसता महात्मना; तदा नाशंसे विजयाय सञ्जय ||११४||
यदाश्रौषं सत्कृतां मत्स्यराज्ञा; सुतां दत्तामुत्तरामर्जुनाय |
तां चार्जुनः प्रत्यगृह्णात्सुतार्थे; तदा नाशंसे विजयाय सञ्जय ||११५||
यदाश्रौषं निर्जितस्याधनस्य; प्रव्राजितस्य स्वजनात्प्रच्युतस्य |
अक्षौहिणीः सप्त युधिष्ठिरस्य; तदा नाशंसे विजयाय सञ्जय ||११६||
यदाश्रौषं नरनारायणौ तौ; कृष्णार्जुनौ वदतो नारदस्य |
अहं द्रष्टा ब्रह्मलोके सदेति; तदा नाशंसे विजयाय सञ्जय ||११७||
यदाश्रौषं माधवं वासुदेवं; सर्वात्मना पाण्डवार्थे निविष्टम् |
यस्येमां गां विक्रममेकमाहु; स्तदा नाशंसे विजयाय सञ्जय ||११८||
यदाश्रौषं कर्णदुर्योधनाभ्यां; बुद्धिं कृतां निग्रहे केशवस्य |
तं चात्मानं बहुधा दर्शयानं; तदा नाशंसे विजयाय सञ्जय ||११९||
यदाश्रौषं वासुदेवे प्रयाते; रथस्यैकामग्रतस्तिष्ठमानाम् |
आर्तां पृथां सान्त्वितां केशवेन; तदा नाशंसे विजयाय सञ्जय ||१२०||
यदाश्रौषं मन्त्रिणं वासुदेवं; तथा भीष्मं शान्तनवं च तेषाम् |
भारद्वाजं चाशिषोऽनुब्रुवाणं; तदा नाशंसे विजयाय सञ्जय ||१२१||
यदाश्रौषं कर्ण उवाच भीष्मं; नाहं योत्स्ये युध्यमाने त्वयीति |
हित्वा सेनामपचक्राम चैव; तदा नाशंसे विजयाय सञ्जय ||१२२||
यदाश्रौषं वासुदेवार्जुनौ तौ; तथा धनुर्गाण्डिवमप्रमेयम् |
त्रीण्युग्रवीर्याणि समागतानि; तदा नाशंसे विजयाय सञ्जय ||१२३||
यदाश्रौषं कश्मलेनाभिपन्ने; रथोपस्थे सीदमानेऽर्जुने वै |
कृष्णं लोकान्दर्शयानं शरीरे; तदा नाशंसे विजयाय सञ्जय ||१२४||
यदाश्रौषं भीष्मममित्रकर्शनं; निघ्नन्तमाजावयुतं रथानाम् |
नैषां कश्चिद्वध्यते दृश्यरूप; स्तदा नाशंसे विजयाय सञ्जय ||१२५||
यदाश्रौषं भीष्ममत्यन्तशूरं; हतं पार्थेनाहवेष्वप्रधृष्यम् |
शिखण्डिनं पुरतः स्थापयित्वा; तदा नाशंसे विजयाय सञ्जय ||१२६||
यदाश्रौषं शरतल्पे शयानं; वृद्धं वीरं सादितं चित्रपुङ्खैः |
भीष्मं कृत्वा सोमकानल्पशेषां; स्तदा नाशंसे विजयाय सञ्जय ||१२७||
यदाश्रौषं शान्तनवे शयाने; पानीयार्थे चोदितेनार्जुनेन |
भूमिं भित्त्वा तर्पितं तत्र भीष्मं; तदा नाशंसे विजयाय सञ्जय ||१२८||
यदाश्रौषं शुक्रसूर्यौ च युक्तौ; कौन्तेयानामनुलोमौ जयाय |
नित्यं चास्माञ्श्वापदा व्याभषन्त; स्तदा नाशंसे विजयाय सञ्जय ||१२९||
यदा द्रोणो विविधानस्त्रमार्गा; न्विदर्शयन्समरे चित्रयोधी |
न पाण्डवाञ्श्रेष्ठतमान्निहन्ति; तदा नाशंसे विजयाय सञ्जय ||१३०||
यदाश्रौषं चास्मदीयान्महारथा; न्व्यवस्थितानर्जुनस्यान्तकाय |
संशप्तकान्निहतानर्जुनेन; तदा नाशंसे विजयाय सञ्जय ||१३१||
यदाश्रौषं व्यूहमभेद्यमन्यै; र्भारद्वाजेनात्तशस्त्रेण गुप्तम् |
भित्त्वा सौभद्रं वीरमेकं प्रविष्टं; तदा नाशंसे विजयाय सञ्जय ||१३२||
यदाभिमन्युं परिवार्य बालं; सर्वे हत्वा हृष्टरूपा बभूवुः |
महारथाः पार्थमशक्नुवन्त; स्तदा नाशंसे विजयाय सञ्जय ||१३३||
यदाश्रौषमभिमन्युं निहत्य; हर्षान्मूढान्क्रोशतो धार्तराष्ट्रान् |
क्रोधं मुक्तं सैन्धवे चार्जुनेन; तदा नाशंसे विजयाय सञ्जय ||१३४||
यदाश्रौषं सैन्धवार्थे प्रतिज्ञां; प्रतिज्ञातां तद्वधायार्जुनेन |
सत्यां निस्तीर्णां शत्रुमध्ये च तेन; तदा नाशंसे विजयाय सञ्जय ||१३५||
यदाश्रौषं श्रान्तहये धनञ्जये; मुक्त्वा हयान्पाययित्वोपवृत्तान् |
पुनर्युक्त्वा वासुदेवं प्रयातं; तदा नाशंसे विजयाय सञ्जय ||१३६||
यदाश्रौषं वाहनेष्वाश्वसत्सु; रथोपस्थे तिष्ठता गाण्डिवेन |
सर्वान्योधान्वारितानर्जुनेन; तदा नाशंसे विजयाय सञ्जय ||१३७||
यदाश्रौषं नागबलैर्दुरुत्सहं; द्रोणानीकं युयुधानं प्रमथ्य |
यातं वार्ष्णेयं यत्र तौ कृष्णपार्थौ; तदा नाशंसे विजयाय सञ्जय ||१३८||
यदाश्रौषं कर्णमासाद्य मुक्तं; वधाद्भीमं कुत्सयित्वा वचोभिः |
धनुष्कोट्या तुद्य कर्णेन वीरं; तदा नाशंसे विजयाय सञ्जय ||१३९||
यदा द्रोणः कृतवर्मा कृपश्च; कर्णो द्रौणिर्मद्रराजश्च शूरः |
अमर्षयन्सैन्धवं वध्यमानं; तदा नाशंसे विजयाय सञ्जय ||१४०||
यदाश्रौषं देवराजेन दत्तां; दिव्यां शक्तिं व्यंसितां माधवेन |
घटोत्कचे राक्षसे घोररूपे; तदा नाशंसे विजयाय सञ्जय ||१४१||
यदाश्रौषं कर्णघटोत्कचाभ्यां; युद्धे मुक्तां सूतपुत्रेण शक्तिम् |
यया वध्यः समरे सव्यसाची; तदा नाशंसे विजयाय सञ्जय ||१४२||
यदाश्रौषं द्रोणमाचार्यमेकं; धृष्टद्युम्नेनाभ्यतिक्रम्य धर्मम् |
रथोपस्थे प्रायगतं विशस्तं; तदा नाशंसे विजयाय सञ्जय ||१४३||
यदाश्रौषं द्रौणिना द्वैरथस्थं; माद्रीपुत्रं नकुलं लोकमध्ये |
समं युद्धे पाण्डवं युध्यमानं; तदा नाशंसे विजयाय सञ्जय ||१४४||
यदा द्रोणे निहते द्रोणपुत्रो; नारायणं दिव्यमस्त्रं विकुर्वन् |
नैषामन्तं गतवान्पाण्डवानां; तदा नाशंसे विजयाय सञ्जय ||१४५||
यदाश्रौषं कर्णमत्यन्तशूरं; हतं पार्थेनाहवेष्वप्रधृष्यम् |
तस्मिन्भ्रातृणां विग्रहे देवगुह्ये; तदा नाशंसे विजयाय सञ्जय ||१४६||
यदाश्रौषं द्रोणपुत्रं कृपं च; दुःशासनं कृतवर्माणमुग्रम् |
युधिष्ठिरं शून्यमधर्षयन्तं; तदा नाशंसे विजयाय सञ्जय ||१४७||
यदाश्रौषं निहतं मद्रराजं; रणे शूरं धर्मराजेन सूत |
सदा सङ्ग्रामे स्पर्धते यः स कृष्णं; तदा नाशंसे विजयाय सञ्जय ||१४८||
यदाश्रौषं कलहद्यूतमूलं; मायाबलं सौबलं पाण्डवेन |
हतं सङ्ग्रामे सहदेवेन पापं; तदा नाशंसे विजयाय सञ्जय ||१४९||
यदाश्रौषं श्रान्तमेकं शयानं; ह्रदं गत्वा स्तम्भयित्वा तदम्भः |
दुर्योधनं विरथं भग्नदर्पं; तदा नाशंसे विजयाय सञ्जय ||१५०||
यदाश्रौषं पाण्डवांस्तिष्ठमाना; न्गङ्गाह्रदे वासुदेवेन सार्धम् |
अमर्षणं धर्षयतः सुतं मे; तदा नाशंसे विजयाय सञ्जय ||१५१||
यदाश्रौषं विविधांस्तात मार्गा; न्गदायुद्धे मण्डलं सञ्चरन्तम् |
मिथ्या हतं वासुदेवस्य बुद्ध्या; तदा नाशंसे विजयाय सञ्जय ||१५२||
यदाश्रौषं द्रोणपुत्रादिभिस्तै; र्हतान्पाञ्चालान्द्रौपदेयांश्च सुप्तान् |
कृतं बीभत्समयशस्यं च कर्म; तदा नाशंसे विजयाय सञ्जय ||१५३||
यदाश्रौषं भीमसेनानुयातेन; अश्वत्थाम्ना परमास्त्रं प्रयुक्तम् |
क्रुद्धेनैषीकमवधीद्येन गर्भं; तदा नाशंसे विजयाय सञ्जय ||१५४||
यदाश्रौषं ब्रह्मशिरोऽर्जुनेन; मुक्तं स्वस्तीत्यस्त्रमस्त्रेण शान्तम् |
अश्वत्थाम्ना मणिरत्नं च दत्तं; तदा नाशंसे विजयाय सञ्जय ||१५५||
यदाश्रौषं द्रोणपुत्रेण गर्भे; वैराट्या वै पात्यमाने महास्त्रे |
द्वैपायनः केशवो द्रोणपुत्रं; परस्परेणाभिशापैः शशाप ||१५६||
शोच्या गान्धारी पुत्रपौत्रैर्विहीना; तथा वध्वः पितृभिर्भ्रातृभिश्च |
कृतं कार्यं दुष्करं पाण्डवेयैः; प्राप्तं राज्यमसपत्नं पुनस्तैः ||१५७||
कष्टं युद्धे दश शेषाः श्रुता मे; त्रयोऽस्माकं पाण्डवानां च सप्त |
द्व्यूना विंशतिराहताक्षौहिणीनां; तस्मिन्सङ्ग्रामे विग्रहे क्षत्रियाणाम् ||१५८||
तमसा त्वभ्यवस्तीर्णो मोह आविशतीव माम् |
सञ्ज्ञां नोपलभे सूत मनो विह्वलतीव मे ||१५९||
इत्युक्त्वा धृतराष्ट्रोऽथ विलप्य बहुदुःखितः |
मूर्च्छितः पुनराश्वस्तः सञ्जयं वाक्यमब्रवीत् ||१६०||
सञ्जयैवङ्गते प्राणांस्त्यक्तुमिच्छामि माचिरम् |
स्तोकं ह्यपि न पश्यामि फलं जीवितधारणे ||१६१||
तं तथावादिनं दीनं विलपन्तं महीपतिम् |
गावल्गणिरिदं धीमान्महार्थं वाक्यमब्रवीत् ||१६२||
श्रुतवानसि वै राज्ञो महोत्साहान्महाबलान् |
द्वैपायनस्य वदतो नारदस्य च धीमतः ||१६३||
महत्सु राजवंशेषु गुणैः समुदितेषु च |
जातान्दिव्यास्त्रविदुषः शक्रप्रतिमतेजसः ||१६४||
धर्मेण पृथिवीं जित्वा यज्ञैरिष्ट्वाप्तदक्षिणैः |
अस्मिँल्लोके यशः प्राप्य ततः कालवशं गताः ||१६५||
वैन्यं महारथं वीरं सृञ्जयं जयतां वरम् |
सुहोत्रं रन्तिदेवं च कक्षीवन्तं तथौशिजम् ||१६६||
बाह्लीकं दमनं शैब्यं शर्यातिमजितं जितम् |
विश्वामित्रममित्रघ्नमम्बरीषं महाबलम् ||१६७||
मरुत्तं मनुमिक्ष्वाकुं गयं भरतमेव च |
रामं दाशरथिं चैव शशबिन्दुं भगीरथम् ||१६८||
ययातिं शुभकर्माणं देवैर्यो याजितः स्वयम् |
चैत्ययूपाङ्किता भूमिर्यस्येयं सवनाकरा ||१६९||
इति राज्ञां चतुर्विंशन्नारदेन सुरर्षिणा |
पुत्रशोकाभितप्ताय पुरा शैब्याय कीर्तिताः ||१७०||
तेभ्यश्चान्ये गताः पूर्वं राजानो बलवत्तराः |
महारथा महात्मानः सर्वैः समुदिता गुणैः ||१७१||
पूरुः कुरुर्यदुः शूरो विष्वगश्वो महाधृतिः |
अनेना युवनाश्वश्च ककुत्स्थो विक्रमी रघुः ||१७२||
विजिती वीतिहोत्रश्च भवः श्वेतो बृहद्गुरुः |
उशीनरः शतरथः कङ्को दुलिदुहो द्रुमः ||१७३||
दम्भोद्भवः परो वेनः सगरः सङ्कृतिर्निमिः |
अजेयः परशुः पुण्ड्रः शम्भुर्देवावृधोऽनघः ||१७४||
देवाह्वयः सुप्रतिमः सुप्रतीको बृहद्रथः |
महोत्साहो विनीतात्मा सुक्रतुर्नैषधो नलः ||१७५||
सत्यव्रतः शान्तभयः सुमित्रः सुबलः प्रभुः |
जानुजङ्घोऽनरण्योऽर्कः प्रियभृत्यः शुभव्रतः ||१७६||
बलबन्धुर्निरामर्दः केतुशृङ्गो बृहद्बलः |
धृष्टकेतुर्बृहत्केतुर्दीप्तकेतुर्निरामयः ||१७७||
अविक्षित्प्रबलो धूर्तः कृतबन्धुर्दृढेषुधिः |
महापुराणः सम्भाव्यः प्रत्यङ्गः परहा श्रुतिः ||१७८||
एते चान्ये च बहवः शतशोऽथ सहस्रशः |
श्रूयन्तेऽयुतशश्चान्ये सङ्ख्याताश्चापि पद्मशः ||१७९||
हित्वा सुविपुलान्भोगान्बुद्धिमन्तो महाबलाः |
राजानो निधनं प्राप्तास्तव पुत्रैर्महत्तमाः ||१८०||
येषां दिव्यानि कर्माणि विक्रमस्त्याग एव च |
माहात्म्यमपि चास्तिक्यं सत्यता शौचमार्जवम् ||१८१||
विद्वद्भिः कथ्यते लोके पुराणैः कविसत्तमैः |
सर्वर्द्धिगुणसम्पन्नास्ते चापि निधनं गताः ||१८२||
तव पुत्रा दुरात्मानः प्रतप्ताश्चैव मन्युना |
लुब्धा दुर्वृत्तभूयिष्ठा न ताञ्शोचितुमर्हसि ||१८३||
श्रुतवानसि मेधावी बुद्धिमान्प्राज्ञसंमतः |
येषां शास्त्रानुगा बुद्धिर्न ते मुह्यन्ति भारत ||१८४||
निग्रहानुग्रहौ चापि विदितौ ते नराधिप |
नात्यन्तमेवानुवृत्तिः श्रूयते पुत्ररक्षणे ||१८५||
भवितव्यं तथा तच्च नातः शोचितुमर्हसि |
दैवं प्रज्ञाविशेषेण को निवर्तितुमर्हति ||१८६||
विधातृविहितं मार्गं न कश्चिदतिवर्तते |
कालमूलमिदं सर्वं भावाभावौ सुखासुखे ||१८७||
कालः पचति भूतानि कालः संहरति प्रजाः |
निर्दहन्तं प्रजाः कालं कालः शमयते पुनः ||१८८||
कालो विकुरुते भावान्सर्वाँल्लोके शुभाशुभान् |
कालः सङ्क्षिपते सर्वाः प्रजा विसृजते पुनः ||१८९||
कालः सर्वेषु भूतेषु चरत्यविधृतः समः ||१८९||
अतीतानागता भावा ये च वर्तन्ति साम्प्रतम् |
तान्कालनिर्मितान्बुद्ध्वा न सञ्ज्ञां हातुमर्हसि ||१९०||
सूत उवाच||
अत्रोपनिषदं पुण्यां कृष्णद्वैपायनोऽब्रवीत् |
भारताध्ययनात्पुण्यादपि पादमधीयतः ||१९१||
श्रद्दधानस्य पूयन्ते सर्वपापान्यशेषतः ||१९१||
देवर्षयो ह्यत्र पुण्या ब्रह्मराजर्षयस्तथा |
कीर्त्यन्ते शुभकर्माणस्तथा यक्षमहोरगाः ||१९२||
भगवान्वासुदेवश्च कीर्त्यतेऽत्र सनातनः |
स हि सत्यमृतं चैव पवित्रं पुण्यमेव च ||१९३||
शाश्वतं ब्रह्म परमं ध्रुवं ज्योतिः सनातनम् |
यस्य दिव्यानि कर्माणि कथयन्ति मनीषिणः ||१९४||
असत्सत्सदसच्चैव यस्माद्देवात्प्रवर्तते |
सन्ततिश्च प्रवृत्तिश्च जन्म मृत्युः पुनर्भवः ||१९५||
अध्यात्मं श्रूयते यच्च पञ्चभूतगुणात्मकम् |
अव्यक्तादि परं यच्च स एव परिगीयते ||१९६||
यत्तद्यतिवरा युक्ता ध्यानयोगबलान्विताः |
प्रतिबिम्बमिवादर्शे पश्यन्त्यात्मन्यवस्थितम् ||१९७||
श्रद्दधानः सदोद्युक्तः सत्यधर्मपरायणः |
आसेवन्निममध्यायं नरः पापात्प्रमुच्यते ||१९८||
अनुक्रमणिमध्यायं भारतस्येममादितः |
आस्तिकः सततं शृण्वन्न कृच्छ्रेष्ववसीदति ||१९९||
उभे सन्ध्ये जपन्किञ्चित्सद्यो मुच्येत किल्बिषात् |
अनुक्रमण्या यावत्स्यादह्ना रात्र्या च सञ्चितम् ||२००||
भारतस्य वपुर्ह्येतत्सत्यं चामृतमेव च |
नवनीतं यथा दध्नो द्विपदां ब्राह्मणो यथा ||२०१||
ह्रदानामुदधिः श्रेष्ठो गौर्वरिष्ठा चतुष्पदाम् |
यथैतानि वरिष्ठानि तथा भारतमुच्यते ||२०२||
यश्चैनं श्रावयेच्छ्राद्धे ब्राह्मणान्पादमन्ततः |
अक्षय्यमन्नपानं तत्पितृंस्तस्योपतिष्ठति ||२०३||
इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् |
बिभेत्यल्पश्रुताद्वेदो मामयं प्रतरिष्यति ||२०४||
कार्ष्णं वेदमिमं विद्वाञ्श्रावयित्वार्थमश्नुते |
भ्रूणहत्याकृतं चापि पापं जह्यान्न संशयः ||२०५||
य इमं शुचिरध्यायं पठेत्पर्वणि पर्वणि |
अधीतं भारतं तेन कृत्स्नं स्यादिति मे मतिः ||२०६||
यश्चेमं शृणुयान्नित्यमार्षं श्रद्धासमन्वितः |
स दीर्घमायुः कीर्तिं च स्वर्गतिं चाप्नुयान्नरः ||२०७||
चत्वार एकतो वेदा भारतं चैकमेकतः |
समागतैः सुरर्षिभिस्तुलामारोपितं पुरा ||२०८||
महत्त्वे च गुरुत्वे च ध्रियमाणं ततोऽधिकम् ||२०८||
महत्त्वाद्भारवत्त्वाच्च महाभारतमुच्यते |
निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते ||२०९||
तपो न कल्कोऽध्ययनं न कल्कः; स्वाभाविको वेदविधिर्न कल्कः |
प्रसह्य वित्ताहरणं न कल्क; स्तान्येव भावोपहतानि कल्कः ||२१०||
इति श्रीमन्महाभारते आदिपर्वणि अनुक्रमणिकापर्वणि प्रथमोऽध्यायः ॥ 1 ॥
।। अनुक्रमणिकापर्व सम्पूर्ण ॥
श्रीमहाभारतम्
||१ आदिपर्वम् ||
002-अध्यायः–पर्वसंग्रहपर्व
ऋषय ऊचुः||
समन्तपञ्चकमिति यदुक्तं सूतनन्दन |
एतत्सर्वं यथान्यायं श्रोतुमिच्छामहे वयम् ||१||
सूत उवाच||
शुश्रूषा यदि वो विप्रा ब्रुवतश्च कथाः शुभाः |
समन्तपञ्चकाख्यं च श्रोतुमर्हथ सत्तमाः ||२||
त्रेताद्वापरयोः सन्धौ रामः शस्त्रभृतां वरः |
असकृत्पार्थिवं क्षत्रं जघानामर्षचोदितः ||३||
स सर्वं क्षत्रमुत्साद्य स्ववीर्येणानलद्युतिः |
समन्तपञ्चके पञ्च चकार रुधिरह्रदान् ||४||
स तेषु रुधिराम्भस्सु ह्रदेषु क्रोधमूर्च्छितः |
पितृन्सन्तर्पयामास रुधिरेणेति नः श्रुतम् ||५||
अथर्चीकादयोऽभ्येत्य पितरो ब्राह्मणर्षभम् |
तं क्षमस्वेति सिषिधुस्ततः स विरराम ह ||६||
तेषां समीपे यो देशो ह्रदानां रुधिराम्भसाम् |
समन्तपञ्चकमिति पुण्यं तत्परिकीर्तितम् ||७||
येन लिङ्गेन यो देशो युक्तः समुपलक्ष्यते |
तेनैव नाम्ना तं देशं वाच्यमाहुर्मनीषिणः ||८||
अन्तरे चैव सम्प्राप्ते कलिद्वापरयोरभूत् |
समन्तपञ्चके युद्धं कुरुपाण्डवसेनयोः ||९||
तस्मिन्परमधर्मिष्ठे देशे भूदोषवर्जिते |
अष्टादश समाजग्मुरक्षौहिण्यो युयुत्सया ||१०||
एवं नामाभिनिर्वृत्तं तस्य देशस्य वै द्विजाः |
पुण्यश्च रमणीयश्च स देशो वः प्रकीर्तितः ||११||
तदेतत्कथितं सर्वं मया वो मुनिसत्तमाः |
यथा देशः स विख्यातस्त्रिषु लोकेषु विश्रुतः ||१२||
ऋषय ऊचुः||
अक्षौहिण्य इति प्रोक्तं यत्त्वया सूतनन्दन |
एतदिच्छामहे श्रोतुं सर्वमेव यथातथम् ||१३||
अक्षौहिण्याः परीमाणं रथाश्वनरदन्तिनाम् |
यथावच्चैव नो ब्रूहि सर्वं हि विदितं तव ||१४||
सूत उवाच||
एको रथो गजश्चैको नराः पञ्च पदातयः |
त्रयश्च तुरगास्तज्ज्ञैः पत्तिरित्यभिधीयते ||१५||
पत्तिं तु त्रिगुणामेतामाहुः सेनामुखं बुधाः |
त्रीणि सेनामुखान्येको गुल्म इत्यभिधीयते ||१६||
त्रयो गुल्मा गणो नाम वाहिनी तु गणास्त्रयः |
स्मृतास्तिस्रस्तु वाहिन्यः पृतनेति विचक्षणैः ||१७||
चमूस्तु पृतनास्तिस्रस्तिस्रश्चम्वस्त्वनीकिनी |
अनीकिनीं दशगुणां प्राहुरक्षौहिणीं बुधाः ||१८||
अक्षौहिण्याः प्रसङ्ख्यानं रथानां द्विजसत्तमाः |
सङ्ख्यागणिततत्त्वज्ञैः सहस्राण्येकविंशतिः ||१९||
शतान्युपरि चैवाष्टौ तथा भूयश्च सप्ततिः |
गजानां तु परीमाणमेतदेवात्र निर्दिशेत् ||२०||
ज्ञेयं शतसहस्रं तु सहस्राणि तथा नव |
नराणामपि पञ्चाशच्छतानि त्रीणि चानघाः ||२१||
पञ्चषष्टिसहस्राणि तथाश्वानां शतानि च |
दशोत्तराणि षट्प्राहुर्यथावदिह सङ्ख्यया ||२२||
एतामक्षौहिणीं प्राहुः सङ्ख्यातत्त्वविदो जनाः |
यां वः कथितवानस्मि विस्तरेण द्विजोत्तमाः ||२३||
एतया सङ्ख्यया ह्यासन्कुरुपाण्डवसेनयोः |
अक्षौहिण्यो द्विजश्रेष्ठाः पिण्डेनाष्टादशैव ताः ||२४||
समेतास्तत्र वै देशे तत्रैव निधनं गताः |
कौरवान्कारणं कृत्वा कालेनाद्भुतकर्मणा ||२५||
अहानि युयुधे भीष्मो दशैव परमास्त्रवित् |
अहानि पञ्च द्रोणस्तु ररक्ष कुरुवाहिनीम् ||२६||
अहनी युयुधे द्वे तु कर्णः परबलार्दनः |
शल्योऽर्धदिवसं त्वासीद्गदायुद्धमतः परम् ||२७||
तस्यैव तु दिनस्यान्ते हार्दिक्यद्रौणिगौतमाः |
प्रसुप्तं निशि विश्वस्तं जघ्नुर्यौधिष्ठिरं बलम् ||२८||
यत्तु शौनकसत्रे ते भारताख्यानविस्तरम् |
आख्यास्ये तत्र पौलोममाख्यानं चादितः परम् ||२९||
विचित्रार्थपदाख्यानमनेकसमयान्वितम् |
अभिपन्नं नरैः प्राज्ञैर्वैराग्यमिव मोक्षिभिः ||३०||
आत्मेव वेदितव्येषु प्रियेष्विव च जीवितम् |
इतिहासः प्रधानार्थः श्रेष्ठः सर्वागमेष्वयम् ||३१||
इतिहासोत्तमे ह्यस्मिन्नर्पिता बुद्धिरुत्तमा |
स्वरव्यञ्जनयोः कृत्स्ना लोकवेदाश्रयेव वाक् ||३२||
अस्य प्रज्ञाभिपन्नस्य विचित्रपदपर्वणः |
भारतस्येतिहासस्य श्रूयतां पर्वसङ्ग्रहः ||३३||
पर्वानुक्रमणी पूर्वं द्वितीयं पर्वसङ्ग्रहः |
पौष्यं पौलोममास्तीकमादिवंशावतारणम् ||३४||
ततः सम्भवपर्वोक्तमद्भुतं देवनिर्मितम् |
दाहो जतुगृहस्यात्र हैडिम्बं पर्व चोच्यते ||३५||
ततो बकवधः पर्व पर्व चैत्ररथं ततः |
ततः स्वयंवरं देव्याः पाञ्चाल्याः पर्व चोच्यते ||३६||
क्षत्रधर्मेण निर्जित्य ततो वैवाहिकं स्मृतम् |
विदुरागमनं पर्व राज्यलम्भस्तथैव च ||३७||
अर्जुनस्य वने वासः सुभद्राहरणं ततः |
सुभद्राहरणादूर्ध्वं ज्ञेयं हरणहारिकम् ||३८||
ततः खाण्डवदाहाख्यं तत्रैव मयदर्शनम् |
सभापर्व ततः प्रोक्तं मन्त्रपर्व ततः परम् ||३९||
जरासन्धवधः पर्व पर्व दिग्विजयस्तथा |
पर्व दिग्विजयादूर्ध्वं राजसूयिकमुच्यते ||४०||
ततश्चार्घाभिहरणं शिशुपालवधस्ततः |
द्यूतपर्व ततः प्रोक्तमनुद्यूतमतः परम् ||४१||
तत आरण्यकं पर्व किर्मीरवध एव च |
ईश्वरार्जुनयोर्युद्धं पर्व कैरातसञ्ज्ञितम् ||४२||
इन्द्रलोकाभिगमनं पर्व ज्ञेयमतः परम् |
तीर्थयात्रा ततः पर्व कुरुराजस्य धीमतः ||४३||
जटासुरवधः पर्व यक्षयुद्धमतः परम् |
तथैवाजगरं पर्व विज्ञेयं तदनन्तरम् ||४४||
मार्कण्डेयसमस्या च पर्वोक्तं तदनन्तरम् |
संवादश्च ततः पर्व द्रौपदीसत्यभामयोः ||४५||
घोषयात्रा ततः पर्व मृगस्वप्नभयं ततः |
व्रीहिद्रौणिकमाख्यानं ततोऽनन्तरमुच्यते ||४६||
द्रौपदीहरणं पर्व सैन्धवेन वनात्ततः |
कुण्डलाहरणं पर्व ततः परमिहोच्यते ||४७||
आरणेयं ततः पर्व वैराटं तदनन्तरम् |
कीचकानां वधः पर्व पर्व गोग्रहणं ततः ||४८||
अभिमन्युना च वैराट्याः पर्व वैवाहिकं स्मृतम् |
उद्योगपर्व विज्ञेयमत ऊर्ध्वं महाद्भुतम् ||४९||
ततः सञ्जययानाख्यं पर्व ज्ञेयमतः परम् |
प्रजागरं ततः पर्व धृतराष्ट्रस्य चिन्तया ||५०||
पर्व सानत्सुजातं च गुह्यमध्यात्मदर्शनम् |
यानसन्धिस्ततः पर्व भगवद्यानमेव च ||५१||
ज्ञेयं विवादपर्वात्र कर्णस्यापि महात्मनः |
निर्याणं पर्व च ततः कुरुपाण्डवसेनयोः ||५२||
रथातिरथसङ्ख्या च पर्वोक्तं तदनन्तरम् |
उलूकदूतागमनं पर्वामर्षविवर्धनम् ||५३||
अम्बोपाख्यानमपि च पर्व ज्ञेयमतः परम् |
भीष्माभिषेचनं पर्व ज्ञेयमद्भुतकारणम् ||५४||
जम्बूखण्डविनिर्माणं पर्वोक्तं तदनन्तरम् |
भूमिपर्व ततो ज्ञेयं द्वीपविस्तरकीर्तनम् ||५५||
पर्वोक्तं भगवद्गीता पर्व भीष्मवधस्ततः |
द्रोणाभिषेकः पर्वोक्तं संशप्तकवधस्ततः ||५६||
अभिमन्युवधः पर्व प्रतिज्ञापर्व चोच्यते |
जयद्रथवधः पर्व घटोत्कचवधस्ततः ||५७||
ततो द्रोणवधः पर्व विज्ञेयं लोमहर्षणम् |
मोक्षो नारायणास्त्रस्य पर्वानन्तरमुच्यते ||५८||
कर्णपर्व ततो ज्ञेयं शल्यपर्व ततः परम् |
ह्रदप्रवेशनं पर्व गदायुद्धमतः परम् ||५९||
सारस्वतं ततः पर्व तीर्थवंशगुणान्वितम् |
अत ऊर्ध्वं तु बीभत्सं पर्व सौप्तिकमुच्यते ||६०||
ऐषीकं पर्व निर्दिष्टमत ऊर्ध्वं सुदारुणम् |
जलप्रदानिकं पर्व स्त्रीपर्व च ततः परम् ||६१||
श्राद्धपर्व ततो ज्ञेयं कुरूणामौर्ध्वदेहिकम् |
आभिषेचनिकं पर्व धर्मराजस्य धीमतः ||६२||
चार्वाकनिग्रहः पर्व रक्षसो ब्रह्मरूपिणः |
प्रविभागो गृहाणां च पर्वोक्तं तदनन्तरम् ||६३||
शान्तिपर्व ततो यत्र राजधर्मानुकीर्तनम् |
आपद्धर्मश्च पर्वोक्तं मोक्षधर्मस्ततः परम् ||६४||
ततः पर्व परिज्ञेयमानुशासनिकं परम् |
स्वर्गारोहणिकं पर्व ततो भीष्मस्य धीमतः ||६५||
ततोऽश्वमेधिकं पर्व सर्वपापप्रणाशनम् |
अनुगीता ततः पर्व ज्ञेयमध्यात्मवाचकम् ||६६||
पर्व चाश्रमवासाख्यं पुत्रदर्शनमेव च |
नारदागमनं पर्व ततः परमिहोच्यते ||६७||
मौसलं पर्व च ततो घोरं समनुवर्ण्यते |
महाप्रस्थानिकं पर्व स्वर्गारोहणिकं ततः ||६८||
हरिवंशस्ततः पर्व पुराणं खिलसञ्ज्ञितम् |
भविष्यत्पर्व चाप्युक्तं खिलेष्वेवाद्भुतं महत् ||६९||
एतत्पर्वशतं पूर्णं व्यासेनोक्तं महात्मना |
यथावत्सूतपुत्रेण लोमहर्षणिना पुनः ||७०||
कथितं नैमिषारण्ये पर्वाण्यष्टादशैव तु |
समासो भारतस्यायं तत्रोक्तः पर्वसङ्ग्रहः ||७१||
पौष्ये पर्वणि माहात्म्यमुत्तङ्कस्योपवर्णितम् |
पौलोमे भृगुवंशस्य विस्तारः परिकीर्तितः ||७२||
आस्तीके सर्वनागानां गरुडस्य च सम्भवः |
क्षीरोदमथनं चैव जन्मोच्छैःश्रवसस्तथा ||७३||
यजतः सर्पसत्रेण राज्ञः पारिक्षितस्य च |
कथेयमभिनिर्वृत्ता भारतानां महात्मनाम् ||७४||
विविधाः सम्भवा राज्ञामुक्ताः सम्भवपर्वणि |
अन्येषां चैव विप्राणामृषेर्द्वैपायनस्य च ||७५||
अंशावतरणं चात्र देवानां परिकीर्तितम् |
दैत्यानां दानवानां च यक्षाणां च महौजसाम् ||७६||
नागानामथ सर्पाणां गन्धर्वाणां पतत्रिणाम् |
अन्येषां चैव भूतानां विविधानां समुद्भवः ||७७||
वसूनां पुनरुत्पत्तिर्भागीरथ्यां महात्मनाम् |
शन्तनोर्वेश्मनि पुनस्तेषां चारोहणं दिवि ||७८||
तेजोंशानां च सङ्घाताद्भीष्मस्याप्यत्र सम्भवः |
राज्यान्निवर्तनं चैव ब्रह्मचर्यव्रते स्थितिः ||७९||
प्रतिज्ञापालनं चैव रक्षा चित्राङ्गदस्य च |
हते चित्राङ्गदे चैव रक्षा भ्रातुर्यवीयसः ||८०||
विचित्रवीर्यस्य तथा राज्ये सम्प्रतिपादनम् |
धर्मस्य नृषु सम्भूतिरणीमाण्डव्यशापजा ||८१||
कृष्णद्वैपायनाच्चैव प्रसूतिर्वरदानजा |
धृतराष्ट्रस्य पाण्डोश्च पाण्डवानां च सम्भवः ||८२||
वारणावतयात्रा च मन्त्रो दुर्योधनस्य च |
विदुरस्य च वाक्येन सुरुङ्गोपक्रमक्रिया ||८३||
पाण्डवानां वने घोरे हिडिम्बायाश्च दर्शनम् |
घटोत्कचस्य चोत्पत्तिरत्रैव परिकीर्तिता ||८४||
अज्ञातचर्या पाण्डूनां वासो ब्राह्मणवेश्मनि |
बकस्य निधनं चैव नागराणां च विस्मयः ||८५||
अङ्गारपर्णं निर्जित्य गङ्गाकूलेऽर्जुनस्तदा |
भ्रातृभिः सहितः सर्वैः पाञ्चालानभितो ययौ ||८६||
तापत्यमथ वासिष्ठमौर्वं चाख्यानमुत्तमम् |
पञ्चेन्द्राणामुपाख्यानमत्रैवाद्भुतमुच्यते ||८७||
पञ्चानामेकपत्नीत्वे विमर्शो द्रुपदस्य च |
द्रौपद्या देवविहितो विवाहश्चाप्यमानुषः ||८८||
विदुरस्य च सम्प्राप्तिर्दर्शनं केशवस्य च |
खाण्डवप्रस्थवासश्च तथा राज्यार्धशासनम् ||८९||
नारदस्याज्ञया चैव द्रौपद्याः समयक्रिया |
सुन्दोपसुन्दयोस्तत्र उपाख्यानं प्रकीर्तितम् ||९०||
पार्थस्य वनवासश्च उलूप्या पथि सङ्गमः |
पुण्यतीर्थानुसंयानं बभ्रुवाहनजन्म च ||९१||
द्वारकायां सुभद्रा च कामयानेन कामिनी |
वासुदेवस्यानुमते प्राप्ता चैव किरीटिना ||९२||
हरणं गृह्य सम्प्राप्ते कृष्णे देवकिनन्दने |
सम्प्राप्तिश्चक्रधनुषोः खाण्डवस्य च दाहनम् ||९३||
अभिमन्योः सुभद्रायां जन्म चोत्तमतेजसः |
मयस्य मोक्षो ज्वलनाद्भुजङ्गस्य च मोक्षणम् ||९४||
महर्षेर्मन्दपालस्य शार्ङ्ग्यं तनयसम्भवः ||९४||
इत्येतदाधिपर्वोक्तं प्रथमं बहुविस्तरम् |
अध्यायानां शते द्वे तु सङ्ख्याते परमर्षिणा ||९५||
अष्टादशैव चाध्याया व्यासेनोत्तमतेजसा ||९५||
सप्त श्लोकसहस्राणि तथा नव शतानि च |
श्लोकाश्च चतुराशीतिर्दृष्टो ग्रन्थो महात्मना ||९६||
द्वितीयं तु सभापर्व बहुवृत्तान्तमुच्यते |
सभाक्रिया पाण्डवानां किङ्कराणां च दर्शनम् ||९७||
लोकपालसभाख्यानं नारदाद्देवदर्शनात् |
राजसूयस्य चारम्भो जरासन्धवधस्तथा ||९८||
गिरिव्रजे निरुद्धानां राज्ञां कृष्णेन मोक्षणम् |
राजसूयेऽर्घसंवादे शिशुपालवधस्तथा ||९९||
यज्ञे विभूतिं तां दृष्ट्वा दुःखामर्षान्वितस्य च |
दुर्योधनस्यावहासो भीमेन च सभातले ||१००||
यत्रास्य मन्युरुद्भूतो येन द्यूतमकारयत् |
यत्र धर्मसुतं द्यूते शकुनिः कितवोऽजयत् ||१०१||
यत्र द्यूतार्णवे मग्नान्द्रौपदी नौरिवार्णवात् |
तारयामास तांस्तीर्णाञ्ज्ञात्वा दुर्योधनो नृपः ||१०२||
पुनरेव ततो द्यूते समाह्वयत पाण्डवान् ||१०२||
एतत्सर्वं सभापर्व समाख्यातं महात्मना |
अध्यायाः सप्ततिर्ज्ञेयास्तथा द्वौ चात्र सङ्ख्यया ||१०३||
श्लोकानां द्वे सहस्रे तु पञ्च श्लोकशतानि च |
श्लोकाश्चैकादश ज्ञेयाः पर्वण्यस्मिन्प्रकीर्तिताः ||१०४||
अतः परं तृतीयं तु ज्ञेयमारण्यकं महत् |
पौरानुगमनं चैव धर्मपुत्रस्य धीमतः ||१०५||
वृष्णीनामागमो यत्र पाञ्चालानां च सर्वशः |
यत्र सौभवधाख्यानं किर्मीरवध एव च ||१०६||
अस्त्रहेतोर्विवासश्च पार्थस्यामिततेजसः ||१०६||
महादेवेन युद्धं च किरातवपुषा सह |
दर्शनं लोकपालानां स्वर्गारोहणमेव च ||१०७||
दर्शनं बृहदश्वस्य महर्षेर्भावितात्मनः |
युधिष्ठिरस्य चार्तस्य व्यसने परिदेवनम् ||१०८||
नलोपाख्यानमत्रैव धर्मिष्ठं करुणोदयम् |
दमयन्त्याः स्थितिर्यत्र नलस्य व्यसनागमे ||१०९||
वनवासगतानां च पाण्डवानां महात्मनाम् |
स्वर्गे प्रवृत्तिराख्याता लोमशेनार्जुनस्य वै ||११०||
तीर्थयात्रा तथैवात्र पाण्डवानां महात्मनाम् |
जटासुरस्य तत्रैव वधः समुपवर्ण्यते ||१११||
नियुक्तो भीमसेनश्च द्रौपद्या गन्धमादने |
यत्र मन्दारपुष्पार्थं नलिनीं तामधर्षयत् ||११२||
यत्रास्य सुमहद्युद्धमभवत्सह राक्षसैः |
यक्षैश्चापि महावीर्यैर्मणिमत्प्रमुखैस्तथा ||११३||
आगस्त्यमपि चाख्यानं यत्र वातापिभक्षणम् |
लोपामुद्राभिगमनमपत्यार्थमृषेरपि ||११४||
ततः श्येनकपोतीयमुपाख्यानमनन्तरम् |
इन्द्रोऽग्निर्यत्र धर्मश्च अजिज्ञासञ्शिबिं नृपम् ||११५||
ऋश्यशृङ्गस्य चरितं कौमारब्रह्मचारिणः |
जामदग्न्यस्य रामस्य चरितं भूरितेजसः ||११६||
कार्तवीर्यवधो यत्र हैहयानां च वर्ण्यते |
सौकन्यमपि चाख्यानं च्यवनो यत्र भार्गवः ||११७||
शर्यातियज्ञे नासत्यौ कृतवान्सोमपीथिनौ |
ताभ्यां च यत्र स मुनिर्यौवनं प्रतिपादितः ||११८||
जन्तूपाख्यानमत्रैव यत्र पुत्रेण सोमकः |
पुत्रार्थमयजद्राजा लेभे पुत्रशतं च सः ||११९||
अष्टावक्रीयमत्रैव विवादे यत्र बन्दिनम् |
विजित्य सागरं प्राप्तं पितरं लब्धवानृषिः ||१२०||
अवाप्य दिव्यान्यस्त्राणि गुर्वर्थे सव्यसाचिना |
निवातकवचैर्युद्धं हिरण्यपुरवासिभिः ||१२१||
समागमश्च पार्थस्य भ्रातृभिर्गन्धमादने |
घोषयात्रा च गन्धर्वैर्यत्र युद्धं किरीटिनः ||१२२||
पुनरागमनं चैव तेषां द्वैतवनं सरः |
जयद्रथेनापहारो द्रौपद्याश्चाश्रमान्तरात् ||१२३||
यत्रैनमन्वयाद्भीमो वायुवेगसमो जवे |
मार्कण्डेयसमस्यायामुपाख्यानानि भागशः ||१२४||
संदर्शनं च कृष्णस्य संवादश्चैव सत्यया |
व्रीहिद्रौणिकमाख्यानमैन्द्रद्युम्नं तथैव च ||१२५||
सावित्र्यौद्दालकीयं च वैन्योपाख्यानमेव च |
रामायणमुपाख्यानमत्रैव बहुविस्तरम् ||१२६||
कर्णस्य परिमोषोऽत्र कुण्डलाभ्यां पुरंदरात् |
आरणेयमुपाख्यानं यत्र धर्मोऽन्वशात्सुतम् ||१२७||
जग्मुर्लब्धवरा यत्र पाण्डवाः पश्चिमां दिशम् ||१२७||
एतदारण्यकं पर्व तृतीयं परिकीर्तितम् |
अत्राध्यायशते द्वे तु सङ्ख्याते परमर्षिणा ||१२८||
एकोनसप्ततिश्चैव तथाध्यायाः प्रकीर्तिताः ||१२८||
एकादश सहस्राणि श्लोकानां षट्शतानि च |
चतुःषष्टिस्तथा श्लोकाः पर्वैतत्परिकीर्तितम् ||१२९||
अतः परं निबोधेदं वैराटं पर्वविस्तरम् |
विराटनगरं गत्वा श्मशाने विपुलां शमीम् ||१३०||
दृष्ट्वा संनिदधुस्तत्र पाण्डवा आयुधान्युत ||१३०||
यत्र प्रविश्य नगरं छद्मभिर्न्यवसन्त ते |
दुरात्मनो वधो यत्र कीचकस्य वृकोदरात् ||१३१||
गोग्रहे यत्र पार्थेन निर्जिताः कुरवो युधि |
गोधनं च विराटस्य मोक्षितं यत्र पाण्डवैः ||१३२||
विराटेनोत्तरा दत्ता स्नुषा यत्र किरीटिनः |
अभिमन्युं समुद्दिश्य सौभद्रमरिघातिनम् ||१३३||
चतुर्थमेतद्विपुलं वैराटं पर्व वर्णितम् |
अत्रापि परिसङ्ख्यातमध्यायानां महात्मना ||१३४||
सप्तषष्टिरथो पूर्णा श्लोकाग्रमपि मे शृणु |
श्लोकानां द्वे सहस्रे तु श्लोकाः पञ्चाशदेव तु ||१३५||
पर्वण्यस्मिन्समाख्याताः सङ्ख्यया परमर्षिणा ||१३५||
उद्योगपर्व विज्ञेयं पञ्चमं शृण्वतः परम् |
उपप्लव्ये निविष्टेषु पाण्डवेषु जिगीषया ||१३६||
दुर्योधनोऽर्जुनश्चैव वासुदेवमुपस्थितौ ||१३६||
साहाय्यमस्मिन्समरे भवान्नौ कर्तुमर्हति |
इत्युक्ते वचने कृष्णो यत्रोवाच महामतिः ||१३७||
अयुध्यमानमात्मानं मन्त्रिणं पुरुषर्षभौ |
अक्षौहिणीं वा सैन्यस्य कस्य वा किं ददाम्यहम् ||१३८||
वव्रे दुर्योधनः सैन्यं मन्दात्मा यत्र दुर्मतिः |
अयुध्यमानं सचिवं वव्रे कृष्णं धनञ्जयः ||१३९||
सञ्जयं प्रेषयामास शमार्थं पाण्डवान्प्रति |
यत्र दूतं महाराजो धृतराष्ट्रः प्रतापवान् ||१४०||
श्रुत्वा च पाण्डवान्यत्र वासुदेवपुरोगमान् |
प्रजागरः सम्प्रजज्ञे धृतराष्ट्रस्य चिन्तया ||१४१||
विदुरो यत्र वाक्यानि विचित्राणि हितानि च |
श्रावयामास राजानं धृतराष्ट्रं मनीषिणम् ||१४२||
तथा सनत्सुजातेन यत्राध्यात्ममनुत्तमम् |
मनस्तापान्वितो राजा श्रावितः शोकलालसः ||१४३||
प्रभाते राजसमितौ सञ्जयो यत्र चाभिभोः |
ऐकात्म्यं वासुदेवस्य प्रोक्तवानर्जुनस्य च ||१४४||
यत्र कृष्णो दयापन्नः सन्धिमिच्छन्महायशाः |
स्वयमागाच्छमं कर्तुं नगरं नागसाह्वयम् ||१४५||
प्रत्याख्यानं च कृष्णस्य राज्ञा दुर्योधनेन वै |
शमार्थं याचमानस्य पक्षयोरुभयोर्हितम् ||१४६||
कर्णदुर्योधनादीनां दुष्टं विज्ञाय मन्त्रितम् |
योगेश्वरत्वं कृष्णेन यत्र राजसु दर्शितम् ||१४७||
रथमारोप्य कृष्णेन यत्र कर्णोऽनुमन्त्रितः |
उपायपूर्वं शौण्डीर्यात्प्रत्याख्यातश्च तेन सः ||१४८||
ततश्चाप्यभिनिर्यात्रा रथाश्वनरदन्तिनाम् |
नगराद्धास्तिनपुराद्बलसङ्ख्यानमेव च ||१४९||
यत्र राज्ञा उलूकस्य प्रेषणं पाण्डवान्प्रति |
श्वोभाविनि महायुद्धे दूत्येन क्रूरवादिना ||१५०||
रथातिरथसङ्ख्यानमम्बोपाख्यानमेव च ||१५०||
एतत्सुबहुवृत्तान्तं पञ्चमं पर्व भारते |
उद्योगपर्व निर्दिष्टं सन्धिविग्रहसंश्रितम् ||१५१||
अध्यायाः सङ्ख्यया त्वत्र षडशीतिशतं स्मृतम् |
श्लोकानां षट्सहस्राणि तावन्त्येव शतानि च ||१५२||
श्लोकाश्च नवतिः प्रोक्तास्तथैवाष्टौ महात्मना |
व्यासेनोदारमतिना पर्वण्यस्मिंस्तपोधनाः ||१५३||
अत ऊर्ध्वं विचित्रार्थं भीष्मपर्व प्रचक्षते |
जम्बूखण्डविनिर्माणं यत्रोक्तं सञ्जयेन ह ||१५४||
यत्र युद्धमभूद्घोरं दशाहान्यतिदारुणम् |
यत्र यौधिष्ठिरं सैन्यं विषादमगमत्परम् ||१५५||
कश्मलं यत्र पार्थस्य वासुदेवो महामतिः |
मोहजं नाशयामास हेतुभिर्मोक्षदर्शनैः ||१५६||
शिखण्डिनं पुरस्कृत्य यत्र पार्थो महाधनुः |
विनिघ्नन्निशितैर्बाणै रथाद्भीष्ममपातयत् ||१५७||
षष्ठमेतन्महापर्व भारते परिकीर्तितम् |
अध्यायानां शतं प्रोक्तं सप्तदश तथापरे ||१५८||
पञ्च श्लोकसहस्राणि सङ्ख्ययाष्टौ शतानि च |
श्लोकाश्च चतुराशीतिः पर्वण्यस्मिन्प्रकीर्तिताः ||१५९||
व्यासेन वेदविदुषा सङ्ख्याता भीष्मपर्वणि ||१५९||
द्रोणपर्व ततश्चित्रं बहुवृत्तान्तमुच्यते |
यत्र संशप्तकाः पार्थमपनिन्यू रणाजिरात् ||१६०||
भगदत्तो महाराजो यत्र शक्रसमो युधि |
सुप्रतीकेन नागेन सह शस्तः किरीटिना ||१६१||
यत्राभिमन्युं बहवो जघ्नुर्लोकमहारथाः |
जयद्रथमुखा बालं शूरमप्राप्तयौवनम् ||१६२||
हतेऽभिमन्यौ क्रुद्धेन यत्र पार्थेन संयुगे |
अक्षौहिणीः सप्त हत्वा हतो राजा जयद्रथः ||१६३||
संशप्तकावशेषं च कृतं निःशेषमाहवे ||१६३||
अलम्बुसः श्रुतायुश्च जलसन्धश्च वीर्यवान् |
सौमदत्तिर्विराटश्च द्रुपदश्च महारथः ||१६४||
घटोत्कचादयश्चान्ये निहता द्रोणपर्वणि ||१६४||
अश्वत्थामापि चात्रैव द्रोणे युधि निपातिते |
अस्त्रं प्रादुश्चकारोग्रं नारायणममर्षितः ||१६५||
सप्तमं भारते पर्व महदेतदुदाहृतम् |
अत्र ते पृथिवीपालाः प्रायशो निधनं गताः ||१६६||
द्रोणपर्वणि ये शूरा निर्दिष्टाः पुरुषर्षभाः ||१६६||
अध्यायानां शतं प्रोक्तमध्यायाः सप्ततिस्तथा |
अष्टौ श्लोकसहस्राणि तथा नव शतानि च ||१६७||
श्लोका नव तथैवात्र सङ्ख्यातास्तत्त्वदर्शिना |
पाराशर्येण मुनिना सञ्चिन्त्य द्रोणपर्वणि ||१६८||
अतः परं कर्णपर्व प्रोच्यते परमाद्भुतम् |
सारथ्ये विनियोगश्च मद्रराजस्य धीमतः ||१६९||
आख्यातं यत्र पौराणं त्रिपुरस्य निपातनम् ||१६९||
प्रयाणे परुषश्चात्र संवादः कर्णशल्ययोः |
हंसकाकीयमाख्यानमत्रैवाक्षेपसंहितम् ||१७०||
अन्योन्यं प्रति च क्रोधो युधिष्ठिरकिरीटिनोः |
द्वैरथे यत्र पार्थेन हतः कर्णो महारथः ||१७१||
अष्टमं पर्व निर्दिष्टमेतद्भारतचिन्तकैः |
एकोनसप्ततिः प्रोक्ता अध्यायाः कर्णपर्वणि ||१७२||
चत्वार्येव सहस्राणि नव श्लोकशतानि च ||१७२||
अतः परं विचित्रार्थं शल्यपर्व प्रकीर्तितम् |
हतप्रवीरे सैन्ये तु नेता मद्रेश्वरोऽभवत् ||१७३||
वृत्तानि रथयुद्धानि कीर्त्यन्ते यत्र भागशः |
विनाशः कुरुमुख्यानां शल्यपर्वणि कीर्त्यते ||१७४||
शल्यस्य निधनं चात्र धर्मराजान्महारथात् |
गदायुद्धं तु तुमुलमत्रैव परिकीर्तितम् ||१७५||
सरस्वत्याश्च तीर्थानां पुण्यता परिकीर्तिता ||१७५||
नवमं पर्व निर्दिष्टमेतदद्भुतमर्थवत् |
एकोनषष्टिरध्यायास्तत्र सङ्ख्याविशारदैः ||१७६||
सङ्ख्याता बहुवृत्तान्ताः श्लोकाग्रं चात्र शस्यते |
त्रीणि श्लोकसहस्राणि द्वे शते विंशतिस्तथा ||१७७||
मुनिना सम्प्रणीतानि कौरवाणां यशोभृताम् ||१७७||
अतः परं प्रवक्ष्यामि सौप्तिकं पर्व दारुणम् |
भग्नोरुं यत्र राजानं दुर्योधनममर्षणम् ||१७८||
व्यपयातेषु पार्थेषु त्रयस्तेऽभ्याययू रथाः |
कृतवर्मा कृपो द्रौणिः सायाह्ने रुधिरोक्षिताः ||१७९||
प्रतिजज्ञे दृढक्रोधो द्रौणिर्यत्र महारथः |
अहत्वा सर्वपाञ्चालान्धृष्टद्युम्नपुरोगमान् ||१८०||
पाण्डवांश्च सहामात्यान्न विमोक्ष्यामि दंशनम् ||१८०||
प्रसुप्तान्निशि विश्वस्तान्यत्र ते पुरुषर्षभाः |
पाञ्चालान्सपरीवाराञ्जघ्नुर्द्रौणिपुरोगमाः ||१८१||
यत्रामुच्यन्त पार्थास्ते पञ्च कृष्णबलाश्रयात् |
सात्यकिश्च महेष्वासः शेषाश्च निधनं गताः ||१८२||
द्रौपदी पुत्रशोकार्ता पितृभ्रातृवधार्दिता |
कृतानशनसङ्कल्पा यत्र भर्तृनुपाविशत् ||१८३||
द्रौपदीवचनाद्यत्र भीमो भीमपराक्रमः |
अन्वधावत सङ्क्रुद्धो भारद्वाजं गुरोः सुतम् ||१८४||
भीमसेनभयाद्यत्र दैवेनाभिप्रचोदितः |
अपाण्डवायेति रुषा द्रौणिरस्त्रमवासृजत् ||१८५||
मैवमित्यब्रवीत्कृष्णः शमयंस्तस्य तद्वचः |
यत्रास्त्रमस्त्रेण च तच्छमयामास फाल्गुनः ||१८६||
द्रौणिद्वैपायनादीनां शापाश्चान्योन्यकारिताः |
तोयकर्मणि सर्वेषां राज्ञामुदकदानिके ||१८७||
गूढोत्पन्नस्य चाख्यानं कर्णस्य पृथयात्मनः |
सुतस्यैतदिह प्रोक्तं दशमं पर्व सौप्तिकम् ||१८८||
अष्टादशास्मिन्नध्यायाः पर्वण्युक्ता महात्मना |
श्लोकाग्रमत्र कथितं शतान्यष्टौ तथैव च ||१८९||
श्लोकाश्च सप्ततिः प्रोक्ता यथावदभिसङ्ख्यया |
सौप्तिकैषीकसम्बन्धे पर्वण्यमितबुद्धिना ||१९०||
अत ऊर्ध्वमिदं प्राहुः स्त्रीपर्व करुणोदयम् |
विलापो वीरपत्नीनां यत्रातिकरुणः स्मृतः ||१९१||
क्रोधावेशः प्रसादश्च गान्धारीधृतराष्ट्रयोः ||१९१||
यत्र तान्क्षत्रियाञ्शूरान्दिष्टान्ताननिवर्तिनः |
पुत्रान्भ्रातृन्पितृंश्चैव ददृशुर्निहतान्रणे ||१९२||
यत्र राजा महाप्राज्ञः सर्वधर्मभृतां वरः |
राज्ञां तानि शरीराणि दाहयामास शास्त्रतः ||१९३||
एतदेकादशं प्रोक्तं पर्वातिकरुणं महत् |
सप्तविंशतिरध्यायाः पर्वण्यस्मिन्नुदाहृताः ||१९४||
श्लोकाः सप्तशतं चात्र पञ्चसप्ततिरुच्यते |
सङ्ख्यया भारताख्यानं कर्त्रा ह्यत्र महात्मना ||१९५||
प्रणीतं सज्जनमनोवैक्लव्याश्रुप्रवर्तकम् ||१९५||
अतः परं शान्तिपर्व द्वादशं बुद्धिवर्धनम् |
यत्र निर्वेदमापन्नो धर्मराजो युधिष्ठिरः ||१९६||
घातयित्वा पितृन्भ्रातृन्पुत्रान्सम्बन्धिबान्धवान् ||१९६||
शान्तिपर्वणि धर्माश्च व्याख्याताः शरतल्पिकाः |
राजभिर्वेदितव्या ये सम्यङ्नयबुभुत्सुभिः ||१९७||
आपद्धर्माश्च तत्रैव कालहेतुप्रदर्शकाः |
यान्बुद्ध्वा पुरुषः सम्यक्सर्वज्ञत्वमवाप्नुयात् ||१९८||
मोक्षधर्माश्च कथिता विचित्रा बहुविस्तराः ||१९८||
द्वादशं पर्व निर्दिष्टमेतत्प्राज्ञजनप्रियम् |
पर्वण्यत्र परिज्ञेयमध्यायानां शतत्रयम् ||१९९||
त्रिंशच्चैव तथाध्याया नव चैव तपोधनाः ||१९९||
श्लोकानां तु सहस्राणि कीर्तितानि चतुर्दश |
पञ्च चैव शतान्याहुः पञ्चविंशतिसङ्ख्यया ||२००||
अत ऊर्ध्वं तु विज्ञेयमानुशासनमुत्तमम् |
यत्र प्रकृतिमापन्नः श्रुत्वा धर्मविनिश्चयम् ||२०१||
भीष्माद्भागीरथीपुत्रात्कुरुराजो युधिष्ठिरः ||२०१||
व्यवहारोऽत्र कार्त्स्न्येन धर्मार्थीयो निदर्शितः |
विविधानां च दानानां फलयोगाः पृथग्विधाः ||२०२||
तथा पात्रविशेषाश्च दानानां च परो विधिः |
आचारविधियोगश्च सत्यस्य च परा गतिः ||२०३||
एतत्सुबहुवृत्तान्तमुत्तमं चानुशासनम् |
भीष्मस्यात्रैव सम्प्राप्तिः स्वर्गस्य परिकीर्तिता ||२०४||
एतत्त्रयोदशं पर्व धर्मनिश्चयकारकम् |
अध्यायानां शतं चात्र षट्चत्वारिंशदेव च ||२०५||
श्लोकानां तु सहस्राणि षट्सप्तैव शतानि च ||२०५||
ततोऽश्वमेधिकं नाम पर्व प्रोक्तं चतुर्दशम् |
तत्संवर्तमरुत्तीयं यत्राख्यानमनुत्तमम् ||२०६||
सुवर्णकोशसम्प्राप्तिर्जन्म चोक्तं परिक्षितः |
दग्धस्यास्त्राग्निना पूर्वं कृष्णात्सञ्जीवनं पुनः ||२०७||
चर्यायां हयमुत्सृष्टं पाण्डवस्यानुगच्छतः |
तत्र तत्र च युद्धानि राजपुत्रैरमर्षणैः ||२०८||
चित्राङ्गदायाः पुत्रेण पुत्रिकाया धनञ्जयः |
सङ्ग्रामे बभ्रुवाहेन संशयं चात्र दर्शितः ||२०९||
अश्वमेधे महायज्ञे नकुलाख्यानमेव च ||२०९||
इत्याश्वमेधिकं पर्व प्रोक्तमेतन्महाद्भुतम् |
अत्राध्यायशतं त्रिंशत्त्रयोऽध्यायाश्च शब्दिताः ||२१०||
त्रीणि श्लोकसहस्राणि तावन्त्येव शतानि च |
विंशतिश्च तथा श्लोकाः सङ्ख्यातास्तत्त्वदर्शिना ||२११||
तत आश्रमवासाक्यं पर्व पञ्चदशं स्मृतम् |
यत्र राज्यं परित्यज्य गान्धारीसहितो नृपः ||२१२||
धृतराष्ट्राश्रमपदं विदुरश्च जगाम ह ||२१२||
यं दृष्ट्वा प्रस्थितं साध्वी पृथाप्यनुययौ तदा |
पुत्रराज्यं परित्यज्य गुरुशुश्रूषणे रता ||२१३||
यत्र राजा हतान्पुत्रान्पौत्रानन्यांश्च पार्थिवान् |
लोकान्तरगतान्वीरानपश्यत्पुनरागतान् ||२१४||
ऋषेः प्रसादात्कृष्णस्य दृष्ट्वाश्चर्यमनुत्तमम् |
त्यक्त्वा शोकं सदारश्च सिद्धिं परमिकां गतः ||२१५||
यत्र धर्मं समाश्रित्य विदुरः सुगतिं गतः |
सञ्जयश्च महामात्रो विद्वान्गावल्गणिर्वशी ||२१६||
ददर्श नारदं यत्र धर्मराजो युधिष्ठिरः |
नारदाच्चैव शुश्राव वृष्णीनां कदनं महत् ||२१७||
एतदाश्रमवासाख्यं पूर्वोक्तं सुमहाद्भुतम् |
द्विचत्वारिंशदध्यायाः पर्वैतदभिसङ्ख्यया ||२१८||
सहस्रमेकं श्लोकानां पञ्च श्लोकशतानि च |
षडेव च तथा श्लोकाः सङ्ख्यातास्तत्त्वदर्शिना ||२१९||
अतः परं निबोधेदं मौसलं पर्व दारुणम् |
यत्र ते पुरुषव्याघ्राः शस्त्रस्पर्शसहा युधि ||२२०||
ब्रह्मदण्डविनिष्पिष्टाः समीपे लवणाम्भसः ||२२०||
आपाने पानगलिता दैवेनाभिप्रचोदिताः |
एरकारूपिभिर्वज्रैर्निजघ्नुरितरेतरम् ||२२१||
यत्र सर्वक्षयं कृत्वा तावुभौ रामकेशवौ |
नातिचक्रमतुः कालं प्राप्तं सर्वहरं समम् ||२२२||
यत्रार्जुनो द्वारवतीमेत्य वृष्णिविनाकृताम् |
दृष्ट्वा विषादमगमत्परां चार्तिं नरर्षभः ||२२३||
स सत्कृत्य यदुश्रेष्ठं मातुलं शौरिमात्मनः |
ददर्श यदुवीराणामापाने वैशसं महत् ||२२४||
शरीरं वासुदेवस्य रामस्य च महात्मनः |
संस्कारं लम्भयामास वृष्णीनां च प्रधानतः ||२२५||
स वृद्धबालमादाय द्वारवत्यास्ततो जनम् |
ददर्शापदि कष्टायां गाण्डीवस्य पराभवम् ||२२६||
सर्वेषां चैव दिव्यानामस्त्राणामप्रसन्नताम् |
नाशं वृष्णिकलत्राणां प्रभावानामनित्यताम् ||२२७||
दृष्ट्वा निर्वेदमापन्नो व्यासवाक्यप्रचोदितः |
धर्मराजं समासाद्य संन्यासं समरोचयेत् ||२२८||
इत्येतन्मौसलं पर्व षोडशं परिकीर्तितम् |
अध्यायाष्टौ समाख्याताः श्लोकानां च शतत्रयम् ||२२९||
महाप्रस्थानिकं तस्मादूर्ध्वं सप्तदशं स्मृतम् |
यत्र राज्यं परित्यज्य पाण्डवाः पुरुषर्षभाः ||२३०||
द्रौपद्या सहिता देव्या सिद्धिं परमिकां गताः ||२३०||
अत्राध्यायास्त्रयः प्रोक्ताः श्लोकानां च शतं तथा |
विंशतिश्च तथा श्लोकाः सङ्ख्यातास्तत्त्वदर्शिना ||२३१||
स्वर्गपर्व ततो ज्ञेयं दिव्यं यत्तदमानुषम् |
अध्यायाः पञ्च सङ्ख्याताः पर्वैतदभिसङ्ख्यया ||२३२||
श्लोकानां द्वे शते चैव प्रसङ्ख्याते तपोधनाः ||२३२||
अष्टादशैवमेतानि पर्वाण्युक्तान्यशेषतः |
खिलेषु हरिवंशश्च भविष्यच्च प्रकीर्तितम् ||२३३||
एतदखिलमाख्यातं भारतं पर्वसङ्ग्रहात् |
अष्टादश समाजग्मुरक्षौहिण्यो युयुत्सया ||२३४||
तन्महद्दारुणं युद्धमहान्यष्टादशाभवत् ||२३४||
यो विद्याच्चतुरो वेदान्साङ्गोपनिषदान्द्विजः |
न चाख्यानमिदं विद्यान्नैव स स्याद्विचक्षणः ||२३५||
श्रुत्वा त्विदमुपाख्यानं श्राव्यमन्यन्न रोचते |
पुंस्कोकिलरुतं श्रुत्वा रूक्षा ध्वाङ्क्षस्य वागिव ||२३६||
इतिहासोत्तमादस्माज्जायन्ते कविबुद्धयः |
पञ्चभ्य इव भूतेभ्यो लोकसंविधयस्त्रयः ||२३७||
अस्याख्यानस्य विषये पुराणं वर्तते द्विजाः |
अन्तरिक्षस्य विषये प्रजा इव चतुर्विधाः ||२३८||
क्रियागुणानां सर्वेषामिदमाख्यानमाश्रयः |
इन्द्रियाणां समस्तानां चित्रा इव मनःक्रियाः ||२३९||
अनाश्रित्यैतदाख्यानं कथा भुवि न विद्यते |
आहारमनपाश्रित्य शरीरस्येव धारणम् ||२४०||
इदं सर्वैः कविवरैराख्यानमुपजीव्यते |
उदयप्रेप्सुभिर्भृत्यैरभिजात इवेश्वरः ||२४१||
द्वैपायनौष्ठपुटनिःसृतमप्रमेयं; पुण्यं पवित्रमथ पापहरं शिवं च |
यो भारतं समधिगच्छति वाच्यमानं; किं तस्य पुष्करजलैरभिषेचनेन ||२४२||
आख्यानं तदिदमनुत्तमं महार्थं; विन्यस्तं महदिह पर्वसङ्ग्रहेण |
श्रुत्वादौ भवति नृणां सुखावगाहं; विस्तीर्णं लवणजलं यथा प्लवेन ||२४३||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
003-अध्यायः-पौष्यपर्व
सूत उवाच||
जनमेजयः पारिक्षितः सह भ्रातृभिः कुरुक्षेत्रे दीर्घसत्रमुपास्ते |
तस्य भ्रातरस्त्रयः श्रुतसेन उग्रसेनो भीमसेन इति | ००१ |
तेषु तत्सत्रमुपासीनेषु तत्र श्वाभ्यागच्छत्सारमेयः |
स जनमेजयस्य भ्रातृभिरभिहतो रोरूयमाणो मातुः समीपमुपागच्छत् | ००२ |
तं माता रोरूयमाणमुवाच |
किं रोदिषि |
केनास्यभिहत इति | ००३ |
स एवमुक्तो मातरं प्रत्युवाच |
जनमेजयस्य भ्रातृभिरभिहतोऽस्मीति | ००४ |
तं माता प्रत्युवाच |
व्यक्तं त्वया तत्रापराद्धं येनास्यभिहत इति | ००५ |
स तां पुनरुवाच |
नापराध्यामि किञ्चित् |
नावेक्षे हवींषि नावलिह इति | ००६ |
तच्छ्रुत्वा तस्य माता सरमा पुत्रशोकार्ता तत्सत्रमुपागच्छद्यत्र स जनमेजयः सह भ्रातृभिर्दीर्घसत्रमुपास्ते | ००७ |
स तया क्रुद्धया तत्रोक्तः |
अयं मे पुत्रो न किञ्चिदपराध्यति |
किमर्थमभिहत इति |
यस्माच्चायमभिहतोऽनपकारी तस्माददृष्टं त्वां भयमागमिष्यतीति | ००८ |
स जनमेजय एवमुक्तो देवशुन्या सरमया दृढं सम्भ्रान्तो विषण्णश्चासीत् | ००९ |
स तस्मिन्सत्रे समाप्ते हास्तिनपुरं प्रत्येत्य पुरोहितमनुरूपमन्विच्छमानः परं यत्नमकरोद्यो मे पापकृत्यां शमयेदिति | ०१० |
स कदाचिन्मृगयां यातः पारिक्षितो जनमेजयः कस्मिंश्चित्स्वविषयोद्देशे आश्रममपश्यत् | ०११ |
तत्र कश्चिदृषिरासां चक्रे श्रुतश्रवा नाम |
तस्याभिमतः पुत्र आस्ते सोमश्रवा नाम | ०१२ |
तस्य तं पुत्रमभिगम्य जनमेजयः पारिक्षितः पौरोहित्याय वव्रे | ०१३ |
स नमस्कृत्य तमृषिमुवाच |
भगवन्नयं तव पुत्रो मम पुरोहितोऽस्त्विति | ०१४ |
स एवमुक्तः प्रत्युवाच |
भो जनमेजय पुत्रोऽयं मम सर्प्यां जातः |
महातपस्वी स्वाध्यायसम्पन्नो मत्तपोवीर्यसम्भृतो मच्छुक्रं पीतवत्यास्तस्याः कुक्षौ संवृद्धः |
समर्थोऽयं भवतः सर्वाः पापकृत्याः शमयितुमन्तरेण महादेवकृत्याम् |
अस्य त्वेकमुपांशुव्रतम् |
यदेनं कश्चिद्ब्राह्मणः कञ्चिदर्थमभियाचेत्तं तस्मै दद्यादयम् |
यद्येतदुत्सहसे ततो नयस्वैनमिति | ०१५ |
तेनैवमुत्को जनमेजयस्तं प्रत्युवाच |
भगवंस्तथा भविष्यतीति | ०१६ |
स तं पुरोहितमुपादायोपावृत्तो भ्रातृनुवाच |
मयायं वृत उपाध्यायः |
यदयं ब्रूयात्तत्कार्यमविचारयद्भिरिति | ०१७ |
तेनैवमुक्ता भ्रातरस्तस्य तथा चक्रुः |
स तथा भ्रातृन्संदिश्य तक्षशिलां प्रत्यभिप्रतस्थे |
तं च देशं वशे स्थापयामास | ०१८ |
एतस्मिन्नन्तरे कश्चिदृषिर्धौम्यो नामायोदः |
तस्य शिष्यास्त्रयो बभूवुरुपमन्युरारुणिर्वेदश्चेति | ०१९ |
स एकं शिष्यमारुणिं पाञ्चाल्यं प्रेषयामास |
गच्छ केदारखण्डं बधानेति | ०२० |
स उपाध्यायेन संदिष्ट आरुणिः पाञ्चाल्यस्तत्र गत्वा तत्केदारखण्डं बद्धुं नाशक्नोत् | ०२१ |
स क्लिश्यमानोऽपश्यदुपायम् |
भवत्वेवं करिष्यामीति | ०२२ |
स तत्र संविवेश केदारखण्डे |
शयाने तस्मिंस्तदुदकं तस्थौ | ०२३ |
ततः कदाचिदुपाध्याय आयोदो धौम्यः शिष्यानपृच्छत् |
क्व आरुणिः पाञ्चाल्यो गत इति | ०२४ |
ते प्रत्यूचुः |
भगवतैव प्रेषितो गच्छ केदारखण्डं बधानेति | ०२५ |
स एवमुक्तस्ताञ्शिष्यान्प्रत्युवाच |
तस्मात्सर्वे तत्र गच्छामो यत्र स इति | ०२६ |
स तत्र गत्वा तस्याह्वानाय शब्दं चकार |
भो आरुणे पाञ्चाल्य क्वासि |
वत्सैहीति | ०२७ |
स तच्छ्रुत्वा आरुणिरुपाध्यायवाक्यं तस्मात्केदारखण्डात्सहसोत्थाय तमुपाध्यायमुपतस्थे |
प्रोवाच चैनम् |
अयमस्म्यत्र केदारखण्डे निःसरमाणमुदकमवारणीयं संरोद्धुं संविष्टो भगवच्छब्दं श्रुत्वैव सहसा विदार्य केदारखण्डं भवन्तमुपस्थितः |
तदभिवादये भगवन्तम् |
आज्ञापयतु भवान् |
किं करवाणीति | ०२८ |
तमुपाध्यायोऽब्रवीत् |
यस्माद्भवान्केदारखण्डमवदार्योत्थितस्तस्माद्भवानुद्दालक एव नाम्ना भविष्यतीति | ०२९ |
स उपाध्यायेनानुगृहीतः |
यस्मात्त्वया मद्वचोऽनुष्ठितं तस्माच्छ्रेयोऽवाप्स्यसीति |
सर्वे च ते वेदाः प्रतिभास्यन्ति सर्वाणि च धर्मशास्त्राणीति | ०३० |
स एवमुक्त उपाध्यायेनेष्टं देशं जगाम | ०३१ |
अथापरः शिष्यस्तस्यैवायोदस्य धौम्यस्योपमन्युर्नाम | ०३२ |
तमुपाध्यायः प्रेषयामास |
वत्सोपमन्यो गा रक्षस्वेति | ०३३ |
स उपाध्यायवचनादरक्षद्गाः |
स चाहनि गा रक्षित्वा दिवसक्षयेऽभ्यागम्योपाध्यायस्याग्रतः स्थित्वा नमश्चक्रे | ०३४ |
तमुपाध्यायः पीवानमपश्यत् |
उवाच चैनम् |
वत्सोपमन्यो केन वृत्तिं कल्पयसि |
पीवानसि दृढमिति | ०३५ |
स उपाध्यायं प्रत्युवाच |
भैक्षेण वृत्तिं कल्पयामीति | ०३६ |
तमुपाध्यायः प्रत्युवाच |
ममानिवेद्य भैक्षं नोपयोक्तव्यमिति | ०३७ |
स तथेत्युक्त्वा पुनररक्षद्गाः |
रक्षित्वा चागम्य तथैवोपाध्यायस्याग्रतः स्थित्वा नमश्चक्रे | ०३८ |
तमुपाध्यायस्तथापि पीवानमेव दृष्ट्वोवाच |
वत्सोपमन्यो सर्वमशेषतस्ते भैक्षं गृह्णामि |
केनेदानीं वृत्तिं कल्पयसीति | ०३९ |
स एवमुक्त उपाध्यायेन प्रत्युवाच |
भगवते निवेद्य पूर्वमपरं चरामि |
तेन वृत्तिं कल्पयामीति | ०४० |
तमुपाध्यायः प्रत्युवाच |
नैषा न्याय्या गुरुवृत्तिः |
अन्येषामपि वृत्त्युपरोधं करोष्येवं वर्तमानः |
लुब्धोऽसीति | ०४१ |
स तथेत्युक्त्वा गा अरक्षत् |
रक्षित्वा च पुनरुपाध्यायगृहमागम्योपाध्यायस्याग्रतः स्थित्वा नमश्चक्रे | ०४२ |
तमुपाध्यायस्तथापि पीवानमेव दृष्ट्वा पुनरुवाच |
अहं ते सर्वं भैक्षं गृह्णामि न चान्यच्चरसि |
पीवानसि |
केन वृत्तिं कल्पयसीति | ०४३ |
स उपाध्यायं प्रत्युवाच |
भो एतासां गवां पयसा वृत्तिं कल्पयामीति | ०४४ |
तमुपाध्यायः प्रत्युवाच |
नैतन्न्याय्यं पय उपयोक्तुं भवतो मयाननुज्ञातमिति | ०४५ |
स तथेति प्रतिज्ञाय गा रक्षित्वा पुनरुपाध्यायगृहानेत्य गुरोरग्रतः स्थित्वा नमश्चक्रे | ०४६ |
तमुपाध्यायः पीवानमेवापश्यत् |
उवाच चैनम् |
भैक्षं नाश्नासि न चान्यच्चरसि |
पयो न पिबसि |
पीवानसि |
केन वृत्तिं कल्पयसीति | ०४७ |
स एवमुक्त उपाध्यायं प्रत्युवाच |
भोः फेनं पिबामि यमिमे वत्सा मातृणां स्तनं पिबन्त उद्गिरन्तीति | ०४८ |
तमुपाध्यायः प्रत्युवाच |
एते त्वदनुकम्पया गुणवन्तो वत्साः प्रभूततरं फेनमुद्गिरन्ति |
तदेवमपि वत्सानां वृत्त्युपरोधं करोष्येवं वर्तमानः |
फेनमपि भवान्न पातुमर्हतीति | ०४९ |
स तथेति प्रतिज्ञाय निराहारस्ता गा अरक्षत् |
तथा प्रतिषिद्धो भैक्षं नाश्नाति न चान्यच्चरति |
पयो न पिबति |
फेनं नोपयुङ्क्ते | ०५० |
स कदाचिदरण्ये क्षुधार्तोऽर्कपत्राण्यभक्षयत् | ०५१ |
स तैरर्कपत्रैर्भक्षितैः क्षारकटूष्णविपाकिभिश्चक्षुष्युपहतोऽन्धोऽभवत् |
सोऽन्धोऽपि चङ्क्रम्यमाणः कूपेऽपतत् | ०५२ |
अथ तस्मिन्ननागच्छत्युपाध्यायः शिष्यानवोचत् |
मयोपमन्युः सर्वतः प्रतिषिद्धः |
स नियतं कुपितः |
ततो नागच्छति चिरगतश्चेति | ०५३ |
स एवमुक्त्वा गत्वारण्यमुपमन्योराह्वानं चक्रे |
भो उपमन्यो क्वासि |
वत्सैहीति | ०५४ |
स तदाह्वानमुपाध्यायाच्छ्रुत्वा प्रत्युवाचोच्चैः |
अयमस्मि भो उपाध्याय कूपे पतित इति | ०५५ |
तमुपाध्यायः प्रत्युवाच |
कथमसि कूपे पतित इति | ०५६ |
स तं प्रत्युवाच |
अर्कपत्राणि भक्षयित्वान्धीभूतोऽस्मि |
अतः कूपे पतित इति | ०५७ |
तमुपाध्यायः प्रत्युवाच |
अश्विनौ स्तुहि |
तौ त्वां चक्षुष्मन्तं करिष्यतो देवभिषजाविति | ०५८ |
स एवमुक्त उपाध्यायेन स्तोतुं प्रचक्रमे देवावश्विनौ वाग्भिरृग्भिः | ०५९ |
प्र पूर्वगौ पूर्वजौ चित्रभानू; गिरा वा शंसामि तपनावनन्तौ |
दिव्यौ सुपर्णौ विरजौ विमाना; वधिक्षियन्तौ भुवनानि विश्वा ||६०||
हिरण्मयौ शकुनी साम्परायौ; नासत्यदस्रौ सुनसौ वैजयन्तौ |
शुक्रं वयन्तौ तरसा सुवेमा; वभि व्ययन्तावसितं विवस्वत् ||६१||
ग्रस्तां सुपर्णस्य बलेन वर्तिका; ममुञ्चतामश्विनौ सौभगाय |
तावत्सुवृत्तावनमन्त मायया; सत्तमा गा अरुणा उदावहन् ||६२||
षष्टिश्च गावस्त्रिशताश्च धेनव; एकं वत्सं सुवते तं दुहन्ति |
नानागोष्ठा विहिता एकदोहना; स्तावश्विनौ दुहतो घर्ममुक्थ्यम् ||६३||
एकां नाभिं सप्तशता अराः श्रिताः; प्रधिष्वन्या विंशतिरर्पिता अराः |
अनेमि चक्रं परिवर्ततेऽजरं; मायाश्विनौ समनक्ति चर्षणी ||६४||
एकं चक्रं वर्तते द्वादशारं प्रधि; षण्णाभिमेकाक्षममृतस्य धारणम् |
यस्मिन्देवा अधि विश्वे विषक्ता; स्तावश्विनौ मुञ्चतो मा विषीदतम् ||६५||
अश्विनाविन्द्रममृतं वृत्तभूयौ; तिरोधत्तामश्विनौ दासपत्नी |
भित्त्वा गिरिमश्विनौ गामुदाचरन्तौ; तद्वृष्टमह्ना प्रथिता वलस्य ||६६||
युवां दिशो जनयथो दशाग्रे; समानं मूर्ध्नि रथया वियन्ति |
तासां यातमृषयोऽनुप्रयान्ति; देवा मनुष्याः क्षितिमाचरन्ति ||६७||
युवां वर्णान्विकुरुथो विश्वरूपां; स्तेऽधिक्षियन्ति भुवनानि विश्वा |
ते भानवोऽप्यनुसृताश्चरन्ति; देवा मनुष्याः क्षितिमाचरन्ति ||६८||
तौ नासत्यावश्विनावामहे वां; स्रजं च यां बिभृथः पुष्करस्य |
तौ नासत्यावमृतावृतावृधा; वृते देवास्तत्प्रपदेन सूते ||६९||
मुखेन गर्भं लभतां युवानौ; गतासुरेतत्प्रपदेन सूते |
सद्यो जातो मातरमत्ति गर्भ; स्तावश्विनौ मुञ्चथो जीवसे गाः ||७०||
एवं तेनाभिष्टुतावश्विनावाजग्मतुः |
आहतुश्चैनम् |
प्रीतौ स्वः |
एष तेऽपूपः |
अशानैनमिति | ०७१ |
स एवमुक्तः प्रत्युवाच |
नानृतमूचतुर्भवन्तौ |
न त्वहमेतमपूपमुपयोक्तुमुत्सहे अनिवेद्य गुरव इति | ०७२ |
ततस्तमश्विनावूचतुः |
आवाभ्यां पुरस्ताद्भवत उपाध्यायेनैवमेवाभिष्टुताभ्यामपूपः प्रीताभ्यां दत्तः |
उपयुक्तश्च स तेनानिवेद्य गुरवे |
त्वमपि तथैव कुरुष्व यथा कृतमुपाध्यायेनेति | ०७३ |
स एवमुक्तः पुनरेव प्रत्युवाचैतौ |
प्रत्यनुनये भवन्तावश्विनौ |
नोत्सहेऽहमनिवेद्योपाध्यायायोपयोक्तुमिति | ०७४ |
तमश्विनावाहतुः |
प्रीतौ स्वस्तवानया गुरुवृत्त्या |
उपाध्यायस्य ते कार्ष्णायसा दन्ताः |
भवतो हिरण्मया भविष्यन्ति |
चक्षुष्मांश्च भविष्यसि |
श्रेयश्चावाप्स्यसीति | ०७५ |
स एवमुक्तोऽश्विभ्यां लब्धचक्षुरुपाध्यायसकाशमागम्योपाध्यायमभिवाद्याचचक्षे |
स चास्य प्रीतिमानभूत् | ०७६ |
आह चैनम् |
यथाश्विनावाहतुस्तथा त्वं श्रेयोऽवाप्स्यसीति |
सर्वे च ते वेदाः प्रतिभास्यन्तीति | ०७७ |
एषा तस्यापि परीक्षोपमन्योः | ०७८ |
अथापरः शिष्यस्तस्यैवायोदस्य धौम्यस्य वेदो नाम | ०७९ |
तमुपाध्यायः संदिदेश |
वत्स वेद इहास्यताम् |
भवता मद्गृहे कञ्चित्कालं शुश्रूषमाणेन भवितव्यम् |
श्रेयस्ते भविष्यतीति | ०८० |
स तथेत्युक्त्वा गुरुकुले दीर्घकालं गुरुशुश्रूषणपरोऽवसत् |
गौरिव नित्यं गुरुषु धूर्षु नियुज्यमानः शीतोष्णक्षुत्तृष्णादुःखसहः सर्वत्राप्रतिकूलः | ०८१ |
तस्य महता कालेन गुरुः परितोषं जगाम |
तत्परितोषाच्च श्रेयः सर्वज्ञतां चावाप |
एषा तस्यापि परीक्षा वेदस्य | ०८२ |
स उपाध्यायेनानुज्ञातः समावृत्तस्तस्माद्गुरुकुलवासाद्गृहाश्रमं प्रत्यपद्यत |
तस्यापि स्वगृहे वसतस्त्रयः शिष्या बभूवुः | ०८३ |
स शिष्यान्न किञ्चिदुवाच |
कर्म वा क्रियतां गुरुशुश्रूषा वेति |
दुःखाभिज्ञो हि गुरुकुलवासस्य शिष्यान्परिक्लेशेन योजयितुं नेयेष | ०८४ |
अथ कस्यचित्कालस्य वेदं ब्राह्मणं जनमेजयः पौष्यश्च क्षत्रियावुपेत्योपाध्यायं वरयां चक्रतुः | ०८५ |
स कदाचिद्याज्यकार्येणाभिप्रस्थित उत्तङ्कं नाम शिष्यं नियोजयामास |
भो उत्तङ्क यत्किञ्चिदस्मद्गृहे परिहीयते तदिच्छाम्यहमपरिहीणं भवता क्रियमाणमिति | ०८६ |
स एवं प्रतिसमादिश्योत्तङ्कं वेदः प्रवासं जगाम | ०८७ |
अथोत्तङ्को गुरुशुश्रूषुर्गुरुनियोगमनुतिष्ठमानस्तत्र गुरुकुले वसति स्म | ०८८ |
स वसंस्तत्रोपाध्यायस्त्रीभिः सहिताभिराहूयोक्तः |
उपाध्यायिनी ते ऋतुमती |
उपाध्यायश्च प्रोषितः |
अस्या यथायमृतुर्वन्ध्यो न भवति तथा क्रियताम् |
एतद्विषीदतीति | ०८९ |
स एवमुक्तस्ताः स्त्रियः प्रत्युवाच |
न मया स्त्रीणां वचनादिदमकार्यं कार्यम् |
न ह्यहमुपाध्यायेन संदिष्टः |
अकार्यमपि त्वया कार्यमिति | ०९० |
तस्य पुनरुपाध्यायः कालान्तरेण गृहानुपजगाम तस्मात्प्रवासात् |
स तद्वृत्तं तस्याशेषमुपलभ्य प्रीतिमानभूत् | ०९१ |
उवाच चैनम् |
वत्सोत्तङ्क किं ते प्रियं करवाणीति |
धर्मतो हि शुश्रूषितोऽस्मि भवता |
तेन प्रीतिः परस्परेण नौ संवृद्धा |
तदनुजाने भवन्तम् |
सर्वामेव सिद्धिं प्राप्स्यसि |
गम्यतामिति | ०९२ |
स एवमुक्तः प्रत्युवाच |
किं ते प्रियं करवाणीति |
एवं ह्याहुः | ०९३ |
यश्चाधर्मेण विब्रूयाद्यश्चाधर्मेण पृच्छति | ०९४ |
तयोरन्यतरः प्रैति विद्वेषं चाधिगच्छति |
सोऽहमनुज्ञातो भवता इच्छामीष्टं ते गुर्वर्थमुपहर्तुमिति | ०९५ |
तेनैवमुक्त उपाध्यायः प्रत्युवाच |
वत्सोत्तङ्क उष्यतां तावदिति | ०९६ |
स कदाचित्तमुपाध्यायमाहोत्तङ्कः |
आज्ञापयतु भवान् |
किं ते प्रियमुपहरामि गुर्वर्थमिति | ०९७ |
तमुपाध्यायः प्रत्युवाच |
वत्सोत्तङ्क बहुशो मां चोदयसि गुर्वर्थमुपहरेयमिति |
तद्गच्छ |
एनां प्रविश्योपाध्यायिनीं पृच्छ किमुपहरामीति |
एषा यद्ब्रवीति तदुपहरस्वेति | ०९८ |
स एवमुक्त उपाध्यायेनोपाध्यायिनीमपृच्छत् |
भवत्युपाध्यायेनास्म्यनुज्ञातो गृहं गन्तुम् |
तदिच्छामीष्टं ते गुर्वर्थमुपहृत्यानृणो गन्तुम् |
तदाज्ञापयतु भवती |
किमुपहरामि गुर्वर्थमिति | ०९९ |
सैवमुक्तोपाध्यायिन्युत्तङ्कं प्रत्युवाच |
गच्छ पौष्यं राजानम् |
भिक्षस्व तस्य क्षत्रियया पिनद्धे कुण्डले |
ते आनयस्व |
इतश्चतुर्थेऽहनि पुण्यकं भविता |
ताभ्यामाबद्धाभ्यां ब्राह्मणान्परिवेष्टुमिच्छामि |
शोभमाना यथा ताभ्यां कुण्डलाभ्यां तस्मिन्नहनि सम्पादयस्व |
श्रेयो हि ते स्यात्क्षणं कुर्वत इति | १०० |
स एवमुक्त उपाध्यायिन्या प्रातिष्ठतोत्तङ्कः |
स पथि गच्छन्नपश्यदृषभमतिप्रमाणं तमधिरूढं च पुरुषमतिप्रमाणमेव | १०१ |
स पुरुष उत्तङ्कमभ्यभाषत |
उत्तङ्कैतत्पुरीषमस्य ऋषभस्य भक्षयस्वेति | १०२ |
स एवमुक्तो नैच्छत् | १०३ |
तमाह पुरुषो भूयः |
भक्षयस्वोत्तङ्क |
मा विचारय |
उपाध्यायेनापि ते भक्षितं पूर्वमिति | १०४ |
स एवमुक्तो बाढमित्युक्त्वा तदा तदृषभस्य पुरीषं मूत्रं च भक्षयित्वोत्तङ्कः प्रतस्थे यत्र स क्षत्रियः पौष्यः |१०५ |
तमुपेत्यापश्यदुत्तङ्क आसीनम् |
स तमुपेत्याशीर्भिरभिनन्द्योवाच |
अर्थी भवन्तमुपगतोऽस्मीति | १०६ |
स एनमभिवाद्योवाच |
भगवन्पौष्यः खल्वहम् |
किं करवाणीति | १०७ |
तमुवाचोत्तङ्कः |
गुर्वर्थे कुण्डलाभ्यामर्थ्यागतोऽस्मीति ये ते क्षत्रियया पिनद्धे कुण्डले ते भवान्दातुमर्हतीति | १०८ |
तं पौष्यः प्रत्युवाच |
प्रविश्यान्तःपुरं क्षत्रिया याच्यतामिति | १०९ |
स तेनैवमुक्तः प्रविश्यान्तःपुरं क्षत्रियां नापश्यत् | ११० |
स पौष्यं पुनरुवाच |
न युक्तं भवता वयमनृतेनोपचरितुम् |
न हि ते क्षत्रियान्तःपुरे संनिहिता |
नैनां पश्यामीति | १११ |
स एवमुक्तः पौष्यस्तं प्रत्युवाच |
सम्प्रति भवानुच्छिष्टः |
स्मर तावत् |
न हि सा क्षत्रिया उच्छिष्टेनाशुचिना वा शक्या द्रष्टुम् |
पतिव्रतात्वादेषा नाशुचेर्दर्शनमुपैतीति | ११२ |
अथैवमुक्त उत्तङ्कः स्मृत्वोवाच |
अस्ति खलु मयोच्छिष्टेनोपस्पृष्टं शीघ्रं गच्छता चेति | ११३ |
तं पौष्यः प्रत्युवाच |
एतत्तदेवं हि |
न गच्छतोपस्पृष्टं भवति न स्थितेनेति | ११४ |
अथोत्तङ्कस्तथेत्युक्त्वा प्राङ्मुख उपविश्य सुप्रक्षालितपाणिपादवदनोऽशब्दाभिर् हृदयङ्गमाभिरद्भिरुपस्पृश्य त्रिः पीत्वा द्विः परिमृज्य खान्यद्भिरुपस्पृश्यान्तःपुरं प्रविश्य तां क्षत्रियामपश्यत् | ११५ |
सा च दृष्ट्वैवोत्तङ्कमभ्युत्थायाभिवाद्योवाच |
स्वागतं ते भगवन् |
आज्ञापय किं करवाणीति | ११६ |
स तामुवाच |
एते कुण्डले गुर्वर्थं मे भिक्षिते दातुमर्हसीति | ११७ |
सा प्रीता तेन तस्य सद्भावेन पात्रमयमनतिक्रमणीयश्चेति मत्वा ते कुण्डले अवमुच्यास्मै प्रायच्छत् | ११८ |
आह चैनम् |
एते कुण्डले तक्षको नागराजः प्रार्थयति |
अप्रमत्तो नेतुमर्हसीति | ११९ |
स एवमुक्तस्तां क्षत्रियां प्रत्युवाच |
भवति सुनिर्वृता भव |
न मां शक्तस्तक्षको नागराजो धर्षयितुमिति | १२० |
स एवमुक्त्वा तां क्षत्रियामामन्त्र्य पौष्यसकाशमागच्छत् | १२१ |
स तं दृष्ट्वोवाच |
भोः पौष्य प्रीतोऽस्मीति | १२२ |
तं पौष्यः प्रत्युवाच |
भगवंश्चिरस्य पात्रमासाद्यते |
भवांश्च गुणवानतिथिः |
तत्करिष्ये श्राद्धम् |
क्षणः क्रियतामिति | १२३ |
तमुत्तङ्कः प्रत्युवाच |
कृतक्षण एवास्मि |
शीघ्रमिच्छामि यथोपपन्नमन्नमुपहृतं भवतेति | १२४ |
स तथेत्युक्त्वा यथोपपन्नेनान्नेनैनं भोजयामास | १२५ |
अथोत्तङ्कः शीतमन्नं सकेशं दृष्ट्वा अशुच्येतदिति मत्वा पौष्यमुवाच |
यस्मान्मे अशुच्यन्नं ददासि तस्मदन्धो भविष्यसीति | १२६ |
तं पौष्यः प्रत्युवाच |
यस्मात्त्वमप्यदुष्टमन्नं दूषयसि तस्मादनपत्यो भविष्यसीति | १२७ |
सोऽथ पौष्यस्तस्याशुचिभावमन्नस्यागमयामास | १२८ |
अथ तदन्नं मुक्तकेश्या स्त्रियोपहृतं सकेशमशुचि मत्वोत्तङ्कं प्रसादयामास |
भगवन्नज्ञानादेतदन्नं सकेशमुपहृतं शीतं च |
तत्क्षामये भवन्तम् |
न भवेयमन्ध इति | १२९ |
तमुत्तङ्कः प्रत्युवाच |
न मृषा ब्रवीमि |
भूत्वा त्वमन्धो नचिरादनन्धो भविष्यसीति |
ममापि शापो न भवेद्भवता दत्त इति | १३० |
तं पौष्यः प्रत्युवाच |
नाहं शक्तः शापं प्रत्यादातुम् |
न हि मे मन्युरद्याप्युपशमं गच्छति |
किं चैतद्भवता न ज्ञायते यथा | १३१ |
नावनीतं हृदयं ब्राह्मणस्य; वाचि क्षुरो निहितस्तीक्ष्णधारः |
विपरीतमेतदुभयं क्षत्रियस्य; वाङ्नावनीती हृदयं तीक्ष्णधारम् ||१३२||
इति |
तदेवं गते न शक्तोऽहं तीक्ष्णहृदयत्वात्तं शापमन्यथा कर्तुम् |
गम्यतामिति | १३३ |
तमुत्तङ्कः प्रत्युवाच |
भवताहमन्नस्याशुचिभावमागमय्य प्रत्यनुनीतः |
प्राक्च तेऽभिहितम् |
यस्माददुष्टमन्नं दूषयसि तस्मादनपत्यो भविष्यसीति |
दुष्टे चान्ने नैष मम शापो भविष्यतीति | १३४ |
साधयामस्तावदित्युक्त्वा प्रातिष्ठतोत्तङ्कस्ते कुण्डले गृहीत्वा | १३५ |
सोऽपश्यत्पथि नग्नं श्रमणमागच्छन्तं मुहुर्मुहुर्दृश्यमानमदृश्यमानं च |
अथोत्तङ्कस्ते कुण्डले भूमौ निक्षिप्योदकार्थं प्रचक्रमे | १३६ |
एतस्मिन्नन्तरे स श्रमणस्त्वरमाण उपसृत्य ते कुण्डले गृहीत्वा प्राद्रवत् |
तमुत्तङ्कोऽभिसृत्य जग्राह |
स तद्रूपं विहाय तक्षकरूपं कृत्वा सहसा धरण्यां विवृतं महाबिलं विवेश | १३७ |
प्रविश्य च नागलोकं स्वभवनमगच्छत् |
तमुत्तङ्कोऽन्वाविवेश तेनैव बिलेन |
प्रविश्य च नागानस्तुवदेभिः श्लोकैः | १३८ |
य ऐरावतराजानः सर्पाः समितिशोभनाः |
वर्षन्त इव जीमूताः सविद्युत्पवनेरिताः ||१३९||
सुरूपाश्च विरूपाश्च तथा कल्माषकुण्डलाः |
आदित्यवन्नाकपृष्ठे रेजुरैरावतोद्भवाः ||१४०||
बहूनि नागवर्त्मानि गङ्गायास्तीर उत्तरे |
इच्छेत्कोऽर्कांशुसेनायां चर्तुमैरावतं विना ||१४१||
शतान्यशीतिरष्टौ च सहस्राणि च विंशतिः |
सर्पाणां प्रग्रहा यान्ति धृतराष्ट्रो यदेजति ||१४२||
ये चैनमुपसर्पन्ति ये च दूरं परं गताः |
अहमैरावतज्येष्ठभ्रातृभ्योऽकरवं नमः ||१४३||
यस्य वासः कुरुक्षेत्रे खाण्डवे चाभवत्सदा |
तं काद्रवेयमस्तौषं कुण्डलार्थाय तक्षकम् ||१४४||
तक्षकश्चाश्वसेनश्च नित्यं सहचरावुभौ |
कुरुक्षेत्रे निवसतां नदीमिक्षुमतीमनु ||१४५||
जघन्यजस्तक्षकस्य श्रुतसेनेति यः श्रुतः |
अवसद्यो महद्द्युम्नि प्रार्थयन्नागमुख्यताम् ||१४६||
करवाणि सदा चाहं नमस्तस्मै महात्मने ||१४६||
एवं स्तुवन्नपि नागान्यदा ते कुण्डले नालभदथापश्यत्स्त्रियौ तन्त्रे अधिरोप्य पटं वयन्त्यौ | १४७ |
तस्मिंश्च तन्त्रे कृष्णाः सिताश्च तन्तवः |
चक्रं चापश्यत्षड्भिः कुमारैः परिवर्त्यमानम् |
पुरुषं चापश्यद्दर्शनीयम् | १४८ |
स तान्सर्वांस्तुष्टाव एभिर्मन्त्रवादश्लोकैः | १४९ |
त्रीण्यर्पितान्यत्र शतानि मध्ये; षष्टिश्च नित्यं चरति ध्रुवेऽस्मिन् |
चक्रे चतुर्विंशतिपर्वयोगे; षड्यत्कुमाराः परिवर्तयन्ति ||१५०||
तन्त्रं चेदं विश्वरूपं युवत्यौ; वयतस्तन्तून्सततं वर्तयन्त्यौ |
कृष्णान्सितांश्चैव विवर्तयन्त्यौ; भूतान्यजस्रं भुवनानि चैव ||१५१||
वज्रस्य भर्ता भुवनस्य गोप्ता; वृत्रस्य हन्ता नमुचेर्निहन्ता |
कृष्णे वसानो वसने महात्मा; सत्यानृते यो विविनक्ति लोके ||१५२||
यो वाजिनं गर्भमपां पुराणं; वैश्वानरं वाहनमभ्युपेतः |
नमः सदास्मै जगदीश्वराय; लोकत्रयेशाय पुरंदराय ||१५३||
ततः स एनं पुरुषः प्राह |
प्रीतोऽस्मि तेऽहमनेन स्तोत्रेण |
किं ते प्रियं करवाणीति | १५४ |
स तमुवाच |
नागा मे वशमीयुरिति | १५५ |
स एनं पुरुषः पुनरुवाच |
एतमश्वमपाने धमस्वेति | १५६ |
स तमश्वमपानेऽधमत् |
अथाश्वाद्धम्यमानात्सर्वस्रोतोभ्यः सधूमा अर्चिषोऽग्नेर्निष्पेतुः | १५७ |
ताभिर्नागलोको धूपितः | १५८ |
अथ ससम्भ्रमस्तक्षकोऽग्नितेजोभयविषण्णस्ते कुण्डले गृहीत्वा सहसा स्वभवनान्निष्क्रम्योत्तङ्कमुवाच |
एते कुण्डले प्रतिगृह्णातु भवानिति | १५९ |
स ते प्रतिजग्राहोत्तङ्कः |
कुण्डले प्रतिगृह्याचिन्तयत् |
अद्य तत्पुण्यकमुपाध्यायिन्याः |
दूरं चाहमभ्यागतः |
कथं नु खलु सम्भावयेयमिति | १६० |
तत एनं चिन्तयानमेव स पुरुष उवाच |
उत्तङ्क एनमश्वमधिरोह |
एष त्वां क्षणादेवोपाध्यायकुलं प्रापयिष्यतीति | १६१ |
स तथेत्युक्त्वा तमश्वमधिरुह्य प्रत्याजगामोपाध्यायकुलम् |
उपाध्यायिनी च स्नाता केशानावपयन्त्युपविष्टोत्तङ्को नागच्छतीति शापायास्य मनो दधे | १६२ |
अथोत्तङ्कः प्रविश्य उपाध्यायिनीमभ्यवादयत् |
ते चास्यै कुण्डले प्रायच्छत् | १६३ |
सा चैनं प्रत्युवाच |
उत्तङ्क देशे कालेऽभ्यागतः |
स्वागतं ते वत्स |
मनागसि मया न शप्तः |
श्रेयस्तवोपस्थितम् |
सिद्धिमाप्नुहीति | १६४ |
अथोत्तङ्क उपाध्यायमभ्यवादयत् |
तमुपाध्यायः प्रत्युवाच |
वत्सोत्तङ्क स्वागतं ते |
किं चिरं कृतमिति | १६५ |
तमुत्तङ्क उपाध्यायं प्रत्युवाच |
भोस्तक्षकेण नागराजेन विघ्नः कृतोऽस्मिन्कर्मणि |
तेनास्मि नागलोकं नीतः | १६६ |
तत्र च मया दृष्टे स्त्रियौ तन्त्रेऽधिरोप्य पटं वयन्त्यौ |
तस्मिंश्च तन्त्रे कृष्णाः सिताश्च तन्तवः |
किं तत् | १६७ |
तत्र च मया चक्रं दृष्टं द्वादशारम् |
षट्चैनं कुमाराः परिवर्तयन्ति |
तदपि किम् | १६८ |
पुरुषश्चापि मया दृष्टः |
स पुनः कः | १६९ |
अश्वश्चातिप्रमाणयुक्तः |
स चापि कः | १७० |
पथि गच्छता मया ऋषभो दृष्टः |
तं च पुरुषोऽधिरूढः |
तेनास्मि सोपचारमुक्तः |
उत्तङ्कास्य ऋषभस्य पुरीषं भक्षय |
उपाध्यायेनापि ते भक्षितमिति |
ततस्तद्वचनान्मया तदृषभस्य पुरीषमुपयुक्तम् |
तदिच्छामि भवतोपदिष्टं किं तदिति | १७१ |
तेनैवमुक्त उपाध्यायः प्रत्युवाच |
ये ते स्त्रियौ धाता विधाता च |
ये च ते कृष्णाः सिताश्च तन्तवस्ते रात्र्यहनी | १७२ |
यदपि तच्चक्रं द्वादशारं षट्कुमाराः परिवर्तयन्ति ते ऋतवः षट्संवत्सरश्चक्रम् |
यः पुरुषः स पर्जन्यः |
योऽश्वः सोऽग्निः | १७३ |
य ऋषभस्त्वया पथि गच्छता दृष्टः स ऐरावतो नागराजः |
यश्चैनमधिरूढः स इन्द्रः |
यदपि ते पुरीषं भक्षितं तस्य ऋषभस्य तदमृतम् | १७४ |
तेन खल्वसि न व्यापन्नस्तस्मिन्नागभवने |
स चापि मम सखा इन्द्रः | १७५ |
तदनुग्रहात्कुण्डले गृहीत्वा पुनरभ्यागतोऽसि |
तत्सौम्य गम्यताम् |
अनुजाने भवन्तम् |
श्रेयोऽवाप्स्यसीति | १७६ |
स उपाध्यायेनानुज्ञात उत्तङ्कः क्रुद्धस्तक्षकस्य प्रतिचिकीर्षमाणो हास्तिनपुरं प्रतस्थे | १७७ |
स हास्तिनपुरं प्राप्य नचिराद्द्विजसत्तमः |
समागच्छत राजानमुत्तङ्को जनमेजयम् ||१७८||
पुरा तक्षशिलातस्तं निवृत्तमपराजितम् |
सम्यग्विजयिनं दृष्ट्वा समन्तान्मन्त्रिभिर्वृतम् ||१७९||
तस्मै जयाशिषः पूर्वं यथान्यायं प्रयुज्य सः |
उवाचैनं वचः काले शब्दसम्पन्नया गिरा ||१८०||
अन्यस्मिन्करणीये त्वं कार्ये पार्थिवसत्तम |
बाल्यादिवान्यदेव त्वं कुरुषे नृपसत्तम ||१८१||
एवमुक्तस्तु विप्रेण स राजा प्रत्युवाच ह |
जनमेजयः प्रसन्नात्मा सम्यक्सम्पूज्य तं मुनिम् ||१८२||
आसां प्रजानां परिपालनेन; स्वं क्षत्रधर्मं परिपालयामि |
प्रब्रूहि वा किं क्रियतां द्विजेन्द्र; शुश्रूषुरस्म्यद्य वचस्त्वदीयम् ||१८३||
स एवमुक्तस्तु नृपोत्तमेन; द्विजोत्तमः पुण्यकृतां वरिष्ठः |
उवाच राजानमदीनसत्त्वं; स्वमेव कार्यं नृपतेश्च यत्तत् ||१८४||
तक्षकेण नरेन्द्रेन्द्र येन ते हिंसितः पिता |
तस्मै प्रतिकुरुष्व त्वं पन्नगाय दुरात्मने ||१८५||
कार्यकालं च मन्येऽहं विधिदृष्टस्य कर्मणः |
तद्गच्छापचितिं राजन्पितुस्तस्य महात्मनः ||१८६||
तेन ह्यनपराधी स दष्टो दुष्टान्तरात्मना |
पञ्चत्वमगमद्राजा वज्राहत इव द्रुमः ||१८७||
बलदर्पसमुत्सिक्तस्तक्षकः पन्नगाधमः |
अकार्यं कृतवान्पापो योऽदशत्पितरं तव ||१८८||
राजर्षिवंशगोप्तारममरप्रतिमं नृपम् |
जघान काश्यपं चैव न्यवर्तयत पापकृत् ||१८९||
दग्धुमर्हसि तं पापं ज्वलिते हव्यवाहने |
सर्पसत्रे महाराज त्वयि तद्धि विधीयते ||१९०||
एवं पितुश्चापचितिं गतवांस्त्वं भविष्यसि |
मम प्रियं च सुमहत्कृतं राजन्भविष्यति ||१९१||
कर्मणः पृथिवीपाल मम येन दुरात्मना |
विघ्नः कृतो महाराज गुर्वर्थं चरतोऽनघ ||१९२||
एतच्छ्रुत्वा तु नृपतिस्तक्षकस्य चुकोप ह |
उत्तङ्कवाक्यहविषा दीप्तोऽग्निर्हविषा यथा ||१९३||
अपृच्छच्च तदा राजा मन्त्रिणः स्वान्सुदुःखितः |
उत्तङ्कस्यैव सांनिध्ये पितुः स्वर्गगतिं प्रति ||१९४||
तदैव हि स राजेन्द्रो दुःखशोकाप्लुतोऽभवत् |
यदैव पितरं वृत्तमुत्तङ्कादशृणोत्तदा ||१९५||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
004-अध्यायः-पौलोमपर्व
लोमहर्षणपुत्र उग्रश्रवाः सूतः पौराणिको नैमिषारण्ये शौनकस्य कुलपतेर्द्वादशवार्षिके सत्रे ऋषीनभ्यागतानुपतस्थे | ००१ |
पौराणिकः पुराणे कृतश्रमः स तान्कृताञ्जलिरुवाच |
किं भवन्तः श्रोतुमिच्छन्ति |
किमहं ब्रुवाणीति | ००२ |
तमृषय ऊचुः |
परमं लोमहर्षणे प्रक्ष्यामस्त्वां वक्ष्यसि च नः शुश्रूषतां कथायोगम् |
तद्भगवांस्तु तावच्छौनकोऽग्निशरणमध्यास्ते | ००३ |
योऽसौ दिव्याः कथा वेद देवतासुरसङ्कथाः |
मनुष्योरगगन्धर्वकथा वेद च सर्वशः ||४||
स चाप्यस्मिन्मखे सौते विद्वान्कुलपतिर्द्विजः |
दक्षो धृतव्रतो धीमाञ्शास्त्रे चारण्यके गुरुः ||५||
सत्यवादी शमपरस्तपस्वी नियतव्रतः |
सर्वेषामेव नो मान्यः स तावत्प्रतिपाल्यताम् ||६||
तस्मिन्नध्यासति गुरावासनं परमार्चितम् |
ततो वक्ष्यसि यत्त्वां स प्रक्ष्यति द्विजसत्तमः ||७||
सूत उवाच||
एवमस्तु गुरौ तस्मिन्नुपविष्टे महात्मनि |
तेन पृष्टः कथाः पुण्या वक्ष्यामि विविधाश्रयाः ||८||
सोऽथ विप्रर्षभः कार्यं कृत्वा सर्वं यथाक्रमम् |
देवान्वाग्भिः पितृनद्भिस्तर्पयित्वाजगाम ह ||९||
यत्र ब्रह्मर्षयः सिद्धास्त आसीना यतव्रताः |
यज्ञायतनमाश्रित्य सूतपुत्रपुरःसराः ||१०||
ऋत्विक्ष्वथ सदस्येषु स वै गृहपतिस्ततः |
उपविष्टेषूपविष्टः शौनकोऽथाब्रवीदिदम् ||११||