श्रीमहाभारतम्
||१ आदिपर्वम् ||
087-अध्यायः
वसुमना उवाच||
पृच्छामि त्वां वसुमना रौशदश्वि; र्यद्यस्ति लोको दिवि मह्यं नरेन्द्र |
यद्यन्तरिक्षे प्रथितो महात्म; न्क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये ||१||
ययातिरुवाच||
यदन्तरिक्षं पृथिवी दिशश्च; यत्तेजसा तपते भानुमांश्च |
लोकास्तावन्तो दिवि संस्थिता वै; ते नान्तवन्तः प्रतिपालयन्ति ||२||
वसुमना उवाच||
तांस्ते ददामि पत मा प्रपातं; ये मे लोकास्तव ते वै भवन्तु |
क्रीणीष्वैनांस्तृणकेनापि राज; न्प्रतिग्रहस्ते यदि सम्यक्प्रदुष्टः ||३||
ययातिरुवाच||
न मिथ्याहं विक्रयं वै स्मरामि; वृथा गृहीतं शिशुकाच्छङ्कमानः |
कुर्यां न चैवाकृतपूर्वमन्यै; र्विवित्समानः किमु तत्र साधु ||४||
वसुमना उवाच||
तांस्त्वं लोकान्प्रतिपद्यस्व राज; न्मया दत्तान्यदि नेष्टः क्रयस्ते |
अहं न तान्वै प्रतिगन्ता नरेन्द्र; सर्वे लोकास्तव ते वै भवन्तु ||५||
शिबिरुवाच||
पृच्छामि त्वां शिबिरौशीनरोऽहं; ममापि लोका यदि सन्तीह तात |
यद्यन्तरिक्षे यदि वा दिवि श्रिताः; क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये ||६||
ययातिरुवाच||
न त्वं वाचा हृदयेनापि विद्व; न्परीप्समानान्नावमंस्था नरेन्द्र |
तेनानन्ता दिवि लोकाः श्रितास्ते; विद्युद्रूपाः स्वनवन्तो महान्तः ||७||
शिबिरुवाच||
तांस्त्वं लोकान्प्रतिपद्यस्व राज; न्मया दत्तान्यदि नेष्टः क्रयस्ते |
न चाहं तान्प्रतिपत्स्येह दत्त्वा; यत्र गत्वा त्वमुपास्से ह लोकान् ||८||
ययातिरुवाच||
यथा त्वमिन्द्रप्रतिमप्रभाव; स्ते चाप्यनन्ता नरदेव लोकाः |
तथाद्य लोके न रमेऽन्यदत्ते; तस्माच्छिबे नाभिनन्दामि दायम् ||९||
अष्टक उवाच||
न चेदेकैकशो राजँल्लोकान्नः प्रतिनन्दसि |
सर्वे प्रदाय भवते गन्तारो नरकं वयम् ||१०||
ययातिरुवाच||
यदर्हाय ददध्वं तत्सन्तः सत्यानृशंस्यतः |
अहं तु नाभिधृष्णोमि यत्कृतं न मया पुरा ||११||
अष्टक उवाच||
कस्यैते प्रतिदृश्यन्ते रथाः पञ्च हिरण्मयाः |
उच्चैः सन्तः प्रकाशन्ते ज्वलन्तोऽग्निशिखा इव ||१२||
ययातिरुवाच||
युष्मानेते हि वक्ष्यन्ति रथाः पञ्च हिरण्मयाः |
उच्चैः सन्तः प्रकाशन्ते ज्वलन्तोऽग्निशिखा इव ||१३||
अष्टक उवाच||
आतिष्ठस्व रथं राजन्विक्रमस्व विहायसा |
वयमप्यनुयास्यामो यदा कालो भविष्यति ||१४||
ययातिरुवाच||
सर्वैरिदानीं गन्तव्यं सहस्वर्गजितो वयम् |
एष नो विरजाः पन्था दृश्यते देवसद्मनः ||१५||
वैशम्पायन उवाच||
तेऽधिरुह्य रथान्सर्वे प्रयाता नृपसत्तमाः |
आक्रमन्तो दिवं भाभिर्धर्मेणावृत्य रोदसी ||१६||
अष्टक उवाच||
अहं मन्ये पूर्वमेकोऽस्मि गन्ता; सखा चेन्द्रः सर्वथा मे महात्मा |
कस्मादेवं शिबिरौशीनरोऽय; मेकोऽत्यगात्सर्ववेगेन वाहान् ||१७||
ययातिरुवाच||
अददाद्देवयानाय यावद्वित्तमविन्दत |
उशीनरस्य पुत्रोऽयं तस्माच्छ्रेष्ठो हि नः शिबिः ||१८||
दानं तपः सत्यमथापि धर्मो; ह्रीः श्रीः क्षमा सौम्य तथा तितिक्षा |
राजन्नेतान्यप्रतिमस्य राज्ञः; शिबेः स्थितान्यनृशंसस्य बुद्ध्या ||१९||
एवंवृत्तो ह्रीनिषेधश्च यस्मा; त्तस्माच्छिबिरत्यगाद्वै रथेन ||१९||
वैशम्पायन उवाच||
अथाष्टकः पुनरेवान्वपृच्छ; न्मातामहं कौतुकादिन्द्रकल्पम् |
पृच्छामि त्वां नृपते ब्रूहि सत्यं; कुतश्च कस्यासि सुतश्च कस्य ||२०||
कृतं त्वया यद्धि न तस्य कर्ता; लोके त्वदन्यः क्षत्रियो ब्राह्मणो वा ||२०||
ययातिरुवाच||
ययातिरस्मि नहुषस्य पुत्रः; पूरोः पिता सार्वभौमस्त्विहासम् |
गुह्यमर्थं मामकेभ्यो ब्रवीमि; मातामहोऽहं भवतां प्रकाशः ||२१||
सर्वामिमां पृथिवीं निर्जिगाय; प्रस्थे बद्ध्वा ह्यददं ब्राह्मणेभ्यः |
मेध्यानश्वानेकशफान्सुरूपां; स्तदा देवाः पुण्यभाजो भवन्ति ||२२||
अदामहं पृथिवीं ब्राह्मणेभ्यः; पूर्णामिमामखिलां वाहनस्य |
गोभिः सुवर्णेन धनैश्च मुख्यै; स्तत्रासन्गाः शतमर्बुदानि ||२३||
सत्येन मे द्यौश्च वसुन्धरा च; तथैवाग्निर्ज्वलते मानुषेषु |
न मे वृथा व्याहृतमेव वाक्यं; सत्यं हि सन्तः प्रतिपूजयन्ति ||२४||
सर्वे च देवा मुनयश्च लोकाः; सत्येन पूज्या इति मे मनोगतम् ||२४||
यो नः स्वर्गजितः सर्वान्यथावृत्तं निवेदयेत् |
अनसूयुर्द्विजाग्रेभ्यः स लभेन्नः सलोकताम् ||२५||
वैशम्पायन उवाच||
एवं राजा स महात्मा ह्यतीव; स्वैर्दौहित्रैस्तारितोऽमित्रसाहः |
त्यक्त्वा महीं परमोदारकर्मा; स्वर्गं गतः कर्मभिर्व्याप्य पृथ्वीम् ||२६||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
088-अध्यायः-संभवपर्व
जनमेजय उवाच||
भगवञ्श्रोतुमिच्छामि पूरोर्वंशकरान्नृपान् |
यद्वीर्या यादृशाश्चैव यावन्तो यत्पराक्रमाः ||१||
न ह्यस्मिञ्शीलहीनो वा निर्वीर्यो वा नराधिपः |
प्रजाविरहितो वापि भूतपूर्वः कदाचन ||२||
तेषां प्रथितवृत्तानां राज्ञां विज्ञानशालिनाम् |
चरितं श्रोतुमिच्छामि विस्तरेण तपोधन ||३||
वैशम्पायन उवाच||
हन्त ते कथयिष्यामि यन्मां त्वं परिपृच्छसि |
पूरोर्वंशधरान्वीराञ्शक्रप्रतिमतेजसः ||४||
प्रवीरेश्वररौद्राश्वास्त्रयः पुत्रा महारथाः |
पूरोः पौष्ट्यामजायन्त प्रवीरस्तत्र वंशकृत् ||५||
मनस्युरभवत्तस्माच्छूरः श्येनीसुतः प्रभुः |
पृथिव्याश्चतुरन्ताया गोप्ता राजीवलोचनः ||६||
सुभ्रूः संहननो वाग्मी सौवीरीतनयास्त्रयः |
मनस्योरभवन्पुत्राः शूराः सर्वे महारथाः ||७||
रौद्राश्वस्य महेष्वासा दशाप्सरसि सूनवः |
यज्वानो जज्ञिरे शूराः प्रजावन्तो बहुश्रुताः ||८||
सर्वे सर्वास्त्रविद्वांसः सर्वे धर्मपरायणाः ||८||
ऋचेपुरथ कक्षेपुः कृकणेपुश्च वीर्यवान् |
स्थण्डिलेपुर्वनेपुश्च स्थलेपुश्च महारथः ||९||
तेजेपुर्बलवान्धीमान्सत्येपुश्चेन्द्रविक्रमः |
धर्मेपुः संनतेपुश्च दशमो देवविक्रमः ||१०||
अनाधृष्टिसुतास्तात राजसूयाश्वमेधिनः ||१०||
मतिनारस्ततो राजा विद्वांश्चर्चेपुतोऽभवत् |
मतिनारसुता राजंश्चत्वारोऽमितविक्रमाः ||११||
तंसुर्महानतिरथो द्रुह्युश्चाप्रतिमद्युतिः ||११||
तेषां तंसुर्महावीर्यः पौरवं वंशमुद्वहन् |
आजहार यशो दीप्तं जिगाय च वसुन्धराम् ||१२||
इलिनं तु सुतं तंसुर्जनयामास वीर्यवान् |
सोऽपि कृत्स्नामिमां भूमिं विजिग्ये जयतां वरः ||१३||
रथन्तर्यां सुतान्पञ्च पञ्चभूतोपमांस्ततः |
इलिनो जनयामास दुःषन्तप्रभृतीन्नृप ||१४||
दुःषन्तं शूरभीमौ च प्रपूर्वं वसुमेव च |
तेषां ज्येष्ठोऽभवद्राजा दुःषन्तो जनमेजय ||१५||
दुःषन्ताद्भरतो जज्ञे विद्वाञ्शाकुन्तलो नृपः |
तस्माद्भरतवंशस्य विप्रतस्थे महद्यशः ||१६||
भरतस्तिसृषु स्त्रीषु नव पुत्रानजीजनत् |
नाभ्यनन्दन्त तान्राजा नानुरूपा ममेत्युत ||१७||
ततो महद्भिः क्रतुभिरीजानो भरतस्तदा |
लेभे पुत्रं भरद्वाजाद्भुमन्युं नाम भारत ||१८||
ततः पुत्रिणमात्मानं ज्ञात्वा पौरवनन्दनः |
भुमन्युं भरतश्रेष्ठ यौवराज्येऽभ्यषेचयत् ||१९||
ततस्तस्य महीन्द्रस्य वितथः पुत्रकोऽभवत् |
ततः स वितथो नाम भुमन्योरभवत्सुतः ||२०||
सुहोत्रश्च सुहोता च सुहविः सुयजुस्तथा |
पुष्करिण्यामृचीकस्य भुमन्योरभवन्सुताः ||२१||
तेषां ज्येष्ठः सुहोत्रस्तु राज्यमाप महीक्षिताम् |
राजसूयाश्वमेधाद्यैः सोऽयजद्बहुभिः सवैः ||२२||
सुहोत्रः पृथिवीं सर्वां बुभुजे सागराम्बराम् |
पूर्णां हस्तिगवाश्वस्य बहुरत्नसमाकुलाम् ||२३||
ममज्जेव मही तस्य भूरिभारावपीडिता |
हस्त्यश्वरथसम्पूर्णा मनुष्यकलिला भृशम् ||२४||
सुहोत्रे राजनि तदा धर्मतः शासति प्रजाः |
चैत्ययूपाङ्किता चासीद्भूमिः शतसहस्रशः ||२५||
प्रवृद्धजनसस्या च सहदेवा व्यरोचत ||२५||
ऐक्ष्वाकी जनयामास सुहोत्रात्पृथिवीपतेः |
अजमीढं सुमीढं च पुरुमीढं च भारत ||२६||
अजमीढो वरस्तेषां तस्मिन्वंशः प्रतिष्ठितः |
षट्पुत्रान्सोऽप्यजनयत्तिसृषु स्त्रीषु भारत ||२७||
ऋक्षं धूमिन्यथो नीली दुःषन्तपरमेष्ठिनौ |
केशिन्यजनयज्जह्नुमुभौ च जनरूपिणौ ||२८||
तथेमे सर्वपाञ्चाला दुःषन्तपरमेष्ठिनोः |
अन्वयाः कुशिका राजञ्जह्नोरमिततेजसः ||२९||
जनरूपिणयोर्ज्येष्ठमृक्षमाहुर्जनाधिपम् |
ऋक्षात्संवरणो जज्ञे राजन्वंशकरस्तव ||३०||
आर्क्षे संवरणे राजन्प्रशासति वसुन्धराम् |
सङ्क्षयः सुमहानासीत्प्रजानामिति शुश्रुमः ||३१||
व्यशीर्यत ततो राष्ट्रं क्षयैर्नानाविधैस्तथा |
क्षुन्मृत्युभ्यामनावृष्ट्या व्याधिभिश्च समाहतम् ||३२||
अभ्यघ्नन्भारतांश्चैव सपत्नानां बलानि च ||३२||
चालयन्वसुधां चैव बलेन चतुरङ्गिणा |
अभ्ययात्तं च पाञ्चाल्यो विजित्य तरसा महीम् ||३३||
अक्षौहिणीभिर्दशभिः स एनं समरेऽजयत् ||३३||
ततः सदारः सामात्यः सपुत्रः ससुहृज्जनः |
राजा संवरणस्तस्मात्पलायत महाभयात् ||३४||
सिन्धोर्नदस्य महतो निकुञ्जे न्यवसत्तदा |
नदीविषयपर्यन्ते पर्वतस्य समीपतः ||३५||
तत्रावसन्बहून्कालान्भारता दुर्गमाश्रिताः ||३५||
तेषां निवसतां तत्र सहस्रं परिवत्सरान् |
अथाभ्यगच्छद्भरतान्वसिष्ठो भगवानृषिः ||३६||
तमागतं प्रयत्नेन प्रत्युद्गम्याभिवाद्य च |
अर्घ्यमभ्याहरंस्तस्मै ते सर्वे भारतास्तदा ||३७||
निवेद्य सर्वमृषये सत्कारेण सुवर्चसे ||३७||
तं समामष्टमीमुष्टं राजा वव्रे स्वयं तदा |
पुरोहितो भवान्नोऽस्तु राज्याय प्रयतामहे ||३८||
ओमित्येवं वसिष्ठोऽपि भारतान्प्रत्यपद्यत ||३८||
अथाभ्यषिञ्चत्साम्राज्ये सर्वक्षत्रस्य पौरवम् |
विषाणभूतं सर्वस्यां पृथिव्यामिति नः श्रुतम् ||३९||
भरताध्युषितं पूर्वं सोऽध्यतिष्ठत्पुरोत्तमम् |
पुनर्बलिभृतश्चैव चक्रे सर्वमहीक्षितः ||४०||
ततः स पृथिवीं प्राप्य पुनरीजे महाबलः |
आजमीढो महायज्ञैर्बहुभिर्भूरिदक्षिणैः ||४१||
ततः संवरणात्सौरी सुषुवे तपती कुरुम् |
राजत्वे तं प्रजाः सर्वा धर्मज्ञ इति वव्रिरे ||४२||
तस्य नाम्नाभिविख्यातं पृथिव्यां कुरुजाङ्गलम् |
कुरुक्षेत्रं स तपसा पुण्यं चक्रे महातपाः ||४३||
अश्ववन्तमभिष्वन्तं तथा चित्ररथं मुनिम् |
जनमेजयं च विख्यातं पुत्रांश्चास्यानुशुश्रुमः ||४४||
पञ्चैतान्वाहिनी पुत्रान्व्यजायत मनस्विनी ||४४||
अभिष्वतः परिक्षित्तु शबलाश्वश्च वीर्यवान् |
अभिराजो विराजश्च शल्मलश्च महाबलः ||४५||
उच्चैःश्रवा भद्रकारो जितारिश्चाष्टमः स्मृतः |
एतेषामन्ववाये तु ख्यातास्ते कर्मजैर्गुणैः ||४६||
जनमेजयादयः सप्त तथैवान्ये महाबलाः |
परिक्षितोऽभवन्पुत्राः सर्वे धर्मार्थकोविदाः ||४७||
कक्षसेनोग्रसेनौ च चित्रसेनश्च वीर्यवान् |
इन्द्रसेनः सुषेणश्च भीमसेनश्च नामतः ||४८||
जनमेजयस्य तनया भुवि ख्याता महाबलाः |
धृतराष्ट्रः प्रथमजः पाण्डुर्बाह्लीक एव च ||४९||
निषधश्च महातेजास्तथा जाम्बूनदो बली |
कुण्डोदरः पदातिश्च वसातिश्चाष्टमः स्मृतः ||५०||
सर्वे धर्मार्थकुशलाः सर्वे भूतहिते रताः ||५०||
धृतराष्ट्रोऽथ राजासीत्तस्य पुत्रोऽथ कुण्डिकः |
हस्ती वितर्कः क्राथश्च कुण्डलश्चापि पञ्चमः ||५१||
हविःश्रवास्तथेन्द्राभः सुमन्युश्चापराजितः ||५१||
प्रतीपस्य त्रयः पुत्रा जज्ञिरे भरतर्षभ |
देवापिः शन्तनुश्चैव बाह्लीकश्च महारथः ||५२||
देवापिस्तु प्रवव्राज तेषां धर्मपरीप्सया |
शन्तनुश्च महीं लेभे बाह्लीकश्च महारथः ||५३||
भरतस्यान्वये जाताः सत्त्ववन्तो महारथाः |
देवर्षिकल्पा नृपते बहवो राजसत्तमाः ||५४||
एवंविधाश्चाप्यपरे देवकल्पा महारथाः |
जाता मनोरन्ववाये ऐलवंशविवर्धनाः ||५५||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
089-अध्यायः
जनमेजय उवाच||
श्रुतस्त्वत्तो मया विप्र पूर्वेषां सम्भवो महान् |
उदाराश्चापि वंशेऽस्मिन्राजानो मे परिश्रुताः ||१||
किं तु लघ्वर्थसंयुक्तं प्रियाख्यानं न मामति |
प्रीणात्यतो भवान्भूयो विस्तरेण ब्रवीतु मे ||२||
एतामेव कथां दिव्यामा प्रजापतितो मनोः |
तेषामाजननं पुण्यं कस्य न प्रीतिमावहेत् ||३||
सद्धर्मगुणमाहात्म्यैरभिवर्धितमुत्तमम् |
विष्टभ्य लोकांस्त्रीनेषां यशः स्फीतमवस्थितम् ||४||
गुणप्रभाववीर्यौजःसत्त्वोत्साहवतामहम् |
न तृप्यामि कथां शृण्वन्नमृतास्वादसंमिताम् ||५||
वैशम्पायन उवाच||
शृणु राजन्पुरा सम्यङ्मया द्वैपायनाच्छ्रुतम् |
प्रोच्यमानमिदं कृत्स्नं स्ववंशजननं शुभम् ||६||
दक्षस्यादितिः |
अदितेर्विवस्वान् |
विवस्वतो मनुः |
मनोरिला |
इलायाः पुरूरवाः |
पुरूरवस आयुः |
आयुषो नहुषः |
नहुषस्य ययातिः | ००७ |
ययातेर्द्वे भार्ये बभूवतुः |
उशनसो दुहिता देवयानी वृषपर्वणश्च दुहिता शर्मिष्ठा नाम |
अत्रानुवंशो भवति | ००८ |
यदुं च तुर्वसुं चैव देवयानी व्यजायत |
द्रुह्युं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी ||९||
तत्र यदोर्यादवाः |
पूरोः पौरवाः | ०१० |
पूरोर्भार्या कौसल्या नाम |
तस्यामस्य जज्ञे जनमेजयो नाम |
यस्त्रीनश्वमेधानाजहार |
विश्वजिता चेष्ट्वा वनं प्रविवेश | ०११ |
जनमेजयः खल्वनन्तां नामोपयेमे माधवीम् |
तस्यामस्य जज्ञे प्राचिन्वान् |
यः प्राचीं दिशं जिगाय यावत्सूर्योदयात् |
ततस्तस्य प्राचिन्वत्वम् | ०१२ |
प्राचिन्वान्खल्वश्मकीमुपयेमे |
तस्यामस्य जज्ञे संयातिः | ०१३ |
संयातिः खलु दृषद्वतो दुहितरं वराङ्गीं नामोपयेमे |
तस्यामस्य जज्ञे अहम्पातिः | ०१४ |
अहम्पातिस्तु खलु कृतवीर्यदुहितरमुपयेमे भानुमतीं नाम |
तस्यामस्य जज्ञे सार्वभौमः | ०१५ |
सार्वभौमः खलु जित्वाजहार कैकेयीं सुनन्दां नाम |
तस्यामस्य जज्ञे जयत्सेनः | ०१६ |
जयत्सेनः खलु वैदर्भीमुपयेमे सुषुवां नाम |
तस्यामस्य जज्ञे अराचीनः | ०१७ |
अराचीनोऽपि वैदर्भीमेवापरामुपयेमे मर्यादां नाम |
तस्यामस्य जज्ञे महाभौमः | ०१८ |
महाभौमः खलु प्रासेनजितीमुपयेमे सुयज्ञां नाम |
तस्यामस्य जज्ञे अयुतनायी |
यः पुरुषमेधानामयुतमानयत् |
तदस्यायुतनायित्वम् | ०१९ |
अयुतनायी खलु पृथुश्रवसो दुहितरमुपयेमे भासां नाम |
तस्यामस्य जज्ञे अक्रोधनः | ०२० |
अक्रोधनः खलु कालिङ्गीं करण्डुं नामोपयेमे |
तस्यामस्य जज्ञे देवातिथिः | ०२१ |
देवातिथिः खलु वैदेहीमुपयेमे मर्यादां नाम |
तस्यामस्य जज्ञे ऋचः | ०२२ |
ऋचः खल्वाङ्गेयीमुपयेमे सुदेवां नाम |
तस्यां पुत्रमजनयदृक्षम् | ०२३ |
ऋक्षः खलु तक्षकदुहितरमुपयेमे ज्वालां नाम |
तस्यां पुत्रं मतिनारं नामोत्पादयामास | ०२४ |
मतिनारः खलु सरस्वत्यां द्वादशवार्षिकं सत्रमाजहार | ०२५ |
निवृत्ते च सत्रे सरस्वत्यभिगम्य तं भर्तारं वरयामास |
तस्यां पुत्रमजनयत्तंसुं नाम | ०२६ |
अत्रानुवंशो भवति | ०२७ |
तंसुं सरस्वती पुत्रं मतिनारादजीजनत् |
इलिनं जनयामास कालिन्द्यां तंसुरात्मजम् ||२८||
इलिनस्तु रथन्तर्यां दुःषन्ताद्यान्पञ्च पुत्रानजनयत् | ०२९ |
दुःषन्तः खलु विश्वामित्रदुहितरं शकुन्तलां नामोपयेमे |
तस्यामस्य जज्ञे भरतः |
तत्र श्लोकौ भवतः | ०३० |
माता भस्त्रा पितुः पुत्रो येन जातः स एव सः |
भरस्व पुत्रं दुःषन्त मावमंस्थाः शकुन्तलाम् ||३१||
रेतोधाः पुत्र उन्नयति नरदेव यमक्षयात् |
त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला ||३२||
ततोऽस्य भरतत्वम् | ०३३ |
भरतः खलु काशेयीमुपयेमे सार्वसेनीं सुनन्दां नाम |
तस्यामस्य जज्ञे भुमन्युः | ०३४ |
भुमन्युः खलु दाशार्हीमुपयेमे जयां नाम |
तस्यामस्य जज्ञे सुहोत्रः | ०३५ |
सुहोत्रः खल्विक्ष्वाकुकन्यामुपयेमे सुवर्णां नाम |
तस्यामस्य जज्ञे हस्ती |
य इदं हास्तिनपुरं मापयामास |
एतदस्य हास्तिनपुरत्वम् | ०३६ |
हस्ती खलु त्रैगर्तीमुपयेमे यशोधरां नाम |
तस्यामस्य जज्ञे विकुण्ठनः | ०३७ |
विकुण्ठनः खलु दाशार्हीमुपयेमे सुदेवां नाम |
तस्यामस्य जज्ञेऽजमीढः | ०३८ |
अजमीढस्य चतुर्विंशं पुत्रशतं बभूव कैकेय्यां नागायां गान्धार्यां विमलायामृक्षायां चेति |
पृथक्पृथग्वंशकरा नृपतयः |
तत्र वंशकरः संवरणः | ०३९ |
संवरणः खलु वैवस्वतीं तपतीं नामोपयेमे |
तस्यामस्य जज्ञे कुरुः | ०४० |
कुरुः खलु दाशार्हीमुपयेमे शुभाङ्गीं नाम |
तस्यामस्य जज्ञे विडूरथः | ०४१ |
विडूरथस्तु मागधीमुपयेमे सम्प्रियां नाम |
तस्यामस्य जज्ञेऽरुग्वान्नाम | ०४२ |
अरुग्वान्खलु मागधीमुपयेमेऽमृतां नाम |
तस्यामस्य जज्ञे परिक्षित् | ०४३ |
परिक्षित्खलु बाहुदामुपयेमे सुयशां नाम |
तस्यामस्य जज्ञे भीमसेनः | ०४४ |
भीमसेनः खलु कैकेयीमुपयेमे सुकुमारीं नाम |
तस्यामस्य जज्ञे पर्यश्रवाः |
यमाहुः प्रतीपं नाम | ०४५ |
प्रतीपः खलु शैब्यामुपयेमे सुनन्दां नाम |
तस्यां पुत्रानुत्पादयामास देवापिं शन्तनुं बाह्लीकं चेति | ०४६ |
देवापिः खलु बाल एवारण्यं प्रविवेश |
शन्तनुस्तु महीपालोऽभवत् |
अत्रानुवंशो भवति | ०४७ |
यं यं कराभ्यां स्पृशति जीर्णं स सुखमश्नुते |
पुनर्युवा च भवति तस्मात्तं शन्तनुं विदुः ||४८||
तदस्य शन्तनुत्वम् | ०४९ |
शन्तनुः खलु गङ्गां भागीरथीमुपयेमे |
तस्यामस्य जज्ञे देवव्रतः |
यमाहुर्भीष्म इति | ०५० |
भीष्मः खलु पितुः प्रियचिकीर्षया सत्यवतीमुदवहन्मातरम् |
यामाहुर्गन्धकालीति | ०५१ |
तस्यां कानीनो गर्भः पराशराद्द्वैपायनः |
तस्यामेव शन्तनोर्द्वौ पुत्रौ बभूवतुः |
चित्राङ्गदो विचित्रवीर्यश्च | ०५२ |
तयोरप्राप्तयौवन एव चित्राङ्गदो गन्धर्वेण हतः |
विचित्रवीर्यस्तु राजा समभवत् | ०५३ |
विचित्रवीर्यः खलु कौसल्यात्मजेऽम्बिकाम्बालिके काशिराजदुहितरावुपयेमे | ०५४ |
विचित्रवीर्यस्त्वनपत्य एव विदेहत्वं प्राप्तः | ०५५ |
ततः सत्यवती चिन्तयामास |
दौःषन्तो वंश उच्छिद्यते इति | ०५६ |
सा द्वैपायनमृषिं चिन्तयामास | ०५७ |
स तस्याः पुरतः स्थितः किं करवाणीति | ०५८ |
सा तमुवाच |
भ्राता तवानपत्य एव स्वर्यातो विचित्रवीर्यः |
साध्वपत्यं तस्योत्पादयेति | ०५९ |
स परमित्युक्त्वा त्रीन्पुत्रानुत्पादयामास धृतराष्ट्रं पाण्डुं विदुरं चेति | ०६० |
तत्र धृतराष्ट्रस्य राज्ञः पुत्रशतं बभूव गान्धार्यां वरदानाद्द्वैपायनस्य | ०६१ |
तेषां धृतराष्ट्रस्य पुत्राणां चत्वारः प्रधाना बभूवुर्दुर्योधनो दुःशासनो विकर्णश्चित्रसेन इति | ०६२ |
पाण्डोस्तु द्वे भार्ये बभूवतुः कुन्ती माद्री चेत्युभे स्त्रीरत्ने | ०६३ |
अथ पाण्डुर्मृगयां चरन्मैथुनगतमृषिमपश्यन्मृग्यां वर्तमानम् |
तथैवाप्लुतमनासादितकामरसमतृप्तं बाणेनाभिजघान | ०६४ |
स बाणविद्ध उवाच पाण्डुम् |
चरता धर्ममिमं येन त्वयाभिज्ञेन कामरसस्याहमनवाप्तकामरसोऽभिहतस्तस्मात्त्वमप्येतामवस्थामासाद्यानवाप्तकामरसः पञ्चत्वमाप्स्यसि क्षिप्रमेवेति | ०६५ |
स विवर्णरूपः पाण्डुः शापं परिहरमाणो नोपासर्पत भार्ये | ०६६ |
वाक्यं चोवाच |
स्वचापल्यादिदं प्राप्तवानहम् |
शृणोमि च नानपत्यस्य लोका सन्तीति | ०६७ |
सा त्वं मदर्थे पुत्रानुत्पादयेति कुन्तीमुवाच | ०६८ |
सा तत्र पुत्रानुत्पादयामास धर्माद्युधिष्ठिरं मारुताद्भीमसेनं शक्रादर्जुनमिति | ०६९ |
स तां हृष्टरूपः पाण्डुरुवाच |
इयं ते सपत्न्यनपत्या |
साध्वस्यामपत्यमुत्पाद्यतामिति | ०७० |
स एवमस्त्वित्युक्तः कुन्त्या | ०७१ |
ततो माद्र्यामश्विभ्यां नकुलसहदेवावुत्पादितौ | ०७२ |
माद्रीं खल्वलङ्कृतां दृष्ट्वा पाण्डुर्भावं चक्रे | ०७३ |
स तां स्पृष्ट्वैव विदेहत्वं प्राप्तः | ०७४ |
तत्रैनं चितास्थं माद्री समन्वारुरोह | ०७५ |
उवाच कुन्तीम् |
यमयोरार्ययाप्रमत्तया भवितव्यमिति | ०७६ |
ततस्ते पञ्च पाण्डवाः कुन्त्या सहिता हास्तिनपुरमानीय तापसैर्भीष्मस्य विदुरस्य च निवेदिताः | ०७७ |
तत्रापि जतुगृहे दग्धुं समारब्धा न शकिता विदुरमन्त्रितेन | ०७८ |
ततश्च हिडिम्बमन्तरा हत्वा एकचक्रां गताः | ०७९ |
तस्यामप्येकचक्रायां बकं नाम राक्षसं हत्वा पाञ्चालनगरमभिगताः | ०८० |
तस्माद्द्रौपदीं भार्यामविन्दन्स्वविषयं चाजग्मुः कुशलिनः | ०८१ |
पुत्रांश्चोत्पादयामासुः |
प्रतिविन्ध्यं युधिष्ठिरः |
सुतसोमं वृकोदरः |
श्रुतकीर्तिमर्जुनः |
शतानीकं नकुलः |
श्रुतकर्माणं सहदेव इति | ०८२ |
युधिष्ठिरस्तु गोवासनस्य शैब्यस्य देविकां नाम कन्यां स्वयंवरे लेभे |
तस्यां पुत्रं जनयामास यौधेयं नाम | ०८३ |
भीमसेनोऽपि काश्यां बलधरां नामोपयेमे वीर्यशुल्काम् |
तस्यां पुत्रं सर्वगं नामोत्पादयामास | ०८४ |
अर्जुनः खलु द्वारवतीं गत्वा भगिनीं वासुदेवस्य सुभद्रां नाम भार्यामुदवहत् |
तस्यां पुत्रमभिमन्युं नाम जनयामास | ०८५ |
नकुलस्तु चैद्यां करेणुवतीं नाम भार्यामुदवहत् |
तस्यां पुत्रं निरमित्रं नामाजनयत् | ०८६ |
सहदेवोऽपि माद्रीमेव स्वयंवरे विजयां नामोपयेमे |
तस्यां पुत्रमजनयत्सुहोत्रं नाम | ०८७ |
भीमसेनस्तु पूर्वमेव हिडिम्बायां राक्षस्यां घटोत्कचं नाम पुत्रं जनयामास | ०८८ |
इत्येते एकादश पाण्डवानां पुत्राः | ०८९ |
विराटस्य दुहितरमुत्तरां नामाभिमन्युरुपयेमे |
तस्यामस्य परासुर्गर्भोऽजायत | ०९० |
तमुत्सङ्गेन प्रतिजग्राह पृथा नियोगात्पुरुषोत्तमस्य वासुदेवस्य |
षाण्मासिकं गर्भमहमेनं जीवयिष्यामीति | ०९१ |
सञ्जीवयित्वा चैनमुवाच |
परिक्षीणे कुले जातो भवत्वयं परिक्षिन्नामेति | ०९२ |
परिक्षित्तु खलु माद्रवतीं नामोपयेमे |
तस्यामस्य जनमेजयः | ०९३ |
जनमेजयात्तु वपुष्टमायां द्वौ पुत्रौ शतानीकः शङ्कुश्च | ०९४ |
शतानीकस्तु खलु वैदेहीमुपयेमे |
तस्यामस्य जज्ञे पुत्रोऽश्वमेधदत्तः | ०९५ |
इत्येष पूरोर्वंशस्तु पाण्डवानां च कीर्तितः |
पूरोर्वंशमिमं श्रुत्वा सर्वपापैः प्रमुच्यते ||९६||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
090-अध्यायः
वैशम्पायन उवाच||
इक्ष्वाकुवंशप्रभवो राजासीत्पृथिवीपतिः |
महाभिष इति ख्यातः सत्यवाक्सत्यविक्रमः ||१||
सोऽश्वमेधसहस्रेण वाजपेयशतेन च |
तोषयामास देवेन्द्रं स्वर्गं लेभे ततः प्रभुः ||२||
ततः कदाचिद्ब्रह्माणमुपासां चक्रिरे सुराः |
तत्र राजर्षयो आसन्स च राजा महाभिषः ||३||
अथ गङ्गा सरिच्छ्रेष्ठा समुपायात्पितामहम् |
तस्या वासः समुद्धूतं मारुतेन शशिप्रभम् ||४||
ततोऽभवन्सुरगणाः सहसावाङ्मुखास्तदा |
महाभिषस्तु राजर्षिरशङ्को दृष्टवान्नदीम् ||५||
अपध्यातो भगवता ब्रह्मणा स महाभिषः |
उक्तश्च जातो मर्त्येषु पुनर्लोकानवाप्स्यसि ||६||
स चिन्तयित्वा नृपतिर्नृपान्सर्वांस्तपोधनान् |
प्रतीपं रोचयामास पितरं भूरिवर्चसम् ||७||
महाभिषं तु तं दृष्ट्वा नदी धैर्याच्च्युतं नृपम् |
तमेव मनसाध्यायमुपावर्तत्सरिद्वरा ||८||
सा तु विध्वस्तवपुषः कश्मलाभिहतौजसः |
ददर्श पथि गच्छन्ती वसून्देवान्दिवौकसः ||९||
तथारूपांश्च तान्दृष्ट्वा पप्रच्छ सरितां वरा |
किमिदं नष्टरूपाः स्थ कच्चित्क्षेमं दिवौकसाम् ||१०||
तामूचुर्वसवो देवाः शप्ताः स्मो वै महानदि |
अल्पेऽपराधे संरम्भाद्वसिष्ठेन महात्मना ||११||
विमूढा हि वयं सर्वे प्रच्छन्नमृषिसत्तमम् |
सन्ध्यां वसिष्ठमासीनं तमत्यभिसृताः पुरा ||१२||
तेन कोपाद्वयं शप्ता योनौ सम्भवतेति ह |
न शक्यमन्यथा कर्तुं यदुक्तं ब्रह्मवादिना ||१३||
त्वं तस्मान्मानुषी भूत्वा सूष्व पुत्रान्वसून्भुवि |
न मानुषीणां जठरं प्रविशेमाशुभं वयम् ||१४||
इत्युक्ता तान्वसून्गङ्गा तथेत्युक्त्वाब्रवीदिदम् |
मर्त्येषु पुरुषश्रेष्ठः को वः कर्ता भविष्यति ||१५||
वसव ऊचुः||
प्रतीपस्य सुतो राजा शन्तनुर्नाम धार्मिकः |
भविता मानुषे लोके स नः कर्ता भविष्यति ||१६||
गङ्गोवाच||
ममाप्येवं मतं देवा यथावदत मानघाः |
प्रियं तस्य करिष्यामि युष्माकं चैतदीप्शितम् ||१७||
वसव ऊचुः||
जातान्कुमारान्स्वानप्सु प्रक्षेप्तुं वै त्वमर्हसि |
यथा नचिरकालं नो निष्कृतिः स्यात्त्रिलोकगे ||१८||
गङ्गोवाच||
एवमेतत्करिष्यामि पुत्रस्तस्य विधीयताम् |
नास्य मोघः सङ्गमः स्यात्पुत्रहेतोर्मया सह ||१९||
वसव ऊचुः||
तुरीयार्धं प्रदास्यामो वीर्यस्यैकैकशो वयम् |
तेन वीर्येण पुत्रस्ते भविता तस्य चेप्सितः ||२०||
न सम्पत्स्यति मर्त्येषु पुनस्तस्य तु सन्ततिः |
तस्मादपुत्रः पुत्रस्ते भविष्यति स वीर्यवान् ||२१||
वैशम्पायन उवाच||
एवं ते समयं कृत्वा गङ्गया वसवः सह |
जग्मुः प्रहृष्टमनसो यथासङ्कल्पमञ्जसा ||२२||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
091-अध्यायः
वैशम्पायन उवाच||
ततः प्रतीपो राजा स सर्वभूतहिते रतः |
निषसाद समा बह्वीर्गङ्गातीरगतो जपन् ||१||
तस्य रूपगुणोपेता गङ्गा श्रीरिव रूपिणी |
उत्तीर्य सलिलात्तस्माल्लोभनीयतमाकृतिः ||२||
अधीयानस्य राजर्षेर्दिव्यरूपा मनस्विनी |
दक्षिणं शालसङ्काशमूरुं भेजे शुभानना ||३||
प्रतीपस्तु महीपालस्तामुवाच मनस्विनीम् |
करवाणि किं ते कल्याणि प्रियं यत्तेऽभिकाङ्क्षितम् ||४||
स्त्र्युवाच||
त्वामहं कामये राजन्कुरुश्रेष्ठ भजस्व माम् |
त्यागः कामवतीनां हि स्त्रीणां सद्भिर्विगर्हितः ||५||
प्रतीप उवाच||
नाहं परस्त्रियं कामाद्गच्छेयं वरवर्णिनि |
न चासवर्णां कल्याणि धर्म्यं तद्विद्धि मे व्रतम् ||६||
स्त्र्युवाच||
नाश्रेयस्यस्मि नागम्या न वक्तव्या च कर्हिचित् |
भज मां भजमानां त्वं राजन्कन्यां वरस्त्रियम् ||७||
प्रतीप उवाच||
मयातिवृत्तमेतत्ते यन्मां चोदयसि प्रियम् |
अन्यथा प्रतिपन्नं मां नाशयेद्धर्मविप्लवः ||८||
प्राप्य दक्षिणमूरुं मे त्वमाश्लिष्टा वराङ्गने |
अपत्यानां स्नुषाणां च भीरु विद्ध्येतदासनम् ||९||
सव्यतः कामिनीभागस्त्वया स च विवर्जितः |
तस्मादहं नाचरिष्ये त्वयि कामं वराङ्गने ||१०||
स्नुषा मे भव कल्याणि पुत्रार्थे त्वां वृणोम्यहम् |
स्नुषापक्षं हि वामोरु त्वमागम्य समाश्रिता ||११||
स्त्र्युवाच||
एवमप्यस्तु धर्मज्ञ संयुज्येयं सुतेन ते |
त्वद्भक्त्यैव भजिष्यामि प्रख्यातं भारतं कुलम् ||१२||
पृथिव्यां पार्थिवा ये च तेषां यूयं परायणम् |
गुणा न हि मया शक्या वक्तुं वर्षशतैरपि ||१३||
कुलस्य ये वः प्रस्थितास्तत्साधुत्वमनुत्तमम् ||१३||
स मे नाभिजनज्ञः स्यादाचरेयं च यद्विभो |
तत्सर्वमेव पुत्रस्ते न मीमांसेत कर्हिचित् ||१४||
एवं वसन्ती पुत्रे ते वर्धयिष्याम्यहं प्रियम् |
पुत्रैः पुण्यैः प्रियैश्चापि स्वर्गं प्राप्स्यति ते सुतः ||१५||
वैशम्पायन उवाच||
तथेत्युक्त्वा तु सा राजंस्तत्रैवान्तरधीयत |
पुत्रजन्म प्रतीक्षंस्तु स राजा तदधारयत् ||१६||
एतस्मिन्नेव काले तु प्रतीपः क्षत्रियर्षभः |
तपस्तेपे सुतस्यार्थे सभार्यः कुरुनन्दन ||१७||
तयोः समभवत्पुत्रो वृद्धयोः स महाभिषः |
शान्तस्य जज्ञे सन्तानस्तस्मादासीत्स शन्तनुः ||१८||
संस्मरंश्चाक्षयाँल्लोकान्विजितान्स्वेन कर्मणा |
पुण्यकर्मकृदेवासीच्छन्तनुः कुरुसत्तम ||१९||
प्रतीपः शन्तनुं पुत्रं यौवनस्थं ततोऽन्वशात् |
पुरा मां स्त्री समभ्यागाच्छन्तनो भूतये तव ||२०||
त्वामाव्रजेद्यदि रहः सा पुत्र वरवर्णिनी |
कामयानाभिरूपाढ्या दिव्या स्त्री पुत्रकाम्यया ||२१||
सा त्वया नानुयोक्तव्या कासि कस्यासि वाङ्गने ||२१||
यच्च कुर्यान्न तत्कार्यं प्रष्टव्या सा त्वयानघ |
मन्नियोगाद्भजन्तीं तां भजेथा इत्युवाच तम् ||२२||
एवं संदिश्य तनयं प्रतीपः शन्तनुं तदा |
स्वे च राज्येऽभिषिच्यैनं वनं राजा विवेश ह ||२३||
स राजा शन्तनुर्धीमान्ख्यातः पृथ्व्यां धनुर्धरः |
बभूव मृगयाशीलः सततं वनगोचरः ||२४||
स मृगान्महिषांश्चैव विनिघ्नन्राजसत्तमः |
गङ्गामनुचचारैकः सिद्धचारणसेविताम् ||२५||
स कदाचिन्महाराज ददर्श परमस्त्रियम् |
जाज्वल्यमानां वपुषा साक्षात्पद्मामिव श्रियम् ||२६||
सर्वानवद्यां सुदतीं दिव्याभरणभूषिताम् |
सूक्ष्माम्बरधरामेकां पद्मोदरसमप्रभाम् ||२७||
तां दृष्ट्वा हृष्टरोमाभूद्विस्मितो रूपसम्पदा |
पिबन्निव च नेत्राभ्यां नातृप्यत नराधिपः ||२८||
सा च दृष्ट्वैव राजानं विचरन्तं महाद्युतिम् |
स्नेहादागतसौहार्दा नातृप्यत विलासिनी ||२९||
तामुवाच ततो राजा सान्त्वयञ्श्लक्ष्णया गिरा |
देवी वा दानवी वा त्वं गन्धर्वी यदि वाप्सराः ||३०||
यक्षी वा पन्नगी वापि मानुषी वा सुमध्यमे |
या वा त्वं सुरगर्भाभे भार्या मे भव शोभने ||३१||
एतच्छ्रुत्वा वचो राज्ञः सस्मितं मृदु वल्गु च |
वसूनां समयं स्मृत्वा अभ्यगच्छदनिन्दिता ||३२||
उवाच चैव राज्ञः सा ह्लादयन्ती मनो गिरा |
भविष्यामि महीपाल महिषी ते वशानुगा ||३३||
यत्तु कुर्यामहं राजञ्शुभं वा यदि वाशुभम् |
न तद्वारयितव्यास्मि न वक्तव्या तथाप्रियम् ||३४||
एवं हि वर्तमानेऽहं त्वयि वत्स्यामि पार्थिव |
वारिता विप्रियं चोक्ता त्यजेयं त्वामसंशयम् ||३५||
तथेति राज्ञा सा तूक्ता तदा भरतसत्तम |
प्रहर्षमतुलं लेभे प्राप्य तं पार्थिवोत्तमम् ||३६||
आसाद्य शन्तनुस्तां च बुभुजे कामतो वशी |
न प्रष्टव्येति मन्वानो न स तां किञ्चिदूचिवान् ||३७||
स तस्याः शीलवृत्तेन रूपौदार्यगुणेन च |
उपचारेण च रहस्तुतोष जगतीपतिः ||३८||
दिव्यरूपा हि सा देवी गङ्गा त्रिपथगा नदी |
मानुषं विग्रहं श्रीमत्कृत्वा सा वरवर्णिनी ||३९||
भाग्योपनतकामस्य भार्येवोपस्थिताभवत् |
शन्तनो राजसिंहस्य देवराजसमद्युतेः ||४०||
सम्भोगस्नेहचातुर्यैर्हावलास्यैर्मनोहरैः |
राजानं रमयामास यथा रेमे तथैव सः ||४१||
स राजा रतिसक्तत्वादुत्तमस्त्रीगुणैर्हृतः |
संवत्सरानृतून्मासान्न बुबोध बहून्गतान् ||४२||
रममाणस्तया सार्धं यथाकामं जनेश्वरः |
अष्टावजनयत्पुत्रांस्तस्याममरवर्णिनः ||४३||
जातं जातं च सा पुत्रं क्षिपत्यम्भसि भारत |
प्रीणामि त्वाहमित्युक्त्वा गङ्गास्रोतस्यमज्जयत् ||४४||
तस्य तन्न प्रियं राज्ञः शन्तनोरभवत्तदा |
न च तां किञ्चनोवाच त्यागाद्भीतो महीपतिः ||४५||
अथ तामष्टमे पुत्रे जाते प्रहसितामिव |
उवाच राजा दुःखार्तः परीप्सन्पुत्रमात्मनः ||४६||
मा वधीः कासि कस्यासि किं हिंससि सुतानिति |
पुत्रघ्नि सुमहत्पापं मा प्रापस्तिष्ठ गर्हिते ||४७||
स्त्र्युवाच||
पुत्रकाम न ते हन्मि पुत्रं पुत्रवतां वर |
जीर्णस्तु मम वासोऽयं यथा स समयः कृतः ||४८||
अहं गङ्गा जह्नुसुता महर्षिगणसेविता |
देवकार्यार्थसिद्ध्यर्थमुषिटाहं त्वया सह ||४९||
अष्टेमे वसवो देवा महाभागा महौजसः |
वसिष्ठशापदोषेण मानुषत्वमुपागताः ||५०||
तेषां जनयिता नान्यस्त्वदृते भुवि विद्यते |
मद्विधा मानुषी धात्री न चैवास्तीह काचन ||५१||
तस्मात्तज्जननीहेतोर्मानुषत्वमुपागता |
जनयित्वा वसूनष्टौ जिता लोकास्त्वयाक्षयाः ||५२||
देवानां समयस्त्वेष वसूनां संश्रुतो मया |
जातं जातं मोक्षयिष्ये जन्मतो मानुषादिति ||५३||
तत्ते शापाद्विनिर्मुक्ता आपवस्य महात्मनः |
स्वस्ति तेऽस्तु गमिष्यामि पुत्रं पाहि महाव्रतम् ||५४||
एष पर्यायवासो मे वसूनां संनिधौ कृतः |
मत्प्रसूतं विजानीहि गङ्गादत्तमिमं सुतम् ||५५||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
092-अध्यायः
शन्तनुरुवाच||
आपवो नाम को न्वेष वसूनां किं च दुष्कृतम् |
यस्याभिशापात्ते सर्वे मानुषीं तनुमागताः ||१||
अनेन च कुमारेण गङ्गादत्तेन किं कृतम् |
यस्य चैव कृतेनायं मानुषेषु निवत्स्यति ||२||
ईशानाः सर्वलोकस्य वसवस्ते च वै कथम् |
मानुषेषूदपद्यन्त तन्ममाचक्ष्व जाह्नवि ||३||
वैशम्पायन उवाच||
सैवमुक्ता ततो गङ्गा राजानमिदमब्रवीत् |
भर्तारं जाह्नवी देवी शन्तनुं पुरुषर्षभम् ||४||
यं लेभे वरुणः पुत्रं पुरा भरतसत्तम |
वसिष्ठो नाम स मुनिः ख्यात आपव इत्युत ||५||
तस्याश्रमपदं पुण्यं मृगपक्षिगणान्वितम् |
मेरोः पार्श्वे नगेन्द्रस्य सर्वर्तुकुसुमावृतम् ||६||
स वारुणिस्तपस्तेपे तस्मिन्भरतसत्तम |
वने पुण्यकृतां श्रेष्ठः स्वादुमूलफलोदके ||७||
दक्षस्य दुहिता या तु सुरभीत्यतिगर्विता |
गां प्रजाता तु सा देवी कश्यपाद्भरतर्षभ ||८||
अनुग्रहार्थं जगतः सर्वकामदुघां वराम् |
तां लेभे गां तु धर्मात्मा होमधेनुं स वारुणिः ||९||
सा तस्मिंस्तापसारण्ये वसन्ती मुनिसेविते |
चचार रम्ये धर्म्ये च गौरपेतभया तदा ||१०||
अथ तद्वनमाजग्मुः कदाचिद्भरतर्षभ |
पृथ्वाद्या वसवः सर्वे देवदेवर्षिसेवितम् ||११||
ते सदारा वनं तच्च व्यचरन्त समन्ततः |
रेमिरे रमणीयेषु पर्वतेषु वनेषु च ||१२||
तत्रैकस्य तु भार्या वै वसोर्वासवविक्रम |
सा चरन्ती वने तस्मिन्गां ददर्श सुमध्यमा ||१३||
या सा वसिष्ठस्य मुनेः सर्वकामधुगुत्तमा ||१३||
सा विस्मयसमाविष्टा शीलद्रविणसम्पदा |
दिवे वै दर्शयामास तां गां गोवृषभेक्षण ||१४||
स्वापीनां च सुदोग्ध्रीं च सुवालधिमुखां शुभाम् |
उपपन्नां गुणैः सर्वैः शीलेनानुत्तमेन च ||१५||
एवङ्गुणसमायुक्तां वसवे वसुनन्दिनी |
दर्शयामास राजेन्द्र पुरा पौरवनन्दन ||१६||
द्यौस्तदा तां तु दृष्ट्वैव गां गजेन्द्रेन्द्रविक्रम |
उवाच राजंस्तां देवीं तस्या रूपगुणान्वदन् ||१७||
एषा गौरुत्तमा देवि वारुणेरसितेक्षणे |
ऋषेस्तस्य वरारोहे यस्येदं वनमुत्तमम् ||१८||
अस्याः क्षीरं पिबेन्मर्त्यः स्वादु यो वै सुमध्यमे |
दश वर्षसहस्राणि स जीवेत्स्थिरयौवनः ||१९||
एतच्छ्रुत्वा तु सा देवी नृपोत्तम सुमध्यमा |
तमुवाचानवद्याङ्गी भर्तारं दीप्ततेजसम् ||२०||
अस्ति मे मानुषे लोके नरदेवात्मजा सखी |
नाम्ना जिनवती नाम रूपयौवनशालिनी ||२१||
उशीनरस्य राजर्षेः सत्यसन्धस्य धीमतः |
दुहिता प्रथिता लोके मानुषे रूपसम्पदा ||२२||
तस्या हेतोर्महाभाग सवत्सां गां ममेप्सिताम् |
आनयस्वामरश्रेष्ठ त्वरितं पुण्यवर्धन ||२३||
यावदस्याः पयः पीत्वा सा सखी मम मानद |
मानुषेषु भवत्वेका जरारोगविवर्जिता ||२४||
एतन्मम महाभाग कर्तुमर्हस्यनिन्दित |
प्रियं प्रियतरं ह्यस्मान्नास्ति मेऽन्यत्कथञ्चन ||२५||
एतच्छ्रुत्वा वचस्तस्या देव्याः प्रियचिकीर्षया |
पृथ्वाद्यैर्भ्रातृभिः सार्धं द्यौस्तदा तां जहार गाम् ||२६||
तया कमलपत्राक्ष्या नियुक्तो द्यौस्तदा नृप |
ऋषेस्तस्य तपस्तीव्रं न शशाक निरीक्षितुम् ||२७||
हृता गौः सा तदा तेन प्रपातस्तु न तर्कितः ||२७||
अथाश्रमपदं प्राप्तः फलान्यादाय वारुणिः |
न चापश्यत गां तत्र सवत्सां काननोत्तमे ||२८||
ततः स मृगयामास वने तस्मिंस्तपोधनः |
नाध्यगच्छच्च मृगयंस्तां गां मुनिरुदारधीः ||२९||
ज्ञात्वा तथापनीतां तां वसुभिर्दिव्यदर्शनः |
ययौ क्रोधवशं सद्यः शशाप च वसूंस्तदा ||३०||
यस्मान्मे वसवो जह्रुर्गां वै दोग्ध्रीं सुवालधिम् |
तस्मात्सर्वे जनिष्यन्ति मानुषेषु न संशयः ||३१||
एवं शशाप भगवान्वसूंस्तान्मुनिसत्तमः |
वशं कोपस्य सम्प्राप्त आपवो भरतर्षभ ||३२||
शप्त्वा च तान्महाभागस्तपस्येव मनो दधे |
एवं स शप्तवान्राजन्वसूनष्टौ तपोधनः ||३३||
महाप्रभावो ब्रह्मर्षिर्देवान्रोषसमन्वितः ||३३||
अथाश्रमपदं प्राप्य तं स्म भूयो महात्मनः |
शप्ताः स्म इति जानन्त ऋषिं तमुपचक्रमुः ||३४||
प्रसादयन्तस्तमृषिं वसवः पार्थिवर्षभ |
न लेभिरे च तस्मात्ते प्रसादमृषिसत्तमात् ||३५||
आपवात्पुरुषव्याघ्र सर्वधर्मविशारदात् ||३५||
उवाच च स धर्मात्मा सप्त यूयं धरादयः |
अनु संवत्सराच्छापमोक्षं वै समवाप्स्यथ ||३६||
अयं तु यत्कृते यूयं मया शप्ताः स वत्स्यति |
द्यौस्तदा मानुषे लोके दीर्घकालं स्वकर्मणा ||३७||
नानृतं तच्चिकीर्षामि युष्मान्क्रुद्धो यदब्रुवम् |
न प्रजास्यति चाप्येष मानुषेषु महामनाः ||३८||
भविष्यति च धर्मात्मा सर्वशास्त्रविशारदः |
पितुः प्रियहिते युक्तः स्त्रीभोगान्वर्जयिष्यति ||३९||
एवमुक्त्वा वसून्सर्वाञ्जगाम भगवानृषिः ||३९||
ततो मामुपजग्मुस्ते समस्ता वसवस्तदा |
अयाचन्त च मां राजन्वरं स च मया कृतः ||४०||
जाताञ्जातान्प्रक्षिपास्मान्स्वयं गङ्गे त्वमम्भसि ||४०||
एवं तेषामहं सम्यक्षप्तानां राजसत्तम |
मोक्षार्थं मानुषाल्लोकाद्यथावत्कृतवत्यहम् ||४१||
अयं शापादृषेस्तस्य एक एव नृपोत्तम |
द्यौ राजन्मानुषे लोके चिरं वत्स्यति भारत ||४२||
एतदाख्याय सा देवी तत्रैवान्तरधीयत |
आदाय च कुमारं तं जगामाथ यथेप्सितम् ||४३||
स तु देवव्रतो नाम गाङ्गेय इति चाभवत् |
द्विनामा शन्तनोः पुत्रः शन्तनोरधिको गुणैः ||४४||
शन्तनुश्चापि शोकार्तो जगाम स्वपुरं ततः |
तस्याहं कीर्तयिष्यामि शन्तनोरमितान्गुणान् ||४५||
महाभाग्यं च नृपतेर्भारतस्य यशस्विनः |
यस्येतिहासो द्युतिमान्महाभारतमुच्यते ||४६||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
093-अध्यायः
वैशम्पायन उवाच||
स एवं शन्तनुर्धीमान्देवराजर्षिसत्कृतः |
धर्मात्मा सर्वलोकेषु सत्यवागिति विश्रुतः ||१||
दमो दानं क्षमा बुद्धिर्ह्रीर्धृतिस्तेज उत्तमम् |
नित्यान्यासन्महासत्त्वे शन्तनौ पुरुषर्षभे ||२||
एवं स गुणसम्पन्नो धर्मार्थकुशलो नृपः |
आसीद्भरतवंशस्य गोप्ता साधुजनस्य च ||३||
कम्बुग्रीवः पृथुव्यंसो मत्तवारणविक्रमः |
धर्म एव परः कामादर्थाच्चेति व्यवस्थितः ||४||
एतान्यासन्महासत्त्वे शन्तनौ भरतर्षभ |
न चास्य सदृशः कश्चित्क्षत्रियो धर्मतोऽभवत् ||५||
वर्तमानं हि धर्मे स्वे सर्वधर्मविदां वरम् |
तं महीपा महीपालं राजराज्येऽभ्यषेचयन् ||६||
वीतशोकभयाबाधाः सुखस्वप्नविबोधनाः |
प्रति भारतगोप्तारं समपद्यन्त भूमिपाः ||७||
शन्तनुप्रमुखैर्गुप्ते लोके नृपतिभिस्तदा |
नियमात्सर्ववर्णानां ब्रह्मोत्तरमवर्तत ||८||
ब्रह्म पर्यचरत्क्षत्रं विशः क्षत्रमनुव्रताः |
ब्रह्मक्षत्रानुरक्ताश्च शूद्राः पर्यचरन्विशः ||९||
स हास्तिनपुरे रम्ये कुरूणां पुटभेदने |
वसन्सागरपर्यन्तामन्वशाद्वै वसुन्धराम् ||१०||
स देवराजसदृशो धर्मज्ञः सत्यवागृजुः |
दानधर्मतपोयोगाच्छ्रिया परमया युतः ||११||
अरागद्वेषसंयुक्तः सोमवत्प्रियदर्शनः |
तेजसा सूर्यसङ्काशो वायुवेगसमो जवे ||१२||
अन्तकप्रतिमः कोपे क्षमया पृथिवीसमः ||१२||
वधः पशुवराहाणां तथैव मृगपक्षिणाम् |
शन्तनौ पृथिवीपाले नावर्तत वृथा नृप ||१३||
धर्मब्रह्मोत्तरे राज्ये शन्तनुर्विनयात्मवान् |
समं शशास भूतानि कामरागविवर्जितः ||१४||
देवर्षिपितृयज्ञार्थमारभ्यन्त तदा क्रियाः |
न चाधर्मेण केषाञ्चित्प्राणिनामभवद्वधः ||१५||
असुखानामनाथानां तिर्यग्योनिषु वर्तताम् |
स एव राजा भूतानां सर्वेषामभवत्पिता ||१६||
तस्मिन्कुरुपतिश्रेष्ठे राजराजेश्वरे सति |
श्रिता वागभवत्सत्यं दानधर्माश्रितं मनः ||१७||
स समाः षोडशाष्टौ च चतस्रोऽष्टौ तथापराः |
रतिमप्राप्नुवन्स्त्रीषु बभूव वनगोचरः ||१८||
तथारूपस्तथाचारस्तथावृत्तस्तथाश्रुतः |
गाङ्गेयस्तस्य पुत्रोऽभून्नाम्ना देवव्रतो वसुः ||१९||
सर्वास्त्रेषु स निष्णातः पार्थिवेष्वितरेषु च |
महाबलो महासत्त्वो महावीर्यो महारथः ||२०||
स कदाचिन्मृगं विद्ध्वा गङ्गामनुसरन्नदीम् |
भागीरथीमल्पजलां शन्तनुर्दृष्टवान्नृपः ||२१||
तां दृष्ट्वा चिन्तयामास शन्तनुः पुरुषर्षभः |
स्यन्दते किं न्वियं नाद्य सरिच्छ्रेष्ठा यथा पुरा ||२२||
ततो निमित्तमन्विच्छन्ददर्श स महामनाः |
कुमारं रूपसम्पन्नं बृहन्तं चारुदर्शनम् ||२३||
दिव्यमस्त्रं विकुर्वाणं यथा देवं पुरंदरम् |
कृत्स्नां गङ्गां समावृत्य शरैस्तीक्ष्णैरवस्थितम् ||२४||
तां शरैरावृतां दृष्ट्वा नदीं गङ्गां तदन्तिके |
अभवद्विस्मितो राजा कर्म दृष्ट्वातिमानुषम् ||२५||
जातमात्रं पुरा दृष्टं तं पुत्रं शन्तनुस्तदा |
नोपलेभे स्मृतिं धीमानभिज्ञातुं तमात्मजम् ||२६||
स तु तं पितरं दृष्ट्वा मोहयामास मायया |
संमोह्य तु ततः क्षिप्रं तत्रैवान्तरधीयत ||२७||
तदद्भुतं तदा दृष्ट्वा तत्र राजा स शन्तनुः |
शङ्कमानः सुतं गङ्गामब्रवीद्दर्शयेति ह ||२८||
दर्शयामास तं गङ्गा बिभ्रती रूपमुत्तमम् |
गृहीत्वा दक्षिणे पाणौ तं कुमारमलङ्कृतम् ||२९||
अलङ्कृतामाभरणैररजोम्बरधारिणीम् |
दृष्टपूर्वामपि सतीं नाभ्यजानात्स शन्तनुः ||३०||
गङ्गोवाच||
यं पुत्रमष्टमं राजंस्त्वं पुरा मय्यजायिथाः |
स तेऽयं पुरुषव्याघ्र नयस्वैनं गृहान्तिकम् ||३१||
वेदानधिजगे साङ्गान्वसिष्ठादेव वीर्यवान् |
कृतास्त्रः परमेष्वासो देवराजसमो युधि ||३२||
सुराणां संमतो नित्यमसुराणां च भारत |
उशना वेद यच्छास्त्रमयं तद्वेद सर्वशः ||३३||
तथैवाङ्गिरसः पुत्रः सुरासुरनमस्कृतः |
यद्वेद शास्त्रं तच्चापि कृत्स्नमस्मिन्प्रतिष्ठितम् ||३४||
तव पुत्रे महाबाहौ साङ्गोपाङ्गं महात्मनि ||३४||
ऋषिः परैरनाधृष्यो जामदग्न्यः प्रतापवान् |
यदस्त्रं वेद रामश्च तदप्यस्मिन्प्रतिष्ठितम् ||३५||
महेष्वासमिमं राजन्राजधर्मार्थकोविदम् |
मया दत्तं निजं पुत्रं वीरं वीर गृहान्नय ||३६||
वैशम्पायन उवाच||
तयैवं समनुज्ञातः पुत्रमादाय शन्तनुः |
भ्राजमानं यथादित्यमाययौ स्वपुरं प्रति ||३७||
पौरवः स्वपुरं गत्वा पुरंदरपुरोपमम् |
सर्वकामसमृद्धार्थं मेने आत्मानमात्मना ||३८||
पौरवेषु ततः पुत्रं यौवराज्येऽभ्यषेचयत् ||३८||
पौरवाञ्शन्तनोः पुत्रः पितरं च महायशाः |
राष्ट्रं च रञ्जयामास वृत्तेन भरतर्षभ ||३९||
स तथा सह पुत्रेण रममाणो महीपतिः |
वर्तयामास वर्षाणि चत्वार्यमितविक्रमः ||४०||
स कदाचिद्वनं यातो यमुनामभितो नदीम् |
महीपतिरनिर्देश्यमाजिघ्रद्गन्धमुत्तमम् ||४१||
तस्य प्रभवमन्विच्छन्विचचार समन्ततः |
स ददर्श तदा कन्यां दाशानां देवरूपिणीम् ||४२||
तामपृच्छत्स दृष्ट्वैव कन्यामसितलोचनाम् |
कस्य त्वमसि का चासि किं च भीरु चिकीर्षसि ||४३||
साब्रवीद्दाशकन्यास्मि धर्मार्थं वाहये तरीम् |
पितुर्नियोगाद्भद्रं ते दाशराज्ञो महात्मनः ||४४||
रूपमाधुर्यगन्धैस्तां संयुक्तां देवरूपिणीम् |
समीक्ष्य राजा दाशेयीं कामयामास शन्तनुः ||४५||
स गत्वा पितरं तस्या वरयामास तां तदा |
पर्यपृच्छत्ततस्तस्याः पितरं चात्मकारणात् ||४६||
स च तं प्रत्युवाचेदं दाशराजो महीपतिम् |
जातमात्रैव मे देया वराय वरवर्णिनी ||४७||
हृदि कामस्तु मे कश्चित्तं निबोध जनेश्वर ||४७||
यदीमां धर्मपत्नीं त्वं मत्तः प्रार्थयसेऽनघ |
सत्यवागसि सत्येन समयं कुरु मे ततः ||४८||
समयेन प्रदद्यां ते कन्यामहमिमां नृप |
न हि मे त्वत्समः कश्चिद्वरो जातु भविष्यति ||४९||
शन्तनुरुवाच||
श्रुत्वा तव वरं दाश व्यवस्येयमहं न वा |
दातव्यं चेत्प्रदास्यामि न त्वदेयं कथञ्चन ||५०||
दाश उवाच||
अस्यां जायेत यः पुत्रः स राजा पृथिवीपतिः |
त्वदूर्ध्वमभिषेक्तव्यो नान्यः कश्चन पार्थिव ||५१||
वैशम्पायन उवाच||
नाकामयत तं दातुं वरं दाशाय शन्तनुः |
शरीरजेन तीव्रेण दह्यमानोऽपि भारत ||५२||
स चिन्तयन्नेव तदा दाशकन्यां महीपतिः |
प्रत्ययाद्धास्तिनपुरं शोकोपहतचेतनः ||५३||
ततः कदाचिच्छोचन्तं शन्तनुं ध्यानमास्थितम् |
पुत्रो देवव्रतोऽभ्येत्य पितरं वाक्यमब्रवीत् ||५४||
सर्वतो भवतः क्षेमं विधेयाः सर्वपार्थिवाः |
तत्किमर्थमिहाभीक्ष्णं परिशोचसि दुःखितः ||५५||
ध्यायन्निव च किं राजन्नाभिभाषसि किञ्चन ||५५||
एवमुक्तः स पुत्रेण शन्तनुः प्रत्यभाषत |
असंशयं ध्यानपरं यथा मात्थ तथास्म्युत ||५६||
अपत्यं नस्त्वमेवैकः कुले महति भारत |
अनित्यता च मर्त्यानामतः शोचामि पुत्रक ||५७||
कथञ्चित्तव गाङ्गेय विपत्तौ नास्ति नः कुलम् |
असंशयं त्वमेवैकः शतादपि वरः सुतः ||५८||
न चाप्यहं वृथा भूयो दारान्कर्तुमिहोत्सहे |
सन्तानस्याविनाशाय कामये भद्रमस्तु ते ||५९||
अनपत्यतैकपुत्रत्वमित्याहुर्धर्मवादिनः ||५९||
अग्निहोत्रं त्रयो वेदा यज्ञाश्च सहदक्षिणाः |
सर्वाण्येतान्यपत्यस्य कलां नार्हन्ति षोडशीम् ||६०||
एवमेव मनुष्येषु स्याच्च सर्वप्रजास्वपि |
यदपत्यं महाप्राज्ञ तत्र मे नास्ति संशयः ||६१||
एषा त्रयी पुराणानामुत्तमानां च शाश्वती ||६१||
त्वं च शूरः सदामर्षी शस्त्रनित्यश्च भारत |
नान्यत्र शस्त्रात्तस्मात्ते निधनं विद्यतेऽनघ ||६२||
सोऽस्मि संशयमापन्नस्त्वयि शान्ते कथं भवेत् |
इति ते कारणं तात दुःखस्योक्तमशेषतः ||६३||
ततस्तत्कारणं ज्ञात्वा कृत्स्नं चैवमशेषतः |
देवव्रतो महाबुद्धिः प्रययावनुचिन्तयन् ||६४||
अभ्यगच्छत्तदैवाशु वृद्धामात्यं पितुर्हितम् |
तमपृच्छत्तदाभ्येत्य पितुस्तच्छोककारणम् ||६५||
तस्मै स कुरुमुख्याय यथावत्परिपृच्छते |
वरं शशंस कन्यां तामुद्दिश्य भरतर्षभ ||६६||
ततो देवव्रतो वृद्धैः क्षत्रियैः सहितस्तदा |
अभिगम्य दाशराजानं कन्यां वव्रे पितुः स्वयम् ||६७||
तं दाशः प्रतिजग्राह विधिवत्प्रतिपूज्य च |
अब्रवीच्चैनमासीनं राजसंसदि भारत ||६८||
त्वमेव नाथः पर्याप्तः शन्तनोः पुरुषर्षभ |
पुत्रः पुत्रवतां श्रेष्ठः किं नु वक्ष्यामि ते वचः ||६९||
को हि सम्बन्धकं श्लाघ्यमीप्सितं यौनमीदृशम् |
अतिक्रामन्न तप्येत साक्षादपि शतक्रतुः ||७०||
अपत्यं चैतदार्यस्य यो युष्माकं समो गुणैः |
यस्य शुक्रात्सत्यवती प्रादुर्भूता यशस्विनी ||७१||
तेन मे बहुशस्तात पिता ते परिकीर्तितः |
अर्हः सत्यवतीं वोढुं सर्वराजसु भारत ||७२||
असितो ह्यपि देवर्षिः प्रत्याख्यातः पुरा मया |
सत्यवत्या भृशं ह्यर्थी स आसीदृषिसत्तमः ||७३||
कन्यापितृत्वात्किञ्चित्तु वक्ष्यामि भरतर्षभ |
बलवत्सपत्नतामत्र दोषं पश्यामि केवलम् ||७४||
यस्य हि त्वं सपत्नः स्या गन्धर्वस्यासुरस्य वा |
न स जातु सुखं जीवेत्त्वयि क्रुद्धे परन्तप ||७५||
एतावानत्र दोषो हि नान्यः कश्चन पार्थिव |
एतज्जानीहि भद्रं ते दानादाने परन्तप ||७६||
एवमुक्तस्तु गाङ्गेयस्तद्युक्तं प्रत्यभाषत |
शृण्वतां भूमिपालानां पितुरर्थाय भारत ||७७||
इदं मे मतमादत्स्व सत्यं सत्यवतां वर |
नैव जातो न वाजात ईदृशं वक्तुमुत्सहेत् ||७८||
एवमेतत्करिष्यामि यथा त्वमनुभाषसे |
योऽस्यां जनिष्यते पुत्रः स नो राजा भविष्यति ||७९||
इत्युक्तः पुनरेवाथ तं दाशः प्रत्यभाषत |
चिकीर्षुर्दुष्करं कर्म राज्यार्थे भरतर्षभ ||८०||
त्वमेव नाथः पर्याप्तः शन्तनोरमितद्युतेः |
कन्यायाश्चैव धर्मात्मन्प्रभुर्दानाय चेश्वरः ||८१||
इदं तु वचनं सौम्य कार्यं चैव निबोध मे |
कौमारिकाणां शीलेन वक्ष्याम्यहमरिंदम ||८२||
यत्त्वया सत्यवत्यर्थे सत्यधर्मपरायण |
राजमध्ये प्रतिज्ञातमनुरूपं तवैव तत् ||८३||
नान्यथा तन्महाबाहो संशयोऽत्र न कश्चन |
तवापत्यं भवेद्यत्तु तत्र नः संशयो महान् ||८४||
तस्य तन्मतमाज्ञाय सत्यधर्मपरायणः |
प्रत्यजानात्तदा राजन्पितुः प्रियचिकीर्षया ||८५||
देवव्रत उवाच||
दाशराज निबोधेदं वचनं मे नृपोत्तम |
शृण्वतां भूमिपालानां यद्ब्रवीमि पितुः कृते ||८६||
राज्यं तावत्पूर्वमेव मया त्यक्तं नराधिप |
अपत्यहेतोरपि च करोम्येष विनिश्चयम् ||८७||
अद्य प्रभृति मे दाश ब्रह्मचर्यं भविष्यति |
अपुत्रस्यापि मे लोका भविष्यन्त्यक्षया दिवि ||८८||
वैशम्पायन उवाच||
तस्य तद्वचनं श्रुत्वा सम्प्रहृष्टतनूरुहः |
ददानीत्येव तं दाशो धर्मात्मा प्रत्यभाषत ||८९||
ततोऽन्तरिक्षेऽप्सरसो देवाः सर्षिगणास्तथा |
अभ्यवर्षन्त कुसुमैर्भीष्मोऽयमिति चाब्रुवन् ||९०||
ततः स पितुरर्थाय तामुवाच यशस्विनीम् |
अधिरोह रथं मातर्गच्छावः स्वगृहानिति ||९१||
एवमुक्त्वा तु भीष्मस्तां रथमारोप्य भामिनीम् |
आगम्य हास्तिनपुरं शन्तनोः संन्यवेदयत् ||९२||
तस्य तद्दुष्करं कर्म प्रशशंसुर्नराधिपाः |
समेताश्च पृथक्चैव भीष्मोऽयमिति चाब्रुवन् ||९३||
तद्दृष्ट्वा दुष्करं कर्म कृतं भीष्मेण शन्तनुः |
स्वच्छन्दमरणं तस्मै ददौ तुष्टः पिता स्वयम् ||९४||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
094-अध्यायः
वैशम्पायन उवाच||
ततो विवाहे निर्वृत्ते स राजा शन्तनुर्नृपः |
तां कन्यां रूपसम्पन्नां स्वगृहे संन्यवेशयत् ||१||
ततः शान्तनवो धीमान्सत्यवत्यामजायत |
वीरश्चित्राङ्गदो नाम वीर्येण मनुजानति ||२||
अथापरं महेष्वासं सत्यवत्यां पुनः प्रभुः |
विचित्रवीर्यं राजानं जनयामास वीर्यवान् ||३||
अप्राप्तवति तस्मिंश्च यौवनं भरतर्षभ |
स राजा शन्तनुर्धीमान्कालधर्ममुपेयिवान् ||४||
स्वर्गते शन्तनौ भीष्मश्चित्राङ्गदमरिंदमम् |
स्थापयामास वै राज्ये सत्यवत्या मते स्थितः ||५||
स तु चित्राङ्गदः शौर्यात्सर्वांश्चिक्षेप पार्थिवान् |
मनुष्यं न हि मेने स कञ्चित्सदृशमात्मनः ||६||
तं क्षिपन्तं सुरांश्चैव मनुष्यानसुरांस्तथा |
गन्धर्वराजो बलवांस्तुल्यनामाभ्ययात्तदा ||७||
तेनास्य सुमहद्युद्धं कुरुक्षेत्रे बभूव ह ||७||
तयोर्बलवतोस्तत्र गन्धर्वकुरुमुख्ययोः |
नद्यास्तीरे हिरण्वत्याः समास्तिस्रोऽभवद्रणः ||८||
तस्मिन्विमर्दे तुमुले शस्त्रवृष्टिसमाकुले |
मायाधिकोऽवधीद्वीरं गन्धर्वः कुरुसत्तमम् ||९||
चित्राङ्गदं कुरुश्रेष्ठं विचित्रशरकार्मुकम् |
अन्ताय कृत्वा गन्धर्वो दिवमाचक्रमे ततः ||१०||
तस्मिन्नृपतिशार्दूले निहते भूरिवर्चसि |
भीष्मः शान्तनवो राजन्प्रेतकार्याण्यकारयत् ||११||
विचित्रवीर्यं च तदा बालमप्राप्तयौवनम् |
कुरुराज्ये महाबाहुरभ्यषिञ्चदनन्तरम् ||१२||
विचित्रवीर्यस्तु तदा भीष्मस्य वचने स्थितः |
अन्वशासन्महाराज पितृपैतामहं पदम् ||१३||
स धर्मशास्त्रकुशलो भीष्मं शान्तनवं नृपः |
पूजयामास धर्मेण स चैनं प्रत्यपालयत् ||१४||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
095-अध्यायः
वैशम्पायन उवाच||
हते चित्राङ्गदे भीष्मो बाले भ्रातरि चानघ |
पालयामास तद्राज्यं सत्यवत्या मते स्थितः ||१||
सम्प्राप्तयौवनं पश्यन्भ्रातरं धीमतां वरम् |
भीष्मो विचित्रवीर्यस्य विवाहायाकरोन्मतिम् ||२||
अथ काशिपतेर्भीष्मः कन्यास्तिस्रोऽप्सरःसमाः |
शुश्राव सहिता राजन्वृण्वतीर्वै स्वयं वरम् ||३||
ततः स रथिनां श्रेष्ठो रथेनैकेन वर्मभृत् |
जगामानुमते मातुः पुरीं वाराणसीं प्रति ||४||
तत्र राज्ञः समुदितान्सर्वतः समुपागतान् |
ददर्श कन्यास्ताश्चैव भीष्मः शन्तनुनन्दनः ||५||
कीर्त्यमानेषु राज्ञां तु नामस्वथ सहस्रशः |
भीष्मः स्वयं तदा राजन्वरयामास ताः प्रभुः ||६||
उवाच च महीपालान्राजञ्जलदनिःस्वनः |
रथमारोप्य ताः कन्या भीष्मः प्रहरतां वरः ||७||
आहूय दानं कन्यानां गुणवद्भ्यः स्मृतं बुधैः |
अलङ्कृत्य यथाशक्ति प्रदाय च धनान्यपि ||८||
प्रयच्छन्त्यपरे कन्यां मिथुनेन गवामपि |
वित्तेन कथितेनान्ये बलेनान्येऽनुमान्य च ||९||
प्रमत्तामुपयान्त्यन्ये स्वयमन्ये च विन्दते |
अष्टमं तमथो वित्त विवाहं कविभिः स्मृतम् ||१०||
स्वयंवरं तु राजन्याः प्रशंसन्त्युपयान्ति च |
प्रमथ्य तु हृतामाहुर्ज्यायसीं धर्मवादिनः ||११||
ता इमाः पृथिवीपाला जिहीर्षामि बलादितः |
ते यतध्वं परं शक्त्या विजयायेतराय वा ||१२||
स्थितोऽहं पृथिवीपाला युद्धाय कृतनिश्चयः ||१२||
एवमुक्त्वा महीपालान्काशिराजं च वीर्यवान् |
सर्वाः कन्याः स कौरव्यो रथमारोपयत्स्वकम् ||१३||
आमन्त्र्य च स तान्प्रायाच्छीघ्रं कन्याः प्रगृह्य ताः ||१३||
ततस्ते पार्थिवाः सर्वे समुत्पेतुरमर्षिताः |
संस्पृशन्तः स्वकान्बाहून्दशन्तो दशनच्छदान् ||१४||
तेषामाभरणान्याशु त्वरितानां विमुञ्चताम् |
आमुञ्चतां च वर्माणि सम्भ्रमः सुमहानभूत् ||१५||
ताराणामिव सम्पातो बभूव जनमेजय |
भूषणानां च शुभ्राणां कवचानां च सर्वशः ||१६||
सवर्मभिर्भूषणैस्ते द्राग्भ्राजद्भिरितस्ततः |
सक्रोधामर्षजिह्मभ्रूसकषायदृशस्तथा ||१७||
सूतोपकॢप्तान्रुचिरान्सदश्वोद्यतधूर्गतान् |
रथानास्थाय ते वीराः सर्वप्रहरणान्विताः ||१८||
प्रयान्तमेकं कौरव्यमनुसस्रुरुदायुधाः ||१८||
ततः समभवद्युद्धं तेषां तस्य च भारत |
एकस्य च बहूनां च तुमुलं लोमहर्षणम् ||१९||
ते त्विषून्दशसाहस्रांस्तस्मै युगपदाक्षिपन् |
अप्राप्तांश्चैव तानाशु भीष्मः सर्वांस्तदाच्छिनत् ||२०||
ततस्ते पार्थिवाः सर्वे सर्वतः परिवारयन् |
ववर्षुः शरवर्षेण वर्षेणेवाद्रिमम्बुदाः ||२१||
स तद्बाणमयं वर्षं शरैरावार्य सर्वतः |
ततः सर्वान्महीपालान्प्रत्यविध्यत्त्रिभिस्त्रिभिः ||२२||
तस्याति पुरुषानन्याँल्लाघवं रथचारिणः |
रक्षणं चात्मनः सङ्ख्ये शत्रवोऽप्यभ्यपूजयन् ||२३||
तान्विनिर्जित्य तु रणे सर्वशस्त्रविशारदः |
कन्याभिः सहितः प्रायाद्भारतो भारतान्प्रति ||२४||
ततस्तं पृष्ठतो राजञ्शाल्वराजो महारथः |
अभ्याहनदमेयात्मा भीष्मं शान्तनवं रणे ||२५||
वारणं जघने निघ्नन्दन्ताभ्यामपरो यथा |
वाशितामनुसम्प्राप्तो यूथपो बलिनां वरः ||२६||
स्त्रीकाम तिष्ठ तिष्ठेति भीष्ममाह स पार्थिवः |
शाल्वराजो महाबाहुरमर्षेणाभिचोदितः ||२७||
ततः स पुरुषव्याघ्रो भीष्मः परबलार्दनः |
तद्वाक्याकुलितः क्रोधाद्विधूमोऽग्निरिव ज्वलन् ||२८||
क्षत्रधर्मं समास्थाय व्यपेतभयसम्भ्रमः |
निवर्तयामास रथं शाल्वं प्रति महारथः ||२९||
निवर्तमानं तं दृष्ट्वा राजानः सर्व एव ते |
प्रेक्षकाः समपद्यन्त भीष्मशाल्वसमागमे ||३०||
तौ वृषाविव नर्दन्तौ बलिनौ वाशितान्तरे |
अन्योन्यमभिवर्तेतां बलविक्रमशालिनौ ||३१||
ततो भीष्मं शान्तनवं शरैः शतसहस्रशः |
शाल्वराजो नरश्रेष्ठः समवाकिरदाशुगैः ||३२||
पूर्वमभ्यर्दितं दृष्ट्वा भीष्मं शाल्वेन ते नृपाः |
विस्मिताः समपद्यन्त साधु साध्विति चाब्रुवन् ||३३||
लाघवं तस्य ते दृष्ट्वा संयुगे सर्वपार्थिवाः |
अपूजयन्त संहृष्टा वाग्भिः शाल्वं नराधिपाः ||३४||
क्षत्रियाणां तदा वाचः श्रुत्वा परपुरञ्जयः |
क्रुद्धः शान्तनवो भीष्मस्तिष्ठ तिष्ठेत्यभाषत ||३५||
सारथिं चाब्रवीत्क्रुद्धो याहि यत्रैष पार्थिवः |
यावदेनं निहन्म्यद्य भुजङ्गमिव पक्षिराट् ||३६||
ततोऽस्त्रं वारुणं सम्यग्योजयामास कौरवः |
तेनाश्वांश्चतुरोऽमृद्नाच्छाल्वराज्ञो नराधिप ||३७||
अस्त्रैरस्त्राणि संवार्य शाल्वराज्ञः स कौरवः |
भीष्मो नृपतिशार्दूल न्यवधीत्तस्य सारथिम् ||३८||
अस्त्रेण चाप्यथैकेन न्यवधीत्तुरगोत्तमान् ||३८||
कन्याहेतोर्नरश्रेष्ठ भीष्मः शान्तनवस्तदा |
जित्वा विसर्जयामास जीवन्तं नृपसत्तमम् ||३९||
ततः शाल्वः स्वनगरं प्रययौ भरतर्षभ ||३९||
राजानो ये च तत्रासन्स्वयंवरदिदृक्षवः |
स्वान्येव तेऽपि राष्ट्राणि जग्मुः परपुरञ्जय ||४०||
एवं विजित्य ताः कन्या भीष्मः प्रहरतां वरः |
प्रययौ हास्तिनपुरं यत्र राजा स कौरवः ||४१||
सोऽचिरेणैव कालेन अत्यक्रामन्नराधिप |
वनानि सरितश्चैव शैलांश्च विविधद्रुमान् ||४२||
अक्षतः क्षपयित्वारीन्सङ्ख्येऽसङ्ख्येयविक्रमः |
आनयामास काश्यस्य सुताः सागरगासुतः ||४३||
स्नुषा इव स धर्मात्मा भगिन्य इव चानुजाः |
यथा दुहितरश्चैव प्रतिगृह्य ययौ कुरून् ||४४||
ताः सर्वा गुणसम्पन्ना भ्राता भ्रात्रे यवीयसे |
भीष्मो विचित्रवीर्याय प्रददौ विक्रमाहृताः ||४५||
सतां धर्मेण धर्मज्ञः कृत्वा कर्मातिमानुषम् |
भ्रातुर्विचित्रवीर्यस्य विवाहायोपचक्रमे ||४६||
सत्यवत्या सह मिथः कृत्वा निश्चयमात्मवान् ||४६||
विवाहं कारयिष्यन्तं भीष्मं काशिपतेः सुता |
ज्येष्ठा तासामिदं वाक्यमब्रवीद्ध सती तदा ||४७||
मया सौभपतिः पूर्वं मनसाभिवृतः पतिः |
तेन चास्मि वृता पूर्वमेष कामश्च मे पितुः ||४८||
मया वरयितव्योऽभूच्छाल्वस्तस्मिन्स्वयंवरे |
एतद्विज्ञाय धर्मज्ञ ततस्त्वं धर्ममाचर ||४९||
एवमुक्तस्तया भीष्मः कन्यया विप्रसंसदि |
चिन्तामभ्यगमद्वीरो युक्तां तस्यैव कर्मणः ||५०||
स विनिश्चित्य धर्मज्ञो ब्राह्मणैर्वेदपारगैः |
अनुजज्ञे तदा ज्येष्टामम्बां काशिपतेः सुताम् ||५१||
अम्बिकाम्बालिके भार्ये प्रादाद्भ्रात्रे यवीयसे |
भीष्मो विचित्रवीर्याय विधिदृष्टेन कर्मणा ||५२||
तयोः पाणिं गृहीत्वा स रूपयौवनदर्पितः |
विचित्रवीर्यो धर्मात्मा कामात्मा समपद्यत ||५३||
ते चापि बृहती श्यामे नीलकुञ्चितमूर्धजे |
रक्ततुङ्गनखोपेते पीनश्रोणिपयोधरे ||५४||
आत्मनः प्रतिरूपोऽसौ लब्धः पतिरिति स्थिते |
विचित्रवीर्यं कल्याणं पूजयामासतुस्तु ते ||५५||
स चाश्विरूपसदृशो देवसत्त्वपराक्रमः |
सर्वासामेव नारीणां चित्तप्रमथनोऽभवत् ||५६||
ताभ्यां सह समाः सप्त विहरन्पृथिवीपतिः |
विचित्रवीर्यस्तरुणो यक्ष्माणं समपद्यत ||५७||
सुहृदां यतमानानामाप्तैः सह चिकित्सकैः |
जगामास्तमिवादित्यः कौरव्यो यमसादनम् ||५८||
प्रेतकार्याणि सर्वाणि तस्य सम्यगकारयत् |
राज्ञो विचित्रवीर्यस्य सत्यवत्या मते स्थितः ||५९||
ऋत्विग्भिः सहितो भीष्मः सर्वैश्च कुरुपुङ्गवैः ||५९||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
096-अध्यायः
वैशम्पायन उवाच||
ततः सत्यवती दीना कृपणा पुत्रगृद्धिनी |
पुत्रस्य कृत्वा कार्याणि स्नुषाभ्यां सह भारत ||१||
धर्मं च पितृवंशं च मातृवंशं च मानिनी |
प्रसमीक्ष्य महाभागा गाङ्गेयं वाक्यमब्रवीत् ||२||
शन्तनोर्धर्मनित्यस्य कौरव्यस्य यशस्विनः |
त्वयि पिण्डश्च कीर्तिश्च सन्तानं च प्रतिष्ठितम् ||३||
यथा कर्म शुभं कृत्वा स्वर्गोपगमनं ध्रुवम् |
यथा चायुर्ध्रुवं सत्ये त्वयि धर्मस्तथा ध्रुवः ||४||
वेत्थ धर्मांश्च धर्मज्ञ समासेनेतरेण च |
विविधास्त्वं श्रुतीर्वेत्थ वेत्थ वेदांश्च सर्वशः ||५||
व्यवस्थानं च ते धर्मे कुलाचारं च लक्षये |
प्रतिपत्तिं च कृच्छ्रेषु शुक्राङ्गिरसयोरिव ||६||
तस्मात्सुभृशमाश्वस्य त्वयि धर्मभृतां वर |
कार्ये त्वां विनियोक्ष्यामि तच्छ्रुत्वा कर्तुमर्हसि ||७||
मम पुत्रस्तव भ्राता वीर्यवान्सुप्रियश्च ते |
बाल एव गतः स्वर्गमपुत्रः पुरुषर्षभ ||८||
इमे महिष्यौ भ्रातुस्ते काशिराजसुते शुभे |
रूपयौवनसम्पन्ने पुत्रकामे च भारत ||९||
तयोरुत्पादयापत्यं सन्तानाय कुलस्य नः |
मन्नियोगान्महाभाग धर्मं कर्तुमिहार्हसि ||१०||
राज्ये चैवाभिषिच्यस्व भारताननुशाधि च |
दारांश्च कुरु धर्मेण मा निमज्जीः पितामहान् ||११||
तथोच्यमानो मात्रा च सुहृद्भिश्च परन्तपः |
प्रत्युवाच स धर्मात्मा धर्म्यमेवोत्तरं वचः ||१२||
असंशयं परो धर्मस्त्वया मातरुदाहृतः |
त्वमपत्यं प्रति च मे प्रतिज्ञां वेत्थ वै पराम् ||१३||
जानासि च यथावृत्तं शुल्कहेतोस्त्वदन्तरे |
स सत्यवति सत्यं ते प्रतिजानाम्यहं पुनः ||१४||
परित्यजेयं त्रैलोक्यं राज्यं देवेषु वा पुनः |
यद्वाप्यधिकमेताभ्यां न तु सत्यं कथञ्चन ||१५||
त्यजेच्च पृथिवी गन्धमापश्च रसमात्मनः |
ज्योतिस्तथा त्यजेद्रूपं वायुः स्पर्शगुणं त्यजेत् ||१६||
प्रभां समुत्सृजेदर्को धूमकेतुस्तथोष्णताम् |
त्यजेच्छब्दं तथाकाशः सोमः शीतांशुतां त्यजेत् ||१७||
विक्रमं वृत्रहा जह्याद्धर्मं जह्याच्च धर्मराट् |
न त्वहं सत्यमुत्स्रष्टुं व्यवसेयं कथञ्चन ||१८||
एवमुक्ता तु पुत्रेण भूरिद्रविणतेजसा |
माता सत्यवती भीष्ममुवाच तदनन्तरम् ||१९||
जानामि ते स्थितिं सत्ये परां सत्यपराक्रम |
इच्छन्सृजेथास्त्रीँल्लोकानन्यांस्त्वं स्वेन तेजसा ||२०||
जानामि चैव सत्यं तन्मदर्थं यदभाषथाः |
आपद्धर्ममवेक्षस्व वह पैतामहीं धुरम् ||२१||
यथा ते कुलतन्तुश्च धर्मश्च न पराभवेत् |
सुहृदश्च प्रहृष्येरंस्तथा कुरु परन्तप ||२२||
लालप्यमानां तामेवं कृपणां पुत्रगृद्धिनीम् |
धर्मादपेतं ब्रुवतीं भीष्मो भूयोऽब्रवीदिदम् ||२३||
राज्ञि धर्मानवेक्षस्व मा नः सर्वान्व्यनीनशः |
सत्याच्च्युतिः क्षत्रियस्य न धर्मेषु प्रशस्यते ||२४||
शन्तनोरपि सन्तानं यथा स्यादक्षयं भुवि |
तत्ते धर्मं प्रवक्ष्यामि क्षात्रं राज्ञि सनातनम् ||२५||
श्रुत्वा तं प्रतिपद्येथाः प्राज्ञैः सह पुरोहितैः |
आपद्धर्मार्थकुशलैर्लोकतन्त्रमवेक्ष्य च ||२६||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
097-अध्यायः
भीष्म उवाच||
जामदग्न्येन रामेण पितुर्वधममृष्यता |
क्रुद्धेन च महाभागे हैहयाधिपतिर्हतः ||१||
शतानि दश बाहूनां निकृत्तान्यर्जुनस्य वै ||१||
पुनश्च धनुरादाय महास्त्राणि प्रमुञ्चता |
निर्दग्धं क्षत्रमसकृद्रथेन जयता महीम् ||२||
एवमुच्चावचैरस्त्रैर्भार्गवेण महात्मना |
त्रिःसप्तकृत्वः पृथिवी कृता निःक्षत्रिया पुरा ||३||
ततः सम्भूय सर्वाभिः क्षत्रियाभिः समन्ततः |
उत्पादितान्यपत्यानि ब्राह्मणैर्नियतात्मभिः ||४||
पाणिग्राहस्य तनय इति वेदेषु निश्चितम् |
धर्मं मनसि संस्थाप्य ब्राह्मणांस्ताः समभ्ययुः ||५||
लोकेऽप्याचरितो दृष्टः क्षत्रियाणां पुनर्भवः ||५||
अथोतथ्य इति ख्यात आसीद्धीमानृषिः पुरा |
ममता नाम तस्यासीद्भार्या परमसंमता ||६||
उतथ्यस्य यवीयांस्तु पुरोधास्त्रिदिवौकसाम् |
बृहस्पतिर्बृहत्तेजा ममतां सोऽन्वपद्यत ||७||
उवाच ममता तं तु देवरं वदतां वरम् |
अन्तर्वत्नी अहं भ्रात्रा ज्येष्ठेनारम्यतामिति ||८||
अयं च मे महाभाग कुक्षावेव बृहस्पते |
औतथ्यो वेदमत्रैव षडङ्गं प्रत्यधीयत ||९||
अमोघरेतास्त्वं चापि नूनं भवितुमर्हसि |
तस्मादेवङ्गतेऽद्य त्वमुपारमितुमर्हसि ||१०||
एवमुक्तस्तया सम्यग्बृहत्तेजा बृहस्पतिः |
कामात्मानं तदात्मानं न शशाक नियच्छितुम् ||११||
सम्बभूव ततः कामी तया सार्धमकामया |
उत्सृजन्तं तु तं रेतः स गर्भस्थोऽभ्यभाषत ||१२||
भोस्तात कन्यस वदे द्वयोर्नास्त्यत्र सम्भवः |
अमोघशुक्रश्च भवान्पूर्वं चाहमिहागतः ||१३||
शशाप तं ततः क्रुद्ध एवमुक्तो बृहस्पतिः |
उतथ्यपुत्रं गर्भस्थं निर्भर्त्स्य भगवानृषिः ||१४||
यस्मात्त्वमीदृशे काले सर्वभूतेप्सिते सति |
एवमात्थ वचस्तस्मात्तमो दीर्घं प्रवेक्ष्यसि ||१५||
स वै दीर्घतमा नाम शापादृषिरजायत |
बृहस्पतेर्बृहत्कीर्तेर्बृहस्पतिरिवौजसा ||१६||
स पुत्राञ्जनयामास गौतमादीन्महायशाः |
ऋषेरुतथ्यस्य तदा सन्तानकुलवृद्धये ||१७||
लोभमोहाभिभूतास्ते पुत्रास्तं गौतमादयः |
काष्ठे समुद्गे प्रक्षिप्य गङ्गायां समवासृजन् ||१८||
न स्यादन्धश्च वृद्धश्च भर्तव्योऽयमिति स्म ते |
चिन्तयित्वा ततः क्रूराः प्रतिजग्मुरथो गृहान् ||१९||
सोऽनुस्रोतस्तदा राजन्प्लवमान ऋषिस्ततः |
जगाम सुबहून्देशानन्धस्तेनोडुपेन ह ||२०||
तं तु राजा बलिर्नाम सर्वधर्मविशारदः |
अपश्यन्मज्जनगतः स्रोतसाभ्याशमागतम् ||२१||
जग्राह चैनं धर्मात्मा बलिः सत्यपराक्रमः |
ज्ञात्वा चैनं स वव्रेऽथ पुत्रार्थं मनुजर्षभ ||२२||
सन्तानार्थं महाभाग भार्यासु मम मानद |
पुत्रान्धर्मार्थकुशलानुत्पादयितुमर्हसि ||२३||
एवमुक्तः स तेजस्वी तं तथेत्युक्तवानृषिः |
तस्मै स राजा स्वां भार्यां सुदेष्णां प्राहिणोत्तदा ||२४||
अन्धं वृद्धं च तं मत्वा न सा देवी जगाम ह |
स्वां तु धात्रेयिकां तस्मै वृद्धाय प्राहिणोत्तदा ||२५||
तस्यां काक्षीवदादीन्स शूद्रयोनावृषिर्वशी |
जनयामास धर्मात्मा पुत्रानेकादशैव तु ||२६||
काक्षीवदादीन्पुत्रांस्तान्दृष्ट्वा सर्वानधीयतः |
उवाच तमृषिं राजा ममैत इति वीर्यवान् ||२७||
नेत्युवाच महर्षिस्तं ममैवैत इति ब्रुवन् |
शूद्रयोनौ मया हीमे जाताः काक्षीवदादयः ||२८||
अन्धं वृद्धं च मां मत्वा सुदेष्णा महिषी तव |
अवमन्य ददौ मूढा शूद्रां धात्रेयिकां हि मे ||२९||
ततः प्रसादयामास पुनस्तमृषिसत्तमम् |
बलिः सुदेष्णां भार्यां च तस्मै तां प्राहिणोत्पुनः ||३०||
तां स दीर्घतमाङ्गेषु स्पृष्ट्वा देवीमथाब्रवीत् |
भविष्यति कुमारस्ते तेजस्वी सत्यवागिति ||३१||
तत्राङ्गो नाम राजर्षिः सुदेष्णायामजायत |
एवमन्ये महेष्वासा ब्राह्मणैः क्षत्रिया भुवि ||३२||
जाताः परमधर्मज्ञा वीर्यवन्तो महाबलाः |
एतच्छ्रुत्वा त्वमप्यत्र मातः कुरु यथेप्सितम् ||३३||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
098-अध्यायः
भीष्म उवाच||
पुनर्भरतवंशस्य हेतुं सन्तानवृद्धये |
वक्ष्यामि नियतं मातस्तन्मे निगदतः शृणु ||१||
ब्राह्मणो गुणवान्कश्चिद्धनेनोपनिमन्त्र्यताम् |
विचित्रवीर्यक्षेत्रेषु यः समुत्पादयेत्प्रजाः ||२||
वैशम्पायन उवाच||
ततः सत्यवती भीष्मं वाचा संसज्जमानया |
विहसन्तीव सव्रीडमिदं वचनमब्रवीत् ||३||
सत्यमेतन्महाबाहो यथा वदसि भारत |
विश्वासात्ते प्रवक्ष्यामि सन्तानाय कुलस्य च ||४||
न ते शक्यमनाख्यातुमापद्धीयं तथाविधा ||४||
त्वमेव नः कुले धर्मस्त्वं सत्यं त्वं परा गतिः |
तस्मान्निशम्य वाक्यं मे कुरुष्व यदनन्तरम् ||५||
धर्मयुक्तस्य धर्मात्मन्पितुरासीत्तरी मम |
सा कदाचिदहं तत्र गता प्रथमयौवने ||६||
अथ धर्मभृतां श्रेष्ठः परमर्षिः पराशरः |
आजगाम तरीं धीमांस्तरिष्यन्यमुनां नदीम् ||७||
स तार्यमाणो यमुनां मामुपेत्याब्रवीत्तदा |
सान्त्वपूर्वं मुनिश्रेष्ठः कामार्तो मधुरं बहु ||८||
तमहं शापभीता च पितुर्भीता च भारत |
वरैरसुलभैरुक्ता न प्रत्याख्यातुमुत्सहे ||९||
अभिभूय स मां बालां तेजसा वशमानयत् |
तमसा लोकमावृत्य नौगतामेव भारत ||१०||
मत्स्यगन्धो महानासीत्पुरा मम जुगुप्सितः |
तमपास्य शुभं गन्धमिमं प्रादात्स मे मुनिः ||११||
ततो मामाह स मुनिर्गर्भमुत्सृज्य मामकम् |
द्वीपेऽस्या एव सरितः कन्यैव त्वं भविष्यसि ||१२||
पाराशर्यो महायोगी स बभूव महानृषिः |
कन्यापुत्रो मम पुरा द्वैपायन इति स्मृतः ||१३||
यो व्यस्य वेदांश्चतुरस्तपसा भगवानृषिः |
लोके व्यासत्वमापेदे कार्ष्ण्यात्कृष्णत्वमेव च ||१४||
सत्यवादी शमपरस्तपस्वी दग्धकिल्बिषः |
स नियुक्तो मया व्यक्तं त्वया च अमितद्युते ||१५||
भ्रातुः क्षेत्रेषु कल्याणमपत्यं जनयिष्यति ||१५||
स हि मामुक्तवांस्तत्र स्मरेः कृत्येषु मामिति |
तं स्मरिष्ये महाबाहो यदि भीष्म त्वमिच्छसि ||१६||
तव ह्यनुमते भीष्म नियतं स महातपाः |
विचित्रवीर्यक्षेत्रेषु पुत्रानुत्पादयिष्यति ||१७||
महर्षेः कीर्तने तस्य भीष्मः प्राञ्जलिरब्रवीत् |
धर्ममर्थं च कामं च त्रीनेतान्योऽनुपश्यति ||१८||
अर्थमर्थानुबन्धं च धर्मं धर्मानुबन्धनम् |
कामं कामानुबन्धं च विपरीतान्पृथक्पृथक् ||१९||
यो विचिन्त्य धिया सम्यग्व्यवस्यति स बुद्धिमान् ||१९||
तदिदं धर्मयुक्तं च हितं चैव कुलस्य नः |
उक्तं भवत्या यच्छ्रेयः परमं रोचते मम ||२०||
ततस्तस्मिन्प्रतिज्ञाते भीष्मेण कुरुनन्दन |
कृष्णद्वैपायनं काली चिन्तयामास वै मुनिम् ||२१||
स वेदान्विब्रुवन्धीमान्मातुर्विज्ञाय चिन्तितम् |
प्रादुर्बभूवाविदितः क्षणेन कुरुनन्दन ||२२||
तस्मै पूजां तदा दत्त्वा सुताय विधिपूर्वकम् |
परिष्वज्य च बाहुभ्यां प्रस्नवैरभिषिच्य च ||२३||
मुमोच बाष्पं दाशेयी पुत्रं दृष्ट्वा चिरस्य तम् ||२३||
तामद्भिः परिषिच्यार्तां महर्षिरभिवाद्य च |
मातरं पूर्वजः पुत्रो व्यासो वचनमब्रवीत् ||२४||
भवत्या यदभिप्रेतं तदहं कर्तुमागतः |
शाधि मां धर्मतत्त्वज्ञे करवाणि प्रियं तव ||२५||
तस्मै पूजां ततोऽकार्षीत्पुरोधाः परमर्षये |
स च तां प्रतिजग्राह विधिवन्मन्त्रपूर्वकम् ||२६||
तमासनगतं माता पृष्ट्वा कुशलमव्ययम् |
सत्यवत्यभिवीक्ष्यैनमुवाचेदमनन्तरम् ||२७||
मातापित्रोः प्रजायन्ते पुत्राः साधारणाः कवे |
तेषां पिता यथा स्वामी तथा माता न संशयः ||२८||
विधातृविहितः स त्वं यथा मे प्रथमः सुतः |
विचित्रवीर्यो ब्रह्मर्षे तथा मेऽवरजः सुतः ||२९||
यथैव पितृतो भीष्मस्तथा त्वमपि मातृतः |
भ्राता विचित्रवीर्यस्य यथा वा पुत्र मन्यसे ||३०||
अयं शान्तनवः सत्यं पालयन्सत्यविक्रमः |
बुद्धिं न कुरुतेऽपत्ये तथा राज्यानुशासने ||३१||
स त्वं व्यपेक्षया भ्रातुः सन्तानाय कुलस्य च |
भीष्मस्य चास्य वचनान्नियोगाच्च ममानघ ||३२||
अनुक्रोशाच्च भूतानां सर्वेषां रक्षणाय च |
आनृशंस्येन यद्ब्रूयां तच्छ्रुत्वा कर्तुमर्हसि ||३३||
यवीयसस्तव भ्रातुर्भार्ये सुरसुतोपमे |
रूपयौवनसम्पन्ने पुत्रकामे च धर्मतः ||३४||
तयोरुत्पादयापत्यं समर्थो ह्यसि पुत्रक |
अनुरूपं कुलस्यास्य सन्तत्याः प्रसवस्य च ||३५||
व्यास उवाच||
वेत्थ धर्मं सत्यवति परं चापरमेव च |
यथा च तव धर्मज्ञे धर्मे प्रणिहिता मतिः ||३६||
तस्मादहं त्वन्नियोगाद्धर्ममुद्दिश्य कारणम् |
ईप्सितं ते करिष्यामि दृष्टं ह्येतत्पुरातनम् ||३७||
भ्रातुः पुत्रान्प्रदास्यामि मित्रावरुणयोः समान् |
व्रतं चरेतां ते देव्यौ निर्दिष्टमिह यन्मया ||३८||
संवत्सरं यथान्यायं ततः शुद्धे भविष्यतः |
न हि मामव्रतोपेता उपेयात्काचिदङ्गना ||३९||
सत्यवत्युवाच||
यथा सद्यः प्रपद्येत देवी गर्भं तथा कुरु |
अराजकेषु राष्ट्रेषु नास्ति वृष्टिर्न देवताः ||४०||
कथमराजकं राष्ट्रं शक्यं धारयितुं प्रभो |
तस्माद्गर्भं समाधत्स्व भीष्मस्तं वर्धयिष्यति ||४१||
व्यास उवाच||
यदि पुत्रः प्रदातव्यो मया क्षिप्रमकालिकम् |
विरूपतां मे सहतामेतदस्याः परं व्रतम् ||४२||
यदि मे सहते गन्धं रूपं वेषं तथा वपुः |
अद्यैव गर्भं कौसल्या विशिष्टं प्रतिपद्यताम् ||४३||
वैशम्पायन उवाच||
समागमनमाकाङ्क्षन्निति सोऽन्तर्हितो मुनिः |
ततोऽभिगम्य सा देवी स्नुषां रहसि सङ्गताम् ||४४||
धर्म्यमर्थसमायुक्तमुवाच वचनं हितम् ||४४||
कौसल्ये धर्मतन्त्रं यद्ब्रवीमि त्वां निबोध मे |
भरतानां समुच्छेदो व्यक्तं मद्भाग्यसङ्क्षयात् ||४५||
व्यथितां मां च सम्प्रेक्ष्य पितृवंशं च पीडितम् |
भीष्मो बुद्धिमदान्मेऽत्र धर्मस्य च विवृद्धये ||४६||
सा च बुद्धिस्तवाधीना पुत्रि ज्ञातं मयेति ह |
नष्टं च भारतं वंशं पुनरेव समुद्धर ||४७||
पुत्रं जनय सुश्रोणि देवराजसमप्रभम् |
स हि राज्यधुरं गुर्वीमुद्वक्ष्यति कुलस्य नः ||४८||
सा धर्मतोऽनुनीयैनां कथञ्चिद्धर्मचारिणीम् |
भोजयामास विप्रांश्च देवर्षीनतिथींस्तथा ||४९||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
099-अध्यायः
वैशम्पायन उवाच||
ततः सत्यवती काले वधूं स्नातामृतौ तदा |
संवेशयन्ती शयने शनकैर्वाक्यमब्रवीत् ||१||
कौसल्ये देवरस्तेऽस्ति सोऽद्य त्वानुप्रवेक्ष्यति |
अप्रमत्ता प्रतीक्षैनं निशीथे आगमिष्यति ||२||
श्वश्र्वास्तद्वचनं श्रुत्वा शयाना शयने शुभे |
साचिन्तयत्तदा भीष्ममन्यांश्च कुरुपुङ्गवान् ||३||
ततोऽम्बिकायां प्रथमं नियुक्तः सत्यवागृषिः |
दीप्यमानेषु दीपेषु शयनं प्रविवेश ह ||४||
तस्य कृष्णस्य कपिला जटा दीप्ते च लोचने |
बभ्रूणि चैव श्मश्रूणि दृष्ट्वा देवी न्यमीलयत् ||५||
सम्बभूव तया रात्रौ मातुः प्रियचिकीर्षया |
भयात्काशिसुता तं तु नाशक्नोदभिवीक्षितुम् ||६||
ततो निष्क्रान्तमासाद्य माता पुत्रमथाब्रवीत् |
अप्यस्यां गुणवान्पुत्र राजपुत्रो भविष्यति ||७||
निशम्य तद्वचो मातुर्व्यासः परमबुद्धिमान् |
प्रोवाचातीन्द्रियज्ञानो विधिना सम्प्रचोदितः ||८||
नागायुतसमप्राणो विद्वान्राजर्षिसत्तमः |
महाभागो महावीर्यो महाबुद्धिर्भविष्यति ||९||
तस्य चापि शतं पुत्रा भविष्यन्ति महाबलाः |
किं तु मातुः स वैगुण्यादन्ध एव भविष्यति ||१०||
तस्य तद्वचनं श्रुत्वा माता पुत्रमथाब्रवीत् |
नान्धः कुरूणां नृपतिरनुरूपस्तपोधन ||११||
ज्ञातिवंशस्य गोप्तारं पितृणां वंशवर्धनम् |
द्वितीयं कुरुवंशस्य राजानं दातुमर्हसि ||१२||
स तथेति प्रतिज्ञाय निश्चक्राम महातपाः |
सापि कालेन कौसल्या सुषुवेऽन्धं तमात्मजम् ||१३||
पुनरेव तु सा देवी परिभाष्य स्नुषां ततः |
ऋषिमावाहयत्सत्या यथापूर्वमनिन्दिता ||१४||
ततस्तेनैव विधिना महर्षिस्तामपद्यत |
अम्बालिकामथाभ्यागादृषिं दृष्ट्वा च सापि तम् ||१५||
विषण्णा पाण्डुसङ्काशा समपद्यत भारत ||१५||
तां भीतां पाण्डुसङ्काशां विषण्णां प्रेक्ष्य पार्थिव |
व्यासः सत्यवतीपुत्र इदं वचनमब्रवीत् ||१६||
यस्मात्पाण्डुत्वमापन्ना विरूपं प्रेक्ष्य मामपि |
तस्मादेष सुतस्तुभ्यं पाण्डुरेव भविष्यति ||१७||
नाम चास्य तदेवेह भविष्यति शुभानने |
इत्युक्त्वा स निराक्रामद्भगवानृषिसत्तमः ||१८||
ततो निष्क्रान्तमालोक्य सत्या पुत्रमभाषत |
शशंस स पुनर्मात्रे तस्य बालस्य पाण्डुताम् ||१९||
तं माता पुनरेवान्यमेकं पुत्रमयाचत |
तथेति च महर्षिस्तां मातरं प्रत्यभाषत ||२०||
ततः कुमारं सा देवी प्राप्तकालमजीजनत् |
पाण्डुं लक्षणसम्पन्नं दीप्यमानमिव श्रिया ||२१||
तस्य पुत्रा महेष्वासा जज्ञिरे पञ्च पाण्डवाः ||२१||
ऋतुकाले ततो ज्येष्ठां वधूं तस्मै न्ययोजयत् |
सा तु रूपं च गन्धं च महर्षेः प्रविचिन्त्य तम् ||२२||
नाकरोद्वचनं देव्या भयात्सुरसुतोपमा ||२२||
ततः स्वैर्भूषणैर्दासीं भूषयित्वाप्सरोपमाम् |
प्रेषयामास कृष्णाय ततः काशिपतेः सुता ||२३||
दासी ऋषिमनुप्राप्तं प्रत्युद्गम्याभिवाद्य च |
संविवेशाभ्यनुज्ञाता सत्कृत्योपचचार ह ||२४||
कामोपभोगेन तु स तस्यां तुष्टिमगादृषिः |
तया सहोषितो रात्रिं महर्षिः प्रीयमाणया ||२५||
उत्तिष्ठन्नब्रवीदेनामभुजिष्या भविष्यसि |
अयं च ते शुभे गर्भः श्रीमानुदरमागतः ||२६||
धर्मात्मा भविता लोके सर्वबुद्धिमतां वरः ||२६||
स जज्ञे विदुरो नाम कृष्णद्वैपायनात्मजः |
धृतराष्ट्रस्य च भ्राता पाण्डोश्चामितबुद्धिमान् ||२७||
धर्मो विदुररूपेण शापात्तस्य महात्मनः |
माण्डव्यस्यार्थतत्त्वज्ञः कामक्रोधविवर्जितः ||२८||
स धर्मस्यानृणो भूत्वा पुनर्मात्रा समेत्य च |
तस्यै गर्भं समावेद्य तत्रैवान्तरधीयत ||२९||
एवं विचित्रवीर्यस्य क्षेत्रे द्वैपायनादपि |
जज्ञिरे देवगर्भाभाः कुरुवंशविवर्धनाः ||३०||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
100-अध्यायः
जनमेजय उवाच||
किं कृतं कर्म धर्मेण येन शापमुपेयिवान् |
कस्य शापाच्च ब्रह्मर्षे शूद्रयोनावजायत ||१||
वैशम्पायन उवाच||
बभूव ब्राह्मणः कश्चिन्माण्डव्य इति विश्रुतः |
धृतिमान्सर्वधर्मज्ञः सत्ये तपसि च स्थितः ||२||
स आश्रमपदद्वारि वृक्षमूले महातपाः |
ऊर्ध्वबाहुर्महायोगी तस्थौ मौनव्रतान्वितः ||३||
तस्य कालेन महता तस्मिंस्तपसि तिष्ठतः |
तमाश्रमपदं प्राप्ता दस्यवो लोप्त्रहारिणः ||४||
अनुसार्यमाणा बहुभी रक्षिभिर्भरतर्षभ ||४||
ते तस्यावसथे लोप्त्रं निदधुः कुरुसत्तम |
निधाय च भयाल्लीनास्तत्रैवान्वागते बले ||५||
तेषु लीनेष्वथो शीघ्रं ततस्तद्रक्षिणां बलम् |
आजगाम ततोऽपश्यंस्तमृषिं तस्करानुगाः ||६||
तमपृच्छंस्ततो राजंस्तथावृत्तं तपोधनम् |
कतरेण पथा याता दस्यवो द्विजसत्तम ||७||
तेन गच्छामहे ब्रह्मन्पथा शीघ्रतरं वयम् ||७||
तथा तु रक्षिणां तेषां ब्रुवतां स तपोधनः |
न किञ्चिद्वचनं राजन्नवदत्साध्वसाधु वा ||८||
ततस्ते राजपुरुषा विचिन्वानास्तदाश्रमम् |
ददृशुस्तत्र संलीनांस्तांश्चोरान्द्रव्यमेव च ||९||
ततः शङ्का समभवद्रक्षिणां तं मुनिं प्रति |
संयम्यैनं ततो राज्ञे दस्यूंश्चैव न्यवेदयन् ||१०||
तं राजा सह तैश्चोरैरन्वशाद्वध्यतामिति |
स वध्यघातैरज्ञातः शूले प्रोतो महातपाः ||११||
ततस्ते शूलमारोप्य तं मुनिं रक्षिणस्तदा |
प्रतिजग्मुर्महीपालं धनान्यादाय तान्यथ ||१२||
शूलस्थः स तु धर्मात्मा कालेन महता ततः |
निराहारोऽपि विप्रर्षिर्मरणं नाभ्युपागमत् ||१३||
धारयामास च प्राणानृषींश्च समुपानयत् ||१३||
शूलाग्रे तप्यमानेन तपस्तेन महात्मना |
सन्तापं परमं जग्मुर्मुनयोऽथ परन्तप ||१४||
ते रात्रौ शकुना भूत्वा संन्यवर्तन्त सर्वतः |
दर्शयन्तो यथाशक्ति तमपृच्छन्द्विजोत्तमम् ||१५||
श्रोतुमिच्छामहे ब्रह्मन्किं पापं कृतवानसि ||१५||
ततः स मुनिशार्दूलस्तानुवाच तपोधनान् |
दोषतः कं गमिष्यामि न हि मेऽन्योऽपराध्यति ||१६||
राजा च तमृषिं श्रुत्वा निष्क्रम्य सह मन्त्रिभिः |
प्रसादयामास तदा शूलस्थमृषिसत्तमम् ||१७||
यन्मयापकृतं मोहादज्ञानादृषिसत्तम |
प्रसादये त्वां तत्राहं न मे त्वं क्रोद्धुमर्हसि ||१८||
एवमुक्तस्ततो राज्ञा प्रसादमकरोन्मुनिः |
कृतप्रसादो राजा तं ततः समवतारयत् ||१९||
अवतार्य च शूलाग्रात्तच्छूलं निश्चकर्ष ह |
अशक्नुवंश्च निष्क्रष्टुं शूलं मूले स चिच्छिदे ||२०||
स तथान्तर्गतेनैव शूलेन व्यचरन्मुनिः |
स तेन तपसा लोकान्विजिग्ये दुर्लभान्परैः ||२१||
अणीमाण्डव्य इति च ततो लोकेषु कथ्यते ||२१||
स गत्वा सदनं विप्रो धर्मस्य परमार्थवित् |
आसनस्थं ततो धर्मं दृष्ट्वोपालभत प्रभुः ||२२||
किं नु तद्दुष्कृतं कर्म मया कृतमजानता |
यस्येयं फलनिर्वृत्तिरीदृश्यासादिता मया ||२३||
शीघ्रमाचक्ष्व मे तत्त्वं पश्य मे तपसो बलम् ||२३||
धर्म उवाच||
पतङ्गकानां पुच्छेषु त्वयेषीका प्रवेशिता |
कर्मणस्तस्य ते प्राप्तं फलमेतत्तपोधन ||२४||
अणीमाण्डव्य उवाच||
अल्पेऽपराधे विपुलो मम दण्डस्त्वया कृतः |
शूद्रयोनावतो धर्म मानुषः सम्भविष्यसि ||२५||
मर्यादां स्थापयाम्यद्य लोके धर्मफलोदयाम् |
आ चतुर्दशमाद्वर्षान्न भविष्यति पातकम् ||२६||
परेण कुर्वतामेवं दोष एव भविष्यति ||२६||
वैशम्पायन उवाच||
एतेन त्वपराधेन शापात्तस्य महात्मनः |
धर्मो विदुररूपेण शूद्रयोनावजायत ||२७||
धर्मे चार्थे च कुशलो लोभक्रोधविवर्जितः |
दीर्घदर्शी शमपरः कुरूणां च हिते रतः ||२८||
श्रीमहाभारतम्
||१ आदिपर्वम् ||
101-अध्यायः
वैशम्पायन उवाच||
तेषु त्रिषु कुमारेषु जातेषु कुरुजाङ्गलम् |
कुरवोऽथ कुरुक्षेत्रं त्रयमेतदवर्धत ||१||
ऊर्ध्वसस्याभवद्भूमिः सस्यानि फलवन्ति च |
यथर्तुवर्षी पर्जन्यो बहुपुष्पफला द्रुमाः ||२||
वाहनानि प्रहृष्टानि मुदिता मृगपक्षिणः |
गन्धवन्ति च माल्यानि रसवन्ति फलानि च ||३||
वणिग्भिश्चावकीर्यन्त नगराण्यथ शिल्पिभिः |
शूराश्च कृतविद्याश्च सन्तश्च सुखिनोऽभवन् ||४||
नाभवन्दस्यवः केचिन्नाधर्मरुचयो जनाः |
प्रदेशेष्वपि राष्ट्राणां कृतं युगमवर्तत ||५||
दानक्रियाधर्मशीला यज्ञव्रतपरायणाः |
अन्योन्यप्रीतिसंयुक्ता व्यवर्धन्त प्रजास्तदा ||६||
मानक्रोधविहीनाश्च जना लोभविवर्जिताः |
अन्योन्यमभ्यवर्धन्त धर्मोत्तरमवर्तत ||७||
तन्महोदधिवत्पूर्णं नगरं वै व्यरोचत |
द्वारतोरणनिर्यूहैर्युक्तमभ्रचयोपमैः ||८||
प्रासादशतसम्बाधं महेन्द्रपुरसंनिभम् ||८||
नदीषु वनखण्डेषु वापीपल्वलसानुषु |
काननेषु च रम्येषु विजह्रुर्मुदिता जनाः ||९||
उत्तरैः कुरुभिः सार्धं दक्षिणाः कुरवस्तदा |
विस्पर्धमाना व्यचरंस्तथा सिद्धर्षिचारणैः ||१०||
नाभवत्कृपणः कश्चिन्नाभवन्विधवाः स्त्रियः ||१०||
तस्मिञ्जनपदे रम्ये बहवः कुरुभिः कृताः |
कूपारामसभावाप्यो ब्राह्मणावसथास्तथा ||११||
भीष्मेण शास्त्रतो राजन्सर्वतः परिरक्षिते ||११||
बभूव रमणीयश्च चैत्ययूपशताङ्कितः |
स देशः परराष्ट्राणि प्रतिगृह्याभिवर्धितः ||१२||
भीष्मेण विहितं राष्ट्रे धर्मचक्रमवर्तत ||१२||
क्रियमाणेषु कृत्येषु कुमाराणां महात्मनाम् |
पौरजानपदाः सर्वे बभूवुः सततोत्सवाः ||१३||
गृहेषु कुरुमुख्यानां पौराणां च नराधिप |
दीयतां भुज्यतां चेति वाचोऽश्रूयन्त सर्वशः ||१४||
धृतराष्ट्रश्च पाण्डुश्च विदुरश्च महामतिः |
जन्मप्रभृति भीष्मेण पुत्रवत्परिपालिताः ||१५||
संस्कारैः संस्कृतास्ते तु व्रताध्ययनसंयुताः |
श्रमव्यायामकुशलाः समपद्यन्त यौवनम् ||१६||
धनुर्वेदेऽश्वपृष्ठे च गदायुद्धेऽसिचर्मणि |
तथैव गजशिक्षायां नीतिशास्त्रे च पारगाः ||१७||
इतिहासपुराणेषु नानाशिक्षासु चाभिभो |
वेदवेदाङ्गतत्त्वज्ञाः सर्वत्र कृतनिश्रमाः ||१८||
पाण्डुर्धनुषि विक्रान्तो नरेभ्योऽभ्यधिकोऽभवत् |
अत्यन्यान्बलवानासीद्धृतराष्ट्रो महीपतिः ||१९||
त्रिषु लोकेषु न त्वासीत्कश्चिद्विदुरसंमितः |
धर्मनित्यस्ततो राजन्धर्मे च परमं गतः ||२०||
प्रनष्टं शन्तनोर्वंशं समीक्ष्य पुनरुद्धृतम् |
ततो निर्वचनं लोके सर्वराष्ट्रेष्ववर्तत ||२१||
वीरसूनां काशिसुते देशानां कुरुजाङ्गलम् |
सर्वधर्मविदां भीष्मः पुराणां गजसाह्वयम् ||२२||
धृतराष्ट्रस्त्वचक्षुष्ट्वाद्राज्यं न प्रत्यपद्यत |
करणत्वाच्च विदुरः पाण्डुरासीन्महीपतिः ||२३||