श्रीमहाभारतम्
||१ आदिपर्वम् ||
069-अध्यायः
शकुन्तलोवाच||
राजन्सर्षपमात्राणि परच्छिद्राणि पश्यसि |
आत्मनो बिल्वमात्राणि पश्यन्नपि न पश्यसि ||१||
मेनका त्रिदशेष्वेव त्रिदशाश्चानु मेनकाम् |
ममैवोद्रिच्यते जन्म दुःषन्त तव जन्मतः ||२||
क्षितावटसि राजंस्त्वमन्तरिक्षे चराम्यहम् |
आवयोरन्तरं पश्य मेरुसर्षपयोरिव ||३||
महेन्द्रस्य कुबेरस्य यमस्य वरुणस्य च |
भवनान्यनुसंयामि प्रभावं पश्य मे नृप ||४||
सत्यश्चापि प्रवादोऽयं यं प्रवक्ष्यामि तेऽनघ |
निदर्शनार्थं न द्वेषात्तच्छ्रुत्वा क्षन्तुमर्हसि ||५||
विरूपो यावदादर्शे नात्मनः पश्यते मुखम् |
मन्यते तावदात्मानमन्येभ्यो रूपवत्तरम् ||६||
यदा तु मुखमादर्शे विकृतं सोऽभिवीक्षते |
तदेतरं विजानाति आत्मानं नेतरं जनम् ||७||
अतीव रूपसम्पन्नो न किञ्चिदवमन्यते |
अतीव जल्पन्दुर्वाचो भवतीह विहेठकः ||८||
मूर्खो हि जल्पतां पुंसां श्रुत्वा वाचः शुभाशुभाः |
अशुभं वाक्यमादत्ते पुरीषमिव सूकरः ||९||
प्राज्ञस्तु जल्पतां पुंसां श्रुत्वा वाचः शुभाशुभाः |
गुणवद्वाक्यमादत्ते हंसः क्षीरमिवाम्भसः ||१०||
अन्यान्परिवदन्साधुर्यथा हि परितप्यते |
तथा परिवदन्नन्यांस्तुष्टो भवति दुर्जनः ||११||
अभिवाद्य यथा वृद्धान्सन्तो गच्छन्ति निर्वृतिम् |
एवं सज्जनमाक्रुश्य मूर्खो भवति निर्वृतः ||१२||
सुखं जीवन्त्यदोषज्ञा मूर्खा दोषानुदर्शिनः |
यत्र वाच्याः परैः सन्तः परानाहुस्तथाविधान् ||१३||
अतो हास्यतरं लोके किञ्चिदन्यन्न विद्यते |
यत्र दुर्जन इत्याह दुर्जनः सज्जनं स्वयम् ||१४||
सत्यधर्मच्युतात्पुंसः क्रुद्धादाशीविषादिव |
अनास्तिकोऽप्युद्विजते जनः किं पुनरास्तिकः ||१५||
स्वयमुत्पाद्य वै पुत्रं सदृशं योऽवमन्यते |
तस्य देवाः श्रियं घ्नन्ति न च लोकानुपाश्नुते ||१६||
कुलवंशप्रतिष्ठां हि पितरः पुत्रमब्रुवन् |
उत्तमं सर्वधर्माणां तस्मात्पुत्रं न सन्त्यजेत् ||१७||
स्वपत्नीप्रभवान्पञ्च लब्धान्क्रीतान्विवर्धितान् |
कृतानन्यासु चोत्पन्नान्पुत्रान्वै मनुरब्रवीत् ||१८||
धर्मकीर्त्यावहा नृणां मनसः प्रीतिवर्धनाः |
त्रायन्ते नरकाज्जाताः पुत्रा धर्मप्लवाः पितृन् ||१९||
स त्वं नृपतिशार्दूल न पुत्रं त्यक्तुमर्हसि |
आत्मानं सत्यधर्मौ च पालयानो महीपते ||२०||
नरेन्द्रसिंह कपटं न वोढुं त्वमिहार्हसि ||२०||
वरं कूपशताद्वापी वरं वापीशतात्क्रतुः |
वरं क्रतुशतात्पुत्रः सत्यं पुत्रशताद्वरम् ||२१||
अश्वमेधसहस्रं च सत्यं च तुलया धृतम् |
अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते ||२२||
सर्ववेदाधिगमनं सर्वतीर्थावगाहनम् |
सत्यं च वदतो राजन्समं वा स्यान्न वा समम् ||२३||
नास्ति सत्यात्परो धर्मो न सत्याद्विद्यते परम् |
न हि तीव्रतरं किञ्चिदनृतादिह विद्यते ||२४||
राजन्सत्यं परं ब्रह्म सत्यं च समयः परः |
मा त्याक्षीः समयं राजन्सत्यं सङ्गतमस्तु ते ||२५||
अनृते चेत्प्रसङ्गस्ते श्रद्दधासि न चेत्स्वयम् |
आत्मनो हन्त गच्छामि त्वादृशे नास्ति सङ्गतम् ||२६||
ऋतेऽपि त्वयि दुःषन्त शैलराजावतंसकाम् |
चतुरन्तामिमामुर्वीं पुत्रो मे पालयिष्यति ||२७||
वैशम्पायन उवाच||
एतावदुक्त्वा वचनं प्रातिष्ठत शकुन्तला |
अथान्तरिक्षे दुःषन्तं वागुवाचाशरीरिणी ||२८||
ऋत्विक्पुरोहिताचार्यैर्मन्त्रिभिश्चावृतं तदा ||२८||
भस्त्रा माता पितुः पुत्रो येन जातः स एव सः |
भरस्व पुत्रं दुःषन्त मावमंस्थाः शकुन्तलाम् ||२९||
रेतोधाः पुत्र उन्नयति नरदेव यमक्षयात् |
त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला ||३०||
जाया जनयते पुत्रमात्मनोऽङ्गं द्विधा कृतम् |
तस्माद्भरस्व दुःषन्त पुत्रं शाकुन्तलं नृप ||३१||
अभूतिरेषा कस्त्यज्याज्जीवञ्जीवन्तमात्मजम् |
शाकुन्तलं महात्मानं दौःषन्तिं भर पौरव ||३२||
भर्तव्योऽयं त्वया यस्मादस्माकं वचनादपि |
तस्माद्भवत्वयं नाम्ना भरतो नाम ते सुतः ||३३||
तच्छ्रुत्वा पौरवो राजा व्याहृतं वै दिवौकसाम् |
पुरोहितममात्यांश्च सम्प्रहृष्टोऽब्रवीदिदम् ||३४||
शृण्वन्त्वेतद्भवन्तोऽस्य देवदूतस्य भाषितम् |
अहमप्येवमेवैनं जानामि स्वयमात्मजम् ||३५||
यद्यहं वचनादेव गृह्णीयामिममात्मजम् |
भवेद्धि शङ्का लोकस्य नैवं शुद्धो भवेदयम् ||३६||
तं विशोध्य तदा राजा देवदूतेन भारत |
हृष्टः प्रमुदितश्चापि प्रतिजग्राह तं सुतम् ||३७||
मूर्ध्नि चैनमुपाघ्राय सस्नेहं परिषस्वजे |
सभाज्यमानो विप्रैश्च स्तूयमानश्च बन्दिभिः ||३८||
स मुदं परमां लेभे पुत्रसंस्पर्शजां नृपः ||३८||
तां चैव भार्यां धर्मज्ञः पूजयामास धर्मतः |
अब्रवीच्चैव तां राजा सान्त्वपूर्वमिदं वचः ||३९||
कृतो लोकपरोक्षोऽयं सम्बन्धो वै त्वया सह |
तस्मादेतन्मया देवि त्वच्छुद्ध्यर्थं विचारितम् ||४०||
मन्यते चैव लोकस्ते स्त्रीभावान्मयि सङ्गतम् |
पुत्रश्चायं वृतो राज्ये मया तस्माद्विचारितम् ||४१||
यच्च कोपितयात्यर्थं त्वयोक्तोऽस्म्यप्रियं प्रिये |
प्रणयिन्या विशालाक्षि तत्क्षान्तं ते मया शुभे ||४२||
तामेवमुक्त्वा राजर्षिर्दुःषन्तो महिषीं प्रियाम् |
वासोभिरन्नपानैश्च पूजयामास भारत ||४३||
दुःषन्तश्च ततो राजा पुत्रं शाकुन्तलं तदा |
भरतं नामतः कृत्वा यौवराज्येऽभ्यषेचयत् ||४४||
तस्य तत्प्रथितं चक्रं प्रावर्तत महात्मनः |
भास्वरं दिव्यमजितं लोकसंनादनं महत् ||४५||
स विजित्य महीपालांश्चकार वशवर्तिनः |
चचार च सतां धर्मं प्राप चानुत्तमं यशः ||४६||
स राजा चक्रवर्त्यासीत्सार्वभौमः प्रतापवान् |
ईजे च बहुभिर्यज्ञैर्यथा शक्रो मरुत्पतिः ||४७||
याजयामास तं कण्वो दक्षवद्भूरिदक्षिणम् |
श्रीमान्गोविततं नाम वाजिमेधमवाप सः ||४८||
यस्मिन्सहस्रं पद्मानां कण्वाय भरतो ददौ ||४८||
भरताद्भारती कीर्तिर्येनेदं भारतं कुलम् |
अपरे ये च पूर्वे च भारता इति विश्रुताः ||४९||
भरतस्यान्ववाये हि देवकल्पा महौजसः |
बभूवुर्ब्रह्मकल्पाश्च बहवो राजसत्तमाः ||५०||
येषामपरिमेयानि नामधेयानि सर्वशः |
तेषां तु ते यथामुख्यं कीर्तयिष्यामि भारत ||५१||
महाभागान्देवकल्पान्सत्यार्जवपरायणान् ||५१||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
070-अध्यायः
ययात्युपाख्यानम्
वैशम्पायन उवाच||
प्रजापतेस्तु दक्षस्य मनोर्वैवस्वतस्य च |
भरतस्य कुरोः पूरोरजमीढस्य चान्वये ||१||
यादवानामिमं वंशं पौरवाणां च सर्वशः |
तथैव भारतानां च पुण्यं स्वस्त्ययनं महत् ||२||
धन्यं यशस्यमायुष्यं कीर्तयिष्यामि तेऽनघ ||२||
तेजोभिरुदिताः सर्वे महर्षिसमतेजसः |
दश प्रचेतसः पुत्राः सन्तः पूर्वजनाः स्मृताः ||३||
मेघजेनाग्निना ये ते पूर्वं दग्धा महौजसः ||३||
तेभ्यः प्राचेतसो जज्ञे दक्षो दक्षादिमाः प्रजाः |
सम्भूताः पुरुषव्याघ्र स हि लोकपितामहः ||४||
वीरिण्या सह सङ्गम्य दक्षः प्राचेतसो मुनिः |
आत्मतुल्यानजनयत्सहस्रं संशितव्रतान् ||५||
सहस्रसङ्ख्यान्समितान्सुतान्दक्षस्य नारदः |
मोक्षमध्यापयामास साङ्ख्यज्ञानमनुत्तमम् ||६||
ततः पञ्चाशतं कन्याः पुत्रिका अभिसंदधे |
प्रजापतिः प्रजा दक्षः सिसृक्षुर्जनमेजय ||७||
ददौ स दश धर्माय कश्यपाय त्रयोदश |
कालस्य नयने युक्ताः सप्तविंशतिमिन्दवे ||८||
त्रयोदशानां पत्नीनां या तु दाक्षायणी वरा |
मारीचः कश्यपस्तस्यामादित्यान्समजीजनत् ||९||
इन्द्रादीन्वीर्यसम्पन्नान्विवस्वन्तमथापि च ||९||
विवस्वतः सुतो जज्ञे यमो वैवस्वतः प्रभुः |
मार्तण्डश्च यमस्यापि पुत्रो राजन्नजायत ||१०||
मार्तण्डस्य मनुर्धीमानजायत सुतः प्रभुः |
मनोर्वंशो मानवानां ततोऽयं प्रथितोऽभवत् ||११||
ब्रह्मक्षत्रादयस्तस्मान्मनोर्जातास्तु मानवाः ||११||
तत्राभवत्तदा राजन्ब्रह्म क्षत्रेण सङ्गतम् |
ब्राह्मणा मानवास्तेषां साङ्गं वेदमदीधरन् ||१२||
वेनं धृष्णुं नरिष्यन्तं नाभागेक्ष्वाकुमेव च |
करूषमथ शर्यातिं तथैवात्राष्टमीमिलाम् ||१३||
पृषध्रनवमानाहुः क्षत्रधर्मपरायणान् |
नाभागारिष्टदशमान्मनोः पुत्रान्महाबलान् ||१४||
पञ्चाशतं मनोः पुत्रास्तथैवान्येऽभवन्क्षितौ |
अन्योन्यभेदात्ते सर्वे विनेशुरिति नः श्रुतम् ||१५||
पुरूरवास्ततो विद्वानिलायां समपद्यत |
सा वै तस्याभवन्माता पिता चेति हि नः श्रुतम् ||१६||
त्रयोदश समुद्रस्य द्वीपानश्नन्पुरूरवाः |
अमानुषैर्वृतः सत्त्वैर्मानुषः सन्महायशाः ||१७||
विप्रैः स विग्रहं चक्रे वीर्योन्मत्तः पुरूरवाः |
जहार च स विप्राणां रत्नान्युत्क्रोशतामपि ||१८||
सनत्कुमारस्तं राजन्ब्रह्मलोकादुपेत्य ह |
अनुदर्शयां ततश्चक्रे प्रत्यगृह्णान्न चाप्यसौ ||१९||
ततो महर्षिभिः क्रुद्धैः शप्तः सद्यो व्यनश्यत |
लोभान्वितो मदबलान्नष्टसञ्ज्ञो नराधिपः ||२०||
स हि गन्धर्वलोकस्थ उर्वश्या सहितो विराट् |
आनिनाय क्रियार्थेऽग्नीन्यथावद्विहितांस्त्रिधा ||२१||
षट्पुत्रा जज्ञिरेऽथैलादायुर्धीमानमावसुः |
दृढायुश्च वनायुश्च श्रुतायुश्चोर्वशीसुताः ||२२||
नहुषं वृद्धशर्माणं रजिं रम्भमनेनसम् |
स्वर्भानवीसुतानेतानायोः पुत्रान्प्रचक्षते ||२३||
आयुषो नहुषः पुत्रो धीमान्सत्यपराक्रमः |
राज्यं शशास सुमहद्धर्मेण पृथिवीपतिः ||२४||
पितृन्देवानृषीन्विप्रान्गन्धर्वोरगराक्षसान् |
नहुषः पालयामास ब्रह्मक्षत्रमथो विशः ||२५||
स हत्वा दस्युसङ्घातानृषीन्करमदापयत् |
पशुवच्चैव तान्पृष्ठे वाहयामास वीर्यवान् ||२६||
कारयामास चेन्द्रत्वमभिभूय दिवौकसः |
तेजसा तपसा चैव विक्रमेणौजसा तथा ||२७||
यतिं ययातिं संयातिमायातिं पाञ्चमुद्धवम् |
नहुषो जनयामास षट्पुत्रान्प्रियवाससि ||२८||
ययातिर्नाहुषः सम्राडासीत्सत्यपराक्रमः |
स पालयामास महीमीजे च विविधैः सवैः ||२९||
अतिशक्त्या पितृनर्चन्देवांश्च प्रयतः सदा |
अन्वगृह्णात्प्रजाः सर्वा ययातिरपराजितः ||३०||
तस्य पुत्रा महेष्वासाः सर्वैः समुदिता गुणैः |
देवयान्यां महाराज शर्मिष्ठायां च जज्ञिरे ||३१||
देवयान्यामजायेतां यदुस्तुर्वसुरेव च |
द्रुह्युश्चानुश्च पूरुश्च शर्मिष्ठायां प्रजज्ञिरे ||३२||
स शाश्वतीः समा राजन्प्रजा धर्मेण पालयन् |
जरामार्छन्महाघोरां नाहुषो रूपनाशिनीम् ||३३||
जराभिभूतः पुत्रान्स राजा वचनमब्रवीत् |
यदुं पूरुं तुर्वसुं च द्रुह्युं चानुं च भारत ||३४||
यौवनेन चरन्कामान्युवा युवतिभिः सह |
विहर्तुमहमिच्छामि साह्यं कुरुत पुत्रकाः ||३५||
तं पुत्रो देवयानेयः पूर्वजो यदुरब्रवीत् |
किं कार्यं भवतः कार्यमस्माभिर्यौवनेन च ||३६||
ययातिरब्रवीत्तं वै जरा मे प्रतिगृह्यताम् |
यौवनेन त्वदीयेन चरेयं विषयानहम् ||३७||
यजतो दीर्घसत्रैर्मे शापाच्चोशनसो मुनेः |
कामार्थः परिहीणो मे तप्येऽहं तेन पुत्रकाः ||३८||
मामकेन शरीरेण राज्यमेकः प्रशास्तु वः |
अहं तन्वाभिनवया युवा कामानवाप्नुयाम् ||३९||
न ते तस्य प्रत्यगृह्णन्यदुप्रभृतयो जराम् |
तमब्रवीत्ततः पूरुः कनीयान्सत्यविक्रमः ||४०||
राजंश्चराभिनवया तन्वा यौवनगोचरः |
अहं जरां समास्थाय राज्ये स्थास्यामि तेऽऽज्ञया ||४१||
एवमुक्तः स राजर्षिस्तपोवीर्यसमाश्रयात् |
सञ्चारयामास जरां तदा पुत्रे महात्मनि ||४२||
पौरवेणाथ वयसा राजा यौवनमास्थितः |
यायातेनापि वयसा राज्यं पूरुरकारयत् ||४३||
ततो वर्षसहस्रान्ते ययातिरपराजितः |
अतृप्त एव कामानां पूरुं पुत्रमुवाच ह ||४४||
त्वया दायादवानस्मि त्वं मे वंशकरः सुतः |
पौरवो वंश इति ते ख्यातिं लोके गमिष्यति ||४५||
ततः स नृपशार्दूलः पूरुं राज्येऽभिषिच्य च |
कालेन महता पश्चात्कालधर्ममुपेयिवान् ||४६||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
071-अध्यायः
जनमेजय उवाच||
ययातिः पूर्वकोऽस्माकं दशमो यः प्रजापतेः |
कथं स शुक्रतनयां लेभे परमदुर्लभाम् ||१||
एतदिच्छाम्यहं श्रोतुं विस्तरेण द्विजोत्तम |
आनुपूर्व्या च मे शंस पूरोर्वंशकरान्पृथक् ||२||
वैशम्पायन उवाच||
ययातिरासीद्राजर्षिर्देवराजसमद्युतिः |
तं शुक्रवृषपर्वाणौ वव्राते वै यथा पुरा ||३||
तत्तेऽहं सम्प्रवक्ष्यामि पृच्छतो जनमेजय |
देवयान्याश्च संयोगं ययातेर्नाहुषस्य च ||४||
सुराणामसुराणां च समजायत वै मिथः |
ऐश्वर्यं प्रति सङ्घर्षस्त्रैलोक्ये सचराचरे ||५||
जिगीषया ततो देवा वव्रिरेऽऽङ्गिरसं मुनिम् |
पौरोहित्येन याज्यार्थे काव्यं तूशनसं परे ||६||
ब्राह्मणौ तावुभौ नित्यमन्योन्यस्पर्धिनौ भृशम् ||६||
तत्र देवा निजघ्नुर्यान्दानवान्युधि सङ्गतान् |
तान्पुनर्जीवयामास काव्यो विद्याबलाश्रयात् ||७||
ततस्ते पुनरुत्थाय योधयां चक्रिरे सुरान् ||७||
असुरास्तु निजघ्नुर्यान्सुरान्समरमूर्धनि |
न तान्सञ्जीवयामास बृहस्पतिरुदारधीः ||८||
न हि वेद स तां विद्यां यां काव्यो वेद वीर्यवान् |
सञ्जीवनीं ततो देवा विषादमगमन्परम् ||९||
ते तु देवा भयोद्विग्नाः काव्यादुशनसस्तदा |
ऊचुः कचमुपागम्य ज्येष्ठं पुत्रं बृहस्पतेः ||१०||
भजमानान्भजस्वास्मान्कुरु नः साह्यमुत्तमम् |
यासौ विद्या निवसति ब्राह्मणेऽमिततेजसि ||११||
शुक्रे तामाहर क्षिप्रं भागभाङ्नो भविष्यसि ||११||
वृषपर्वसमीपे स शक्यो द्रष्टुं त्वया द्विजः |
रक्षते दानवांस्तत्र न स रक्षत्यदानवान् ||१२||
तमाराधयितुं शक्तो भवान्पूर्ववयाः कविम् |
देवयानीं च दयितां सुतां तस्य महात्मनः ||१३||
त्वमाराधयितुं शक्तो नान्यः कश्चन विद्यते |
शीलदाक्षिण्यमाधुर्यैराचारेण दमेन च ||१४||
देवयान्यां हि तुष्टायां विद्यां तां प्राप्स्यसि ध्रुवम् ||१४||
तथेत्युक्त्वा ततः प्रायाद्बृहस्पतिसुतः कचः |
तदाभिपूजितो देवैः समीपं वृषपर्वणः ||१५||
स गत्वा त्वरितो राजन्देवैः सम्प्रेषितः कचः |
असुरेन्द्रपुरे शुक्रं दृष्ट्वा वाक्यमुवाच ह ||१६||
ऋषेरङ्गिरसः पौत्रं पुत्रं साक्षाद्बृहस्पतेः |
नाम्ना कच इति ख्यातं शिष्यं गृह्णातु मां भवान् ||१७||
ब्रह्मचर्यं चरिष्यामि त्वय्यहं परमं गुरौ |
अनुमन्यस्व मां ब्रह्मन्सहस्रं परिवत्सरान् ||१८||
शुक्र उवाच||
कच सुस्वागतं तेऽस्तु प्रतिगृह्णामि ते वचः |
अर्चयिष्येऽहमर्च्यं त्वामर्चितोऽस्तु बृहस्पतिः ||१९||
वैशम्पायन उवाच||
कचस्तु तं तथेत्युक्त्वा प्रतिजग्राह तद्व्रतम् |
आदिष्टं कविपुत्रेण शुक्रेणोशनसा स्वयम् ||२०||
व्रतस्य व्रतकालं स यथोक्तं प्रत्यगृह्णत |
आराधयन्नुपाध्यायं देवयानीं च भारत ||२१||
नित्यमाराधयिष्यंस्तां युवा यौवनगोऽऽमुखे |
गायन्नृत्यन्वादयंश्च देवयानीमतोषयत् ||२२||
संशीलयन्देवयानीं कन्यां सम्प्राप्तयौवनाम् |
पुष्पैः फलैः प्रेषणैश्च तोषयामास भारत ||२३||
देवयान्यपि तं विप्रं नियमव्रतचारिणम् |
अनुगायमाना ललना रहः पर्यचरत्तदा ||२४||
पञ्च वर्षशतान्येवं कचस्य चरतो व्रतम् |
तत्रातीयुरथो बुद्ध्वा दानवास्तं ततः कचम् ||२५||
गा रक्षन्तं वने दृष्ट्वा रहस्येकममर्षिताः |
जघ्नुर्बृहस्पतेर्द्वेषाद्विद्यारक्षार्थमेव च ||२६||
हत्वा शालावृकेभ्यश्च प्रायच्छंस्तिलशः कृतम् ||२६||
ततो गावो निवृत्तास्ता अगोपाः स्वं निवेशनम् |
ता दृष्ट्वा रहिता गास्तु कचेनाभ्यागता वनात् ||२७||
उवाच वचनं काले देवयान्यथ भारत ||२७||
अहुतं चाग्निहोत्रं ते सूर्यश्चास्तं गतः प्रभो |
अगोपाश्चागता गावः कचस्तात न दृश्यते ||२८||
व्यक्तं हतो मृतो वापि कचस्तात भविष्यति |
तं विना न च जीवेयं कचं सत्यं ब्रवीमि ते ||२९||
शुक्र उवाच||
अयमेहीति शब्देन मृतं सञ्जीवयाम्यहम् |
वैशम्पायन उवाच||
ततः सञ्जीवनीं विद्यां प्रयुज्य कचमाह्वयत् |
आहूतः प्रादुरभवत्कचोऽरिष्टोऽथ विद्यया ||३१||
हतोऽहमिति चाचख्यौ पृष्टो ब्राह्मणकन्यया ||३१||
स पुनर्देवयान्योक्तः पुष्पाहारो यदृच्छया |
वनं ययौ ततो विप्रो ददृशुर्दानवाश्च तम् ||३२||
ततो द्वितीयं हत्वा तं दग्ध्वा कृत्वा च चूर्णशः |
प्रायच्छन्ब्राह्मणायैव सुरायामसुरास्तदा ||३३||
देवयान्यथ भूयोऽपि वाक्यं पितरमब्रवीत् |
पुष्पाहारः प्रेषणकृत्कचस्तात न दृश्यते ||३४||
शुक्र उवाच||
बृहस्पतेः सुतः पुत्रि कचः प्रेतगतिं गतः |
विद्यया जीवितोऽप्येवं हन्यते करवाणि किम् ||३५||
मैवं शुचो मा रुद देवयानि; न त्वादृशी मर्त्यमनुप्रशोचेत् |
सुराश्च विश्वे च जगच्च सर्व; मुपस्थितां वैकृतिमानमन्ति ||३६||
देवयान्युवाच||
यस्याङ्गिरा वृद्धतमः पितामहो; बृहस्पतिश्चापि पिता तपोधनः |
ऋषेः पुत्रं तमथो वापि पौत्रं; कथं न शोचेयमहं न रुद्याम् ||३७||
स ब्रह्मचारी च तपोधनश्च; सदोत्थितः कर्मसु चैव दक्षः |
कचस्य मार्गं प्रतिपत्स्ये न भोक्ष्ये; प्रियो हि मे तात कचोऽभिरूपः ||३८||
शुक्र उवाच||
असंशयं मामसुरा द्विषन्ति; ये मे शिष्यं नागसं सूदयन्ति |
अब्राह्मणं कर्तुमिच्छन्ति रौद्रा; स्ते मां यथा प्रस्तुतं दानवैर्हि ||३९||
अप्यस्य पापस्य भवेदिहान्तः; कं ब्रह्महत्या न दहेदपीन्द्रम् ||३९||
वैशम्पायन उवाच||
सञ्चोदितो देवयान्या महर्षिः पुनराह्वयत् |
संरम्भेणैव काव्यो हि बृहस्पतिसुतं कचम् ||४०||
गुरोर्भीतो विद्यया चोपहूतः; शनैर्वाचं जठरे व्याजहार |
तमब्रवीत्केन पथोपनीतो; ममोदरे तिष्ठसि ब्रूहि विप्र ||४१||
कच उवाच||
भवत्प्रसादान्न जहाति मां स्मृतिः; स्मरे च सर्वं यच्च यथा च वृत्तम् |
न त्वेवं स्यात्तपसो व्ययो मे; ततः क्लेशं घोरमिमं सहामि ||४२||
असुरैः सुरायां भवतोऽस्मि दत्तो; हत्वा दग्ध्वा चूर्णयित्वा च काव्य |
ब्राह्मीं मायामासुरी चैव माया; त्वयि स्थिते कथमेवातिवर्तेत् ||४३||
शुक्र उवाच||
किं ते प्रियं करवाण्यद्य वत्से; वधेन मे जीवितं स्यात्कचस्य |
नान्यत्र कुक्षेर्मम भेदनेन; दृश्येत्कचो मद्गतो देवयानि ||४४||
देवयान्युवाच||
द्वौ मां शोकावग्निकल्पौ दहेतां; कचस्य नाशस्तव चैवोपघातः |
कचस्य नाशे मम नास्ति शर्म; तवोपघाते जीवितुं नास्मि शक्ता ||४५||
शुक्र उवाच||
संसिद्धरूपोऽसि बृहस्पतेः सुत; यत्त्वां भक्तं भजते देवयानी |
विद्यामिमां प्राप्नुहि जीवनीं त्वं; न चेदिन्द्रः कचरूपी त्वमद्य ||४६||
न निवर्तेत्पुनर्जीवन्कश्चिदन्यो ममोदरात् |
ब्राह्मणं वर्जयित्वैकं तस्माद्विद्यामवाप्नुहि ||४७||
पुत्रो भूत्वा भावय भावितो मा; मस्माद्देहादुपनिष्क्रम्य तात |
समीक्षेथा धर्मवतीमवेक्षां; गुरोः सकाशात्प्राप्य विद्यां सविद्यः ||४८||
वैशम्पायन उवाच||
गुरोः सकाशात्समवाप्य विद्यां; भित्त्वा कुक्षिं निर्विचक्राम विप्रः |
कचोऽभिरूपो दक्षिणं ब्राह्मणस्य; शुक्लात्यये पौर्णमास्यामिवेन्दुः ||४९||
दृष्ट्वा च तं पतितं ब्रह्मराशि; मुत्थापयामास मृतं कचोऽपि |
विद्यां सिद्धां तामवाप्याभिवाद्य; ततः कचस्तं गुरुमित्युवाच ||५०||
ऋतस्य दातारमनुत्तमस्य; निधिं निधीनां चतुरन्वयानाम् |
ये नाद्रियन्ते गुरुमर्चनीयं; पापाँल्लोकांस्ते व्रजन्त्यप्रतिष्ठान् ||५१||
वैशम्पायन उवाच||
सुरापानाद्वञ्चनां प्रापयित्वा; सञ्ज्ञानाशं चैव तथातिघोरम् |
दृष्ट्वा कचं चापि तथाभिरूपं; पीतं तदा सुरया मोहितेन ||५२||
समन्युरुत्थाय महानुभाव; स्तदोशना विप्रहितं चिकीर्षुः |
काव्यः स्वयं वाक्यमिदं जगाद; सुरापानं प्रति वै जातशङ्कः ||५३||
यो ब्राह्मणोऽद्य प्रभृतीह कश्चि; न्मोहात्सुरां पास्यति मन्दबुद्धिः |
अपेतधर्मो ब्रह्महा चैव स स्या; दस्मिँल्लोके गर्हितः स्यात्परे च ||५४||
मया चेमां विप्रधर्मोक्तिसीमां; मर्यादां वै स्थापितां सर्वलोके |
सन्तो विप्राः शुश्रुवांसो गुरूणां; देवा लोकाश्चोपशृण्वन्तु सर्वे ||५५||
इतीदमुक्त्वा स महानुभाव; स्तपोनिधीनां निधिरप्रमेयः |
तान्दानवान्दैवविमूढबुद्धी; निदं समाहूय वचोऽभ्युवाच ||५६||
आचक्षे वो दानवा बालिशाः स्थ; सिद्धः कचो वत्स्यति मत्सकाशे |
सञ्जीवनीं प्राप्य विद्यां महार्थां; तुल्यप्रभावो ब्रह्मणा ब्रह्मभूतः ||५७||
गुरोरुष्य सकाशे तु दश वर्षशतानि सः |
अनुज्ञातः कचो गन्तुमियेष त्रिदशालयम् ||५८||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
072-अध्यायः
वैशम्पायन उवाच||
समावृत्तव्रतं तं तु विसृष्टं गुरुणा तदा |
प्रस्थितं त्रिदशावासं देवयान्यब्रवीदिदम् ||१||
ऋषेरङ्गिरसः पौत्र वृत्तेनाभिजनेन च |
भ्राजसे विद्यया चैव तपसा च दमेन च ||२||
ऋषिर्यथाङ्गिरा मान्यः पितुर्मम महायशाः |
तथा मान्यश्च पूज्यश्च भूयो मम बृहस्पतिः ||३||
एवं ज्ञात्वा विजानीहि यद्ब्रवीमि तपोधन |
व्रतस्थे नियमोपेते यथा वर्ताम्यहं त्वयि ||४||
स समावृत्तविद्यो मां भक्तां भजितुमर्हसि |
गृहाण पाणिं विधिवन्मम मन्त्रपुरस्कृतम् ||५||
कच उवाच||
पूज्यो मान्यश्च भगवान्यथा तव पिता मम |
तथा त्वमनवद्याङ्गि पूजनीयतरा मम ||६||
आत्मप्राणैः प्रियतमा भार्गवस्य महात्मनः |
त्वं भद्रे धर्मतः पूज्या गुरुपुत्री सदा मम ||७||
यथा मम गुरुर्नित्यं मान्यः शुक्रः पिता तव |
देवयानि तथैव त्वं नैवं मां वक्तुमर्हसि ||८||
देवयान्युवाच||
गुरुपुत्रस्य पुत्रो वै न तु त्वमसि मे पितुः |
तस्मान्मान्यश्च पूज्यश्च ममापि त्वं द्विजोत्तम ||९||
असुरैर्हन्यमाने च कच त्वयि पुनः पुनः |
तदा प्रभृति या प्रीतिस्तां त्वमेव स्मरस्व मे ||१०||
सौहार्दे चानुरागे च वेत्थ मे भक्तिमुत्तमाम् |
न मामर्हसि धर्मज्ञ त्यक्तुं भक्तामनागसम् ||११||
कच उवाच||
अनियोज्ये नियोगे मां नियुनक्षि शुभव्रते |
प्रसीद सुभ्रु त्वं मह्यं गुरोर्गुरुतरी शुभे ||१२||
यत्रोषितं विशालाक्षि त्वया चन्द्रनिभानने |
तत्राहमुषितो भद्रे कुक्षौ काव्यस्य भामिनि ||१३||
भगिनी धर्मतो मे त्वं मैवं वोचः शुभानने |
सुखमस्म्युषितो भद्रे न मन्युर्विद्यते मम ||१४||
आपृच्छे त्वां गमिष्यामि शिवमाशंस मे पथि |
अविरोधेन धर्मस्य स्मर्तव्योऽस्मि कथान्तरे ||१५||
अप्रमत्तोत्थिता नित्यमाराधय गुरुं मम ||१५||
देवयान्युवाच||
यदि मां धर्मकामार्थे प्रत्याख्यास्यसि चोदितः |
ततः कच न ते विद्या सिद्धिमेषा गमिष्यति ||१६||
कच उवाच||
गुरुपुत्रीति कृत्वाहं प्रत्याचक्षे न दोषतः |
गुरुणा चाभ्यनुज्ञातः काममेवं शपस्व माम् ||१७||
आर्षं धर्मं ब्रुवाणोऽहं देवयानि यथा त्वया |
शप्तो नार्होऽस्मि शापस्य कामतोऽद्य न धर्मतः ||१८||
तस्माद्भवत्या यः कामो न तथा स भविष्यति |
ऋषिपुत्रो न ते कश्चिज्जातु पाणिं ग्रहीष्यति ||१९||
फलिष्यति न ते विद्या यत्त्वं मामात्थ तत्तथा |
अध्यापयिष्यामि तु यं तस्य विद्या फलिष्यति ||२०||
वैशम्पायन उवाच||
एवमुक्त्वा द्विजश्रेष्ठो देवयानीं कचस्तदा |
त्रिदशेशालयं शीघ्रं जगाम द्विजसत्तमः ||२१||
तमागतमभिप्रेक्ष्य देवा इन्द्रपुरोगमाः |
बृहस्पतिं सभाज्येदं कचमाहुर्मुदान्विताः ||२२||
यत्त्वमस्मद्धितं कर्म चकर्थ परमाद्भुतम् |
न ते यशः प्रणशिता भागभाङ्नो भविष्यसि ||२३||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
073-अध्यायः
वैशम्पायन उवाच||
कृतविद्ये कचे प्राप्ते हृष्टरूपा दिवौकसः |
कचादधीत्य तां विद्यां कृतार्था भरतर्षभ ||१||
सर्व एव समागम्य शतक्रतुमथाब्रुवन् |
कालस्ते विक्रमस्याद्य जहि शत्रून्पुरंदर ||२||
एवमुक्तस्तु सहितैस्त्रिदशैर्मघवांस्तदा |
तथेत्युक्त्वोपचक्राम सोऽपश्यत वने स्त्रियः ||३||
क्रीडन्तीनां तु कन्यानां वने चैत्ररथोपमे |
वायुभूतः स वस्त्राणि सर्वाण्येव व्यमिश्रयत् ||४||
ततो जलात्समुत्तीर्य कन्यास्ताः सहितास्तदा |
वस्त्राणि जगृहुस्तानि यथासन्नान्यनेकशः ||५||
तत्र वासो देवयान्याः शर्मिष्ठा जगृहे तदा |
व्यतिमिश्रमजानन्ती दुहिता वृषपर्वणः ||६||
ततस्तयोर्मिथस्तत्र विरोधः समजायत |
देवयान्याश्च राजेन्द्र शर्मिष्ठायाश्च तत्कृते ||७||
देवयान्युवाच||
कस्माद्गृह्णासि मे वस्त्रं शिष्या भूत्वा ममासुरि |
समुदाचारहीनाया न ते श्रेयो भविष्यति ||८||
शर्मिष्ठोवाच||
आसीनं च शयानं च पिता ते पितरं मम |
स्तौति वन्दति चाभीक्ष्णं नीचैः स्थित्वा विनीतवत् ||९||
याचतस्त्वं हि दुहिता स्तुवतः प्रतिगृह्णतः |
सुताहं स्तूयमानस्य ददतोऽप्रतिगृह्णतः ||१०||
अनायुधा सायुधाया रिक्ता क्षुभ्यसि भिक्षुकि |
लप्स्यसे प्रतियोद्धारं न हि त्वां गणयाम्यहम् ||११||
वैशम्पायन उवाच||
समुच्छ्रयं देवयानीं गतां सक्तां च वाससि |
शर्मिष्ठा प्राक्षिपत्कूपे ततः स्वपुरमाव्रजत् ||१२||
हतेयमिति विज्ञाय शर्मिष्ठा पापनिश्चया |
अनवेक्ष्य ययौ वेश्म क्रोधवेगपरायणा ||१३||
अथ तं देशमभ्यागाद्ययातिर्नहुषात्मजः |
श्रान्तयुग्यः श्रान्तहयो मृगलिप्सुः पिपासितः ||१४||
स नाहुषः प्रेक्षमाण उदपानं गतोदकम् |
ददर्श कन्यां तां तत्र दीप्तामग्निशिखामिव ||१५||
तामपृच्छत्स दृष्ट्वैव कन्याममरवर्णिनीम् |
सान्त्वयित्वा नृपश्रेष्ठः साम्ना परमवल्गुना ||१६||
का त्वं ताम्रनखी श्यामा सुमृष्टमणिकुण्डला |
दीर्घं ध्यायसि चात्यर्थं कस्माच्छ्वसिषि चातुरा ||१७||
कथं च पतितास्यस्मिन्कूपे वीरुत्तृणावृते |
दुहिता चैव कस्य त्वं वद सर्वं सुमध्यमे ||१८||
देवयान्युवाच||
योऽसौ देवैर्हतान्दैत्यानुत्थापयति विद्यया |
तस्य शुक्रस्य कन्याहं स मां नूनं न बुध्यते ||१९||
एष मे दक्षिणो राजन्पाणिस्ताम्रनखाङ्गुलिः |
समुद्धर गृहीत्वा मां कुलीनस्त्वं हि मे मतः ||२०||
जानामि हि त्वां संशान्तं वीर्यवन्तं यशस्विनम् |
तस्मान्मां पतितामस्मात्कूपादुद्धर्तुमर्हसि ||२१||
वैशम्पायन उवाच||
तामथ ब्राह्मणीं स्त्रीं च विज्ञाय नहुषात्मजः |
गृहीत्वा दक्षिणे पाणावुज्जहार ततोऽवटात् ||२२||
उद्धृत्य चैनां तरसा तस्मात्कूपान्नराधिपः |
आमन्त्रयित्वा सुश्रोणीं ययातिः स्वपुरं ययौ ||२३||
देवयान्युवाच||
त्वरितं घूर्णिके गच्छ सर्वमाचक्ष्व मे पितुः |
नेदानीं हि प्रवेक्यामि नगरं वृषपर्वणः ||२४||
वैशम्पायन उवाच||
सा तु वै त्वरितं गत्वा घूर्णिकासुरमन्दिरम् |
दृष्ट्वा काव्यमुवाचेदं सम्भ्रमाविष्टचेतना ||२५||
आचक्षे ते महाप्राज्ञ देवयानी वने हता |
शर्मिष्ठया महाभाग दुहित्रा वृषपर्वणः ||२६||
श्रुत्वा दुहितरं काव्यस्तत्र शर्मिष्ठया हताम् |
त्वरया निर्ययौ दुःखान्मार्गमाणः सुतां वने ||२७||
दृष्ट्वा दुहितरं काव्यो देवयानीं ततो वने |
बाहुभ्यां सम्परिष्वज्य दुःखितो वाक्यमब्रवीत् ||२८||
आत्मदोषैर्नियच्छन्ति सर्वे दुःखसुखे जनाः |
मन्ये दुश्चरितं तेऽस्ति यस्येयं निष्कृतिः कृता ||२९||
देवयान्युवाच||
निष्कृतिर्मेऽस्तु वा मास्तु शृणुष्वावहितो मम |
शर्मिष्ठया यदुक्तास्मि दुहित्रा वृषपर्वणः ||३०||
सत्यं किलैतत्सा प्राह दैत्यानामसि गायनः ||३०||
एवं हि मे कथयति शर्मिष्ठा वार्षपर्वणी |
वचनं तीक्ष्णपरुषं क्रोधरक्तेक्षणा भृशम् ||३१||
स्तुवतो दुहिता हि त्वं याचतः प्रतिगृह्णतः |
सुताहं स्तूयमानस्य ददतोऽप्रतिगृह्णतः ||३२||
इति मामाह शर्मिष्ठा दुहिता वृषपर्वणः |
क्रोधसंरक्तनयना दर्पपूर्णा पुनः पुनः ||३३||
यद्यहं स्तुवतस्तात दुहिता प्रतिगृह्णतः |
प्रसादयिष्ये शर्मिष्ठामित्युक्ता हि सखी मया ||३४||
शुक्र उवाच||
स्तुवतो दुहिता न त्वं भद्रे न प्रतिगृह्णतः |
अस्तोतुः स्तूयमानस्य दुहिता देवयान्यसि ||३५||
वृषपर्वैव तद्वेद शक्रो राजा च नाहुषः |
अचिन्त्यं ब्रह्म निर्द्वन्द्वमैश्वरं हि बलं मम ||३६||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
074-अध्यायः
शुक्र उवाच||
यः परेषां नरो नित्यमतिवादांस्तितिक्षति |
देवयानि विजानीहि तेन सर्वमिदं जितम् ||१||
यः समुत्पतितं क्रोधं निगृह्णाति हयं यथा |
स यन्तेत्युच्यते सद्भिर्न यो रश्मिषु लम्बते ||२||
यः समुत्पतितं क्रोधमक्रोधेन निरस्यति |
देवयानि विजानीहि तेन सर्वमिदं जितम् ||३||
यः समुत्पतितं क्रोधं क्षमयेह निरस्यति |
यथोरगस्त्वचं जीर्णां स वै पुरुष उच्यते ||४||
यः सन्धारयते मन्युं योऽतिवादांस्तितिक्षति |
यश्च तप्तो न तपति दृढं सोऽर्थस्य भाजनम् ||५||
यो यजेदपरिश्रान्तो मासि मासि शतं समाः |
न क्रुध्येद्यश्च सर्वस्य तयोरक्रोधनोऽधिकः ||६||
यत्कुमाराः कुमार्यश्च वैरं कुर्युरचेतसः |
न तत्प्राज्ञोऽनुकुर्वीत विदुस्ते न बलाबलम् ||७||
देवयान्युवाच||
वेदाहं तात बालापि धर्माणां यदिहान्तरम् |
अक्रोधे चातिवादे च वेद चापि बलाबलम् ||८||
शिष्यस्याशिष्यवृत्तेर्हि न क्षन्तव्यं बुभूषता |
तस्मात्सङ्कीर्णवृत्तेषु वासो मम न रोचते ||९||
पुमांसो ये हि निन्दन्ति वृत्तेनाभिजनेन च |
न तेषु निवसेत्प्राज्ञः श्रेयोर्थी पापबुद्धिषु ||१०||
ये त्वेनमभिजानन्ति वृत्तेनाभिजनेन च |
तेषु साधुषु वस्तव्यं स वासः श्रेष्ठ उच्यते ||११||
वाग्दुरुक्तं महाघोरं दुहितुर्वृषपर्वणः |
न ह्यतो दुष्करतरं मन्ये लोकेष्वपि त्रिषु ||१२||
यः सपत्नश्रियं दीप्तां हीनश्रीः पर्युपासते ||१२||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
075-अध्यायः
वैशम्पायन उवाच||
ततः काव्यो भृगुश्रेष्ठः समन्युरुपगम्य ह |
वृषपर्वाणमासीनमित्युवाचाविचारयन् ||१||
नाधर्मश्चरितो राजन्सद्यः फलति गौरिव |
पुत्रेषु वा नप्तृषु वा न चेदात्मनि पश्यति ||२||
फलत्येव ध्रुवं पापं गुरुभुक्तमिवोदरे ||२||
यदघातयथा विप्रं कचमाङ्गिरसं तदा |
अपापशीलं धर्मज्ञं शुश्रूषुं मद्गृहे रतम् ||३||
वधादनर्हतस्तस्य वधाच्च दुहितुर्मम |
वृषपर्वन्निबोधेदं त्यक्ष्यामि त्वां सबान्धवम् ||४||
स्थातुं त्वद्विषये राजन्न शक्ष्यामि त्वया सह ||४||
अहो मामभिजानासि दैत्य मिथ्याप्रलापिनम् |
यथेममात्मनो दोषं न नियच्छस्युपेक्षसे ||५||
वृषपर्वोवाच||
नाधर्मं न मृषावादं त्वयि जानामि भार्गव |
त्वयि धर्मश्च सत्यं च तत्प्रसीदतु नो भवान् ||६||
यद्यस्मानपहाय त्वमितो गच्छसि भार्गव |
समुद्रं सम्प्रवेक्ष्यामो नान्यदस्ति परायणम् ||७||
शुक्र उवाच||
समुद्रं प्रविशध्वं वा दिशो वा द्रवतासुराः |
दुहितुर्नाप्रियं सोढुं शक्तोऽहं दयिता हि मे ||८||
प्रसाद्यतां देवयानी जीवितं ह्यत्र मे स्थितम् |
योगक्षेमकरस्तेऽहमिन्द्रस्येव बृहस्पतिः ||९||
वृषपर्वोवाच||
यत्किञ्चिदसुरेन्द्राणां विद्यते वसु भार्गव |
भुवि हस्तिगवाश्वं वा तस्य त्वं मम चेश्वरः ||१०||
शुक्र उवाच||
यत्किञ्चिदस्ति द्रविणं दैत्येन्द्राणां महासुर |
तस्येश्वरोऽस्मि यदि ते देवयानी प्रसाद्यताम् ||११||
देवयान्युवाच||
यदि त्वमीश्वरस्तात राज्ञो वित्तस्य भार्गव |
नाभिजानामि तत्तेऽहं राजा तु वदतु स्वयम् ||१२||
वृषपर्वोवाच||
यं काममभिकामासि देवयानि शुचिस्मिते |
तत्तेऽहं सम्प्रदास्यामि यदि चेदपि दुर्लभम् ||१३||
देवयान्युवाच||
दासीं कन्यासहस्रेण शर्मिष्ठामभिकामये |
अनु मां तत्र गच्छेत्सा यत्र दास्यति मे पिता ||१४||
वृषपर्वोवाच||
उत्तिष्ठ हे सङ्ग्रहीत्रि शर्मिष्ठां शीघ्रमानय |
यं च कामयते कामं देवयानी करोतु तम् ||१५||
वैशम्पायन उवाच||
ततो धात्री तत्र गत्वा शर्मिष्ठां वाक्यमब्रवीत् |
उत्तिष्ठ भद्रे शर्मिष्ठे ज्ञातीनां सुखमावह ||१६||
त्यजति ब्राह्मणः शिष्यान्देवयान्या प्रचोदितः |
सा यं कामयते कामं स कार्योऽद्य त्वयानघे ||१७||
शर्मिष्ठोवाच||
सा यं कामयते कामं करवाण्यहमद्य तम् |
मा त्वेवापगमच्छुक्रो देवयानी च मत्कृते ||१८||
वैशम्पायन उवाच||
ततः कन्यासहस्रेण वृता शिबिकया तदा |
पितुर्नियोगात्त्वरिता निश्चक्राम पुरोत्तमात् ||१९||
शर्मिष्ठोवाच||
अहं कन्यासहस्रेण दासी ते परिचारिका |
अनु त्वां तत्र यास्यामि यत्र दास्यति ते पिता ||२०||
देवयान्युवाच||
स्तुवतो दुहिता तेऽहं बन्दिनः प्रतिगृह्णतः |
स्तूयमानस्य दुहिता कथं दासी भविष्यसि ||२१||
शर्मिष्ठोवाच||
येन केनचिदार्तानां ज्ञातीनां सुखमावहेत् |
अतस्त्वामनुयास्यामि यत्र दास्यति ते पिता ||२२||
वैशम्पायन उवाच||
प्रतिश्रुते दासभावे दुहित्रा वृषपर्वणः |
देवयानी नृपश्रेष्ठ पितरं वाक्यमब्रवीत् ||२३||
प्रविशामि पुरं तात तुष्टास्मि द्विजसत्तम |
अमोघं तव विज्ञानमस्ति विद्याबलं च ते ||२४||
एवमुक्तो दुहित्रा स द्विजश्रेष्ठो महायशाः |
प्रविवेश पुरं हृष्टः पूजितः सर्वदानवैः ||२५||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
076-अध्यायः
वैशम्पायन उवाच||
अथ दीर्घस्य कालस्य देवयानी नृपोत्तम |
वनं तदेव निर्याता क्रीडार्थं वरवर्णिनी ||१||
तेन दासीसहस्रेण सार्धं शर्मिष्ठया तदा |
तमेव देशं सम्प्राप्ता यथाकामं चचार सा ||२||
ताभिः सखीभिः सहिता सर्वाभिर्मुदिता भृशम् ||२||
क्रीडन्त्योऽभिरताः सर्वाः पिबन्त्यो मधुमाधवीम् |
खादन्त्यो विविधान्भक्ष्यान्विदशन्त्यः फलानि च ||३||
पुनश्च नाहुषो राजा मृगलिप्सुर्यदृच्छया |
तमेव देशं सम्प्राप्तो जलार्थी श्रमकर्शितः ||४||
ददृशे देवयानीं च शर्मिष्ठां ताश्च योषितः |
पिबन्तीर्ललमानाश्च दिव्याभरणभूषिताः ||५||
उपविष्टां च ददृशे देवयानीं शुचिस्मिताम् |
रूपेणाप्रतिमां तासां स्त्रीणां मध्ये वराङ्गनाम् ||६||
शर्मिष्ठया सेव्यमानां पादसंवाहनादिभिः ||६||
ययातिरुवाच||
द्वाभ्यां कन्यासहस्राभ्यां द्वे कन्ये परिवारिते |
गोत्रे च नामनी चैव द्वयोः पृच्छामि वामहम् ||७||
देवयान्युवाच||
आख्यास्याम्यहमादत्स्व वचनं मे नराधिप |
शुक्रो नामासुरगुरुः सुतां जानीहि तस्य माम् ||८||
इयं च मे सखी दासी यत्राहं तत्र गामिनी |
दुहिता दानवेन्द्रस्य शर्मिष्ठा वृषपर्वणः ||९||
ययातिरुवाच||
कथं नु ते सखी दासी कन्येयं वरवर्णिनी |
असुरेन्द्रसुता सुभ्रु परं कौतूहलं हि मे ||१०||
देवयान्युवाच||
सर्व एव नरव्याघ्र विधानमनुवर्तते |
विधानविहितं मत्वा मा विचित्राः कथाः कृथाः ||११||
राजवद्रूपवेषौ ते ब्राह्मीं वाचं बिभर्षि च |
किंनामा त्वं कुतश्चासि कस्य पुत्रश्च शंस मे ||१२||
ययातिरुवाच||
ब्रह्मचर्येण कृत्स्नो मे वेदः श्रुतिपथं गतः |
राजाहं राजपुत्रश्च ययातिरिति विश्रुतः ||१३||
देवयान्युवाच||
केनास्यर्थेन नृपते इमं देशमुपागतः |
जिघृक्षुर्वारिजं किञ्चिदथ वा मृगलिप्सया ||१४||
ययातिरुवाच||
मृगलिप्सुरहं भद्रे पानीयार्थमुपागतः |
बहु चाप्यनुयुक्तोऽस्मि तन्मानुज्ञातुमर्हसि ||१५||
देवयान्युवाच||
द्वाभ्यां कन्यासहस्राभ्यां दास्या शर्मिष्ठया सह |
त्वदधीनास्मि भद्रं ते सखा भर्ता च मे भव ||१६||
ययातिरुवाच||
विद्ध्यौशनसि भद्रं ते न त्वामर्होऽस्मि भामिनि |
अविवाह्या हि राजानो देवयानि पितुस्तव ||१७||
देवयान्युवाच||
संसृष्टं ब्रह्मणा क्षत्रं क्षत्रं च ब्रह्मसंहितम् |
ऋषिश्च ऋषिपुत्रश्च नाहुषाङ्ग वहस्व माम् ||१८||
ययातिरुवाच||
एकदेहोद्भवा वर्णाश्चत्वारोऽपि वराङ्गने |
पृथग्धर्माः पृथक्षौचास्तेषां तु ब्राह्मणो वरः ||१९||
देवयान्युवाच||
पाणिधर्मो नाहुषायं न पुम्भिः सेवितः पुरा |
तं मे त्वमग्रहीरग्रे वृणोमि त्वामहं ततः ||२०||
कथं नु मे मनस्विन्याः पाणिमन्यः पुमान्स्पृशेत् |
गृहीतमृषिपुत्रेण स्वयं वाप्यृषिणा त्वया ||२१||
ययातिरुवाच||
क्रुद्धादाशीविषात्सर्पाज्ज्वलनात्सर्वतोमुखात् |
दुराधर्षतरो विप्रः पुरुषेण विजानता ||२२||
देवयान्युवाच||
कथमाशीविषात्सर्पाज्ज्वलनात्सर्वतोमुखात् |
दुराधर्षतरो विप्र इत्यात्थ पुरुषर्षभ ||२३||
ययातिरुवाच||
एकमाशीविषो हन्ति शस्त्रेणैकश्च वध्यते |
हन्ति विप्रः सराष्ट्राणि पुराण्यपि हि कोपितः ||२४||
दुराधर्षतरो विप्रस्तस्माद्भीरु मतो मम |
अतोऽदत्तां च पित्रा त्वां भद्रे न विवहाम्यहम् ||२५||
देवयान्युवाच||
दत्तां वहस्व पित्रा मां त्वं हि राजन्वृतो मया |
अयाचतो भयं नास्ति दत्तां च प्रतिगृह्णतः ||२६||
वैशम्पायन उवाच||
त्वरितं देवयान्याथ प्रेषितं पितुरात्मनः |
श्रुत्वैव च स राजानं दर्शयामास भार्गवः ||२७||
दृष्ट्वैव चागतं शुक्रं ययातिः पृथिवीपतिः |
ववन्दे ब्राह्मणं काव्यं प्राञ्जलिः प्रणतः स्थितः ||२८||
देवयान्युवाच||
राजायं नाहुषस्तात दुर्गे मे पाणिमग्रहीत् |
नमस्ते देहि मामस्मै नान्यं लोके पतिं वृणे ||२९||
शुक्र उवाच||
वृतोऽनया पतिर्वीर सुतया त्वं ममेष्टया |
गृहाणेमां मया दत्तां महिषीं नहुषात्मज ||३०||
ययातिरुवाच||
अधर्मो न स्पृशेदेवं महान्मामिह भार्गव |
वर्णसङ्करजो ब्रह्मन्निति त्वां प्रवृणोम्यहम् ||३१||
शुक्र उवाच||
अधर्मात्त्वां विमुञ्चामि वरयस्व यथेप्षितम् |
अस्मिन्विवाहे मा ग्लासीरहं पापं नुदामि ते ||३२||
वहस्व भार्यां धर्मेण देवयानीं सुमध्यमाम् |
अनया सह सम्प्रीतिमतुलां समवाप्स्यसि ||३३||
इयं चापि कुमारी ते शर्मिष्ठा वार्षपर्वणी |
सम्पूज्या सततं राजन्मा चैनां शयने ह्वयेः ||३४||
वैशम्पायन उवाच||
एवमुक्तो ययातिस्तु शुक्रं कृत्वा प्रदक्षिणम् |
जगाम स्वपुरं हृष्टो अनुज्ञातो महात्मना ||३५||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
077-अध्यायः
वैशम्पायन उवाच||
ययातिः स्वपुरं प्राप्य महेन्द्रपुरसंनिभम् |
प्रविश्यान्तःपुरं तत्र देवयानीं न्यवेशयत् ||१||
देवयान्याश्चानुमते तां सुतां वृषपर्वणः |
अशोकवनिकाभ्याशे गृहं कृत्वा न्यवेशयत् ||२||
वृतां दासीसहस्रेण शर्मिष्ठामासुरायणीम् |
वासोभिरन्नपानैश्च संविभज्य सुसत्कृताम् ||३||
देवयान्या तु सहितः स नृपो नहुषात्मजः |
विजहार बहूनब्दान्देववन्मुदितो भृशम् ||४||
ऋतुकाले तु सम्प्राप्ते देवयानी वराङ्गना |
लेभे गर्भं प्रथमतः कुमारं च व्यजायत ||५||
गते वर्षसहस्रे तु शर्मिष्ठा वार्षपर्वणी |
ददर्श यौवनं प्राप्ता ऋतुं सा चान्वचिन्तयत् ||६||
ऋतुकालश्च सम्प्राप्तो न च मेऽस्ति पतिर्वृतः |
किं प्राप्तं किं नु कर्तव्यं किं वा कृत्वा कृतं भवेत् ||७||
देवयानी प्रजातासौ वृथाहं प्राप्तयौवना |
यथा तया वृतो भर्ता तथैवाहं वृणोमि तम् ||८||
राज्ञा पुत्रफलं देयमिति मे निश्चिता मतिः |
अपीदानीं स धर्मात्मा इयान्मे दर्शनं रहः ||९||
अथ निष्क्रम्य राजासौ तस्मिन्काले यदृच्छया |
अशोकवनिकाभ्याशे शर्मिष्ठां प्राप्य विष्ठितः ||१०||
तमेकं रहिते दृष्ट्वा शर्मिष्ठा चारुहासिनी |
प्रत्युद्गम्याञ्जलिं कृत्वा राजानं वाक्यमब्रवीत् ||११||
सोमस्येन्द्रस्य विष्णोर्वा यमस्य वरुणस्य वा |
तव वा नाहुष कुले कः स्त्रियं स्प्रष्टुमर्हति ||१२||
रूपाभिजनशीलैर्हि त्वं राजन्वेत्थ मां सदा |
सा त्वां याचे प्रसाद्याहमृतुं देहि नराधिप ||१३||
ययातिरुवाच||
वेद्मि त्वां शीलसम्पन्नां दैत्यकन्यामनिन्दिताम् |
रूपे च ते न पश्यामि सूच्यग्रमपि निन्दितम् ||१४||
अब्रवीदुशना काव्यो देवयानीं यदावहम् |
नेयमाह्वयितव्या ते शयने वार्षपर्वणी ||१५||
शर्मिष्ठोवाच||
न नर्मयुक्तं वचनं हिनस्ति; न स्त्रीषु राजन्न विवाहकाले |
प्राणात्यये सर्वधनापहारे; पञ्चानृतान्याहुरपातकानि ||१६||
पृष्टं तु साक्ष्ये प्रवदन्तमन्यथा; वदन्ति मिथ्योपहितं नरेन्द्र |
एकार्थतायां तु समाहितायां; मिथ्या वदन्तमनृतं हिनस्ति ||१७||
ययातिरुवाच||
राजा प्रमाणं भूतानां स नश्येत मृषा वदन् |
अर्थकृच्छ्रमपि प्राप्य न मिथ्या कर्तुमुत्सहे ||१८||
शर्मिष्ठोवाच||
समावेतौ मतौ राजन्पतिः सख्याश्च यः पतिः |
समं विवाहमित्याहुः सख्या मेऽसि पतिर्वृतः ||१९||
ययातिरुवाच||
दातव्यं याचमानेभ्य इति मे व्रतमाहितम् |
त्वं च याचसि मां कामं ब्रूहि किं करवाणि ते ||२०||
शर्मिष्ठोवाच||
अधर्मात्त्राहि मां राजन्धर्मं च प्रतिपादय |
त्वत्तोऽपत्यवती लोके चरेयं धर्ममुत्तमम् ||२१||
त्रय एवाधना राजन्भार्या दासस्तथा सुतः |
यत्ते समधिगच्छन्ति यस्य ते तस्य तद्धनम् ||२२||
देवयान्या भुजिष्यास्मि वश्या च तव भार्गवी |
सा चाहं च त्वया राजन्भरणीये भजस्व माम् ||२३||
वैशम्पायन उवाच||
एवमुक्तस्तु राजा स तथ्यमित्येव जज्ञिवान् |
पूजयामास शर्मिष्ठां धर्मं च प्रत्यपादयत् ||२४||
समागम्य च शर्मिष्ठां यथाकाममवाप्य च |
अन्योन्यमभिसम्पूज्य जग्मतुस्तौ यथागतम् ||२५||
तस्मिन्समागमे सुभ्रूः शर्मिष्ठा चारुहासिनी |
लेभे गर्भं प्रथमतस्तस्मान्नृपतिसत्तमात् ||२६||
प्रजज्ञे च ततः काले राजन्राजीवलोचना |
कुमारं देवगर्भाभं राजीवनिभलोचनम् ||२७||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
078-अध्यायः
वैशम्पायन उवाच||
श्रुत्वा कुमारं जातं तु देवयानी शुचिस्मिता |
चिन्तयामास दुःखार्ता शर्मिष्ठां प्रति भारत ||१||
अभिगम्य च शर्मिष्ठां देवयान्यब्रवीदिदम् |
किमिदं वृजिनं सुभ्रु कृतं ते कामलुब्धया ||२||
शर्मिष्ठोवाच||
ऋषिरभ्यागतः कश्चिद्धर्मात्मा वेदपारगः |
स मया वरदः कामं याचितो धर्मसंहितम् ||३||
नाहमन्यायतः काममाचरामि शुचिस्मिते |
तस्मादृषेर्ममापत्यमिति सत्यं ब्रवीमि ते ||४||
देवयान्युवाच||
शोभनं भीरु सत्यं चेदथ स ज्ञायते द्विजः |
गोत्रनामाभिजनतो वेत्तुमिच्छामि तं द्विजम् ||५||
शर्मिष्ठोवाच||
ओजसा तेजसा चैव दीप्यमानं रविं यथा |
तं दृष्ट्वा मम सम्प्रष्टुं शक्तिर्नासीच्छुचिस्मिते ||६||
देवयान्युवाच||
यद्येतदेवं शर्मिष्ठे न मन्युर्विद्यते मम |
अपत्यं यदि ते लब्धं ज्येष्ठाच्छ्रेष्ठाच्च वै द्विजात् ||७||
वैशम्पायन उवाच||
अन्योन्यमेवमुक्त्वा च सम्प्रहस्य च ते मिथः |
जगाम भार्गवी वेश्म तथ्यमित्येव जज्ञुषी ||८||
ययातिर्देवयान्यां तु पुत्रावजनयन्नृपः |
यदुं च तुर्वसुं चैव शक्रविष्णू इवापरौ ||९||
तस्मादेव तु राजर्षेः शर्मिष्ठा वार्षपर्वणी |
द्रुह्युं चानुं च पूरुं च त्रीन्कुमारानजीजनत् ||१०||
ततः काले तु कस्मिंश्चिद्देवयानी शुचिस्मिता |
ययातिसहिता राजन्निर्जगाम महावनम् ||११||
ददर्श च तदा तत्र कुमारान्देवरूपिणः |
क्रीडमानान्सुविश्रब्धान्विस्मिता चेदमब्रवीत् ||१२||
कस्यैते दारका राजन्देवपुत्रोपमाः शुभाः |
वर्चसा रूपतश्चैव सदृशा मे मतास्तव ||१३||
एवं पृष्ट्वा तु राजानं कुमारान्पर्यपृच्छत |
किंनामधेयगोत्रो वः पुत्रका ब्राह्मणः पिता ||१४||
विब्रूत मे यथातथ्यं श्रोतुमिच्छामि तं ह्यहम् ||१४||
तेऽदर्शयन्प्रदेशिन्या तमेव नृपसत्तमम् |
शर्मिष्ठां मातरं चैव तस्याचख्युश्च दारकाः ||१५||
इत्युक्त्वा सहितास्ते तु राजानमुपचक्रमुः |
नाभ्यनन्दत तान्राजा देवयान्यास्तदान्तिके ||१६||
रुदन्तस्तेऽथ शर्मिष्ठामभ्ययुर्बालकास्ततः ||१६||
दृष्ट्वा तु तेषां बालानां प्रणयं पार्थिवं प्रति |
बुद्ध्वा च तत्त्वतो देवी शर्मिष्ठामिदमब्रवीत् ||१७||
मदधीना सती कस्मादकार्षीर्विप्रियं मम |
तमेवासुरधर्मं त्वमास्थिता न बिभेषि किम् ||१८||
शर्मिष्ठोवाच||
यदुक्तमृषिरित्येव तत्सत्यं चारुहासिनि |
न्यायतो धर्मतश्चैव चरन्ती न बिभेमि ते ||१९||
यदा त्वया वृतो राजा वृत एव तदा मया |
सखीभर्ता हि धर्मेण भर्ता भवति शोभने ||२०||
पूज्यासि मम मान्या च ज्येष्ठा श्रेष्ठा च ब्राह्मणी |
त्वत्तोऽपि मे पूज्यतमो राजर्षिः किं न वेत्थ तत् ||२१||
वैशम्पायन उवाच||
श्रुत्वा तस्यास्ततो वाक्यं देवयान्यब्रवीदिदम् |
राजन्नाद्येह वत्स्यामि विप्रियं मे कृतं त्वया ||२२||
सहसोत्पतितां श्यामां दृष्ट्वा तां साश्रुलोचनाम् |
त्वरितं सकाशं काव्यस्य प्रस्थितां व्यथितस्तदा ||२३||
अनुवव्राज सम्भ्रान्तः पृष्ठतः सान्त्वयन्नृपः |
न्यवर्तत न चैव स्म क्रोधसंरक्तलोचना ||२४||
अविब्रुवन्ती किञ्चित्तु राजानं चारुलोचना |
अचिरादिव सम्प्राप्ता काव्यस्योशनसोऽन्तिकम् ||२५||
सा तु दृष्ट्वैव पितरमभिवाद्याग्रतः स्थिता |
अनन्तरं ययातिस्तु पूजयामास भार्गवम् ||२६||
देवयान्युवाच||
अधर्मेण जितो धर्मः प्रवृत्तमधरोत्तरम् |
शर्मिष्ठयातिवृत्तास्मि दुहित्रा वृषपर्वणः ||२७||
त्रयोऽस्यां जनिताः पुत्रा राज्ञानेन ययातिना |
दुर्भगाया मम द्वौ तु पुत्रौ तात ब्रवीमि ते ||२८||
धर्मज्ञ इति विख्यात एष राजा भृगूद्वह |
अतिक्रान्तश्च मर्यादां काव्यैतत्कथयामि ते ||२९||
शुक्र उवाच||
धर्मज्ञः सन्महाराज योऽधर्ममकृथाः प्रियम् |
तस्माज्जरा त्वामचिराद्धर्षयिष्यति दुर्जया ||३०||
ययातिरुवाच||
ऋतुं वै याचमानाया भगवन्नान्यचेतसा |
दुहितुर्दानवेन्द्रस्य धर्म्यमेतत्कृतं मया ||३१||
ऋतुं वै याचमानाया न ददाति पुमान्वृतः |
भ्रूणहेत्युच्यते ब्रह्मन्स इह ब्रह्मवादिभिः ||३२||
अभिकामां स्त्रियं यस्तु गम्यां रहसि याचितः |
नोपैति स च धर्मेषु भ्रूणहेत्युच्यते बुधैः ||३३||
इत्येतानि समीक्ष्याहं कारणानि भृगूद्वह |
अधर्मभयसंविग्नः शर्मिष्ठामुपजग्मिवान् ||३४||
शुक्र उवाच||
नन्वहं प्रत्यवेक्ष्यस्ते मदधीनोऽसि पार्थिव |
मिथ्याचारस्य धर्मेषु चौर्यं भवति नाहुष ||३५||
वैशम्पायन उवाच||
क्रुद्धेनोशनसा शप्तो ययातिर्नाहुषस्तदा |
पूर्वं वयः परित्यज्य जरां सद्योऽन्वपद्यत ||३६||
ययातिरुवाच||
अतृप्तो यौवनस्याहं देवयान्यां भृगूद्वह |
प्रसादं कुरु मे ब्रह्मञ्जरेयं मा विशेत माम् ||३७||
शुक्र उवाच||
नाहं मृषा ब्रवीम्येतज्जरां प्राप्तोऽसि भूमिप |
जरां त्वेतां त्वमन्यस्मै सङ्क्रामय यदीच्छसि ||३८||
ययातिरुवाच||
राज्यभाक्स भवेद्ब्रह्मन्पुण्यभाक्कीर्तिभाक्तथा |
यो मे दद्याद्वयः पुत्रस्तद्भवाननुमन्यताम् ||३९||
शुक्र उवाच||
सङ्क्रामयिष्यसि जरां यथेष्टं नहुषात्मज |
मामनुध्याय भावेन न च पापमवाप्स्यसि ||४०||
वयो दास्यति ते पुत्रो यः स राजा भविष्यति |
आयुष्मान्कीर्तिमांश्चैव बह्वपत्यस्तथैव च ||४१||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
079-अध्यायः
वैशम्पायन उवाच||
जरां प्राप्य ययातिस्तु स्वपुरं प्राप्य चैव ह |
पुत्रं ज्येष्ठं वरिष्ठं च यदुमित्यब्रवीद्वचः ||१||
जरा वली च मां तात पलितानि च पर्यगुः |
काव्यस्योशनसः शापान्न च तृप्तोऽस्मि यौवने ||२||
त्वं यदो प्रतिपद्यस्व पाप्मानं जरया सह |
यौवनेन त्वदीयेन चरेयं विषयानहम् ||३||
पूर्णे वर्षसहस्रे तु पुनस्ते यौवनं त्वहम् |
दत्त्वा स्वं प्रतिपत्स्यामि पाप्मानं जरया सह ||४||
यदुरुवाच||
सितश्मश्रुशिरा दीनो जरया शिथिलीकृतः |
वलीसन्ततगात्रश्च दुर्दर्शो दुर्बलः कृशः ||५||
अशक्तः कार्यकरणे परिभूतः स यौवनैः |
सहोपजीविभिश्चैव तां जरां नाभिकामये ||६||
ययातिरुवाच||
यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि |
तस्मादराज्यभाक्तात प्रजा ते वै भविष्यति ||७||
तुर्वसो प्रतिपद्यस्व पाप्मानं जरया सह |
यौवनेन चरेयं वै विषयांस्तव पुत्रक ||८||
पूर्णे वर्षसहस्रे तु पुनर्दास्यामि यौवनम् |
स्वं चैव प्रतिपत्स्यामि पाप्मानं जरया सह ||९||
तुर्वसुरुवाच||
न कामये जरां तात कामभोगप्रणाशिनीम् |
बलरूपान्तकरणीं बुद्धिप्राणविनाशिनीम् ||१०||
ययातिरुवाच||
यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि |
तस्मात्प्रजा समुच्छेदं तुर्वसो तव यास्यति ||११||
सङ्कीर्णाचारधर्मेषु प्रतिलोमचरेषु च |
पिशिताशिषु चान्त्येषु मूढ राजा भविष्यसि ||१२||
गुरुदारप्रसक्तेषु तिर्यग्योनिगतेषु च |
पशुधर्मिषु पापेषु म्लेच्छेषु प्रभविष्यसि ||१३||
वैशम्पायन उवाच||
एवं स तुर्वसुं शप्त्वा ययातिः सुतमात्मनः |
शर्मिष्ठायाः सुतं द्रुह्युमिदं वचनमब्रवीत् ||१४||
द्रुह्यो त्वं प्रतिपद्यस्व वर्णरूपविनाशिनीम् |
जरां वर्षसहस्रं मे यौवनं स्वं ददस्व च ||१५||
पूर्णे वर्षसहस्रे तु प्रतिदास्यामि यौवनम् |
स्वं चादास्यामि भूयोऽहं पाप्मानं जरया सह ||१६||
द्रुह्युरुवाच||
न गजं न रथं नाश्वं जीर्णो भुङ्क्ते न च स्त्रियम् |
वाग्भङ्गश्चास्य भवति तज्जरां नाभिकामये ||१७||
ययातिरुवाच||
यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि |
तस्माद्द्रुह्यो प्रियः कामो न ते सम्पत्स्यते क्वचित् ||१८||
उडुपप्लवसन्तारो यत्र नित्यं भविष्यति |
अराजा भोजशब्दं त्वं तत्रावाप्स्यसि सान्वयः ||१९||
अनो त्वं प्रतिपद्यस्व पाप्मानं जरया सह |
एकं वर्षसहस्रं तु चरेयं यौवनेन ते ||२०||
अनुरुवाच||
जीर्णः शिशुवदादत्तेऽकालेऽन्नमशुचिर्यथा |
न जुहोति च कालेऽग्निं तां जरां नाभिकामये ||२१||
ययातिरुवाच||
यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि |
जरादोषस्त्वयोक्तोऽयं तस्मात्त्वं प्रतिपत्स्यसे ||२२||
प्रजाश्च यौवनप्राप्ता विनशिष्यन्त्यनो तव |
अग्निप्रस्कन्दनपरस्त्वं चाप्येवं भविष्यसि ||२३||
पूरो त्वं मे प्रियः पुत्रस्त्वं वरीयान्भविष्यसि |
जरा वली च मे तात पलितानि च पर्यगुः ||२४||
काव्यस्योशनसः शापान्न च तृप्तोऽस्मि यौवने ||२४||
पूरो त्वं प्रतिपद्यस्व पाप्मानं जरया सह |
कञ्चित्कालं चरेयं वै विषयान्वयसा तव ||२५||
पूर्णे वर्षसहस्रे तु प्रतिदास्यामि यौवनम् |
स्वं चैव प्रतिपत्स्यामि पाप्मानं जरया सह ||२६||
वैशम्पायन उवाच||
एवमुक्तः प्रत्युवाच पूरुः पितरमञ्जसा |
यथात्थ मां महाराज तत्करिष्यामि ते वचः ||२७||
प्रतिपत्स्यामि ते राजन्पाप्मानं जरया सह |
गृहाण यौवनं मत्तश्चर कामान्यथेप्सितान् ||२८||
जरयाहं प्रतिच्छन्नो वयोरूपधरस्तव |
यौवनं भवते दत्त्वा चरिष्यामि यथात्थ माम् ||२९||
ययातिरुवाच||
पूरो प्रीतोऽस्मि ते वत्स प्रीतश्चेदं ददामि ते |
सर्वकामसमृद्धा ते प्रजा राज्ये भविष्यति ||३०||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
080-अध्यायः
वैशम्पायन उवाच||
पौरवेणाथ वयसा ययातिर्नहुषात्मजः |
प्रीतियुक्तो नृपश्रेष्ठश्चचार विषयान्प्रियान् ||१||
यथाकामं यथोत्साहं यथाकालं यथासुखम् |
धर्माविरुद्धान्राजेन्द्रो यथार्हति स एव हि ||२||
देवानतर्पयद्यज्ञैः श्राद्धैस्तद्वत्पितृनपि |
दीनाननुग्रहैरिष्टैः कामैश्च द्विजसत्तमान् ||३||
अतिथीनन्नपानैश्च विशश्च परिपालनैः |
आनृशंस्येन शूद्रांश्च दस्यून्संनिग्रहेण च ||४||
धर्मेण च प्रजाः सर्वा यथावदनुरञ्जयन् |
ययातिः पालयामास साक्षादिन्द्र इवापरः ||५||
स राजा सिंहविक्रान्तो युवा विषयगोचरः |
अविरोधेन धर्मस्य चचार सुखमुत्तमम् ||६||
स सम्प्राप्य शुभान्कामांस्तृप्तः खिन्नश्च पार्थिवः |
कालं वर्षसहस्रान्तं सस्मार मनुजाधिपः ||७||
परिसङ्ख्याय कालज्ञः कलाः काष्ठाश्च वीर्यवान् |
पूर्णं मत्वा ततः कालं पूरुं पुत्रमुवाच ह ||८||
यथाकामं यथोत्साहं यथाकालमरिंदम |
सेविता विषयाः पुत्र यौवनेन मया तव ||९||
पूरो प्रीतोऽस्मि भद्रं ते गृहाणेदं स्वयौवनम् |
राज्यं चैव गृहाणेदं त्वं हि मे प्रियकृत्सुतः ||१०||
प्रतिपेदे जरां राजा ययातिर्नाहुषस्तदा |
यौवनं प्रतिपेदे च पूरुः स्वं पुनरात्मनः ||११||
अभिषेक्तुकामं नृपतिं पूरुं पुत्रं कनीयसम् |
ब्राह्मणप्रमुखा वर्णा इदं वचनमब्रुवन् ||१२||
कथं शुक्रस्य नप्तारं देवयान्याः सुतं प्रभो |
ज्येष्ठं यदुमतिक्रम्य राज्यं पूरोः प्रदास्यसि ||१३||
यदुर्ज्येष्ठस्तव सुतो जातस्तमनु तुर्वसुः |
शर्मिष्ठायाः सुतो द्रुह्युस्ततोऽनुः पूरुरेव च ||१४||
कथं ज्येष्ठानतिक्रम्य कनीयान्राज्यमर्हति |
एतत्सम्बोधयामस्त्वां धर्मं त्वमनुपालय ||१५||
ययातिरुवाच||
ब्राह्मणप्रमुखा वर्णाः सर्वे शृण्वन्तु मे वचः |
ज्येष्ठं प्रति यथा राज्यं न देयं मे कथञ्चन ||१६||
मम ज्येष्ठेन यदुना नियोगो नानुपालितः |
प्रतिकूलः पितुर्यश्च न स पुत्रः सतां मतः ||१७||
मातापित्रोर्वचनकृद्धितः पथ्यश्च यः सुतः |
स पुत्रः पुत्रवद्यश्च वर्तते पितृमातृषु ||१८||
यदुनाहमवज्ञातस्तथा तुर्वसुनापि च |
द्रुह्युना चानुना चैव मय्यवज्ञा कृता भृशम् ||१९||
पूरुणा मे कृतं वाक्यं मानितश्च विशेषतः |
कनीयान्मम दायादो जरा येन धृता मम ||२०||
मम कामः स च कृतः पूरुणा पुत्ररूपिणा ||२०||
शुक्रेण च वरो दत्तः काव्येनोशनसा स्वयम् |
पुत्रो यस्त्वानुवर्तेत स राजा पृथिवीपतिः ||२१||
भवतोऽनुनयाम्येवं पूरू राज्येऽभिषिच्यताम् ||२१||
प्रकृतय ऊचुः||
यः पुत्रो गुणसम्पन्नो मातापित्रोर्हितः सदा |
सर्वमर्हति कल्याणं कनीयानपि स प्रभो ||२२||
अर्हः पूरुरिदं राज्यं यः सुतः प्रियकृत्तव |
वरदानेन शुक्रस्य न शक्यं वक्तुमुत्तरम् ||२३||
वैशम्पायन उवाच||
पौरजानपदैस्तुष्टैरित्युक्तो नाहुषस्तदा |
अभ्यषिञ्चत्ततः पूरुं राज्ये स्वे सुतमात्मजम् ||२४||
दत्त्वा च पूरवे राज्यं वनवासाय दीक्षितः |
पुरात्स निर्ययौ राजा ब्राह्मणैस्तापसैः सह ||२५||
यदोस्तु यादवा जातास्तुर्वसोर्यवनाः सुताः |
द्रुह्योरपि सुता भोजा अनोस्तु म्लेच्छजातयः ||२६||
पूरोस्तु पौरवो वंशो यत्र जातोऽसि पार्थिव |
इदं वर्षसहस्राय राज्यं कारयितुं वशी ||२७||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
081-अध्यायः
उत्तरयायातम्
वैशम्पायन उवाच||
एवं स नाहुषो राजा ययातिः पुत्रमीप्सितम् |
राज्येऽभिषिच्य मुदितो वानप्रस्थोऽभवन्मुनिः ||१||
उषित्वा च वने वासं ब्राह्मणैः सह संश्रितः |
फलमूलाशनो दान्तो यथा स्वर्गमितो गतः ||२||
स गतः सुरवासं तं निवसन्मुदितः सुखम् |
कालस्य नातिमहतः पुनः शक्रेण पातितः ||३||
निपतन्प्रच्युतः स्वर्गादप्राप्तो मेदिनीतलम् |
स्थित आसीदन्तरिक्षे स तदेति श्रुतं मया ||४||
तत एव पुनश्चापि गतः स्वर्गमिति श्रुतिः |
राज्ञा वसुमता सार्धमष्टकेन च वीर्यवान् ||५||
प्रतर्दनेन शिबिना समेत्य किल संसदि ||५||
जनमेजय उवाच||
कर्मणा केन स दिवं पुनः प्राप्तो महीपतिः |
सर्वमेतदशेषेण श्रोतुमिच्छामि तत्त्वतः ||६||
कथ्यमानं त्वया विप्र विप्रर्षिगणसंनिधौ ||६||
देवराजसमो ह्यासीद्ययातिः पृथिवीपतिः |
वर्धनः कुरुवंशस्य विभावसुसमद्युतिः ||७||
तस्य विस्तीर्णयशसः सत्यकीर्तेर्महात्मनः |
चरितं श्रोतुमिच्छामि दिवि चेह च सर्वशः ||८||
वैशम्पायन उवाच||
हन्त ते कथयिष्यामि ययातेरुत्तरां कथाम् |
दिवि चेह च पुण्यार्थां सर्वपापप्रणाशिनीम् ||९||
ययातिर्नाहुषो राजा पूरुं पुत्रं कनीयसम् |
राज्येऽभिषिच्य मुदितः प्रवव्राज वनं तदा ||१०||
अन्तेषु स विनिक्षिप्य पुत्रान्यदुपुरोगमान् |
फलमूलाशनो राजा वने संन्यवसच्चिरम् ||११||
संशितात्मा जितक्रोधस्तर्पयन्पितृदेवताः |
अग्नींश्च विधिवज्जुह्वन्वानप्रस्थविधानतः ||१२||
अतिथीन्पूजयामास वन्येन हविषा विभुः |
शिलोञ्छवृत्तिमास्थाय शेषान्नकृतभोजनः ||१३||
पूर्णं वर्षसहस्रं स एवंवृत्तिरभून्नृपः |
अब्भक्षः शरदस्त्रिंशदासीन्नियतवाङ्मनाः ||१४||
ततश्च वायुभक्षोऽभूत्संवत्सरमतन्द्रितः |
पञ्चाग्निमध्ये च तपस्तेपे संवत्सरं नृपः ||१५||
एकपादस्थितश्चासीत्षण्मासाननिलाशनः |
पुण्यकीर्तिस्ततः स्वर्गं जगामावृत्य रोदसी ||१६||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
082-अध्यायः
वैशम्पायन उवाच||
स्वर्गतः स तु राजेन्द्रो निवसन्देवसद्मनि |
पूजितस्त्रिदशैः साध्यैर्मरुद्भिर्वसुभिस्तथा ||१||
देवलोकाद्ब्रह्मलोकं सञ्चरन्पुण्यकृद्वशी |
अवसत्पृथिवीपालो दीर्घकालमिति श्रुतिः ||२||
स कदाचिन्नृपश्रेष्ठो ययातिः शक्रमागमत् |
कथान्ते तत्र शक्रेण पृष्टः स पृथिवीपतिः ||३||
शक्र उवाच||
यदा स पूरुस्तव रूपेण राज; ञ्जरां गृहीत्वा प्रचचार भूमौ |
तदा राज्यं सम्प्रदायैव तस्मै; त्वया किमुक्तः कथयेह सत्यम् ||४||
ययातिरुवाच||
गङ्गायमुनयोर्मध्ये कृत्स्नोऽयं विषयस्तव |
मध्ये पृथिव्यास्त्वं राजा भ्रातरोऽन्त्याधिपास्तव ||५||
अक्रोधनः क्रोधनेभ्यो विशिष्ट; स्तथा तितिक्षुरतितिक्षोर्विशिष्टः |
अमानुषेभ्यो मानुषाश्च प्रधाना; विद्वांस्तथैवाविदुषः प्रधानः ||६||
आक्रुश्यमानो नाक्रोशेन्मन्युरेव तितिक्षतः |
आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति ||७||
नारुन्तुदः स्यान्न नृशंसवादी; न हीनतः परमभ्याददीत |
ययास्य वाचा पर उद्विजेत; न तां वदेद्रुशतीं पापलोक्याम् ||८||
अरुन्तुदं पुरुषं रूक्षवाचं; वाक्कण्टकैर्वितुदन्तं मनुष्यान् |
विद्यादलक्ष्मीकतमं जनानां; मुखे निबद्धां निरृतिं वहन्तम् ||९||
सद्भिः पुरस्तादभिपूजितः स्या; त्सद्भिस्तथा पृष्ठतो रक्षितः स्यात् |
सदासतामतिवादांस्तितिक्षे; त्सतां वृत्तं चाददीतार्यवृत्तः ||१०||
वाक्सायका वदनान्निष्पतन्ति; यैराहतः शोचति रात्र्यहानि |
परस्य वा मर्मसु ये पतन्ति; तान्पण्डितो नावसृजेत्परेषु ||११||
न हीदृशं संवननं त्रिषु लोकेषु विद्यते |
यथा मैत्री च भूतेषु दानं च मधुरा च वाक् ||१२||
तस्मात्सान्त्वं सदा वाच्यं न वाच्यं परुषं क्वचित् |
पूज्यान्सम्पूजयेद्दद्यान्न च याचेत्कदाचन ||१३||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
083-अध्यायः
इन्द्र उवाच||
सर्वाणि कर्माणि समाप्य राज; न्गृहान्परित्यज्य वनं गतोऽसि |
तत्त्वां पृच्छामि नहुषस्य पुत्र; केनासि तुल्यस्तपसा ययाते ||१||
ययातिरुवाच||
नाहं देवमनुष्येषु न गन्धर्वमहर्षिषु |
आत्मनस्तपसा तुल्यं कञ्चित्पश्यामि वासव ||२||
इन्द्र उवाच||
यदावमंस्थाः सदृशः श्रेयसश्च; पापीयसश्चाविदितप्रभावः |
तस्माल्लोका अन्तवन्तस्तवेमे; क्षीणे पुण्ये पतितास्यद्य राजन् ||३||
ययातिरुवाच||
सुरर्षिगन्धर्वनरावमाना; त्क्षयं गता मे यदि शक्र लोकाः |
इच्छेयं वै सुरलोकाद्विहीनः; सतां मध्ये पतितुं देवराज ||४||
इन्द्र उवाच||
सतां सकाशे पतितासि राजं; श्च्युतः प्रतिष्ठां यत्र लब्धासि भूयः |
एवं विदित्वा तु पुनर्ययाते; न तेऽवमान्याः सदृशः श्रेयसश्च ||५||
वैशम्पायन उवाच||
ततः प्रहायामरराजजुष्टा; न्पुण्याँल्लोकान्पतमानं ययातिम् |
सम्प्रेक्ष्य राजर्षिवरोऽष्टकस्त; मुवाच सद्धर्मविधानगोप्ता ||६||
कस्त्वं युवा वासवतुल्यरूपः; स्वतेजसा दीप्यमानो यथाग्निः |
पतस्युदीर्णाम्बुधरान्धकारा; त्खात्खेचराणां प्रवरो यथार्कः ||७||
दृष्ट्वा च त्वां सूर्यपथात्पतन्तं; वैश्वानरार्कद्युतिमप्रमेयम् |
किं नु स्विदेतत्पततीति सर्वे; वितर्कयन्तः परिमोहिताः स्मः ||८||
दृष्ट्वा च त्वां विष्ठितं देवमार्गे; शक्रार्कविष्णुप्रतिमप्रभावम् |
अभ्युद्गतास्त्वां वयमद्य सर्वे; तत्त्वं पाते तव जिज्ञासमानाः ||९||
न चापि त्वां धृष्णुमः प्रष्टुमग्रे; न च त्वमस्मान्पृच्छसि ये वयं स्मः |
तत्त्वां पृच्छामः स्पृहणीयरूपं; कस्य त्वं वा किंनिमित्तं त्वमागाः ||१०||
भयं तु ते व्येतु विषादमोहौ; त्यजाशु देवेन्द्रसमानरूप |
त्वां वर्तमानं हि सतां सकाशे; नालं प्रसोढुं बलहापि शक्रः ||११||
सन्तः प्रतिष्ठा हि सुखच्युतानां; सतां सदैवामरराजकल्प |
ते सङ्गताः स्थावरजङ्गमेशाः; प्रतिष्ठितस्त्वं सदृशेषु सत्सु ||१२||
प्रभुरग्निः प्रतपने भूमिरावपने प्रभुः |
प्रभुः सूर्यः प्रकाशित्वे सतां चाभ्यागतः प्रभुः ||१३||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
084-अध्यायः
ययातिरुवाच||
अहं ययातिर्नहुषस्य पुत्रः; पूरोः पिता सर्वभूतावमानात् |
प्रभ्रंशितः सुरसिद्धर्षिलोका; त्परिच्युतः प्रपताम्यल्पपुण्यः ||१||
अहं हि पूर्वो वयसा भवद्भ्य; स्तेनाभिवादं भवतां न प्रयुञ्जे |
यो विद्यया तपसा जन्मना वा; वृद्धः स पूज्यो भवति द्विजानाम् ||२||
अष्टक उवाच||
अवादीश्चेद्वयसा यः स वृद्ध; इति राजन्नाभ्यवदः कथञ्चित् |
यो वै विद्वान्वयसा सन्स्म वृद्धः; स एव पूज्यो भवति द्विजानाम् ||३||
ययातिरुवाच||
प्रतिकूलं कर्मणां पापमाहु; स्तद्वर्ततेऽप्रवणे पापलोक्यम् |
सन्तोऽसतां नानुवर्तन्ति चैत; द्यथा आत्मैषामनुकूलवादी ||४||
अभूद्धनं मे विपुलं महद्वै; विचेष्टमानो नाधिगन्ता तदस्मि |
एवं प्रधार्यात्महिते निविष्टो; यो वर्तते स विजानाति जीवन् ||५||
नानाभावा बहवो जीवलोके; दैवाधीना नष्टचेष्टाधिकाराः |
तत्तत्प्राप्य न विहन्येत धीरो; दिष्टं बलीय इति मत्वात्मबुद्ध्या ||६||
सुखं हि जन्तुर्यदि वापि दुःखं; दैवाधीनं विन्दति नात्मशक्त्या |
तस्माद्दिष्टं बलवन्मन्यमानो; न सञ्ज्वरेन्नापि हृष्येत्कदाचित् ||७||
दुःखे न तप्येन्न सुखेन हृष्ये; त्समेन वर्तेत सदैव धीरः |
दिष्टं बलीय इति मन्यमानो; न सञ्ज्वरेन्नापि हृष्येत्कदाचित् ||८||
भये न मुह्याम्यष्टकाहं कदा चि; त्सन्तापो मे मानसो नास्ति कश्चित् |
धाता यथा मां विदधाति लोके; ध्रुवं तथाहं भवितेति मत्वा ||९||
संस्वेदजा अण्डजा उद्भिदाश्च; सरीसृपाः कृमयोऽथाप्सु मत्स्याः |
तथाश्मानस्तृणकाष्ठं च सर्वं; दिष्टक्षये स्वां प्रकृतिं भजन्ते ||१०||
अनित्यतां सुखदुःखस्य बुद्ध्वा; कस्मात्सन्तापमष्टकाहं भजेयम् |
किं कुर्यां वै किं च कृत्वा न तप्ये; तस्मात्सन्तापं वर्जयाम्यप्रमत्तः ||११||
अष्टक उवाच||
ये ये लोकाः पार्थिवेन्द्र प्रधाना; स्त्वया भुक्ता यं च कालं यथा च |
तन्मे राजन्ब्रूहि सर्वं यथाव; त्क्षेत्रज्ञवद्भाषसे त्वं हि धर्मान् ||१२||
ययातिरुवाच||
राजाहमासमिह सार्वभौम; स्ततो लोकान्महतो अजयं वै |
तत्रावसं वर्षसहस्रमात्रं; ततो लोकं परमस्म्यभ्युपेतः ||१३||
ततः पुरीं पुरुहूतस्य रम्यां; सहस्रद्वारां शतयोजनायताम् |
अध्यावसं वर्षसहस्रमात्रं; ततो लोकं परमस्म्यभ्युपेतः ||१४||
ततो दिव्यमजरं प्राप्य लोकं; प्रजापतेर्लोकपतेर्दुरापम् |
तत्रावसं वर्षसहस्रमात्रं; ततो लोकं परमस्म्यभ्युपेतः ||१५||
देवस्य देवस्य निवेशने च; विजित्य लोकानवसं यथेष्टम् |
सम्पूज्यमानस्त्रिदशैः समस्तै; स्तुल्यप्रभावद्युतिरीश्वराणाम् ||१६||
तथावसं नन्दने कामरूपी; संवत्सराणामयुतं शतानाम् |
सहाप्सरोभिर्विहरन्पुण्यगन्धा; न्पश्यन्नगान्पुष्पितांश्चारुरूपान् ||१७||
तत्रस्थं मां देवसुखेषु सक्तं; कालेऽतीते महति ततोऽतिमात्रम् |
दूतो देवानामब्रवीदुग्ररूपो; ध्वंसेत्युच्चैस्त्रिः प्लुतेन स्वरेण ||१८||
एतावन्मे विदितं राजसिंह; ततो भ्रष्टोऽहं नन्दनात्क्षीणपुण्यः |
वाचोऽश्रौषं चान्तरिक्षे सुराणा; मनुक्रोशाच्छोचतां मानवेन्द्र ||१९||
अहो कष्टं क्षीणपुण्यो ययातिः; पतत्यसौ पुण्यकृत्पुण्यकीर्तिः |
तानब्रुवं पतमानस्ततोऽहं; सतां मध्ये निपतेयं कथं नु ||२०||
तैराख्याता भवतां यज्ञभूमिः; समीक्ष्य चैनां त्वरितमुपागतोऽस्मि |
हविर्गन्धं देशिकं यज्ञभूमे; र्धूमापाङ्गं प्रतिगृह्य प्रतीतः ||२१||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
085-अध्यायः
अष्टक उवाच||
यदावसो नन्दने कामरूपी; संवत्सराणामयुतं शतानाम् |
किं कारणं कार्तयुगप्रधान; हित्वा तत्त्वं वसुधामन्वपद्यः ||१||
ययातिरुवाच||
ज्ञातिः सुहृत्स्वजनो यो यथेह; क्षीणे वित्ते त्यज्यते मानवैर्हि |
तथा तत्र क्षीणपुण्यं मनुष्यं; त्यजन्ति सद्यः सेश्वरा देवसङ्घाः ||२||
अष्टक उवाच||
कथं तस्मिन्क्षीणपुण्या भवन्ति; संमुह्यते मेऽत्र मनोऽतिमात्रम् |
किंविशिष्टाः कस्य धामोपयान्ति; तद्वै ब्रूहि क्षेत्रवित्त्वं मतो मे ||३||
ययातिरुवाच||
इमं भौमं नरकं ते पतन्ति; लालप्यमाना नरदेव सर्वे |
ते कङ्कगोमायुबलाशनार्थं; क्षीणा विवृद्धिं बहुधा व्रजन्ति ||४||
तस्मादेतद्वर्जनीयं नरेण; दुष्टं लोके गर्हणीयं च कर्म |
आख्यातं ते पार्थिव सर्वमेत; द्भूयश्चेदानीं वद किं ते वदामि ||५||
अष्टक उवाच||
यदा तु तान्वितुदन्ते वयांसि; तथा गृध्राः शितिकण्ठाः पतङ्गाः |
कथं भवन्ति कथमाभवन्ति; न भौममन्यं नरकं शृणोमि ||६||
ययातिरुवाच||
ऊर्ध्वं देहात्कर्मणो जृम्भमाणा; द्व्यक्तं पृथिव्यामनुसञ्चरन्ति |
इमं भौमं नरकं ते पतन्ति; नावेक्षन्ते वर्षपूगाननेकान् ||७||
षष्टिं सहस्राणि पतन्ति व्योम्नि; तथा अशीतिं परिवत्सराणि |
तान्वै तुदन्ति प्रपततः प्रपातं; भीमा भौमा राक्षसास्तीक्ष्णदंष्ट्राः ||८||
अष्टक उवाच||
यदेनसस्ते पततस्तुदन्ति; भीमा भौमा राक्षसास्तीक्ष्णदंष्ट्राः |
कथं भवन्ति कथमाभवन्ति; कथम्भूता गर्भभूता भवन्ति ||९||
ययातिरुवाच||
अस्रं रेतः पुष्पफलानुपृक्त; मन्वेति तद्वै पुरुषेण सृष्टम् |
स वै तस्या रज आपद्यते वै; स गर्भभूतः समुपैति तत्र ||१०||
वनस्पतींश्चौषधीश्चाविशन्ति; अपो वायुं पृथिवीं चान्तरिक्षम् |
चतुष्पदं द्विपदं चापि सर्व; मेवम्भूता गर्भभूता भवन्ति ||११||
अष्टक उवाच||
अन्यद्वपुर्विदधातीह गर्भ; उताहो स्वित्स्वेन कामेन याति |
आपद्यमानो नरयोनिमेता; माचक्ष्व मे संशयात्प्रब्रवीमि ||१२||
शरीरदेहादिसमुच्छ्रयं च; चक्षुःश्रोत्रे लभते केन सञ्ज्ञाम् |
एतत्तत्त्वं सर्वमाचक्ष्व पृष्टः; क्षेत्रज्ञं त्वां तात मन्याम सर्वे ||१३||
ययातिरुवाच||
वायुः समुत्कर्षति गर्भयोनि; मृतौ रेतः पुष्परसानुपृक्तम् |
स तत्र तन्मात्रकृताधिकारः; क्रमेण संवर्धयतीह गर्भम् ||१४||
स जायमानो विगृहीतगात्रः; षड्ज्ञाननिष्ठायतनो मनुष्यः |
स श्रोत्राभ्यां वेदयतीह शब्दं; सर्वं रूपं पश्यति चक्षुषा च ||१५||
घ्राणेन गन्धं जिह्वयाथो रसं च; त्वचा स्पर्शं मनसा वेद भावम् |
इत्यष्टकेहोपचितिं च विद्धि; महात्मनः प्राणभृतः शरीरे ||१६||
अष्टक उवाच||
यः संस्थितः पुरुषो दह्यते वा; निखन्यते वापि निघृष्यते वा |
अभावभूतः स विनाशमेत्य; केनात्मानं चेतयते पुरस्तात् ||१७||
ययातिरुवाच||
हित्वा सोऽसून्सुप्तवन्निष्टनित्वा; पुरोधाय सुकृतं दुष्कृतं च |
अन्यां योनिं पवनाग्रानुसारी; हित्वा देहं भजते राजसिंह ||१८||
पुण्यां योनिं पुण्यकृतो व्रजन्ति; पापां योनिं पापकृतो व्रजन्ति |
कीटाः पतङ्गाश्च भवन्ति पापा; न मे विवक्षास्ति महानुभाव ||१९||
चतुष्पदा द्विपदाः षट्पदाश्च; तथाभूता गर्भभूता भवन्ति |
आख्यातमेतन्निखिलेन सर्वं; भूयस्तु किं पृच्छसि राजसिंह ||२०||
अष्टक उवाच||
किं स्वित्कृत्वा लभते तात लोका; न्मर्त्यः श्रेष्ठांस्तपसा विद्यया वा |
तन्मे पृष्टः शंस सर्वं यथाव; च्छुभाँल्लोकान्येन गच्छेत्क्रमेण ||२१||
ययातिरुवाच||
तपश्च दानं च शमो दमश्च; ह्रीरार्जवं सर्वभूतानुकम्पा |
नश्यन्ति मानेन तमोऽभिभूताः; पुंसः सदैवेति वदन्ति सन्तः ||२२||
अधीयानः पण्डितं मन्यमानो; यो विद्यया हन्ति यशः परेषाम् |
तस्यान्तवन्तश्च भवन्ति लोका; न चास्य तद्ब्रह्म फलं ददाति ||२३||
चत्वारि कर्माण्यभयङ्कराणि; भयं प्रयच्छन्त्ययथाकृतानि |
मानाग्निहोत्रमुत मानमौनं; मानेनाधीतमुत मानयज्ञः ||२४||
न मान्यमानो मुदमाददीत; न सन्तापं प्राप्नुयाच्चावमानात् |
सन्तः सतः पूजयन्तीह लोके; नासाधवः साधुबुद्धिं लभन्ते ||२५||
इति दद्यादिति यजेदित्यधीयीत मे व्रतम् |
इत्यस्मिन्नभयान्याहुस्तानि वर्ज्यानि नित्यशः ||२६||
येनाश्रयं वेदयन्ते पुराणं; मनीषिणो मानसमानभक्तम् |
तन्निःश्रेयस्तैजसं रूपमेत्य; परां शान्तिं प्राप्नुयुः प्रेत्य चेह ||२७||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
086-अध्यायः
अष्टक उवाच||
चरन्गृहस्थः कथमेति देवा; न्कथं भिक्षुः कथमाचार्यकर्मा |
वानप्रस्थः सत्पथे संनिविष्टो; बहून्यस्मिन्सम्प्रति वेदयन्ति ||१||
ययातिरुवाच||
आहूताध्यायी गुरुकर्मस्वचोद्यः; पूर्वोत्थायी चरमं चोपशायी |
मृदुर्दान्तो धृतिमानप्रमत्तः; स्वाध्यायशीलः सिध्यति ब्रह्मचारी ||२||
धर्मागतं प्राप्य धनं यजेत; दद्यात्सदैवातिथीन्भोजयेच्च |
अनाददानश्च परैरदत्तं; सैषा गृहस्थोपनिषत्पुराणी ||३||
स्ववीर्यजीवी वृजिनान्निवृत्तो; दाता परेभ्यो न परोपतापी |
तादृङ्मुनिः सिद्धिमुपैति मुख्यां; वसन्नरण्ये नियताहारचेष्टः ||४||
अशिल्पजीवी नगृहश्च नित्यं; जितेन्द्रियः सर्वतो विप्रमुक्तः |
अनोकसारी लघुरल्पचार; श्चरन्देशानेकचरः स भिक्षुः ||५||
रात्र्या यया चाभिजिताश्च लोका; भवन्ति कामा विजिताः सुखाश्च |
तामेव रात्रिं प्रयतेत विद्वा; नरण्यसंस्थो भवितुं यतात्मा ||६||
दशैव पूर्वान्दश चापरांस्तु; ज्ञातीन्सहात्मानमथैकविंशम् |
अरण्यवासी सुकृते दधाति; विमुच्यारण्ये स्वशरीरधातून् ||७||
अष्टक उवाच||
कति स्विदेव मुनयो मौनानि कति चाप्युत |
भवन्तीति तदाचक्ष्व श्रोतुमिच्छामहे वयम् ||८||
ययातिरुवाच||
अरण्ये वसतो यस्य ग्रामो भवति पृष्ठतः |
ग्रामे वा वसतोऽरण्यं स मुनिः स्याज्जनाधिप ||९||
अष्टक उवाच||
कथं स्विद्वसतोऽरण्ये ग्रामो भवति पृष्ठतः |
ग्रामे वा वसतोऽरण्यं कथं भवति पृष्ठतः ||१०||
ययातिरुवाच||
न ग्राम्यमुपयुञ्जीत य आरण्यो मुनिर्भवेत् |
तथास्य वसतोऽरण्ये ग्रामो भवति पृष्ठतः ||११||
अनग्निरनिकेतश्च अगोत्रचरणो मुनिः |
कौपीनाच्छादनं यावत्तावदिच्छेच्च चीवरम् ||१२||
यावत्प्राणाभिसन्धानं तावदिच्छेच्च भोजनम् |
तथास्य वसतो ग्रामेऽरण्यं भवति पृष्ठतः ||१३||
यस्तु कामान्परित्यज्य त्यक्तकर्मा जितेन्द्रियः |
आतिष्ठेत मुनिर्मौनं स लोके सिद्धिमाप्नुयात् ||१४||
धौतदन्तं कृत्तनखं सदा स्नातमलङ्कृतम् |
असितं सितकर्मस्थं कस्तं नार्चितुमर्हति ||१५||
तपसा कर्शितः क्षामः क्षीणमांसास्थिशोणितः |
यदा भवति निर्द्वन्द्वो मुनिर्मौनं समास्थितः ||१६||
अथ लोकमिमं जित्वा लोकं विजयते परम् ||१६||
आस्येन तु यदाहारं गोवन्मृगयते मुनिः |
अथास्य लोकः पूर्वो यः सोऽमृतत्वाय कल्पते ||१७||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
086-अध्यायः
अष्टक उवाच||
कतरस्त्वेतयोः पूर्वं देवानामेति सात्म्यताम् |
उभयोर्धावतो राजन्सूर्याचन्द्रमसोरिव ||१||
ययातिरुवाच||
अनिकेतो गृहस्थेषु कामवृत्तेषु संयतः |
ग्राम एव वसन्भिक्षुस्तयोः पूर्वतरं गतः ||२||
अप्राप्य दीर्घमायुस्तु यः प्राप्तो विकृतिं चरेत् |
तप्येत यदि तत्कृत्वा चरेत्सोऽन्यत्ततस्तपः ||३||
यद्वै नृशंसं तदपथ्यमाहु; र्यः सेवते धर्ममनर्थबुद्धिः |
अस्वोऽप्यनीशश्च तथैव राजं; स्तदार्जवं स समाधिस्तदार्यम् ||४||
अष्टक उवाच||
केनासि दूतः प्रहितोऽद्य राज; न्युवा स्रग्वी दर्शनीयः सुवर्चाः |
कुत आगतः कतरस्यां दिशि त्व; मुताहो स्वित्पार्थिवं स्थानमस्ति ||५||
ययातिरुवाच||
इमं भौमं नरकं क्षीणपुण्यः; प्रवेष्टुमुर्वीं गगनाद्विप्रकीर्णः |
उक्त्वाहं वः प्रपतिष्याम्यनन्तरं; त्वरन्ति मां ब्राह्मणा लोकपालाः ||६||
सतां सकाशे तु वृतः प्रपात; स्ते सङ्गता गुणवन्तश्च सर्वे |
शक्राच्च लब्धो हि वरो मयैष; पतिष्यता भूमितले नरेन्द्र ||७||
अष्टक उवाच||
पृच्छामि त्वां मा प्रपत प्रपातं; यदि लोकाः पार्थिव सन्ति मेऽत्र |
यद्यन्तरिक्षे यदि वा दिवि श्रिताः; क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये ||८||
ययातिरुवाच||
यावत्पृथिव्यां विहितं गवाश्वं; सहारण्यैः पशुभिः पर्वतैश्च |
तावल्लोका दिवि ते संस्थिता वै; तथा विजानीहि नरेन्द्रसिंह ||९||
अष्टक उवाच||
तांस्ते ददामि मा प्रपत प्रपातं; ये मे लोका दिवि राजेन्द्र सन्ति |
यद्यन्तरिक्षे यदि वा दिवि श्रिता; स्तानाक्रम क्षिप्रममित्रसाह ||१०||
ययातिरुवाच||
नास्मद्विधोऽब्राह्मणो ब्रह्मविच्च; प्रतिग्रहे वर्तते राजमुख्य |
यथा प्रदेयं सततं द्विजेभ्य; स्तथाददं पूर्वमहं नरेन्द्र ||११||
नाब्राह्मणः कृपणो जातु जीवे; द्या चापि स्याद्ब्राह्मणी वीरपत्नी |
सोऽहं यदैवाकृतपूर्वं चरेयं; विवित्समानः किमु तत्र साधु ||१२||
प्रतर्दन उवाच||
पृच्छामि त्वां स्पृहणीयरूप; प्रतर्दनोऽहं यदि मे सन्ति लोकाः |
यद्यन्तरिक्षे यदि वा दिवि श्रिताः; क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये ||१३||
ययातिरुवाच||
सन्ति लोका बहवस्ते नरेन्द्र; अप्येकैकः सप्त सप्ताप्यहानि |
मधुच्युतो घृतपृक्ता विशोका; स्ते नान्तवन्तः प्रतिपालयन्ति ||१४||
प्रतर्दन उवाच||
तांस्ते ददामि मा प्रपत प्रपातं; ये मे लोकास्तव ते वै भवन्तु |
यद्यन्तरिक्षे यदि वा दिवि श्रिता; स्तानाक्रम क्षिप्रमपेतमोहः ||१५||
ययातिरुवाच||
न तुल्यतेजाः सुकृतं कामयेत; योगक्षेमं पार्थिव पार्थिवः सन् |
दैवादेशादापदं प्राप्य विद्वां; श्चरेन्नृशंसं न हि जातु राजा ||१६||
धर्म्यं मार्गं चेतयानो यशस्यं; कुर्यान्नृपो धर्ममवेक्षमाणः |
न मद्विधो धर्मबुद्धिः प्रजान; न्कुर्यादेवं कृपणं मां यथात्थ ||१७||
कुर्यामपूर्वं न कृतं यदन्यै; र्विवित्समानः किमु तत्र साधु |
ब्रुवाणमेवं नृपतिं ययातिं; नृपोत्तमो वसुमनाब्रवीत्तम् ||१८||