श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
051-अध्यायः
धृतराष्ट्र उवाच||
यस्य वै नानृता वाचः प्रवृत्ता अनुशुश्रुमः |
त्रैलोक्यमपि तस्य स्याद्योद्धा यस्य धनञ्जयः ||१||
तस्यैव च न पश्यामि युधि गाण्डीवधन्वनः |
अनिशं चिन्तयानोऽपि यः प्रतीयाद्रथेन तम् ||२||
अस्यतः कर्णिनालीकान्मार्गणान्हृदयच्छिदः |
प्रत्येता न समः कश्चिद्युधि गाण्डीवधन्वनः ||३||
द्रोणकर्णौ प्रतीयातां यदि वीरौ नरर्षभौ |
माहात्म्यात्संशयो लोके न त्वस्ति विजयो मम ||४||
घृणी कर्णः प्रमादी च आचार्यः स्थविरो गुरुः |
समर्थो बलवान्पार्थो दृढधन्वा जितक्लमः ||५||
भवेत्सुतुमुलं युद्धं सर्वशोऽप्यपराजयः ||५||
सर्वे ह्यस्त्रविदः शूराः सर्वे प्राप्ता महद्यशः |
अपि सर्वामरैश्वर्यं त्यजेयुर्न पुनर्जयम् ||६||
वधे नूनं भवेच्छान्तिस्तयोर्वा फल्गुनस्य वा ||६||
न तु जेतार्जुनस्यास्ति हन्ता चास्य न विद्यते |
मन्युस्तस्य कथं शाम्येन्मन्दान्प्रति य उत्थितः ||७||
अन्येऽप्यस्त्राणि जानन्ति जीयन्ते च जयन्ति च |
एकान्तविजयस्त्वेव श्रूयते फल्गुनस्य ह ||८||
त्रयस्त्रिंशत्समाहूय खाण्डवेऽग्निमतर्पयत् |
जिगाय च सुरान्सर्वान्नास्य वेद्मि पराजयम् ||९||
यस्य यन्ता हृषीकेशः शीलवृत्तसमो युधि |
ध्रुवस्तस्य जयस्तात यथेन्द्रस्य जयस्तथा ||१०||
कृष्णावेकरथे यत्तावधिज्यं गाण्डिवं धनुः |
युगपत्त्रीणि तेजांसि समेतान्यनुशुश्रुमः ||११||
नैव नोऽस्ति धनुस्तादृङ्न योद्धा न च सारथिः |
तच्च मन्दा न जानन्ति दुर्योधनवशानुगाः ||१२||
शेषयेदशनिर्दीप्तो निपतन्मूर्ध्नि सञ्जय |
न तु शेषं शराः कुर्युरस्तास्तात किरीटिना ||१३||
अपि चास्यन्निवाभाति निघ्नन्निव च फल्गुनः |
उद्धरन्निव कायेभ्यः शिरांसि शरवृष्टिभिः ||१४||
अपि बाणमयं तेजः प्रदीप्तमिव सर्वतः |
गाण्डीवेद्धं दहेताजौ पुत्राणां मम वाहिनीम् ||१५||
अपि सा रथघोषेण भयार्ता सव्यसाचिनः |
वित्रस्ता बहुला सेना भारती प्रतिभाति मे ||१६||
यथा कक्षं दहत्यग्निः प्रवृद्धः सर्वतश्चरन् |
महार्चिरनिलोद्धूतस्तद्वद्धक्ष्यति मामकान् ||१७||
यदोद्वमन्निशितान्बाणसङ्घा; न्स्थाताततायी समरे किरीटी |
सृष्टोऽन्तकः सर्वहरो विधात्रा; यथा भवेत्तद्वदवारणीयः ||१८||
यदा ह्यभीक्ष्णं सुबहून्प्रकारा; ञ्श्रोतास्मि तानावसथे कुरूणाम् |
तेषां समन्ताच्च तथा रणाग्रे; क्षयः किलायं भरतानुपैति ||१९||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
052-अध्यायः
धृतराष्ट्र उवाच||
यथैव पाण्डवाः सर्वे पराक्रान्ता जिगीषवः |
तथैवाभिसरास्तेषां त्यक्तात्मानो जये धृताः ||१||
त्वमेव हि पराक्रान्तानाचक्षीथाः परान्मम |
पाञ्चालान्केकयान्मत्स्यान्मागधान्वत्सभूमिपान् ||२||
यश्च सेन्द्रानिमाँल्लोकानिच्छन्कुर्याद्वशे बली |
स श्रेष्ठो जगतः कृष्णः पाण्डवानां जये धृतः ||३||
समस्तामर्जुनाद्विद्यां सात्यकिः क्षिप्रमाप्तवान् |
शैनेयः समरे स्थाता बीजवत्प्रवपञ्शरान् ||४||
धृष्टद्युम्नश्च पाञ्चाल्यः क्रूरकर्मा महारथः |
मामकेषु रणं कर्ता बलेषु परमास्त्रवित् ||५||
युधिष्ठिरस्य च क्रोधादर्जुनस्य च विक्रमात् |
यमाभ्यां भीमसेनाच्च भयं मे तात जायते ||६||
अमानुषं मनुष्येन्द्रैर्जालं विततमन्तरा |
मम सेनां हनिष्यन्ति ततः क्रोशामि सञ्जय ||७||
दर्शनीयो मनस्वी च लक्ष्मीवान्ब्रह्मवर्चसी |
मेधावी सुकृतप्रज्ञो धर्मात्मा पाण्डुनन्दनः ||८||
मित्रामात्यैः सुसम्पन्नः सम्पन्नो योज्ययोजकैः |
भ्रातृभिः श्वशुरैः पुत्रैरुपपन्नो महारथैः ||९||
धृत्या च पुरुषव्याघ्रो नैभृत्येन च पाण्डवः |
अनृशंसो वदान्यश्च ह्रीमान्सत्यपराक्रमः ||१०||
बहुश्रुतः कृतात्मा च वृद्धसेवी जितेन्द्रियः |
तं सर्वगुणसम्पन्नं समिद्धमिव पावकम् ||११||
तपन्तमिव को मन्दः पतिष्यति पतङ्गवत् |
पाण्डवाग्निमनावार्यं मुमूर्षुर्मूढचेतनः ||१२||
तनुरुच्चः शिखी राजा शुद्धजाम्बूनदप्रभः |
मन्दानां मम पुत्राणां युद्धेनान्तं करिष्यति ||१३||
तैरयुद्धं साधु मन्ये कुरवस्तन्निबोधत |
युद्धे विनाशः कृत्स्नस्य कुलस्य भविता ध्रुवम् ||१४||
एषा मे परमा शान्तिर्यया शाम्यति मे मनः |
यदि त्वयुद्धमिष्टं वो वयं शान्त्यै यतामहे ||१५||
न तु नः शिक्षमाणानामुपेक्षेत युधिष्ठिरः |
जुगुप्सति ह्यधर्मेण मामेवोद्दिश्य कारणम् ||१६||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
053-अध्यायः
सञ्जय उवाच||
एवमेतन्महाराज यथा वदसि भारत |
युद्धे विनाशः क्षत्रस्य गाण्डीवेन प्रदृश्यते ||१||
इदं तु नाभिजानामि तव धीरस्य नित्यशः |
यत्पुत्रवशमागच्छेः सत्त्वज्ञः सव्यसाचिनः ||२||
नैष कालो महाराज तव शश्वत्कृतागसः |
त्वया ह्येवादितः पार्था निकृता भरतर्षभ ||३||
पिता श्रेष्ठः सुहृद्यश्च सम्यक्प्रणिहितात्मवान् |
आस्थेयं हि हितं तेन न द्रोग्धा गुरुरुच्यते ||४||
इदं जितमिदं लब्धमिति श्रुत्वा पराजितान् |
द्यूतकाले महाराज स्मयसे स्म कुमारवत् ||५||
परुषाण्युच्यमानान्स्म पुरा पार्थानुपेक्षसे |
कृत्स्नं राज्यं जयन्तीति प्रपातं नानुपश्यसि ||६||
पित्र्यं राज्यं महाराज कुरवस्ते सजाङ्गलाः |
अथ वीरैर्जितां भूमिमखिलां प्रत्यपद्यथाः ||७||
बाहुवीर्यार्जिता भूमिस्तव पार्थैर्निवेदिता |
मयेदं कृतमित्येव मन्यसे राजसत्तम ||८||
ग्रस्तान्गन्धर्वराजेन मज्जतो ह्यप्लवेऽम्भसि |
आनिनाय पुनः पार्थः पुत्रांस्ते राजसत्तम ||९||
कुमारवच्च स्मयसे द्यूते विनिकृतेषु यत् |
पाण्डवेषु वनं राजन्प्रव्रजत्सु पुनः पुनः ||१०||
प्रवर्षतः शरव्रातानर्जुनस्य शितान्बहून् |
अप्यर्णवा विशुष्येयुः किं पुनर्मांसयोनयः ||११||
अस्यतां फल्गुनः श्रेष्ठो गाण्डीवं धनुषां वरम् |
केशवः सर्वभूतानां चक्राणां च सुदर्शनम् ||१२||
वानरो रोचमानश्च केतुः केतुमतां वरः |
एवमेतानि सरथो वहञ्श्वेतहयो रणे ||१३||
क्षपयिष्यति नो राजन्कालचक्रमिवोद्यतम् ||१३||
तस्याद्य वसुधा राजन्निखिला भरतर्षभ |
यस्य भीमार्जुनौ योधौ स राजा राजसत्तम ||१४||
तथा भीमहतप्रायां मज्जन्तीं तव वाहिनीम् |
दुर्योधनमुखा दृष्ट्वा क्षयं यास्यन्ति कौरवाः ||१५||
न हि भीमभयाद्भीता लप्स्यन्ते विजयं विभो |
तव पुत्रा महाराज राजानश्चानुसारिणः ||१६||
मत्स्यास्त्वामद्य नार्चन्ति पाञ्चालाश्च सकेकयाः |
शाल्वेयाः शूरसेनाश्च सर्वे त्वामवजानते ||१७||
पार्थं ह्येते गताः सर्वे वीर्यज्ञास्तस्य धीमतः ||१७||
अनर्हानेव तु वधे धर्मयुक्तान्विकर्मणा |
सर्वोपायैर्नियन्तव्यः सानुगः पापपूरुषः ||१८||
तव पुत्रो महाराज नात्र शोचितुमर्हसि ||१८||
द्यूतकाले मया चोक्तं विदुरेण च धीमता |
यदिदं ते विलपितं पाण्डवान्प्रति भारत ||१९||
अनीशेनेव राजेन्द्र सर्वमेतन्निरर्थकम् ||१९||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
054-अध्यायः
दुर्योधन उवाच||
न भेतव्यं महाराज न शोच्या भवता वयम् |
समर्थाः स्म परान्राजन्विजेतुं समरे विभो ||१||
वनं प्रव्राजितान्पार्थान्यदायान्मधुसूदनः |
महता बलचक्रेण परराष्ट्रावमर्दिना ||२||
केकया धृष्टकेतुश्च धृष्टद्युम्नश्च पार्षतः |
राजानश्चान्वयुः पार्थान्बहवोऽन्येऽनुयायिनः ||३||
इन्द्रप्रस्थस्य चादूरात्समाजग्मुर्महारथाः |
व्यगर्हयंश्च सङ्गम्य भवन्तं कुरुभिः सह ||४||
ते युधिष्ठिरमासीनमजिनैः प्रतिवासितम् |
कृष्णप्रधानाः संहत्य पर्युपासन्त भारत ||५||
प्रत्यादानं च राज्यस्य कार्यमूचुर्नराधिपाः |
भवतः सानुबन्धस्य समुच्छेदं चिकीर्षवः ||६||
श्रुत्वा चैतन्मयोक्तास्तु भीष्मद्रोणकृपास्तदा |
ज्ञातिक्षयभयाद्राजन्भीतेन भरतर्षभ ||७||
न ते स्थास्यन्ति समये पाण्डवा इति मे मतिः |
समुच्छेदं हि नः कृत्स्नं वासुदेवश्चिकीर्षति ||८||
ऋते च विदुरं सर्वे यूयं वध्या महात्मनः |
धृतराष्ट्रश्च धर्मज्ञो न वध्यः कुरुसत्तमः ||९||
समुच्छेदं च कृत्स्नं नः कृत्वा तात जनार्दनः |
एकराज्यं कुरूणां स्म चिकीर्षति युधिष्ठिरे ||१०||
तत्र किं प्राप्तकालं नः प्रणिपातः पलायनम् |
प्राणान्वा सम्परित्यज्य प्रतियुध्यामहे परान् ||११||
प्रतियुद्धे तु नियतः स्यादस्माकं पराजयः |
युधिष्ठिरस्य सर्वे हि पार्थिवा वशवर्तिनः ||१२||
विरक्तराष्ट्राश्च वयं मित्राणि कुपितानि नः |
धिक्कृताः पार्थिवैः सर्वैः स्वजनेन च सर्वशः ||१३||
प्रणिपाते तु दोषोऽस्ति बन्धूनां शाश्वतीः समाः |
पितरं त्वेव शोचामि प्रज्ञानेत्रं जनेश्वरम् ||१४||
मत्कृते दुःखमापन्नं क्लेशं प्राप्तमनन्तकम् ||१४||
कृतं हि तव पुत्रैश्च परेषामवरोधनम् |
मत्प्रियार्थं पुरैवैतद्विदितं ते नरोत्तम ||१५||
ते राज्ञो धृतराष्ट्रस्य सामात्यस्य महारथाः |
वैरं प्रतिकरिष्यन्ति कुलोच्छेदेन पाण्डवाः ||१६||
ततो द्रोणोऽब्रवीद्भीष्मः कृपो द्रौणिश्च भारत |
मत्वा मां महतीं चिन्तामास्थितं व्यथितेन्द्रियम् ||१७||
अभिद्रुग्धाः परे चेन्नो न भेतव्यं परन्तप |
असमर्थाः परे जेतुमस्मान्युधि जनेश्वर ||१८||
एकैकशः समर्थाः स्मो विजेतुं सर्वपार्थिवान् |
आगच्छन्तु विनेष्यामो दर्पमेषां शितैः शरैः ||१९||
पुरैकेन हि भीष्मेण विजिताः सर्वपार्थिवाः |
मृते पितर्यभिक्रुद्धो रथेनैकेन भारत ||२०||
जघान सुबहूंस्तेषां संरब्धः कुरुसत्तमः |
ततस्ते शरणं जग्मुर्देवव्रतमिमं भयात् ||२१||
स भीष्मः सुसमर्थोऽयमस्माभिः सहितो रणे |
परान्विजेतुं तस्मात्ते व्येतु भीर्भरतर्षभ ||२२||
इत्येषां निश्चयो ह्यासीत्तत्कालममितौजसाम् ||२२||
पुरा परेषां पृथिवी कृत्स्नासीद्वशवर्तिनी |
अस्मान्पुनरमी नाद्य समर्था जेतुमाहवे ||२३||
छिन्नपक्षाः परे ह्यद्य वीर्यहीनाश्च पाण्डवाः ||२३||
अस्मत्संस्था च पृथिवी वर्तते भरतर्षभ |
एकार्थाः सुखदुःखेषु मयानीताश्च पार्थिवाः ||२४||
अप्यग्निं प्रविशेयुस्ते समुद्रं वा परन्तप |
मदर्थे पार्थिवाः सर्वे तद्विद्धि कुरुसत्तम ||२५||
उन्मत्तमिव चापि त्वां प्रहसन्तीह दुःखितम् |
विलपन्तं बहुविधं भीतं परविकत्थने ||२६||
एषां ह्येकैकशो राज्ञां समर्थः पाण्डवान्प्रति |
आत्मानं मन्यते सर्वो व्येतु ते भयमागतम् ||२७||
सर्वां समग्रां सेनां मे वासवोऽपि न शक्नुयात् |
हन्तुमक्षय्यरूपेयं ब्रह्मणापि स्वयम्भुवा ||२८||
युधिष्ठिरः पुरं हित्वा पञ्च ग्रामान्स याचति |
भीतो हि मामकात्सैन्यात्प्रभावाच्चैव मे प्रभो ||२९||
समर्थं मन्यसे यच्च कुन्तीपुत्रं वृकोदरम् |
तन्मिथ्या न हि मे कृत्स्नं प्रभावं वेत्थ भारत ||३०||
मत्समो हि गदायुद्धे पृथिव्यां नास्ति कश्चन |
नासीत्कश्चिदतिक्रान्तो भविता न च कश्चन ||३१||
युक्तो दुःखोचितश्चाहं विद्यापारगतस्तथा |
तस्मान्न भीमान्नान्येभ्यो भयं मे विद्यते क्वचित् ||३२||
दुर्योधनसमो नास्ति गदायामिति निश्चयः |
सङ्कर्षणस्य भद्रं ते यत्तदैनमुपावसम् ||३३||
युद्धे सङ्कर्षणसमो बलेनाभ्यधिको भुवि |
गदाप्रहारं भीमो मे न जातु विषहेद्युधि ||३४||
एकं प्रहारं यं दद्यां भीमाय रुषितो नृप |
स एवैनं नयेद्घोरं क्षिप्रं वैवस्वतक्षयम् ||३५||
इच्छेयं च गदाहस्तं राजन्द्रष्टुं वृकोदरम् |
सुचिरं प्रार्थितो ह्येष मम नित्यं मनोरथः ||३६||
गदया निहतो ह्याजौ मम पार्थो वृकोदरः |
विशीर्णगात्रः पृथिवीं परासुः प्रपतिष्यति ||३७||
गदाप्रहाराभिहतो हिमवानपि पर्वतः |
सकृन्मया विशीर्येत गिरिः शतसहस्रधा ||३८||
स चाप्येतद्विजानाति वासुदेवार्जुनौ तथा |
दुर्योधनसमो नास्ति गदायामिति निश्चयः ||३९||
तत्ते वृकोदरमयं भयं व्येतु महाहवे |
व्यपनेष्याम्यहं ह्येनं मा राजन्विमना भव ||४०||
तस्मिन्मया हते क्षिप्रमर्जुनं बहवो रथाः |
तुल्यरूपा विशिष्टाश्च क्षेप्स्यन्ति भरतर्षभ ||४१||
भीष्मो द्रोणः कृपो द्रौणिः कर्णो भूरिश्रवास्तथा |
प्राग्ज्योतिषाधिपः शल्यः सिन्धुराजो जयद्रथः ||४२||
एकैक एषां शक्तस्तु हन्तुं भारत पाण्डवान् |
समस्तास्तु क्षणेनैतान्नेष्यन्ति यमसादनम् ||४३||
समग्रा पार्थिवी सेना पार्थमेकं धनञ्जयम् |
कस्मादशक्ता निर्जेतुमिति हेतुर्न विद्यते ||४४||
शरव्रातैस्तु भीष्मेण शतशोऽथ सहस्रशः |
द्रोणद्रौणिकृपैश्चैव गन्ता पार्थो यमक्षयम् ||४५||
पितामहो हि गाङ्गेयः शन्तनोरधि भारत |
ब्रह्मर्षिसदृशो जज्ञे देवैरपि दुरुत्सहः ||४६||
पित्रा ह्युक्तः प्रसन्नेन नाकामस्त्वं मरिष्यसि ||४६||
ब्रह्मर्षेश्च भरद्वाजाद्द्रोण्यां द्रोणो व्यजायत |
द्रोणाज्जज्ञे महाराज द्रौणिश्च परमास्त्रवित् ||४७||
कृपश्चाचार्यमुख्योऽयं महर्षेर्गौतमादपि |
शरस्तम्बोद्भवः श्रीमानवध्य इति मे मतिः ||४८||
अयोनिजं त्रयं ह्येतत्पिता माता च मातुलः |
अश्वत्थाम्नो महाराज स च शूरः स्थितो मम ||४९||
सर्व एते महाराज देवकल्पा महारथाः |
शक्रस्यापि व्यथां कुर्युः संयुगे भरतर्षभ ||५०||
भीष्मद्रोणकृपाणां च तुल्यः कर्णो मतो मम |
अनुज्ञातश्च रामेण मत्समोऽसीति भारत ||५१||
कुण्डले रुचिरे चास्तां कर्णस्य सहजे शुभे |
ते शच्यर्थे महेन्द्रेण याचितः स परन्तपः ||५२||
अमोघया महाराज शक्त्या परमभीमया ||५२||
तस्य शक्त्योपगूढस्य कस्माज्जीवेद्धनञ्जयः |
विजयो मे ध्रुवं राजन्फलं पाणाविवाहितम् ||५३||
अभिव्यक्तः परेषां च कृत्स्नो भुवि पराजयः ||५३||
अह्ना ह्येकेन भीष्मोऽयमयुतं हन्ति भारत |
तत्समाश्च महेष्वासा द्रोणद्रौणिकृपा अपि ||५४||
संशप्तानि च वृन्दानि क्षत्रियाणां परन्तप |
अर्जुनं वयमस्मान्वा धनञ्जय इति स्म ह ||५५||
तांश्चालमिति मन्यन्ते सव्यसाचिवधे विभो |
पार्थिवाः स भवान्राजन्नकस्माद्व्यथते कथम् ||५६||
भीमसेने च निहते कोऽन्यो युध्येत भारत |
परेषां तन्ममाचक्ष्व यदि वेत्थ परन्तप ||५७||
पञ्च ते भ्रातरः सर्वे धृष्टद्युम्नोऽथ सात्यकिः |
परेषां सप्त ये राजन्योधाः परमकं बलम् ||५८||
अस्माकं तु विशिष्टा ये भीष्मद्रोणकृपादयः |
द्रौणिर्वैकर्तनः कर्णः सोमदत्तोऽथ बाह्लिकः ||५९||
प्राग्ज्योतिषाधिपः शल्य आवन्त्योऽथ जयद्रथः |
दुःशासनो दुर्मुखश्च दुःसहश्च विशां पते ||६०||
श्रुतायुश्चित्रसेनश्च पुरुमित्रो विविंशतिः |
शलो भूरिश्रवाश्चोभौ विकर्णश्च तवात्मजः ||६१||
अक्षौहिण्यो हि मे राजन्दशैका च समाहृताः |
न्यूनाः परेषां सप्तैव कस्मान्मे स्यात्पराजयः ||६२||
बलं त्रिगुणतो हीनं योध्यं प्राह बृहस्पतिः |
परेभ्यस्त्रिगुणा चेयं मम राजन्ननीकिनी ||६३||
गुणहीनं परेषां च बहु पश्यामि भारत |
गुणोदयं बहुगुणमात्मनश्च विशां पते ||६४||
एतत्सर्वं समाज्ञाय बलाग्र्यं मम भारत |
न्यूनतां पाण्डवानां च न मोहं गन्तुमर्हसि ||६५||
वैशम्पायन उवाच||
इत्युक्त्वा सञ्जयं भूयः पर्यपृच्छत भारत |
विधित्सुः प्राप्तकालानि ज्ञात्वा परपुरञ्जयः ||६६||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
055-अध्यायः
दुर्योधन उवाच||
अक्षौहिणीः सप्त लब्ध्वा राजभिः सह सञ्जय |
किं स्विदिच्छति कौन्तेयो युद्धप्रेप्सुर्युधिष्ठिरः ||१||
सञ्जय उवाच||
अतीव मुदितो राजन्युद्धप्रेप्सुर्युधिष्ठिरः |
भीमसेनार्जुनौ चोभौ यमावपि न बिभ्यतः ||२||
रथं तु दिव्यं कौन्तेयः सर्वा विभ्राजयन्दिशः |
मन्त्रं जिज्ञासमानः सन्बीभत्सुः समयोजयत् ||३||
तमपश्याम संनद्धं मेघं विद्युत्प्रभं यथा |
स मन्त्रान्समभिध्याय हृष्यमाणोऽभ्यभाषत ||४||
पूर्वरूपमिदं पश्य वयं जेष्याम सञ्जय |
बीभत्सुर्मां यथोवाच तथावैम्यहमप्युत ||५||
दुर्योधन उवाच||
प्रशंसस्यभिनन्दंस्तान्पार्थानक्षपराजितान् |
अर्जुनस्य रथे ब्रूहि कथमश्वाः कथं ध्वजः ||६||
सञ्जय उवाच||
भौवनः सह शक्रेण बहुचित्रं विशां पते |
रूपाणि कल्पयामास त्वष्टा धात्रा सहाभिभो ||७||
ध्वजे हि तस्मिन्रूपाणि चक्रुस्ते देवमायया |
महाधनानि दिव्यानि महान्ति च लघूनि च ||८||
सर्वा दिशो योजनमात्रमन्तरं; स तिर्यगूर्ध्वं च रुरोध वै ध्वजः |
न संसज्जेत्तरुभिः संवृतोऽपि; तथा हि माया विहिता भौवनेन ||९||
यथाकाशे शक्रधनुः प्रकाशते; न चैकवर्णं न च विद्म किं नु तत् |
तथा ध्वजो विहितो भौवनेन; बह्वाकारं दृश्यते रूपमस्य ||१०||
यथाग्निधूमो दिवमेति रुद्ध्वा; वर्णान्बिभ्रत्तैजसं तच्छरीरम् |
तथा ध्वजो विहितो भौवनेन; न चेद्भारो भविता नोत रोधः ||११||
श्वेतास्तस्मिन्वातवेगाः सदश्वा; दिव्या युक्ताश्चित्ररथेन दत्ताः |
शतं यत्तत्पूर्यते नित्यकालं; हतं हतं दत्तवरं पुरस्तात् ||१२||
तथा राज्ञो दन्तवर्णा बृहन्तो; रथे युक्ता भान्ति तद्वीर्यतुल्याः |
ऋश्यप्रख्या भीमसेनस्य वाहा; रणे वायोस्तुल्यवेगा बभूवुः ||१३||
कल्माषाङ्गास्तित्तिरिचित्रपृष्ठा; भ्रात्रा दत्ताः प्रीयता फल्गुनेन |
भ्रातुर्वीरस्य स्वैस्तुरङ्गैर्विशिष्टा; मुदा युक्ताः सहदेवं वहन्ति ||१४||
माद्रीपुत्रं नकुलं त्वाजमीढं; महेन्द्रदत्ता हरयो वाजिमुख्याः |
समा वायोर्बलवन्तस्तरस्विनो; वहन्ति वीरं वृत्रशत्रुं यथेन्द्रम् ||१५||
तुल्याश्चैभिर्वयसा विक्रमेण; जवेन चैवाप्रतिरूपाः सदश्वाः |
सौभद्रादीन्द्रौपदेयान्कुमारा; न्वहन्त्यश्वा देवदत्ता बृहन्तः ||१६||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
056-अध्यायः
धृतराष्ट्र उवाच||
कांस्तत्र सञ्जयापश्यः प्रत्यर्थेन समागतान् |
ये योत्स्यन्ते पाण्डवार्थे पुत्रस्य मम वाहिनीम् ||१||
सञ्जय उवाच||
मुख्यमन्धकवृष्णीनामपश्यं कृष्णमागतम् |
चेकितानं च तत्रैव युयुधानं च सात्यकिम् ||२||
पृथगक्षौहिणीभ्यां तौ पाण्डवानभिसंश्रितौ |
महारथौ समाख्यातावुभौ पुरुषमानिनौ ||३||
अक्षौहिण्याथ पाञ्चाल्यो दशभिस्तनयैर्वृतः |
सत्यजित्प्रमुखैर्वीरैर्धृष्टद्युम्नपुरोगमैः ||४||
द्रुपदो वर्धयन्मानं शिखण्डिपरिपालितः |
उपायात्सर्वसैन्यानां प्रतिच्छाद्य तदा वपुः ||५||
विराटः सह पुत्राभ्यां शङ्खेनैवोत्तरेण च |
सूर्यदत्तादिभिर्वीरैर्मदिराश्वपुरोगमैः ||६||
सहितः पृथिवीपालो भ्रातृभिस्तनयैस्तथा |
अक्षौहिण्यैव सैन्यस्य वृतः पार्थं समाश्रितः ||७||
जारासन्धिर्मागधश्च धृष्टकेतुश्च चेदिराट् |
पृथक्पृथगनुप्राप्तौ पृथगक्षौहिणीवृतौ ||८||
केकया भ्रातरः पञ्च सर्वे लोहितकध्वजाः |
अक्षौहिणीपरिवृताः पाण्डवानभिसंश्रिताः ||९||
एतानेतावतस्तत्र यानपश्यं समागतान् |
ये पाण्डवार्थे योत्स्यन्ति धार्तराष्ट्रस्य वाहिनीम् ||१०||
यो वेद मानुषं व्यूहं दैवं गान्धर्वमासुरम् |
स तस्य सेनाप्रमुखे धृष्टद्युम्नो महामनाः ||११||
भीष्मः शान्तनवो राजन्भागः कॢप्तः शिखण्डिनः |
तं विराटोऽनु संयाता सह मत्स्यैः प्रहारिभिः ||१२||
ज्येष्ठस्य पाण्डुपुत्रस्य भागो मद्राधिपो बली |
तौ तु तत्राब्रुवन्केचिद्विषमौ नो मताविति ||१३||
दुर्योधनः सहसुतः सार्धं भ्रातृशतेन च |
प्राच्याश्च दाक्षिणात्याश्च भीमसेनस्य भागतः ||१४||
अर्जुनस्य तु भागेन कर्णो वैकर्तनो मतः |
अश्वत्थामा विकर्णश्च सैन्धवश्च जयद्रथः ||१५||
अशक्याश्चैव ये केचित्पृथिव्यां शूरमानिनः |
सर्वांस्तानर्जुनः पार्थः कल्पयामास भागतः ||१६||
महेष्वासा राजपुत्रा भ्रातरः पञ्च केकयाः |
केकयानेव भागेन कृत्वा योत्स्यन्ति संयुगे ||१७||
तेषामेव कृतो भागो मालवाः शाल्वकेकयाः |
त्रिगर्तानां च द्वौ मुख्यौ यौ तौ संशप्तकाविति ||१८||
दुर्योधनसुताः सर्वे तथा दुःशासनस्य च |
सौभद्रेण कृतो भागो राजा चैव बृहद्बलः ||१९||
द्रौपदेया महेष्वासाः सुवर्णविकृतध्वजाः |
धृष्टद्युम्नमुखा द्रोणमभियास्यन्ति भारत ||२०||
चेकितानः सोमदत्तं द्वैरथे योद्धुमिच्छति |
भोजं तु कृतवर्माणं युयुधानो युयुत्सति ||२१||
सहदेवस्तु माद्रेयः शूरः सङ्क्रन्दनो युधि |
स्वमंशं कल्पयामास श्यालं ते सुबलात्मजम् ||२२||
उलूकं चापि कैतव्यं ये च सारस्वता गणाः |
नकुलः कल्पयामास भागं माद्रवतीसुतः ||२३||
ये चान्ये पार्थिवा राजन्प्रत्युद्यास्यन्ति संयुगे |
समाह्वानेन तांश्चापि पाण्डुपुत्रा अकल्पयन् ||२४||
एवमेषामनीकानि प्रविभक्तानि भागशः |
यत्ते कार्यं सपुत्रस्य क्रियतां तदकालिकम् ||२५||
धृतराष्ट्र उवाच||
न सन्ति सर्वे पुत्रा मे मूढा दुर्द्यूतदेविनः |
येषां युद्धं बलवता भीमेन रणमूर्धनि ||२६||
राजानः पार्थिवाः सर्वे प्रोक्षिताः कालधर्मणा |
गाण्डीवाग्निं प्रवेक्ष्यन्ति पतङ्गा इव पावकम् ||२७||
विद्रुतां वाहिनीं मन्ये कृतवैरैर्महात्मभिः |
तां रणे केऽनुयास्यन्ति प्रभग्नां पाण्डवैर्युधि ||२८||
सर्वे ह्यतिरथाः शूराः कीर्तिमन्तः प्रतापिनः |
सूर्यपावकयोस्तुल्यास्तेजसा समितिञ्जयाः ||२९||
येषां युधिष्ठिरो नेता गोप्ता च मधुसूदनः |
योधौ च पाण्डवौ वीरौ सव्यसाचिवृकोदरौ ||३०||
नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः |
सात्यकिर्द्रुपदश्चैव धृष्टद्युम्नस्य चात्मजः ||३१||
उत्तमौजाश्च पाञ्चाल्यो युधामन्युश्च दुर्जयः |
शिखण्डी क्षत्रदेवश्च तथा वैराटिरुत्तरः ||३२||
काशयश्चेदयश्चैव मत्स्याः सर्वे च सृञ्जयाः |
विराटपुत्रो बभ्रूश्च पाञ्चालाश्च प्रभद्रकाः ||३३||
येषामिन्द्रोऽप्यकामानां न हरेत्पृथिवीमिमाम् |
वीराणां रणधीराणां ये भिन्द्युः पर्वतानपि ||३४||
तान्सर्वान्गुणसम्पन्नानमनुष्यप्रतापिनः |
क्रोशतो मम दुष्पुत्रो योद्धुमिच्छति सञ्जय ||३५||
दुर्योधन उवाच||
उभौ स्व एकजातीयौ तथोभौ भूमिगोचरौ |
अथ कस्मात्पाण्डवानामेकतो मन्यसे जयम् ||३६||
पितामहं च द्रोणं च कृपं कर्णं च दुर्जयम् |
जयद्रथं सोमदत्तमश्वत्थामानमेव च ||३७||
सुचेतसो महेष्वासानिन्द्रोऽपि सहितोऽमरैः |
अशक्तः समरे जेतुं किं पुनस्तात पाण्डवाः ||३८||
सर्वा च पृथिवी सृष्टा मदर्थे तात पाण्डवान् |
आर्यान्धृतिमतः शूरानग्निकल्पान्प्रबाधितुम् ||३९||
न मामकान्पाण्डवास्ते समर्थाः प्रतिवीक्षितुम् |
पराक्रान्तो ह्यहं पाण्डून्सपुत्रान्योद्धुमाहवे ||४०||
मत्प्रियं पार्थिवाः सर्वे ये चिकीर्षन्ति भारत |
ते तानावारयिष्यन्ति ऐणेयानिव तन्तुना ||४१||
महता रथवंशेन शरजालैश्च मामकैः |
अभिद्रुता भविष्यन्ति पाञ्चालाः पाण्डवैः सह ||४२||
धृतराष्ट्र उवाच||
उन्मत्त इव मे पुत्रो विलपत्येष सञ्जय |
न हि शक्तो युधा जेतुं धर्मराजं युधिष्ठिरम् ||४३||
जानाति हि सदा भीष्मः पाण्डवानां यशस्विनाम् |
बलवत्तां सपुत्राणां धर्मज्ञानां महात्मनाम् ||४४||
यतो नारोचयमहं विग्रहं तैर्महात्मभिः |
किं तु सञ्जय मे ब्रूहि पुनस्तेषां विचेष्टितम् ||४५||
कस्तांस्तरस्विनो भूयः संदीपयति पाण्डवान् |
अर्चिष्मतो महेष्वासान्हविषा पावकानिव ||४६||
सञ्जय उवाच||
धृष्टद्युम्नः सदैवैतान्संदीपयति भारत |
युध्यध्वमिति मा भैष्ट युद्धाद्भरतसत्तमाः ||४७||
ये केचित्पार्थिवास्तत्र धार्तराष्ट्रेण संवृताः |
युद्धे समागमिष्यन्ति तुमुले कवचह्रदे ||४८||
तान्सर्वानाहवे क्रुद्धान्सानुबन्धान्समागतान् |
अहमेकः समादास्ये तिमिर्मत्स्यानिवौदकान् ||४९||
भीष्मं द्रोणं कृपं कर्णं द्रौणिं शल्यं सुयोधनम् |
एतांश्चापि निरोत्स्यामि वेलेव मकरालयम् ||५०||
तथा ब्रुवाणं धर्मात्मा प्राह राजा युधिष्ठिरः |
तव धैर्यं च वीर्यं च पाञ्चालाः पाण्डवैः सह ||५१||
सर्वे समधिरूढाः स्म सङ्ग्रामान्नः समुद्धर ||५१||
जानामि त्वां महाबाहो क्षत्रधर्मे व्यवस्थितम् |
समर्थमेकं पर्याप्तं कौरवाणां युयुत्सताम् ||५२||
भवता यद्विधातव्यं तन्नः श्रेयः परन्तप ||५२||
सङ्ग्रामादपयातानां भग्नानां शरणैषिणाम् |
पौरुषं दर्शयञ्शूरो यस्तिष्ठेदग्रतः पुमान् ||५३||
क्रीणीयात्तं सहस्रेण नीतिमन्नाम तत्पदम् ||५३||
स त्वं शूरश्च वीरश्च विक्रान्तश्च नरर्षभ |
भयार्तानां परित्राता संयुगेषु न संशयः ||५४||
एवं ब्रुवति कौन्तेये धर्मात्मनि युधिष्ठिरे |
धृष्टद्युम्न उवाचेदं मां वचो गतसाध्वसः ||५५||
सर्वाञ्जनपदान्सूत योधा दुर्योधनस्य ये |
सबाह्लीकान्कुरून्ब्रूयाः प्रातिपेयाञ्शरद्वतः ||५६||
सूतपुत्रं तथा द्रोणं सहपुत्रं जयद्रथम् |
दुःशासनं विकर्णं च तथा दुर्योधनं नृपम् ||५७||
भीष्मं चैव ब्रूहि गत्वा त्वमाशु; युधिष्ठिरं साधुनैवाभ्युपेत |
मा वो वधीदर्जुनो देवगुप्तः; क्षिप्रं याचध्वं पाण्डवं लोकवीरम् ||५८||
नैतादृशो हि योधोऽस्ति पृथिव्यामिह कश्चन |
यथाविधः सव्यसाची पाण्डवः शस्त्रवित्तमः ||५९||
देवैर्हि सम्भृतो दिव्यो रथो गाण्डीवधन्वनः |
न स जेयो मनुष्येण मा स्म कृध्वं मनो युधि ||६०||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
057-अध्यायः
धृतराष्ट्र उवाच||
क्षत्रतेजा ब्रह्मचारी कौमारादपि पाण्डवः |
तेन संयुगमेष्यन्ति मन्दा विलपतो मम ||१||
दुर्योधन निवर्तस्व युद्धाद्भरतसत्तम |
न हि युद्धं प्रशंसन्ति सर्वावस्थमरिंदम ||२||
अलमर्धं पृथिव्यास्ते सहामात्यस्य जीवितुम् |
प्रयच्छ पाण्डुपुत्राणां यथोचितमरिंदम ||३||
एतद्धि कुरवः सर्वे मन्यन्ते धर्मसंहितम् |
यत्त्वं प्रशान्तिमिच्छेथाः पाण्डुपुत्रैर्महात्मभिः ||४||
अङ्गेमां समवेक्षस्व पुत्र स्वामेव वाहिनीम् |
जात एव तव स्रावस्त्वं तु मोहान्न बुध्यसे ||५||
न ह्यहं युद्धमिच्छामि नैतदिच्छति बाह्लिकः |
न च भीष्मो न च द्रोणो नाश्वत्थामा न सञ्जयः ||६||
न सोमदत्तो न शल्यो न कृपो युद्धमिच्छति |
सत्यव्रतः पुरुमित्रो जयो भूरिश्रवास्तथा ||७||
येषु सम्प्रतितिष्ठेयुः कुरवः पीडिताः परैः |
ते युद्धं नाभिनन्दन्ति तत्तुभ्यं तात रोचताम् ||८||
न त्वं करोषि कामेन कर्णः कारयिता तव |
दुःशासनश्च पापात्मा शकुनिश्चापि सौबलः ||९||
दुर्योधन उवाच||
नाहं भवति न द्रोणे नाश्वत्थाम्नि न सञ्जये |
न विकर्णे न काम्बोजे न कृपे न च बाह्लिके ||१०||
सत्यव्रते पुरुमित्रे भूरिश्रवसि वा पुनः |
अन्येषु वा तावकेषु भारं कृत्वा समाह्वये ||११||
अहं च तात कर्णश्च रणयज्ञं वितत्य वै |
युधिष्ठिरं पशुं कृत्वा दीक्षितौ भरतर्षभ ||१२||
रथो वेदी स्रुवः खड्गो गदा स्रुक्कवचं सदः |
चातुर्होत्रं च धुर्या मे शरा दर्भा हविर्यशः ||१३||
आत्मयज्ञेन नृपते इष्ट्वा वैवस्वतं रणे |
विजित्य स्वयमेष्यावो हतामित्रौ श्रिया वृतौ ||१४||
अहं च तात कर्णश्च भ्राता दुःशासनश्च मे |
एते वयं हनिष्यामः पाण्डवान्समरे त्रयः ||१५||
अहं हि पाण्डवान्हत्वा प्रशास्ता पृथिवीमिमाम् |
मां वा हत्वा पाण्डुपुत्रा भोक्तारः पृथिवीमिमाम् ||१६||
त्यक्तं मे जीवितं राजन्धनं राज्यं च पार्थिव |
न जातु पाण्डवैः सार्धं वसेयमहमच्युत ||१७||
यावद्धि सूच्यास्तीक्ष्णाया विध्येदग्रेण मारिष |
तावदप्यपरित्याज्यं भूमेर्नः पाण्डवान्प्रति ||१८||
धृतराष्ट्र उवाच||
सर्वान्वस्तात शोचामि त्यक्तो दुर्योधनो मया |
ये मन्दमनुयास्यध्वं यान्तं वैवस्वतक्षयम् ||१९||
रुरूणामिव यूथेषु व्याघ्राः प्रहरतां वराः |
वरान्वरान्हनिष्यन्ति समेता युधि पाण्डवाः ||२०||
प्रतीपमिव मे भाति युयुधानेन भारती |
व्यस्ता सीमन्तिनी त्रस्ता प्रमृष्टा दीर्घबाहुना ||२१||
सम्पूर्णं पूरयन्भूयो बलं पार्थस्य माधवः |
शैनेयः समरे स्थाता बीजवत्प्रवपञ्शरान् ||२२||
सेनामुखे प्रयुद्धानां भीमसेनो भविष्यति |
तं सर्वे संश्रयिष्यन्ति प्राकारमकुतोभयम् ||२३||
यदा द्रक्ष्यसि भीमेन कुञ्जरान्विनिपातितान् |
विशीर्णदन्तान्गिर्याभान्भिन्नकुम्भान्सशोणितान् ||२४||
तानभिप्रेक्ष्य सङ्ग्रामे विशीर्णानिव पर्वतान् |
भीतो भीमस्य संस्पर्शात्स्मर्तासि वचनस्य मे ||२५||
निर्दग्धं भीमसेनेन सैन्यं हतरथद्विपम् |
गतिमग्नेरिव प्रेक्ष्य स्मर्तासि वचनस्य मे ||२६||
महद्वो भयमागामि न चेच्छाम्यथ पाण्डवैः |
गदया भीमसेनेन हताः शममुपैष्यथ ||२७||
महावनमिव छिन्नं यदा द्रक्ष्यसि पातितम् |
बलं कुरूणां सङ्ग्रामे तदा स्मर्तासि मे वचः ||२८||
वैशम्पायन उवाच||
एतावदुक्त्वा राजा तु स सर्वान्पृथिवीपतीन् |
अनुभाष्य महाराज पुनः पप्रच्छ सञ्जयम् ||२९||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
058-अध्यायः
धृतराष्ट्र उवाच||
यदब्रूतां महात्मानौ वासुदेवधनञ्जयौ |
तन्मे ब्रूहि महाप्राज्ञ शुश्रूषे वचनं तव ||१||
सञ्जय उवाच||
शृणु राजन्यथा दृष्टौ मया कृष्णधनञ्जयौ |
ऊचतुश्चापि यद्वीरौ तत्ते वक्ष्यामि भारत ||२||
पादाङ्गुलीरभिप्रेक्षन्प्रयतोऽहं कृताञ्जलिः |
शुद्धान्तं प्राविशं राजन्नाख्यातुं नरदेवयोः ||३||
नैवाभिमन्युर्न यमौ तं देशमभियान्ति वै |
यत्र कृष्णौ च कृष्णा च सत्यभामा च भामिनी ||४||
उभौ मध्वासवक्षीबावुभौ चन्दनरूषितौ |
स्रग्विणौ वरवस्त्रौ तौ दिव्याभरणभूषितौ ||५||
नैकरत्नविचित्रं तु काञ्चनं महदासनम् |
विविधास्तरणास्तीर्णं यत्रासातामरिंदमौ ||६||
अर्जुनोत्सङ्गगौ पादौ केशवस्योपलक्षये |
अर्जुनस्य च कृष्णायां सत्यायां च महात्मनः ||७||
काञ्चनं पादपीठं तु पार्थो मे प्रादिशत्तदा |
तदहं पाणिना स्पृष्ट्वा ततो भूमावुपाविशम् ||८||
ऊर्ध्वरेखतलौ पादौ पार्थस्य शुभलक्षणौ |
पादपीठादपहृतौ तत्रापश्यमहं शुभौ ||९||
श्यामौ बृहन्तौ तरुणौ शालस्कन्धाविवोद्गतौ |
एकासनगतौ दृष्ट्वा भयं मां महदाविशत् ||१०||
इन्द्रविष्णुसमावेतौ मन्दात्मा नावबुध्यते |
संश्रयाद्द्रोणभीष्माभ्यां कर्णस्य च विकत्थनात् ||११||
निदेशस्थाविमौ यस्य मानसस्तस्य सेत्स्यते |
सङ्कल्पो धर्मराजस्य निश्चयो मे तदाभवत् ||१२||
सत्कृतश्चान्नपानाभ्यामाच्छन्नो लब्धसत्क्रियः |
अञ्जलिं मूर्ध्नि सन्धाय तौ संदेशमचोदयम् ||१३||
धनुर्बाणोचितेनैकपाणिना शुभलक्षणम् |
पादमानमयन्पार्थः केशवं समचोदयत् ||१४||
इन्द्रकेतुरिवोत्थाय सर्वाभरणभूषितः |
इन्द्रवीर्योपमः कृष्णः संविष्टो माभ्यभाषत ||१५||
वाचं स वदतां श्रेष्ठो ह्लादिनीं वचनक्षमाम् |
त्रासनीं धार्तराष्ट्राणां मृदुपूर्वां सुदारुणाम् ||१६||
वाचं तां वचनार्हस्य शिक्षाक्षरसमन्विताम् |
अश्रौषमहमिष्टार्थां पश्चाद्धृदयशोषिणीम् ||१७||
वासुदेव उवाच||
सञ्जयेदं वचो ब्रूया धृतराष्ट्रं मनीषिणम् |
शृण्वतः कुरुमुख्यस्य द्रोणस्यापि च शृण्वतः ||१८||
यजध्वं विपुलैर्यज्ञैर्विप्रेभ्यो दत्त दक्षिणाः |
पुत्रैर्दारैश्च मोदध्वं महद्वो भयमागतम् ||१९||
अर्थांस्त्यजत पात्रेभ्यः सुतान्प्राप्नुत कामजान् |
प्रियं प्रियेभ्यश्चरत राजा हि त्वरते जये ||२०||
ऋणमेतत्प्रवृद्धं मे हृदयान्नापसर्पति |
यद्गोविन्देति चुक्रोश कृष्णा मां दूरवासिनम् ||२१||
तेजोमयं दुराधर्षं गाण्डीवं यस्य कार्मुकम् |
मद्द्वितीयेन तेनेह वैरं वः सव्यसाचिना ||२२||
मद्द्वितीयं पुनः पार्थं कः प्रार्थयितुमिच्छति |
यो न कालपरीतो वाप्यपि साक्षात्पुरंदरः ||२३||
बाहुभ्यामुद्वहेद्भूमिं दहेत्क्रुद्ध इमाः प्रजाः |
पातयेत्त्रिदिवाद्देवान्योऽर्जुनं समरे जयेत् ||२४||
देवासुरमनुष्येषु यक्षगन्धर्वभोगिषु |
न तं पश्याम्यहं युद्धे पाण्डवं योऽभ्ययाद्रणे ||२५||
यत्तद्विराटनगरे श्रूयते महदद्भुतम् |
एकस्य च बहूनां च पर्याप्तं तन्निदर्शनम् ||२६||
एकेन पाण्डुपुत्रेण विराटनगरे यदा |
भग्नाः पलायन्त दिशः पर्याप्तं तन्निदर्शनम् ||२७||
बलं वीर्यं च तेजश्च शीघ्रता लघुहस्तता |
अविषादश्च धैर्यं च पार्थान्नान्यत्र विद्यते ||२८||
सञ्जय उवाच||
इत्यब्रवीद्धृषीकेशः पार्थमुद्धर्षयन्गिरा |
गर्जन्समयवर्षीव गगने पाकशासनः ||२९||
केशवस्य वचः श्रुत्वा किरीटी श्वेतवाहनः |
अर्जुनस्तन्महद्वाक्यमब्रवील्लोमहर्षणम् ||३०||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
059-अध्यायः
वैशम्पायन उवाच||
सञ्जयस्य वचः श्रुत्वा प्रज्ञाचक्षुर्नरेश्वरः |
ततः सङ्ख्यातुमारेभे तद्वचो गुणदोषतः ||१||
प्रसङ्ख्याय च सौक्ष्म्येण गुणदोषान्विचक्षणः |
यथावन्मतितत्त्वेन जयकामः सुतान्प्रति ||२||
बलाबले विनिश्चित्य याथातथ्येन बुद्धिमान् |
शक्तिं सङ्ख्यातुमारेभे तदा वै मनुजाधिपः ||३||
देवमानुषयोः शक्त्या तेजसा चैव पाण्डवान् |
कुरूञ्शक्त्याल्पतरया दुर्योधनमथाब्रवीत् ||४||
दुर्योधनेयं चिन्ता मे शश्वन्नाप्युपशाम्यति |
सत्यं ह्येतदहं मन्ये प्रत्यक्षं नानुमानतः ||५||
आत्मजेषु परं स्नेहं सर्वभूतानि कुर्वते |
प्रियाणि चैषां कुर्वन्ति यथाशक्ति हितानि च ||६||
एवमेवोपकर्तॄणां प्रायशो लक्षयामहे |
इच्छन्ति बहुलं सन्तः प्रतिकर्तुं महत्प्रियम् ||७||
अग्निः साचिव्यकर्ता स्यात्खाण्डवे तत्कृतं स्मरन् |
अर्जुनस्यातिभीमेऽस्मिन्कुरुपाण्डुसमागमे ||८||
जातगृध्याभिपन्नाश्च पाण्डवानामनेकशः |
धर्मादयो भविष्यन्ति समाहूता दिवौकसः ||९||
भीष्मद्रोणकृपादीनां भयादशनिसंमितम् |
रिरक्षिषन्तः संरम्भं गमिष्यन्तीति मे मतिः ||१०||
ते देवसहिताः पार्था न शक्याः प्रतिवीक्षितुम् |
मानुषेण नरव्याघ्रा वीर्यवन्तोऽस्त्रपारगाः ||११||
दुरासदं यस्य दिव्यं गाण्डीवं धनुरुत्तमम् |
वारुणौ चाक्षयौ दिव्यौ शरपूर्णौ महेषुधी ||१२||
वानरश्च ध्वजो दिव्यो निःसङ्गो धूमवद्गतिः |
रथश्च चतुरन्तायां यस्य नास्ति समस्त्विषा ||१३||
महामेघनिभश्चापि निर्घोषः श्रूयते जनैः |
महाशनिसमः शब्दः शात्रवाणां भयङ्करः ||१४||
यं चातिमानुषं वीर्ये कृत्स्नो लोको व्यवस्यति |
देवानामपि जेतारं यं विदुः पार्थिवा रणे ||१५||
शतानि पञ्च चैवेषूनुद्वपन्निव दृश्यते |
निमेषान्तरमात्रेण मुञ्चन्दूरं च पातयन् ||१६||
यमाह भीष्मो द्रोणश्च कृपो द्रौणिस्तथैव च |
मद्रराजस्तथा शल्यो मध्यस्था ये च मानवाः ||१७||
युद्धायावस्थितं पार्थं पार्थिवैरतिमानुषैः |
अशक्यं रथशार्दूलं पराजेतुमरिंदमम् ||१८||
क्षिपत्येकेन वेगेन पञ्च बाणशतानि यः |
सदृशं बाहुवीर्येण कार्तवीर्यस्य पाण्डवम् ||१९||
तमर्जुनं महेष्वासं महेन्द्रोपेन्द्ररक्षितम् |
निघ्नन्तमिव पश्यामि विमर्देऽस्मिन्महामृधे ||२०||
इत्येवं चिन्तयन्कृत्स्नमहोरात्राणि भारत |
अनिद्रो निःसुखश्चास्मि कुरूणां शमचिन्तया ||२१||
क्षयोदयोऽयं सुमहान्कुरूणां प्रत्युपस्थितः |
अस्य चेत्कलहस्यान्तः शमादन्यो न विद्यते ||२२||
शमो मे रोचते नित्यं पार्थैस्तात न विग्रहः |
कुरुभ्यो हि सदा मन्ये पाण्डवाञ्शक्तिमत्तरान् ||२३||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
060-अध्यायः
वैशम्पायन उवाच||
पितुरेतद्वचः श्रुत्वा धार्तराष्ट्रोऽत्यमर्षणः |
आधाय विपुलं क्रोधं पुनरेवेदमब्रवीत् ||१||
अशक्या देवसचिवाः पार्थाः स्युरिति यद्भवान् |
मन्यते तद्भयं व्येतु भवतो राजसत्तम ||२||
अकामद्वेषसंयोगाद्द्रोहाल्लोभाच्च भारत |
उपेक्षया च भावानां देवा देवत्वमाप्नुवन् ||३||
इति द्वैपायनो व्यासो नारदश्च महातपाः |
जामदग्न्यश्च रामो नः कथामकथयत्पुरा ||४||
नैव मानुषवद्देवाः प्रवर्तन्ते कदाचन |
कामाल्लोभादनुक्रोशाद्द्वेषाच्च भरतर्षभ ||५||
यदि ह्यग्निश्च वायुश्च धर्म इन्द्रोऽश्विनावपि |
कामयोगात्प्रवर्तेरन्न पार्था दुःखमाप्नुयुः ||६||
तस्मान्न भवता चिन्ता कार्यैषा स्यात्कदाचन |
दैवेष्वपेक्षका ह्येते शश्वद्भावेषु भारत ||७||
अथ चेत्कामसंयोगाद्द्वेषाल्लोभाच्च लक्ष्यते |
देवेषु देवप्रामाण्यं नैव तद्विक्रमिष्यति ||८||
मयाभिमन्त्रितः शश्वज्जातवेदाः प्रशंसति |
दिधक्षुः सकलाँल्लोकान्परिक्षिप्य समन्ततः ||९||
यद्वा परमकं तेजो येन युक्ता दिवौकसः |
ममाप्यनुपमं भूयो देवेभ्यो विद्धि भारत ||१०||
प्रदीर्यमाणां वसुधां गिरीणां शिखराणि च |
लोकस्य पश्यतो राजन्स्थापयाम्यभिमन्त्रणात् ||११||
चेतनाचेतनस्यास्य जङ्गमस्थावरस्य च |
विनाशाय समुत्पन्नं महाघोरं महास्वनम् ||१२||
अश्मवर्षं च वायुं च शमयामीह नित्यशः |
जगतः पश्यतोऽभीक्ष्णं भूतानामनुकम्पया ||१३||
स्तम्भितास्वप्सु गच्छन्ति मया रथपदातयः |
देवासुराणां भावानामहमेकः प्रवर्तिता ||१४||
अक्षौहिणीभिर्यान्देशान्यामि कार्येण केनचित् |
तत्रापो मे प्रवर्तन्ते यत्र यत्राभिकामये ||१५||
भयानि विषये राजन्व्यालादीनि न सन्ति मे |
मत्तः सुप्तानि भूतानि न हिंसन्ति भयङ्कराः ||१६||
निकामवर्षी पर्जन्यो राजन्विषयवासिनाम् |
धर्मिष्ठाश्च प्रजाः सर्वा ईतयश्च न सन्ति मे ||१७||
अश्विनावथ वाय्वग्नी मरुद्भिः सह वृत्रहा |
धर्मश्चैव मया द्विष्टान्नोत्सहन्तेऽभिरक्षितुम् ||१८||
यदि ह्येते समर्थाः स्युर्मद्द्विषस्त्रातुमोजसा |
न स्म त्रयोदश समाः पार्था दुःखमवाप्नुयुः ||१९||
नैव देवा न गन्धर्वा नासुरा न च राक्षसाः |
शक्तास्त्रातुं मया द्विष्टं सत्यमेतद्ब्रवीमि ते ||२०||
यदभिध्याम्यहं शश्वच्छुभं वा यदि वाशुभम् |
नैतद्विपन्नपूर्वं मे मित्रेष्वरिषु चोभयोः ||२१||
भविष्यतीदमिति वा यद्ब्रवीमि परन्तप |
नान्यथा भूतपूर्वं तत्सत्यवागिति मां विदुः ||२२||
लोकसाक्षिकमेतन्मे माहात्म्यं दिक्षु विश्रुतम् |
आश्वासनार्थं भवतः प्रोक्तं न श्लाघया नृप ||२३||
न ह्यहं श्लाघनो राजन्भूतपूर्वः कदाचन |
असदाचरितं ह्येतद्यदात्मानं प्रशंसति ||२४||
पाण्डवांश्चैव मत्स्यांश्च पाञ्चालान्केकयैः सह |
सात्यकिं वासुदेवं च श्रोतासि विजितान्मया ||२५||
सरितः सागरं प्राप्य यथा नश्यन्ति सर्वशः |
तथैव ते विनङ्क्ष्यन्ति मामासाद्य सहान्वयाः ||२६||
परा बुद्धिः परं तेजो वीर्यं च परमं मयि |
परा विद्या परो योगो मम तेभ्यो विशिष्यते ||२७||
पितामहश्च द्रोणश्च कृपः शल्यः शलस्तथा |
अस्त्रेषु यत्प्रजानन्ति सर्वं तन्मयि विद्यते ||२८||
इत्युक्त्वा सञ्जयं भूयः पर्यपृच्छत भारत |
ज्ञात्वा युयुत्सुः कार्याणि प्राप्तकालमरिंदम ||२९||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
061-अध्यायः
वैशम्पायन उवाच||
तथा तु पृच्छन्तमतीव पार्था; न्वैचित्रवीर्यं तमचिन्तयित्वा |
उवाच कर्णो धृतराष्ट्रपुत्रं; प्रहर्षयन्संसदि कौरवाणाम् ||१||
मिथ्या प्रतिज्ञाय मया यदस्त्रं; रामाद्धृतं ब्रह्मपुरं पुरस्तात् |
विज्ञाय तेनास्मि तदैवमुक्त; स्तवान्तकालेऽप्रतिभास्यतीति ||२||
महापराधे ह्यपि संनतेन; महर्षिणाहं गुरुणा च शप्तः |
शक्तः प्रदग्धुं ह्यपि तिग्मतेजाः; ससागरामप्यवनिं महर्षिः ||३||
प्रसादितं ह्यस्य मया मनोऽभू; च्छुश्रूषया स्वेन च पौरुषेण |
ततस्तदस्त्रं मम सावशेषं; तस्मात्समर्थोऽस्मि ममैष भारः ||४||
निमेषमात्रं तमृषिप्रसाद; मवाप्य पाञ्चालकरूषमत्स्यान् |
निहत्य पार्थांश्च सपुत्रपौत्राँ; ल्लोकानहं शस्त्रजितान्प्रपत्स्ये ||५||
पितामहस्तिष्ठतु ते समीपे; द्रोणश्च सर्वे च नरेन्द्रमुख्याः |
यथाप्रधानेन बलेन यात्वा; पार्थान्हनिष्यामि ममैष भारः ||६||
एवं ब्रुवाणं तमुवाच भीष्मः; किं कत्थसे कालपरीतबुद्धे |
न कर्ण जानासि यथा प्रधाने; हते हताः स्युर्धृतराष्ट्रपुत्राः ||७||
यत्खाण्डवं दाहयता कृतं हि; कृष्णद्वितीयेन धनञ्जयेन |
श्रुत्वैव तत्कर्म नियन्तुमात्मा; शक्यस्त्वया वै सह बान्धवेन ||८||
यां चापि शक्तिं त्रिदशाधिपस्ते; ददौ महात्मा भगवान्महेन्द्रः |
भस्मीकृतां तां पतितां विशीर्णां; चक्राहतां द्रक्ष्यसि केशवेन ||९||
यस्ते शरः सर्पमुखो विभाति; सदाग्र्यमाल्यैर्महितः प्रयत्नात् |
स पाण्डुपुत्राभिहतः शरौघैः; सह त्वया यास्यति कर्ण नाशम् ||१०||
बाणस्य भौमस्य च कर्ण हन्ता; किरीटिनं रक्षति वासुदेवः |
यस्त्वादृशानां च गरीयसां च; हन्ता रिपूणां तुमुले प्रगाढे ||११||
कर्ण उवाच||
असंशयं वृष्णिपतिर्यथोक्त; स्तथा च भूयश्च ततो महात्मा |
अहं यदुक्तः परुषं तु किं चि; त्पितामहस्तस्य फलं शृणोतु ||१२||
न्यस्यामि शस्त्राणि न जातु सङ्ख्ये; पितामहो द्रक्ष्यति मां सभायाम् |
त्वयि प्रशान्ते तु मम प्रभावं; द्रक्ष्यन्ति सर्वे भुवि भूमिपालाः ||१३||
वैशम्पायन उवाच||
इत्येवमुक्त्वा स महाधनुष्मा; न्हित्वा सभां स्वं भवनं जगाम |
भीष्मस्तु दुर्योधनमेव राज; न्मध्ये कुरूणां प्रहसन्नुवाच ||१४||
सत्यप्रतिज्ञः किल सूतपुत्र; स्तथा स भारं विषहेत कस्मात् |
व्यूहं प्रतिव्यूह्य शिरांसि भित्त्वा; लोकक्षयं पश्यत भीमसेनात् ||१५||
आवन्त्यकालिङ्गजयद्रथेषु; वेदिध्वजे तिष्ठति बाह्लिके च |
अहं हनिष्यामि सदा परेषां; सहस्रशश्चायुतशश्च योधान् ||१६||
यदैव रामे भगवत्यनिन्द्ये; ब्रह्म ब्रुवाणः कृतवांस्तदस्त्रम् |
तदैव धर्मश्च तपश्च नष्टं; वैकर्तनस्याधमपूरुषस्य ||१७||
अथोक्तवाक्ये नृपतौ तु भीष्मे; निक्षिप्य शस्त्राणि गते च कर्णे |
वैचित्रवीर्यस्य सुतोऽल्पबुद्धि; र्दुर्योधनः शान्तनवं बभाषे ||१८||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
062-अध्यायः
दुर्योधन उवाच||
सदृशानां मनुष्येषु सर्वेषां तुल्यजन्मनाम् |
कथमेकान्ततस्तेषां पार्थानां मन्यसे जयम् ||१||
सर्वे स्म समजातीयाः सर्वे मानुषयोनयः |
पितामह विजानीषे पार्थेषु विजयं कथम् ||२||
नाहं भवति न द्रोणे न कृपे न च बाह्लिके |
अन्येषु च नरेन्द्रेषु पराक्रम्य समारभे ||३||
अहं वैकर्तनः कर्णो भ्राता दुःशासनश्च मे |
पाण्डवान्समरे पञ्च हनिष्यामः शितैः शरैः ||४||
ततो राजन्महायज्ञैर्विविधैर्भूरिदक्षिणैः |
ब्राह्मणांस्तर्पयिष्यामि गोभिरश्वैर्धनेन च ||५||
विदुर उवाच||
शकुनीनामिहार्थाय पाशं भूमावयोजयत् |
कश्चिच्छाकुनिकस्तात पूर्वेषामिति शुश्रुम ||६||
तस्मिन्द्वौ शकुनौ बद्धौ युगपत्समपौरुषौ |
तावुपादाय तं पाशं जग्मतुः खचरावुभौ ||७||
तौ विहायसमाक्रान्तौ दृष्ट्वा शाकुनिकस्तदा |
अन्वधावदनिर्विण्णो येन येन स्म गच्छतः ||८||
तथा तमनुधावन्तं मृगयुं शकुनार्थिनम् |
आश्रमस्थो मुनिः कश्चिद्ददर्शाथ कृताह्निकः ||९||
तावन्तरिक्षगौ शीघ्रमनुयान्तं महीचरम् |
श्लोकेनानेन कौरव्य पप्रच्छ स मुनिस्तदा ||१०||
विचित्रमिदमाश्चर्यं मृगहन्प्रतिभाति मे |
प्लवमानौ हि खचरौ पदातिरनुधावसि ||११||
शाकुनिक उवाच||
पाशमेकमुभावेतौ सहितौ हरतो मम |
यत्र वै विवदिष्येते तत्र मे वशमेष्यतः ||१२||
विदुर उवाच||
तौ विवादमनुप्राप्तौ शकुनौ मृत्युसन्धितौ |
विगृह्य च सुदुर्बुद्धी पृथिव्यां संनिपेततुः ||१३||
तौ युध्यमानौ संरब्धौ मृत्युपाशवशानुगौ |
उपसृत्यापरिज्ञातो जग्राह मृगयुस्तदा ||१४||
एवं ये ज्ञातयोऽर्थेषु मिथो गच्छन्ति विग्रहम् |
तेऽमित्रवशमायान्ति शकुनाविव विग्रहात् ||१५||
सम्भोजनं सङ्कथनं सम्प्रश्नोऽथ समागमः |
एतानि ज्ञातिकार्याणि न विरोधः कदाचन ||१६||
यस्मिन्काले सुमनसः सर्वे वृद्धानुपासते |
सिंहगुप्तमिवारण्यमप्रधृष्या भवन्ति ते ||१७||
येऽर्थं सन्ततमासाद्य दीना इव समासते |
श्रियं ते सम्प्रयच्छन्ति द्विषद्भ्यो भरतर्षभ ||१८||
धूमायन्ते व्यपेतानि ज्वलन्ति सहितानि च |
धृतराष्ट्रोल्मुकानीव ज्ञातयो भरतर्षभ ||१९||
इदमन्यत्प्रवक्ष्यामि यथा दृष्टं गिरौ मया |
श्रुत्वा तदपि कौरव्य यथा श्रेयस्तथा कुरु ||२०||
वयं किरातैः सहिता गच्छामो गिरिमुत्तरम् |
ब्राह्मणैर्देवकल्पैश्च विद्याजम्भकवातिकैः ||२१||
कुञ्जभूतं गिरिं सर्वमभितो गन्धमादनम् |
दीप्यमानौषधिगणं सिद्धगन्धर्वसेवितम् ||२२||
तत्र पश्यामहे सर्वे मधु पीतममाक्षिकम् |
मरुप्रपाते विषमे निविष्टं कुम्भसंमितम् ||२३||
आशीविषै रक्ष्यमाणं कुबेरदयितं भृशम् |
यत्प्राश्य पुरुषो मर्त्यो अमरत्वं निगच्छति ||२४||
अचक्षुर्लभते चक्षुर्वृद्धो भवति वै युवा |
इति ते कथयन्ति स्म ब्राह्मणा जम्भसाधकाः ||२५||
ततः किरातास्तद्दृष्ट्वा प्रार्थयन्तो महीपते |
विनेशुर्विषमे तस्मिन्ससर्पे गिरिगह्वरे ||२६||
तथैव तव पुत्रोऽयं पृथिवीमेक इच्छति |
मधु पश्यति संमोहात्प्रपातं नानुपश्यति ||२७||
दुर्योधनो योद्धुमनाः समरे सव्यसाचिना |
न च पश्यामि तेजोऽस्य विक्रमं वा तथाविधम् ||२८||
एकेन रथमास्थाय पृथिवी येन निर्जिता |
प्रतीक्षमाणो यो वीरः क्षमते वीक्षितं तव ||२९||
द्रुपदो मत्स्यराजश्च सङ्क्रुद्धश्च धनञ्जयः |
न शेषयेयुः समरे वायुयुक्ता इवाग्नयः ||३०||
अङ्के कुरुष्व राजानं धृतराष्ट्र युधिष्ठिरम् |
युध्यतोर्हि द्वयोर्युद्धे नैकान्तेन भवेज्जयः ||३१||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
063-अध्यायः
धृतराष्ट्र उवाच||
दुर्योधन विजानीहि यत्त्वां वक्ष्यामि पुत्रक |
उत्पथं मन्यसे मार्गमनभिज्ञ इवाध्वगः ||१||
पञ्चानां पाण्डुपुत्राणां यत्तेजः प्रमिमीषसि |
पञ्चानामिव भूतानां महतां सुमहात्मनाम् ||२||
युधिष्ठिरं हि कौन्तेयं परं धर्ममिहास्थितम् |
परां गतिमसम्प्रेक्ष्य न त्वं वेत्तुमिहार्हसि ||३||
भीमसेनं च कौन्तेयं यस्य नास्ति समो बले |
रणान्तकं तर्कयसे महावातमिव द्रुमः ||४||
सर्वशस्त्रभृतां श्रेष्ठं मेरुं शिखरिणामिव |
युधि गाण्डीवधन्वानं को नु युध्येत बुद्धिमान् ||५||
धृष्टद्युम्नश्च पाञ्चाल्यः कमिवाद्य न शातयेत् |
शत्रुमध्ये शरान्मुञ्चन्देवराडशनीमिव ||६||
सात्यकिश्चापि दुर्धर्षः संमतोऽन्धकवृष्णिषु |
ध्वंसयिष्यति ते सेनां पाण्डवेयहिते रतः ||७||
यः पुनः प्रतिमानेन त्रीँल्लोकानतिरिच्यते |
तं कृष्णं पुण्डरीकाक्षं को नु युध्येत बुद्धिमान् ||८||
एकतो ह्यस्य दाराश्च ज्ञातयश्च सबान्धवाः |
आत्मा च पृथिवी चेयमेकतश्च धनञ्जयः ||९||
वासुदेवोऽपि दुर्धर्षो यतात्मा यत्र पाण्डवः |
अविषह्यं पृथिव्यापि तद्बलं यत्र केशवः ||१०||
तिष्ठ तात सतां वाक्ये सुहृदामर्थवादिनाम् |
वृद्धं शान्तनवं भीष्मं तितिक्षस्व पितामहम् ||११||
मां च ब्रुवाणं शुश्रूष कुरूणामर्थवादिनम् |
द्रोणं कृपं विकर्णं च महाराजं च बाह्लिकम् ||१२||
एते ह्यपि यथैवाहं मन्तुमर्हसि तांस्तथा |
सर्वे धर्मविदो ह्येते तुल्यस्नेहाश्च भारत ||१३||
यत्तद्विराटनगरे सह भ्रातृभिरग्रतः |
उत्सृज्य गाः सुसन्त्रस्तं बलं ते समशीर्यत ||१४||
यच्चैव तस्मिन्नगरे श्रूयते महदद्भुतम् |
एकस्य च बहूनां च पर्याप्तं तन्निदर्शनम् ||१५||
अर्जुनस्तत्तथाकार्षीत्किं पुनः सर्व एव ते |
सभ्रातॄनभिजानीहि वृत्त्या च प्रतिपादय ||१६||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
064-अध्यायः
वैशम्पायन उवाच||
एवमुक्त्वा महाप्राज्ञो धृतराष्ट्रः सुयोधनम् |
पुनरेव महाभागः सञ्जयं पर्यपृच्छत ||१||
ब्रूहि सञ्जय यच्छेषं वासुदेवादनन्तरम् |
यदर्जुन उवाच त्वां परं कौतूहलं हि मे ||२||
सञ्जय उवाच||
वासुदेववचः श्रुत्वा कुन्तीपुत्रो धनञ्जयः |
उवाच काले दुर्धर्षो वासुदेवस्य शृण्वतः ||३||
पितामहं शान्तनवं धृतराष्ट्रं च सञ्जय |
द्रोणं कृपं च कर्णं च महाराजं च बाह्लिकम् ||४||
द्रौणिं च सोमदत्तं च शकुनिं चापि सौबलम् |
दुःशासनं शलं चैव पुरुमित्रं विविंशतिम् ||५||
विकर्णं चित्रसेनं च जयत्सेनं च पार्थिवम् |
विन्दानुविन्दावावन्त्यौ दुर्मुखं चापि कौरवम् ||६||
सैन्धवं दुःसहं चैव भूरिश्रवसमेव च |
भगदत्तं च राजानं जलसन्धं च पार्थिवम् ||७||
ये चाप्यन्ये पार्थिवास्तत्र योद्धुं; समागताः कौरवाणां प्रियार्थम् |
मुमूर्षवः पाण्डवाग्नौ प्रदीप्ते; समानीता धार्तराष्ट्रेण सूत ||८||
यथान्यायं कौशलं वन्दनं च; समागता मद्वचनेन वाच्याः |
इदं ब्रूयाः सञ्जय राजमध्ये; सुयोधनं पापकृतां प्रधानम् ||९||
अमर्षणं दुर्मतिं राजपुत्रं; पापात्मानं धार्तराष्ट्रं सुलुब्धम् |
सर्वं ममैतद्वचनं समग्रं; सहामात्यं सञ्जय श्रावयेथाः ||१०||
एवं प्रतिष्ठाप्य धनञ्जयो मां; ततोऽर्थवद्धर्मवच्चापि वाक्यम् |
प्रोवाचेदं वासुदेवं समीक्ष्य; पार्थो धीमाँल्लोहितान्तायताक्षः ||११||
यथा श्रुतं ते वदतो महात्मनो; मधुप्रवीरस्य वचः समाहितम् |
तथैव वाच्यं भवता हि मद्वचः; समागतेषु क्षितिपेषु सर्वशः ||१२||
शराग्निधूमे रथनेमिनादिते; धनुःस्रुवेणास्त्रबलापहारिणा |
यथा न होमः क्रियते महामृधे; तथा समेत्य प्रयतध्वमादृताः ||१३||
न चेत्प्रयच्छध्वममित्रघातिनो; युधिष्ठिरस्यांशमभीप्सितं स्वकम् |
नयामि वः स्वाश्वपदातिकुञ्जरा; न्दिशं पितॄणामशिवां शितैः शरैः ||१४||
ततोऽहमामन्त्र्य चतुर्भुजं हरिं; धनञ्जयं चैव नमस्य सत्वरः |
जवेन सम्प्राप्त इहामरद्युते; तवान्तिकं प्रापयितुं वचो महत् ||१५||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
065-अध्यायः
वैशम्पायन उवाच||
दुर्योधने धार्तराष्ट्रे तद्वचोऽप्रतिनन्दति |
तूष्णीम्भूतेषु सर्वेषु समुत्तस्थुर्नरेश्वराः ||१||
उत्थितेषु महाराज पृथिव्यां सर्वराजसु |
रहिते सञ्जयं राजा परिप्रष्टुं प्रचक्रमे ||२||
आशंसमानो विजयं तेषां पुत्रवशानुगः |
आत्मनश्च परेषां च पाण्डवानां च निश्चयम् ||३||
धृतराष्ट्र उवाच||
गावल्गणे ब्रूहि नः सारफल्गु; स्वसेनायां यावदिहास्ति किञ्चित् |
त्वं पाण्डवानां निपुणं वेत्थ सर्वं; किमेषां ज्यायः किमु तेषां कनीयः ||४||
त्वमेतयोः सारवित्सर्वदर्शी; धर्मार्थयोर्निपुणो निश्चयज्ञः |
स मे पृष्टः सञ्जय ब्रूहि सर्वं; युध्यमानाः कतरेऽस्मिन्न सन्ति ||५||
सञ्जय उवाच||
न त्वां ब्रूयां रहिते जातु किं चि; दसूया हि त्वां प्रसहेत राजन् |
आनयस्व पितरं संशितव्रतं; गान्धारीं च महिषीमाजमीढ ||६||
तौ तेऽसूयां विनयेतां नरेन्द्र; धर्मज्ञौ तौ निपुणौ निश्चयज्ञौ |
तयोस्तु त्वां संनिधौ तद्वदेयं; कृत्स्नं मतं वासुदेवार्जुनाभ्याम् ||७||
वैशम्पायन उवाच||
ततस्तन्मतमाज्ञाय सञ्जयस्यात्मजस्य च |
अभ्युपेत्य महाप्राज्ञः कृष्णद्वैपायनोऽब्रवीत् ||८||
सम्पृच्छते धृतराष्ट्राय सञ्जय; आचक्ष्व सर्वं यावदेषोऽनुयुङ्क्ते |
सर्वं यावद्वेत्थ तस्मिन्यथाव; द्याथातथ्यं वासुदेवेऽर्जुने च ||९||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
066-अध्यायः
सञ्जय उवाच||
अर्जुनो वासुदेवश्च धन्विनौ परमार्चितौ |
कामादन्यत्र सम्भूतौ सर्वाभावाय संमितौ ||१||
द्यामन्तरं समास्थाय यथायुक्तं मनस्विनः |
चक्रं तद्वासुदेवस्य मायया वर्तते विभो ||२||
सापह्नवं पाण्डवेषु पाण्डवानां सुसंमतम् |
सारासारबलं ज्ञात्वा तत्समासेन मे शृणु ||३||
नरकं शम्बरं चैव कंसं चैद्यं च माधवः |
जितवान्घोरसङ्काशान्क्रीडन्निव जनार्दनः ||४||
पृथिवीं चान्तरिक्षं च द्यां चैव पुरुषोत्तमः |
मनसैव विशिष्टात्मा नयत्यात्मवशं वशी ||५||
भूयो भूयो हि यद्राजन्पृच्छसे पाण्डवान्प्रति |
सारासारबलं ज्ञातुं तन्मे निगदतः शृणु ||६||
एकतो वा जगत्कृत्स्नमेकतो वा जनार्दनः |
सारतो जगतः कृत्स्नादतिरिक्तो जनार्दनः ||७||
भस्म कुर्याज्जगदिदं मनसैव जनार्दनः |
न तु कृत्स्नं जगच्छक्तं भस्म कर्तुं जनार्दनम् ||८||
यतः सत्यं यतो धर्मो यतो ह्रीरार्जवं यतः |
ततो भवति गोविन्दो यतः कृष्णस्ततो जयः ||९||
पृथिवीं चान्तरिक्षं च दिवं च पुरुषोत्तमः |
विचेष्टयति भूतात्मा क्रीडन्निव जनार्दनः ||१०||
स कृत्वा पाण्डवान्सत्रं लोकं संमोहयन्निव |
अधर्मनिरतान्मूढान्दग्धुमिच्छति ते सुतान् ||११||
कालचक्रं जगच्चक्रं युगचक्रं च केशवः |
आत्मयोगेन भगवान्परिवर्तयतेऽनिशम् ||१२||
कालस्य च हि मृत्योश्च जङ्गमस्थावरस्य च |
ईशते भगवानेकः सत्यमेतद्ब्रवीमि ते ||१३||
ईशन्नपि महायोगी सर्वस्य जगतो हरिः |
कर्माण्यारभते कर्तुं कीनाश इव दुर्बलः ||१४||
तेन वञ्चयते लोकान्मायायोगेन केशवः |
ये तमेव प्रपद्यन्ते न ते मुह्यन्ति मानवाः ||१५||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
067-अध्यायः
धृतराष्ट्र उवाच||
कथं त्वं माधवं वेत्थ सर्वलोकमहेश्वरम् |
कथमेनं न वेदाहं तन्ममाचक्ष्व सञ्जय ||१||
सञ्जय उवाच||
विद्या राजन्न ते विद्या मम विद्या न हीयते |
विद्याहीनस्तमोध्वस्तो नाभिजानाति केशवम् ||२||
विद्यया तात जानामि त्रियुगं मधुसूदनम् |
कर्तारमकृतं देवं भूतानां प्रभवाप्ययम् ||३||
धृतराष्ट्र उवाच||
गावल्गणेऽत्र का भक्तिर्या ते नित्या जनार्दने |
यया त्वमभिजानासि त्रियुगं मधुसूदनम् ||४||
सञ्जय उवाच||
मायां न सेवे भद्रं ते न वृथाधर्ममाचरे |
शुद्धभावं गतो भक्त्या शास्त्राद्वेद्मि जनार्दनम् ||५||
धृतराष्ट्र उवाच||
दुर्योधन हृषीकेशं प्रपद्यस्व जनार्दनम् |
आप्तो नः सञ्जयस्तात शरणं गच्छ केशवम् ||६||
दुर्योधन उवाच||
भगवान्देवकीपुत्रो लोकं चेन्निहनिष्यति |
प्रवदन्नर्जुने सख्यं नाहं गच्छेऽद्य केशवम् ||७||
धृतराष्ट्र उवाच||
अवाग्गान्धारि पुत्रास्ते गच्छत्येष सुदुर्मतिः |
ईर्ष्युर्दुरात्मा मानी च श्रेयसां वचनातिगः ||८||
गान्धार्युवाच||
ऐश्वर्यकाम दुष्टात्मन्वृद्धानां शासनातिग |
ऐश्वर्यजीविते हित्वा पितरं मां च बालिश ||९||
वर्धयन्दुर्हृदां प्रीतिं मां च शोकेन वर्धयन् |
निहतो भीमसेनेन स्मर्तासि वचनं पितुः ||१०||
व्यास उवाच||
दयितोऽसि राजन्कृष्णस्य धृतराष्ट्र निबोध मे |
यस्य ते सञ्जयो दूतो यस्त्वां श्रेयसि योक्ष्यते ||११||
जानात्येष हृषीकेशं पुराणं यच्च वै नवम् |
शुश्रूषमाणमेकाग्रं मोक्ष्यते महतो भयात् ||१२||
वैचित्रवीर्य पुरुषाः क्रोधहर्षतमोवृताः |
सिता बहुविधैः पाशैर्ये न तुष्टाः स्वकैर्धनैः ||१३||
यमस्य वशमायान्ति काममूढाः पुनः पुनः |
अन्धनेत्रा यथैवान्धा नीयमानाः स्वकर्मभिः ||१४||
एष एकायनः पन्था येन यान्ति मनीषिणः |
तं दृष्ट्वा मृत्युमत्येति महांस्तत्र न सज्जते ||१५||
धृतराष्ट्र उवाच||
अङ्ग सञ्जय मे शंस पन्थानमकुतोभयम् |
येन गत्वा हृषीकेशं प्राप्नुयां शान्तिमुत्तमाम् ||१६||
सञ्जय उवाच||
नाकृतात्मा कृतात्मानं जातु विद्याज्जनार्दनम् |
आत्मनस्तु क्रियोपायो नान्यत्रेन्द्रियनिग्रहात् ||१७||
इन्द्रियाणामुदीर्णानां कामत्यागोऽप्रमादतः |
अप्रमादोऽविहिंसा च ज्ञानयोनिरसंशयम् ||१८||
इन्द्रियाणां यमे यत्तो भव राजन्नतन्द्रितः |
बुद्धिश्च मा ते च्यवतु नियच्छैतां यतस्ततः ||१९||
एतज्ज्ञानं विदुर्विप्रा ध्रुवमिन्द्रियधारणम् |
एतज्ज्ञानं च पन्थाश्च येन यान्ति मनीषिणः ||२०||
अप्राप्यः केशवो राजन्निन्द्रियैरजितैर्नृभिः |
आगमाधिगतो योगाद्वशी तत्त्वे प्रसीदति ||२१||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
068-अध्यायः
धृतराष्ट्र उवाच||
भूयो मे पुण्डरीकाक्षं सञ्जयाचक्ष्व पृच्छते |
नामकर्मार्थवित्तात प्राप्नुयां पुरुषोत्तमम् ||१||
सञ्जय उवाच||
श्रुतं मे तस्य देवस्य नामनिर्वचनं शुभम् |
यावत्तत्राभिजानेऽहमप्रमेयो हि केशवः ||२||
वसनात्सर्वभूतानां वसुत्वाद्देवयोनितः |
वासुदेवस्ततो वेद्यो वृषत्वाद्वृष्णिरुच्यते ||३||
मौनाद्ध्यानाच्च योगाच्च विद्धि भारत माधवम् |
सर्वतत्त्वलयाच्चैव मधुहा मधुसूदनः ||४||
कृषिर्भूवाचकः शब्दो णश्च निर्वृतिवाचकः |
कृष्णस्तद्भावयोगाच्च कृष्णो भवति शाश्वतः ||५||
पुण्डरीकं परं धाम नित्यमक्षयमक्षरम् |
तद्भावात्पुण्डरीकाक्षो दस्युत्रासाज्जनार्दनः ||६||
यतः सत्त्वं न च्यवते यच्च सत्त्वान्न हीयते |
सत्त्वतः सात्वतस्तस्मादार्षभाद्वृषभेक्षणः ||७||
न जायते जनित्र्यां यदजस्तस्मादनीकजित् |
देवानां स्वप्रकाशत्वाद्दमाद्दामोदरं विदुः ||८||
हर्षात्सौख्यात्सुखैश्वर्याद्धृषीकेशत्वमश्नुते |
बाहुभ्यां रोदसी बिभ्रन्महाबाहुरिति स्मृतः ||९||
अधो न क्षीयते जातु यस्मात्तस्मादधोक्षजः |
नराणामयनाच्चापि तेन नारायणः स्मृतः ||१०||
पूरणात्सदनाच्चैव ततोऽसौ पुरुषोत्तमः ||१०||
असतश्च सतश्चैव सर्वस्य प्रभवाप्ययात् |
सर्वस्य च सदा ज्ञानात्सर्वमेनं प्रचक्षते ||११||
सत्ये प्रतिष्ठितः कृष्णः सत्यमत्र प्रतिष्ठितम् |
सत्यात्सत्यं च गोविन्दस्तस्मात्सत्योऽपि नामतः ||१२||
विष्णुर्विक्रमणादेव जयनाज्जिष्णुरुच्यते |
शाश्वतत्वादनन्तश्च गोविन्दो वेदनाद्गवाम् ||१३||
अतत्त्वं कुरुते तत्त्वं तेन मोहयते प्रजाः |
एवंविधो धर्मनित्यो भगवान्मुनिभिः सह ||१४||
आगन्ता हि महाबाहुरानृशंस्यार्थमच्युतः ||१४||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
069-अध्यायः
धृतराष्ट्र उवाच||
चक्षुष्मतां वै स्पृहयामि सञ्जय; द्रक्ष्यन्ति ये वासुदेवं समीपे |
विभ्राजमानं वपुषा परेण; प्रकाशयन्तं प्रदिशो दिशश्च ||१||
ईरयन्तं भारतीं भारताना; मभ्यर्चनीयां शङ्करीं सृञ्जयानाम् |
बुभूषद्भिर्ग्रहणीयामनिन्द्यां; परासूनामग्रहणीयरूपाम् ||२||
समुद्यन्तं सात्वतमेकवीरं; प्रणेतारमृषभं यादवानाम् |
निहन्तारं क्षोभणं शात्रवाणां; मुष्णन्तं च द्विषतां वै यशांसि ||३||
द्रष्टारो हि कुरवस्तं समेता; महात्मानं शत्रुहणं वरेण्यम् |
ब्रुवन्तं वाचमनृशंसरूपां; वृष्णिश्रेष्ठं मोहयन्तं मदीयान् ||४||
ऋषिं सनातनतमं विपश्चितं; वाचः समुद्रं कलशं यतीनाम् |
अरिष्टनेमिं गरुडं सुपर्णं; पतिं प्रजानां भुवनस्य धाम ||५||
सहस्रशीर्षं पुरुषं पुराण; मनादिमध्यान्तमनन्तकीर्तिम् |
शुक्रस्य धातारमजं जनित्रं; परं परेभ्यः शरणं प्रपद्ये ||६||
त्रैलोक्यनिर्माणकरं जनित्रं; देवासुराणामथ नागरक्षसाम् |
नराधिपानां विदुषां प्रधान; मिन्द्रानुजं तं शरणं प्रपद्ये ||७||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
070-अध्यायः-भगवद्यानपर्व
वैशम्पायन उवाच||
सञ्जये प्रतियाते तु धर्मराजो युधिष्ठिरः |
अभ्यभाषत दाशार्हमृषभं सर्वसात्वताम् ||१||
अयं स कालः सम्प्राप्तो मित्राणां मे जनार्दन |
न च त्वदन्यं पश्यामि यो न आपत्सु तारयेत् ||२||
त्वां हि माधव संश्रित्य निर्भया मोहदर्पितम् |
धार्तराष्ट्रं सहामात्यं स्वमंशमनुयुञ्ज्महे ||३||
यथा हि सर्वास्वापत्सु पासि वृष्णीनरिंदम |
तथा ते पाण्डवा रक्ष्याः पाह्यस्मान्महतो भयात् ||४||
भगवानुवाच||
अयमस्मि महाबाहो ब्रूहि यत्ते विवक्षितम् |
करिष्यामि हि तत्सर्वं यत्त्वं वक्ष्यसि भारत ||५||
युधिष्ठिर उवाच||
श्रुतं ते धृतराष्ट्रस्य सपुत्रस्य चिकीर्षितम् |
एतद्धि सकलं कृष्ण सञ्जयो मां यदब्रवीत् ||६||
तन्मतं धृतराष्ट्रस्य सोऽस्यात्मा विवृतान्तरः |
यथोक्तं दूत आचष्टे वध्यः स्यादन्यथा ब्रुवन् ||७||
अप्रदानेन राज्यस्य शान्तिमस्मासु मार्गति |
लुब्धः पापेन मनसा चरन्नसममात्मनः ||८||
यत्तद्द्वादश वर्षाणि वने निर्व्युषिता वयम् |
छद्मना शरदं चैकां धृतराष्ट्रस्य शासनात् ||९||
स्थाता नः समये तस्मिन्धृतराष्ट्र इति प्रभो |
नाहास्म समयं कृष्ण तद्धि नो ब्राह्मणा विदुः ||१०||
वृद्धो राजा धृतराष्ट्रः स्वधर्मं नानुपश्यति |
पश्यन्वा पुत्रगृद्धित्वान्मन्दस्यान्वेति शासनम् ||११||
सुयोधनमते तिष्ठन्राजास्मासु जनार्दन |
मिथ्या चरति लुब्धः संश्चरन्प्रियमिवात्मनः ||१२||
इतो दुःखतरं किं नु यत्राहं मातरं ततः |
संविधातुं न शक्नोमि मित्राणां वा जनार्दन ||१३||
काशिभिश्चेदिपाञ्चालैर्मत्स्यैश्च मधुसूदन |
भवता चैव नाथेन पञ्च ग्रामा वृता मया ||१४||
कुशस्थलं वृकस्थलमासन्दी वारणावतम् |
अवसानं च गोविन्द किञ्चिदेवात्र पञ्चमम् ||१५||
पञ्च नस्तात दीयन्तां ग्रामा वा नगराणि वा |
वसेम सहिता येषु मा च नो भरता नशन् ||१६||
न च तानपि दुष्टात्मा धार्तराष्ट्रोऽनुमन्यते |
स्वाम्यमात्मनि मत्वासावतो दुःखतरं नु किम् ||१७||
कुले जातस्य वृद्धस्य परवित्तेषु गृध्यतः |
लोभः प्रज्ञानमाहन्ति प्रज्ञा हन्ति हता ह्रियम् ||१८||
ह्रीर्हता बाधते धर्मं धर्मो हन्ति हतः श्रियम् |
श्रीर्हता पुरुषं हन्ति पुरुषस्यास्वता वधः ||१९||
अस्वतो हि निवर्तन्ते ज्ञातयः सुहृदर्त्विजः |
अपुष्पादफलाद्वृक्षाद्यथा तात पतत्रिणः ||२०||
एतच्च मरणं तात यदस्मात्पतितादिव |
ज्ञातयो विनिवर्तन्ते प्रेतसत्त्वादिवासवः ||२१||
नातः पापीयसीं काञ्चिदवस्थां शम्बरोऽब्रवीत् |
यत्र नैवाद्य न प्रातर्भोजनं प्रतिदृश्यते ||२२||
धनमाहुः परं धर्मं धने सर्वं प्रतिष्ठितम् |
जीवन्ति धनिनो लोके मृता ये त्वधना नराः ||२३||
ये धनादपकर्षन्ति नरं स्वबलमाश्रिताः |
ते धर्ममर्थं कामं च प्रमथ्नन्ति नरं च तम् ||२४||
एतामवस्थां प्राप्यैके मरणं वव्रिरे जनाः |
ग्रामायैके वनायैके नाशायैके प्रवव्रजुः ||२५||
उन्मादमेके पुष्यन्ति यान्त्यन्ये द्विषतां वशम् |
दास्यमेके निगच्छन्ति परेषामर्थहेतुना ||२६||
आपदेवास्य मरणात्पुरुषस्य गरीयसी |
श्रियो विनाशस्तद्ध्यस्य निमित्तं धर्मकामयोः ||२७||
यदस्य धर्म्यं मरणं शाश्वतं लोकवर्त्म तत् |
समन्तात्सर्वभूतानां न तदत्येति कश्चन ||२८||
न तथा बाध्यते कृष्ण प्रकृत्या निर्धनो जनः |
यथा भद्रां श्रियं प्राप्य तया हीनः सुखैधितः ||२९||
स तदात्मापराधेन सम्प्राप्तो व्यसनं महत् |
सेन्द्रान्गर्हयते देवान्नात्मानं च कथञ्चन ||३०||
न चास्मिन्सर्वशास्त्राणि प्रतरन्ति निगर्हणाम् |
सोऽभिक्रुध्यति भृत्यानां सुहृदश्चाभ्यसूयति ||३१||
तं तदा मन्युरेवैति स भूयः सम्प्रमुह्यति |
स मोहवशमापन्नः क्रूरं कर्म निषेवते ||३२||
पापकर्मात्ययायैव सङ्करं तेन पुष्यति |
सङ्करो नरकायैव सा काष्ठा पापकर्मणाम् ||३३||
न चेत्प्रबुध्यते कृष्ण नरकायैव गच्छति |
तस्य प्रबोधः प्रज्ञैव प्रज्ञाचक्षुर्न रिष्यति ||३४||
प्रज्ञालाभे हि पुरुषः शास्त्राण्येवान्ववेक्षते |
शास्त्रनित्यः पुनर्धर्मं तस्य ह्रीरङ्गमुत्तमम् ||३५||
ह्रीमान्हि पापं प्रद्वेष्टि तस्य श्रीरभिवर्धते |
श्रीमान्स यावद्भवति तावद्भवति पूरुषः ||३६||
धर्मनित्यः प्रशान्तात्मा कार्ययोगवहः सदा |
नाधर्मे कुरुते बुद्धिं न च पापेषु वर्तते ||३७||
अह्रीको वा विमूढो वा नैव स्त्री न पुनः पुमान् |
नास्याधिकारो धर्मेऽस्ति यथा शूद्रस्तथैव सः ||३८||
ह्रीमानवति देवांश्च पितॄनात्मानमेव च |
तेनामृतत्वं व्रजति सा काष्ठा पुण्यकर्मणाम् ||३९||
तदिदं मयि ते दृष्टं प्रत्यक्षं मधुसूदन |
यथा राज्यात्परिभ्रष्टो वसामि वसतीरिमाः ||४०||
ते वयं न श्रियं हातुमलं न्यायेन केनचित् |
अत्र नो यतमानानां वधश्चेदपि साधु तत् ||४१||
तत्र नः प्रथमः कल्पो यद्वयं ते च माधव |
प्रशान्ताः समभूताश्च श्रियं तानश्नुवीमहि ||४२||
तत्रैषा परमा काष्ठा रौद्रकर्मक्षयोदया |
यद्वयं कौरवान्हत्वा तानि राष्ट्राण्यशीमहि ||४३||
ये पुनः स्युरसम्बद्धा अनार्याः कृष्ण शत्रवः |
तेषामप्यवधः कार्यः किं पुनर्ये स्युरीदृशाः ||४४||
ज्ञातयश्च हि भूयिष्ठाः सहाया गुरवश्च नः |
तेषां वधोऽतिपापीयान्किं नु युद्धेऽस्ति शोभनम् ||४५||
पापः क्षत्रियधर्मोऽयं वयं च क्षत्रबान्धवाः |
स नः स्वधर्मोऽधर्मो वा वृत्तिरन्या विगर्हिता ||४६||
शूद्रः करोति शुश्रूषां वैश्या विपणिजीविनः |
वयं वधेन जीवामः कपालं ब्राह्मणैर्वृतम् ||४७||
क्षत्रियः क्षत्रियं हन्ति मत्स्यो मत्स्येन जीवति |
श्वा श्वानं हन्ति दाशार्ह पश्य धर्मो यथागतः ||४८||
युद्धे कृष्ण कलिर्नित्यं प्राणाः सीदन्ति संयुगे |
बलं तु नीतिमात्राय हठे जयपराजयौ ||४९||
नात्मच्छन्देन भूतानां जीवितं मरणं तथा |
नाप्यकाले सुखं प्राप्यं दुःखं वापि यदूत्तम ||५०||
एको ह्यपि बहून्हन्ति घ्नन्त्येकं बहवोऽप्युत |
शूरं कापुरुषो हन्ति अयशस्वी यशस्विनम् ||५१||
जयश्चैवोभयोर्दृष्ट उभयोश्च पराजयः |
तथैवापचयो दृष्टो व्यपयाने क्षयव्ययौ ||५२||
सर्वथा वृजिनं युद्धं को घ्नन्न प्रतिहन्यते |
हतस्य च हृषीकेश समौ जयपराजयौ ||५३||
पराजयश्च मरणान्मन्ये नैव विशिष्यते |
यस्य स्याद्विजयः कृष्ण तस्याप्यपचयो ध्रुवम् ||५४||
अन्ततो दयितं घ्नन्ति केचिदप्यपरे जनाः |
तस्याङ्ग बलहीनस्य पुत्रान्भ्रातॄनपश्यतः ||५५||
निर्वेदो जीविते कृष्ण सर्वतश्चोपजायते ||५५||
ये ह्येव वीरा ह्रीमन्त आर्याः करुणवेदिनः |
त एव युद्धे हन्यन्ते यवीयान्मुच्यते जनः ||५६||
हत्वाप्यनुशयो नित्यं परानपि जनार्दन |
अनुबन्धश्च पापोऽत्र शेषश्चाप्यवशिष्यते ||५७||
शेषो हि बलमासाद्य न शेषमवशेषयेत् |
सर्वोच्छेदे च यतते वैरस्यान्तविधित्सया ||५८||
जयो वैरं प्रसृजति दुःखमास्ते पराजितः |
सुखं प्रशान्तः स्वपिति हित्वा जयपराजयौ ||५९||
जातवैरश्च पुरुषो दुःखं स्वपिति नित्यदा |
अनिर्वृतेन मनसा ससर्प इव वेश्मनि ||६०||
उत्सादयति यः सर्वं यशसा स वियुज्यते |
अकीर्तिं सर्वभूतेषु शाश्वतीं स नियच्छति ||६१||
न हि वैराणि शाम्यन्ति दीर्घकालकृतान्यपि |
आख्यातारश्च विद्यन्ते पुमांश्चोत्पद्यते कुले ||६२||
न चापि वैरं वैरेण केशव व्युपशाम्यति |
हविषाग्निर्यथा कृष्ण भूय एवाभिवर्धते ||६३||
अतोऽन्यथा नास्ति शान्तिर्नित्यमन्तरमन्ततः |
अन्तरं लिप्समानानामयं दोषो निरन्तरः ||६४||
पौरुषेयो हि बलवानाधिर्हृदयबाधनः |
तस्य त्यागेन वा शान्तिर्निवृत्त्या मनसोऽपि वा ||६५||
अथ वा मूलघातेन द्विषतां मधुसूदन |
फलनिर्वृत्तिरिद्धा स्यात्तन्नृशंसतरं भवेत् ||६६||
या तु त्यागेन शान्तिः स्यात्तदृते वध एव सः |
संशयाच्च समुच्छेदाद्द्विषतामात्मनस्तथा ||६७||
न च त्यक्तुं तदिच्छामो न चेच्छामः कुलक्षयम् |
अत्र या प्रणिपातेन शान्तिः सैव गरीयसी ||६८||
सर्वथा यतमानानामयुद्धमभिकाङ्क्षताम् |
सान्त्वे प्रतिहते युद्धं प्रसिद्धमपराक्रमम् ||६९||
प्रतिघातेन सान्त्वस्य दारुणं सम्प्रवर्तते |
तच्छुनामिव गोपादे पण्डितैरुपलक्षितम् ||७०||
लाङ्गूलचालनं क्ष्वेडः प्रतिरावो विवर्तनम् |
दन्तदर्शनमारावस्ततो युद्धं प्रवर्तते ||७१||
तत्र यो बलवान्कृष्ण जित्वा सोऽत्ति तदामिषम् |
एवमेव मनुष्येषु विशेषो नास्ति कश्चन ||७२||
सर्वथा त्वेतदुचितं दुर्बलेषु बलीयसाम् |
अनादरो विरोधश्च प्रणिपाती हि दुर्बलः ||७३||
पिता राजा च वृद्धश्च सर्वथा मानमर्हति |
तस्मान्मान्यश्च पूज्यश्च धृतराष्ट्रो जनार्दन ||७४||
पुत्रस्नेहस्तु बलवान्धृतराष्ट्रस्य माधव |
स पुत्रवशमापन्नः प्रणिपातं प्रहास्यति ||७५||
तत्र किं मन्यसे कृष्ण प्राप्तकालमनन्तरम् |
कथमर्थाच्च धर्माच्च न हीयेमहि माधव ||७६||
ईदृशे ह्यर्थकृच्छ्रेऽस्मिन्कमन्यं मधुसूदन |
उपसम्प्रष्टुमर्हामि त्वामृते पुरुषोत्तम ||७७||
प्रियश्च प्रियकामश्च गतिज्ञः सर्वकर्मणाम् |
को हि कृष्णास्ति नस्त्वादृक्सर्वनिश्चयवित्सुहृत् ||७८||
वैशम्पायन उवाच||
एवमुक्तः प्रत्युवाच धर्मराजं जनार्दनः |
उभयोरेव वामर्थे यास्यामि कुरुसंसदम् ||७९||
शमं तत्र लभेयं चेद्युष्मदर्थमहापयन् |
पुण्यं मे सुमहद्राजंश्चरितं स्यान्महाफलम् ||८०||
मोचयेयं मृत्युपाशात्संरब्धान्कुरुसृञ्जयान् |
पाण्डवान्धार्तराष्ट्रांश्च सर्वां च पृथिवीमिमाम् ||८१||
युधिष्ठिर उवाच||
न ममैतन्मतं कृष्ण यत्त्वं यायाः कुरून्प्रति |
सुयोधनः सूक्तमपि न करिष्यति ते वचः ||८२||
समेतं पार्थिवं क्षत्रं सुयोधनवशानुगम् |
तेषां मध्यावतरणं तव कृष्ण न रोचये ||८३||
न हि नः प्रीणयेद्द्रव्यं न देवत्वं कुतः सुखम् |
न च सर्वामरैश्वर्यं तव रोधेन माधव ||८४||
भगवानुवाच||
जानाम्येतां महाराज धार्तराष्ट्रस्य पापताम् |
अवाच्यास्तु भविष्यामः सर्वलोके महीक्षिताम् ||८५||
न चापि मम पर्याप्ताः सहिताः सर्वपार्थिवाः |
क्रुद्धस्य प्रमुखे स्थातुं सिंहस्येवेतरे मृगाः ||८६||
अथ चेत्ते प्रवर्तेरन्मयि किञ्चिदसाम्प्रतम् |
निर्दहेयं कुरून्सर्वानिति मे धीयते मतिः ||८७||
न जातु गमनं तत्र भवेत्पार्थ निरर्थकम् |
अर्थप्राप्तिः कदाचित्स्यादन्ततो वाप्यवाच्यता ||८८||
युधिष्ठिर उवाच||
यत्तुभ्यं रोचते कृष्ण स्वस्ति प्राप्नुहि कौरवान् |
कृतार्थं स्वस्तिमन्तं त्वां द्रक्ष्यामि पुनरागतम् ||८९||
विष्वक्सेन कुरून्गत्वा भारताञ्शमयेः प्रभो |
यथा सर्वे सुमनसः सह स्यामः सुचेतसः ||९०||
भ्राता चासि सखा चासि बीभत्सोर्मम च प्रियः |
सौहृदेनाविशङ्क्योऽसि स्वस्ति प्राप्नुहि भूतये ||९१||
अस्मान्वेत्थ परान्वेत्थ वेत्थार्थं वेत्थ भाषितम् |
यद्यदस्मद्धितं कृष्ण तत्तद्वाच्यः सुयोधनः ||९२||
यद्यद्धर्मेण संयुक्तमुपपद्येद्धितं वचः |
तत्तत्केशव भाषेथाः सान्त्वं वा यदि वेतरत् ||९३||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
071-अध्यायः
भगवानुवाच||
सञ्जयस्य श्रुतं वाक्यं भवतश्च श्रुतं मया |
सर्वं जानाम्यभिप्रायं तेषां च भवतश्च यः ||१||
तव धर्माश्रिता बुद्धिस्तेषां वैराश्रिता मतिः |
यदयुद्धेन लभ्येत तत्ते बहुमतं भवेत् ||२||
न च तन्नैष्ठिकं कर्म क्षत्रियस्य विशां पते |
आहुराश्रमिणः सर्वे यद्भैक्षं क्षत्रियश्चरेत् ||३||
जयो वधो वा सङ्ग्रामे धात्रा दिष्टः सनातनः |
स्वधर्मः क्षत्रियस्यैष कार्पण्यं न प्रशस्यते ||४||
न हि कार्पण्यमास्थाय शक्या वृत्तिर्युधिष्ठिर |
विक्रमस्व महाबाहो जहि शत्रूनरिंदम ||५||
अतिगृद्धाः कृतस्नेहा दीर्घकालं सहोषिताः |
कृतमित्राः कृतबला धार्तराष्ट्राः परन्तप ||६||
न पर्यायोऽस्ति यत्साम्यं त्वयि कुर्युर्विशां पते |
बलवत्तां हि मन्यन्ते भीष्मद्रोणकृपादिभिः ||७||
यावच्च मार्दवेनैतान्राजन्नुपचरिष्यसि |
तावदेते हरिष्यन्ति तव राज्यमरिंदम ||८||
नानुक्रोशान्न कार्पण्यान्न च धर्मार्थकारणात् |
अलं कर्तुं धार्तराष्ट्रास्तव काममरिंदम ||९||
एतदेव निमित्तं ते पाण्डवास्तु यथा त्वयि |
नान्वतप्यन्त कौपीनं तावत्कृत्वापि दुष्करम् ||१०||
पितामहस्य द्रोणस्य विदुरस्य च धीमतः |
पश्यतां कुरुमुख्यानां सर्वेषामेव तत्त्वतः ||११||
दानशीलं मृदुं दान्तं धर्मकाममनुव्रतम् |
यत्त्वामुपधिना राजन्द्यूतेनावञ्चयत्तदा ||१२||
न चापत्रपते पापो नृशंसस्तेन कर्मणा ||१२||
तथाशीलसमाचारे राजन्मा प्रणयं कृथाः |
वध्यास्ते सर्वलोकस्य किं पुनस्तव भारत ||१३||
वाग्भिस्त्वप्रतिरूपाभिरतुदत्सकनीयसम् |
श्लाघमानः प्रहृष्टः सन्भाषते भ्रातृभिः सह ||१४||
एतावत्पाण्डवानां हि नास्ति किञ्चिदिह स्वकम् |
नामधेयं च गोत्रं च तदप्येषां न शिष्यते ||१५||
कालेन महता चैषां भविष्यति पराभवः |
प्रकृतिं ते भजिष्यन्ति नष्टप्रकृतयो जनाः ||१६||
एताश्चान्याश्च परुषा वाचः स समुदीरयन् |
श्लाघते ज्ञातिमध्ये स्म त्वयि प्रव्रजिते वनम् ||१७||
ये तत्रासन्समानीतास्ते दृष्ट्वा त्वामनागसम् |
अश्रुकण्ठा रुदन्तश्च सभायामासते तदा ||१८||
न चैनमभ्यनन्दंस्ते राजानो ब्राह्मणैः सह |
सर्वे दुर्योधनं तत्र निन्दन्ति स्म सभासदः ||१९||
कुलीनस्य च या निन्दा वधश्चामित्रकर्शन |
महागुणो वधो राजन्न तु निन्दा कुजीविका ||२०||
तदैव निहतो राजन्यदैव निरपत्रपः |
निन्दितश्च महाराज पृथिव्यां सर्वराजसु ||२१||
ईषत्कार्यो वधस्तस्य यस्य चारित्रमीदृशम् |
प्रस्कम्भनप्रतिस्तब्धश्छिन्नमूल इव द्रुमः ||२२||
वध्यः सर्प इवानार्यः सर्वलोकस्य दुर्मतिः |
जह्येनं त्वममित्रघ्न मा राजन्विचिकित्सिथाः ||२३||
सर्वथा त्वत्क्षमं चैतद्रोचते च ममानघ |
यत्त्वं पितरि भीष्मे च प्रणिपातं समाचरेः ||२४||
अहं तु सर्वलोकस्य गत्वा छेत्स्यामि संशयम् |
येषामस्ति द्विधाभावो राजन्दुर्योधनं प्रति ||२५||
मध्ये राज्ञामहं तत्र प्रातिपौरुषिकान्गुणान् |
तव सङ्कीर्तयिष्यामि ये च तस्य व्यतिक्रमाः ||२६||
ब्रुवतस्तत्र मे वाक्यं धर्मार्थसहितं हितम् |
निशम्य पार्थिवाः सर्वे नानाजनपदेश्वराः ||२७||
त्वयि सम्प्रतिपत्स्यन्ते धर्मात्मा सत्यवागिति |
तस्मिंश्चाधिगमिष्यन्ति यथा लोभादवर्तत ||२८||
गर्हयिष्यामि चैवैनं पौरजानपदेष्वपि |
वृद्धबालानुपादाय चातुर्वर्ण्यसमागमे ||२९||
शमं चेद्याचमानस्त्वं न धर्मं तत्र लप्स्यसे |
कुरून्विगर्हयिष्यन्ति धृतराष्ट्रं च पार्थिवाः ||३०||
तस्मिँल्लोकपरित्यक्ते किं कार्यमवशिष्यते |
हते दुर्योधने राजन्यदन्यत्क्रियतामिति ||३१||
यात्वा चाहं कुरून्सर्वान्युष्मदर्थमहापयन् |
यतिष्ये प्रशमं कर्तुं लक्षयिष्ये च चेष्टितम् ||३२||
कौरवाणां प्रवृत्तिं च गत्वा युद्धाधिकारिकाम् |
निशाम्य विनिवर्तिष्ये जयाय तव भारत ||३३||
सर्वथा युद्धमेवाहमाशंसामि परैः सह |
निमित्तानि हि सर्वाणि तथा प्रादुर्भवन्ति मे ||३४||
मृगाः शकुन्ताश्च वदन्ति घोरं; हस्त्यश्वमुख्येषु निशामुखेषु |
घोराणि रूपाणि तथैव चाग्नि; र्वर्णान्बहून्पुष्यति घोररूपान् ||३५||
मनुष्यलोकक्षपणोऽथ घोरो; नो चेदनुप्राप्त इहान्तकः स्यात् ||३५||
शस्त्राणि पत्रं कवचान्रथांश्च; नागान्ध्वजांश्च प्रतिपादयित्वा |
योधाश्च सर्वे कृतनिश्रमास्ते; भवन्तु हस्त्यश्वरथेषु यत्ताः ||३६||
साङ्ग्रामिकं ते यदुपार्जनीयं; सर्वं समग्रं कुरु तन्नरेन्द्र ||३६||
दुर्योधनो न ह्यलमद्य दातुं; जीवंस्तवैतन्नृपते कथञ्चित् |
यत्ते पुरस्तादभवत्समृद्धं; द्यूते हृतं पाण्डवमुख्य राज्यम् ||३७||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
072-अध्यायः
भीमसेन उवाच||
यथा यथैव शान्तिः स्यात्कुरूणां मधुसूदन |
तथा तथैव भाषेथा मा स्म युद्धेन भीषयेः ||१||
अमर्षी नित्यसंरब्धः श्रेयोद्वेषी महामनाः |
नोग्रं दुर्योधनो वाच्यः साम्नैवैनं समाचरेः ||२||
प्रकृत्या पापसत्त्वश्च तुल्यचेताश्च दस्युभिः |
ऐश्वर्यमदमत्तश्च कृतवैरश्च पाण्डवैः ||३||
अदीर्घदर्शी निष्ठूरी क्षेप्ता क्रूरपराक्रमः |
दीर्घमन्युरनेयश्च पापात्मा निकृतिप्रियः ||४||
म्रियेतापि न भज्येत नैव जह्यात्स्वकं मतम् |
तादृशेन शमं कृष्ण मन्ये परमदुष्करम् ||५||
सुहृदामप्यवाचीनस्त्यक्तधर्मः प्रियानृतः |
प्रतिहन्त्येव सुहृदां वाचश्चैव मनांसि च ||६||
स मन्युवशमापन्नः स्वभावं दुष्टमास्थितः |
स्वभावात्पापमन्वेति तृणैस्तुन्न इवोरगः ||७||
दुर्योधनो हि यत्सेनः सर्वथा विदितस्तव |
यच्छीलो यत्स्वभावश्च यद्बलो यत्पराक्रमः ||८||
पुरा प्रसन्नाः कुरवः सहपुत्रास्तथा वयम् |
इन्द्रज्येष्ठा इवाभूम मोदमानाः सबान्धवाः ||९||
दुर्योधनस्य क्रोधेन भारता मधुसूदन |
धक्ष्यन्ते शिशिरापाये वनानीव हुताशनैः ||१०||
अष्टादशेमे राजानः प्रख्याता मधुसूदन |
ये समुच्चिच्छिदुर्ज्ञातीन्सुहृदश्च सबान्धवान् ||११||
असुराणां समृद्धानां ज्वलतामिव तेजसा |
पर्यायकाले धर्मस्य प्राप्ते बलिरजायत ||१२||
हैहयानामुदावर्तो नीपानां जनमेजयः |
बहुलस्तालजङ्घानां कृमीणामुद्धतो वसुः ||१३||
अजबिन्दुः सुवीराणां सुराष्ट्राणां कुशर्द्धिकः |
अर्कजश्च बलीहानां चीनानां धौतमूलकः ||१४||
हयग्रीवो विदेहानां वरप्रश्च महौजसाम् |
बाहुः सुन्दरवेगानां दीप्ताक्षाणां पुरूरवाः ||१५||
सहजश्चेदिमत्स्यानां प्रचेतानां बृहद्बलः |
धारणश्चेन्द्रवत्सानां मुकुटानां विगाहनः ||१६||
शमश्च नन्दिवेगानामित्येते कुलपांसनाः |
युगान्ते कृष्ण सम्भूताः कुलेषु पुरुषाधमाः ||१७||
अप्ययं नः कुरूणां स्याद्युगान्ते कालसम्भृतः |
दुर्योधनः कुलाङ्गारो जघन्यः पापपूरुषः ||१८||
तस्मान्मृदु शनैरेनं ब्रूया धर्मार्थसंहितम् |
कामानुबन्धबहुलं नोग्रमुग्रपराक्रमम् ||१९||
अपि दुर्योधनं कृष्ण सर्वे वयमधश्चराः |
नीचैर्भूत्वानुयास्यामो मा स्म नो भरता नशन् ||२०||
अप्युदासीनवृत्तिः स्याद्यथा नः कुरुभिः सह |
वासुदेव तथा कार्यं न कुरूननयः स्पृशेत् ||२१||
वाच्यः पितामहो वृद्धो ये च कृष्ण सभासदः |
भ्रातॄणामस्तु सौभ्रात्रं धार्तराष्ट्रः प्रशाम्यताम् ||२२||
अहमेतद्ब्रवीम्येवं राजा चैव प्रशंसति |
अर्जुनो नैव युद्धार्थी भूयसी हि दयार्जुने ||२३||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
073-अध्यायः
वैशम्पायन उवाच||
एतच्छ्रुत्वा महाबाहुः केशवः प्रहसन्निव |
अभूतपूर्वं भीमस्य मार्दवोपगतं वचः ||१||
गिरेरिव लघुत्वं तच्छीतत्वमिव पावके |
मत्वा रामानुजः शौरिः शार्ङ्गधन्वा वृकोदरम् ||२||
सन्तेजयंस्तदा वाग्भिर्मातरिश्वेव पावकम् |
उवाच भीममासीनं कृपयाभिपरिप्लुतम् ||३||
त्वमन्यदा भीमसेन युद्धमेव प्रशंससि |
वधाभिनन्दिनः क्रूरान्धार्तराष्ट्रान्मिमर्दिषुः ||४||
न च स्वपिषि जागर्षि न्युब्जः शेषे परन्तप |
घोरामशान्तां रुशतीं सदा वाचं प्रभाषसे ||५||
निःश्वसन्नग्निवर्णेन सन्तप्तः स्वेन मन्युना |
अप्रशान्तमना भीम सधूम इव पावकः ||६||
एकान्ते निष्टनञ्शेषे भारार्त इव दुर्बलः |
अपि त्वां केचिदुन्मत्तं मन्यन्तेऽतद्विदो जनाः ||७||
आरुज्य वृक्षान्निर्मूलान्गजः परिभुजन्निव |
निघ्नन्पद्भिः क्षितिं भीम निष्टनन्परिधावसि ||८||
नास्मिञ्जनेऽभिरमसे रहः क्षियसि पाण्डव |
नान्यं निशि दिवा वापि कदाचिदभिनन्दसि ||९||
अकस्मात्स्मयमानश्च रहस्यास्से रुदन्निव |
जान्वोर्मूर्धानमाधाय चिरमास्से प्रमीलितः ||१०||
भ्रुकुटिं च पुनः कुर्वन्नोष्ठौ च विलिहन्निव |
अभीक्ष्णं दृश्यसे भीम सर्वं तन्मन्युकारितम् ||११||
यथा पुरस्तात्सविता दृश्यते शुक्रमुच्चरन् |
यथा च पश्चान्निर्मुक्तो ध्रुवं पर्येति रश्मिवान् ||१२||
तथा सत्यं ब्रवीम्येतन्नास्ति तस्य व्यतिक्रमः |
हन्ताहं गदयाभ्येत्य दुर्योधनममर्षणम् ||१३||
इति स्म मध्ये भ्रातॄणां सत्येनालभसे गदाम् |
तस्य ते प्रशमे बुद्धिर्धीयतेऽद्य परन्तप ||१४||
अहो युद्धप्रतीपानि युद्धकाल उपस्थिते |
पश्यसीवाप्रतीपानि किं त्वां भीर्भीम विन्दति ||१५||
अहो पार्थ निमित्तानि विपरीतानि पश्यसि |
स्वप्नान्ते जागरान्ते च तस्मात्प्रशममिच्छसि ||१६||
अहो नाशंससे किञ्चित्पुंस्त्वं क्लीब इवात्मनि |
कश्मलेनाभिपन्नोऽसि तेन ते विकृतं मनः ||१७||
उद्वेपते ते हृदयं मनस्ते प्रविषीदति |
ऊरुस्तम्भगृहीतोऽसि तस्मात्प्रशममिच्छसि ||१८||
अनित्यं किल मर्त्यस्य चित्तं पार्थ चलाचलम् |
वातवेगप्रचलिता अष्ठीला शाल्मलेरिव ||१९||
तवैषा विकृता बुद्धिर्गवां वागिव मानुषी |
मनांसि पाण्डुपुत्राणां मज्जयत्यप्लवानिव ||२०||
इदं मे महदाश्चर्यं पर्वतस्येव सर्पणम् |
यदीदृशं प्रभाषेथा भीमसेनासमं वचः ||२१||
स दृष्ट्वा स्वानि कर्माणि कुले जन्म च भारत |
उत्तिष्ठस्व विषादं मा कृथा वीर स्थिरो भव ||२२||
न चैतदनुरूपं ते यत्ते ग्लानिररिंदम |
यदोजसा न लभते क्षत्रियो न तदश्नुते ||२३||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
074-अध्यायः
वैशम्पायन उवाच||
तथोक्तो वासुदेवेन नित्यमन्युरमर्षणः |
सदश्ववत्समाधावद्बभाषे तदनन्तरम् ||१||
अन्यथा मां चिकीर्षन्तमन्यथा मन्यसेऽच्युत |
प्रणीतभावमत्यन्तं युधि सत्यपराक्रमम् ||२||
वेत्थ दाशार्ह सत्त्वं मे दीर्घकालं सहोषितः |
उत वा मां न जानासि प्लवन्ह्रद इवाल्पवः ||३||
तस्मादप्रतिरूपाभिर्वाग्भिर्मां त्वं समर्छसि ||३||
कथं हि भीमसेनं मां जानन्कश्चन माधव |
ब्रूयादप्रतिरूपाणि यथा मां वक्तुमर्हसि ||४||
तस्मादिदं प्रवक्ष्यामि वचनं वृष्णिनन्दन |
आत्मनः पौरुषं चैव बलं च न समं परैः ||५||
सर्वथा नार्यकर्मैतत्प्रशंसा स्वयमात्मनः |
अतिवादापविद्धस्तु वक्ष्यामि बलमात्मनः ||६||
पश्येमे रोदसी कृष्ण ययोरासन्निमाः प्रजाः |
अचले चाप्यनन्ते च प्रतिष्ठे सर्वमातरौ ||७||
यदीमे सहसा क्रुद्धे समेयातां शिले इव |
अहमेते निगृह्णीयां बाहुभ्यां सचराचरे ||८||
पश्यैतदन्तरं बाह्वोर्महापरिघयोरिव |
य एतत्प्राप्य मुच्येत न तं पश्यामि पूरुषम् ||९||
हिमवांश्च समुद्रश्च वज्री च बलभित्स्वयम् |
मयाभिपन्नं त्रायेरन्बलमास्थाय न त्रयः ||१०||
युध्येयं क्षत्रियान्सर्वान्पाण्डवेष्वाततायिनः |
अधः पादतलेनैतानधिष्ठास्यामि भूतले ||११||
न हि त्वं नाभिजानासि मम विक्रममच्युत |
यथा मया विनिर्जित्य राजानो वशगाः कृताः ||१२||
अथ चेन्मां न जानासि सूर्यस्येवोद्यतः प्रभाम् |
विगाढे युधि सम्बाधे वेत्स्यसे मां जनार्दन ||१३||
किं मात्यवाक्षीः परुषैर्व्रणं सूच्या इवानघ |
यथामति ब्रवीम्येतद्विद्धि मामधिकं ततः ||१४||
द्रष्टासि युधि सम्बाधे प्रवृत्ते वैशसेऽहनि |
मया प्रणुन्नान्मातङ्गान्रथिनः सादिनस्तथा ||१५||
तथा नरानभिक्रुद्धं निघ्नन्तं क्षत्रियर्षभान् |
द्रष्टा मां त्वं च लोकश्च विकर्षन्तं वरान्वरान् ||१६||
न मे सीदन्ति मज्जानो न ममोद्वेपते मनः |
सर्वलोकादभिक्रुद्धान्न भयं विद्यते मम ||१७||
किं तु सौहृदमेवैतत्कृपया मधुसूदन |
सर्वांस्तितिक्षे सङ्क्लेशान्मा स्म नो भरता नशन् ||१८||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
075-अध्यायः
भगवानुवाच||
भावं जिज्ञासमानोऽहं प्रणयादिदमब्रुवम् |
न चाक्षेपान्न पाण्डित्यान्न क्रोधान्न विवक्षया ||१||
वेदाहं तव माहात्म्यमुत ते वेद यद्बलम् |
उत ते वेद कर्माणि न त्वां परिभवाम्यहम् ||२||
यथा चात्मनि कल्याणं सम्भावयसि पाण्डव |
सहस्रगुणमप्येतत्त्वयि सम्भावयाम्यहम् ||३||
यादृशे च कुले जन्म सर्वराजाभिपूजिते |
बन्धुभिश्च सुहृद्भिश्च भीम त्वमसि तादृशः ||४||
जिज्ञासन्तो हि धर्मस्य संदिग्धस्य वृकोदर |
पर्यायं न व्यवस्यन्ति दैवमानुषयोर्जनाः ||५||
स एव हेतुर्भूत्वा हि पुरुषस्यार्थसिद्धिषु |
विनाशेऽपि स एवास्य संदिग्धं कर्म पौरुषम् ||६||
अन्यथा परिदृष्टानि कविभिर्दोषदर्शिभिः |
अन्यथा परिवर्तन्ते वेगा इव नभस्वतः ||७||
सुमन्त्रितं सुनीतं च न्यायतश्चोपपादितम् |
कृतं मानुष्यकं कर्म दैवेनापि विरुध्यते ||८||
दैवमप्यकृतं कर्म पौरुषेण विहन्यते |
शीतमुष्णं तथा वर्षं क्षुत्पिपासे च भारत ||९||
यदन्यद्दिष्टभावस्य पुरुषस्य स्वयङ्कृतम् |
तस्मादनवरोधश्च विद्यते तत्र लक्षणम् ||१०||
लोकस्य नान्यतो वृत्तिः पाण्डवान्यत्र कर्मणः |
एवम्बुद्धिः प्रवर्तेत फलं स्यादुभयान्वयात् ||११||
य एवं कृतबुद्धिः सन्कर्मस्वेव प्रवर्तते |
नासिद्धौ व्यथते तस्य न सिद्धौ हर्षमश्नुते ||१२||
तत्रेयमर्थमात्रा मे भीमसेन विवक्षिता |
नैकान्तसिद्धिर्मन्तव्या कुरुभिः सह संयुगे ||१३||
नातिप्रणीतरश्मिः स्यात्तथा भवति पर्यये |
विषादमर्छेद्ग्लानिं वा एतदर्थं ब्रवीमि ते ||१४||
श्वोभूते धृतराष्ट्रस्य समीपं प्राप्य पाण्डव |
यतिष्ये प्रशमं कर्तुं युष्मदर्थमहापयन् ||१५||
शमं चेत्ते करिष्यन्ति ततोऽनन्तं यशो मम |
भवतां च कृतः कामस्तेषां च श्रेय उत्तमम् ||१६||
ते चेदभिनिवेक्ष्यन्ति नाभ्युपैष्यन्ति मे वचः |
कुरवो युद्धमेवात्र रौद्रं कर्म भविष्यति ||१७||
अस्मिन्युद्धे भीमसेन त्वयि भारः समाहितः |
धूरर्जुनेन धार्या स्याद्वोढव्य इतरो जनः ||१८||
अहं हि यन्ता बीभत्सोर्भविता संयुगे सति |
धनञ्जयस्यैष कामो न हि युद्धं न कामये ||१९||
तस्मादाशङ्कमानोऽहं वृकोदर मतिं तव |
तुदन्नक्लीबया वाचा तेजस्ते समदीपयम् ||२०||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
076-अध्यायः
अर्जुन उवाच||
उक्तं युधिष्ठिरेणैव यावद्वाच्यं जनार्दन |
तव वाक्यं तु मे श्रुत्वा प्रतिभाति परन्तप ||१||
नैव प्रशममत्र त्वं मन्यसे सुकरं प्रभो |
लोभाद्वा धृतराष्ट्रस्य दैन्याद्वा समुपस्थितात् ||२||
अफलं मन्यसे चापि पुरुषस्य पराक्रमम् |
न चान्तरेण कर्माणि पौरुषेण फलोदयः ||३||
तदिदं भाषितं वाक्यं तथा च न तथैव च |
न चैतदेवं द्रष्टव्यमसाध्यमिति किञ्चन ||४||
किं चैतन्मन्यसे कृच्छ्रमस्माकं पापमादितः |
कुर्वन्ति तेषां कर्माणि येषां नास्ति फलोदयः ||५||
सम्पाद्यमानं सम्यक्च स्यात्कर्म सफलं प्रभो |
स तथा कृष्ण वर्तस्व यथा शर्म भवेत्परैः ||६||
पाण्डवानां कुरूणां च भवान्परमकः सुहृत् |
सुराणामसुराणां च यथा वीर प्रजापतिः ||७||
कुरूणां पाण्डवानां च प्रतिपत्स्व निरामयम् |
अस्मद्धितमनुष्ठातुं न मन्ये तव दुष्करम् ||८||
एवं चेत्कार्यतामेति कार्यं तव जनार्दन |
गमनादेवमेव त्वं करिष्यसि न संशयः ||९||
चिकीर्षितमथान्यत्ते तस्मिन्वीर दुरात्मनि |
भविष्यति तथा सर्वं यथा तव चिकीर्षितम् ||१०||
शर्म तैः सह वा नोऽस्तु तव वा यच्चिकीर्षितम् |
विचार्यमाणो यः कामस्तव कृष्ण स नो गुरुः ||११||
न स नार्हति दुष्टात्मा वधं ससुतबान्धवः |
येन धर्मसुते दृष्ट्वा न सा श्रीरुपमर्षिता ||१२||
यच्चाप्यपश्यतोपायं धर्मिष्ठं मधुसूदन |
उपायेन नृशंसेन हृता दुर्द्यूतदेविना ||१३||
कथं हि पुरुषो जातः क्षत्रियेषु धनुर्धरः |
समाहूतो निवर्तेत प्राणत्यागेऽप्युपस्थिते ||१४||
अधर्मेण जितान्दृष्ट्वा वने प्रव्रजितांस्तथा |
वध्यतां मम वार्ष्णेय निर्गतोऽसौ सुयोधनः ||१५||
न चैतदद्भुतं कृष्ण मित्रार्थे यच्चिकीर्षसि |
क्रिया कथं नु मुख्या स्यान्मृदुना वेतरेण वा ||१६||
अथ वा मन्यसे ज्यायान्वधस्तेषामनन्तरम् |
तदेव क्रियतामाशु न विचार्यमतस्त्वया ||१७||
जानासि हि यथा तेन द्रौपदी पापबुद्धिना |
परिक्लिष्टा सभामध्ये तच्च तस्यापि मर्षितम् ||१८||
स नाम सम्यग्वर्तेत पाण्डवेष्विति माधव |
न मे सञ्जायते बुद्धिर्बीजमुप्तमिवोषरे ||१९||
तस्माद्यन्मन्यसे युक्तं पाण्डवानां च यद्धितम् |
तदाशु कुरु वार्ष्णेय यन्नः कार्यमनन्तरम् ||२०||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
077-अध्यायः
भगवानुवाच||
एवमेतन्महाबाहो यथा वदसि पाण्डव |
सर्वं त्विदं समायत्तं बीभत्सो कर्मणोर्द्वयोः ||१||
क्षेत्रं हि रसवच्छुद्धं कर्षकेणोपपादितम् |
ऋते वर्षं न कौन्तेय जातु निर्वर्तयेत्फलम् ||२||
तत्र वै पौरुषं ब्रूयुरासेकं यत्नकारितम् |
तत्र चापि ध्रुवं पश्येच्छोषणं दैवकारितम् ||३||
तदिदं निश्चितं बुद्ध्या पूर्वैरपि महात्मभिः |
दैवे च मानुषे चैव संयुक्तं लोककारणम् ||४||
अहं हि तत्करिष्यामि परं पुरुषकारतः |
दैवं तु न मया शक्यं कर्म कर्तुं कथञ्चन ||५||
स हि धर्मं च सत्यं च त्यक्त्वा चरति दुर्मतिः |
न हि सन्तप्यते तेन तथारूपेण कर्मणा ||६||
तां चापि बुद्धिं पापिष्ठां वर्धयन्त्यस्य मन्त्रिणः |
शकुनिः सूतपुत्रश्च भ्राता दुःशासनस्तथा ||७||
स हि त्यागेन राज्यस्य न शमं समुपेष्यति |
अन्तरेण वधात्पार्थ सानुबन्धः सुयोधनः ||८||
न चापि प्रणिपातेन त्यक्तुमिच्छति धर्मराट् |
याच्यमानस्तु राज्यं स न प्रदास्यति दुर्मतिः ||९||
न तु मन्ये स तद्वाच्यो यद्युधिष्ठिरशासनम् |
उक्तं प्रयोजनं तत्र धर्मराजेन भारत ||१०||
तथा पापस्तु तत्सर्वं न करिष्यति कौरवः |
तस्मिंश्चाक्रियमाणेऽसौ लोकवध्यो भविष्यति ||११||
मम चापि स वध्यो वै जगतश्चापि भारत |
येन कौमारके यूयं सर्वे विप्रकृतास्तथा ||१२||
विप्रलुप्तं च वो राज्यं नृशंसेन दुरात्मना |
न चोपशाम्यते पापः श्रियं दृष्ट्वा युधिष्ठिरे ||१३||
असकृच्चाप्यहं तेन त्वत्कृते पार्थ भेदितः |
न मया तद्गृहीतं च पापं तस्य चिकीर्षितम् ||१४||
जानासि हि महाबाहो त्वमप्यस्य परं मतम् |
प्रियं चिकीर्षमाणं च धर्मराजस्य मामपि ||१५||
स जानंस्तस्य चात्मानं मम चैव परं मतम् |
अजानन्निव चाकस्मादर्जुनाद्याभिशङ्कसे ||१६||
यच्चापि परमं दिव्यं तच्चाप्यवगतं त्वया |
विधानविहितं पार्थ कथं शर्म भवेत्परैः ||१७||
यत्तु वाचा मया शक्यं कर्मणा चापि पाण्डव |
करिष्ये तदहं पार्थ न त्वाशंसे शमं परैः ||१८||
कथं गोहरणे ब्रूयादिच्छञ्शर्म तथाविधम् |
याच्यमानोऽपि भीष्मेण संवत्सरगतेऽध्वनि ||१९||
तदैव ते पराभूता यदा सङ्कल्पितास्त्वया |
लवशः क्षणशश्चापि न च तुष्टः सुयोधनः ||२०||
सर्वथा तु मया कार्यं धर्मराजस्य शासनम् |
विभाव्यं तस्य भूयश्च कर्म पापं दुरात्मनः ||२१||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
078-अध्यायः
नकुल उवाच||
उक्तं बहुविधं वाक्यं धर्मराजेन माधव |
धर्मज्ञेन वदान्येन धर्मयुक्तं च तत्त्वतः ||१||
मतमाज्ञाय राज्ञश्च भीमसेनेन माधव |
संशमो बाहुवीर्यं च ख्यापितं माधवात्मनः ||२||
तथैव फल्गुनेनापि यदुक्तं तत्त्वया श्रुतम् |
आत्मनश्च मतं वीर कथितं भवतासकृत् ||३||
सर्वमेतदतिक्रम्य श्रुत्वा परमतं भवान् |
यत्प्राप्तकालं मन्येथास्तत्कुर्याः पुरुषोत्तम ||४||
तस्मिंस्तस्मिन्निमित्ते हि मतं भवति केशव |
प्राप्तकालं मनुष्येण स्वयं कार्यमरिंदम ||५||
अन्यथा चिन्तितो ह्यर्थः पुनर्भवति सोऽन्यथा |
अनित्यमतयो लोके नराः पुरुषसत्तम ||६||
अन्यथा बुद्धयो ह्यासन्नस्मासु वनवासिषु |
अदृश्येष्वन्यथा कृष्ण दृश्येषु पुनरन्यथा ||७||
अस्माकमपि वार्ष्णेय वने विचरतां तदा |
न तथा प्रणयो राज्ये यथा सम्प्रति वर्तते ||८||
निवृत्तवनवासान्नः श्रुत्वा वीर समागताः |
अक्षौहिण्यो हि सप्तेमास्त्वत्प्रसादाज्जनार्दन ||९||
इमान्हि पुरुषव्याघ्रानचिन्त्यबलपौरुषान् |
आत्तशस्त्रान्रणे दृष्ट्वा न व्यथेदिह कः पुमान् ||१०||
स भवान्कुरुमध्ये तं सान्त्वपूर्वं भयान्वितम् |
ब्रूयाद्वाक्यं यथा मन्दो न व्यथेत सुयोधनः ||११||
युधिष्ठिरं भीमसेनं बीभत्सुं चापराजितम् |
सहदेवं च मां चैव त्वां च रामं च केशव ||१२||
सात्यकिं च महावीर्यं विराटं च सहात्मजम् |
द्रुपदं च सहामात्यं धृष्टद्युम्नं च पार्षतम् ||१३||
काशिराजं च विक्रान्तं धृष्टकेतुं च चेदिपम् |
मांसशोणितभृन्मर्त्यः प्रतियुध्येत को युधि ||१४||
स भवान्गमनादेव साधयिष्यत्यसंशयम् |
इष्टमर्थं महाबाहो धर्मराजस्य केवलम् ||१५||
विदुरश्चैव भीष्मश्च द्रोणश्च सहबाह्लिकः |
श्रेयः समर्था विज्ञातुमुच्यमानं त्वयानघ ||१६||
ते चैनमनुनेष्यन्ति धृतराष्ट्रं जनाधिपम् |
तं च पापसमाचारं सहामात्यं सुयोधनम् ||१७||
श्रोता चार्थस्य विदुरस्त्वं च वक्ता जनार्दन |
कमिवार्थं विवर्तन्तं स्थापयेतां न वर्त्मनि ||१८||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
079-अध्यायः
सहदेव उवाच||
यदेतत्कथितं राज्ञा धर्म एष सनातनः |
यथा तु युद्धमेव स्यात्तथा कार्यमरिंदम ||१||
यदि प्रशममिच्छेयुः कुरवः पाण्डवैः सह |
तथापि युद्धं दाशार्ह योजयेथाः सहैव तैः ||२||
कथं नु दृष्ट्वा पाञ्चालीं तथा क्लिष्टां सभागताम् |
अवधेन प्रशाम्येत मम मन्युः सुयोधने ||३||
यदि भीमार्जुनौ कृष्ण धर्मराजश्च धार्मिकः |
धर्ममुत्सृज्य तेनाहं योद्धुमिच्छामि संयुगे ||४||
सात्यकिरुवाच||
सत्यमाह महाबाहो सहदेवो महामतिः |
दुर्योधनवधे शान्तिस्तस्य कोपस्य मे भवेत् ||५||
जानासि हि यथा दृष्ट्वा चीराजिनधरान्वने |
तवापि मन्युरुद्भूतो दुःखितान्प्रेक्ष्य पाण्डवान् ||६||
तस्मान्माद्रीसुतः शूरो यदाह पुरुषर्षभः |
वचनं सर्वयोधानां तन्मतं पुरुषोत्तम ||७||
वैशम्पायन उवाच||
एवं वदति वाक्यं तु युयुधाने महामतौ |
सुभीमः सिंहनादोऽभूद्योधानां तत्र सर्वशः ||८||
सर्वे हि सर्वतो वीरास्तद्वचः प्रत्यपूजयन् |
साधु साध्विति शैनेयं हर्षयन्तो युयुत्सवः ||९||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
080-अध्यायः
वैशम्पायन उवाच||
राज्ञस्तु वचनं श्रुत्वा धर्मार्थसहितं हितम् |
कृष्णा दाशार्हमासीनमब्रवीच्छोककर्षिता ||१||
सुता द्रुपदराजस्य स्वसितायतमूर्धजा |
सम्पूज्य सहदेवं च सात्यकिं च महारथम् ||२||
भीमसेनं च संशान्तं दृष्ट्वा परमदुर्मनाः |
अश्रुपूर्णेक्षणा वाक्यमुवाचेदं मनस्विनी ||३||
विदितं ते महाबाहो धर्मज्ञ मधुसूदन |
यथा निकृतिमास्थाय भ्रंशिताः पाण्डवाः सुखात् ||४||
धृतराष्ट्रस्य पुत्रेण सामात्येन जनार्दन |
यथा च सञ्जयो राज्ञा मन्त्रं रहसि श्रावितः ||५||
युधिष्ठिरेण दाशार्ह तच्चापि विदितं तव |
यथोक्तः सञ्जयश्चैव तच्च सर्वं श्रुतं त्वया ||६||
पञ्च नस्तात दीयन्तां ग्रामा इति महाद्युते |
कुशस्थलं वृकस्थलमासन्दी वारणावतम् ||७||
अवसानं महाबाहो किञ्चिदेव तु पञ्चमम् |
इति दुर्योधनो वाच्यः सुहृदश्चास्य केशव ||८||
तच्चापि नाकरोद्वाक्यं श्रुत्वा कृष्ण सुयोधनः |
युधिष्ठिरस्य दाशार्ह ह्रीमतः सन्धिमिच्छतः ||९||
अप्रदानेन राज्यस्य यदि कृष्ण सुयोधनः |
सन्धिमिच्छेन्न कर्तव्यस्तत्र गत्वा कथञ्चन ||१०||
शक्ष्यन्ति हि महाबाहो पाण्डवाः सृञ्जयैः सह |
धार्तराष्ट्रबलं घोरं क्रुद्धं प्रतिसमासितुम् ||११||
न हि साम्ना न दानेन शक्योऽर्थस्तेषु कश्चन |
तस्मात्तेषु न कर्तव्या कृपा ते मधुसूदन ||१२||
साम्ना दानेन वा कृष्ण ये न शाम्यन्ति शत्रवः |
मोक्तव्यस्तेषु दण्डः स्याज्जीवितं परिरक्षता ||१३||
तस्मात्तेषु महादण्डः क्षेप्तव्यः क्षिप्रमच्युत |
त्वया चैव महाबाहो पाण्डवैः सह सृञ्जयैः ||१४||
एतत्समर्थं पार्थानां तव चैव यशस्करम् |
क्रियमाणं भवेत्कृष्ण क्षत्रस्य च सुखावहम् ||१५||
क्षत्रियेण हि हन्तव्यः क्षत्रियो लोभमास्थितः |
अक्षत्रियो वा दाशार्ह स्वधर्ममनुतिष्ठता ||१६||
अन्यत्र ब्राह्मणात्तात सर्वपापेष्ववस्थितात् |
गुरुर्हि सर्ववर्णानां ब्राह्मणः प्रसृताग्रभुक् ||१७||
यथावध्ये भवेद्दोषो वध्यमाने जनार्दन |
स वध्यस्यावधे दृष्ट इति धर्मविदो विदुः ||१८||
यथा त्वां न स्पृशेदेष दोषः कृष्ण तथा कुरु |
पाण्डवैः सह दाशार्ह सृञ्जयैश्च ससैनिकैः ||१९||
पुनरुक्तं च वक्ष्यामि विश्रम्भेण जनार्दन |
का नु सीमन्तिनी मादृक्पृथिव्यामस्ति केशव ||२०||
सुता द्रुपदराजस्य वेदिमध्यात्समुत्थिता |
धृष्टद्युम्नस्य भगिनी तव कृष्ण प्रिया सखी ||२१||
आजमीढकुलं प्राप्ता स्नुषा पाण्डोर्महात्मनः |
महिषी पाण्डुपुत्राणां पञ्चेन्द्रसमवर्चसाम् ||२२||
सुता मे पञ्चभिर्वीरैः पञ्च जाता महारथाः |
अभिमन्युर्यथा कृष्ण तथा ते तव धर्मतः ||२३||
साहं केशग्रहं प्राप्ता परिक्लिष्टा सभां गता |
पश्यतां पाण्डुपुत्राणां त्वयि जीवति केशव ||२४||
जीवत्सु कौरवेयेषु पाञ्चालेष्वथ वृष्णिषु |
दासीभूतास्मि पापानां सभामध्ये व्यवस्थिता ||२५||
निरामर्षेष्वचेष्टेषु प्रेक्षमाणेषु पाण्डुषु |
त्राहि मामिति गोविन्द मनसा काङ्क्षितोऽसि मे ||२६||
यत्र मां भगवान्राजा श्वशुरो वाक्यमब्रवीत् |
वरं वृणीष्व पाञ्चालि वरार्हासि मतासि मे ||२७||
अदासाः पाण्डवाः सन्तु सरथाः सायुधा इति |
मयोक्ते यत्र निर्मुक्ता वनवासाय केशव ||२८||
एवंविधानां दुःखानामभिज्ञोऽसि जनार्दन |
त्राहि मां पुण्डरीकाक्ष सभर्तृज्ञातिबान्धवाम् ||२९||
नन्वहं कृष्ण भीष्मस्य धृतराष्ट्रस्य चोभयोः |
स्नुषा भवामि धर्मेण साहं दासीकृताभवम् ||३०||
धिग्बलं भीमसेनस्य धिक्पार्थस्य धनुष्मताम् |
यत्र दुर्योधनः कृष्ण मुहूर्तमपि जीवति ||३१||
यदि तेऽहमनुग्राह्या यदि तेऽस्ति कृपा मयि |
धार्तराष्ट्रेषु वै कोपः सर्वः कृष्ण विधीयताम् ||३२||
इत्युक्त्वा मृदुसंहारं वृजिनाग्रं सुदर्शनम् |
सुनीलमसितापाङ्गी पुण्यगन्धाधिवासितम् ||३३||
सर्वलक्षणसम्पन्नं महाभुजगवर्चसम् |
केशपक्षं वरारोहा गृह्य सव्येन पाणिना ||३४||
पद्माक्षी पुण्डरीकाक्षमुपेत्य गजगामिनी |
अश्रुपूर्णेक्षणा कृष्णा कृष्णं वचनमब्रवीत् ||३५||
अयं ते पुण्डरीकाक्ष दुःशासनकरोद्धृतः |
स्मर्तव्यः सर्वकालेषु परेषां सन्धिमिच्छता ||३६||
यदि भीमार्जुनौ कृष्ण कृपणौ सन्धिकामुकौ |
पिता मे योत्स्यते वृद्धः सह पुत्रैर्महारथैः ||३७||
पञ्च चैव महावीर्याः पुत्रा मे मधुसूदन |
अभिमन्युं पुरस्कृत्य योत्स्यन्ति कुरुभिः सह ||३८||
दुःशासनभुजं श्यामं सञ्छिन्नं पांसुगुण्ठितम् |
यद्यहं तं न पश्यामि का शान्तिर्हृदयस्य मे ||३९||
त्रयोदश हि वर्षाणि प्रतीक्षन्त्या गतानि मे |
निधाय हृदये मन्युं प्रदीप्तमिव पावकम् ||४०||
विदीर्यते मे हृदयं भीमवाक्षल्यपीडितम् |
योऽयमद्य महाबाहुर्धर्मं समनुपश्यति ||४१||
इत्युक्त्वा बाष्पसन्नेन कण्ठेनायतलोचना |
रुरोद कृष्णा सोत्कम्पं सस्वरं बाष्पगद्गदम् ||४२||
स्तनौ पीनायतश्रोणी सहितावभिवर्षती |
द्रवीभूतमिवात्युष्णमुत्सृजद्वारि नेत्रजम् ||४३||
तामुवाच महाबाहुः केशवः परिसान्त्वयन् |
अचिराद्द्रक्ष्यसे कृष्णे रुदतीर्भरतस्त्रियः ||४४||
एवं ता भीरु रोत्स्यन्ति निहतज्ञातिबान्धवाः |
हतमित्रा हतबला येषां क्रुद्धासि भामिनि ||४५||
अहं च तत्करिष्यामि भीमार्जुनयमैः सह |
युधिष्ठिरनियोगेन दैवाच्च विधिनिर्मितात् ||४६||
धार्तराष्ट्राः कालपक्वा न चेच्छृण्वन्ति मे वचः |
शेष्यन्ते निहता भूमौ श्वशृगालादनीकृताः ||४७||
चलेद्धि हिमवाञ्शैलो मेदिनी शतधा भवेत् |
द्यौः पतेच्च सनक्षत्रा न मे मोघं वचो भवेत् ||४८||
सत्यं ते प्रतिजानामि कृष्णे बाष्पो निगृह्यताम् |
हतामित्राञ्श्रिया युक्तानचिराद्द्रक्ष्यसे पतीन् ||४९||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
081-अध्यायः
अर्जुन उवाच||
कुरूणामद्य सर्वेषां भवान्सुहृदनुत्तमः |
सम्बन्धी दयितो नित्यमुभयोः पक्षयोरपि ||१||
पाण्डवैर्धार्तराष्ट्राणां प्रतिपाद्यमनामयम् |
समर्थः प्रशमं चैषां कर्तुं त्वमसि केशव ||२||
त्वमितः पुण्डरीकाक्ष सुयोधनममर्षणम् |
शान्त्यर्थं भारतं ब्रूया यत्तद्वाच्यममित्रहन् ||३||
त्वया धर्मार्थयुक्तं चेदुक्तं शिवमनामयम् |
हितं नादास्यते बालो दिष्टस्य वशमेष्यति ||४||
भगवानुवाच||
धर्म्यमस्मद्धितं चैव कुरूणां यदनामयम् |
एष यास्यामि राजानं धृतराष्ट्रमभीप्सया ||५||
वैशम्पायन उवाच||
ततो व्यपेते तमसि सूर्ये विमल उद्गते |
मैत्रे मुहूर्ते सम्प्राप्ते मृद्वर्चिषि दिवाकरे ||६||
कौमुदे मासि रेवत्यां शरदन्ते हिमागमे |
स्फीतसस्यसुखे काले कल्यः सत्त्ववतां वरः ||७||
मङ्गल्याः पुण्यनिर्घोषा वाचः शृण्वंश्च सूनृताः |
ब्राह्मणानां प्रतीतानामृषीणामिव वासवः ||८||
कृत्वा पौर्वाह्णिकं कृत्यं स्नातः शुचिरलङ्कृतः |
उपतस्थे विवस्वन्तं पावकं च जनार्दनः ||९||
ऋषभं पृष्ठ आलभ्य ब्राह्मणानभिवाद्य च |
अग्निं प्रदक्षिणं कृत्वा पश्यन्कल्याणमग्रतः ||१०||
तत्प्रतिज्ञाय वचनं पाण्डवस्य जनार्दनः |
शिनेर्नप्तारमासीनमभ्यभाषत सात्यकिम् ||११||
रथ आरोप्यतां शङ्खश्चक्रं च गदया सह |
उपासङ्गाश्च शक्त्यश्च सर्वप्रहरणानि च ||१२||
दुर्योधनो हि दुष्टात्मा कर्णश्च सहसौबलः |
न च शत्रुरवज्ञेयः प्राकृतोऽपि बलीयसा ||१३||
ततस्तन्मतमाज्ञाय केशवस्य पुरःसराः |
प्रसस्रुर्योजयिष्यन्तो रथं चक्रगदाभृतः ||१४||
तं दीप्तमिव कालाग्निमाकाशगमिवाध्वगम् |
चन्द्रसूर्यप्रकाशाभ्यां चक्राभ्यां समलङ्कृतम् ||१५||
अर्धचन्द्रैश्च चन्द्रैश्च मत्स्यैः समृगपक्षिभिः |
पुष्पैश्च विविधैश्चित्रं मणिरत्नैश्च सर्वशः ||१६||
तरुणादित्यसङ्काशं बृहन्तं चारुदर्शनम् |
मणिहेमविचित्राङ्गं सुध्वजं सुपताकिनम् ||१७||
सूपस्करमनाधृष्यं वैयाघ्रपरिवारणम् |
यशोघ्नं प्रत्यमित्राणां यदूनां नन्दिवर्धनम् ||१८||
वाजिभिः सैन्यसुग्रीवमेघपुष्पबलाहकैः |
स्नातैः सम्पादयां चक्रुः सम्पन्नैः सर्वसम्पदा ||१९||
महिमानं तु कृष्णस्य भूय एवाभिवर्धयन् |
सुघोषः पतगेन्द्रेण ध्वजेन युयुजे रथः ||२०||
तं मेरुशिखरप्रख्यं मेघदुन्दुभिनिस्वनम् |
आरुरोह रथं शौरिर्विमानमिव पुण्यकृत् ||२१||
ततः सात्यकिमारोप्य प्रययौ पुरुषोत्तमः |
पृथिवीं चान्तरिक्षं च रथघोषेण नादयन् ||२२||
व्यपोढाभ्रघनः कालः क्षणेन समपद्यत |
शिवश्चानुववौ वायुः प्रशान्तमभवद्रजः ||२३||
प्रदक्षिणानुलोमाश्च मङ्गल्या मृगपक्षिणः |
प्रयाणे वासुदेवस्य बभूवुरनुयायिनः ||२४||
मङ्गल्यार्थपदैः शब्दैरन्ववर्तन्त सर्वशः |
सारसाः शतपत्राश्च हंसाश्च मधुसूदनम् ||२५||
मन्त्राहुतिमहाहोमैर्हूयमानश्च पावकः |
प्रदक्षिणशिखो भूत्वा विधूमः समपद्यत ||२६||
वसिष्ठो वामदेवश्च भूरिद्युम्नो गयः क्रथः |
शुक्रनारदवाल्मीका मरुतः कुशिको भृगुः ||२७||
ब्रह्मदेवर्षयश्चैव कृष्णं यदुसुखावहम् |
प्रदक्षिणमवर्तन्त सहिता वासवानुजम् ||२८||
एवमेतैर्महाभागैर्महर्षिगणसाधुभिः |
पूजितः प्रययौ कृष्णः कुरूणां सदनं प्रति ||२९||
तं प्रयान्तमनुप्रायात्कुन्तीपुत्रो युधिष्ठिरः |
भीमसेनार्जुनौ चोभौ माद्रीपुत्रौ च पाण्डवौ ||३०||
चेकितानश्च विक्रान्तो धृष्टकेतुश्च चेदिपः |
द्रुपदः काशिराजश्च शिखण्डी च महारथः ||३१||
धृष्टद्युम्नः सपुत्रश्च विराटः केकयैः सह |
संसाधनार्थं प्रययुः क्षत्रियाः क्षत्रियर्षभम् ||३२||
ततोऽनुव्रज्य गोविन्दं धर्मराजो युधिष्ठिरः |
राज्ञां सकाशे द्युतिमानुवाचेदं वचस्तदा ||३३||
यो नैव कामान्न भयान्न लोभान्नार्थकारणात् |
अन्यायमनुवर्तेत स्थिरबुद्धिरलोलुपः ||३४||
धर्मज्ञो धृतिमान्प्राज्ञः सर्वभूतेषु केशवः |
ईश्वरः सर्वभूतानां देवदेवः प्रतापवान् ||३५||
तं सर्वगुणसम्पन्नं श्रीवत्सकृतलक्षणम् |
सम्परिष्वज्य कौन्तेयः संदेष्टुमुपचक्रमे ||३६||
या सा बाल्यात्प्रभृत्यस्मान्पर्यवर्धयताबला |
उपवासतपःशीला सदा स्वस्त्ययने रता ||३७||
देवतातिथिपूजासु गुरुशुश्रूषणे रता |
वत्सला प्रियपुत्रा च प्रियास्माकं जनार्दन ||३८||
सुयोधनभयाद्या नोऽत्रायतामित्रकर्शन |
महतो मृत्युसम्बाधादुत्तरन्नौरिवार्णवात् ||३९||
अस्मत्कृते च सततं यया दुःखानि माधव |
अनुभूतान्यदुःखार्हा तां स्म पृच्छेरनामयम् ||४०||
भृशमाश्वासयेश्चैनां पुत्रशोकपरिप्लुताम् |
अभिवाद्य स्वजेथाश्च पाण्डवान्परिकीर्तयन् ||४१||
ऊढात्प्रभृति दुःखानि श्वशुराणामरिंदम |
निकारानतदर्हा च पश्यन्ती दुःखमश्नुते ||४२||
अपि जातु स कालः स्यात्कृष्ण दुःखविपर्ययः |
यदहं मातरं क्लिष्टां सुखे दध्यामरिंदम ||४३||
प्रव्रजन्तोऽन्वधावत्सा कृपणा पुत्रगृद्धिनी |
रुदतीमपहायैनामुपगच्छाम यद्वनम् ||४४||
न नूनं म्रियते दुःखैः सा चेज्जीवति केशव |
तथा पुत्राधिभिर्गाढमार्ता ह्यानर्तसत्कृता ||४५||
अभिवाद्या तु सा कृष्ण त्वया मद्वचनाद्विभो |
धृतराष्ट्रश्च कौरव्यो राजानश्च वयोऽधिकाः ||४६||
भीष्मं द्रोणं कृपं चैव महाराजं च बाह्लिकम् |
द्रौणिं च सोमदत्तं च सर्वांश्च भरतान्पृथक् ||४७||
विदुरं च महाप्राज्ञं कुरूणां मन्त्रधारिणम् |
अगाधबुद्धिं धर्मज्ञं स्वजेथा मधुसूदन ||४८||
इत्युक्त्वा केशवं तत्र राजमध्ये युधिष्ठिरः |
अनुज्ञातो निववृते कृष्णं कृत्वा प्रदक्षिणम् ||४९||
व्रजन्नेव तु बीभत्सुः सखायं पुरुषर्षभम् |
अब्रवीत्परवीरघ्नं दाशार्हमपराजितम् ||५०||
यदस्माकं विभो वृत्तं पुरा वै मन्त्रनिश्चये |
अर्धराज्यस्य गोविन्द विदितं सर्वराजसु ||५१||
तच्चेद्दद्यादसङ्गेन सत्कृत्यानवमन्य च |
प्रियं मे स्यान्महाबाहो मुच्येरन्महतो भयात् ||५२||
अतश्चेदन्यथा कर्ता धार्तराष्ट्रोऽनुपायवित् |
अन्तं नूनं करिष्यामि क्षत्रियाणां जनार्दन ||५३||
एवमुक्ते पाण्डवेन पर्यहृष्यद्वृकोदरः |
मुहुर्मुहुः क्रोधवशात्प्रावेपत च पाण्डवः ||५४||
वेपमानश्च कौन्तेयः प्राक्रोशन्महतो रवान् |
धनञ्जयवचः श्रुत्वा हर्षोत्सिक्तमना भृशम् ||५५||
तस्य तं निनदं श्रुत्वा सम्प्रावेपन्त धन्विनः |
वाहनानि च सर्वाणि शकृन्मूत्रं प्रसुस्रुवुः ||५६||
इत्युक्त्वा केशवं तत्र तथा चोक्त्वा विनिश्चयम् |
अनुज्ञातो निववृते परिष्वज्य जनार्दनम् ||५७||
तेषु राजसु सर्वेषु निवृत्तेषु जनार्दनः |
तूर्णमभ्यपतद्धृष्टः सैन्यसुग्रीववाहनः ||५८||
ते हया वासुदेवस्य दारुकेण प्रचोदिताः |
पन्थानमाचेमुरिव ग्रसमाना इवाम्बरम् ||५९||
अथापश्यन्महाबाहुरृषीनध्वनि केशवः |
ब्राह्म्या श्रिया दीप्यमानान्स्थितानुभयतः पथि ||६०||
सोऽवतीर्य रथात्तूर्णमभिवाद्य जनार्दनः |
यथावत्तानृषीन्सर्वानभ्यभाषत पूजयन् ||६१||
कच्चिल्लोकेषु कुशलं कच्चिद्धर्मः स्वनुष्ठितः |
ब्राह्मणानां त्रयो वर्णाः कच्चित्तिष्ठन्ति शासने ||६२||
तेभ्यः प्रयुज्य तां पूजां प्रोवाच मधुसूदनः |
भगवन्तः क्व संसिद्धाः का वीथी भवतामिह ||६३||
किं वा भगवतां कार्यमहं किं करवाणि वः |
केनार्थेनोपसम्प्राप्ता भगवन्तो महीतलम् ||६४||
तमब्रवीज्जामदग्न्य उपेत्य मधुसूदनम् |
परिष्वज्य च गोविन्दं पुरा सुचरिते सखा ||६५||
देवर्षयः पुण्यकृतो ब्राह्मणाश्च बहुश्रुताः |
राजर्षयश्च दाशार्ह मानयन्तस्तपस्विनः ||६६||
देवासुरस्य द्रष्टारः पुराणस्य महाद्युते |
समेतं पार्थिवं क्षत्रं दिदृक्षन्तश्च सर्वतः ||६७||
सभासदश्च राजानस्त्वां च सत्यं जनार्दन |
एतन्महत्प्रेक्षणीयं द्रष्टुं गच्छाम केशव ||६८||
धर्मार्थसहिता वाचः श्रोतुमिच्छाम माधव |
त्वयोच्यमानाः कुरुषु राजमध्ये परन्तप ||६९||
भीष्मद्रोणादयश्चैव विदुरश्च महामतिः |
त्वं च यादवशार्दूल सभायां वै समेष्यथ ||७०||
तव वाक्यानि दिव्यानि तत्र तेषां च माधव |
श्रोतुमिच्छाम गोविन्द सत्यानि च शुभानि च ||७१||
आपृष्टोऽसि महाबाहो पुनर्द्रक्ष्यामहे वयम् |
याह्यविघ्नेन वै वीर द्रक्ष्यामस्त्वां सभागतम् ||७२||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
082-अध्यायः
वैशम्पायन उवाच||
प्रयान्तं देवकीपुत्रं परवीररुजो दश |
महारथा महाबाहुमन्वयुः शस्त्रपाणयः ||१||
पदातीनां सहस्रं च सादिनां च परन्तप |
भोज्यं च विपुलं राजन्प्रेष्याश्च शतशोऽपरे ||२||
जनमेजय उवाच||
कथं प्रयातो दाशार्हो महात्मा मधुसूदनः |
कानि वा व्रजतस्तस्य निमित्तानि महौजसः ||३||
वैशम्पायन उवाच||
तस्य प्रयाणे यान्यासन्नद्भुतानि महात्मनः |
तानि मे शृणु दिव्यानि दैवान्यौत्पातिकानि च ||४||
अनभ्रेऽशनिनिर्घोषः सविद्युत्समजायत |
अन्वगेव च पर्जन्यः प्रावर्षद्विघने भृशम् ||५||
प्रत्यगूहुर्महानद्यः प्राङ्मुखाः सिन्धुसत्तमाः |
विपरीता दिशः सर्वा न प्राज्ञायत किञ्चन ||६||
प्राज्वलन्नग्नयो राजन्पृथिवी समकम्पत |
उदपानाश्च कुम्भाश्च प्रासिञ्चञ्शतशो जलम् ||७||
तमःसंवृतमप्यासीत्सर्वं जगदिदं तदा |
न दिशो नादिशो राजन्प्रज्ञायन्ते स्म रेणुना ||८||
प्रादुरासीन्महाञ्शब्दः खे शरीरं न दृश्यते |
सर्वेषु राजन्देशेषु तदद्भुतमिवाभवत् ||९||
प्रामथ्नाद्धास्तिनपुरं वातो दक्षिणपश्चिमः |
आरुजन्गणशो वृक्षान्परुषो भीमनिस्वनः ||१०||
यत्र यत्र तु वार्ष्णेयो वर्तते पथि भारत |
तत्र तत्र सुखो वायुः सर्वं चासीत्प्रदक्षिणम् ||११||
ववर्ष पुष्पवर्षं च कमलानि च भूरिशः |
समश्च पन्था निर्दुःखो व्यपेतकुशकण्टकः ||१२||
स गच्छन्ब्राह्मणै राजंस्तत्र तत्र महाभुजः |
अर्च्यते मधुपर्कैश्च सुमनोभिर्वसुप्रदः ||१३||
तं किरन्ति महात्मानं वन्यैः पुष्पैः सुगन्धिभिः |
स्त्रियः पथि समागम्य सर्वभूतहिते रतम् ||१४||
स शालिभवनं रम्यं सर्वसस्यसमाचितम् |
सुखं परमधर्मिष्ठमत्यगाद्भरतर्षभ ||१५||
पश्यन्बहुपशून्ग्रामान्रम्यान्हृदयतोषणान् |
पुराणि च व्यतिक्रामन्राष्ट्राणि विविधानि च ||१६||
नित्यहृष्टाः सुमनसो भारतैरभिरक्षिताः |
नोद्विग्नाः परचक्राणामनयानामकोविदाः ||१७||
उपप्लव्यादथायान्तं जनाः पुरनिवासिनः |
पथ्यतिष्ठन्त सहिता विष्वक्सेनदिदृक्षया ||१८||
ते तु सर्वे सुनामानमग्निमिद्धमिव प्रभुम् |
अर्चयामासुरर्च्यं तं देशातिथिमुपस्थितम् ||१९||
वृकस्थलं समासाद्य केशवः परवीरहा |
प्रकीर्णरश्मावादित्ये विमले लोहितायति ||२०||
अवतीर्य रथात्तूर्णं कृत्वा शौचं यथाविधि |
रथमोचनमादिश्य सन्ध्यामुपविवेश ह ||२१||
दारुकोऽपि हयान्मुक्त्वा परिचर्य च शास्त्रतः |
मुमोच सर्वं वर्माणि मुक्त्वा चैनानवासृजत् ||२२||
अभ्यतीत्य तु तत्सर्वमुवाच मधुसूदनः |
युधिष्ठिरस्य कार्यार्थमिह वत्स्यामहे क्षपाम् ||२३||
तस्य तन्मतमाज्ञाय चक्रुरावसथं नराः |
क्षणेन चान्नपानानि गुणवन्ति समार्जयन् ||२४||
तस्मिन्ग्रामे प्रधानास्तु य आसन्ब्राह्मणा नृप |
आर्याः कुलीना ह्रीमन्तो ब्राह्मीं वृत्तिमनुष्ठिताः ||२५||
तेऽभिगम्य महात्मानं हृषीकेशमरिंदमम् |
पूजां चक्रुर्यथान्यायमाशीर्मङ्गलसंयुताम् ||२६||
ते पूजयित्वा दाशार्हं सर्वलोकेषु पूजितम् |
न्यवेदयन्त वेश्मानि रत्नवन्ति महात्मने ||२७||
तान्प्रभुः कृतमित्युक्त्वा सत्कृत्य च यथार्हतः |
अभ्येत्य तेषां वेश्मानि पुनरायात्सहैव तैः ||२८||
सुमृष्टं भोजयित्वा च ब्राह्मणांस्तत्र केशवः |
भुक्त्वा च सह तैः सर्वैरवसत्तां क्षपां सुखम् ||२९||