श्रीमहाभारतम्
||१ आदिपर्वम् ||
170-अध्यायः
और्व उवाच||
उक्तवानस्मि यां क्रोधात्प्रतिज्ञां पितरस्तदा |
सर्वलोकविनाशाय न सा मे वितथा भवेत् ||१||
वृथारोषप्रतिज्ञो हि नाहं जीवितुमुत्सहे |
अनिस्तीर्णो हि मां रोषो दहेदग्निरिवारणिम् ||२||
यो हि कारणतः क्रोधं सञ्जातं क्षन्तुमर्हति |
नालं स मनुजः सम्यक्त्रिवर्गं परिरक्षितुम् ||३||
अशिष्टानां नियन्ता हि शिष्टानां परिरक्षता |
स्थाने रोषः प्रयुक्तः स्यान्नृपैः स्वर्गजिगीषुभिः ||४||
अश्रौषमहमूरुस्थो गर्भशय्यागतस्तदा |
आरावं मातृवर्गस्य भृगूणां क्षत्रियैर्वधे ||५||
सामरैर्हि यदा लोकैर्भृगूणां क्षत्रियाधमैः |
आगर्भोत्सादनं क्षान्तं तदा मां मन्युराविषत् ||६||
आपूर्णकोशाः किल मे मातरः पितरस्तथा |
भयात्सर्वेषु लोकेषु नाधिजग्मुः परायणम् ||७||
तान्भृगूणां तदा दारान्कश्चिन्नाभ्यवपद्यत |
यदा तदा दधारेयमूरुणैकेन मां शुभा ||८||
प्रतिषेद्धा हि पापस्य यदा लोकेषु विद्यते |
तदा सर्वेषु लोकेषु पापकृन्नोपपद्यते ||९||
यदा तु प्रतिषेद्धारं पापो न लभते क्वचित् |
तिष्ठन्ति बहवो लोके तदा पापेषु कर्मसु ||१०||
जानन्नपि च यः पापं शक्तिमान्न नियच्छति |
ईशः सन्सोऽपि तेनैव कर्मणा सम्प्रयुज्यते ||११||
राजभिश्चेश्वरैश्चैव यदि वै पितरो मम |
शक्तैर्न शकिता त्रातुमिष्टं मत्वेह जीवितम् ||१२||
अत एषामहं क्रुद्धो लोकानामीश्वरोऽद्य सन् |
भवतां तु वचो नाहमलं समतिवर्तितुम् ||१३||
मम चापि भवेदेतदीश्वरस्य सतो महत् |
उपेक्षमाणस्य पुनर्लोकानां किल्बिषाद्भयम् ||१४||
यश्चायं मन्युजो मेऽग्निर्लोकानादातुमिच्छति |
दहेदेष च मामेव निगृहीतः स्वतेजसा ||१५||
भवतां च विजानामि सर्वलोकहितेप्सुताम् |
तस्माद्विदध्वं यच्छ्रेयो लोकानां मम चेश्वराः ||१६||
पितर ऊचुः||
य एष मन्युजस्तेऽग्निर्लोकानादातुमिच्छति |
अप्सु तं मुञ्च भद्रं ते लोका ह्यप्सु प्रतिष्ठिताः ||१७||
आपोमयाः सर्वरसाः सर्वमापोमयं जगत् |
तस्मादप्सु विमुञ्चेमं क्रोधाग्निं द्विजसत्तम ||१८||
अयं तिष्ठतु ते विप्र यदीच्छसि महोदधौ |
मन्युजोऽग्निर्दहन्नापो लोका ह्यापोमयाः स्मृताः ||१९||
एवं प्रतिज्ञा सत्येयं तवानघ भविष्यति |
न चैव सामरा लोका गमिष्यन्ति पराभवम् ||२०||
वसिष्ठ उवाच||
ततस्तं क्रोधजं तात और्वोऽग्निं वरुणालये |
उत्ससर्ज स चैवाप उपयुङ्क्ते महोदधौ ||२१||
महद्धयशिरो भूत्वा यत्तद्वेदविदो विदुः |
तमग्निमुद्गिरन्वक्त्रात्पिबत्यापो महोदधौ ||२२||
तस्मात्त्वमपि भद्रं ते न लोकान्हन्तुमर्हसि |
पराशर परान्धर्माञ्जानञ्ज्ञानवतां वर ||२३||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
171-अध्यायः
गन्धर्व उवाच||
एवमुक्तः स विप्रर्षिर्वसिष्ठेन महात्मना |
न्ययच्छदात्मनः कोपं सर्वलोकपराभवात् ||१||
ईजे च स महातेजाः सर्ववेदविदां वरः |
ऋषी राक्षससत्रेण शाक्तेयोऽथ पराशरः ||२||
ततो वृद्धांश्च बालांश्च राक्षसान्स महामुनिः |
ददाह वितते यज्ञे शक्तेर्वधमनुस्मरन् ||३||
न हि तं वारयामास वसिष्ठो रक्षसां वधात् |
द्वितीयामस्य मा भाङ्क्षं प्रतिज्ञामिति निश्चयात् ||४||
त्रयाणां पावकानां स सत्रे तस्मिन्महामुनिः |
आसीत्पुरस्ताद्दीप्तानां चतुर्थ इव पावकः ||५||
तेन यज्ञेन शुभ्रेण हूयमानेन युक्तितः |
तद्विदीपितमाकाशं सूर्येणेव घनात्यये ||६||
तं वसिष्ठादयः सर्वे मुनयस्तत्र मेनिरे |
तेजसा दिवि दीप्यन्तं द्वितीयमिव भास्करम् ||७||
ततः परमदुष्प्रापमन्यैरृषिरुदारधीः |
समापिपयिषुः सत्रं तमत्रिः समुपागमत् ||८||
तथा पुलस्त्यः पुलहः क्रतुश्चैव महाक्रतुम् |
उपाजग्मुरमित्रघ्न रक्षसां जीवितेप्सया ||९||
पुलस्त्यस्तु वधात्तेषां रक्षसां भरतर्षभ |
उवाचेदं वचः पार्थ पराशरमरिंदमम् ||१०||
कच्चित्तातापविघ्नं ते कच्चिन्नन्दसि पुत्रक |
अजानतामदोषाणां सर्वेषां रक्षसां वधात् ||११||
प्रजोच्छेदमिमं मह्यं सर्वं सोमपसत्तम |
अधर्मिष्ठं वरिष्ठः सन्कुरुषे त्वं पराशर ||१२||
राजा कल्माषपादश्च दिवमारोढुमिच्छति ||१२||
ये च शक्त्यवराः पुत्रा वसिष्ठस्य महामुनेः |
ते च सर्वे मुदा युक्ता मोदन्ते सहिताः सुरैः ||१३||
सर्वमेतद्वसिष्ठस्य विदितं वै महामुने ||१३||
रक्षसां च समुच्छेद एष तात तपस्विनाम् |
निमित्तभूतस्त्वं चात्र क्रतौ वासिष्ठनन्दन ||१४||
स सत्रं मुञ्च भद्रं ते समाप्तमिदमस्तु ते ||१४||
एवमुक्तः पुलस्त्येन वसिष्ठेन च धीमता |
तदा समापयामास सत्रं शाक्तिः पराशरः ||१५||
सर्वराक्षससत्राय सम्भृतं पावकं मुनिः |
उत्तरे हिमवत्पार्श्वे उत्ससर्ज महावने ||१६||
स तत्राद्यापि रक्षांसि वृक्षानश्मान एव च |
भक्षयन्दृश्यते वह्निः सदा पर्वणि पर्वणि ||१७||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
172-अध्यायः
अर्जुन उवाच||
राज्ञा कल्माषपादेन गुरौ ब्रह्मविदां वरे |
कारणं किं पुरस्कृत्य भार्या वै संनियोजिता ||१||
जानता च परं धर्मं लोक्यं तेन महात्मना |
अगम्यागमनं कस्माद्वसिष्ठेन महात्मना ||२||
कृतं तेन पुरा सर्वं वक्तुमर्हसि पृच्छतः ||२||
गन्धर्व उवाच||
धनञ्जय निबोधेदं यन्मां त्वं परिपृच्छसि |
वसिष्ठं प्रति दुर्धर्षं तथामित्रसहं नृपम् ||३||
कथितं ते मया पूर्वं यथा शप्तः स पार्थिवः |
शक्तिना भरतश्रेष्ठ वासिष्ठेन महात्मना ||४||
स तु शापवशं प्राप्तः क्रोधपर्याकुलेक्षणः |
निर्जगाम पुराद्राजा सहदारः परन्तपः ||५||
अरण्यं निर्जनं गत्वा सदारः परिचक्रमे |
नानामृगगणाकीर्णं नानासत्त्वसमाकुलम् ||६||
नानागुल्मलताच्छन्नं नानाद्रुमसमावृतम् |
अरण्यं घोरसंनादं शापग्रस्तः परिभ्रमन् ||७||
स कदाचित्क्षुधाविष्टो मृगयन्भक्षमात्मनः |
ददर्श सुपरिक्लिष्टः कस्मिंश्चिद्वननिर्झरे ||८||
ब्राह्मणीं ब्राह्मणं चैव मैथुनायोपसङ्गतौ ||८||
तौ समीक्ष्य तु वित्रस्तावकृतार्थौ प्रधावितौ |
तयोश्च द्रवतोर्विप्रं जगृहे नृपतिर्बलात् ||९||
दृष्ट्वा गृहीतं भर्तारमथ ब्राह्मण्यभाषत |
शृणु राजन्वचो मह्यं यत्त्वां वक्ष्यामि सुव्रत ||१०||
आदित्यवंशप्रभवस्त्वं हि लोकपरिश्रुतः |
अप्रमत्तः स्थितो धर्मे गुरुशुश्रूषणे रतः ||११||
शापं प्राप्तोऽसि दुर्धर्ष न पापं कर्तुमर्हसि |
ऋतुकाले तु सम्प्राप्ते भर्त्रास्म्यद्य समागता ||१२||
अकृतार्था ह्यहं भर्त्रा प्रसवार्थश्च मे महान् |
प्रसीद नृपतिश्रेष्ठ भर्ता मेऽयं विसृज्यताम् ||१३||
एवं विक्रोशमानायास्तस्याः स सुनृशंसकृत् |
भर्तारं भक्षयामास व्याघ्रो मृगमिवेप्सितम् ||१४||
तस्याः क्रोधाभिभूताया यदश्रु न्यपतद्भुवि |
सोऽग्निः समभवद्दीप्तस्तं च देशं व्यदीपयत् ||१५||
ततः सा शोकसन्तप्ता भर्तृव्यसनदुःखिता |
कल्माषपादं राजर्षिमशपद्ब्राह्मणी रुषा ||१६||
यस्मान्ममाकृतार्थायास्त्वया क्षुद्र नृशंसवत् |
प्रेक्षन्त्या भक्षितो मेऽद्य प्रभुर्भर्ता महायशाः ||१७||
तस्मात्त्वमपि दुर्बुद्धे मच्छापपरिविक्षतः |
पत्नीमृतावनुप्राप्य सद्यस्त्यक्ष्यसि जीवितम् ||१८||
यस्य चर्षेर्वसिष्ठस्य त्वया पुत्रा विनाशिताः |
तेन सङ्गम्य ते भार्या तनयं जनयिष्यति ||१९||
स ते वंशकरः पुत्रो भविष्यति नृपाधम ||१९||
एवं शप्त्वा तु राजानं सा तमाङ्गिरसी शुभा |
तस्यैव संनिधौ दीप्तं प्रविवेश हुताशनम् ||२०||
वसिष्ठश्च महाभागः सर्वमेतदपश्यत |
ज्ञानयोगेन महता तपसा च परन्तप ||२१||
मुक्तशापश्च राजर्षिः कालेन महता ततः |
ऋतुकालेऽभिपतितो मदयन्त्या निवारितः ||२२||
न हि सस्मार नृपतिस्तं शापं शापमोहितः |
देव्याः सोऽथ वचः श्रुत्वा स तस्या नृपसत्तमः ||२३||
तं च शापमनुस्मृत्य पर्यतप्यद्भृशं तदा ||२३||
एतस्मात्कारणाद्राजा वसिष्ठं संन्ययोजयत् |
स्वदारे भरतश्रेष्ठ शापदोषसमन्वितः ||२४||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
173-अध्यायः-द्रौपदीस्वयंवरपर्व
अर्जुन उवाच||
अस्माकमनुरूपो वै यः स्याद्गन्धर्व वेदवित् |
पुरोहितस्तमाचक्ष्व सर्वं हि विदितं तव ||१||
गन्धर्व उवाच||
यवीयान्देवलस्यैष वने भ्राता तपस्यति |
धौम्य उत्कोचके तीर्थे तं वृणुध्वं यदीच्छथ ||२||
वैशम्पायन उवाच||
ततोऽर्जुनोऽस्त्रमाग्नेयं प्रददौ तद्यथाविधि |
गन्धर्वाय तदा प्रीतो वचनं चेदमब्रवीत् ||३||
त्वय्येव तावत्तिष्ठन्तु हया गन्धर्वसत्तम |
कर्मकाले ग्रहीष्यामि स्वस्ति तेऽस्त्विति चाब्रवीत् ||४||
तेऽन्योन्यमभिसम्पूज्य गन्धर्वः पाण्डवाश्च ह |
रम्याद्भागीरथीकच्छाद्यथाकामं प्रतस्थिरे ||५||
तत उत्कोचकं तीर्थं गत्वा धौम्याश्रमं तु ते |
तं वव्रुः पाण्डवा धौम्यं पौरोहित्याय भारत ||६||
तान्धौम्यः प्रतिजग्राह सर्ववेदविदां वरः |
पाद्येन फलमूलेन पौरोहित्येन चैव ह ||७||
ते तदाशंसिरे लब्धां श्रियं राज्यं च पाण्डवाः |
तं ब्राह्मणं पुरस्कृत्य पाञ्चाल्याश्च स्वयंवरम् ||८||
मातृषष्ठास्तु ते तेन गुरुणा सङ्गतास्तदा |
नाथवन्तमिवात्मानं मेनिरे भरतर्षभाः ||९||
स हि वेदार्थतत्त्वज्ञस्तेषां गुरुरुदारधीः |
तेन धर्मविदा पार्था याज्याः सर्वविदा कृताः ||१०||
वीरांस्तु स हि तान्मेने प्राप्तराज्यान्स्वधर्मतः |
बुद्धिवीर्यबलोत्साहैर्युक्तान्देवानिवापरान् ||११||
कृतस्वस्त्ययनास्तेन ततस्ते मनुजाधिपाः |
मेनिरे सहिता गन्तुं पाञ्चाल्यास्तं स्वयंवरम् ||१२||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
174-अध्यायः
वैशम्पायन उवाच||
ततस्ते नरशार्दूला भ्रातरः पञ्च पाण्डवाः |
प्रययुर्द्रौपदीं द्रष्टुं तं च देवमहोत्सवम् ||१||
ते प्रयाता नरव्याघ्रा मात्रा सह परन्तपाः |
ब्राह्मणान्ददृशुर्मार्गे गच्छतः सगणान्बहून् ||२||
तानूचुर्ब्राह्मणा राजन्पाण्डवान्ब्रह्मचारिणः |
क्व भवन्तो गमिष्यन्ति कुतो वागच्छतेति ह ||३||
युधिष्ठिर उवाच||
आगतानेकचक्रायाः सोदर्यान्देवदर्शिनः |
भवन्तो हि विजानन्तु सहितान्मातृचारिणः ||४||
ब्राह्मणा ऊचुः||
गच्छताद्यैव पाञ्चालान्द्रुपदस्य निवेशनम् |
स्वयंवरो महांस्तत्र भविता सुमहाधनः ||५||
एकसार्थं प्रयाताः स्मो वयमप्यत्र गामिनः |
तत्र ह्यद्भुतसङ्काशो भविता सुमहोत्सवः ||६||
यज्ञसेनस्य दुहिता द्रुपदस्य महात्मनः |
वेदीमध्यात्समुत्पन्ना पद्मपत्रनिभेक्षणा ||७||
दर्शनीयानवद्याङ्गी सुकुमारी मनस्विनी |
धृष्टद्युम्नस्य भगिनी द्रोणशत्रोः प्रतापिनः ||८||
यो जातः कवची खड्गी सशरः सशरासनः |
सुसमिद्धे महाबाहुः पावके पावकप्रभः ||९||
स्वसा तस्यानवद्याङ्गी द्रौपदी तनुमध्यमा |
नीलोत्पलसमो गन्धो यस्याः क्रोशात्प्रवायति ||१०||
तां यज्ञसेनस्य सुतां स्वयंवरकृतक्षणाम् |
गच्छामहे वयं द्रष्टुं तं च देवमहोत्सवम् ||११||
राजानो राजपुत्राश्च यज्वानो भूरिदक्षिणाः |
स्वाध्यायवन्तः शुचयो महात्मानो यतव्रताः ||१२||
तरुणा दर्शनीयाश्च नानादेशसमागताः |
महारथाः कृतास्त्राश्च समुपैष्यन्ति भूमिपाः ||१३||
ते तत्र विविधान्दायान्विजयार्थं नरेश्वराः |
प्रदास्यन्ति धनं गाश्च भक्ष्यं भोज्यं च सर्वशः ||१४||
प्रतिगृह्य च तत्सर्वं दृष्ट्वा चैव स्वयंवरम् |
अनुभूयोत्सवं चैव गमिष्यामो यथेप्सितम् ||१५||
नटा वैतालिकाश्चैव नर्तकाः सूतमागधाः |
नियोधकाश्च देशेभ्यः समेष्यन्ति महाबलाः ||१६||
एवं कौतूहलं कृत्वा दृष्ट्वा च प्रतिगृह्य च |
सहास्माभिर्महात्मानः पुनः प्रतिनिवर्त्स्यथ ||१७||
दर्शनीयांश्च वः सर्वान्देवरूपानवस्थितान् |
समीक्ष्य कृष्णा वरयेत्सङ्गत्यान्यतमं वरम् ||१८||
अयं भ्राता तव श्रीमान्दर्शनीयो महाभुजः |
नियुध्यमानो विजयेत्सङ्गत्या द्रविणं बहु ||१९||
युधिष्ठिर उवाच||
परमं भो गमिष्यामो द्रष्टुं देवमहोत्सवम् |
भवद्भिः सहिताः सर्वे कन्यायास्तं स्वयंवरम् ||२०||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
175-अध्यायः
वैशम्पायन उवाच||
एवमुक्ताः प्रयातास्ते पाण्डवा जनमेजय |
राज्ञा दक्षिणपाञ्चालान्द्रुपदेनाभिरक्षितान् ||१||
ततस्ते तं महात्मानं शुद्धात्मानमकल्मषम् |
ददृशुः पाण्डवा राजन्पथि द्वैपायनं तदा ||२||
तस्मै यथावत्सत्कारं कृत्वा तेन च सान्त्विताः |
कथान्ते चाभ्यनुज्ञाताः प्रययुर्द्रुपदक्षयम् ||३||
पश्यन्तो रमणीयानि वनानि च सरांसि च |
तत्र तत्र वसन्तश्च शनैर्जग्मुर्महारथाः ||४||
स्वाध्यायवन्तः शुचयो मधुराः प्रियवादिनः |
आनुपूर्व्येण सम्प्राप्ताः पाञ्चालान्कुरुनन्दनाः ||५||
ते तु दृष्ट्वा पुरं तच्च स्कन्धावारं च पाण्डवाः |
कुम्भकारस्य शालायां निवेशं चक्रिरे तदा ||६||
तत्र भैक्षं समाजह्रुर्ब्राह्मीं वृत्तिं समाश्रिताः |
तांश्च प्राप्तांस्तदा वीराञ्जज्ञिरे न नराः क्वचित् ||७||
यज्ञसेनस्य कामस्तु पाण्डवाय किरीटिने |
कृष्णां दद्यामिति सदा न चैतद्विवृणोति सः ||८||
सोऽन्वेषमाणः कौन्तेयान्पाञ्चाल्यो जनमेजय |
दृढं धनुरनायम्यं कारयामास भारत ||९||
यन्त्रं वैहायसं चापि कारयामास कृत्रिमम् |
तेन यन्त्रेण सहितं राजा लक्ष्यं च काञ्चनम् ||१०||
द्रुपद उवाच||
इदं सज्यं धनुः कृत्वा सज्येनानेन सायकैः |
अतीत्य लक्ष्यं यो वेद्धा स लब्धा मत्सुतामिति ||११||
वैशम्पायन उवाच||
इति स द्रुपदो राजा सर्वतः समघोषयत् |
तच्छ्रुत्वा पार्थिवाः सर्वे समीयुस्तत्र भारत ||१२||
ऋषयश्च महात्मानः स्वयंवरदिदृक्षया |
दुर्योधनपुरोगाश्च सकर्णाः कुरवो नृप ||१३||
ब्राह्मणाश्च महाभागा देशेभ्यः समुपागमन् |
तेऽभ्यर्चिता राजगणा द्रुपदेन महात्मना ||१४||
ततः पौरजनाः सर्वे सागरोद्धूतनिःस्वनाः |
शिशुमारपुरं प्राप्य न्यविशंस्ते च पार्थिवाः ||१५||
प्रागुत्तरेण नगराद्भूमिभागे समे शुभे |
समाजवाटः शुशुभे भवनैः सर्वतो वृतः ||१६||
प्राकारपरिखोपेतो द्वारतोरणमण्डितः |
वितानेन विचित्रेण सर्वतः समवस्तृतः ||१७||
तूर्यौघशतसङ्कीर्णः परार्ध्यागुरुधूपितः |
चन्दनोदकसिक्तश्च माल्यदामैश्च शोभितः ||१८||
कैलासशिखरप्रख्यैर्नभस्तलविलेखिभिः |
सर्वतः संवृतैर्नद्धः प्रासादैः सुकृतोच्छ्रितैः ||१९||
सुवर्णजालसंवीतैर्मणिकुट्टिमभूषितैः |
सुखारोहणसोपानैर्महासनपरिच्छदैः ||२०||
अग्राम्यसमवच्छन्नैरगुरूत्तमवासितैः |
हंसाच्छवर्णैर्बहुभिरायोजनसुगन्धिभिः ||२१||
असम्बाधशतद्वारैः शयनासनशोभितैः |
बहुधातुपिनद्धाङ्गैर्हिमवच्छिखरैरिव ||२२||
तत्र नानाप्रकारेषु विमानेषु स्वलङ्कृताः |
स्पर्धमानास्तदान्योन्यं निषेदुः सर्वपार्थिवाः ||२३||
तत्रोपविष्टान्ददृशुर्महासत्त्वपराक्रमान् |
राजसिंहान्महाभागान्कृष्णागुरुविभूषितान् ||२४||
महाप्रसादान्ब्रह्मण्यान्स्वराष्ट्रपरिरक्षिणः |
प्रियान्सर्वस्य लोकस्य सुकृतैः कर्मभिः शुभैः ||२५||
मञ्चेषु च परार्ध्येषु पौरजानपदा जनाः |
कृष्णादर्शनतुष्ट्यर्थं सर्वतः समुपाविशन् ||२६||
ब्राह्मणैस्ते च सहिताः पाण्डवाः समुपाविशन् |
ऋद्धिं पाञ्चालराजस्य पश्यन्तस्तामनुत्तमाम् ||२७||
ततः समाजो ववृधे स राजन्दिवसान्बहून् |
रत्नप्रदानबहुलः शोभितो नटनर्तकैः ||२८||
वर्तमाने समाजे तु रमणीयेऽह्नि षोडशे |
आप्लुताङ्गी सुवसना सर्वाभरणभूषिता ||२९||
वीरकांस्यमुपादाय काञ्चनं समलङ्कृतम् |
अवतीर्णा ततो रङ्गं द्रौपदी भरतर्षभ ||३०||
पुरोहितः सोमकानां मन्त्रविद्ब्राह्मणः शुचिः |
परिस्तीर्य जुहावाग्निमाज्येन विधिना तदा ||३१||
स तर्पयित्वा ज्वलनं ब्राह्मणान्स्वस्ति वाच्य च |
वारयामास सर्वाणि वादित्राणि समन्ततः ||३२||
निःशब्दे तु कृते तस्मिन्धृष्टद्युम्नो विशां पते |
रङ्गमध्यगतस्तत्र मेघगम्भीरया गिरा ||३३||
वाक्यमुच्चैर्जगादेदं श्लक्ष्णमर्थवदुत्तमम् ||३३||
इदं धनुर्लक्ष्यमिमे च बाणाः; शृण्वन्तु मे पार्थिवाः सर्व एव |
यन्त्रच्छिद्रेणाभ्यतिक्रम्य लक्ष्यं; समर्पयध्वं खगमैर्दशार्धैः ||३४||
एतत्कर्ता कर्म सुदुष्करं यः; कुलेन रूपेण बलेन युक्तः |
तस्याद्य भार्या भगिनी ममेयं; कृष्णा भवित्री न मृषा ब्रवीमि ||३५||
तानेवमुक्त्वा द्रुपदस्य पुत्रः; पश्चादिदं द्रौपदीमभ्युवाच |
नाम्ना च गोत्रेण च कर्मणा च; सङ्कीर्तयंस्तान्नृपतीन्समेतान् ||३६||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
176-अध्यायः
धृष्टद्युम्न उवाच||
दुर्योधनो दुर्विषहो दुर्मुखो दुष्प्रधर्षणः |
विविंशतिर्विकर्णश्च सहो दुःशासनः समः ||१||
युयुत्सुर्वातवेगश्च भीमवेगधरस्तथा |
उग्रायुधो बलाकी च कनकायुर्विरोचनः ||२||
सुकुण्डलश्चित्रसेनः सुवर्चाः कनकध्वजः |
नन्दको बाहुशाली च कुण्डजो विकटस्तथा ||३||
एते चान्ये च बहवो धार्तराष्ट्रा महाबलाः |
कर्णेन सहिता वीरास्त्वदर्थं समुपागताः ||४||
शतसङ्ख्या महात्मानः प्रथिताः क्षत्रियर्षभाः ||४||
शकुनिश्च बलश्चैव वृषकोऽथ बृहद्बलः |
एते गान्धारराजस्य सुताः सर्वे समागताः ||५||
अश्वत्थामा च भोजश्च सर्वशस्त्रभृतां वरौ |
समवेतौ महात्मानौ त्वदर्थे समलङ्कृतौ ||६||
बृहन्तो मणिमांश्चैव दण्डधारश्च वीर्यवान् |
सहदेवो जयत्सेनो मेघसन्धिश्च मागधः ||७||
विराटः सह पुत्राभ्यां शङ्खेनैवोत्तरेण च |
वार्धक्षेमिः सुवर्चाश्च सेनाबिन्दुश्च पार्थिवः ||८||
अभिभूः सह पुत्रेण सुदाम्ना च सुवर्चसा |
सुमित्रः सुकुमारश्च वृकः सत्यधृतिस्तथा ||९||
सूर्यध्वजो रोचमानो नीलश्चित्रायुधस्तथा |
अंशुमांश्चेकितानश्च श्रेणिमांश्च महाबलः ||१०||
समुद्रसेनपुत्रश्च चन्द्रसेनः प्रतापवान् |
जलसन्धः पितापुत्रौ सुदण्डो दण्ड एव च ||११||
पौण्ड्रको वासुदेवश्च भगदत्तश्च वीर्यवान् |
कलिङ्गस्ताम्रलिप्तश्च पत्तनाधिपतिस्तथा ||१२||
मद्रराजस्तथा शल्यः सहपुत्रो महारथः |
रुक्माङ्गदेन वीरेण तथा रुक्मरथेन च ||१३||
कौरव्यः सोमदत्तश्च पुत्राश्चास्य महारथाः |
समवेतास्त्रयः शूरा भूरिर्भूरिश्रवाः शलः ||१४||
सुदक्षिणश्च काम्बोजो दृढधन्वा च कौरवः |
बृहद्बलः सुषेणश्च शिबिरौशीनरस्तथा ||१५||
सङ्कर्षणो वासुदेवो रौक्मिणेयश्च वीर्यवान् |
साम्बश्च चारुदेष्णश्च सारणोऽथ गदस्तथा ||१६||
अक्रूरः सात्यकिश्चैव उद्धवश्च महाबलः |
कृतवर्मा च हार्दिक्यः पृथुर्विपृथुरेव च ||१७||
विडूरथश्च कङ्कश्च समीकः सारमेजयः |
वीरो वातपतिश्चैव झिल्ली पिण्डारकस्तथा ||१८||
उशीनरश्च विक्रान्तो वृष्णयस्ते प्रकीर्तिताः ||१८||
भगीरथो बृहत्क्षत्रः सैन्धवश्च जयद्रथः |
बृहद्रथो बाह्लिकश्च श्रुतायुश्च महारथः ||१९||
उलूकः कैतवो राजा चित्राङ्गदशुभाङ्गदौ |
वत्सराजश्च धृतिमान्कोसलाधिपतिस्तथा ||२०||
एते चान्ये च बहवो नानाजनपदेश्वराः |
त्वदर्थमागता भद्रे क्षत्रियाः प्रथिता भुवि ||२१||
एते वेत्स्यन्ति विक्रान्तास्त्वदर्थं लक्ष्यमुत्तमम् |
विध्येत य इमं लक्ष्यं वरयेथाः शुभेऽद्य तम् ||२२||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
177-अध्यायः
वैशम्पायन उवाच||
तेऽलङ्कृताः कुण्डलिनो युवानः; परस्परं स्पर्धमानाः समेताः |
अस्त्रं बलं चात्मनि मन्यमानाः; सर्वे समुत्पेतुरहङ्कृतेन ||१||
रूपेण वीर्येण कुलेन चैव; धर्मेण चैवापि च यौवनेन |
समृद्धदर्पा मदवेगभिन्ना; मत्ता यथा हैमवता गजेन्द्राः ||२||
परस्परं स्पर्धया प्रेक्षमाणाः; सङ्कल्पजेनापि परिप्लुताङ्गाः |
कृष्णा ममैषेत्यभिभाषमाणा; नृपासनेभ्यः सहसोपतस्थुः ||३||
ते क्षत्रिया रङ्गगताः समेता; जिगीषमाणा द्रुपदात्मजां ताम् |
चकाशिरे पर्वतराजकन्या; मुमां यथा देवगणाः समेताः ||४||
कन्दर्पबाणाभिनिपीडिताङ्गाः; कृष्णागतैस्ते हृदयैर्नरेन्द्राः |
रङ्गावतीर्णा द्रुपदात्मजार्थं; द्वेष्यान्हि चक्रुः सुहृदोऽपि तत्र ||५||
अथाययुर्देवगणा विमानै; रुद्रादित्या वसवोऽथाश्विनौ च |
साध्याश्च सर्वे मरुतस्तथैव; यमं पुरस्कृत्य धनेश्वरं च ||६||
दैत्याः सुपर्णाश्च महोरगाश्च; देवर्षयो गुह्यकाश्चारणाश्च |
विश्वावसुर्नारदपर्वतौ च; गन्धर्वमुख्याश्च सहाप्सरोभिः ||७||
हलायुधस्तत्र च केशवश्च; वृष्ण्यन्धकाश्चैव यथा प्रधानाः |
प्रेक्षां स्म चक्रुर्यदुपुङ्गवास्ते; स्थिताश्च कृष्णस्य मते बभूवुः ||८||
दृष्ट्वा हि तान्मत्तगजेन्द्ररूपा; न्पञ्चाभिपद्मानिव वारणेन्द्रान् |
भस्मावृताङ्गानिव हव्यवाहा; न्पार्थान्प्रदध्यौ स यदुप्रवीरः ||९||
शशंस रामाय युधिष्ठिरं च; भीमं च जिष्णुं च यमौ च वीरौ |
शनैः शनैस्तांश्च निरीक्ष्य रामो; जनार्दनं प्रीतमना ददर्श ||१०||
अन्ये तु नानानृपपुत्रपौत्राः; कृष्णागतैर्नेत्रमनःस्वभावैः |
व्यायच्छमाना ददृशुर्भ्रमन्तीं; संदष्टदन्तच्छदताम्रवक्त्राः ||११||
तथैव पार्थाः पृथुबाहवस्ते; वीरौ यमौ चैव महानुभावौ |
तां द्रौपदीं प्रेक्ष्य तदा स्म सर्वे; कन्दर्पबाणाभिहता बभूवुः ||१२||
देवर्षिगन्धर्वसमाकुलं त; त्सुपर्णनागासुरसिद्धजुष्टम् |
दिव्येन गन्धेन समाकुलं च; दिव्यैश्च माल्यैरवकीर्यमाणम् ||१३||
महास्वनैर्दुन्दुभिनादितैश्च; बभूव तत्सङ्कुलमन्तरिक्षम् |
विमानसम्बाधमभूत्समन्ता; त्सवेणुवीणापणवानुनादम् ||१४||
ततस्तु ते राजगणाः क्रमेण; कृष्णानिमित्तं नृप विक्रमन्तः |
तत्कार्मुकं संहननोपपन्नं; सज्यं न शेकुस्तरसापि कर्तुम् ||१५||
ते विक्रमन्तः स्फुरता दृढेन; निष्कृष्यमाणा धनुषा नरेन्द्राः |
विचेष्टमाना धरणीतलस्था; दीना अदृश्यन्त विभग्नचित्ताः ||१६||
हाहाकृतं तद्धनुषा दृढेन; निष्पिष्टभग्नाङ्गदकुण्डलं च |
कृष्णानिमित्तं विनिवृत्तभावं; राज्ञां तदा मण्डलमार्तमासीत् ||१७||
तस्मिंस्तु सम्भ्रान्तजने समाजे; निक्षिप्तवादेषु नराधिपेषु |
कुन्तीसुतो जिष्णुरियेष कर्तुं; सज्यं धनुस्तत्सशरं स वीरः ||१८||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
178-अध्यायः
वैशम्पायन उवाच||
यदा निवृत्ता राजानो धनुषः सज्यकर्मणि |
अथोदतिष्ठद्विप्राणां मध्याज्जिष्णुरुदारधीः ||१||
उदक्रोशन्विप्रमुख्या विधुन्वन्तोऽजिनानि च |
दृष्ट्वा सम्प्रस्थितं पार्थमिन्द्रकेतुसमप्रभम् ||२||
केचिदासन्विमनसः केचिदासन्मुदा युताः |
आहुः परस्परं केचिन्निपुणा बुद्धिजीविनः ||३||
यत्कर्णशल्यप्रमुखैः पार्थिवैर्लोकविश्रुतैः |
नानतं बलवद्भिर्हि धनुर्वेदपरायणैः ||४||
तत्कथं त्वकृतास्त्रेण प्राणतो दुर्बलीयसा |
बटुमात्रेण शक्यं हि सज्यं कर्तुं धनुर्द्विजाः ||५||
अवहास्या भविष्यन्ति ब्राह्मणाः सर्वराजसु |
कर्मण्यस्मिन्नसंसिद्धे चापलादपरीक्षिते ||६||
यद्येष दर्पाद्धर्षाद्वा यदि वा ब्रह्मचापलात् |
प्रस्थितो धनुरायन्तुं वार्यतां साधु मा गमत् ||७||
नावहास्या भविष्यामो न च लाघवमास्थिताः |
न च विद्विष्टतां लोके गमिष्यामो महीक्षिताम् ||८||
केचिदाहुर्युवा श्रीमान्नागराजकरोपमः |
पीनस्कन्धोरुबाहुश्च धैर्येण हिमवानिव ||९||
सम्भाव्यमस्मिन्कर्मेदमुत्साहाच्चानुमीयते |
शक्तिरस्य महोत्साहा न ह्यशक्तः स्वयं व्रजेत् ||१०||
न च तद्विद्यते किञ्चित्कर्म लोकेषु यद्भवेत् |
ब्राह्मणानामसाध्यं च त्रिषु संस्थानचारिषु ||११||
अब्भक्षा वायुभक्षाश्च फलाहारा दृढव्रताः |
दुर्बला हि बलीयांसो विप्रा हि ब्रह्मतेजसा ||१२||
ब्राह्मणो नावमन्तव्यः सद्वासद्वा समाचरन् |
सुखं दुःखं महद्ध्रस्वं कर्म यत्समुपागतम् ||१३||
एवं तेषां विलपतां विप्राणां विविधा गिरः |
अर्जुनो धनुषोऽभ्याशे तस्थौ गिरिरिवाचलः ||१४||
स तद्धनुः परिक्रम्य प्रदक्षिणमथाकरोत् |
प्रणम्य शिरसा हृष्टो जगृहे च परन्तपः ||१५||
सज्यं च चक्रे निमिषान्तरेण; शरांश्च जग्राह दशार्धसङ्ख्यान् |
विव्याध लक्ष्यं निपपात तच्च; छिद्रेण भूमौ सहसातिविद्धम् ||१६||
ततोऽन्तरिक्षे च बभूव नादः; समाजमध्ये च महान्निनादः |
पुष्पाणि दिव्यानि ववर्ष देवः; पार्थस्य मूर्ध्नि द्विषतां निहन्तुः ||१७||
चेलावेधांस्ततश्चक्रुर्हाहाकारांश्च सर्वशः |
न्यपतंश्चात्र नभसः समन्तात्पुष्पवृष्टयः ||१८||
शताङ्गानि च तूर्याणि वादकाश्चाप्यवादयन् |
सूतमागधसङ्घाश्च अस्तुवंस्तत्र सुस्वनाः ||१९||
तं दृष्ट्वा द्रुपदः प्रीतो बभूवारिनिषूदनः |
सहसैन्यश्च पार्थस्य साहाय्यार्थमियेष सः ||२०||
तस्मिंस्तु शब्दे महति प्रवृत्ते; युधिष्ठिरो धर्मभृतां वरिष्ठः |
आवासमेवोपजगाम शीघ्रं; सार्धं यमाभ्यां पुरुषोत्तमाभ्याम् ||२१||
विद्धं तु लक्ष्यं प्रसमीक्ष्य कृष्णा; पार्थं च शक्रप्रतिमं निरीक्ष्य |
आदाय शुक्लं वरमाल्यदाम; जगाम कुन्तीसुतमुत्स्मयन्ती ||२२||
स तामुपादाय विजित्य रङ्गे; द्विजातिभिस्तैरभिपूज्यमानः |
रङ्गान्निरक्रामदचिन्त्यकर्मा; पत्न्या तया चाप्यनुगम्यमानः ||२३||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
179-अध्यायः
वैशम्पायन उवाच||
तस्मै दित्सति कन्यां तु ब्राह्मणाय महात्मने |
कोप आसीन्महीपानामालोक्यान्योन्यमन्तिकात् ||१||
अस्मानयमतिक्रम्य तृणीकृत्य च सङ्गतान् |
दातुमिच्छति विप्राय द्रौपदीं योषितां वराम् ||२||
निहन्मैनं दुरात्मानं योऽयमस्मान्न मन्यते |
न ह्यर्हत्येष सत्कारं नापि वृद्धक्रमं गुणैः ||३||
हन्मैनं सह पुत्रेण दुराचारं नृपद्विषम् |
अयं हि सर्वानाहूय सत्कृत्य च नराधिपान् ||४||
गुणवद्भोजयित्वा च ततः पश्चाद्विनिन्दति ||४||
अस्मिन्राजसमावाये देवानामिव संनये |
किमयं सदृशं कञ्चिन्नृपतिं नैव दृष्टवान् ||५||
न च विप्रेष्वधीकारो विद्यते वरणं प्रति |
स्वयंवरः क्षत्रियाणामितीयं प्रथिता श्रुतिः ||६||
अथ वा यदि कन्येयं नेह कञ्चिद्बुभूषति |
अग्नावेनां परिक्षिप्य याम राष्ट्राणि पार्थिवाः ||७||
ब्राह्मणो यदि वा बाल्याल्लोभाद्वा कृतवानिदम् |
विप्रियं पार्थिवेन्द्राणां नैष वध्यः कथञ्चन ||८||
ब्राह्मणार्थं हि नो राज्यं जीवितं च वसूनि च |
पुत्रपौत्रं च यच्चान्यदस्माकं विद्यते धनम् ||९||
अवमानभयादेतत्स्वधर्मस्य च रक्षणात् |
स्वयंवराणां चान्येषां मा भूदेवंविधा गतिः ||१०||
इत्युक्त्वा राजशार्दूला हृष्टाः परिघबाहवः |
द्रुपदं सञ्जिघृक्षन्तः सायुधाः समुपाद्रवन् ||११||
तान्गृहीतशरावापान्क्रुद्धानापततो नृपान् |
द्रुपदो वीक्ष्य सन्त्रासाद्ब्राह्मणाञ्शरणं गतः ||१२||
वेगेनापततस्तांस्तु प्रभिन्नानिव वारणान् |
पाण्डुपुत्रौ महावीर्यौ प्रतीयतुररिंदमौ ||१३||
ततः समुत्पेतुरुदायुधास्ते; महीक्षितो बद्धतलाङ्गुलित्राः |
जिघांसमानाः कुरुराजपुत्रा; वमर्षयन्तोऽर्जुनभीमसेनौ ||१४||
ततस्तु भीमोऽद्भुतवीर्यकर्मा; महाबलो वज्रसमानवीर्यः |
उत्पाट्य दोर्भ्यां द्रुममेकवीरो; निष्पत्रयामास यथा गजेन्द्रः ||१५||
तं वृक्षमादाय रिपुप्रमाथी; दण्डीव दण्डं पितृराज उग्रम् |
तस्थौ समीपे पुरुषर्षभस्य; पार्थस्य पार्थः पृथुदीर्घबाहुः ||१६||
तत्प्रेक्ष्य कर्मातिमनुष्यबुद्धे; र्जिष्णोः सहभ्रातुरचिन्त्यकर्मा |
दामोदरो भ्रातरमुग्रवीर्यं; हलायुधं वाक्यमिदं बभाषे ||१७||
य एष मत्तर्षभतुल्यगामी; महद्धनुः कर्षति तालमात्रम् |
एषोऽर्जुनो नात्र विचार्यमस्ति; यद्यस्मि सङ्कर्षण वासुदेवः ||१८||
य एष वृक्षं तरसावरुज्य; राज्ञां विकारे सहसा निवृत्तः |
वृकोदरो नान्य इहैतदद्य; कर्तुं समर्थो भुवि मर्त्यधर्मा ||१९||
योऽसौ पुरस्तात्कमलायताक्ष; स्तनुर्महासिंहगतिर्विनीतः |
गौरः प्रलम्बोज्ज्वलचारुघोणो; विनिःसृतः सोऽच्युत धर्मराजः ||२०||
यौ तौ कुमाराविव कार्त्तिकेयौ; द्वावश्विनेयाविति मे प्रतर्कः |
मुक्ता हि तस्माज्जतुवेश्मदाहा; न्मया श्रुताः पाण्डुसुताः पृथा च ||२१||
तमब्रवीन्निर्मलतोयदाभो; हलायुधोऽनन्तरजं प्रतीतः |
प्रीतोऽस्मि दिष्ट्या हि पितृष्वसा नः; पृथा विमुक्ता सह कौरवाग्र्यैः ||२२||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
180-अध्यायः
वैशम्पायन उवाच||
अजिनानि विधुन्वन्तः करकांश्च द्विजर्षभाः |
ऊचुस्तं भीर्न कर्तव्या वयं योत्स्यामहे परान् ||१||
तानेवं वदतो विप्रानर्जुनः प्रहसन्निव |
उवाच प्रेक्षका भूत्वा यूयं तिष्ठत पार्श्वतः ||२||
अहमेनानजिह्माग्रैः शतशो विकिरञ्शरैः |
वारयिष्यामि सङ्क्रुद्धान्मन्त्रैराशीविषानिव ||३||
इति तद्धनुरादाय शुल्कावाप्तं महारथः |
भ्रात्रा भीमेन सहितस्तस्थौ गिरिरिवाचलः ||४||
ततः कर्णमुखान्क्रुद्धान्क्षत्रियांस्तान्रुषोत्थितान् |
सम्पेततुरभीतौ तौ गजौ प्रतिगजानिव ||५||
ऊचुश्च वाचः परुषास्ते राजानो जिघांसवः |
आहवे हि द्विजस्यापि वधो दृष्टो युयुत्सतः ||६||
ततो वैकर्तनः कर्णो जगामार्जुनमोजसा |
युद्धार्थी वाशिताहेतोर्गजः प्रतिगजं यथा ||७||
भीमसेनं ययौ शल्यो मद्राणामीश्वरो बली |
दुर्योधनादयस्त्वन्ये ब्राह्मणैः सह सङ्गताः ||८||
मृदुपूर्वमयत्नेन प्रत्ययुध्यंस्तदाहवे ||८||
ततोऽर्जुनः प्रत्यविध्यदापतन्तं त्रिभिः शरैः |
कर्णं वैकर्तनं धीमान्विकृष्य बलवद्धनुः ||९||
तेषां शराणां वेगेन शितानां तिग्मतेजसाम् |
विमुह्यमानो राधेयो यत्नात्तमनुधावति ||१०||
तावुभावप्यनिर्देश्यौ लाघवाज्जयतां वरौ |
अयुध्येतां सुसंरब्धावन्योन्यविजयैषिणौ ||११||
कृते प्रतिकृतं पश्य पश्य बाहुबलं च मे |
इति शूरार्थवचनैराभाषेतां परस्परम् ||१२||
ततोऽर्जुनस्य भुजयोर्वीर्यमप्रतिमं भुवि |
ज्ञात्वा वैकर्तनः कर्णः संरब्धः समयोधयत् ||१३||
अर्जुनेन प्रयुक्तांस्तान्बाणान्वेगवतस्तदा |
प्रतिहत्य ननादोच्चैः सैन्यास्तमभिपूजयन् ||१४||
कर्ण उवाच||
तुष्यामि ते विप्रमुख्य भुजवीर्यस्य संयुगे |
अविषादस्य चैवास्य शस्त्रास्त्रविनयस्य च ||१५||
किं त्वं साक्षाद्धनुर्वेदो रामो वा विप्रसत्तम |
अथ साक्षाद्धरिहयः साक्षाद्वा विष्णुरच्युतः ||१६||
आत्मप्रच्छादनार्थं वै बाहुवीर्यमुपाश्रितः |
विप्ररूपं विधायेदं ततो मां प्रतियुध्यसे ||१७||
न हि मामाहवे क्रुद्धमन्यः साक्षाच्छचीपतेः |
पुमान्योधयितुं शक्तः पाण्डवाद्वा किरीटिनः ||१८||
वैशम्पायन उवाच||
तमेवंवादिनं तत्र फल्गुनः प्रत्यभाषत |
नास्मि कर्ण धनुर्वेदो नास्मि रामः प्रतापवान् ||१९||
ब्राह्मणोऽस्मि युधां श्रेष्ठः सर्वशस्त्रभृतां वरः ||१९||
ब्राह्मे पौरंदरे चास्त्रे निष्ठितो गुरुशासनात् |
स्थितोऽस्म्यद्य रणे जेतुं त्वां वीराविचलो भव ||२०||
एवमुक्तस्तु राधेयो युद्धात्कर्णो न्यवर्तत |
ब्रह्मं तेजस्तदाजय्यं मन्यमानो महारथः ||२१||
युद्धं तूपेयतुस्तत्र राजञ्शल्यवृकोदरौ |
बलिनौ युगपन्मत्तौ स्पर्धया च बलेन च ||२२||
अन्योन्यमाह्वयन्तौ तौ मत्ताविव महागजौ |
मुष्टिभिर्जानुभिश्चैव निघ्नन्तावितरेतरम् ||२३||
मुहूर्तं तौ तथान्योन्यं समरे पर्यकर्षताम् ||२३||
ततो भीमः समुत्क्षिप्य बाहुभ्यां शल्यमाहवे |
न्यवधीद्बलिनां श्रेष्ठो जहसुर्ब्राह्मणास्ततः ||२४||
तत्राश्चर्यं भीमसेनश्चकार पुरुषर्षभः |
यच्छल्यं पतितं भूमौ नाहनद्बलिनं बली ||२५||
पातिते भीमसेनेन शल्ये कर्णे च शङ्किते |
शङ्किताः सर्वराजानः परिवव्रुर्वृकोदरम् ||२६||
ऊचुश्च सहितास्तत्र साध्विमे ब्राह्मणर्षभाः |
विज्ञायन्तां क्वजन्मानः क्वनिवासास्तथैव च ||२७||
को हि राधासुतं कर्मं शक्तो योधयितुं रणे |
अन्यत्र रामाद्द्रोणाद्वा कृपाद्वापि शरद्वतः ||२८||
कृष्णाद्वा देवकीपुत्रात्फल्गुनाद्वा परन्तपात् |
को वा दुर्योधनं शक्तः प्रतियोधयितुं रणे ||२९||
तथैव मद्रराजानं शल्यं बलवतां वरम् |
बलदेवादृते वीरात्पाण्डवाद्वा वृकोदरात् ||३०||
क्रियतामवहारोऽस्माद्युद्धाद्ब्राह्मणसंयुतात् |
अथैनानुपलभ्येह पुनर्योत्स्यामहे वयम् ||३१||
तत्कर्म भीमस्य समीक्ष्य कृष्णः; कुन्तीसुतौ तौ परिशङ्कमानः |
निवारयामास महीपतींस्ता; न्धर्मेण लब्धेत्यनुनीय सर्वान् ||३२||
त एवं संनिवृत्तास्तु युद्धाद्युद्धविशारदाः |
यथावासं ययुः सर्वे विस्मिता राजसत्तमाः ||३३||
वृत्तो ब्रह्मोत्तरो रङ्गः पाञ्चाली ब्राह्मणैर्वृता |
इति ब्रुवन्तः प्रययुर्ये तत्रासन्समागताः ||३४||
ब्राह्मणैस्तु प्रतिच्छन्नौ रौरवाजिनवासिभिः |
कृच्छ्रेण जग्मतुस्तत्र भीमसेनधनञ्जयौ ||३५||
विमुक्तौ जनसम्बाधाच्छत्रुभिः परिविक्षतौ |
कृष्णयानुगतौ तत्र नृवीरौ तौ विरेजतुः ||३६||
तेषां माता बहुविधं विनाशं पर्यचिन्तयत् |
अनागच्छत्सु पुत्रेषु भैक्षकालेऽतिगच्छति ||३७||
धार्तराष्ट्रैर्हता न स्युर्विज्ञाय कुरुपुङ्गवाः |
मायान्वितैर्वा रक्षोभिः सुघोरैर्दृढवैरिभिः ||३८||
विपरीतं मतं जातं व्यासस्यापि महात्मनः |
इत्येवं चिन्तयामास सुतस्नेहान्विता पृथा ||३९||
महत्यथापराह्णे तु घनैः सूर्य इवावृतः |
ब्राह्मणैः प्राविशत्तत्र जिष्णुर्ब्रह्मपुरस्कृतः ||४०||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
181-अध्यायः
वैशम्पायन उवाच||
गत्वा तु तां भार्गवकर्मशालां; पार्थौ पृथां प्राप्य महानुभावौ |
तां याज्ञसेनीं परमप्रतीतौ; भिक्षेत्यथावेदयतां नराग्र्यौ ||१||
कुटीगता सा त्वनवेक्ष्य पुत्रा; नुवाच भुङ्क्तेति समेत्य सर्वे |
पश्चात्तु कुन्ती प्रसमीक्ष्य कन्यां; कष्टं मया भाषितमित्युवाच ||२||
साधर्मभीता हि विलज्जमाना; तां याज्ञसेनीं परमप्रतीताम् |
पाणौ गृहीत्वोपजगाम कुन्ती; युधिष्ठिरं वाक्यमुवाच चेदम् ||३||
इयं हि कन्या द्रुपदस्य राज्ञ; स्तवानुजाभ्यां मयि संनिसृष्टा |
यथोचितं पुत्र मयापि चोक्तं; समेत्य भुङ्क्तेति नृप प्रमादात् ||४||
कथं मया नानृतमुक्तमद्य; भवेत्कुरूणामृषभ ब्रवीहि |
पाञ्चालराजस्य सुतामधर्मो; न चोपवर्तेत नभूतपूर्वः ||५||
मुहूर्तमात्रं त्वनुचिन्त्य राजा; युधिष्ठिरो मातरमुत्तमौजाः |
कुन्तीं समाश्वास्य कुरुप्रवीरो; धनञ्जयं वाक्यमिदं बभाषे ||६||
त्वया जिता पाण्डव याज्ञसेनी; त्वया च तोषिष्यति राजपुत्री |
प्रज्वाल्यतां हूयतां चापि वह्नि; र्गृहाण पाणिं विधिवत्त्वमस्याः ||७||
अर्जुन उवाच||
मा मां नरेन्द्र त्वमधर्मभाजं; कृथा न धर्मो ह्ययमीप्सितोऽन्यैः |
भवान्निवेश्यः प्रथमं ततोऽयं; भीमो महाबाहुरचिन्त्यकर्मा ||८||
अहं ततो नकुलोऽनन्तरं मे; माद्रीसुतः सहदेवो जघन्यः |
वृकोदरोऽहं च यमौ च राज; न्नियं च कन्या भवतः स्म सर्वे ||९||
एवङ्गते यत्करणीयमत्र; धर्म्यं यशस्यं कुरु तत्प्रचिन्त्य |
पाञ्चालराजस्य च यत्प्रियं स्या; त्तद्ब्रूहि सर्वे स्म वशे स्थितास्ते ||१०||
वैशम्पायन उवाच||
ते दृष्ट्वा तत्र तिष्ठन्तीं सर्वे कृष्णां यशस्विनीम् |
सम्प्रेक्ष्यान्योन्यमासीना हृदयैस्तामधारयन् ||११||
तेषां हि द्रौपदीं दृष्ट्वा सर्वेषाममितौजसाम् |
सम्प्रमथ्येन्द्रियग्रामं प्रादुरासीन्मनोभवः ||१२||
काम्यं रूपं हि पाञ्चाल्या विधात्रा विहितं स्वयम् |
बभूवाधिकमन्याभ्यः सर्वभूतमनोहरम् ||१३||
तेषामाकारभावज्ञः कुन्तीपुत्रो युधिष्ठिरः |
द्वैपायनवचः कृत्स्नं संस्मरन्वै नरर्षभ ||१४||
अब्रवीत्स हि तान्भ्रातृन्मिथोभेदभयान्नृपः |
सर्वेषां द्रौपदी भार्या भविष्यति हि नः शुभा ||१५||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
182-अध्यायः
वैशम्पायन उवाच||
भ्रातुर्वचस्तत्प्रसमीक्ष्य सर्वे; ज्येष्ठस्य पाण्डोस्तनयास्तदानीम् |
तमेवार्थं ध्यायमाना मनोभि; रासां चक्रुरथ तत्रामितौजाः ||१||
वृष्णिप्रवीरस्तु कुरुप्रवीरा; नाशङ्कमानः सहरौहिणेयः |
जगाम तां भार्गवकर्मशालां; यत्रासते ते पुरुषप्रवीराः ||२||
तत्रोपविष्टं पृथुदीर्घबाहुं; ददर्श कृष्णः सहरौहिणेयः |
अजातशत्रुं परिवार्य तांश्च; उपोपविष्टाञ्ज्वलनप्रकाशान् ||३||
ततोऽब्रवीद्वासुदेवोऽभिगम्य; कुन्तीसुतं धर्मभृतां वरिष्ठम् |
कृष्णोऽहमस्मीति निपीड्य पादौ; युधिष्ठिरस्याजमीढस्य राज्ञः ||४||
तथैव तस्याप्यनु रौहिणेय; स्तौ चापि हृष्टाः कुरवोऽभ्यनन्दन् |
पितृष्वसुश्चापि यदुप्रवीरा; वगृह्णतां भारतमुख्य पादौ ||५||
अजातशत्रुश्च कुरुप्रवीरः; पप्रच्छ कृष्णं कुशलं निवेद्य |
कथं वयं वासुदेव त्वयेह; गूढा वसन्तो विदिताः स्म सर्वे ||६||
तमब्रवीद्वासुदेवः प्रहस्य; गूढोऽप्यग्निर्ज्ञायत एव राजन् |
तं विक्रमं पाण्डवेयानतीत्य; कोऽन्यः कर्ता विद्यते मानुषेषु ||७||
दिष्ट्या तस्मात्पावकात्सम्प्रमुक्ता; यूयं सर्वे पाण्डवाः शत्रुसाहाः |
दिष्ट्या पापो धृतराष्ट्रस्य पुत्रः; सहामात्यो न सकामोऽभविष्यत् ||८||
भद्रं वोऽस्तु निहितं यद्गुहायां; विवर्धध्वं ज्वलन इवेध्यमानः |
मा वो विद्युः पार्थिवाः केचनेह; यास्यावहे शिबिरायैव तावत् ||९||
सोऽनुज्ञातः पाण्डवेनाव्ययश्रीः; प्रायाच्छीघ्रं बलदेवेन सार्धम् ||९||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
183-अध्यायः
वैशम्पायन उवाच||
धृष्टद्युम्नस्तु पाञ्चाल्यः पृष्ठतः कुरुनन्दनौ |
अन्वगच्छत्तदा यान्तौ भार्गवस्य निवेशनम् ||१||
सोऽज्ञायमानः पुरुषानवधाय समन्ततः |
स्वयमारान्निविष्टोऽभूद्भार्गवस्य निवेशने ||२||
सायेऽथ भीमस्तु रिपुप्रमाथी; जिष्णुर्यमौ चापि महानुभावौ |
भैक्षं चरित्वा तु युधिष्ठिराय; निवेदयां चक्रुरदीनसत्त्वाः ||३||
ततस्तु कुन्ती द्रुपदात्मजां ता; मुवाच काले वचनं वदान्या |
अतोऽग्रमादाय कुरुष्व भद्रे; बलिं च विप्राय च देहि भिक्षाम् ||४||
ये चान्नमिच्छन्ति ददस्व तेभ्यः; परिश्रिता ये परितो मनुष्याः |
ततश्च शेषं प्रविभज्य शीघ्र; मर्धं चतुर्णां मम चात्मनश्च ||५||
अर्धं च भीमाय ददाहि भद्रे; य एष मत्तर्षभतुल्यरूपः |
श्यामो युवा संहननोपपन्न; एषो हि वीरो बहुभुक्सदैव ||६||
सा हृष्टरूपैव तु राजपुत्री; तस्या वचः साध्वविशङ्कमाना |
यथावदुक्तं प्रचकार साध्वी; ते चापि सर्वेऽभ्यवजह्रुरन्नम् ||७||
कुशैस्तु भूमौ शयनं चकार; माद्रीसुतः सहदेवस्तरस्वी |
यथात्मीयान्यजिनानि सर्वे; संस्तीर्य वीराः सुषुपुर्धरण्याम् ||८||
अगस्त्यशास्तामभितो दिशं तु; शिरांसि तेषां कुरुसत्तमानाम् |
कुन्ती पुरस्तात्तु बभूव तेषां; कृष्णा तिरश्चैव बभूव पत्तः ||९||
अशेत भूमौ सह पाण्डुपुत्रैः; पादोपधानेव कृता कुशेषु |
न तत्र दुःखं च बभूव तस्या; न चावमेने कुरुपुङ्गवांस्तान् ||१०||
ते तत्र शूराः कथयां बभूवुः; कथा विचित्राः पृतनाधिकाराः |
अस्त्राणि दिव्यानि रथांश्च नागा; न्खड्गान्गदाश्चापि परश्वधांश्च ||११||
तेषां कथास्ताः परिकीर्त्यमानाः; पाञ्चालराजस्य सुतस्तदानीम् |
शुश्राव कृष्णां च तथा निषण्णां; ते चापि सर्वे ददृशुर्मनुष्याः ||१२||
धृष्टद्युम्नो राजपुत्रस्तु सर्वं; वृत्तं तेषां कथितं चैव रात्रौ |
सर्वं राज्ञे द्रुपदायाखिलेन; निवेदयिष्यंस्त्वरितो जगाम ||१३||
पाञ्चालराजस्तु विषण्णरूप; स्तान्पाण्डवानप्रतिविन्दमानः |
धृष्टद्युम्नं पर्यपृच्छन्महात्मा; क्व सा गता केन नीता च कृष्णा ||१४||
कच्चिन्न शूद्रेण न हीनजेन; वैश्येन वा करदेनोपपन्ना |
कच्चित्पदं मूर्ध्नि न मे निदिग्धं; कच्चिन्माला पतिता न श्मशाने ||१५||
कच्चित्सवर्णप्रवरो मनुष्य; उद्रिक्तवर्णोऽप्युत वेह कच्चित् |
कच्चिन्न वामो मम मूर्ध्नि पादः; कृष्णाभिमर्शेन कृतोऽद्य पुत्र ||१६||
कच्चिच्च यक्ष्ये परमप्रतीतः; संयुज्य पार्थेन नरर्षभेण |
ब्रवीहि तत्त्वेन महानुभावः; कोऽसौ विजेता दुहितुर्ममाद्य ||१७||
विचित्रवीर्यस्य तु कच्चिदद्य; कुरुप्रवीरस्य धरन्ति पुत्राः |
कच्चित्तु पार्थेन यवीयसाद्य; धनुर्गृहीतं निहतं च लक्ष्यम् ||१८||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
184-अध्यायः
वैशम्पायन उवाच||
ततस्तथोक्तः परिहृष्टरूपः; पित्रे शशंसाथ स राजपुत्रः |
धृष्टद्युम्नः सोमकानां प्रबर्हो; वृत्तं यथा येन हृता च कृष्णा ||१||
योऽसौ युवा स्वायतलोहिताक्षः; कृष्णाजिनी देवसमानरूपः |
यः कार्मुकाग्र्यं कृतवानधिज्यं; लक्ष्यं च तत्पातितवान्पृथिव्याम् ||२||
असज्जमानश्च गतस्तरस्वी; वृतो द्विजाग्र्यैरभिपूज्यमानः |
चक्राम वज्रीव दितेः सुतेषु; सर्वैश्च देवैरृषिभिश्च जुष्टः ||३||
कृष्णा च गृह्याजिनमन्वयात्तं; नागं यथा नागवधूः प्रहृष्टा |
अमृष्यमाणेषु नराधिपेषु; क्रुद्धेषु तं तत्र समापतत्सु ||४||
ततोऽपरः पार्थिवराजमध्ये; प्रवृद्धमारुज्य महीप्ररोहम् |
प्रकालयन्नेव स पार्थिवौघा; न्क्रुद्धोऽन्तकः प्राणभृतो यथैव ||५||
तौ पार्थिवानां मिषतां नरेन्द्र; कृष्णामुपादाय गतौ नराग्र्यौ |
विभ्राजमानाविव चन्द्रसूर्यौ; बाह्यां पुराद्भार्गवकर्मशालाम् ||६||
तत्रोपविष्टार्चिरिवानलस्य; तेषां जनित्रीति मम प्रतर्कः |
तथाविधैरेव नरप्रवीरै; रुपोपविष्टैस्त्रिभिरग्निकल्पैः ||७||
तस्यास्ततस्तावभिवाद्य पादा; वुक्त्वा च कृष्णामभिवादयेति |
स्थितौ च तत्रैव निवेद्य कृष्णां; भैक्षप्रचाराय गता नराग्र्याः ||८||
तेषां तु भैक्षं प्रतिगृह्य कृष्णा; कृत्वा बलिं ब्राह्मणसाच्च कृत्वा |
तां चैव वृद्धां परिविष्य तांश्च; नरप्रवीरान्स्वयमप्यभुङ्क्त ||९||
सुप्तास्तु ते पार्थिव सर्व एव; कृष्णा तु तेषां चरणोपधानम् |
आसीत्पृथिव्यां शयनं च तेषां; दर्भाजिनाग्र्यास्तरणोपपन्नम् ||१०||
ते नर्दमाना इव कालमेघाः; कथा विचित्राः कथयां बभूवुः |
न वैश्यशूद्रौपयिकीः कथास्ता; न च द्विजातेः कथयन्ति वीराः ||११||
निःसंशयं क्षत्रियपुङ्गवास्ते; यथा हि युद्धं कथयन्ति राजन् |
आशा हि नो व्यक्तमियं समृद्धा; मुक्तान्हि पार्थाञ्शृणुमोऽग्निदाहात् ||१२||
यथा हि लक्ष्यं निहतं धनुश्च; सज्यं कृतं तेन तथा प्रसह्य |
यथा च भाषन्ति परस्परं ते; छन्ना ध्रुवं ते प्रचरन्ति पार्थाः ||१३||
ततः स राजा द्रुपदः प्रहृष्टः; पुरोहितं प्रेषयां तत्र चक्रे |
विद्याम युष्मानिति भाषमाणो; महात्मनः पाण्डुसुताः स्थ कच्चित् ||१४||
गृहीतवाक्यो नृपतेः पुरोधा; गत्वा प्रशंसामभिधाय तेषाम् |
वाक्यं यथावन्नृपतेः समग्र; मुवाच तान्स क्रमवित्क्रमेण ||१५||
विज्ञातुमिच्छत्यवनीश्वरो वः; पाञ्चालराजो द्रुपदो वरार्हाः |
लक्ष्यस्य वेद्धारमिमं हि दृष्ट्वा; हर्षस्य नान्तं परिपश्यते सः ||१६||
तदाचड्ढ्वं ज्ञातिकुलानुपूर्वीं; पदं शिरःसु द्विषतां कुरुध्वम् |
प्रह्लादयध्वं हृदयं ममेदं; पाञ्चालराजस्य सहानुगस्य ||१७||
पाण्डुर्हि राजा द्रुपदस्य राज्ञः; प्रियः सखा चात्मसमो बभूव |
तस्यैष कामो दुहिता ममेयं; स्नुषा यदि स्यादिति कौरवस्य ||१८||
अयं च कामो द्रुपदस्य राज्ञो; हृदि स्थितो नित्यमनिन्दिताङ्गाः |
यदर्जुनो वै पृथुदीर्घबाहु; र्धर्मेण विन्देत सुतां ममेति ||१९||
तथोक्तवाक्यं तु पुरोहितं तं; स्थितं विनीतं समुदीक्ष्य राजा |
समीपस्थं भीममिदं शशास; प्रदीयतां पाद्यमर्घ्यं तथास्मै ||२०||
मान्यः पुरोधा द्रुपदस्य राज्ञ; स्तस्मै प्रयोज्याभ्यधिकैव पूजा |
भीमस्तथा तत्कृतवान्नरेन्द्र; तां चैव पूजां प्रतिसङ्गृहीत्वा ||२१||
सुखोपविष्टं तु पुरोहितं तं; युधिष्ठिरो ब्राह्मणमित्युवाच |
पाञ्चालराजेन सुता निसृष्टा; स्वधर्मदृष्टेन यथानुकामम् ||२२||
प्रदिष्टशुल्का द्रुपदेन राज्ञा; सानेन वीरेण तथानुवृत्ता |
न तत्र वर्णेषु कृता विवक्षा; न जीवशिल्पे न कुले न गोत्रे ||२३||
कृतेन सज्येन हि कार्मुकेण; विद्धेन लक्ष्येण च संनिसृष्टा |
सेयं तथानेन महात्मनेह; कृष्णा जिता पार्थिवसङ्घमध्ये ||२४||
नैवङ्गते सौमकिरद्य राजा; सन्तापमर्हत्यसुखाय कर्तुम् |
कामश्च योऽसौ द्रुपदस्य राज्ञः; स चापि सम्पत्स्यति पार्थिवस्य ||२५||
अप्राप्यरूपां हि नरेन्द्रकन्या; मिमामहं ब्राह्मण साधु मन्ये |
न तद्धनुर्मन्दबलेन शक्यं; मौर्व्या समायोजयितुं तथा हि ||२६||
न चाकृतास्त्रेण न हीनजेन; लक्ष्यं तथा पातयितुं हि शक्यम् ||२६||
तस्मान्न तापं दुहितुर्निमित्तं; पाञ्चालराजोऽर्हति कर्तुमद्य |
न चापि तत्पातनमन्यथेह; कर्तुं विषह्यं भुवि मानवेन ||२७||
एवं ब्रुवत्येव युधिष्ठिरे तु; पाञ्चालराजस्य समीपतोऽन्यः |
तत्राजगामाशु नरो द्वितीयो; निवेदयिष्यन्निह सिद्धमन्नम् ||२८||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
185-अध्यायः
दूत उवाच||
जन्यार्थमन्नं द्रुपदेन राज्ञा; विवाहहेतोरुपसंस्कृतं च |
तदाप्नुवध्वं कृतसर्वकार्याः; कृष्णा च तत्रैव चिरं न कार्यम् ||१||
इमे रथाः काञ्चनपद्मचित्राः; सदश्वयुक्ता वसुधाधिपार्हाः |
एतान्समारुह्य परैत सर्वे; पाञ्चालराजस्य निवेशनं तत् ||२||
वैशम्पायन उवाच||
ततः प्रयाताः कुरुपुङ्गवास्ते; पुरोहितं तं प्रथमं प्रयाप्य |
आस्थाय यानानि महान्ति तानि; कुन्ती च कृष्णा च सहैव याते ||३||
श्रुत्वा तु वाक्यानि पुरोहितस्य; यान्युक्तवान्भारत धर्मराजः |
जिज्ञासयैवाथ कुरूत्तमानां; द्रव्याण्यनेकान्युपसञ्जहार ||४||
फलानि माल्यानि सुसंस्कृतानि; चर्माणि वर्माणि तथासनानि |
गाश्चैव राजन्नथ चैव रज्जू; र्द्रव्याणि चान्यानि कृषीनिमित्तम् ||५||
अन्येषु शिल्पेषु च यान्यपि स्युः; सर्वाणि कॢप्तान्यखिलेन तत्र |
क्रीडानिमित्तानि च यानि तानि; सर्वाणि तत्रोपजहार राजा ||६||
रथाश्ववर्माणि च भानुमन्ति; खड्गा महान्तोऽश्वरथाश्च चित्राः |
धनूंषि चाग्र्याणि शराश्च मुख्याः; शक्त्यृष्टयः काञ्चनभूषिताश्च ||७||
प्रासा भुशुण्ड्यश्च परश्वधाश्च; साङ्ग्रामिकं चैव तथैव सर्वम् |
शय्यासनान्युत्तमसंस्कृतानि; तथैव चासन्विविधानि तत्र ||८||
कुन्ती तु कृष्णां परिगृह्य साध्वी; मन्तःपुरं द्रुपदस्याविवेष |
स्त्रियश्च तां कौरवराजपत्नीं; प्रत्यर्चयां चक्रुरदीनसत्त्वाः ||९||
तान्सिंहविक्रान्तगतीनवेक्ष्य; महर्षभाक्षानजिनोत्तरीयान् |
गूढोत्तरांसान्भुजगेन्द्रभोग; प्रलम्बबाहून्पुरुषप्रवीरान् ||१०||
राजा च राज्ञः सचिवाश्च सर्वे; पुत्राश्च राज्ञः सुहृदस्तथैव |
प्रेष्याश्च सर्वे निखिलेन राज; न्हर्षं समापेतुरतीव तत्र ||११||
ते तत्र वीराः परमासनेषु; सपादपीठेष्वविशङ्कमानाः |
यथानुपूर्व्या विविशुर्नराग्र्या; स्तदा महार्हेषु न विस्मयन्तः ||१२||
उच्चावचं पार्थिवभोजनीयं; पात्रीषु जाम्बूनदराजतीषु |
दासाश्च दास्यश्च सुमृष्टवेषाः; भोजापकाश्चाप्युपजह्रुरन्नम् ||१३||
ते तत्र भुक्त्वा पुरुषप्रवीरा; यथानुकामं सुभृशं प्रतीताः |
उत्क्रम्य सर्वाणि वसूनि तत्र; साङ्ग्रामिकान्याविविशुर्नृवीराः ||१४||
तल्लक्षयित्वा द्रुपदस्य पुत्रो; राजा च सर्वैः सह मन्त्रिमुख्यैः |
समर्चयामासुरुपेत्य हृष्टाः; कुन्तीसुतान्पार्थिवपुत्रपौत्रान् ||१५||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
186-अध्यायः
वैशम्पायन उवाच||
तत आहूय पाञ्चाल्यो राजपुत्रं युधिष्ठिरम् |
परिग्रहेण ब्राह्मेण परिगृह्य महाद्युतिः ||१||
पर्यपृच्छददीनात्मा कुन्तीपुत्रं सुवर्चसम् |
कथं जानीम भवतः क्षत्रियान्ब्राह्मणानुत ||२||
वैश्यान्वा गुणसम्पन्नानुत वा शूद्रयोनिजान् |
मायामास्थाय वा सिद्धांश्चरतः सर्वतोदिशम् ||३||
कृष्णाहेतोरनुप्राप्तान्दिवः संदर्शनार्थिनः |
ब्रवीतु नो भवान्सत्यं संदेहो ह्यत्र नो महान् ||४||
अपि नः संशयस्यान्ते मनस्तुष्टिरिहाविशेत् |
अपि नो भागधेयानि शुभानि स्युः परन्तप ||५||
कामया ब्रूहि सत्यं त्वं सत्यं राजसु शोभते |
इष्टापूर्तेन च तथा वक्तव्यमनृतं न तु ||६||
श्रुत्वा ह्यमरसङ्काश तव वाक्यमरिंदम |
ध्रुवं विवाहकरणमास्थास्यामि विधानतः ||७||
युधिष्ठिर उवाच||
मा राजन्विमना भूस्त्वं पाञ्चाल्य प्रीतिरस्तु ते |
ईप्सितस्ते ध्रुवः कामः संवृत्तोऽयमसंशयम् ||८||
वयं हि क्षत्रिया राजन्पाण्डोः पुत्रा महात्मनः |
ज्येष्ठं मां विद्धि कौन्तेयं भीमसेनार्जुनाविमौ ||९||
याभ्यां तव सुता राजन्निर्जिता राजसंसदि ||९||
यमौ तु तत्र राजेन्द्र यत्र कृष्णा प्रतिष्ठिता |
व्येतु ते मानसं दुःखं क्षत्रियाः स्मो नरर्षभ ||१०||
पद्मिनीव सुतेयं ते ह्रदादन्यं ह्रदं गता ||१०||
इति तथ्यं महाराज सर्वमेतद्ब्रवीमि ते |
भवान्हि गुरुरस्माकं परमं च परायणम् ||११||
वैशम्पायन उवाच||
ततः स द्रुपदो राजा हर्षव्याकुललोचनः |
प्रतिवक्तुं तदा युक्तं नाशकत्तं युधिष्ठिरम् ||१२||
यत्नेन तु स तं हर्षं संनिगृह्य परन्तपः |
अनुरूपं ततो राजा प्रत्युवाच युधिष्ठिरम् ||१३||
पप्रच्छ चैनं धर्मात्मा यथा ते प्रद्रुताः पुरा |
स तस्मै सर्वमाचख्यावानुपूर्व्येण पाण्डवः ||१४||
तच्छ्रुत्वा द्रुपदो राजा कुन्तीपुत्रस्य भाषितम् |
विगर्हयामास तदा धृतराष्ट्रं जनेश्वरम् ||१५||
आश्वासयामास च तं कुन्तीपुत्रं युधिष्ठिरम् |
प्रतिजज्ञे च राज्याय द्रुपदो वदतां वरः ||१६||
ततः कुन्ती च कृष्णा च भीमसेनार्जुनावपि |
यमौ च राज्ञा संदिष्टौ विविशुर्भवनं महत् ||१७||
तत्र ते न्यवसन्राजन्यज्ञसेनेन पूजिताः |
प्रत्याश्वस्तांस्ततो राजा सह पुत्रैरुवाच तान् ||१८||
गृह्णातु विधिवत्पाणिमद्यैव कुरुनन्दनः |
पुण्येऽहनि महाबाहुरर्जुनः कुरुतां क्षणम् ||१९||
ततस्तमब्रवीद्राजा धर्मपुत्रो युधिष्ठिरः |
ममापि दारसम्बन्धः कार्यस्तावद्विशां पते ||२०||
द्रुपद उवाच||
भवान्वा विधिवत्पाणिं गृह्णातु दुहितुर्मम |
यस्य वा मन्यसे वीर तस्य कृष्णामुपादिश ||२१||
युधिष्ठिर उवाच||
सर्वेषां द्रौपदी राजन्महिषी नो भविष्यति |
एवं हि व्याहृतं पूर्वं मम मात्रा विशां पते ||२२||
अहं चाप्यनिविष्टो वै भीमसेनश्च पाण्डवः |
पार्थेन विजिता चैषा रत्नभूता च ते सुता ||२३||
एष नः समयो राजन्रत्नस्य सहभोजनम् |
न च तं हातुमिच्छामः समयं राजसत्तम ||२४||
सर्वेषां धर्मतः कृष्णा महिषी नो भविष्यति |
आनुपूर्व्येण सर्वेषां गृह्णातु ज्वलने करम् ||२५||
द्रुपद उवाच||
एकस्य बह्व्यो विहिता महिष्यः कुरुनन्दन |
नैकस्या बहवः पुंसो विधीयन्ते कदाचन ||२६||
लोकवेदविरुद्धं त्वं नाधर्मं धार्मिकः शुचिः |
कर्तुमर्हसि कौन्तेय कस्मात्ते बुद्धिरीदृशी ||२७||
युधिष्ठिर उवाच||
सूक्ष्मो धर्मो महाराज नास्य विद्मो वयं गतिम् |
पूर्वेषामानुपूर्व्येण यातं वर्त्मानुयामहे ||२८||
न मे वागनृतं प्राह नाधर्मे धीयते मतिः |
एवं चैव वदत्यम्बा मम चैव मनोगतम् ||२९||
एष धर्मो ध्रुवो राजंश्चरैनमविचारयन् |
मा च तेऽत्र विशङ्का भूत्कथञ्चिदपि पार्थिव ||३०||
द्रुपद उवाच||
त्वं च कुन्ती च कौन्तेय धृष्टद्युम्नश्च मे सुतः |
कथयन्त्वितिकर्तव्यं श्वः काले करवामहे ||३१||
वैशम्पायन उवाच||
ते समेत्य ततः सर्वे कथयन्ति स्म भारत |
अथ द्वैपायनो राजन्नभ्यागच्छद्यदृच्छया ||३२||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
187-अध्यायः
वैशम्पायन उवाच||
ततस्ते पाण्डवाः सर्वे पाञ्चाल्यश्च महायशाः |
प्रत्युत्थाय महात्मानं कृष्णं दृष्ट्वाभ्यपूजयन् ||१||
प्रतिनन्द्य स तान्सर्वान्पृष्ट्वा कुशलमन्ततः |
आसने काञ्चने शुभ्रे निषसाद महामनाः ||२||
अनुज्ञातास्तु ते सर्वे कृष्णेनामिततेजसा |
आसनेषु महार्हेषु निषेदुर्द्विपदां वराः ||३||
ततो मुहूर्तान्मधुरां वाणीमुच्चार्य पार्षतः |
पप्रच्छ तं महात्मानं द्रौपद्यर्थे विशां पतिः ||४||
कथमेका बहूनां स्यान्न च स्याद्धर्मसङ्करः |
एतन्नो भगवान्सर्वं प्रब्रवीतु यथातथम् ||५||
व्यास उवाच||
अस्मिन्धर्मे विप्रलम्भे लोकवेदविरोधके |
यस्य यस्य मतं यद्यच्छ्रोतुमिच्छामि तस्य तत् ||६||
द्रुपद उवाच||
अधर्मोऽयं मम मतो विरुद्धो लोकवेदयोः |
न ह्येका विद्यते पत्नी बहूनां द्विजसत्तम ||७||
न चाप्याचरितः पूर्वैरयं धर्मो महात्मभिः |
न च धर्मोऽप्यनेकस्थश्चरितव्यः सनातनः ||८||
अतो नाहं करोम्येवं व्यवसायं क्रियां प्रति |
धर्मसंदेहसंदिग्धं प्रतिभाति हि मामिदम् ||९||
धृष्टद्युम्न उवाच||
यवीयसः कथं भार्यां ज्येष्ठो भ्राता द्विजर्षभ |
ब्रह्मन्समभिवर्तेत सद्वृत्तः संस्तपोधन ||१०||
न तु धर्मस्य सूक्ष्मत्वाद्गतिं विद्मः कथञ्चन |
अधर्मो धर्म इति वा व्यवसायो न शक्यते ||११||
कर्तुमस्मद्विधैर्ब्रह्मंस्ततो न व्यवसाम्यहम् |
पञ्चानां महिषी कृष्णा भवत्विति कथञ्चन ||१२||
युधिष्ठिर उवाच||
न मे वागनृतं प्राह नाधर्मे धीयते मतिः |
वर्तते हि मनो मेऽत्र नैषोऽधर्मः कथञ्चन ||१३||
श्रूयते हि पुराणेऽपि जटिला नाम गौतमी |
ऋषीनध्यासितवती सप्त धर्मभृतां वर ||१४||
गुरोश्च वचनं प्राहुर्धर्मं धर्मज्ञसत्तम |
गुरूणां चैव सर्वेषां जनित्री परमो गुरुः ||१५||
सा चाप्युक्तवती वाचं भैक्षवद्भुज्यतामिति |
तस्मादेतदहं मन्ये धर्मं द्विजवरोत्तम ||१६||
कुन्त्युवाच||
एवमेतद्यथाहायं धर्मचारी युधिष्ठिरः |
अनृतान्मे भयं तीव्रं मुच्येयमनृतात्कथम् ||१७||
व्यास उवाच||
अनृतान्मोक्ष्यसे भद्रे धर्मश्चैष सनातनः |
न तु वक्ष्यामि सर्वेषां पाञ्चाल शृणु मे स्वयम् ||१८||
यथायं विहितो धर्मो यतश्चायं सनातनः |
यथा च प्राह कौन्तेयस्तथा धर्मो न संशयः ||१९||
वैशम्पायन उवाच||
तत उत्थाय भगवान्व्यासो द्वैपायनः प्रभुः |
करे गृहीत्वा राजानं राजवेश्म समाविशत् ||२०||
पाण्डवाश्चापि कुन्ती च धृष्टद्युम्नश्च पार्षतः |
विचेतसस्ते तत्रैव प्रतीक्षन्ते स्म तावुभौ ||२१||
ततो द्वैपायनस्तस्मै नरेन्द्राय महात्मने |
आचख्यौ तद्यथा धर्मो बहूनामेकपत्निता ||२२||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
188-अध्यायः
पञ्चेन्द्रोपाख्यानम्
व्यास उवाच||
पुरा वै नैमिषारण्ये देवाः सत्रमुपासते |
तत्र वैवस्वतो राजञ्शामित्रमकरोत्तदा ||१||
ततो यमो दीक्षितस्तत्र राज; न्नामारयत्किञ्चिदपि प्रजाभ्यः |
ततः प्रजास्ता बहुला बभूवुः; कालातिपातान्मरणात्प्रहीणाः ||२||
ततस्तु शक्रो वरुणः कुबेरः; साध्या रुद्रा वसवश्चाश्विनौ च |
प्रणेतारं भुवनस्य प्रजापतिं; समाजग्मुस्तत्र देवास्तथान्ये ||३||
ततोऽब्रुवँल्लोकगुरुं समेता; भयं नस्तीव्रं मानुषाणां विवृद्ध्या |
तस्माद्भयादुद्विजन्तः सुखेप्सवः; प्रयाम सर्वे शरणं भवन्तम् ||४||
ब्रह्मोवाच||
किं वो भयं मानुषेभ्यो यूयं सर्वे यदामराः |
मा वो मर्त्यसकाशाद्वै भयं भवतु कर्हिचित् ||५||
देवा ऊचुः||
मर्त्या ह्यमर्त्याः संवृत्ता न विशेषोऽस्ति कश्चन |
अविशेषादुद्विजन्तो विशेषार्थमिहागताः ||६||
ब्रह्मोवाच||
वैवस्वतो व्यापृतः सत्रहेतो; स्तेन त्विमे न म्रियन्ते मनुष्याः |
तस्मिन्नेकाग्रे कृतसर्वकार्ये; तत एषां भवितैवान्तकालः ||७||
वैवस्वतस्यापि तनुर्विभूता; वीर्येण युष्माकमुत प्रयुक्ता |
सैषामन्तो भविता ह्यन्तकाले; तनुर्हि वीर्यं भविता नरेषु ||८||
व्यास उवाच||
ततस्तु ते पूर्वजदेववाक्यं; श्रुत्वा देवा यत्र देवा यजन्ते |
समासीनास्ते समेता महाबला; भागीरथ्यां ददृशुः पुण्डरीकम् ||९||
दृष्ट्वा च तद्विस्मितास्ते बभूवु; स्तेषामिन्द्रस्तत्र शूरो जगाम |
सोऽपश्यद्योषामथ पावकप्रभां; यत्र गङ्गा सततं सम्प्रसूता ||१०||
सा तत्र योषा रुदती जलार्थिनी; गङ्गां देवीं व्यवगाह्यावतिष्ठत् |
तस्याश्रुबिन्दुः पतितो जले वै; तत्पद्ममासीदथ तत्र काञ्चनम् ||११||
तदद्भुतं प्रेक्ष्य वज्री तदानी; मपृच्छत्तां योषितमन्तिकाद्वै |
का त्वं कथं रोदिषि कस्य हेतो; र्वाक्यं तथ्यं कामयेह ब्रवीहि ||१२||
स्त्र्युवाच||
त्वं वेत्स्यसे मामिह यास्मि शक्र; यदर्थं चाहं रोदिमि मन्दभाग्या |
आगच्छ राजन्पुरतोऽहं गमिष्ये; द्रष्टासि तद्रोदिमि यत्कृतेऽहम् ||१३||
व्यास उवाच||
तां गच्छन्तीमन्वगच्छत्तदानीं; सोऽपश्यदारात्तरुणं दर्शनीयम् |
सिंहासनस्थं युवतीसहायं; क्रीडन्तमक्षैर्गिरिराजमूर्ध्नि ||१४||
तमब्रवीद्देवराजो ममेदं; त्वं विद्धि विश्वं भुवनं वशे स्थितम् |
ईशोऽहमस्मीति समन्युरब्रवी; द्दृष्ट्वा तमक्षैः सुभृशं प्रमत्तम् ||१५||
क्रुद्धं तु शक्रं प्रसमीक्ष्य देवो; जहास शक्रं च शनैरुदैक्षत |
संस्तम्भितोऽभूदथ देवराज; स्तेनेक्षितः स्थाणुरिवावतस्थे ||१६||
यदा तु पर्याप्तमिहास्य क्रीडया; तदा देवीं रुदतीं तामुवाच |
आनीयतामेष यतोऽहमारा; न्मैनं दर्पः पुनरप्याविशेत ||१७||
ततः शक्रः स्पृष्टमात्रस्तया तु; स्रस्तैरङ्गैः पतितोऽभूद्धरण्याम् |
तमब्रवीद्भगवानुग्रतेजा; मैवं पुनः शक्र कृथाः कथञ्चित् ||१८||
विवर्तयैनं च महाद्रिराजं; बलं च वीर्यं च तवाप्रमेयम् |
विवृत्य चैवाविश मध्यमस्य; यत्रासते त्वद्विधाः सूर्यभासः ||१९||
स तद्विवृत्य शिखरं महागिरे; स्तुल्यद्युतींश्चतुरोऽन्यान्ददर्श |
स तानभिप्रेक्ष्य बभूव दुःखितः; कच्चिन्नाहं भविता वै यथेमे ||२०||
ततो देवो गिरिशो वज्रपाणिं; विवृत्य नेत्रे कुपितोऽभ्युवाच |
दरीमेतां प्रविश त्वं शतक्रतो; यन्मां बाल्यादवमंस्थाः पुरस्तात् ||२१||
उक्तस्त्वेवं विभुना देवराजः; प्रवेपमानो भृशमेवाभिषङ्गात् |
स्रस्तैरङ्गैरनिलेनेव नुन्न; मश्वत्थपत्रं गिरिराजमूर्ध्नि ||२२||
स प्राञ्जलिर्विनतेनाननेन; प्रवेपमानः सहसैवमुक्तः |
उवाच चेदं बहुरूपमुग्रं; द्रष्टा शेषस्य भगवंस्त्वं भवाद्य ||२३||
तमब्रवीदुग्रधन्वा प्रहस्य; नैवंशीलाः शेषमिहाप्नुवन्ति |
एतेऽप्येवं भवितारः पुरस्ता; त्तस्मादेतां दरिमाविश्य शेध्वम् ||२४||
शेषोऽप्येवं भविता वो न संशयो; योनिं सर्वे मानुषीमाविशध्वम् |
तत्र यूयं कर्म कृत्वाविषह्यं; बहूनन्यान्निधनं प्रापयित्वा ||२५||
आगन्तारः पुनरेवेन्द्रलोकं; स्वकर्मणा पूर्वजितं महार्हम् |
सर्वं मया भाषितमेतदेवं; कर्तव्यमन्यद्विविधार्थवच्च ||२६||
पूर्वेन्द्रा ऊचुः||
गमिष्यामो मानुषं देवलोका; द्दुराधरो विहितो यत्र मोक्षः |
देवास्त्वस्मानादधीरञ्जनन्यां; धर्मो वायुर्मघवानश्विनौ च ||२७||
व्यास उवाच||
एतच्छ्रुत्वा वज्रपाणिर्वचस्तु; देवश्रेष्ठं पुनरेवेदमाह |
वीर्येणाहं पुरुषं कार्यहेतो; र्दद्यामेषां पञ्चमं मत्प्रसूतम् ||२८||
तेषां कामं भगवानुग्रधन्वा; प्रादादिष्टं सन्निसर्गाद्यथोक्तम् |
तां चाप्येषां योषितं लोककान्तां; श्रियं भार्यां व्यदधान्मानुषेषु ||२९||
तैरेव सार्धं तु ततः स देवो; जगाम नारायणमप्रमेयम् |
स चापि तद्व्यदधात्सर्वमेव; ततः सर्वे सम्बभूवुर्धरण्याम् ||३०||
स चापि केशौ हरिरुद्बबर्ह; शुक्लमेकमपरं चापि कृष्णम् |
तौ चापि केशौ विशतां यदूनां; कुले स्त्रियौ रोहिणीं देवकीं च ||३१||
तयोरेको बलदेवो बभूव; कृष्णो द्वितीयः केशवः सम्बभूव ||३१||
ये ते पूर्वं शक्ररूपा निरुद्धा; स्तस्यां दर्यां पर्वतस्योत्तरस्य |
इहैव ते पाण्डवा वीर्यवन्तः; शक्रस्यांशः पाण्डवः सव्यसाची ||३२||
एवमेते पाण्डवाः सम्बभूवु; र्ये ते राजन्पूर्वमिन्द्रा बभूवुः |
लक्ष्मीश्चैषां पूर्वमेवोपदिष्टा; भार्या यैषा द्रौपदी दिव्यरूपा ||३३||
कथं हि स्त्री कर्मणोऽन्ते महीतला; त्समुत्तिष्ठेदन्यतो दैवयोगात् |
यस्या रूपं सोमसूर्यप्रकाशं; गन्धश्चाग्र्यः क्रोशमात्रात्प्रवाति ||३४||
इदं चान्यत्प्रीतिपूर्वं नरेन्द्र; ददामि ते वरमत्यद्भुतं च |
दिव्यं चक्षुः पश्य कुन्तीसुतांस्त्वं; पुण्यैर्दिव्यैः पूर्वदेहैरुपेतान् ||३५||
वैशम्पायन उवाच||
ततो व्यासः परमोदारकर्मा; शुचिर्विप्रस्तपसा तस्य राज्ञः |
चक्षुर्दिव्यं प्रददौ तान्स सर्वा; न्राजापश्यत्पूर्वदेहैर्यथावत् ||३६||
ततो दिव्यान्हेमकिरीटमालिनः; शक्रप्रख्यान्पावकादित्यवर्णान् |
बद्धापीडांश्चारुरूपांश्च यूनो; व्यूढोरस्कांस्तालमात्रान्ददर्श ||३७||
दिव्यैर्वस्त्रैररजोभिः सुवर्णै; र्माल्यैश्चाग्र्यैः शोभमानानतीव |
साक्षात्त्र्यक्षान्वसवो वाथ दिव्या; नादित्यान्वा सर्वगुणोपपन्नान् ||३८||
तान्पूर्वेन्द्रानेवमीक्ष्याभिरूपा; न्प्रीतो राजा द्रुपदो विस्मितश्च ||३८||
दिव्यां मायां तामवाप्याप्रमेयां; तां चैवाग्र्यां श्रियमिव रूपिणीं च |
योग्यां तेषां रूपतेजोयशोभिः; पत्नीमृद्धां दृष्टवान्पार्थिवेन्द्रः ||३९||
स तद्दृष्ट्वा महदाश्चर्यरूपं; जग्राह पादौ सत्यवत्याः सुतस्य |
नैतच्चित्रं परमर्षे त्वयीति; प्रसन्नचेताः स उवाच चैनम् ||४०||
व्यास उवाच||
आसीत्तपोवने काचिदृषेः कन्या महात्मनः |
नाध्यगच्छत्पतिं सा तु कन्या रूपवती सती ||४१||
तोषयामास तपसा सा किलोग्रेण शङ्करम् |
तामुवाचेश्वरः प्रीतो वृणु काममिति स्वयम् ||४२||
सैवमुक्ताब्रवीत्कन्या देवं वरदमीश्वरम् |
पतिं सर्वगुणोपेतमिच्छामीति पुनः पुनः ||४३||
ददौ तस्यै स देवेशस्तं वरं प्रीतिमांस्तदा |
पञ्च ते पतयः श्रेष्ठा भविष्यन्तीति शङ्करः ||४४||
सा प्रसादयती देवमिदं भूयोऽभ्यभाषत |
एकं पतिं गुणोपेतं त्वत्तोऽर्हामीति वै तदा ||४५||
तां देवदेवः प्रीतात्मा पुनः प्राह शुभं वचः ||४५||
पञ्चकृत्वस्त्वया उक्तः पतिं देहीत्यहं पुनः |
तत्तथा भविता भद्रे तव तद्भद्रमस्तु ते ||४६||
देहमन्यं गतायास्ते यथोक्तं तद्भविष्यति ||४६||
द्रुपदैषा हि सा जज्ञे सुता ते देवरूपिणी |
पञ्चानां विहिता पत्नी कृष्णा पार्षत्यनिन्दिता ||४७||
स्वर्गश्रीः पाण्डवार्थाय समुत्पन्ना महामखे |
सेह तप्त्वा तपो घोरं दुहितृत्वं तवागता ||४८||
सैषा देवी रुचिरा देवजुष्टा; पञ्चानामेका स्वकृतेन कर्मणा |
सृष्टा स्वयं देवपत्नी स्वयम्भुवा; श्रुत्वा राजन्द्रुपदेष्टं कुरुष्व ||४९||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
189-अध्यायः-वैवाहिकपर्व
द्रुपद उवाच||
अश्रुत्वैवं वचनं ते महर्षे; मया पूर्वं यतितं कार्यमेतत् |
न वै शक्यं विहितस्यापयातुं; तदेवेदमुपपन्नं विधानम् ||१||
दिष्टस्य ग्रन्थिरनिवर्तनीयः; स्वकर्मणा विहितं नेह किञ्चित् |
कृतं निमित्तं हि वरैकहेतो; स्तदेवेदमुपपन्नं बहूनाम् ||२||
यथैव कृष्णोक्तवती पुरस्ता; न्नैकान्पतीन्मे भगवान्ददातु |
स चाप्येवं वरमित्यब्रवीत्तां; देवो हि वेद परमं यदत्र ||३||
यदि वायं विहितः शङ्करेण; धर्मोऽधर्मो वा नात्र ममापराधः |
गृह्णन्त्विमे विधिवत्पाणिमस्या; यथोपजोषं विहितैषां हि कृष्णा ||४||
वैशम्पायन उवाच||
ततोऽब्रवीद्भगवान्धर्मराज; मद्य पुण्याहमुत पाण्डवेय |
अद्य पौष्यं योगमुपैति चन्द्रमाः; पाणिं कृष्णायास्त्वं गृहाणाद्य पूर्वम् ||५||
ततो राजा यज्ञसेनः सपुत्रो; जन्यार्थ युक्तं बहु तत्तदग्र्यम् |
समानयामास सुतां च कृष्णा; माप्लाव्य रत्नैर्बहुभिर्विभूष्य ||६||
ततः सर्वे सुहृदस्तत्र तस्य; समाजग्मुः सचिवा मन्त्रिणश्च |
द्रष्टुं विवाहं परमप्रतीता; द्विजाश्च पौराश्च यथाप्रधानाः ||७||
तत्तस्य वेश्मार्थिजनोपशोभितं; विकीर्णपद्मोत्पलभूषिताजिरम् |
महार्हरत्नौघविचित्रमाबभौ; दिवं यथा निर्मलतारकाचितम् ||८||
ततस्तु ते कौरवराजपुत्रा; विभूषिताः कुण्डलिनो युवानः |
महार्हवस्त्रा वरचन्दनोक्षिताः; कृताभिषेकाः कृतमङ्गलक्रियाः ||९||
पुरोहितेनाग्निसमानवर्चसा; सहैव धौम्येन यथाविधि प्रभो |
क्रमेण सर्वे विविशुश्च तत्सदो; महर्षभा गोष्ठमिवाभिनन्दिनः ||१०||
ततः समाधाय स वेदपारगो; जुहाव मन्त्रैर्ज्वलितं हुताशनम् |
युधिष्ठिरं चाप्युपनीय मन्त्रवि; न्नियोजयामास सहैव कृष्णया ||११||
प्रदक्षिणं तौ प्रगृहीतपाणी; समानयामास स वेदपारगः |
ततोऽभ्यनुज्ञाय तमाजिशोभिनं; पुरोहितो राजगृहाद्विनिर्ययौ ||१२||
क्रमेण चानेन नराधिपात्मजा; वरस्त्रियास्ते जगृहुस्तदा करम् |
अहन्यहन्युत्तमरूपधारिणो; महारथाः कौरववंशवर्धनाः ||१३||
इदं च तत्राद्भुतरूपमुत्तमं; जगाद विप्रर्षिरतीतमानुषम् |
महानुभावा किल सा सुमध्यमा; बभूव कन्यैव गते गतेऽहनि ||१४||
कृते विवाहे द्रुपदो धनं ददौ; महारथेभ्यो बहुरूपमुत्तमम् |
शतं रथानां वरहेमभूषिणां; चतुर्युजां हेमखलीनमालिनाम् ||१५||
शतं गजानामभिपद्मिनां तथा; शतं गिरीणामिव हेमशृङ्गिणाम् |
तथैव दासीशतमग्र्ययौवनं; महार्हवेषाभरणाम्बरस्रजम् ||१६||
पृथक्पृथक्चैव दशायुतान्वितं; धनं ददौ सौमकिरग्निसाक्षिकम् |
तथैव वस्त्राणि च भूषणानि; प्रभावयुक्तानि महाधनानि ||१७||
कृते विवाहे च ततः स्म पाण्डवाः; प्रभूतरत्नामुपलभ्य तां श्रियम् |
विजह्रुरिन्द्रप्रतिमा महाबलाः; पुरे तु पाञ्चालनृपस्य तस्य ह ||१८||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
190-अध्यायः
वैशम्पायन उवाच||
पाण्डवैः सह संयोगं गतस्य द्रुपदस्य तु |
न बभूव भयं किञ्चिद्देवेभ्योऽपि कथञ्चन ||१||
कुन्तीमासाद्य ता नार्यो द्रुपदस्य महात्मनः |
नाम सङ्कीर्तयन्त्यस्ताः पादौ जग्मुः स्वमूर्धभिः ||२||
कृष्णा च क्षौमसंवीता कृतकौतुकमङ्गला |
कृताभिवादना श्वश्र्वास्तस्थौ प्रह्वा कृताञ्जलिः ||३||
रूपलक्षणसम्पन्नां शीलाचारसमन्विताम् |
द्रौपदीमवदत्प्रेम्णा पृथाशीर्वचनं स्नुषाम् ||४||
यथेन्द्राणी हरिहये स्वाहा चैव विभावसौ |
रोहिणी च यथा सोमे दमयन्ती यथा नले ||५||
यथा वैश्रवणे भद्रा वसिष्ठे चाप्यरुन्धती |
यथा नारायणे लक्ष्मीस्तथा त्वं भव भर्तृषु ||६||
जीवसूर्वीरसूर्भद्रे बहुसौख्यसमन्विता |
सुभगा भोगसम्पन्ना यज्ञपत्नी स्वनुव्रता ||७||
अतिथीनागतान्साधून्बालान्वृद्धान्गुरूंस्तथा |
पूजयन्त्या यथान्यायं शश्वद्गच्छन्तु ते समाः ||८||
कुरुजाङ्गलमुख्येषु राष्ट्रेषु नगरेषु च |
अनु त्वमभिषिच्यस्व नृपतिं धर्मवत्सलम् ||९||
पतिभिर्निर्जितामुर्वीं विक्रमेण महाबलैः |
कुरु ब्राह्मणसात्सर्वामश्वमेधे महाक्रतौ ||१०||
पृथिव्यां यानि रत्नानि गुणवन्ति गुनान्विते |
तान्याप्नुहि त्वं कल्याणि सुखिनी शरदां शतम् ||११||
यथा च त्वाभिनन्दामि वध्वद्य क्षौमसंवृताम् |
तथा भूयोऽभिनन्दिष्ये सूतपुत्रां गुणान्विताम् ||१२||
ततस्तु कृतदारेभ्यः पाण्डुभ्यः प्राहिणोद्धरिः |
मुक्तावैडूर्यचित्राणि हैमान्याभरणानि च ||१३||
वासांसि च महार्हाणि नानादेश्यानि माधवः |
कम्बलाजिनरत्नानि स्पर्शवन्ति शुभानि च ||१४||
शयनासनयानानि विविधानि महान्ति च |
वैडूर्यवज्रचित्राणि शतशो भाजनानि च ||१५||
रूपयौवनदाक्षिण्यैरुपेताश्च स्वलङ्कृताः |
प्रेष्याः सम्प्रददौ कृष्णो नानादेश्याः सहस्रशः ||१६||
गजान्विनीतान्भद्रांश्च सदश्वांश्च स्वलङ्कृतान् |
रथांश्च दान्तान्सौवर्णैः शुभैः पट्टैरलङ्कृतान् ||१७||
कोटिशश्च सुवर्णं स तेषामकृतकं तथा |
वीतीकृतममेयात्मा प्राहिणोन्मधुसूदनः ||१८||
तत्सर्वं प्रतिजग्राह धर्मराजो युधिष्ठिरः |
मुदा परमया युक्तो गोविन्दप्रियकाम्यया ||१९||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
191-अध्यायः-विदुरागमनपर्व
वैशम्पायन उवाच||
ततो राज्ञां चरैराप्तैश्चारः समुपनीयत |
पाण्डवैरुपसम्पन्ना द्रौपदी पतिभिः शुभा ||१||
येन तद्धनुरायम्य लक्ष्यं विद्धं महात्मना |
सोऽर्जुनो जयतां श्रेष्ठो महाबाणधनुर्धरः ||२||
यः शल्यं मद्रराजानमुत्क्षिप्याभ्रामयद्बली |
त्रासयंश्चापि सङ्क्रुद्धो वृक्षेण पुरुषान्रणे ||३||
न चापि सम्भ्रमः कश्चिदासीत्तत्र महात्मनः |
स भीमो भीमसंस्पर्शः शत्रुसेनाङ्गपातनः ||४||
ब्रह्मरूपधराञ्श्रुत्वा पाण्डुराजसुतांस्तदा |
कौन्तेयान्मनुजेन्द्राणां विस्मयः समजायत ||५||
सपुत्रा हि पुरा कुन्ती दग्धा जतुगृहे श्रुता |
पुनर्जातानिति स्मैतान्मन्यन्ते सर्वपार्थिवाः ||६||
धिक्कुर्वन्तस्तदा भीष्मं धृतराष्ट्रं च कौरवम् |
कर्मणा सुनृशंसेन पुरोचनकृतेन वै ||७||
वृत्ते स्वयंवरे चैव राजानः सर्व एव ते |
यथागतं विप्रजग्मुर्विदित्वा पाण्डवान्वृतान् ||८||
अथ दुर्योधनो राजा विमना भ्रातृभिः सह |
अश्वत्थाम्ना मातुलेन कर्णेन च कृपेण च ||९||
विनिवृत्तो वृतं दृष्ट्वा द्रौपद्या श्वेतवाहनम् |
तं तु दुःशासनो व्रीडन्मन्दं मन्दमिवाब्रवीत् ||१०||
यद्यसौ ब्राह्मणो न स्याद्विन्देत द्रौपदीं न सः |
न हि तं तत्त्वतो राजन्वेद कश्चिद्धनञ्जयम् ||११||
दैवं तु परमं मन्ये पौरुषं तु निरर्थकम् |
धिगस्मत्पौरुषं तात यद्धरन्तीह पाण्डवाः ||१२||
एवं सम्भाषमाणास्ते निन्दन्तश्च पुरोचनम् |
विविशुर्हास्तिनपुरं दीना विगतचेतसः ||१३||
त्रस्ता विगतसङ्कल्पा दृष्ट्वा पार्थान्महौजसः |
मुक्तान्हव्यवहाच्चैनान्संयुक्तान्द्रुपदेन च ||१४||
धृष्टद्युम्नं च सञ्चिन्त्य तथैव च शिखण्डिनम् |
द्रुपदस्यात्मजांश्चान्यान्सर्वयुद्धविशारदान् ||१५||
विदुरस्त्वथ ताञ्श्रुत्वा द्रौपद्या पाण्डवान्वृतान् |
व्रीडितान्धार्तराष्ट्रांश्च भग्नदर्पानुपागतान् ||१६||
ततः प्रीतमनाः क्षत्ता धृतराष्ट्रं विशां पते |
उवाच दिष्ट्या कुरवो वर्धन्त इति विस्मितः ||१७||
वैचित्रवीर्यस्तु नृपो निशम्य विदुरस्य तत् |
अब्रवीत्परमप्रीतो दिष्ट्या दिष्ट्येति भारत ||१८||
मन्यते हि वृतं पुत्रं ज्येष्ठं द्रुपदकन्यया |
दुर्योधनमविज्ञानात्प्रज्ञाचक्षुर्नरेश्वरः ||१९||
अथ त्वाज्ञापयामास द्रौपद्या भूषणं बहु |
आनीयतां वै कृष्णेति पुत्रं दुर्योधनं तदा ||२०||
अथास्य पश्चाद्विदुर आचख्यौ पाण्डवान्वृतान् |
सर्वान्कुशलिनो वीरान्पूजितान्द्रुपदेन च ||२१||
तेषां सम्बन्धिनश्चान्यान्बहून्बलसमन्वितान् ||२१||
धृतराष्ट्र उवाच||
यथैव पाण्डोः पुत्रास्ते तथैवाभ्यधिका मम |
सेयमभ्यधिका प्रीतिर्वृद्धिर्विदुर मे मता ||२२||
यत्ते कुशलिनो वीरा मित्रवन्तश्च पाण्डवाः ||२२||
को हि द्रुपदमासाद्य मित्रं क्षत्तः सबान्धवम् |
न बुभूषेद्भवेनार्थी गतश्रीरपि पार्थिवः ||२३||
वैशम्पायन उवाच||
तं तथा भाषमाणं तु विदुरः प्रत्यभाषत |
नित्यं भवतु ते बुद्धिरेषा राजञ्शतं समाः ||२४||
ततो दुर्योधनश्चैव राधेयश्च विशां पते |
धृतराष्ट्रमुपागम्य वचोऽब्रूतामिदं तदा ||२५||
संनिधौ विदुरस्य त्वां वक्तुं नृप न शक्नुवः |
विविक्तमिति वक्ष्यावः किं तवेदं चिकीर्षितम् ||२६||
सपत्नवृद्धिं यत्तात मन्यसे वृद्धिमात्मनः |
अभिष्टौषि च यत्क्षत्तुः समीपे द्विपदां वर ||२७||
अन्यस्मिन्नृप कर्तव्ये त्वमन्यत्कुरुषेऽनघ |
तेषां बलविघातो हि कर्तव्यस्तात नित्यशः ||२८||
ते वयं प्राप्तकालस्य चिकीर्षां मन्त्रयामहे |
यथा नो न ग्रसेयुस्ते सपुत्रबलबान्धवान् ||२९||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
192-अध्यायः
धृतराष्ट्र उवाच||
अहमप्येवमेवैतच्चिन्तयामि यथा युवाम् |
विवेक्तुं नाहमिच्छामि त्वाकारं विदुरं प्रति ||१||
अतस्तेषां गुणानेव कीर्तयामि विशेषतः |
नावबुध्येत विदुरो ममाभिप्रायमिङ्गितैः ||२||
यच्च त्वं मन्यसे प्राप्तं तद्ब्रूहि त्वं सुयोधन |
राधेय मन्यसे त्वं च यत्प्राप्तं तद्ब्रवीहि मे ||३||
दुर्योधन उवाच||
अद्य तान्कुशलैर्विप्रैः सुकृतैराप्तकारिभिः |
कुन्तीपुत्रान्भेदयामो माद्रीपुत्रौ च पाण्डवौ ||४||
अथ वा द्रुपदो राजा महद्भिर्वित्तसञ्चयैः |
पुत्राश्चास्य प्रलोभ्यन्ताममात्याश्चैव सर्वशः ||५||
परित्यजध्वं राजानं कुन्तीपुत्रं युधिष्ठिरम् |
अथ तत्रैव वा तेषां निवासं रोचयन्तु ते ||६||
इहैषां दोषवद्वासं वर्णयन्तु पृथक्पृथक् |
ते भिद्यमानास्तत्रैव मनः कुर्वन्तु पाण्डवाः ||७||
अथवा कुशलाः केचिदुपायनिपुणा नराः |
इतरेतरतः पार्थान्भेदयन्त्वनुरागतः ||८||
व्युत्थापयन्तु वा कृष्णां बहुत्वात्सुकरं हि तत् |
अथवा पाण्डवांस्तस्यां भेदयन्तु ततश्च ताम् ||९||
भीमसेनस्य वा राजन्नुपायकुशलैर्नरैः |
मृत्युर्विधीयतां छन्नैः स हि तेषां बलाधिकः ||१०||
तस्मिंस्तु निहते राजन्हतोत्साहा हतौजसः |
यतिष्यन्ते न राज्याय स हि तेषां व्यपाश्रयः ||११||
अजेयो ह्यर्जुनः सङ्ख्ये पृष्ठगोपे वृकोदरे |
तमृते फल्गुनो युद्धे राधेयस्य न पादभाक् ||१२||
ते जानमाना दौर्बल्यं भीमसेनमृते महत् |
अस्मान्बलवतो ज्ञात्वा नशिष्यन्त्यबलीयसः ||१३||
इहागतेषु पार्थेषु निदेशवशवर्तिषु |
प्रवर्तिष्यामहे राजन्यथाश्रद्धं निबर्हणे ||१४||
अथवा दर्शनीयाभिः प्रमदाभिर्विलोभ्यताम् |
एकैकस्तत्र कौन्तेयस्ततः कृष्णा विरज्यताम् ||१५||
प्रेष्यतां वापि राधेयस्तेषामागमनाय वै |
ते लोप्त्रहारैः सन्धाय वध्यन्तामाप्तकारिभिः ||१६||
एतेषामभ्युपायानां यस्ते निर्दोषवान्मतः |
तस्य प्रयोगमातिष्ठ पुरा कालोऽतिवर्तते ||१७||
यावच्चाकृतविश्वासा द्रुपदे पार्थिवर्षभे |
तावदेवाद्य ते शक्या न शक्यास्तु ततः परम् ||१८||
एषा मम मतिस्तात निग्रहाय प्रवर्तते |
साधु वा यदि वासाधु किं वा राधेय मन्यसे ||१९||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
193-अध्यायः
कर्ण उवाच||
दुर्योधन तव प्रज्ञा न सम्यगिति मे मतिः |
न ह्युपायेन ते शक्याः पाण्डवाः कुरुनन्दन ||१||
पूर्वमेव हि ते सूक्ष्मैरुपायैर्यतितास्त्वया |
निग्रहीतुं यदा वीर शकिता न तदा त्वया ||२||
इहैव वर्तमानास्ते समीपे तव पार्थिव |
अजातपक्षाः शिशवः शकिता नैव बाधितुम् ||३||
जातपक्षा विदेशस्था विवृद्धाः सर्वशोऽद्य ते |
नोपायसाध्याः कौन्तेया ममैषा मतिरच्युत ||४||
न च ते व्यसनैर्योक्तुं शक्या दिष्टकृता हि ते |
शङ्किताश्चेप्सवश्चैव पितृपैतामहं पदम् ||५||
परस्परेण भेदश्च नाधातुं तेषु शक्यते |
एकस्यां ये रताः पत्न्यां न भिद्यन्ते परस्परम् ||६||
न चापि कृष्णा शक्येत तेभ्यो भेदयितुं परैः |
परिद्यूनान्वृतवती किमुताद्य मृजावतः ||७||
ईप्सितश्च गुणः स्त्रीणामेकस्या बहुभर्तृता |
तं च प्राप्तवती कृष्णा न सा भेदयितुं सुखम् ||८||
आर्यवृत्तश्च पाञ्चाल्यो न स राजा धनप्रियः |
न सन्त्यक्ष्यति कौन्तेयान्राज्यदानैरपि ध्रुवम् ||९||
तथास्य पुत्रो गुणवाननुरक्तश्च पाण्डवान् |
तस्मान्नोपायसाध्यांस्तानहं मन्ये कथञ्चन ||१०||
इदं त्वद्य क्षमं कर्तुमस्माकं पुरुषर्षभ |
यावन्न कृतमूलास्ते पाण्डवेया विशां पते ||११||
तावत्प्रहरणीयास्ते रोचतां तव विक्रमः ||११||
अस्मत्पक्षो महान्यावद्यावत्पाञ्चालको लघुः |
तावत्प्रहरणं तेषां क्रियतां मा विचारय ||१२||
वाहनानि प्रभूतानि मित्राणि बहुलानि च |
यावन्न तेषां गान्धारे तावदेवाशु विक्रम ||१३||
यावच्च राजा पाञ्चाल्यो नोद्यमे कुरुते मनः |
सह पुत्रैर्महावीर्यैस्तावदेवाशु विक्रम ||१४||
यावन्नायाति वार्ष्णेयः कर्षन्यादववाहिनीम् |
राज्यार्थे पाण्डवेयानां तावदेवाशु विक्रम ||१५||
वसूनि विविधान्भोगान्राज्यमेव च केवलम् |
नात्याज्यमस्ति कृष्णस्य पाण्डवार्थे महीपते ||१६||
विक्रमेण मही प्राप्ता भरतेन महात्मना |
विक्रमेण च लोकांस्त्रीञ्जितवान्पाकशासनः ||१७||
विक्रमं च प्रशंसन्ति क्षत्रियस्य विशां पते |
स्वको हि धर्मः शूराणां विक्रमः पार्थिवर्षभ ||१८||
ते बलेन वयं राजन्महता चतुरङ्गिणा |
प्रमथ्य द्रुपदं शीघ्रमानयामेह पाण्डवान् ||१९||
न हि साम्ना न दानेन न भेदेन च पाण्डवाः |
शक्याः साधयितुं तस्माद्विक्रमेणैव ताञ्जहि ||२०||
तान्विक्रमेण जित्वेमामखिलां भुङ्क्ष्व मेदिनीम् |
नान्यमत्र प्रपश्यामि कार्योपायं जनाधिप ||२१||
वैशम्पायन उवाच||
श्रुत्वा तु राधेयवचो धृतराष्ट्रः प्रतापवान् |
अभिपूज्य ततः पश्चादिदं वचनमब्रवीत् ||२२||
उपपन्नं महाप्राज्ञे कृतास्त्रे सूतनन्दने |
त्वयि विक्रमसम्पन्नमिदं वचनमीदृशम् ||२३||
भूय एव तु भीष्मश्च द्रोणो विदुर एव च |
युवां च कुरुतां बुद्धिं भवेद्या नः सुखोदया ||२४||
तत आनाय्य तान्सर्वान्मन्त्रिणः सुमहायशाः |
धृतराष्ट्रो महाराज मन्त्रयामास वै तदा ||२५||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
194-अध्यायः
भीष्म उवाच||
न रोचते विग्रहो मे पाण्डुपुत्रैः कथञ्चन |
यथैव धृतराष्ट्रो मे तथा पाण्डुरसंशयम् ||१||
गान्धार्याश्च यथा पुत्रास्तथा कुन्तीसुता मताः |
यथा च मम ते रक्ष्या धृतराष्ट्र तथा तव ||२||
यथा च मम राज्ञश्च तथा दुर्योधनस्य ते |
तथा कुरूणां सर्वेषामन्येषामपि भारत ||३||
एवं गते विग्रहं तैर्न रोचये; सन्धाय वीरैर्दीयतामद्य भूमिः |
तेषामपीदं प्रपितामहानां; राज्यं पितुश्चैव कुरूत्तमानाम् ||४||
दुर्योधन यथा राज्यं त्वमिदं तात पश्यसि |
मम पैतृकमित्येवं तेऽपि पश्यन्ति पाण्डवाः ||५||
यदि राज्यं न ते प्राप्ताः पाण्डवेयास्तपस्विनः |
कुत एव तवापीदं भारतस्य च कस्यचित् ||६||
अथ धर्मेण राज्यं त्वं प्राप्तवान्भरतर्षभ |
तेऽपि राज्यमनुप्राप्ताः पूर्वमेवेति मे मतिः ||७||
मधुरेणैव राज्यस्य तेषामर्धं प्रदीयताम् |
एतद्धि पुरुषव्याघ्र हितं सर्वजनस्य च ||८||
अतोऽन्यथा चेत्क्रियते न हितं नो भविष्यति |
तवाप्यकीर्तिः सकला भविष्यति न संशयः ||९||
कीर्तिरक्षणमातिष्ठ कीर्तिर्हि परमं बलम् |
नष्टकीर्तेर्मनुष्यस्य जीवितं ह्यफलं स्मृतम् ||१०||
यावत्कीर्तिर्मनुष्यस्य न प्रणश्यति कौरव |
तावज्जीवति गान्धारे नष्टकीर्तिस्तु नश्यति ||११||
तमिमं समुपातिष्ठ धर्मं कुरुकुलोचितम् |
अनुरूपं महाबाहो पूर्वेषामात्मनः कुरु ||१२||
दिष्ट्या धरन्ति ते वीरा दिष्ट्या जीवति सा पृथा |
दिष्ट्या पुरोचनः पापो नसकामोऽत्ययं गतः ||१३||
तदा प्रभृति गान्धारे न शक्नोम्यभिवीक्षितुम् |
लोके प्राणभृतां कञ्चिच्छ्रुत्वा कुन्तीं तथागताम् ||१४||
न चापि दोषेण तथा लोको वैति पुरोचनम् |
यथा त्वां पुरुषव्याघ्र लोको दोषेण गच्छति ||१५||
तदिदं जीवितं तेषां तव कल्मषनाशनम् |
संमन्तव्यं महाराज पाण्डवानां च दर्शनम् ||१६||
न चापि तेषां वीराणां जीवतां कुरुनन्दन |
पित्र्योंऽशः शक्य आदातुमपि वज्रभृता स्वयम् ||१७||
ते हि सर्वे स्थिता धर्मे सर्वे चैवैकचेतसः |
अधर्मेण निरस्ताश्च तुल्ये राज्ये विशेषतः ||१८||
यदि धर्मस्त्वया कार्यो यदि कार्यं प्रियं च मे |
क्षेमं च यदि कर्तव्यं तेषामर्धं प्रदीयताम् ||१९||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
195-अध्यायः
द्रोण उवाच||
मन्त्राय समुपानीतैर्धृतराष्ट्रहितैर्नृप |
धर्म्यं पथ्यं यशस्यं च वाच्यमित्यनुशुश्रुमः ||१||
ममाप्येषा मतिस्तात या भीष्मस्य महात्मनः |
संविभज्यास्तु कौन्तेया धर्म एष सनातनः ||२||
प्रेष्यतां द्रुपदायाशु नरः कश्चित्प्रियंवदः |
बहुलं रत्नमादाय तेषामर्थाय भारत ||३||
मिथः कृत्यं च तस्मै स आदाय बहु गच्छतु |
वृद्धिं च परमां ब्रूयात्तत्संयोगोद्भवां तथा ||४||
सम्प्रीयमाणं त्वां ब्रूयाद्राजन्दूर्योधनं तथा |
असकृद्द्रुपदे चैव धृष्टद्युम्ने च भारत ||५||
उचितत्वं प्रियत्वं च योगस्यापि च वर्णयेत् |
पुनः पुनश्च कौन्तेयान्माद्रीपुत्रौ च सान्त्वयन् ||६||
हिरण्मयानि शुभ्राणि बहून्याभरणानि च |
वचनात्तव राजेन्द्र द्रौपद्याः सम्प्रयच्छतु ||७||
तथा द्रुपदपुत्राणां सर्वेषां भरतर्षभ |
पाण्डवानां च सर्वेषां कुन्त्या युक्तानि यानि च ||८||
एवं सान्त्वसमायुक्तं द्रुपदं पाण्डवैः सह |
उक्त्वाथानन्तरं ब्रूयात्तेषामागमनं प्रति ||९||
अनुज्ञातेषु वीरेषु बलं गच्छतु शोभनम् |
दुःशासनो विकर्णश्च पाण्डवानानयन्त्विह ||१०||
ततस्ते पार्थिवश्रेष्ठ पूज्यमानाः सदा त्वया |
प्रकृतीनामनुमते पदे स्थास्यन्ति पैतृके ||११||
एवं तव महाराज तेषु पुत्रेषु चैव ह |
वृत्तमौपयिकं मन्ये भीष्मेण सह भारत ||१२||
कर्ण उवाच||
योजितावर्थमानाभ्यां सर्वकार्येष्वनन्तरौ |
न मन्त्रयेतां त्वच्छ्रेयः किमद्भुततरं ततः ||१३||
दुष्टेन मनसा यो वै प्रच्छन्नेनान्तरात्मना |
ब्रूयान्निःश्रेयसं नाम कथं कुर्यात्सतां मतम् ||१४||
न मित्राण्यर्थकृच्छ्रेषु श्रेयसे वेतराय वा |
विधिपूर्वं हि सर्वस्य दुःखं वा यदि वा सुखम् ||१५||
कृतप्रज्ञोऽकृतप्रज्ञो बालो वृद्धश्च मानवः |
ससहायोऽसहायश्च सर्वं सर्वत्र विन्दति ||१६||
श्रूयते हि पुरा कश्चिदम्बुवीच इति श्रुतः |
आसीद्राजगृहे राजा मागधानां महीक्षिताम् ||१७||
स हीनः करणैः सर्वैरुच्छ्वासपरमो नृपः |
अमात्यसंस्थः कार्येषु सर्वेष्वेवाभवत्तदा ||१८||
तस्यामात्यो महाकर्णिर्बभूवैकेश्वरः पुरा |
स लब्धबलमात्मानं मन्यमानोऽवमन्यते ||१९||
स राज्ञ उपभोग्यानि स्त्रियो रत्नधनानि च |
आददे सर्वशो मूढ ऐश्वर्यं च स्वयं तदा ||२०||
तदादाय च लुब्धस्य लाभाल्लोभो व्यवर्धत |
तथा हि सर्वमादाय राज्यमस्य जिहीर्षति ||२१||
हीनस्य करणैः सर्वैरुच्छ्वासपरमस्य च |
यतमानोऽपि तद्राज्यं न शशाकेति नः श्रुतम् ||२२||
किमन्यद्विहितान्नूनं तस्य सा पुरुषेन्द्रता |
यदि ते विहितं राज्यं भविष्यति विशां पते ||२३||
मिषतः सर्वलोकस्य स्थास्यते त्वयि तद्ध्रुवम् |
अतोऽन्यथा चेद्विहितं यतमानो न लप्स्यसे ||२४||
एवं विद्वन्नुपादत्स्व मन्त्रिणां साध्वसाधुताम् |
दुष्टानां चैव बोद्धव्यमदुष्टानां च भाषितम् ||२५||
द्रोण उवाच||
विद्म ते भावदोषेण यदर्थमिदमुच्यते |
दुष्टः पाण्डवहेतोस्त्वं दोषं ख्यापयसे हि नः ||२६||
हितं तु परमं कर्ण ब्रवीमि कुरुवर्धनम् |
अथ त्वं मन्यसे दुष्टं ब्रूहि यत्परमं हितम् ||२७||
अतोऽन्यथा चेत्क्रियते यद्ब्रवीमि परं हितम् |
कुरवो विनशिष्यन्ति नचिरेणेति मे मतिः ||२८||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
196-अध्यायः
विदुर उवाच||
राजन्निःसंशयं श्रेयो वाच्यस्त्वमसि बान्धवैः |
न त्वशुश्रूषमाणेषु वाक्यं सम्प्रतितिष्ठति ||१||
हितं हि तव तद्वाक्यमुक्तवान्कुरुसत्तमः |
भीष्मः शान्तनवो राजन्प्रतिगृह्णासि तन्न च ||२||
तथा द्रोणेन बहुधा भाषितं हितमुत्तमम् |
तच्च राधासुतः कर्णो मन्यते न हितं तव ||३||
चिन्तयंश्च न पश्यामि राजंस्तव सुहृत्तमम् |
आभ्यां पुरुषसिंहाभ्यां यो वा स्यात्प्रज्ञयाधिकः ||४||
इमौ हि वृद्धौ वयसा प्रज्ञया च श्रुतेन च |
समौ च त्वयि राजेन्द्र तेषु पाण्डुसुतेषु च ||५||
धर्मे चानवमौ राजन्सत्यतायां च भारत |
रामाद्दाशरथेश्चैव गयाच्चैव न संशयः ||६||
न चोक्तवन्तावश्रेयः पुरस्तादपि किञ्चन |
न चाप्यपकृतं किञ्चिदनयोर्लक्ष्यते त्वयि ||७||
ताविमौ पुरुषव्याघ्रावनागसि नृप त्वयि |
न मन्त्रयेतां त्वच्छ्रेयः कथं सत्यपराक्रमौ ||८||
प्रज्ञावन्तौ नरश्रेष्ठावस्मिँल्लोके नराधिप |
त्वन्निमित्तमतो नेमौ किञ्चिज्जिह्मं वदिष्यतः ||९||
इति मे नैष्ठिकी बुद्धिर्वर्तते कुरुनन्दन ||९||
न चार्थहेतोर्धर्मज्ञौ वक्ष्यतः पक्षसंश्रितम् |
एतद्धि परमं श्रेयो मेनाते तव भारत ||१०||
दुर्योधनप्रभृतयः पुत्रा राजन्यथा तव |
तथैव पाण्डवेयास्ते पुत्रा राजन्न संशयः ||११||
तेषु चेदहितं किञ्चिन्मन्त्रयेयुरबुद्धितः |
मन्त्रिणस्ते न ते श्रेयः प्रपश्यन्ति विशेषतः ||१२||
अथ ते हृदये राजन्विशेषस्तेषु वर्तते |
अन्तरस्थं विवृण्वानाः श्रेयः कुर्युर्न ते ध्रुवम् ||१३||
एतदर्थमिमौ राजन्महात्मानौ महाद्युती |
नोचतुर्विवृतं किञ्चिन्न ह्येष तव निश्चयः ||१४||
यच्चाप्यशक्यतां तेषामाहतुः पुरुषर्षभौ |
तत्तथा पुरुषव्याघ्र तव तद्भद्रमस्तु ते ||१५||
कथं हि पाण्डवः श्रीमान्सव्यसाची परन्तपः |
शक्यो विजेतुं सङ्ग्रामे राजन्मघवता अपि ||१६||
भीमसेनो महाबाहुर्नागायुतबलो महान् |
कथं हि युधि शक्येत विजेतुममरैरपि ||१७||
तथैव कृतिनौ युद्धे यमौ यमसुताविव |
कथं विषहितुं शक्यौ रणे जीवितुमिच्छता ||१८||
यस्मिन्धृतिरनुक्रोशः क्षमा सत्यं पराक्रमः |
नित्यानि पाण्डवश्रेष्ठे स जीयेत कथं रणे ||१९||
येषां पक्षधरो रामो येषां मन्त्री जनार्दनः |
किं नु तैरजितं सङ्ख्ये येषां पक्षे च सात्यकिः ||२०||
द्रुपदः श्वशुरो येषां येषां श्यालाश्च पार्षताः |
धृष्टद्युम्नमुखा वीरा भ्रातरो द्रुपदात्मजाः ||२१||
सोऽशक्यतां च विज्ञाय तेषामग्रेण भारत |
दायाद्यतां च धर्मेण सम्यक्तेषु समाचर ||२२||
इदं निर्दिग्धमयशः पुरोचनकृतं महत् |
तेषामनुग्रहेणाद्य राजन्प्रक्षालयात्मनः ||२३||
द्रुपदोऽपि महान्राजा कृतवैरश्च नः पुरा |
तस्य सङ्ग्रहणं राजन्स्वपक्षस्य विवर्धनम् ||२४||
बलवन्तश्च दाशार्हा बहवश्च विशां पते |
यतः कृष्णस्ततस्ते स्युर्यतः कृष्णस्ततो जयः ||२५||
यच्च साम्नैव शक्येत कार्यं साधयितुं नृप |
को दैवशप्तस्तत्कार्तुं विग्रहेण समाचरेत् ||२६||
श्रुत्वा च जीवतः पार्थान्पौरजानपदो जनः |
बलवद्दर्शने गृध्नुस्तेषां राजन्कुरु प्रियम् ||२७||
दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः |
अधर्मयुक्ता दुष्प्रज्ञा बाला मैषां वचः कृथाः ||२८||
उक्तमेतन्मया राजन्पुरा गुणवतस्तव |
दुर्योधनापराधेन प्रजेयं विनशिष्यति ||२९||