श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
116-अध्यायः
नारद उवाच||
तथैव सा श्रियं त्यक्त्वा कन्या भूत्वा यशस्विनी |
माधवी गालवं विप्रमन्वयात्सत्यसङ्गरा ||१||
गालवो विमृशन्नेव स्वकार्यगतमानसः |
जगाम भोजनगरं द्रष्टुमौशीनरं नृपम् ||२||
तमुवाचाथ गत्वा स नृपतिं सत्यविक्रमम् |
इयं कन्या सुतौ द्वौ ते जनयिष्यति पार्थिवौ ||३||
अस्यां भवानवाप्तार्थो भविता प्रेत्य चेह च |
सोमार्कप्रतिसङ्काशौ जनयित्वा सुतौ नृप ||४||
शुल्कं तु सर्वधर्मज्ञ हयानां चन्द्रवर्चसाम् |
एकतःश्यामकर्णानां देयं मह्यं चतुःशतम् ||५||
गुर्वर्थोऽयं समारम्भो न हयैः कृत्यमस्ति मे |
यदि शक्यं महाराज क्रियतां मा विचार्यताम् ||६||
अनपत्योऽसि राजर्षे पुत्रौ जनय पार्थिव |
पितॄन्पुत्रप्लवेन त्वमात्मानं चैव तारय ||७||
न पुत्रफलभोक्ता हि राजर्षे पात्यते दिवः |
न याति नरकं घोरं यत्र गच्छन्त्यनात्मजाः ||८||
एतच्चान्यच्च विविधं श्रुत्वा गालवभाषितम् |
उशीनरः प्रतिवचो ददौ तस्य नराधिपः ||९||
श्रुतवानस्मि ते वाक्यं यथा वदसि गालव |
विधिस्तु बलवान्ब्रह्मन्प्रवणं हि मनो मम ||१०||
शते द्वे तु ममाश्वानामीदृशानां द्विजोत्तम |
इतरेषां सहस्राणि सुबहूनि चरन्ति मे ||११||
अहमप्येकमेवास्यां जनयिष्यामि गालव |
पुत्रं द्विज गतं मार्गं गमिष्यामि परैरहम् ||१२||
मूल्येनापि समं कुर्यां तवाहं द्विजसत्तम |
पौरजानपदार्थं तु ममार्थो नात्मभोगतः ||१३||
कामतो हि धनं राजा पारक्यं यः प्रयच्छति |
न स धर्मेण धर्मात्मन्युज्यते यशसा न च ||१४||
सोऽहं प्रतिग्रहीष्यामि ददात्वेतां भवान्मम |
कुमारीं देवगर्भाभामेकपुत्रभवाय मे ||१५||
तथा तु बहुकल्याणमुक्तवन्तं नराधिपम् |
उशीनरं द्विजश्रेष्ठो गालवः प्रत्यपूजयत् ||१६||
उशीनरं प्रतिग्राह्य गालवः प्रययौ वनम् |
रेमे स तां समासाद्य कृतपुण्य इव श्रियम् ||१७||
कन्दरेषु च शैलानां नदीनां निर्झरेषु च |
उद्यानेषु विचित्रेषु वनेषूपवनेषु च ||१८||
हर्म्येषु रमणीयेषु प्रासादशिखरेषु च |
वातायनविमानेषु तथा गर्भगृहेषु च ||१९||
ततोऽस्य समये जज्ञे पुत्रो बालरविप्रभः |
शिबिर्नाम्नाभिविख्यातो यः स पार्थिवसत्तमः ||२०||
उपस्थाय स तं विप्रो गालवः प्रतिगृह्य च |
कन्यां प्रयातस्तां राजन्दृष्टवान्विनतात्मजम् ||२१||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
117-अध्यायः
नारद उवाच||
गालवं वैनतेयोऽथ प्रहसन्निदमब्रवीत् |
दिष्ट्या कृतार्थं पश्यामि भवन्तमिह वै द्विज ||१||
गालवस्तु वचः श्रुत्वा वैनतेयेन भाषितम् |
चतुर्भागावशिष्टं तदाचख्यौ कार्यमस्य हि ||२||
सुपर्णस्त्वब्रवीदेनं गालवं पततां वरः |
प्रयत्नस्ते न कर्तव्यो नैष सम्पत्स्यते तव ||३||
पुरा हि कन्यकुब्जे वै गाधेः सत्यवतीं सुताम् |
भार्यार्थेऽवरयत्कन्यामृचीकस्तेन भाषितः ||४||
एकतःश्यामकर्णानां हयानां चन्द्रवर्चसाम् |
भगवन्दीयतां मह्यं सहस्रमिति गालव ||५||
ऋचीकस्तु तथेत्युक्त्वा वरुणस्यालयं गतः |
अश्वतीर्थे हयाँल्लब्ध्वा दत्तवान्पार्थिवाय वै ||६||
इष्ट्वा ते पुण्डरीकेण दत्ता राज्ञा द्विजातिषु |
तेभ्यो द्वे द्वे शते क्रीत्वा प्राप्तास्ते पार्थिवैस्तदा ||७||
अपराण्यपि चत्वारि शतानि द्विजसत्तम |
नीयमानानि सन्तारे हृतान्यासन्वितस्तया ||८||
एवं न शक्यमप्राप्यं प्राप्तुं गालव कर्हिचित् ||८||
इमामश्वशताभ्यां वै द्वाभ्यां तस्मै निवेदय |
विश्वामित्राय धर्मात्मन्षड्भिरश्वशतैः सह ||९||
ततोऽसि गतसंमोहः कृतकृत्यो द्विजर्षभ ||९||
गालवस्तं तथेत्युक्त्वा सुपर्णसहितस्ततः |
आदायाश्वांश्च कन्यां च विश्वामित्रमुपागमत् ||१०||
गालव उवाच||
अश्वानां काङ्क्षितार्थानां षडिमानि शतानि वै |
शतद्वयेन कन्येयं भवता प्रतिगृह्यताम् ||११||
अस्यां राजर्षिभिः पुत्रा जाता वै धार्मिकास्त्रयः |
चतुर्थं जनयत्वेकं भवानपि नरोत्तम ||१२||
पूर्णान्येवं शतान्यष्टौ तुरगाणां भवन्तु ते |
भवतो ह्यनृणो भूत्वा तपः कुर्यां यथासुखम् ||१३||
नारद उवाच||
विश्वामित्रस्तु तं दृष्ट्वा गालवं सह पक्षिणा |
कन्यां च तां वरारोहामिदमित्यब्रवीद्वचः ||१४||
किमियं पूर्वमेवेह न दत्ता मम गालव |
पुत्रा ममैव चत्वारो भवेयुः कुलभावनाः ||१५||
प्रतिगृह्णामि ते कन्यामेकपुत्रफलाय वै |
अश्वाश्चाश्रममासाद्य तिष्ठन्तु मम सर्वशः ||१६||
स तया रममाणोऽथ विश्वामित्रो महाद्युतिः |
आत्मजं जनयामास माधवीपुत्रमष्टकम् ||१७||
जातमात्रं सुतं तं च विश्वामित्रो महाद्युतिः |
संयोज्यार्थैस्तथा धर्मैरश्वैस्तैः समयोजयत् ||१८||
अथाष्टकः पुरं प्रायात्तदा सोमपुरप्रभम् |
निर्यात्य कन्यां शिष्याय कौशिकोऽपि वनं ययौ ||१९||
गालवोऽपि सुपर्णेन सह निर्यात्य दक्षिणाम् |
मनसाभिप्रतीतेन कन्यामिदमुवाच ह ||२०||
जातो दानपतिः पुत्रस्त्वया शूरस्तथापरः |
सत्यधर्मरतश्चान्यो यज्वा चापि तथापरः ||२१||
तदागच्छ वरारोहे तारितस्ते पिता सुतैः |
चत्वारश्चैव राजानस्तथाहं च सुमध्यमे ||२२||
गालवस्त्वभ्यनुज्ञाय सुपर्णं पन्नगाशनम् |
पितुर्निर्यात्य तां कन्यां प्रययौ वनमेव ह ||२३||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
118-अध्यायः
नारद उवाच||
स तु राजा पुनस्तस्याः कर्तुकामः स्वयंवरम् |
उपगम्याश्रमपदं गङ्गायमुनसङ्गमे ||१||
गृहीतमाल्यदामां तां रथमारोप्य माधवीम् |
पूरुर्यदुश्च भगिनीमाश्रमे पर्यधावताम् ||२||
नागयक्षमनुष्याणां पतत्रिमृगपक्षिणाम् |
शैलद्रुमवनौकानामासीत्तत्र समागमः ||३||
नानापुरुषदेशानामीश्वरैश्च समाकुलम् |
ऋषिभिर्ब्रह्मकल्पैश्च समन्तादावृतं वनम् ||४||
निर्दिश्यमानेषु तु सा वरेषु वरवर्णिनी |
वरानुत्क्रम्य सर्वांस्तान्वनं वृतवती वरम् ||५||
अवतीर्य रथात्कन्या नमस्कृत्वा च बन्धुषु |
उपगम्य वनं पुण्यं तपस्तेपे ययातिजा ||६||
उपवासैश्च विविधैर्दीक्षाभिर्नियमैस्तथा |
आत्मनो लघुतां कृत्वा बभूव मृगचारिणी ||७||
वैडूर्याङ्कुरकल्पानि मृदूनि हरितानि च |
चरन्ती शष्पमुख्यानि तिक्तानि मधुराणि च ||८||
स्रवन्तीनां च पुण्यानां सुरसानि शुचीनि च |
पिबन्ती वारिमुख्यानि शीतानि विमलानि च ||९||
वनेषु मृगराजेषु सिंहविप्रोषितेषु च |
दावाग्निविप्रमुक्तेषु शून्येषु गहनेषु च ||१०||
चरन्ती हरिणैः सार्धं मृगीव वनचारिणी |
चचार विपुलं धर्मं ब्रह्मचर्येण संवृता ||११||
ययातिरपि पूर्वेषां राज्ञां वृत्तमनुष्ठितः |
बहुवर्षसहस्रायुरयुजत्कालधर्मणा ||१२||
पूरुर्यदुश्च द्वौ वंशौ वर्धमानौ नरोत्तमौ |
ताभ्यां प्रतिष्ठितो लोके परलोके च नाहुषः ||१३||
महीयते नरपतिर्ययातिः स्वर्गमास्थितः |
महर्षिकल्पो नृपतिः स्वर्गाग्र्यफलभुग्विभुः ||१४||
बहुवर्षसहस्राख्ये काले बहुगुणे गते |
राजर्षिषु निषण्णेषु महीयःसु महर्षिषु ||१५||
अवमेने नरान्सर्वान्देवानृषिगणांस्तथा |
ययातिर्मूढविज्ञानो विस्मयाविष्टचेतनः ||१६||
ततस्तं बुबुधे देवः शक्रो बलनिषूदनः |
ते च राजर्षयः सर्वे धिग्धिगित्येवमब्रुवन् ||१७||
विचारश्च समुत्पन्नो निरीक्ष्य नहुषात्मजम् |
को न्वयं कस्य वा राज्ञः कथं वा स्वर्गमागतः ||१८||
कर्मणा केन सिद्धोऽयं क्व वानेन तपश्चितम् |
कथं वा ज्ञायते स्वर्गे केन वा ज्ञायतेऽप्युत ||१९||
एवं विचारयन्तस्ते राजानः स्वर्गवासिनः |
दृष्ट्वा पप्रच्छुरन्योन्यं ययातिं नृपतिं प्रति ||२०||
विमानपालाः शतशः स्वर्गद्वाराभिरक्षिणः |
पृष्टा आसनपालाश्च न जानीमेत्यथाब्रुवन् ||२१||
सर्वे ते ह्यावृतज्ञाना नाभ्यजानन्त तं नृपम् |
स मुहूर्तादथ नृपो हतौजा अभवत्तदा ||२२||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
119-अध्यायः
नारद उवाच||
अथ प्रचलितः स्थानादासनाच्च परिच्युतः |
कम्पितेनैव मनसा धर्षितः शोकवह्निना ||१||
म्लानस्रग्भ्रष्टविज्ञानः प्रभ्रष्टमुकुटाङ्गदः |
विघूर्णन्स्रस्तसर्वाङ्गः प्रभ्रष्टाभरणाम्बरः ||२||
अदृश्यमानस्तान्पश्यन्नपश्यंश्च पुनः पुनः |
शून्यः शून्येन मनसा प्रपतिष्यन्महीतलम् ||३||
किं मया मनसा ध्यातमशुभं धर्मदूषणम् |
येनाहं चलितः स्थानादिति राजा व्यचिन्तयत् ||४||
ते तु तत्रैव राजानः सिद्धाश्चाप्सरसस्तथा |
अपश्यन्त निरालम्बं ययातिं तं परिच्युतम् ||५||
अथैत्य पुरुषः कश्चित्क्षीणपुण्यनिपातकः |
ययातिमब्रवीद्राजन्देवराजस्य शासनात् ||६||
अतीव मदमत्तस्त्वं न कञ्चिन्नावमन्यसे |
मानेन भ्रष्टः स्वर्गस्ते नार्हस्त्वं पार्थिवात्मज ||७||
न च प्रज्ञायसे गच्छ पतस्वेति तमब्रवीत् ||७||
पतेयं सत्स्विति वचस्त्रिरुक्त्वा नहुषात्मजः |
पतिष्यंश्चिन्तयामास गतिं गतिमतां वरः ||८||
एतस्मिन्नेव काले तु नैमिषे पार्थिवर्षभान् |
चतुरोऽपश्यत नृपस्तेषां मध्ये पपात सः ||९||
प्रतर्दनो वसुमनाः शिबिरौशीनरोऽष्टकः |
वाजपेयेन यज्ञेन तर्पयन्ति सुरेश्वरम् ||१०||
तेषामध्वरजं धूमं स्वर्गद्वारमुपस्थितम् |
ययातिरुपजिघ्रन्वै निपपात महीं प्रति ||११||
भूमौ स्वर्गे च सम्बद्धां नदीं धूममयीं नृपः |
स गङ्गामिव गच्छन्तीमालम्ब्य जगतीपतिः ||१२||
श्रीमत्स्ववभृथाग्र्येषु चतुर्षु प्रतिबन्धुषु |
मध्ये निपतितो राजा लोकपालोपमेषु च ||१३||
चतुर्षु हुतकल्पेषु राजसिंहमहाग्निषु |
पपात मध्ये राजर्षिर्ययातिः पुण्यसङ्क्षये ||१४||
तमाहुः पार्थिवाः सर्वे प्रतिमानमिव श्रियः |
को भवान्कस्य वा बन्धुर्देशस्य नगरस्य वा ||१५||
यक्षो वाप्यथ वा देवो गन्धर्वो राक्षसोऽपि वा |
न हि मानुषरूपोऽसि को वार्थः काङ्क्षितस्त्वया ||१६||
ययातिरुवाच||
ययातिरस्मि राजर्षिः क्षीणपुण्यश्च्युतो दिवः |
पतेयं सत्स्विति ध्यायन्भवत्सु पतितस्ततः ||१७||
राजान ऊचुः||
सत्यमेतद्भवतु ते काङ्क्षितं पुरुषर्षभ |
सर्वेषां नः क्रतुफलं धर्मश्च प्रतिगृह्यताम् ||१८||
ययातिरुवाच||
नाहं प्रतिग्रहधनो ब्राह्मणः क्षत्रियो ह्यहम् |
न च मे प्रवणा बुद्धिः परपुण्यविनाशने ||१९||
नारद उवाच||
एतस्मिन्नेव काले तु मृगचर्याक्रमागताम् |
माधवीं प्रेक्ष्य राजानस्तेऽभिवाद्येदमब्रुवन् ||२०||
किमागमनकृत्यं ते किं कुर्वः शासनं तव |
आज्ञाप्या हि वयं सर्वे तव पुत्रास्तपोधने ||२१||
तेषां तद्भाषितं श्रुत्वा माधवी परया मुदा |
पितरं समुपागच्छद्ययातिं सा ववन्द च ||२२||
दृष्ट्वा मूर्ध्ना नतान्पुत्रांस्तापसी वाक्यमब्रवीत् |
दौहित्रास्तव राजेन्द्र मम पुत्रा न ते पराः ||२३||
इमे त्वां तारयिष्यन्ति दिष्टमेतत्पुरातनम् ||२३||
अहं ते दुहिता राजन्माधवी मृगचारिणी |
मयाप्युपचितो धर्मस्ततोऽर्धं प्रतिगृह्यताम् ||२४||
यस्माद्राजन्नराः सर्वे अपत्यफलभागिनः |
तस्मादिच्छन्ति दौहित्रान्यथा त्वं वसुधाधिप ||२५||
ततस्ते पार्थिवाः सर्वे शिरसा जननीं तदा |
अभिवाद्य नमस्कृत्य मातामहमथाब्रुवन् ||२६||
उच्चैरनुपमैः स्निग्धैः स्वरैरापूर्य मेदिनीम् |
मातामहं नृपतयस्तारयन्तो दिवश्च्युतम् ||२७||
अथ तस्मादुपगतो गालवोऽप्याह पार्थिवम् |
तपसो मेऽष्टभागेन स्वर्गमारोहतां भवान् ||२८||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
120-अध्यायः
नारद उवाच||
प्रत्यभिज्ञातमात्रोऽथ सद्भिस्तैर्नरपुङ्गवः |
ययातिर्दिव्यसंस्थानो बभूव विगतज्वरः ||१||
दिव्यमाल्याम्बरधरो दिव्याभरणभूषितः |
दिव्यगन्धगुणोपेतो न पृथ्वीमस्पृशत्पदा ||२||
ततो वसुमनाः पूर्वमुच्चैरुच्चारयन्वचः |
ख्यातो दानपतिर्लोके व्याजहार नृपं तदा ||३||
प्राप्तवानस्मि यल्लोके सर्ववर्णेष्वगर्हया |
तदप्यथ च दास्यामि तेन संयुज्यतां भवान् ||४||
यत्फलं दानशीलस्य क्षमाशीलस्य यत्फलम् |
यच्च मे फलमाधाने तेन संयुज्यतां भवान् ||५||
ततः प्रतर्दनोऽप्याह वाक्यं क्षत्रियपुङ्गवः |
यथा धर्मरतिर्नित्यं नित्यं युद्धपरायणः ||६||
प्राप्तवानस्मि यल्लोके क्षत्रधर्मोद्भवं यशः |
वीरशब्दफलं चैव तेन संयुज्यतां भवान् ||७||
शिबिरौशीनरो धीमानुवाच मधुरां गिरम् |
यथा बालेषु नारीषु वैहार्येषु तथैव च ||८||
सङ्गरेषु निपातेषु तथापद्व्यसनेषु च |
अनृतं नोक्तपूर्वं मे तेन सत्येन खं व्रज ||९||
यथा प्राणांश्च राज्यं च राजन्कर्म सुखानि च |
त्यजेयं न पुनः सत्यं तेन सत्येन खं व्रज ||१०||
यथा सत्येन मे धर्मो यथा सत्येन पावकः |
प्रीतः शक्रश्च सत्येन तेन सत्येन खं व्रज ||११||
अष्टकस्त्वथ राजर्षिः कौशिको माधवीसुतः |
अनेकशतयज्वानं वचनं प्राह धर्मवित् ||१२||
शतशः पुण्डरीका मे गोसवाश्च चिताः प्रभो |
क्रतवो वाजपेयाश्च तेषां फलमवाप्नुहि ||१३||
न मे रत्नानि न धनं न तथान्ये परिच्छदाः |
क्रतुष्वनुपयुक्तानि तेन सत्येन खं व्रज ||१४||
यथा यथा हि जल्पन्ति दौहित्रास्तं नराधिपम् |
तथा तथा वसुमतीं त्यक्त्वा राजा दिवं ययौ ||१५||
एवं सर्वे समस्तास्ते राजानः सुकृतैस्तदा |
ययातिं स्वर्गतो भ्रष्टं तारयामासुरञ्जसा ||१६||
दौहित्राः स्वेन धर्मेण यज्ञदानकृतेन वै |
चतुर्षु राजवंशेषु सम्भूताः कुलवर्धनाः ||१७||
मातामहं महाप्राज्ञं दिवमारोपयन्ति ते ||१७||
राजान ऊचुः||
राजधर्मगुणोपेताः सर्वधर्मगुणान्विताः |
दौहित्रास्ते वयं राजन्दिवमारोह पार्थिवः ||१८||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
121-अध्यायः
नारद उवाच||
सद्भिरारोपितः स्वर्गं पार्थिवैर्भूरिदक्षिणैः |
अभ्यनुज्ञाय दौहित्रान्ययातिर्दिवमास्थितः ||१||
अभिवृष्टश्च वर्षेण नानापुष्पसुगन्धिना |
परिष्वक्तश्च पुण्येन वायुना पुण्यगन्धिना ||२||
अचलं स्थानमारुह्य दौहित्रफलनिर्जितम् |
कर्मभिः स्वैरुपचितो जज्वाल परया श्रिया ||३||
उपगीतोपनृत्तश्च गन्धर्वाप्सरसां गणैः |
प्रीत्या प्रतिगृहीतश्च स्वर्गे दुन्दुभिनिस्वनैः ||४||
अभिष्टुतश्च विविधैर्देवराजर्षिचारणैः |
अर्चितश्चोत्तमार्घेण दैवतैरभिनन्दितः ||५||
प्राप्तः स्वर्गफलं चैव तमुवाच पितामहः |
निर्वृतं शान्तमनसं वचोभिस्तर्पयन्निव ||६||
चतुष्पादस्त्वया धर्मश्चितो लोक्येन कर्मणा |
अक्षयस्तव लोकोऽयं कीर्तिश्चैवाक्षया दिवि ||७||
पुनस्तवाद्य राजर्षे सुकृतेनेह कर्मणा ||७||
आवृतं तमसा चेतः सर्वेषां स्वर्गवासिनाम् |
येन त्वां नाभिजानन्ति ततोऽज्ञात्वासि पातितः ||८||
प्रीत्यैव चासि दौहित्रैस्तारितस्त्वमिहागतः |
स्थानं च प्रतिपन्नोऽसि कर्मणा स्वेन निर्जितम् ||९||
अचलं शाश्वतं पुण्यमुत्तमं ध्रुवमव्ययम् ||९||
ययातिरुवाच||
भगवन्संशयो मेऽस्ति कश्चित्तं छेत्तुमर्हसि |
न ह्यन्यमहमर्हामि प्रष्टुं लोकपितामह ||१०||
बहुवर्षसहस्रान्तं प्रजापालनवर्धितम् |
अनेकक्रतुदानौघैरर्जितं मे महत्फलम् ||११||
कथं तदल्पकालेन क्षीणं येनास्मि पातितः |
भगवन्वेत्थ लोकांश्च शाश्वतान्मम निर्जितान् ||१२||
पितामह उवाच||
बहुवर्षसहस्रान्तं प्रजापालनवर्धितम् |
अनेकक्रतुदानौघैर्यत्त्वयोपार्जितं फलम् ||१३||
तदनेनैव दोषेण क्षीणं येनासि पातितः |
अभिमानेन राजेन्द्र धिक्कृतः स्वर्गवासिभिः ||१४||
नायं मानेन राजर्षे न बलेन न हिंसया |
न शाठ्येन न मायाभिर्लोको भवति शाश्वतः ||१५||
नावमान्यास्त्वया राजन्नवरोत्कृष्टमध्यमाः |
न हि मानप्रदग्धानां कश्चिदस्ति समः क्वचित् ||१६||
पतनारोहणमिदं कथयिष्यन्ति ये नराः |
विषमाण्यपि ते प्राप्तास्तरिष्यन्ति न संशयः ||१७||
नारद उवाच||
एष दोषोऽभिमानेन पुरा प्राप्तो ययातिना |
निर्बन्धतश्चातिमात्रं गालवेन महीपते ||१८||
श्रोतव्यं हितकामानां सुहृदां भूतिमिच्छताम् |
न कर्तव्यो हि निर्बन्धो निर्बन्धो हि क्षयोदयः ||१९||
तस्मात्त्वमपि गान्धारे मानं क्रोधं च वर्जय |
सन्धत्स्व पाण्डवैर्वीर संरम्भं त्यज पार्थिव ||२०||
ददाति यत्पार्थिव यत्करोति; यद्वा तपस्तप्यति यज्जुहोति |
न तस्य नाशोऽस्ति न चापकर्षो; नान्यस्तदश्नाति स एव कर्ता ||२१||
इदं महाख्यानमनुत्तमं मतं; बहुश्रुतानां गतरोषरागिणाम् |
समीक्ष्य लोके बहुधा प्रधाविता; त्रिवर्गदृष्टिः पृथिवीमुपाश्नुते ||२२||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
122-अध्यायः
धृतराष्ट्र उवाच||
भगवन्नेवमेवैतद्यथा वदसि नारद |
इच्छामि चाहमप्येवं न त्वीशो भगवन्नहम् ||१||
वैशम्पायन उवाच||
एवमुक्त्वा ततः कृष्णमभ्यभाषत भारत |
स्वर्ग्यं लोक्यं च मामात्थ धर्म्यं न्याय्यं च केशव ||२||
न त्वहं स्ववशस्तात क्रियमाणं न मे प्रियम् |
अङ्ग दुर्योधनं कृष्ण मन्दं शास्त्रातिगं मम ||३||
अनुनेतुं महाबाहो यतस्व पुरुषोत्तम |
सुहृत्कार्यं तु सुमहत्कृतं ते स्याज्जनार्दन ||४||
ततोऽभ्यावृत्य वार्ष्णेयो दुर्योधनममर्षणम् |
अब्रवीन्मधुरां वाचं सर्वधर्मार्थतत्त्ववित् ||५||
दुर्योधन निबोधेदं मद्वाक्यं कुरुसत्तम |
समर्थं ते विशेषेण सानुबन्धस्य भारत ||६||
महाप्राज्ञ कुले जातः साध्वेतत्कर्तुमर्हसि |
श्रुतवृत्तोपसम्पन्नः सर्वैः समुदितो गुणैः ||७||
दौष्कुलेया दुरात्मानो नृशंसा निरपत्रपाः |
त एतदीदृशं कुर्युर्यथा त्वं तात मन्यसे ||८||
धर्मार्थयुक्ता लोकेऽस्मिन्प्रवृत्तिर्लक्ष्यते सताम् |
असतां विपरीता तु लक्ष्यते भरतर्षभ ||९||
विपरीता त्वियं वृत्तिरसकृल्लक्ष्यते त्वयि |
अधर्मश्चानुबन्धोऽत्र घोरः प्राणहरो महान् ||१०||
अनेकशस्त्वन्निमित्तमयशस्यं च भारत |
तमनर्थं परिहरन्नात्मश्रेयः करिष्यसि ||११||
भ्रातॄणामथ भृत्यानां मित्राणां च परन्तप |
अधर्म्यादयशस्याच्च कर्मणस्त्वं प्रमोक्ष्यसे ||१२||
प्राज्ञैः शूरैर्महोत्साहैरात्मवद्भिर्बहुश्रुतैः |
सन्धत्स्व पुरुषव्याघ्र पाण्डवैर्भरतर्षभ ||१३||
तद्धितं च प्रियं चैव धृतराष्ट्रस्य धीमतः |
पितामहस्य द्रोणस्य विदुरस्य महामतेः ||१४||
कृपस्य सोमदत्तस्य बाह्लीकस्य च धीमतः |
अश्वत्थाम्नो विकर्णस्य सञ्जयस्य विशां पते ||१५||
ज्ञातीनां चैव भूयिष्ठं मित्राणां च परन्तप |
शमे शर्म भवेत्तात सर्वस्य जगतस्तथा ||१६||
ह्रीमानसि कुले जातः श्रुतवाननृशंसवान् |
तिष्ठ तात पितुः शास्त्रे मातुश्च भरतर्षभ ||१७||
एतच्छ्रेयो हि मन्यन्ते पिता यच्छास्ति भारत |
उत्तमापद्गतः सर्वः पितुः स्मरति शासनम् ||१८||
रोचते ते पितुस्तात पाण्डवैः सह सङ्गमः |
सामात्यस्य कुरुश्रेष्ठ तत्तुभ्यं तात रोचताम् ||१९||
श्रुत्वा यः सुहृदां शास्त्रं मर्त्यो न प्रतिपद्यते |
विपाकान्ते दहत्येनं किम्पाकमिव भक्षितम् ||२०||
यस्तु निःश्रेयसं वाक्यं मोहान्न प्रतिपद्यते |
स दीर्घसूत्रो हीनार्थः पश्चात्तापेन युज्यते ||२१||
यस्तु निःश्रेयसं श्रुत्वा प्राप्तमेवाभिपद्यते |
आत्मनो मतमुत्सृज्य स लोके सुखमेधते ||२२||
योऽर्थकामस्य वचनं प्रातिकूल्यान्न मृष्यते |
शृणोति प्रतिकूलानि द्विषतां वशमेति सः ||२३||
सतां मतमतिक्रम्य योऽसतां वर्तते मते |
शोचन्ते व्यसने तस्य सुहृदो नचिरादिव ||२४||
मुख्यानमात्यानुत्सृज्य यो निहीनान्निषेवते |
स घोरामापदं प्राप्य नोत्तारमधिगच्छति ||२५||
योऽसत्सेवी वृथाचारो न श्रोता सुहृदां सदा |
परान्वृणीते स्वान्द्वेष्टि तं गौः शपति भारत ||२६||
स त्वं विरुध्य तैर्वीरैरन्येभ्यस्त्राणमिच्छसि |
अशिष्टेभ्योऽसमर्थेभ्यो मूढेभ्यो भरतर्षभ ||२७||
को हि शक्रसमाञ्ज्ञातीनतिक्रम्य महारथान् |
अन्येभ्यस्त्राणमाशंसेत्त्वदन्यो भुवि मानवः ||२८||
जन्मप्रभृति कौन्तेया नित्यं विनिकृतास्त्वया |
न च ते जातु कुप्यन्ति धर्मात्मानो हि पाण्डवाः ||२९||
मिथ्याप्रचरितास्तात जन्मप्रभृति पाण्डवाः |
त्वयि सम्यङ्महाबाहो प्रतिपन्ना यशस्विनः ||३०||
त्वयापि प्रतिपत्तव्यं तथैव भरतर्षभ |
स्वेषु बन्धुषु मुख्येषु मा मन्युवशमन्वगाः ||३१||
त्रिवर्गयुक्ता प्राज्ञानामारम्भा भरतर्षभ |
धर्मार्थावनुरुध्यन्ते त्रिवर्गासम्भवे नराः ||३२||
पृथक्तु विनिविष्टानां धर्मं धीरोऽनुरुध्यते |
मध्यमोऽर्थं कलिं बालः काममेवानुरुध्यते ||३३||
इन्द्रियैः प्रसृतो लोभाद्धर्मं विप्रजहाति यः |
कामार्थावनुपायेन लिप्समानो विनश्यति ||३४||
कामार्थौ लिप्समानस्तु धर्ममेवादितश्चरेत् |
न हि धर्मादपैत्यर्थः कामो वापि कदाचन ||३५||
उपायं धर्ममेवाहुस्त्रिवर्गस्य विशां पते |
लिप्समानो हि तेनाशु कक्षेऽग्निरिव वर्धते ||३६||
स त्वं तातानुपायेन लिप्ससे भरतर्षभ |
आधिराज्यं महद्दीप्तं प्रथितं सर्वराजसु ||३७||
आत्मानं तक्षति ह्येष वनं परशुना यथा |
यः सम्यग्वर्तमानेषु मिथ्या राजन्प्रवर्तते ||३८||
न तस्य हि मतिं छिन्द्याद्यस्य नेच्छेत्पराभवम् |
अविच्छिन्नस्य धीरस्य कल्याणे धीयते मतिः ||३९||
त्यक्तात्मानं न बाधेत त्रिषु लोकेषु भारत |
अप्यन्यं प्राकृतं किञ्चित्किमु तान्पाण्डवर्षभान् ||४०||
अमर्षवशमापन्नो न किञ्चिद्बुध्यते नरः |
छिद्यते ह्याततं सर्वं प्रमाणं पश्य भारत ||४१||
श्रेयस्ते दुर्जनात्तात पाण्डवैः सह सङ्गमः |
तैर्हि सम्प्रीयमाणस्त्वं सर्वान्कामानवाप्स्यसि ||४२||
पाण्डवैर्निर्जितां भूमिं भुञ्जानो राजसत्तम |
पाण्डवान्पृष्ठतः कृत्वा त्राणमाशंससेऽन्यतः ||४३||
दुःशासने दुर्विषहे कर्णे चापि ससौबले |
एतेष्वैश्वर्यमाधाय भूतिमिच्छसि भारत ||४४||
न चैते तव पर्याप्ता ज्ञाने धर्मार्थयोस्तथा |
विक्रमे चाप्यपर्याप्ताः पाण्डवान्प्रति भारत ||४५||
न हीमे सर्वराजानः पर्याप्ताः सहितास्त्वया |
क्रुद्धस्य भीमसेनस्य प्रेक्षितुं मुखमाहवे ||४६||
इदं संनिहितं तात समग्रं पार्थिवं बलम् |
अयं भीष्मस्तथा द्रोणः कर्णश्चायं तथा कृपः ||४७||
भूरिश्रवाः सौमदत्तिरश्वत्थामा जयद्रथः |
अशक्ताः सर्व एवैते प्रतियोद्धुं धनञ्जयम् ||४८||
अजेयो ह्यर्जुनः क्रुद्धः सर्वैरपि सुरासुरैः |
मानुषैरपि गन्धर्वैर्मा युद्धे चेत आधिथाः ||४९||
दृश्यतां वा पुमान्कश्चित्समग्रे पार्थिवे बले |
योऽर्जुनं समरे प्राप्य स्वस्तिमानाव्रजेद्गृहान् ||५०||
किं ते जनक्षयेणेह कृतेन भरतर्षभ |
यस्मिञ्जिते जितं ते स्यात्पुमानेकः स दृश्यताम् ||५१||
यः स देवान्सगन्धर्वान्सयक्षासुरपन्नगान् |
अजयत्खाण्डवप्रस्थे कस्तं युध्येत मानवः ||५२||
तथा विराटनगरे श्रूयते महदद्भुतम् |
एकस्य च बहूनां च पर्याप्तं तन्निदर्शनम् ||५३||
तमजेयमनाधृष्यं विजेतुं जिष्णुमच्युतम् |
आशंससीह समरे वीरमर्जुनमूर्जितम् ||५४||
मद्द्वितीयं पुनः पार्थं कः प्रार्थयितुमर्हति |
युद्धे प्रतीपमायान्तमपि साक्षात्पुरंदरः ||५५||
बाहुभ्यामुद्धरेद्भूमिं दहेत्क्रुद्ध इमाः प्रजाः |
पातयेत्त्रिदिवाद्देवान्योऽर्जुनं समरे जयेत् ||५६||
पश्य पुत्रांस्तथा भ्रातॄञ्ज्ञातीन्सम्बन्धिनस्तथा |
त्वत्कृते न विनश्येयुरेते भरतसत्तम ||५७||
अस्तु शेषं कौरवाणां मा पराभूदिदं कुलम् |
कुलघ्न इति नोच्येथा नष्टकीर्तिर्नराधिप ||५८||
त्वामेव स्थापयिष्यन्ति यौवराज्ये महारथाः |
महाराज्ये च पितरं धृतराष्ट्रं जनेश्वरम् ||५९||
मा तात श्रियमायान्तीमवमंस्थाः समुद्यताम् |
अर्धं प्रदाय पार्थेभ्यो महतीं श्रियमाप्स्यसि ||६०||
पाण्डवैः संशमं कृत्वा कृत्वा च सुहृदां वचः |
सम्प्रीयमाणो मित्रैश्च चिरं भद्राण्यवाप्स्यसि ||६१||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
123-अध्यायः
वैशम्पायन उवाच||
ततः शान्तनवो भीष्मो दुर्योधनममर्षणम् |
केशवस्य वचः श्रुत्वा प्रोवाच भरतर्षभ ||१||
कृष्णेन वाक्यमुक्तोऽसि सुहृदां शममिच्छता |
अनुपश्यस्व तत्तात मा मन्युवशमन्वगाः ||२||
अकृत्वा वचनं तात केशवस्य महात्मनः |
श्रेयो न जातु न सुखं न कल्याणमवाप्स्यसि ||३||
धर्म्यमर्थं महाबाहुराह त्वां तात केशवः |
तमर्थमभिपद्यस्व मा राजन्नीनशः प्रजाः ||४||
इमां श्रियं प्रज्वलितां भारतीं सर्वराजसु |
जीवतो धृतराष्ट्रस्य दौरात्म्याद्भ्रंशयिष्यसि ||५||
आत्मानं च सहामात्यं सपुत्रपशुबान्धवम् |
सहमित्रमसद्बुद्ध्या जीविताद्भ्रंशयिष्यसि ||६||
अतिक्रामन्केशवस्य तथ्यं वचनमर्थवत् |
पितुश्च भरतश्रेष्ठ विदुरस्य च धीमतः ||७||
मा कुलघ्नोऽन्तपुरुषो दुर्मतिः कापथं गमः |
पितरं मातरं चैव वृद्धौ शोकाय मा ददः ||८||
अथ द्रोणोऽब्रवीत्तत्र दुर्योधनमिदं वचः |
अमर्षवशमापन्नं निःश्वसन्तं पुनः पुनः ||९||
धर्मार्थयुक्तं वचनमाह त्वां तात केशवः |
तथा भीष्मः शान्तनवस्तज्जुषस्व नराधिप ||१०||
प्राज्ञौ मेधाविनौ दान्तावर्थकामौ बहुश्रुतौ |
आहतुस्त्वां हितं वाक्यं तदादत्स्व परन्तप ||११||
अनुतिष्ठ महाप्राज्ञ कृष्णभीष्मौ यदूचतुः |
मा वचो लघुबुद्धीनां समास्थास्त्वं परन्तप ||१२||
ये त्वां प्रोत्साहयन्त्येते नैते कृत्याय कर्हिचित् |
वैरं परेषां ग्रीवायां प्रतिमोक्ष्यन्ति संयुगे ||१३||
मा कुरूञ्जीघनः सर्वान्पुत्रान्भ्रातॄंस्तथैव च |
वासुदेवार्जुनौ यत्र विद्ध्यजेयं बलं हि तत् ||१४||
एतच्चैव मतं सत्यं सुहृदोः कृष्णभीष्मयोः |
यदि नादास्यसे तात पश्चात्तप्स्यसि भारत ||१५||
यथोक्तं जामदग्न्येन भूयानेव ततोऽर्जुनः |
कृष्णो हि देवकीपुत्रो देवैरपि दुरुत्सहः ||१६||
किं ते सुखप्रियेणेह प्रोक्तेन भरतर्षभ |
एतत्ते सर्वमाख्यातं यथेच्छसि तथा कुरु ||१७||
न हि त्वामुत्सहे वक्तुं भूयो भरतसत्तम ||१७||
तस्मिन्वाक्यान्तरे वाक्यं क्षत्तापि विदुरोऽब्रवीत् |
दुर्योधनमभिप्रेक्ष्य धार्तराष्ट्रममर्षणम् ||१८||
दुर्योधन न शोचामि त्वामहं भरतर्षभ |
इमौ तु वृद्धौ शोचामि गान्धारीं पितरं च ते ||१९||
यावनाथौ चरिष्येते त्वया नाथेन दुर्हृदा |
हतमित्रौ हतामात्यौ लूनपक्षाविव द्विजौ ||२०||
भिक्षुकौ विचरिष्येते शोचन्तौ पृथिवीमिमाम् |
कुलघ्नमीदृशं पापं जनयित्वा कुपूरुषम् ||२१||
अथ दुर्योधनं राजा धृतराष्ट्रोऽभ्यभाषत |
आसीनं भ्रातृभिः सार्धं राजभिः परिवारितम् ||२२||
दुर्योधन निबोधेदं शौरिणोक्तं महात्मना |
आदत्स्व शिवमत्यन्तं योगक्षेमवदव्ययम् ||२३||
अनेन हि सहायेन कृष्णेनाक्लिष्टकर्मणा |
इष्टान्सर्वानभिप्रायान्प्राप्स्यामः सर्वराजसु ||२४||
सुसंहितः केशवेन गच्छ तात युधिष्ठिरम् |
चर स्वस्त्ययनं कृत्स्नं भारतानामनामयम् ||२५||
वासुदेवेन तीर्थेन तात गच्छस्व सङ्गमम् |
कालप्राप्तमिदं मन्ये मा त्वं दुर्योधनातिगाः ||२६||
शमं चेद्याचमानं त्वं प्रत्याख्यास्यसि केशवम् |
त्वदर्थमभिजल्पन्तं न तवास्त्यपराभवः ||२७||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
124-अध्यायः
वैशम्पायन उवाच||
धृतराष्ट्रवचः श्रुत्वा भीष्मद्रोणौ समर्थ्य तौ |
दुर्योधनमिदं वाक्यमूचतुः शासनातिगम् ||१||
यावत्कृष्णावसंनद्धौ यावत्तिष्ठति गाण्डिवम् |
यावद्धौम्यो न सेनाग्नौ जुहोतीह द्विषद्बलम् ||२||
यावन्न प्रेक्षते क्रुद्धः सेनां तव युधिष्ठिरः |
ह्रीनिषेधो महेष्वासस्तावच्छाम्यतु वैशसम् ||३||
यावन्न दृष्यते पार्थः स्वेष्वनीकेष्ववस्थितः |
भीमसेनो महेष्वासस्तावच्छाम्यतु वैशसम् ||४||
यावन्न चरते मार्गान्पृतनामभिहर्षयन् |
यावन्न शातयत्याजौ शिरांसि गजयोधिनाम् ||५||
गदया वीरघातिन्या फलानीव वनस्पतेः |
कालेन परिपक्वानि तावच्छाम्यतु वैशसम् ||६||
नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः |
विराटश्च शिखण्डी च शैशुपालिश्च दंशिताः ||७||
यावन्न प्रविशन्त्येते नक्रा इव महार्णवम् |
कृतास्त्राः क्षिप्रमस्यन्तस्तावच्छाम्यतु वैशसम् ||८||
यावन्न सुकुमारेषु शरीरेषु महीक्षिताम् |
गार्ध्रपत्राः पतन्त्युग्रास्तावच्छाम्यतु वैशसम् ||९||
चन्दनागरुदिग्धेषु हारनिष्कधरेषु च |
नोरःसु यावद्योधानां महेष्वासैर्महेषवः ||१०||
कृतास्त्रैः क्षिप्रमस्यद्भिर्दूरपातिभिरायसाः |
अभिलक्ष्यैर्निपात्यन्ते तावच्छाम्यतु वैशसम् ||११||
अभिवादयमानं त्वां शिरसा राजकुञ्जरः |
पाणिभ्यां प्रतिगृह्णातु धर्मराजो युधिष्ठिरः ||१२||
ध्वजाङ्कुशपताकाङ्कं दक्षिणं ते सुदक्षिणः |
स्कन्धे निक्षिपतां बाहुं शान्तये भरतर्षभ ||१३||
रत्नौषधिसमेतेन रत्नाङ्गुलितलेन च |
उपविष्टस्य पृष्ठं ते पाणिना परिमार्जतु ||१४||
शालस्कन्धो महाबाहुस्त्वां स्वजानो वृकोदरः |
साम्नाभिवदतां चापि शान्तये भरतर्षभ ||१५||
अर्जुनेन यमाभ्यां च त्रिभिस्तैरभिवादितः |
मूर्ध्नि तान्समुपाघ्राय प्रेम्णाभिवद पार्थिव ||१६||
दृष्ट्वा त्वां पाण्डवैर्वीरैर्भ्रातृभिः सह सङ्गतम् |
यावदानन्दजाश्रूणि प्रमुञ्चन्तु नराधिपाः ||१७||
घुष्यतां राजधानीषु सर्वसम्पन्महीक्षिताम् |
पृथिवी भ्रातृभावेन भुज्यतां विज्वरो भव ||१८||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
125-अध्यायः
वैशम्पायन उवाच||
श्रुत्वा दुर्योधनो वाक्यमप्रियं कुरुसंसदि |
प्रत्युवाच महाबाहुं वासुदेवं यशस्विनम् ||१||
प्रसमीक्ष्य भवानेतद्वक्तुमर्हति केशव |
मामेव हि विशेषेण विभाष्य परिगर्हसे ||२||
भक्तिवादेन पार्थानामकस्मान्मधुसूदन |
भवान्गर्हयते नित्यं किं समीक्ष्य बलाबलम् ||३||
भवान्क्षत्ता च राजा च आचार्यो वा पितामहः |
मामेव परिगर्हन्ते नान्यं कञ्चन पार्थिवम् ||४||
न चाहं लक्षये कञ्चिद्व्यभिचारमिहात्मनः |
अथ सर्वे भवन्तो मां विद्विषन्ति सराजकाः ||५||
न चाहं कञ्चिदत्यर्थमपराधमरिंदम |
विचिन्तयन्प्रपश्यामि सुसूक्ष्ममपि केशव ||६||
प्रियाभ्युपगते द्यूते पाण्डवा मधुसूदन |
जिताः शकुनिना राज्यं तत्र किं मम दुष्कृतम् ||७||
यत्पुनर्द्रविणं किञ्चित्तत्राजीयन्त पाण्डवाः |
तेभ्य एवाभ्यनुज्ञातं तत्तदा मधुसूदन ||८||
अपराधो न चास्माकं यत्ते ह्यक्षपराजिताः |
अजेया जयतां श्रेष्ठ पार्थाः प्रव्राजिता वनम् ||९||
केन चाप्यपवादेन विरुध्यन्तेऽरिभिः सह |
अशक्ताः पाण्डवाः कृष्ण प्रहृष्टाः प्रत्यमित्रवत् ||१०||
किमस्माभिः कृतं तेषां कस्मिन्वा पुनरागसि |
धार्तराष्ट्राञ्जिघांसन्ति पाण्डवाः सृञ्जयैः सह ||११||
न चापि वयमुग्रेण कर्मणा वचनेन वा |
वित्रस्ताः प्रणमामेह भयादपि शतक्रतोः ||१२||
न च तं कृष्ण पश्यामि क्षत्रधर्ममनुष्ठितम् |
उत्सहेत युधा जेतुं यो नः शत्रुनिबर्हण ||१३||
न हि भीष्मकृपद्रोणाः सगणा मधुसूदन |
देवैरपि युधा जेतुं शक्याः किमुत पाण्डवैः ||१४||
स्वधर्ममनुतिष्ठन्तो यदि माधव संयुगे |
शस्त्रेण निधनं काले प्राप्स्यामः स्वर्गमेव तत् ||१५||
मुख्यश्चैवैष नो धर्मः क्षत्रियाणां जनार्दन |
यच्छयीमहि सङ्ग्रामे शरतल्पगता वयम् ||१६||
ते वयं वीरशयनं प्राप्स्यामो यदि संयुगे |
अप्रणम्यैव शत्रूणां न नस्तप्स्यति माधव ||१७||
कश्च जातु कुले जातः क्षत्रधर्मेण वर्तयन् |
भयाद्वृत्तिं समीक्ष्यैवं प्रणमेदिह कस्यचित् ||१८||
उद्यच्छेदेव न नमेदुद्यमो ह्येव पौरुषम् |
अप्यपर्वणि भज्येत न नमेदिह कस्यचित् ||१९||
इति मातङ्गवचनं परीप्सन्ति हितेप्सवः |
धर्माय चैव प्रणमेद्ब्राह्मणेभ्यश्च मद्विधः ||२०||
अचिन्तयन्कञ्चिदन्यं यावज्जीवं तथाचरेत् |
एष धर्मः क्षत्रियाणां मतमेतच्च मे सदा ||२१||
राज्यांशश्चाभ्यनुज्ञातो यो मे पित्रा पुराभवत् |
न स लभ्यः पुनर्जातु मयि जीवति केशव ||२२||
यावच्च राजा ध्रियते धृतराष्ट्रो जनार्दन |
न्यस्तशस्त्रा वयं ते वाप्युपजीवाम माधव ||२३||
यद्यदेयं पुरा दत्तं राज्यं परवतो मम |
अज्ञानाद्वा भयाद्वापि मयि बाले जनार्दन ||२४||
न तदद्य पुनर्लभ्यं पाण्डवैर्वृष्णिनन्दन |
ध्रियमाणे महाबाहो मयि सम्प्रति केशव ||२५||
यावद्धि सूच्यास्तीक्ष्णाया विध्येदग्रेण माधव |
तावदप्यपरित्याज्यं भूमेर्नः पाण्डवान्प्रति ||२६||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
126-अध्यायः
वैशम्पायन उवाच||
ततः प्रहस्य दाशार्हः क्रोधपर्याकुलेक्षणः |
दुर्योधनमिदं वाक्यमब्रवीत्कुरुसंसदि ||१||
लप्स्यसे वीरशयनं काममेतदवाप्स्यसि |
स्थिरो भव सहामात्यो विमर्दो भविता महान् ||२||
यच्चैवं मन्यसे मूढ न मे कश्चिद्व्यतिक्रमः |
पाण्डवेष्विति तत्सर्वं निबोधत नराधिपाः ||३||
श्रिया सन्तप्यमानेन पाण्डवानां महात्मनाम् |
त्वया दुर्मन्त्रितं द्यूतं सौबलेन च भारत ||४||
कथं च ज्ञातयस्तात श्रेयांसः साधुसंमताः |
तथान्याय्यमुपस्थातुं जिह्मेनाजिह्मचारिणः ||५||
अक्षद्यूतं महाप्राज्ञ सतामरतिनाशनम् |
असतां तत्र जायन्ते भेदाश्च व्यसनानि च ||६||
तदिदं व्यसनं घोरं त्वया द्यूतमुखं कृतम् |
असमीक्ष्य सदाचारैः सार्धं पापानुबन्धनैः ||७||
कश्चान्यो ज्ञातिभार्यां वै विप्रकर्तुं तथार्हति |
आनीय च सभां वक्तुं यथोक्ता द्रौपदी त्वया ||८||
कुलीना शीलसम्पन्ना प्राणेभ्योऽपि गरीयसी |
महिषी पाण्डुपुत्राणां तथा विनिकृता त्वया ||९||
जानन्ति कुरवः सर्वे यथोक्ताः कुरुसंसदि |
दुःशासनेन कौन्तेयाः प्रव्रजन्तः परन्तपाः ||१०||
सम्यग्वृत्तेष्वलुब्धेषु सततं धर्मचारिषु |
स्वेषु बन्धुषु कः साधुश्चरेदेवमसाम्प्रतम् ||११||
नृशंसानामनार्याणां परुषाणां च भाषणम् |
कर्णदुःशासनाभ्यां च त्वया च बहुशः कृतम् ||१२||
सह मात्रा प्रदग्धुं तान्बालकान्वारणावते |
आस्थितः परमं यत्नं न समृद्धं च तत्तव ||१३||
ऊषुश्च सुचिरं कालं प्रच्छन्नाः पाण्डवास्तदा |
मात्रा सहैकचक्रायां ब्राह्मणस्य निवेशने ||१४||
विषेण सर्पबन्धैश्च यतिताः पाण्डवास्त्वया |
सर्वोपायैर्विनाशाय न समृद्धं च तत्तव ||१५||
एवम्बुद्धिः पाण्डवेषु मिथ्यावृत्तिः सदा भवान् |
कथं ते नापराधोऽस्ति पाण्डवेषु महात्मसु ||१६||
कृत्वा बहून्यकार्याणि पाण्डवेषु नृशंसवत् |
मिथ्यावृत्तिरनार्यः सन्नद्य विप्रतिपद्यसे ||१७||
मातापितृभ्यां भीष्मेण द्रोणेन विदुरेण च |
शाम्येति मुहुरुक्तोऽसि न च शाम्यसि पार्थिव ||१८||
शमे हि सुमहानर्थस्तव पार्थस्य चोभयोः |
न च रोचयसे राजन्किमन्यद्बुद्धिलाघवात् ||१९||
न शर्म प्राप्स्यसे राजन्नुत्क्रम्य सुहृदां वचः |
अधर्म्यमयशस्यं च क्रियते पार्थिव त्वया ||२०||
एवं ब्रुवति दाशार्हे दुर्योधनममर्षणम् |
दुःशासन इदं वाक्यमब्रवीत्कुरुसंसदि ||२१||
न चेत्सन्धास्यसे राजन्स्वेन कामेन पाण्डवैः |
बद्ध्वा किल त्वां दास्यन्ति कुन्तीपुत्राय कौरवाः ||२२||
वैकर्तनं त्वां च मां च त्रीनेतान्मनुजर्षभ |
पाण्डवेभ्यः प्रदास्यन्ति भीष्मो द्रोणः पिता च ते ||२३||
भ्रातुरेतद्वचः श्रुत्वा धार्तराष्ट्रः सुयोधनः |
क्रुद्धः प्रातिष्ठतोत्थाय महानाग इव श्वसन् ||२४||
विदुरं धृतराष्ट्रं च महाराजं च बाह्लिकम् |
कृपं च सोमदत्तं च भीष्मं द्रोणं जनार्दनम् ||२५||
सर्वानेताननादृत्य दुर्मतिर्निरपत्रपः |
अशिष्टवदमर्यादो मानी मान्यावमानिता ||२६||
तं प्रस्थितमभिप्रेक्ष्य भ्रातरो मनुजर्षभम् |
अनुजग्मुः सहामात्या राजानश्चापि सर्वशः ||२७||
सभायामुत्थितं क्रुद्धं प्रस्थितं भ्रातृभिः सह |
दुर्योधनमभिप्रेक्ष्य भीष्मः शान्तनवोऽब्रवीत् ||२८||
धर्मार्थावभिसन्त्यज्य संरम्भं योऽनुमन्यते |
हसन्ति व्यसने तस्य दुर्हृदो नचिरादिव ||२९||
दुरात्मा राजपुत्रोऽयं धार्तराष्ट्रोऽनुपायवित् |
मिथ्याभिमानी राज्यस्य क्रोधलोभवशानुगः ||३०||
कालपक्वमिदं मन्ये सर्वक्षत्रं जनार्दन |
सर्वे ह्यनुसृता मोहात्पार्थिवाः सह मन्त्रिभिः ||३१||
भीष्मस्याथ वचः श्रुत्वा दाशार्हः पुष्करेक्षणः |
भीष्मद्रोणमुखान्सर्वानभ्यभाषत वीर्यवान् ||३२||
सर्वेषां कुरुवृद्धानां महानयमतिक्रमः |
प्रसह्य मन्दमैश्वर्ये न नियच्छत यन्नृपम् ||३३||
तत्र कार्यमहं मन्ये प्राप्तकालमरिंदमाः |
क्रियमाणे भवेच्छ्रेयस्तत्सर्वं शृणुतानघाः ||३४||
प्रत्यक्षमेतद्भवतां यद्वक्ष्यामि हितं वचः |
भवतामानुकूल्येन यदि रोचेत भारताः ||३५||
भोजराजस्य वृद्धस्य दुराचारो ह्यनात्मवान् |
जीवतः पितुरैश्वर्यं हृत्वा मन्युवशं गतः ||३६||
उग्रसेनसुतः कंसः परित्यक्तः स बान्धवैः |
ज्ञातीनां हितकामेन मया शस्तो महामृधे ||३७||
आहुकः पुनरस्माभिर्ज्ञातिभिश्चापि सत्कृतः |
उग्रसेनः कृतो राजा भोजराजन्यवर्धनः ||३८||
कंसमेकं परित्यज्य कुलार्थे सर्वयादवाः |
सम्भूय सुखमेधन्ते भारतान्धकवृष्णयः ||३९||
अपि चाप्यवदद्राजन्परमेष्ठी प्रजापतिः |
व्यूढे देवासुरे युद्धेऽभ्युद्यतेष्वायुधेषु च ||४०||
द्वैधीभूतेषु लोकेषु विनश्यत्सु च भारत |
अब्रवीत्सृष्टिमान्देवो भगवाँल्लोकभावनः ||४१||
पराभविष्यन्त्यसुरा दैतेया दानवैः सह |
आदित्या वसवो रुद्रा भविष्यन्ति दिवौकसः ||४२||
देवासुरमनुष्याश्च गन्धर्वोरगराक्षसाः |
अस्मिन्युद्धे सुसंयत्ता हनिष्यन्ति परस्परम् ||४३||
इति मत्वाब्रवीद्धर्मं परमेष्ठी प्रजापतिः |
वरुणाय प्रयच्छैतान्बद्ध्वा दैतेयदानवान् ||४४||
एवमुक्तस्ततो धर्मो नियोगात्परमेष्ठिनः |
वरुणाय ददौ सर्वान्बद्ध्वा दैतेयदानवान् ||४५||
तान्बद्ध्वा धर्मपाशैश्च स्वैश्च पाशैर्जलेश्वरः |
वरुणः सागरे यत्तो नित्यं रक्षति दानवान् ||४६||
तथा दुर्योधनं कर्णं शकुनिं चापि सौबलम् |
बद्ध्वा दुःशासनं चापि पाण्डवेभ्यः प्रयच्छत ||४७||
त्यजेत्कुलार्थे पुरुषं ग्रामस्यार्थे कुलं त्यजेत् |
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ||४८||
राजन्दुर्योधनं बद्ध्वा ततः संशाम्य पाण्डवैः |
त्वत्कृते न विनश्येयुः क्षत्रियाः क्षत्रियर्षभ ||४९||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
127-अध्यायः
वैशम्पायन उवाच||
कृष्णस्य वचनं श्रुत्वा धृतराष्ट्रो जनेश्वरः |
विदुरं सर्वधर्मज्ञं त्वरमाणोऽभ्यभाषत ||१||
गच्छ तात महाप्राज्ञां गान्धारीं दीर्घदर्शिनीम् |
आनयेह तया सार्धमनुनेष्यामि दुर्मतिम् ||२||
यदि सापि दुरात्मानं शमयेद्दुष्टचेतसम् |
अपि कृष्णाय सुहृदस्तिष्ठेम वचने वयम् ||३||
अपि लोभाभिभूतस्य पन्थानमनुदर्शयेत् |
दुर्बुद्धेर्दुःसहायस्य समर्थं ब्रुवती वचः ||४||
अपि नो व्यसनं घोरं दुर्योधनकृतं महत् |
शमयेच्चिररात्राय योगक्षेमवदव्ययम् ||५||
राज्ञस्तु वचनं श्रुत्वा विदुरो दीर्घदर्शिनीम् |
आनयामास गान्धारीं धृतराष्ट्रस्य शासनात् ||६||
धृतराष्ट्र उवाच||
एष गान्धारि पुत्रस्ते दुरात्मा शासनातिगः |
ऐश्वर्यलोभादैश्वर्यं जीवितं च प्रहास्यति ||७||
अशिष्टवदमर्यादः पापैः सह दुरात्मभिः |
सभाया निर्गतो मूढो व्यतिक्रम्य सुहृद्वचः ||८||
वैशम्पायन उवाच||
सा भर्तुर्वचनं श्रुत्वा राजपुत्री यशस्विनी |
अन्विच्छन्ती महच्छ्रेयो गान्धारी वाक्यमब्रवीत् ||९||
आनयेह सुतं क्षिप्रं राज्यकामुकमातुरम् |
न हि राज्यमशिष्टेन शक्यं धर्मार्थलोपिना ||१०||
त्वं ह्येवात्र भृशं गर्ह्यो धृतराष्ट्र सुतप्रियः |
यो जानन्पापतामस्य तत्प्रज्ञामनुवर्तसे ||११||
स एष काममन्युभ्यां प्रलब्धो मोहमास्थितः |
अशक्योऽद्य त्वया राजन्विनिवर्तयितुं बलात् ||१२||
राज्यप्रदाने मूढस्य बालिशस्य दुरात्मनः |
दुःसहायस्य लुब्धस्य धृतराष्ट्रोऽश्नुते फलम् ||१३||
कथं हि स्वजने भेदमुपेक्षेत महामतिः |
भिन्नं हि स्वजनेन त्वां प्रसहिष्यन्ति शत्रवः ||१४||
या हि शक्या महाराज साम्ना दानेन वा पुनः |
निस्तर्तुमापदः स्वेषु दण्डं कस्तत्र पातयेत् ||१५||
शासनाद्धृतराष्ट्रस्य दुर्योधनममर्षणम् |
मातुश्च वचनात्क्षत्ता सभां प्रावेशयत्पुनः ||१६||
स मातुर्वचनाकाङ्क्षी प्रविवेश सभां पुनः |
अभिताम्रेक्षणः क्रोधान्निःश्वसन्निव पन्नगः ||१७||
तं प्रविष्टमभिप्रेक्ष्य पुत्रमुत्पथमास्थितम् |
विगर्हमाणा गान्धारी समर्थं वाक्यमब्रवीत् ||१८||
दुर्योधन निबोधेदं वचनं मम पुत्रक |
हितं ते सानुबन्धस्य तथायत्यां सुखोदयम् ||१९||
भीष्मस्य तु पितुश्चैव मम चापचितिः कृता |
भवेद्द्रोणमुखानां च सुहृदां शाम्यता त्वया ||२०||
न हि राज्यं महाप्राज्ञ स्वेन कामेन शक्यते |
अवाप्तुं रक्षितुं वापि भोक्तुं वा भरतर्षभ ||२१||
न ह्यवश्येन्द्रियो राज्यमश्नीयाद्दीर्घमन्तरम् |
विजितात्मा तु मेधावी स राज्यमभिपालयेत् ||२२||
कामक्रोधौ हि पुरुषमर्थेभ्यो व्यपकर्षतः |
तौ तु शत्रू विनिर्जित्य राजा विजयते महीम् ||२३||
लोकेश्वरप्रभुत्वं हि महदेतद्दुरात्मभिः |
राज्यं नामेप्सितं स्थानं न शक्यमभिरक्षितुम् ||२४||
इन्द्रियाणि महत्प्रेप्सुर्नियच्छेदर्थधर्मयोः |
इन्द्रियैर्नियतैर्बुद्धिर्वर्धतेऽग्निरिवेन्धनैः ||२५||
अविध्येयानि हीमानि व्यापादयितुमप्यलम् |
अविधेया इवादान्ता हयाः पथि कुसारथिम् ||२६||
अविजित्य य आत्मानममात्यान्विजिगीषते |
अजितात्माजितामात्यः सोऽवशः परिहीयते ||२७||
आत्मानमेव प्रथमं देशरूपेण यो जयेत् |
ततोऽमात्यानमित्रांश्च न मोघं विजिगीषते ||२८||
वश्येन्द्रियं जितामात्यं धृतदण्डं विकारिषु |
परीक्ष्यकारिणं धीरमत्यन्तं श्रीर्निषेवते ||२९||
क्षुद्राक्षेणेव जालेन झषावपिहितावुभौ |
कामक्रोधौ शरीरस्थौ प्रज्ञानं तौ विलुम्पतः ||३०||
याभ्यां हि देवाः स्वर्यातुः स्वर्गस्यापिदधुर्मुखम् |
बिभ्यतोऽनुपरागस्य कामक्रोधौ स्म वर्धितौ ||३१||
कामं क्रोधं च लोभं च दम्भं दर्पं च भूमिपः |
सम्यग्विजेतुं यो वेद स महीमभिजायते ||३२||
सततं निग्रहे युक्त इन्द्रियाणां भवेन्नृपः |
ईप्सन्नर्थं च धर्मं च द्विषतां च पराभवम् ||३३||
कामाभिभूतः क्रोधाद्वा यो मिथ्या प्रतिपद्यते |
स्वेषु चान्येषु वा तस्य न सहाया भवन्त्युत ||३४||
एकीभूतैर्महाप्राज्ञैः शूरैररिनिबर्हणैः |
पाण्डवैः पृथिवीं तात भोक्ष्यसे सहितः सुखी ||३५||
यथा भीष्मः शान्तनवो द्रोणश्चापि महारथः |
आहतुस्तात तत्सत्यमजेयौ कृष्णपाण्डवौ ||३६||
प्रपद्यस्व महाबाहुं कृष्णमक्लिष्टकारिणम् |
प्रसन्नो हि सुखाय स्यादुभयोरेव केशवः ||३७||
सुहृदामर्थकामानां यो न तिष्ठति शासने |
प्राज्ञानां कृतविद्यानां स नरः शत्रुनन्दनः ||३८||
न युद्धे तात कल्याणं न धर्मार्थौ कुतः सुखम् |
न चापि विजयो नित्यं मा युद्धे चेत आधिथाः ||३९||
भीष्मेण हि महाप्राज्ञ पित्रा ते बाह्लिकेन च |
दत्तोंऽशः पाण्डुपुत्राणां भेदाद्भीतैररिंदम ||४०||
तस्य चैतत्प्रदानस्य फलमद्यानुपश्यसि |
यद्भुङ्क्षे पृथिवीं सर्वां शूरैर्निहतकण्टकाम् ||४१||
प्रयच्छ पाण्डुपुत्राणां यथोचितमरिंदम |
यदीच्छसि सहामात्यो भोक्तुमर्धं महीक्षिताम् ||४२||
अलमर्धं पृथिव्यास्ते सहामात्यस्य जीवनम् |
सुहृदां वचने तिष्ठन्यशः प्राप्स्यसि भारत ||४३||
श्रीमद्भिरात्मवद्भिर्हि बुद्धिमद्भिर्जितेन्द्रियैः |
पाण्डवैर्विग्रहस्तात भ्रंशयेन्महतः सुखात् ||४४||
निगृह्य सुहृदां मन्युं शाधि राज्यं यथोचितम् |
स्वमंशं पाण्डुपुत्रेभ्यः प्रदाय भरतर्षभ ||४५||
अलमह्ना निकारोऽयं त्रयोदश समाः कृतः |
शमयैनं महाप्राज्ञ कामक्रोधसमेधितम् ||४६||
न चैष शक्तः पार्थानां यस्त्वदर्थमभीप्सति |
सूतपुत्रो दृढक्रोधो भ्राता दुःशासनश्च ते ||४७||
भीष्मे द्रोणे कृपे कर्णे भीमसेने धनञ्जये |
धृष्टद्युम्ने च सङ्क्रुद्धे न स्युः सर्वाः प्रजा ध्रुवम् ||४८||
अमर्षवशमापन्नो मा कुरूंस्तात जीघनः |
सर्वा हि पृथिवी स्पृष्टा त्वत्पाण्डवकृते वधम् ||४९||
यच्च त्वं मन्यसे मूढ भीष्मद्रोणकृपादयः |
योत्स्यन्ते सर्वशक्त्येति नैतदद्योपपद्यते ||५०||
समं हि राज्यं प्रीतिश्च स्थानं च विजितात्मनाम् |
पाण्डवेष्वथ युष्मासु धर्मस्त्वभ्यधिकस्ततः ||५१||
राजपिण्डभयादेते यदि हास्यन्ति जीवितम् |
न हि शक्ष्यन्ति राजानं युधिष्ठिरमुदीक्षितुम् ||५२||
न लोभादर्थसम्पत्तिर्नराणामिह दृश्यते |
तदलं तात लोभेन प्रशाम्य भरतर्षभ ||५३||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
128-अध्यायः
वैशम्पायन उवाच||
तत्तु वाक्यमनादृत्य सोऽर्थवन्मातृभाषितम् |
पुनः प्रतस्थे संरम्भात्सकाशमकृतात्मनाम् ||१||
ततः सभाया निर्गम्य मन्त्रयामास कौरवः |
सौबलेन मताक्षेण राज्ञा शकुनिना सह ||२||
दुर्योधनस्य कर्णस्य शकुनेः सौबलस्य च |
दुःशासनचतुर्थानामिदमासीद्विचेष्टितम् ||३||
पुरायमस्मान्गृह्णाति क्षिप्रकारी जनार्दनः |
सहितो धृतराष्ट्रेण राज्ञा शान्तनवेन च ||४||
वयमेव हृषीकेशं निगृह्णीम बलादिव |
प्रसह्य पुरुषव्याघ्रमिन्द्रो वैरोचनिं यथा ||५||
श्रुत्वा गृहीतं वार्ष्णेयं पाण्डवा हतचेतसः |
निरुत्साहा भविष्यन्ति भग्नदंष्ट्रा इवोरगाः ||६||
अयं ह्येषां महाबाहुः सर्वेषां शर्म वर्म च |
अस्मिन्गृहीते वरदे ऋषभे सर्वसात्वताम् ||७||
निरुद्यमा भविष्यन्ति पाण्डवाः सोमकैः सह ||७||
तस्माद्वयमिहैवैनं केशवं क्षिप्रकारिणम् |
क्रोशतो धृतराष्ट्रस्य बद्ध्वा योत्स्यामहे रिपून् ||८||
तेषां पापमभिप्रायं पापानां दुष्टचेतसाम् |
इङ्गितज्ञः कविः क्षिप्रमन्वबुध्यत सात्यकिः ||९||
तदर्थमभिनिष्क्रम्य हार्दिक्येन सहास्थितः |
अब्रवीत्कृतवर्माणं क्षिप्रं योजय वाहिनीम् ||१०||
व्यूढानीकः सभाद्वारमुपतिष्ठस्व दंशितः |
यावदाख्याम्यहं चैतत्कृष्णायाक्लिष्टकर्मणे ||११||
स प्रविश्य सभां वीरः सिंहो गिरिगुहामिव |
आचष्ट तमभिप्रायं केशवाय महात्मने ||१२||
धृतराष्ट्रं ततश्चैव विदुरं चान्वभाषत |
तेषामेतमभिप्रायमाचचक्षे स्मयन्निव ||१३||
धर्मादपेतमर्थाच्च कर्म साधुविगर्हितम् |
मन्दाः कर्तुमिहेच्छन्ति न चावाप्यं कथञ्चन ||१४||
पुरा विकुर्वते मूढाः पापात्मानः समागताः |
धर्षिताः काममन्युभ्यां क्रोधलोभवशानुगाः ||१५||
इमं हि पुण्डरीकाक्षं जिघृक्षन्त्यल्पचेतसः |
पटेनाग्निं प्रज्वलितं यथा बाला यथा जडाः ||१६||
सात्यकेस्तद्वचः श्रुत्वा विदुरो दीर्घदर्शिवान् |
धृतराष्ट्रं महाबाहुमब्रवीत्कुरुसंसदि ||१७||
राजन्परीतकालास्ते पुत्राः सर्वे परन्तप |
अयशस्यमशक्यं च कर्म कर्तुं समुद्यताः ||१८||
इमं हि पुण्डरीकाक्षमभिभूय प्रसह्य च |
निग्रहीतुं किलेच्छन्ति सहिता वासवानुजम् ||१९||
इमं पुरुषशार्दूलमप्रधृष्यं दुरासदम् |
आसाद्य न भविष्यन्ति पतङ्गा इव पावकम् ||२०||
अयमिच्छन्हि तान्सर्वान्यतमानाञ्जनार्दनः |
सिंहो मृगानिव क्रुद्धो गमयेद्यमसादनम् ||२१||
न त्वयं निन्दितं कर्म कुर्यात्कृष्णः कथञ्चन |
न च धर्मादपक्रामेदच्युतः पुरुषोत्तमः ||२२||
विदुरेणैवमुक्ते तु केशवो वाक्यमब्रवीत् |
धृतराष्ट्रमभिप्रेक्ष्य सुहृदां शृण्वतां मिथः ||२३||
राजन्नेते यदि क्रुद्धा मां निगृह्णीयुरोजसा |
एते वा मामहं वैनाननुजानीहि पार्थिव ||२४||
एतान्हि सर्वान्संरब्धान्नियन्तुमहमुत्सहे |
न त्वहं निन्दितं कर्म कुर्यां पापं कथञ्चन ||२५||
पाण्डवार्थे हि लुभ्यन्तः स्वार्थाद्धास्यन्ति ते सुताः |
एते चेदेवमिच्छन्ति कृतकार्यो युधिष्ठिरः ||२६||
अद्यैव ह्यहमेतांश्च ये चैताननु भारत |
निगृह्य राजन्पार्थेभ्यो दद्यां किं दुष्कृतं भवेत् ||२७||
इदं तु न प्रवर्तेयं निन्दितं कर्म भारत |
संनिधौ ते महाराज क्रोधजं पापबुद्धिजम् ||२८||
एष दुर्योधनो राजन्यथेच्छति तथास्तु तत् |
अहं तु सर्वान्समयाननुजानामि भारत ||२९||
एतच्छ्रुत्वा तु विदुरं धृतराष्ट्रोऽभ्यभाषत |
क्षिप्रमानय तं पापं राज्यलुब्धं सुयोधनम् ||३०||
सहमित्रं सहामात्यं ससोदर्यं सहानुगम् |
शक्नुयां यदि पन्थानमवतारयितुं पुनः ||३१||
ततो दुर्योधनं क्षत्ता पुनः प्रावेशयत्सभाम् |
अकामं भ्रातृभिः सार्धं राजभिः परिवारितम् ||३२||
अथ दुर्योधनं राजा धृतराष्ट्रोऽभ्यभाषत |
कर्णदुःशासनाभ्यां च राजभिश्चाभिसंवृतम् ||३३||
नृशंस पापभूयिष्ठ क्षुद्रकर्मसहायवान् |
पापैः सहायैः संहत्य पापं कर्म चिकीर्षसि ||३४||
अशक्यमयशस्यं च सद्भिश्चापि विगर्हितम् |
यथा त्वादृशको मूढो व्यवस्येत्कुलपांसनः ||३५||
त्वमिमं पुण्डरीकाक्षमप्रधृष्यं दुरासदम् |
पापैः सहायैः संहत्य निग्रहीतुं किलेच्छसि ||३६||
यो न शक्यो बलात्कर्तुं देवैरपि सवासवैः |
तं त्वं प्रार्थयसे मन्द बालश्चन्द्रमसं यथा ||३७||
देवैर्मनुष्यैर्गन्धर्वैरसुरैरुरगैश्च यः |
न सोढुं समरे शक्यस्तं न बुध्यसि केशवम् ||३८||
दुर्ग्रहः पाणिना वायुर्दुःस्पर्शः पाणिना शशी |
दुर्धरा पृथिवी मूर्ध्ना दुर्ग्रहः केशवो बलात् ||३९||
इत्युक्ते धृतराष्ट्रेण क्षत्तापि विदुरोऽब्रवीत् |
दुर्योधनमभिप्रेक्ष्य धार्तराष्ट्रममर्षणम् ||४०||
सौभद्वारे वानरेन्द्रो द्विविदो नाम नामतः |
शिलावर्षेण महता छादयामास केशवम् ||४१||
ग्रहीतुकामो विक्रम्य सर्वयत्नेन माधवम् |
ग्रहीतुं नाशकत्तत्र तं त्वं प्रार्थयसे बलात् ||४२||
निर्मोचने षट्सहस्राः पाशैर्बद्ध्वा महासुराः |
ग्रहीतुं नाशकंश्चैनं तं त्वं प्रार्थयसे बलात् ||४३||
प्राग्ज्योतिषगतं शौरिं नरकः सह दानवैः |
ग्रहीतुं नाशकत्तत्र तं त्वं प्रार्थयसे बलात् ||४४||
अनेन हि हता बाल्ये पूतना शिशुना तथा |
गोवर्धनो धारितश्च गवार्थे भरतर्षभ ||४५||
अरिष्टो धेनुकश्चैव चाणूरश्च महाबलः |
अश्वराजश्च निहतः कंसश्चारिष्टमाचरन् ||४६||
जरासन्धश्च वक्रश्च शिशुपालश्च वीर्यवान् |
बाणश्च निहतः सङ्ख्ये राजानश्च निषूदिताः ||४७||
वरुणो निर्जितो राजा पावकश्चामितौजसा |
पारिजातं च हरता जितः साक्षाच्छचीपतिः ||४८||
एकार्णवे शयानेन हतौ तौ मधुकैटभौ |
जन्मान्तरमुपागम्य हयग्रीवस्तथा हतः ||४९||
अयं कर्ता न क्रियते कारणं चापि पौरुषे |
यद्यदिच्छेदयं शौरिस्तत्तत्कुर्यादयत्नतः ||५०||
तं न बुध्यसि गोविन्दं घोरविक्रममच्युतम् |
आशीविषमिव क्रुद्धं तेजोराशिमनिर्जितम् ||५१||
प्रधर्षयन्महाबाहुं कृष्णमक्लिष्टकारिणम् |
पतङ्गोऽग्निमिवासाद्य सामात्यो न भविष्यसि ||५२||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
129-अध्यायः
वैशम्पायन उवाच||
विदुरेणैवमुक्ते तु केशवः शत्रुपूगहा |
दुर्योधनं धार्तराष्ट्रमभ्यभाषत वीर्यवान् ||१||
एकोऽहमिति यन्मोहान्मन्यसे मां सुयोधन |
परिभूय च दुर्बुद्धे ग्रहीतुं मां चिकीर्षसि ||२||
इहैव पाण्डवाः सर्वे तथैवान्धकवृष्णयः |
इहादित्याश्च रुद्राश्च वसवश्च महर्षिभिः ||३||
एवमुक्त्वा जहासोच्चैः केशवः परवीरहा |
तस्य संस्मयतः शौरेर्विद्युद्रूपा महात्मनः ||४||
अङ्गुष्ठमात्रास्त्रिदशा मुमुचुः पावकार्चिषः ||४||
तस्य ब्रह्मा ललाटस्थो रुद्रो वक्षसि चाभवत् |
लोकपाला भुजेष्वासन्नग्निरास्यादजायत ||५||
आदित्याश्चैव साध्याश्च वसवोऽथाश्विनावपि |
मरुतश्च सहेन्द्रेण विश्वेदेवास्तथैव च ||६||
बभूवुश्चैव रूपाणि यक्षगन्धर्वरक्षसाम् ||६||
प्रादुरास्तां तथा दोर्भ्यां सङ्कर्षणधनञ्जयौ |
दक्षिणेऽथार्जुनो धन्वी हली रामश्च सव्यतः ||७||
भीमो युधिष्ठिरश्चैव माद्रीपुत्रौ च पृष्ठतः |
अन्धका वृष्णयश्चैव प्रद्युम्नप्रमुखास्ततः ||८||
अग्रे बभूवुः कृष्णस्य समुद्यतमहायुधाः |
शङ्खचक्रगदाशक्तिशार्ङ्गलाङ्गलनन्दकाः ||९||
अदृश्यन्तोद्यतान्येव सर्वप्रहरणानि च |
नानाबाहुषु कृष्णस्य दीप्यमानानि सर्वशः ||१०||
नेत्राभ्यां नस्ततश्चैव श्रोत्राभ्यां च समन्ततः |
प्रादुरासन्महारौद्राः सधूमाः पावकार्चिषः ||११||
रोमकूपेषु च तथा सूर्यस्येव मरीचयः ||११||
तं दृष्ट्वा घोरमात्मानं केशवस्य महात्मनः |
न्यमीलयन्त नेत्राणि राजानस्त्रस्तचेतसः ||१२||
ऋते द्रोणं च भीष्मं च विदुरं च महामतिम् |
सञ्जयं च महाभागमृषींश्चैव तपोधनान् ||१३||
प्रादात्तेषां स भगवान्दिव्यं चक्षुर्जनार्दनः ||१३||
तद्दृष्ट्वा महदाश्चर्यं माधवस्य सभातले |
देवदुन्दुभयो नेदुः पुष्पवर्षं पपात च ||१४||
चचाल च मही कृत्स्ना सागरश्चापि चुक्षुभे |
विस्मयं परमं जग्मुः पार्थिवा भरतर्षभ ||१५||
ततः स पुरुषव्याघ्रः सञ्जहार वपुः स्वकम् |
तां दिव्यामद्भुतां चित्रामृद्धिमत्तामरिंदमः ||१६||
ततः सात्यकिमादाय पाणौ हार्दिक्यमेव च |
ऋषिभिस्तैरनुज्ञातो निर्ययौ मधुसूदनः ||१७||
ऋषयोऽन्तर्हिता जग्मुस्ततस्ते नारदादयः |
तस्मिन्कोलाहले वृत्ते तदद्भुतमभूत्तदा ||१८||
तं प्रस्थितमभिप्रेक्ष्य कौरवाः सह राजभिः |
अनुजग्मुर्नरव्याघ्रं देवा इव शतक्रतुम् ||१९||
अचिन्तयन्नमेयात्मा सर्वं तद्राजमण्डलम् |
निश्चक्राम ततः शौरिः सधूम इव पावकः ||२०||
ततो रथेन शुभ्रेण महता किङ्किणीकिना |
हेमजालविचित्रेण लघुना मेघनादिना ||२१||
सूपस्करेण शुभ्रेण वैयाघ्रेण वरूथिना |
सैन्यसुग्रीवयुक्तेन प्रत्यदृश्यत दारुकः ||२२||
तथैव रथमास्थाय कृतवर्मा महारथः |
वृष्णीनां संमतो वीरो हार्दिक्यः प्रत्यदृश्यत ||२३||
उपस्थितरथं शौरिं प्रयास्यन्तमरिंदमम् |
धृतराष्ट्रो महाराजः पुनरेवाभ्यभाषत ||२४||
यावद्बलं मे पुत्रेषु पश्यस्येतज्जनार्दन |
प्रत्यक्षं ते न ते किञ्चित्परोक्षं शत्रुकर्शन ||२५||
कुरूणां शममिच्छन्तं यतमानं च केशव |
विदित्वैतामवस्थां मे नातिशङ्कितुमर्हसि ||२६||
न मे पापोऽस्त्यभिप्रायः पाण्डवान्प्रति केशव |
ज्ञातमेव हि ते वाक्यं यन्मयोक्तः सुयोधनः ||२७||
जानन्ति कुरवः सर्वे राजानश्चैव पार्थिवाः |
शमे प्रयतमानं मां सर्वयत्नेन माधव ||२८||
ततोऽब्रवीन्महाबाहुर्धृतराष्ट्रं जनेश्वरम् |
द्रोणं पितामहं भीष्मं क्षत्तारं बाह्लिकं कृपम् ||२९||
प्रत्यक्षमेतद्भवतां यद्वृत्तं कुरुसंसदि |
यथा चाशिष्टवन्मन्दो रोषादसकृदुत्थितः ||३०||
वदत्यनीशमात्मानं धृतराष्ट्रो महीपतिः |
आपृच्छे भवतः सर्वान्गमिष्यामि युधिष्ठिरम् ||३१||
आमन्त्र्य प्रस्थितं शौरिं रथस्थं पुरुषर्षभम् |
अनुजग्मुर्महेष्वासाः प्रवीरा भरतर्षभाः ||३२||
भीष्मो द्रोणः कृपः क्षत्ता धृतराष्ट्रोऽथ बाह्लिकः |
अश्वत्थामा विकर्णश्च युयुत्सुश्च महारथः ||३३||
ततो रथेन शुभ्रेण महता किङ्किणीकिना |
कुरूणां पश्यतां प्रायात्पृथां द्रष्टुं पितृष्वसाम् ||३४||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
130-अध्यायः
वैशम्पायन उवाच||
प्रविश्याथ गृहं तस्याश्चरणावभिवाद्य च |
आचख्यौ तत्समासेन यद्वृत्तं कुरुसंसदि ||१||
वासुदेव उवाच||
उक्तं बहुविधं वाक्यं ग्रहणीयं सहेतुकम् |
ऋषिभिश्च मया चैव न चासौ तद्गृहीतवान् ||२||
कालपक्वमिदं सर्वं दुर्योधनवशानुगम् |
आपृच्छे भवतीं शीघ्रं प्रयास्ये पाण्डवान्प्रति ||३||
किं वाच्याः पाण्डवेयास्ते भवत्या वचनान्मया |
तद्ब्रूहि त्वं महाप्राज्ञे शुश्रूषे वचनं तव ||४||
कुन्त्युवाच||
ब्रूयाः केशव राजानं धर्मात्मानं युधिष्ठिरम् |
भूयांस्ते हीयते धर्मो मा पुत्रक वृथा कृथाः ||५||
श्रोत्रियस्येव ते राजन्मन्दकस्याविपश्चितः |
अनुवाकहता बुद्धिर्धर्ममेवैकमीक्षते ||६||
अङ्गावेक्षस्व धर्मं त्वं यथा सृष्टः स्वयम्भुवा |
उरस्तः क्षत्रियः सृष्टो बाहुवीर्योपजीविता ||७||
क्रूराय कर्मणे नित्यं प्रजानां परिपालने ||७||
शृणु चात्रोपमामेकां या वृद्धेभ्यः श्रुता मया |
मुचुकुन्दस्य राजर्षेरददात्पृथिवीमिमाम् ||८||
पुरा वैश्रवणः प्रीतो न चासौ तां गृहीतवान् ||८||
बाहुवीर्यार्जितं राज्यमश्नीयामिति कामये |
ततो वैश्रवणः प्रीतो विस्मितः समपद्यत ||९||
मुचुकुन्दस्ततो राजा सोऽन्वशासद्वसुन्धराम् |
बाहुवीर्यार्जितां सम्यक्क्षत्रधर्ममनुव्रतः ||१०||
यं हि धर्मं चरन्तीह प्रजा राज्ञा सुरक्षिताः |
चतुर्थं तस्य धर्मस्य राजा भारत विन्दति ||११||
राजा चरति चेद्धर्मं देवत्वायैव कल्पते |
स चेदधर्मं चरति नरकायैव गच्छति ||१२||
दण्डनीतिः स्वधर्मेण चातुर्वर्ण्यं नियच्छति |
प्रयुक्ता स्वामिना सम्यगधर्मेभ्यश्च यच्छति ||१३||
दण्डनीत्यां यदा राजा सम्यक्कार्त्स्न्येन वर्तते |
तदा कृतयुगं नाम कालः श्रेष्ठः प्रवर्तते ||१४||
कालो वा कारणं राज्ञो राजा वा कालकारणम् |
इति ते संशयो मा भूद्राजा कालस्य कारणम् ||१५||
राजा कृतयुगस्रष्टा त्रेताया द्वापरस्य च |
युगस्य च चतुर्थस्य राजा भवति कारणम् ||१६||
कृतस्य कारणाद्राजा स्वर्गमत्यन्तमश्नुते |
त्रेतायाः कारणाद्राजा स्वर्गं नात्यन्तमश्नुते ||१७||
प्रवर्तनाद्द्वापरस्य यथाभागमुपाश्नुते ||१७||
ततो वसति दुष्कर्मा नरके शाश्वतीः समाः |
राजदोषेण हि जगत्स्पृश्यते जगतः स च ||१८||
राजधर्मानवेक्षस्व पितृपैतामहोचितान् |
नैतद्राजर्षिवृत्तं हि यत्र त्वं स्थातुमिच्छसि ||१९||
न हि वैक्लव्यसंसृष्ट आनृशंस्ये व्यवस्थितः |
प्रजापालनसम्भूतं किञ्चित्प्राप फलं नृपः ||२०||
न ह्येतामाशिषं पाण्डुर्न चाहं न पितामहः |
प्रयुक्तवन्तः पूर्वं ते यया चरसि मेधया ||२१||
यज्ञो दानं तपः शौर्यं प्रजासन्तानमेव च |
माहात्म्यं बलमोजश्च नित्यमाशंसितं मया ||२२||
नित्यं स्वाहा स्वधा नित्यं ददुर्मानुषदेवताः |
दीर्घमायुर्धनं पुत्रान्सम्यगाराधिताः शुभाः ||२३||
पुत्रेष्वाशासते नित्यं पितरो दैवतानि च |
दानमध्ययनं यज्ञं प्रजानां परिपालनम् ||२४||
एतद्धर्ममधर्मं वा जन्मनैवाभ्यजायथाः |
ते स्थ वैद्याः कुले जाता अवृत्त्या तात पीडिताः ||२५||
यत्तु दानपतिं शूरं क्षुधिताः पृथिवीचराः |
प्राप्य तृप्ताः प्रतिष्ठन्ते धर्मः कोऽभ्यधिकस्ततः ||२६||
दानेनान्यं बलेनान्यं तथा सूनृतयापरम् |
सर्वतः प्रतिगृह्णीयाद्राज्यं प्राप्येह धार्मिकः ||२७||
ब्राह्मणः प्रचरेद्भैक्षं क्षत्रियः परिपालयेत् |
वैश्यो धनार्जनं कुर्याच्छूद्रः परिचरेच्च तान् ||२८||
भैक्षं विप्रतिषिद्धं ते कृषिर्नैवोपपद्यते |
क्षत्रियोऽसि क्षतात्त्राता बाहुवीर्योपजीविता ||२९||
पित्र्यमंशं महाबाहो निमग्नं पुनरुद्धर |
साम्ना दानेन भेदेन दण्डेनाथ नयेन च ||३०||
इतो दुःखतरं किं नु यदहं हीनबान्धवा |
परपिण्डमुदीक्षामि त्वां सूत्वामित्रनन्दन ||३१||
युध्यस्व राजधर्मेण मा निमज्जीः पितामहान् |
मा गमः क्षीणपुण्यस्त्वं सानुजः पापिकां गतिम् ||३२||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
131-अध्यायः
विदुरापुत्रानुशासनम्
कुन्त्युवाच||
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
विदुरायाश्च संवादं पुत्रस्य च परन्तप ||१||
अत्र श्रेयश्च भूयश्च यथा सा वक्तुमर्हति |
यशस्विनी मन्युमती कुले जाता विभावरी ||२||
क्षत्रधर्मरता धन्या विदुरा दीर्घदर्शिनी |
विश्रुता राजसंसत्सु श्रुतवाक्या बहुश्रुता ||३||
विदुरा नाम वै सत्या जगर्हे पुत्रमौरसम् |
निर्जितं सिन्धुराजेन शयानं दीनचेतसम् ||४||
अनन्दनमधर्मज्ञं द्विषतां हर्षवर्धनम् ||४||
न मया त्वं न पित्रासि जातः क्वाभ्यागतो ह्यसि |
निर्मन्युरुपशाखीयः पुरुषः क्लीबसाधनः ||५||
यावज्जीवं निराशोऽसि कल्याणाय धुरं वह |
मात्मानमवमन्यस्व मैनमल्पेन बीभरः ||६||
मनः कृत्वा सुकल्याणं मा भैस्त्वं प्रतिसंस्तभ ||६||
उत्तिष्ठ हे कापुरुष मा शेष्वैवं पराजितः |
अमित्रान्नन्दयन्सर्वान्निर्मानो बन्धुशोकदः ||७||
सुपूरा वै कुनदिका सुपूरो मूषिकाञ्जलिः |
सुसन्तोषः कापुरुषः स्वल्पकेनापि तुष्यति ||८||
अप्यरेरारुजन्दंष्ट्रामाश्वेव निधनं व्रज |
अपि वा संशयं प्राप्य जीवितेऽपि पराक्रम ||९||
अप्यरेः श्येनवच्छिद्रं पश्येस्त्वं विपरिक्रमन् |
विनदन्वाथ वा तूष्णीं व्योम्नि वापरिशङ्कितः ||१०||
त्वमेवं प्रेतवच्छेषे कस्माद्वज्रहतो यथा |
उत्तिष्ठ हे कापुरुष मा शेष्वैवं पराजितः ||११||
मास्तं गमस्त्वं कृपणो विश्रूयस्व स्वकर्मणा |
मा मध्ये मा जघन्ये त्वं माधो भूस्तिष्ठ चोर्जितः ||१२||
अलातं तिन्दुकस्येव मुहूर्तमपि विज्वल |
मा तुषाग्निरिवानर्चिः काकरङ्खा जिजीविषुः ||१३||
मुहूर्तं ज्वलितं श्रेयो न तु धूमायितं चिरम् ||१३||
मा ह स्म कस्यचिद्गेहे जनी राज्ञः खरीमृदुः |
कृत्वा मानुष्यकं कर्म सृत्वाजिं यावदुत्तमम् ||१४||
धर्मस्यानृण्यमाप्नोति न चात्मानं विगर्हते ||१४||
अलब्ध्वा यदि वा लब्ध्वा नानुशोचन्ति पण्डिताः |
आनन्तर्यं चारभते न प्राणानां धनायते ||१५||
उद्भावयस्व वीर्यं वा तां वा गच्छ ध्रुवां गतिम् |
धर्मं पुत्राग्रतः कृत्वा किंनिमित्तं हि जीवसि ||१६||
इष्टापूर्तं हि ते क्लीब कीर्तिश्च सकला हता |
विच्छिन्नं भोगमूलं ते किंनिमित्तं हि जीवसि ||१७||
शत्रुर्निमज्जता ग्राह्यो जङ्घायां प्रपतिष्यता |
विपरिच्छिन्नमूलोऽपि न विषीदेत्कथञ्चन ||१८||
उद्यम्य धुरमुत्कर्षेदाजानेयकृतं स्मरन् ||१८||
कुरु सत्त्वं च मानं च विद्धि पौरुषमात्मनः |
उद्भावय कुलं मग्नं त्वत्कृते स्वयमेव हि ||१९||
यस्य वृत्तं न जल्पन्ति मानवा महदद्भुतम् |
राशिवर्धनमात्रं स नैव स्त्री न पुनः पुमान् ||२०||
दाने तपसि शौर्ये च यस्य न प्रथितं यशः |
विद्यायामर्थलाभे वा मातुरुच्चार एव सः ||२१||
श्रुतेन तपसा वापि श्रिया वा विक्रमेण वा |
जनान्योऽभिभवत्यन्यान्कर्मणा हि स वै पुमान् ||२२||
न त्वेव जाल्मीं कापालीं वृत्तिमेषितुमर्हसि |
नृशंस्यामयशस्यां च दुःखां कापुरुषोचिताम् ||२३||
यमेनमभिनन्देयुरमित्राः पुरुषं कृशम् |
लोकस्य समवज्ञातं निहीनाशनवाससम् ||२४||
अहोलाभकरं दीनमल्पजीवनमल्पकम् |
नेदृशं बन्धुमासाद्य बान्धवः सुखमेधते ||२५||
अवृत्त्यैव विपत्स्यामो वयं राष्ट्रात्प्रवासिताः |
सर्वकामरसैर्हीनाः स्थानभ्रष्टा अकिञ्चनाः ||२६||
अवर्णकारिणं सत्सु कुलवंशस्य नाशनम् |
कलिं पुत्रप्रवादेन सञ्जय त्वामजीजनम् ||२७||
निरमर्षं निरुत्साहं निर्वीर्यमरिनन्दनम् |
मा स्म सीमन्तिनी काचिज्जनयेत्पुत्रमीदृशम् ||२८||
मा धूमाय ज्वलात्यन्तमाक्रम्य जहि शात्रवान् |
ज्वल मूर्धन्यमित्राणां मुहूर्तमपि वा क्षणम् ||२९||
एतावानेव पुरुषो यदमर्षी यदक्षमी |
क्षमावान्निरमर्षश्च नैव स्त्री न पुनः पुमान् ||३०||
सन्तोषो वै श्रियं हन्ति तथानुक्रोश एव च |
अनुत्थानभये चोभे निरीहो नाश्नुते महत् ||३१||
एभ्यो निकृतिपापेभ्यः प्रमुञ्चात्मानमात्मना |
आयसं हृदयं कृत्वा मृगयस्व पुनः स्वकम् ||३२||
पुरं विषहते यस्मात्तस्मात्पुरुष उच्यते |
तमाहुर्व्यर्थनामानं स्त्रीवद्य इह जीवति ||३३||
शूरस्योर्जितसत्त्वस्य सिंहविक्रान्तगामिनः |
दिष्टभावं गतस्यापि विघसे मोदते प्रजा ||३४||
य आत्मनः प्रियसुखे हित्वा मृगयते श्रियम् |
अमात्यानामथो हर्षमादधात्यचिरेण सः ||३५||
पुत्र उवाच||
किं नु ते मामपश्यन्त्याः पृथिव्या अपि सर्वया |
किमाभरणकृत्यं ते किं भोगैर्जीवितेन वा ||३६||
मातोवाच||
किमद्यकानां ये लोका द्विषन्तस्तानवाप्नुयुः |
ये त्वादृतात्मनां लोकाः सुहृदस्तान्व्रजन्तु नः ||३७||
भृत्यैर्विहीयमानानां परपिण्डोपजीविनाम् |
कृपणानामसत्त्वानां मा वृत्तिमनुवर्तिथाः ||३८||
अनु त्वां तात जीवन्तु ब्राह्मणाः सुहृदस्तथा |
पर्जन्यमिव भूतानि देवा इव शतक्रतुम् ||३९||
यमाजीवन्ति पुरुषं सर्वभूतानि सञ्जय |
पक्वं द्रुममिवासाद्य तस्य जीवितमर्थवत् ||४०||
यस्य शूरस्य विक्रान्तैरेधन्ते बान्धवाः सुखम् |
त्रिदशा इव शक्रस्य साधु तस्येह जीवितम् ||४१||
स्वबाहुबलमाश्रित्य योऽभ्युज्जीवति मानवः |
स लोके लभते कीर्तिं परत्र च शुभां गतिम् ||४२||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
132-अध्यायः
विदुरोवाच||
अथैतस्यामवस्थायां पौरुषं हातुमिच्छसि |
निहीनसेवितं मार्गं गमिष्यस्यचिरादिव ||१||
यो हि तेजो यथाशक्ति न दर्शयति विक्रमात् |
क्षत्रियो जीविताकाङ्क्षी स्तेन इत्येव तं विदुः ||२||
अर्थवन्त्युपपन्नानि वाक्यानि गुणवन्ति च |
नैव सम्प्राप्नुवन्ति त्वां मुमूर्षुमिव भेषजम् ||३||
सन्ति वै सिन्धुराजस्य सन्तुष्टा बहवो जनाः |
दौर्बल्यादासते मूढा व्यसनौघप्रतीक्षिणः ||४||
सहायोपचयं कृत्वा व्यवसाय्य ततस्ततः |
अनुदुष्येयुरपरे पश्यन्तस्तव पौरुषम् ||५||
तैः कृत्वा सह सङ्घातं गिरिदुर्गालयांश्चर |
काले व्यसनमाकाङ्क्षन्नैवायमजरामरः ||६||
सञ्जयो नामतश्च त्वं न च पश्यामि तत्त्वयि |
अन्वर्थनामा भव मे पुत्र मा व्यर्थनामकः ||७||
सम्यग्दृष्टिर्महाप्राज्ञो बालं त्वां ब्राह्मणोऽब्रवीत् |
अयं प्राप्य महत्कृच्छ्रं पुनर्वृद्धिं गमिष्यति ||८||
तस्य स्मरन्ती वचनमाशंसे विजयं तव |
तस्मात्तात ब्रवीमि त्वां वक्ष्यामि च पुनः पुनः ||९||
यस्य ह्यर्थाभिनिर्वृत्तौ भवन्त्याप्यायिताः परे |
तस्यार्थसिद्धिर्नियता नयेष्वर्थानुसारिणः ||१०||
समृद्धिरसमृद्धिर्वा पूर्वेषां मम सञ्जय |
एवं विद्वान्युद्धमना भव मा प्रत्युपाहर ||११||
नातः पापीयसीं काञ्चिदवस्थां शम्बरोऽब्रवीत् |
यत्र नैवाद्य न प्रातर्भोजनं प्रतिदृश्यते ||१२||
पतिपुत्रवधादेतत्परमं दुःखमब्रवीत् |
दारिद्र्यमिति यत्प्रोक्तं पर्यायमरणं हि तत् ||१३||
अहं महाकुले जाता ह्रदाद्ध्रदमिवागता |
ईश्वरी सर्वकल्याणैर्भर्त्रा परमपूजिता ||१४||
महार्हमाल्याभरणां सुमृष्टाम्बरवाससम् |
पुरा दृष्ट्वा सुहृद्वर्गो मामपश्यत्सुदुर्गताम् ||१५||
यदा मां चैव भार्यां च द्रष्टासि भृशदुर्बले |
न तदा जीवितेनार्थो भविता तव सञ्जय ||१६||
दासकर्मकरान्भृत्यानाचार्यर्त्विक्पुरोहितान् |
अवृत्त्यास्मान्प्रजहतो दृष्ट्वा किं जीवितेन ते ||१७||
यदि कृत्यं न पश्यामि तवाद्येह यथा पुरा |
श्लाघनीयं यशस्यं च का शान्तिर्हृदयस्य मे ||१८||
नेति चेद्ब्राह्मणान्ब्रूयां दीर्यते हृदयं मम |
न ह्यहं न च मे भर्ता नेति ब्राह्मणमुक्तवान् ||१९||
वयमाश्रयणीयाः स्म नाश्रितारः परस्य च |
सान्यानाश्रित्य जीवन्ती परित्यक्ष्यामि जीवितम् ||२०||
अपारे भव नः पारमप्लवे भव नः प्लवः |
कुरुष्व स्थानमस्थाने मृतान्सञ्जीवयस्व नः ||२१||
सर्वे ते शत्रवः सह्या न चेज्जीवितुमिच्छसि |
अथ चेदीदृशीं वृत्तिं क्लीबामभ्युपपद्यसे ||२२||
निर्विण्णात्मा हतमना मुञ्चैतां पापजीविकाम् |
एकशत्रुवधेनैव शूरो गच्छति विश्रुतिम् ||२३||
इन्द्रो वृत्रवधेनैव महेन्द्रः समपद्यत |
माहेन्द्रं च ग्रहं लेभे लोकानां चेश्वरोऽभवत् ||२४||
नाम विश्राव्य वा सङ्ख्ये शत्रूनाहूय दंशितान् |
सेनाग्रं वापि विद्राव्य हत्वा वा पुरुषं वरम् ||२५||
यदैव लभते वीरः सुयुद्धेन महद्यशः |
तदैव प्रव्यथन्तेऽस्य शत्रवो विनमन्ति च ||२६||
त्यक्त्वात्मानं रणे दक्षं शूरं कापुरुषा जनाः |
अवशाः पूरयन्ति स्म सर्वकामसमृद्धिभिः ||२७||
राज्यं वाप्युग्रविभ्रंशं संशयो जीवितस्य वा |
प्रलब्धस्य हि शत्रोर्वै शेषं कुर्वन्ति साधवः ||२८||
स्वर्गद्वारोपमं राज्यमथ वाप्यमृतोपमम् |
रुद्धमेकायने मत्वा पतोल्मुक इवारिषु ||२९||
जहि शत्रून्रणे राजन्स्वधर्ममनुपालय |
मा त्वा पश्येत्सुकृपणं शत्रुः श्रीमान्कदाचन ||३०||
अस्मदीयैश्च शोचद्भिर्नदद्भिश्च परैर्वृतम् |
अपि त्वां नानुपश्येयं दीना दीनमवस्थितम् ||३१||
उष्य सौवीरकन्याभिः श्लाघस्वार्थैर्यथा पुरा |
मा च सैन्धवकन्यानामवसन्नो वशं गमः ||३२||
युवा रूपेण सम्पन्नो विद्ययाभिजनेन च |
यस्त्वादृशो विकुर्वीत यशस्वी लोकविश्रुतः ||३३||
वोढव्ये धुर्यनडुवन्मन्ये मरणमेव तत् ||३३||
यदि त्वामनुपश्यामि परस्य प्रियवादिनम् |
पृष्ठतोऽनुव्रजन्तं वा का शान्तिर्हृदयस्य मे ||३४||
नास्मिञ्जातु कुले जातो गच्छेद्योऽन्यस्य पृष्ठतः |
न त्वं परस्यानुधुरं तात जीवितुमर्हसि ||३५||
अहं हि क्षत्रहृदयं वेद यत्परिशाश्वतम् |
पूर्वैः पूर्वतरैः प्रोक्तं परैः परतरैरपि ||३६||
यो वै कश्चिदिहाजातः क्षत्रियः क्षत्रधर्मवित् |
भयाद्वृत्तिसमीक्षो वा न नमेदिह कस्यचित् ||३७||
उद्यच्छेदेव न नमेदुद्यमो ह्येव पौरुषम् |
अप्यपर्वणि भज्येत न नमेदिह कस्यचित् ||३८||
मातङ्गो मत्त इव च परीयात्सुमहामनाः |
ब्राह्मणेभ्यो नमेन्नित्यं धर्मायैव च सञ्जय ||३९||
नियच्छन्नितरान्वर्णान्विनिघ्नन्सर्वदुष्कृतः |
ससहायोऽसहायो वा यावज्जीवं तथा भवेत् ||४०||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
133-अध्यायः
पुत्र उवाच||
कृष्णायसस्येव च ते संहत्य हृदयं कृतम् |
मम मातस्त्वकरुणे वैरप्रज्ञे ह्यमर्षणे ||१||
अहो क्षत्रसमाचारो यत्र मामपरं यथा |
ईदृशं वचनं ब्रूयाद्भवती पुत्रमेकजम् ||२||
किं नु ते मामपश्यन्त्याः पृथिव्या अपि सर्वया |
किमाभरणकृत्यं ते किं भोगैर्जीवितेन वा ||३||
मातोवाच||
सर्वारम्भा हि विदुषां तात धर्मार्थकारणात् |
तानेवाभिसमीक्ष्याहं सञ्जय त्वामचूचुदम् ||४||
स समीक्ष्यक्रमोपेतो मुख्यः कालोऽयमागतः |
अस्मिंश्चेदागते काले कार्यं न प्रतिपद्यसे ||५||
असम्भावितरूपस्त्वं सुनृशंसं करिष्यसि ||५||
तं त्वामयशसा स्पृष्टं न ब्रूयां यदि सञ्जय |
खरीवात्सल्यमाहुस्तन्निःसामर्थ्यमहेतुकम् ||६||
सद्भिर्विगर्हितं मार्गं त्यज मूर्खनिषेवितम् |
अविद्या वै महत्यस्ति यामिमां संश्रिताः प्रजाः ||७||
तव स्याद्यदि सद्वृत्तं तेन मे त्वं प्रियो भवेः |
धर्मार्थगुणयुक्तेन नेतरेण कथञ्चन ||८||
दैवमानुषयुक्तेन सद्भिराचरितेन च ||८||
यो ह्येवमविनीतेन रमते पुत्रनप्तृणा |
अनुत्थानवता चापि मोघं तस्य प्रजाफलम् ||९||
अकुर्वन्तो हि कर्माणि कुर्वन्तो निन्दितानि च |
सुखं नैवेह नामुत्र लभन्ते पुरुषाधमाः ||१०||
युद्धाय क्षत्रियः सृष्टः सञ्जयेह जयाय च |
क्रूराय कर्मणे नित्यं प्रजानां परिपालने ||११||
जयन्वा वध्यमानो वा प्राप्नोतीन्द्रसलोकताम् ||११||
न शक्रभवने पुण्ये दिवि तद्विद्यते सुखम् |
यदमित्रान्वशे कृत्वा क्षत्रियः सुखमश्नुते ||१२||
मन्युना दह्यमानेन पुरुषेण मनस्विना |
निकृतेनेह बहुशः शत्रून्प्रतिजिगीषया ||१३||
आत्मानं वा परित्यज्य शत्रून्वा विनिपात्य वै |
अतोऽन्येन प्रकारेण शान्तिरस्य कुतो भवेत् ||१४||
इह प्राज्ञो हि पुरुषः स्वल्पमप्रियमिच्छति |
यस्य स्वल्पं प्रियं लोके ध्रुवं तस्याल्पमप्रियम् ||१५||
प्रियाभावाच्च पुरुषो नैव प्राप्नोति शोभनम् |
ध्रुवं चाभावमभ्येति गत्वा गङ्गेव सागरम् ||१६||
पुत्र उवाच||
नेयं मतिस्त्वया वाच्या मातः पुत्रे विशेषतः |
कारुण्यमेवात्र पश्य भूत्वेह जडमूकवत् ||१७||
मातोवाच||
अतो मे भूयसी नन्दिर्यदेवमनुपश्यसि |
चोद्यं मां चोदयस्येतद्भृशं वै चोदयामि ते ||१८||
अथ त्वां पूजयिष्यामि हत्वा वै सर्वसैन्धवान् |
अहं पश्यामि विजयं कृत्स्नं भाविनमेव ते ||१९||
पुत्र उवाच||
अकोशस्यासहायस्य कुतः स्विद्विजयो मम |
इत्यवस्थां विदित्वेमामात्मनात्मनि दारुणाम् ||२०||
राज्याद्भावो निवृत्तो मे त्रिदिवादिव दुष्कृतेः ||२०||
ईदृशं भवती कञ्चिदुपायमनुपश्यति |
तन्मे परिणतप्रज्ञे सम्यक्प्रब्रूहि पृच्छते ||२१||
करिष्यामि हि तत्सर्वं यथावदनुशासनम् ||२१||
मातोवाच||
पुत्रात्मा नावमन्तव्यः पूर्वाभिरसमृद्धिभिः |
अभूत्वा हि भवन्त्यर्था भूत्वा नश्यन्ति चापरे ||२२||
अमर्षेणैव चाप्यर्था नारब्धव्याः सुबालिशैः |
सर्वेषां कर्मणां तात फले नित्यमनित्यता ||२३||
अनित्यमिति जानन्तो न भवन्ति भवन्ति च |
अथ ये नैव कुर्वन्ति नैव जातु भवन्ति ते ||२४||
ऐकगुण्यमनीहायामभावः कर्मणां फलम् |
अथ द्वैगुण्यमीहायां फलं भवति वा न वा ||२५||
यस्य प्रागेव विदिता सर्वार्थानामनित्यता |
नुदेद्वृद्धिसमृद्धी स प्रतिकूले नृपात्मज ||२६||
उत्थातव्यं जागृतव्यं योक्तव्यं भूतिकर्मसु |
भविष्यतीत्येव मनः कृत्वा सततमव्यथैः ||२७||
मङ्गलानि पुरस्कृत्य ब्राह्मणैश्चेश्वरैः सह ||२७||
प्राज्ञस्य नृपतेराशु वृद्धिर्भवति पुत्रक |
अभिवर्तति लक्ष्मीस्तं प्राचीमिव दिवाकरः ||२८||
निदर्शनान्युपायांश्च बहून्युद्धर्षणानि च |
अनुदर्शितरूपोऽसि पश्यामि कुरु पौरुषम् ||२९||
पुरुषार्थमभिप्रेतं समाहर्तुमिहार्हसि ||२९||
क्रुद्धाँल्लुब्धान्परिक्षीणानवक्षिप्तान्विमानितान् |
स्पर्धिनश्चैव ये केचित्तान्युक्त उपधारय ||३०||
एतेन त्वं प्रकारेण महतो भेत्स्यसे गणान् |
महावेग इवोद्धूतो मातरिश्वा बलाहकान् ||३१||
तेषामग्रप्रदायी स्याः कल्योत्थायी प्रियंवदः |
ते त्वां प्रियं करिष्यन्ति पुरो धास्यन्ति च ध्रुवम् ||३२||
यदैव शत्रुर्जानीयात्सपत्नं त्यक्तजीवितम् |
तदैवास्मादुद्विजते सर्पाद्वेश्मगतादिव ||३३||
तं विदित्वा पराक्रान्तं वशे न कुरुते यदि |
निर्वादैर्निर्वदेदेनमन्ततस्तद्भविष्यति ||३४||
निर्वादादास्पदं लब्ध्वा धनवृद्धिर्भविष्यति |
धनवन्तं हि मित्राणि भजन्ते चाश्रयन्ति च ||३५||
स्खलितार्थं पुनस्तात सन्त्यजन्त्यपि बान्धवाः |
अप्यस्मिन्नाश्रयन्ते च जुगुप्सन्ति च तादृशम् ||३६||
शत्रुं कृत्वा यः सहायं विश्वासमुपगच्छति |
अतः सम्भाव्यमेवैतद्यद्राज्यं प्राप्नुयादिति ||३७||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
134-अध्यायः
मातोवाच||
नैव राज्ञा दरः कार्यो जातु कस्याञ्चिदापदि |
अथ चेदपि दीर्णः स्यान्नैव वर्तेत दीर्णवत् ||१||
दीर्णं हि दृष्ट्वा राजानं सर्वमेवानुदीर्यते |
राष्ट्रं बलममात्याश्च पृथक्कुर्वन्ति ते मतिम् ||२||
शत्रूनेके प्रपद्यन्ते प्रजहत्यपरे पुनः |
अन्वेके प्रजिहीर्षन्ति ये पुरस्ताद्विमानिताः ||३||
य एवात्यन्तसुहृदस्त एनं पर्युपासते |
अशक्तयः स्वस्तिकामा बद्धवत्सा इडा इव ||४||
शोचन्तमनुशोचन्ति प्रतीतानिव बान्धवान् ||४||
अपि ते पूजिताः पूर्वमपि ते सुहृदो मताः |
ये राष्ट्रमभिमन्यन्ते राज्ञो व्यसनमीयुषः ||५||
मा दीदरस्त्वं सुहृदो मा त्वां दीर्णं प्रहासिषुः ||५||
प्रभावं पौरुषं बुद्धिं जिज्ञासन्त्या मया तव |
उल्लपन्त्या समाश्वासं बलवानिव दुर्बलम् ||६||
यद्येतत्संविजानासि यदि सम्यग्ब्रवीम्यहम् |
कृत्वासौम्यमिवात्मानं जयायोत्तिष्ठ सञ्जय ||७||
अस्ति नः कोशनिचयो महानविदितस्तव |
तमहं वेद नान्यस्तमुपसम्पादयामि ते ||८||
सन्ति नैकशता भूयः सुहृदस्तव सञ्जय |
सुखदुःखसहा वीर शतार्हा अनिवर्तिनः ||९||
तादृशा हि सहाया वै पुरुषस्य बुभूषतः |
ईषदुज्जिहतः किञ्चित्सचिवाः शत्रुकर्शनाः ||१०||
पुत्र उवाच||
कस्य त्वीदृशकं वाक्यं श्रुत्वापि स्वल्पचेतसः |
तमो न व्यपहन्येत सुचित्रार्थपदाक्षरम् ||११||
उदके धूरियं धार्या सर्तव्यं प्रवणे मया |
यस्य मे भवती नेत्री भविष्यद्भूतदर्शिनी ||१२||
अहं हि वचनं त्वत्तः शुश्रूषुरपरापरम् |
किञ्चित्किञ्चित्प्रतिवदंस्तूष्णीमासं मुहुर्मुहुः ||१३||
अतृप्यन्नमृतस्येव कृच्छ्राल्लब्धस्य बान्धवात् |
उद्यच्छाम्येष शत्रूणां नियमाय जयाय च ||१४||
कुन्त्युवाच||
सदश्व इव स क्षिप्तः प्रणुन्नो वाक्यसायकैः |
तच्चकार तथा सर्वं यथावदनुशासनम् ||१५||
इदमुद्धर्षणं भीमं तेजोवर्धनमुत्तमम् |
राजानं श्रावयेन्मन्त्री सीदन्तं शत्रुपीडितम् ||१६||
जयो नामेतिहासोऽयं श्रोतव्यो विजिगीषुणा |
महीं विजयते क्षिप्रं श्रुत्वा शत्रूंश्च मर्दति ||१७||
इदं पुंसवनं चैव वीराजननमेव च |
अभीक्ष्णं गर्भिणी श्रुत्वा ध्रुवं वीरं प्रजायते ||१८||
विद्याशूरं तपःशूरं दमशूरं तपस्विनम् |
ब्राह्म्या श्रिया दीप्यमानं साधुवादेन संमतम् ||१९||
अर्चिष्मन्तं बलोपेतं महाभागं महारथम् |
धृष्टवन्तमनाधृष्यं जेतारमपराजितम् ||२०||
नियन्तारमसाधूनां गोप्तारं धर्मचारिणाम् |
तदर्थं क्षत्रिया सूते वीरं सत्यपराक्रमम् ||२१||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
135-अध्यायः
कुन्त्युवाच||
अर्जुनं केशव ब्रूयास्त्वयि जाते स्म सूतके |
उपोपविष्टा नारीभिराश्रमे परिवारिता ||१||
अथान्तरिक्षे वागासीद्दिव्यरूपा मनोरमा |
सहस्राक्षसमः कुन्ति भविष्यत्येष ते सुतः ||२||
एष जेष्यति सङ्ग्रामे कुरून्सर्वान्समागतान् |
भीमसेनद्वितीयश्च लोकमुद्वर्तयिष्यति ||३||
पुत्रस्ते पृथिवीं जेता यशश्चास्य दिवस्पृशम् |
हत्वा कुरून्ग्रामजन्ये वासुदेवसहायवान् ||४||
पित्र्यमंशं प्रनष्टं च पुनरप्युद्धरिष्यति |
भ्रातृभिः सहितः श्रीमांस्त्रीन्मेधानाहरिष्यति ||५||
तं सत्यसन्धं बीभत्सुं सव्यसाचिनमच्युत |
यथाहमेवं जानामि बलवन्तं दुरासदम् ||६||
तथा तदस्तु दाशार्ह यथा वागभ्यभाषत ||६||
धर्मश्चेदस्ति वार्ष्णेय तथा सत्यं भविष्यति |
त्वं चापि तत्तथा कृष्ण सर्वं सम्पादयिष्यसि ||७||
नाहं तदभ्यसूयामि यथा वागभ्यभाषत |
नमो धर्माय महते धर्मो धारयति प्रजाः ||८||
एतद्धनञ्जयो वाच्यो नित्योद्युक्तो वृकोदरः |
यदर्थं क्षत्रिया सूते तस्य कालोऽयमागतः ||९||
न हि वैरं समासाद्य सीदन्ति पुरुषर्षभाः ||९||
विदिता ते सदा बुद्धिर्भीमस्य न स शाम्यति |
यावदन्तं न कुरुते शत्रूणां शत्रुकर्शनः ||१०||
सर्वधर्मविशेषज्ञां स्नुषां पाण्डोर्महात्मनः |
ब्रूया माधव कल्याणीं कृष्णां कृष्ण यशस्विनीम् ||११||
युक्तमेतन्महाभागे कुले जाते यशस्विनि |
यन्मे पुत्रेषु सर्वेषु यथावत्त्वमवर्तिथाः ||१२||
माद्रीपुत्रौ च वक्तव्यौ क्षत्रधर्मरतावुभौ |
विक्रमेणार्जितान्भोगान्वृणीतं जीवितादपि ||१३||
विक्रमाधिगता ह्यर्थाः क्षत्रधर्मेण जीवतः |
मनो मनुष्यस्य सदा प्रीणन्ति पुरुषोत्तम ||१४||
यच्च वः प्रेक्षमाणानां सर्वधर्मोपचायिनी |
पाञ्चाली परुषाण्युक्ता को नु तत्क्षन्तुमर्हति ||१५||
न राज्यहरणं दुःखं द्यूते चापि पराजयः |
प्रव्राजनं सुतानां वा न मे तद्दुःखकारणम् ||१६||
यत्तु सा बृहती श्यामा सभायां रुदती तदा |
अश्रौषीत्परुषा वाचस्तन्मे दुःखतरं मतम् ||१७||
स्त्रीधर्मिणी वरारोहा क्षत्रधर्मरता सदा |
नाध्यगच्छत्तदा नाथं कृष्णा नाथवती सती ||१८||
तं वै ब्रूहि महाबाहो सर्वशस्त्रभृतां वरम् |
अर्जुनं पुरुषव्याघ्रं द्रौपद्याः पदवीं चर ||१९||
विदितौ हि तवात्यन्तं क्रुद्धाविव यमान्तकौ |
भीमार्जुनौ नयेतां हि देवानपि परां गतिम् ||२०||
तयोश्चैतदवज्ञानं यत्सा कृष्णा सभागता |
दुःशासनश्च यद्भीमं कटुकान्यभ्यभाषत ||२१||
पश्यतां कुरुवीराणां तच्च संस्मारयेः पुनः ||२१||
पाण्डवान्कुशलं पृच्छेः सपुत्रान्कृष्णया सह |
मां च कुशलिनीं ब्रूयास्तेषु भूयो जनार्दन ||२२||
अरिष्टं गच्छ पन्थानं पुत्रान्मे परिपालय ||२२||
वैशम्पायन उवाच||
अभिवाद्याथ तां कृष्णः कृत्वा चाभिप्रदक्षिणम् |
निश्चक्राम महाबाहुः सिंहखेलगतिस्ततः ||२३||
ततो विसर्जयामास भीष्मादीन्कुरुपुङ्गवान् |
आरोप्य च रथे कर्णं प्रायात्सात्यकिना सह ||२४||
ततः प्रयाते दाशार्हे कुरवः सङ्गता मिथः |
जजल्पुर्महदाश्चर्यं केशवे परमाद्भुतम् ||२५||
प्रमूढा पृथिवी सर्वा मृत्युपाशसिता कृता |
दुर्योधनस्य बालिश्यान्नैतदस्तीति चाब्रुवन् ||२६||
ततो निर्याय नगरात्प्रययौ पुरुषोत्तमः |
मन्त्रयामास च तदा कर्णेन सुचिरं सह ||२७||
विसर्जयित्वा राधेयं सर्वयादवनन्दनः |
ततो जवेन महता तूर्णमश्वानचोदयत् ||२८||
ते पिबन्त इवाकाशं दारुकेण प्रचोदिताः |
हया जग्मुर्महावेगा मनोमारुतरंहसः ||२९||
ते व्यतीत्य तमध्वानं क्षिप्रं श्येना इवाशुगाः |
उच्चैः सूर्यमुपप्लव्यं शार्ङ्गधन्वानमावहन् ||३०||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
136-अध्यायः
वैशम्पायन उवाच||
कुन्त्यास्तु वचनं श्रुत्वा भीष्मद्रोणौ महारथौ |
दुर्योधनमिदं वाक्यमूचतुः शासनातिगम् ||१||
श्रुतं ते पुरुषव्याघ्र कुन्त्याः कृष्णस्य संनिधौ |
वाक्यमर्थवदव्यग्रमुक्तं धर्म्यमनुत्तमम् ||२||
तत्करिष्यन्ति कौन्तेया वासुदेवस्य संमतम् |
न हि ते जातु शाम्येरन्नृते राज्येन कौरव ||३||
क्लेशिता हि त्वया पार्था धर्मपाशसितास्तदा |
सभायां द्रौपदी चैव तैश्च तन्मर्षितं तव ||४||
कृतास्त्रं ह्यर्जुनं प्राप्य भीमं च कृतनिश्रमम् |
गाण्डीवं चेषुधी चैव रथं च ध्वजमेव च ||५||
सहायं वासुदेवं च न क्षंस्यति युधिष्ठिरः ||५||
प्रत्यक्षं ते महाबाहो यथा पार्थेन धीमता |
विराटनगरे पूर्वं सर्वे स्म युधि निर्जिताः ||६||
दानवान्घोरकर्माणो निवातकवचान्युधि |
रौद्रमस्त्रं समाधाय दग्धवानस्त्रवह्निना ||७||
कर्णप्रभृतयश्चेमे त्वं चापि कवची रथी |
मोक्षिता घोषयात्रायां पर्याप्तं तन्निदर्शनम् ||८||
प्रशाम्य भरतश्रेष्ठ भ्रातृभिः सह पाण्डवैः |
रक्षेमां पृथिवीं सर्वां मृत्योर्दंष्ट्रान्तरं गताम् ||९||
ज्येष्ठो भ्राता धर्मशीलो वत्सलः श्लक्ष्णवाक्षुचिः |
तं गच्छ पुरुषव्याघ्रं व्यपनीयेह किल्बिषम् ||१०||
दृष्टश्चेत्त्वं पाण्डवेन व्यपनीतशरासनः |
प्रसन्नभ्रुकुटिः श्रीमान्कृता शान्तिः कुलस्य नः ||११||
तमभ्येत्य सहामात्यः परिष्वज्य नृपात्मजम् |
अभिवादय राजानं यथापूर्वमरिंदम ||१२||
अभिवादयमानं त्वां पाणिभ्यां भीमपूर्वजः |
प्रतिगृह्णातु सौहार्दात्कुन्तीपुत्रो युधिष्ठिरः ||१३||
सिंहस्कन्धोरुबाहुस्त्वां वृत्तायतमहाभुजः |
परिष्वजतु बाहुभ्यां भीमः प्रहरतां वरः ||१४||
सिंहग्रीवो गुडाकेशस्ततस्त्वां पुष्करेक्षणः |
अभिवादयतां पार्थः कुन्तीपुत्रो धनञ्जयः ||१५||
आश्विनेयौ नरव्याघ्रौ रूपेणाप्रतिमौ भुवि |
तौ च त्वां गुरुवत्प्रेम्णा पूजया प्रत्युदीयताम् ||१६||
मुञ्चन्त्वानन्दजाश्रूणि दाशार्हप्रमुखा नृपाः |
सङ्गच्छ भ्रातृभिः सार्धं मानं सन्त्यज्य पार्थिव ||१७||
प्रशाधि पृथिवीं कृत्स्नां ततस्तं भ्रातृभिः सह |
समालिङ्ग्य च हर्षेण नृपा यान्तु परस्परम् ||१८||
अलं युद्धेन राजेन्द्र सुहृदां शृणु कारणम् |
ध्रुवं विनाशो युद्धे हि क्षत्रियाणां प्रदृश्यते ||१९||
ज्योतींषि प्रतिकूलानि दारुणा मृगपक्षिणः |
उत्पाता विविधा वीर दृश्यन्ते क्षत्रनाशनाः ||२०||
विशेषत इहास्माकं निमित्तानि विनाशने |
उल्काभिर्हि प्रदीप्ताभिर्वध्यते पृतना तव ||२१||
वाहनान्यप्रहृष्टानि रुदन्तीव विशां पते |
गृध्रास्ते पर्युपासन्ते सैन्यानि च समन्ततः ||२२||
नगरं न यथापूर्वं तथा राजनिवेशनम् |
शिवाश्चाशिवनिर्घोषा दीप्तां सेवन्ति वै दिशम् ||२३||
कुरु वाक्यं पितुर्मातुरस्माकं च हितैषिणाम् |
त्वय्यायत्तो महाबाहो शमो व्यायाम एव च ||२४||
न चेत्करिष्यसि वचः सुहृदामरिकर्शन |
तप्स्यसे वाहिनीं दृष्ट्वा पार्थबाणप्रपीडिताम् ||२५||
भीमस्य च महानादं नदतः शुष्मिणो रणे |
श्रुत्वा स्मर्तासि मे वाक्यं गाण्डीवस्य च निस्वनम् ||२६||
यद्येतदपसव्यं ते भविष्यति वचो मम ||२६||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
137-अध्यायः
वैशम्पायन उवाच||
एवमुक्तस्तु विमनास्तिर्यग्दृष्टिरधोमुखः |
संहत्य च भ्रुवोर्मध्यं न किञ्चिद्व्याजहार ह ||१||
तं वै विमनसं दृष्ट्वा सम्प्रेक्ष्यान्योन्यमन्तिकात् |
पुनरेवोत्तरं वाक्यमुक्तवन्तौ नरर्षभौ ||२||
भीष्म उवाच||
शुश्रूषुमनसूयं च ब्रह्मण्यं सत्यसङ्गरम् |
प्रतियोत्स्यामहे पार्थमतो दुःखतरं नु किम् ||३||
द्रोण उवाच||
अश्वत्थाम्नि यथा पुत्रे भूयो मम धनञ्जये |
बहुमानः परो राजन्संनतिश्च कपिध्वजे ||४||
तं चेत्पुत्रात्प्रियतरं प्रतियोत्स्ये धनञ्जयम् |
क्षत्रधर्ममनुष्ठाय धिगस्तु क्षत्रजीविकाम् ||५||
यस्य लोके समो नास्ति कश्चिदन्यो धनुर्धरः |
मत्प्रसादात्स बीभत्सुः श्रेयानन्यैर्धनुर्धरैः ||६||
मित्रध्रुग्दुष्टभावश्च नास्तिकोऽथानृजुः शठः |
न सत्सु लभते पूजां यज्ञे मूर्ख इवागतः ||७||
वार्यमाणोऽपि पापेभ्यः पापात्मा पापमिच्छति |
चोद्यमानोऽपि पापेन शुभात्मा शुभमिच्छति ||८||
मिथ्योपचरिता ह्येते वर्तमाना ह्यनु प्रिये |
अहितत्वाय कल्पन्ते दोषा भरतसत्तम ||९||
त्वमुक्तः कुरुवृद्धेन मया च विदुरेण च |
वासुदेवेन च तथा श्रेयो नैवाभिपद्यसे ||१०||
अस्ति मे बलमित्येव सहसा त्वं तितीर्षसि |
सग्राहनक्रमकरं गङ्गावेगमिवोष्णगे ||११||
वास एव यथा हि त्वं प्रावृण्वानोऽद्य मन्यसे |
स्रजं त्यक्तामिव प्राप्य लोभाद्यौधिष्ठिरीं श्रियम् ||१२||
द्रौपदीसहितं पार्थं सायुधैर्भ्रातृभिर्वृतम् |
वनस्थमपि राज्यस्थः पाण्डवं कोऽतिजीवति ||१३||
निदेशे यस्य राजानः सर्वे तिष्ठन्ति किङ्कराः |
तमैलविलमासाद्य धर्मराजो व्यराजत ||१४||
कुबेरसदनं प्राप्य ततो रत्नान्यवाप्य च |
स्फीतमाक्रम्य ते राष्ट्रं राज्यमिच्छन्ति पाण्डवाः ||१५||
दत्तं हुतमधीतं च ब्राह्मणास्तर्पिता धनैः |
आवयोर्गतमायुश्च कृतकृत्यौ च विद्धि नौ ||१६||
त्वं तु हित्वा सुखं राज्यं मित्राणि च धनानि च |
विग्रहं पाण्डवैः कृत्वा महद्व्यसनमाप्स्यसि ||१७||
द्रौपदी यस्य चाशास्ते विजयं सत्यवादिनी |
तपोघोरव्रता देवी न त्वं जेष्यसि पाण्डवम् ||१८||
मन्त्री जनार्दनो यस्य भ्राता यस्य धनञ्जयः |
सर्वशस्त्रभृतां श्रेष्ठं कथं जेष्यसि पाण्डवम् ||१९||
सहाया ब्राह्मणा यस्य धृतिमन्तो जितेन्द्रियाः |
तमुग्रतपसं वीरं कथं जेष्यसि पाण्डवम् ||२०||
पुनरुक्तं च वक्ष्यामि यत्कार्यं भूतिमिच्छता |
सुहृदा मज्जमानेषु सुहृत्सु व्यसनार्णवे ||२१||
अलं युद्धेन तैर्वीरैः शाम्य त्वं कुरुवृद्धये |
मा गमः ससुतामात्यः सबलश्च पराभवम् ||२२||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
138-अध्यायः-कर्णोपनिवादपर्व
धृतराष्ट्र उवाच||
राजपुत्रैः परिवृतस्तथामात्यैश्च सञ्जय |
उपारोप्य रथे कर्णं निर्यातो मधुसूदनः ||१||
किमब्रवीद्रथोपस्थे राधेयं परवीरहा |
कानि सान्त्वानि गोविन्दः सूतपुत्रे प्रयुक्तवान् ||२||
ओघमेघस्वनः काले यत्कृष्णः कर्णमब्रवीत् |
मृदु वा यदि वा तीक्ष्णं तन्ममाचक्ष्व सञ्जय ||३||
सञ्जय उवाच||
आनुपूर्व्येण वाक्यानि श्लक्ष्णानि च मृदूनि च |
प्रियाणि धर्मयुक्तानि सत्यानि च हितानि च ||४||
हृदयग्रहणीयानि राधेयं मधुसूदनः |
यान्यब्रवीदमेयात्मा तानि मे शृणु भारत ||५||
वासुदेव उवाच||
उपासितास्ते राधेय ब्राह्मणा वेदपारगाः |
तत्त्वार्थं परिपृष्टाश्च नियतेनानसूयया ||६||
त्वमेव कर्ण जानासि वेदवादान्सनातनान् |
त्वं ह्येव धर्मशास्त्रेषु सूक्ष्मेषु परिनिष्ठितः ||७||
कानीनश्च सहोढश्च कन्यायां यश्च जायते |
वोढारं पितरं तस्य प्राहुः शास्त्रविदो जनाः ||८||
सोऽसि कर्ण तथा जातः पाण्डोः पुत्रोऽसि धर्मतः |
निग्रहाद्धर्मशास्त्राणामेहि राजा भविष्यसि ||९||
पितृपक्षे हि ते पार्था मातृपक्षे च वृष्णयः |
द्वौ पक्षावभिजानीहि त्वमेतौ पुरुषर्षभ ||१०||
मया सार्धमितो यातमद्य त्वां तात पाण्डवाः |
अभिजानन्तु कौन्तेयं पूर्वजातं युधिष्ठिरात् ||११||
पादौ तव ग्रहीष्यन्ति भ्रातरः पञ्च पाण्डवाः |
द्रौपदेयास्तथा पञ्च सौभद्रश्चापराजितः ||१२||
राजानो राजपुत्राश्च पाण्डवार्थे समागताः |
पादौ तव ग्रहीष्यन्ति सर्वे चान्धकवृष्णयः ||१३||
हिरण्मयांश्च ते कुम्भान्राजतान्पार्थिवांस्तथा |
ओषध्यः सर्वबीजानि सर्वरत्नानि वीरुधः ||१४||
राजन्या राजकन्याश्चाप्यानयन्त्वभिषेचनम् |
षष्ठे च त्वां तथा काले द्रौपद्युपगमिष्यति ||१५||
अद्य त्वामभिषिञ्चन्तु चातुर्वैद्या द्विजातयः |
पुरोहितः पाण्डवानां व्याघ्रचर्मण्यवस्थितम् ||१६||
तथैव भ्रातरः पञ्च पाण्डवाः पुरुषर्षभाः |
द्रौपदेयास्तथा पञ्च पाञ्चालाश्चेदयस्तथा ||१७||
अहं च त्वाभिषेक्ष्यामि राजानं पृथिवीपतिम् |
युवराजोऽस्तु ते राजा कुन्तीपुत्रो युधिष्ठिरः ||१८||
गृहीत्वा व्यजनं श्वेतं धर्मात्मा संशितव्रतः |
उपान्वारोहतु रथं कुन्तीपुत्रो युधिष्ठिरः ||१९||
छत्रं च ते महच्छ्वेतं भीमसेनो महाबलः |
अभिषिक्तस्य कौन्तेय कौन्तेयो धारयिष्यति ||२०||
किङ्किणीशतनिर्घोषं वैयाघ्रपरिवारणम् |
रथं श्वेतहयैर्युक्तमर्जुनो वाहयिष्यति ||२१||
अभिमन्युश्च ते नित्यं प्रत्यासन्नो भविष्यति |
नकुलः सहदेवश्च द्रौपदेयाश्च पञ्च ये ||२२||
पाञ्चालास्त्वानुयास्यन्ति शिखण्डी च महारथः |
अहं च त्वानुयास्यामि सर्वे चान्धकवृष्णयः ||२३||
दाशार्हाः परिवारास्ते दाशार्णाश्च विशां पते ||२३||
भुङ्क्ष्व राज्यं महाबाहो भ्रातृभिः सह पाण्डवैः |
जपैर्होमैश्च संयुक्तो मङ्गलैश्च पृथग्विधैः ||२४||
पुरोगमाश्च ते सन्तु द्रविडाः सह कुन्तलैः |
आन्ध्रास्तालचराश्चैव चूचुपा वेणुपास्तथा ||२५||
स्तुवन्तु त्वाद्य बहुशः स्तुतिभिः सूतमागधाः |
विजयं वसुषेणस्य घोषयन्तु च पाण्डवाः ||२६||
स त्वं परिवृतः पार्थैर्नक्षत्रैरिव चन्द्रमाः |
प्रशाधि राज्यं कौन्तेय कुन्तीं च प्रतिनन्दय ||२७||
मित्राणि ते प्रहृष्यन्तु व्यथन्तु रिपवस्तथा |
सौभ्रात्रं चैव तेऽद्यास्तु भ्रातृभिः सह पाण्डवैः ||२८||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
139-अध्यायः
कर्ण उवाच||
असंशयं सौहृदान्मे प्रणयाच्चात्थ केशव |
सख्येन चैव वार्ष्णेय श्रेयस्कामतयैव च ||१||
सर्वं चैवाभिजानामि पाण्डोः पुत्रोऽस्मि धर्मतः |
निग्रहाद्धर्मशास्त्राणां यथा त्वं कृष्ण मन्यसे ||२||
कन्या गर्भं समाधत्त भास्करान्मां जनार्दन |
आदित्यवचनाच्चैव जातं मां सा व्यसर्जयत् ||३||
सोऽस्मि कृष्ण तथा जातः पाण्डोः पुत्रोऽस्मि धर्मतः |
कुन्त्या त्वहमपाकीर्णो यथा न कुशलं तथा ||४||
सूतो हि मामधिरथो दृष्ट्वैव अनयद्गृहान् |
राधायाश्चैव मां प्रादात्सौहार्दान्मधुसूदन ||५||
मत्स्नेहाच्चैव राधायाः सद्यः क्षीरमवातरत् |
सा मे मूत्रं पुरीषं च प्रतिजग्राह माधव ||६||
तस्याः पिण्डव्यपनयं कुर्यादस्मद्विधः कथम् |
धर्मविद्धर्मशास्त्राणां श्रवणे सततं रतः ||७||
तथा मामभिजानाति सूतश्चाधिरथः सुतम् |
पितरं चाभिजानामि तमहं सौहृदात्सदा ||८||
स हि मे जातकर्मादि कारयामास माधव |
शास्त्रदृष्टेन विधिना पुत्रप्रीत्या जनार्दन ||९||
नाम मे वसुषेणेति कारयामास वै द्विजैः |
भार्याश्चोढा मम प्राप्ते यौवने तेन केशव ||१०||
तासु पुत्राश्च पौत्राश्च मम जाता जनार्दन |
तासु मे हृदयं कृष्ण सञ्जातं कामबन्धनम् ||११||
न पृथिव्या सकलया न सुवर्णस्य राशिभिः |
हर्षाद्भयाद्वा गोविन्द अनृतं वक्तुमुत्सहे ||१२||
धृतराष्ट्रकुले कृष्ण दुर्योधनसमाश्रयात् |
मया त्रयोदश समा भुक्तं राज्यमकण्टकम् ||१३||
इष्टं च बहुभिर्यज्ञैः सह सूतैर्मयासकृत् |
आवाहाश्च विवाहाश्च सह सूतैः कृता मया ||१४||
मां च कृष्ण समाश्रित्य कृतः शस्त्रसमुद्यमः |
दुर्योधनेन वार्ष्णेय विग्रहश्चापि पाण्डवैः ||१५||
तस्माद्रणे द्वैरथे मां प्रत्युद्यातारमच्युत |
वृतवान्परमं हृष्टः प्रतीपं सव्यसाचिनः ||१६||
वधाद्बन्धाद्भयाद्वापि लोभाद्वापि जनार्दन |
अनृतं नोत्सहे कर्तुं धार्तराष्ट्रस्य धीमतः ||१७||
यदि ह्यद्य न गच्छेयं द्वैरथं सव्यसाचिना |
अकीर्तिः स्याद्धृषीकेश मम पार्थस्य चोभयोः ||१८||
असंशयं हितार्थाय ब्रूयास्त्वं मधुसूदन |
सर्वं च पाण्डवाः कुर्युस्त्वद्वशित्वान्न संशयः ||१९||
मन्त्रस्य नियमं कुर्यास्त्वमत्र पुरुषोत्तम |
एतदत्र हितं मन्ये सर्वयादवनन्दन ||२०||
यदि जानाति मां राजा धर्मात्मा संशितव्रतः |
कुन्त्याः प्रथमजं पुत्रं न स राज्यं ग्रहीष्यति ||२१||
प्राप्य चापि महद्राज्यं तदहं मधुसूदन |
स्फीतं दुर्योधनायैव सम्प्रदद्यामरिंदम ||२२||
स एव राजा धर्मात्मा शाश्वतोऽस्तु युधिष्ठिरः |
नेता यस्य हृषीकेशो योद्धा यस्य धनञ्जयः ||२३||
पृथिवी तस्य राष्ट्रं च यस्य भीमो महारथः |
नकुलः सहदेवश्च द्रौपदेयाश्च माधव ||२४||
उत्तमौजा युधामन्युः सत्यधर्मा च सोमकिः |
चैद्यश्च चेकितानश्च शिखण्डी चापराजितः ||२५||
इन्द्रगोपकवर्णाश्च केकया भ्रातरस्तथा |
इन्द्रायुधसवर्णश्च कुन्तिभोजो महारथः ||२६||
मातुलो भीमसेनस्य सेनजिच्च महारथः |
शङ्खः पुत्रो विराटस्य निधिस्त्वं च जनार्दन ||२७||
महानयं कृष्ण कृतः क्षत्रस्य समुदानयः |
राज्यं प्राप्तमिदं दीप्तं प्रथितं सर्वराजसु ||२८||
धार्तराष्ट्रस्य वार्ष्णेय शस्त्रयज्ञो भविष्यति |
अस्य यज्ञस्य वेत्ता त्वं भविष्यसि जनार्दन ||२९||
आध्वर्यवं च ते कृष्ण क्रतावस्मिन्भविष्यति ||२९||
होता चैवात्र बीभत्सुः संनद्धः स कपिध्वजः |
गाण्डीवं स्रुक्तथाज्यं च वीर्यं पुंसां भविष्यति ||३०||
ऐन्द्रं पाशुपतं ब्राह्मं स्थूणाकर्णं च माधव |
मन्त्रास्तत्र भविष्यन्ति प्रयुक्ताः सव्यसाचिना ||३१||
अनुयातश्च पितरमधिको वा पराक्रमे |
ग्रावस्तोत्रं स सौभद्रः सम्यक्तत्र करिष्यति ||३२||
उद्गातात्र पुनर्भीमः प्रस्तोता सुमहाबलः |
विनदन्स नरव्याघ्रो नागानीकान्तकृद्रणे ||३३||
स चैव तत्र धर्मात्मा शश्वद्राजा युधिष्ठिरः |
जपैर्होमैश्च संयुक्तो ब्रह्मत्वं कारयिष्यति ||३४||
शङ्खशब्दाः समुरजा भेर्यश्च मधुसूदन |
उत्कृष्टसिंहनादाश्च सुब्रह्मण्यो भविष्यति ||३५||
नकुलः सहदेवश्च माद्रीपुत्रौ यशस्विनौ |
शामित्रं तौ महावीर्यौ सम्यक्तत्र करिष्यतः ||३६||
कल्माषदण्डा गोविन्द विमला रथशक्तयः |
यूपाः समुपकल्पन्तामस्मिन्यज्ञे जनार्दन ||३७||
कर्णिनालीकनाराचा वत्सदन्तोपबृंहणाः |
तोमराः सोमकलशाः पवित्राणि धनूंषि च ||३८||
असयोऽत्र कपालानि पुरोडाशाः शिरांसि च |
हविस्तु रुधिरं कृष्ण अस्मिन्यज्ञे भविष्यति ||३९||
इध्माः परिधयश्चैव शक्त्योऽथ विमला गदाः |
सदस्या द्रोणशिष्याश्च कृपस्य च शरद्वतः ||४०||
इषवोऽत्र परिस्तोमा मुक्ता गाण्डीवधन्वना |
महारथप्रयुक्ताश्च द्रोणद्रौणिप्रचोदिताः ||४१||
प्रातिप्रस्थानिकं कर्म सात्यकिः स करिष्यति |
दीक्षितो धार्तराष्ट्रोऽत्र पत्नी चास्य महाचमूः ||४२||
घटोत्कचोऽत्र शामित्रं करिष्यति महाबलः |
अतिरात्रे महाबाहो वितते यज्ञकर्मणि ||४३||
दक्षिणा त्वस्य यज्ञस्य धृष्टद्युम्नः प्रतापवान् |
वैताने कर्मणि तते जातो यः कृष्ण पावकात् ||४४||
यदब्रुवमहं कृष्ण कटुकानि स्म पाण्डवान् |
प्रियार्थं धार्तराष्ट्रस्य तेन तप्येऽद्य कर्मणा ||४५||
यदा द्रक्ष्यसि मां कृष्ण निहतं सव्यसाचिना |
पुनश्चितिस्तदा चास्य यज्ञस्याथ भविष्यति ||४६||
दुःशासनस्य रुधिरं यदा पास्यति पाण्डवः |
आनर्दं नर्दतः सम्यक्तदा सुत्यं भविष्यति ||४७||
यदा द्रोणं च भीष्मं च पाञ्चाल्यौ पातयिष्यतः |
तदा यज्ञावसानं तद्भविष्यति जनार्दन ||४८||
दुर्योधनं यदा हन्ता भीमसेनो महाबलः |
तदा समाप्स्यते यज्ञो धार्तराष्ट्रस्य माधव ||४९||
स्नुषाश्च प्रस्नुषाश्चैव धृतराष्ट्रस्य सङ्गताः |
हतेश्वरा हतसुता हतनाथाश्च केशव ||५०||
गान्धार्या सह रोदन्त्यः श्वगृध्रकुरराकुले |
स यज्ञेऽस्मिन्नवभृथो भविष्यति जनार्दन ||५१||
विद्यावृद्धा वयोवृद्धाः क्षत्रियाः क्षत्रियर्षभ |
वृथामृत्युं न कुर्वीरंस्त्वत्कृते मधुसूदन ||५२||
शस्त्रेण निधनं गच्छेत्समृद्धं क्षत्रमण्डलम् |
कुरुक्षेत्रे पुण्यतमे त्रैलोक्यस्यापि केशव ||५३||
तदत्र पुण्डरीकाक्ष विधत्स्व यदभीप्सितम् |
यथा कार्त्स्न्येन वार्ष्णेय क्षत्रं स्वर्गमवाप्नुयात् ||५४||
यावत्स्थास्यन्ति गिरयः सरितश्च जनार्दन |
तावत्कीर्तिभवः शब्दः शाश्वतोऽयं भविष्यति ||५५||
ब्राह्मणाः कथयिष्यन्ति महाभारतमाहवम् |
समागमेषु वार्ष्णेय क्षत्रियाणां यशोधरम् ||५६||
समुपानय कौन्तेयं युद्धाय मम केशव |
मन्त्रसंवरणं कुर्वन्नित्यमेव परन्तप ||५७||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
140-अध्यायः
सञ्जय उवाच||
कर्णस्य वचनं श्रुत्वा केशवः परवीरहा |
उवाच प्रहसन्वाक्यं स्मितपूर्वमिदं तदा ||१||
अपि त्वां न तपेत्कर्ण राज्यलाभोपपादना |
मया दत्तां हि पृथिवीं न प्रशासितुमिच्छसि ||२||
ध्रुवो जयः पाण्डवानामितीदं; न संशयः कश्चन विद्यतेऽत्र |
जयध्वजो दृश्यते पाण्डवस्य; समुच्छ्रितो वानरराज उग्रः ||३||
दिव्या माया विहिता भौवनेन; समुच्छ्रिता इन्द्रकेतुप्रकाशा |
दिव्यानि भूतानि भयावहानि; दृश्यन्ति चैवात्र भयानकानि ||४||
न सज्जते शैलवनस्पतिभ्य; ऊर्ध्वं तिर्यग्योजनमात्ररूपः |
श्रीमान्ध्वजः कर्ण धनञ्जयस्य; समुच्छ्रितः पावकतुल्यरूपः ||५||
यदा द्रक्ष्यसि सङ्ग्रामे श्वेताश्वं कृष्णसारथिम् |
ऐन्द्रमस्त्रं विकुर्वाणमुभे चैवाग्निमारुते ||६||
गाण्डीवस्य च निर्घोषं विस्फूर्जितमिवाशनेः |
न तदा भविता त्रेता न कृतं द्वापरं न च ||७||
यदा द्रक्ष्यसि सङ्ग्रामे कुन्तीपुत्रं युधिष्ठिरम् |
जपहोमसमायुक्तं स्वां रक्षन्तं महाचमूम् ||८||
आदित्यमिव दुर्धर्षं तपन्तं शत्रुवाहिनीम् |
न तदा भविता त्रेता न कृतं द्वापरं न च ||९||
यदा द्रक्ष्यसि सङ्ग्रामे भीमसेनं महाबलम् |
दुःशासनस्य रुधिरं पीत्वा नृत्यन्तमाहवे ||१०||
प्रभिन्नमिव मातङ्गं प्रतिद्विरदघातिनम् |
न तदा भविता त्रेता न कृतं द्वापरं न च ||११||
यदा द्रक्ष्यसि सङ्ग्रामे माद्रीपुत्रौ महारथौ |
वाहिनीं धार्तराष्ट्राणां क्षोभयन्तौ गजाविव ||१२||
विगाढे शस्त्रसम्पाते परवीररथारुजौ |
न तदा भविता त्रेता न कृतं द्वापरं न च ||१३||
यदा द्रक्ष्यसि सङ्ग्रामे द्रोणं शान्तनवं कृपम् |
सुयोधनं च राजानं सैन्धवं च जयद्रथम् ||१४||
युद्धायापततस्तूर्णं वारितान्सव्यसाचिना |
न तदा भविता त्रेता न कृतं द्वापरं न च ||१५||
ब्रूयाः कर्ण इतो गत्वा द्रोणं शान्तनवं कृपम् |
सौम्योऽयं वर्तते मासः सुप्रापयवसेन्धनः ||१६||
पक्वौषधिवनस्फीतः फलवानल्पमक्षिकः |
निष्पङ्को रसवत्तोयो नात्युष्णशिशिरः सुखः ||१७||
सप्तमाच्चापि दिवसादमावास्या भविष्यति |
सङ्ग्रामं योजयेत्तत्र तां ह्याहुः शक्रदेवताम् ||१८||
तथा राज्ञो वदेः सर्वान्ये युद्धायाभ्युपागताः |
यद्वो मनीषितं तद्वै सर्वं सम्पादयामि वः ||१९||
राजानो राजपुत्राश्च दुर्योधनवशानुगाः |
प्राप्य शस्त्रेण निधनं प्राप्स्यन्ति गतिमुत्तमाम् ||२०||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
141-अध्यायः
सञ्जय उवाच||
केशवस्य तु तद्वाक्यं कर्णः श्रुत्वा हितं शुभम् |
अब्रवीदभिसम्पूज्य कृष्णं मधुनिषूदनम् ||१||
जानन्मां किं महाबाहो संमोहयितुमिच्छसि ||१||
योऽयं पृथिव्याः कार्त्स्न्येन विनाशः समुपस्थितः |
निमित्तं तत्र शकुनिरहं दुःशासनस्तथा ||२||
दुर्योधनश्च नृपतिर्धृतराष्ट्रसुतोऽभवत् ||२||
असंशयमिदं कृष्ण महद्युद्धमुपस्थितम् |
पाण्डवानां कुरूणां च घोरं रुधिरकर्दमम् ||३||
राजानो राजपुत्राश्च दुर्योधनवशानुगाः |
रणे शस्त्राग्निना दग्धाः प्राप्स्यन्ति यमसादनम् ||४||
स्वप्ना हि बहवो घोरा दृश्यन्ते मधुसूदन |
निमित्तानि च घोराणि तथोत्पाताः सुदारुणाः ||५||
पराजयं धार्तराष्ट्रे विजयं च युधिष्ठिरे |
शंसन्त इव वार्ष्णेय विविधा लोमहर्षणाः ||६||
प्राजापत्यं हि नक्षत्रं ग्रहस्तीक्ष्णो महाद्युतिः |
शनैश्चरः पीडयति पीडयन्प्राणिनोऽधिकम् ||७||
कृत्वा चाङ्गारको वक्रं ज्येष्ठायां मधुसूदन |
अनुराधां प्रार्थयते मैत्रं संशमयन्निव ||८||
नूनं महद्भयं कृष्ण कुरूणां समुपस्थितम् |
विशेषेण हि वार्ष्णेय चित्रां पीडयते ग्रहः ||९||
सोमस्य लक्ष्म व्यावृत्तं राहुरर्कमुपेष्यति |
दिवश्चोल्काः पतन्त्येताः सनिर्घाताः सकम्पनाः ||१०||
निष्टनन्ति च मातङ्गा मुञ्चन्त्यश्रूणि वाजिनः |
पानीयं यवसं चापि नाभिनन्दन्ति माधव ||११||
प्रादुर्भूतेषु चैतेषु भयमाहुरुपस्थितम् |
निमित्तेषु महाबाहो दारुणं प्राणिनाशनम् ||१२||
अल्पे भुक्ते पुरीषं च प्रभूतमिह दृश्यते |
वाजिनां वारणानां च मनुष्याणां च केशव ||१३||
धार्तराष्ट्रस्य सैन्येषु सर्वेषु मधुसूदन |
पराभवस्य तल्लिङ्गमिति प्राहुर्मनीषिणः ||१४||
प्रहृष्टं वाहनं कृष्ण पाण्डवानां प्रचक्षते |
प्रदक्षिणा मृगाश्चैव तत्तेषां जयलक्षणम् ||१५||
अपसव्या मृगाः सर्वे धार्तराष्ट्रस्य केशव |
वाचश्चाप्यशरीरिण्यस्तत्पराभवलक्षणम् ||१६||
मयूराः पुष्पशकुना हंसाः सारसचातकाः |
जीवं जीवकसङ्घाश्चाप्यनुगच्छन्ति पाण्डवान् ||१७||
गृध्राः काका बडाः श्येना यातुधानाः शलावृकाः |
मक्षिकाणां च सङ्घाता अनुगच्छन्ति कौरवान् ||१८||
धार्तराष्ट्रस्य सैन्येषु भेरीणां नास्ति निस्वनः |
अनाहताः पाण्डवानां नदन्ति पटहाः किल ||१९||
उदपानाश्च नर्दन्ति यथा गोवृषभास्तथा |
धार्तराष्ट्रस्य सैन्येषु तत्पराभवलक्षणम् ||२०||
मांसशोणितवर्षं च वृष्टं देवेन माधव |
तथा गन्धर्वनगरं भानुमन्तमुपस्थितम् ||२१||
सप्राकारं सपरिखं सवप्रं चारुतोरणम् ||२१||
कृष्णश्च परिघस्तत्र भानुमावृत्य तिष्ठति |
उदयास्तमये सन्ध्ये वेदयानो महद्भयम् ||२२||
एका सृग्वाशते घोरं तत्पराभवलक्षणम् ||२२||
कृष्णग्रीवाश्च शकुना लम्बमाना भयानकाः |
सन्ध्यामभिमुखा यान्ति तत्पराभवलक्षणम् ||२३||
ब्राह्मणान्प्रथमं द्वेष्टि गुरूंश्च मधुसूदन |
भृत्यान्भक्तिमतश्चापि तत्पराभवलक्षणम् ||२४||
पूर्वा दिग्लोहिताकारा शस्त्रवर्णा च दक्षिणा |
आमपात्रप्रतीकाशा पश्चिमा मधुसूदन ||२५||
प्रदीप्ताश्च दिशः सर्वा धार्तराष्ट्रस्य माधव |
महद्भयं वेदयन्ति तस्मिन्नुत्पातलक्षणे ||२६||
सहस्रपादं प्रासादं स्वप्नान्ते स्म युधिष्ठिरः |
अधिरोहन्मया दृष्टः सह भ्रातृभिरच्युत ||२७||
श्वेतोष्णीषाश्च दृश्यन्ते सर्वे ते शुक्लवाससः |
आसनानि च शुभ्राणि सर्वेषामुपलक्षये ||२८||
तव चापि मया कृष्ण स्वप्नान्ते रुधिराविला |
आन्त्रेण पृथिवी दृष्टा परिक्षिप्ता जनार्दन ||२९||
अस्थिसञ्चयमारूढश्चामितौजा युधिष्ठिरः |
सुवर्णपात्र्यां संहृष्टो भुक्तवान्घृतपायसम् ||३०||
युधिष्ठिरो मया दृष्टो ग्रसमानो वसुन्धराम् |
त्वया दत्तामिमां व्यक्तं भोक्ष्यते स वसुन्धराम् ||३१||
उच्चं पर्वतमारूढो भीमकर्मा वृकोदरः |
गदापाणिर्नरव्याघ्रो वीक्षन्निव महीमिमाम् ||३२||
क्षपयिष्यति नः सर्वान्स सुव्यक्तं महारणे |
विदितं मे हृषीकेश यतो धर्मस्ततो जयः ||३३||
पाण्डुरं गजमारूढो गाण्डीवी स धनञ्जयः |
त्वया सार्धं हृषीकेश श्रिया परमया ज्वलन् ||३४||
यूयं सर्वान्वधिष्यध्वं तत्र मे नास्ति संशयः |
पार्थिवान्समरे कृष्ण दुर्योधनपुरोगमान् ||३५||
नकुलः सहदेवश्च सात्यकिश्च महारथः |
शुद्धकेयूरकण्ठत्राः शुक्लमाल्याम्बरावृताः ||३६||
अधिरूढा नरव्याघ्रा नरवाहनमुत्तमम् |
त्रय एते महामात्राः पाण्डुरच्छत्रवाससः ||३७||
श्वेतोष्णीषाश्च दृश्यन्ते त्रय एव जनार्दन |
धार्तराष्ट्रस्य सैन्येषु तान्विजानीहि केशव ||३८||
अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः |
रक्तोष्णीषाश्च दृश्यन्ते सर्वे माधव पार्थिवाः ||३९||
उष्ट्रयुक्तं समारूढौ भीष्मद्रोणौ जनार्दन |
मया सार्धं महाबाहो धार्तराष्ट्रेण चाभिभो ||४०||
अगस्त्यशास्तां च दिशं प्रयाताः स्म जनार्दन |
अचिरेणैव कालेन प्राप्स्यामो यमसादनम् ||४१||
अहं चान्ये च राजानो यच्च तत्क्षत्रमण्डलम् |
गाण्डीवाग्निं प्रवेक्ष्याम इति मे नास्ति संशयः ||४२||
कृष्ण उवाच||
उपस्थितविनाशेयं नूनमद्य वसुन्धरा |
तथा हि मे वचः कर्ण नोपैति हृदयं तव ||४३||
सर्वेषां तात भूतानां विनाशे समुपस्थिते |
अनयो नयसङ्काशो हृदयान्नापसर्पति ||४४||
कर्ण उवाच||
अपि त्वा कृष्ण पश्याम जीवन्तोऽस्मान्महारणात् |
समुत्तीर्णा महाबाहो वीरक्षयविनाशनात् ||४५||
अथ वा सङ्गमः कृष्ण स्वर्गे नो भविता ध्रुवम् |
तत्रेदानीं समेष्यामः पुनः सार्धं त्वयानघ ||४६||
सञ्जय उवाच||
इत्युक्त्वा माधवं कर्णः परिष्वज्य च पीडितम् |
विसर्जितः केशवेन रथोपस्थादवातरत् ||४७||
ततः स्वरथमास्थाय जाम्बूनदविभूषितम् |
सहास्माभिर्निववृते राधेयो दीनमानसः ||४८||
ततः शीघ्रतरं प्रायात्केशवः सहसात्यकिः |
पुनरुच्चारयन्वाणीं याहि याहीति सारथिम् ||४९||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
142-अध्यायः
वैशम्पायन उवाच||
असिद्धानुनये कृष्णे कुरुभ्यः पाण्डवान्गते |
अभिगम्य पृथां क्षत्ता शनैः शोचन्निवाब्रवीत् ||१||
जानासि मे जीवपुत्रे भावं नित्यमनुग्रहे |
क्रोशतो न च गृह्णीते वचनं मे सुयोधनः ||२||
उपपन्नो ह्यसौ राजा चेदिपाञ्चालकेकयैः |
भीमार्जुनाभ्यां कृष्णेन युयुधानयमैरपि ||३||
उपप्लव्ये निविष्टोऽपि धर्ममेव युधिष्ठिरः |
काङ्क्षते ज्ञातिसौहार्दाद्बलवान्दुर्बलो यथा ||४||
राजा तु धृतराष्ट्रोऽयं वयोवृद्धो न शाम्यति |
मत्तः पुत्रमदेनैव विधर्मे पथि वर्तते ||५||
जयद्रथस्य कर्णस्य तथा दुःशासनस्य च |
सौबलस्य च दुर्बुद्ध्या मिथोभेदः प्रवर्तते ||६||
अधर्मेण हि धर्मिष्ठं हृतं वै राज्यमीदृशम् |
येषां तेषामयं धर्मः सानुबन्धो भविष्यति ||७||
ह्रियमाणे बलाद्धर्मे कुरुभिः को न सञ्ज्वरेत् |
असाम्ना केशवे याते समुद्योक्ष्यन्ति पाण्डवाः ||८||
ततः कुरूणामनयो भविता वीरनाशनः |
चिन्तयन्न लभे निद्रामहःसु च निशासु च ||९||
श्रुत्वा तु कुन्ती तद्वाक्यमर्थकामेन भाषितम् |
अनिष्टनन्ती दुःखार्ता मनसा विममर्श ह ||१०||
धिगस्त्वर्थं यत्कृतेऽयं महाञ्ज्ञातिवधे क्षयः |
वर्त्स्यते सुहृदां ह्येषां युद्धेऽस्मिन्वै पराभवः ||११||
पाण्डवाश्चेदिपाञ्चाला यादवाश्च समागताः |
भारतैर्यदि योत्स्यन्ति किं नु दुःखमतः परम् ||१२||
पश्ये दोषं ध्रुवं युद्धे तथा युद्धे पराभवम् |
अधनस्य मृतं श्रेयो न हि ज्ञातिक्षये जयः ||१३||
पितामहः शान्तनव आचार्यश्च युधां पतिः |
कर्णश्च धार्तराष्ट्रार्थं वर्धयन्ति भयं मम ||१४||
नाचार्यः कामवाञ्शिष्यैर्द्रोणो युध्येत जातु चित् |
पाण्डवेषु कथं हार्दं कुर्यान्न च पितामहः ||१५||
अयं त्वेको वृथादृष्टिर्धार्तराष्ट्रस्य दुर्मतेः |
मोहानुवर्ती सततं पापो द्वेष्टि च पाण्डवान् ||१६||
महत्यनर्थे निर्बन्धी बलवांश्च विशेषतः |
कर्णः सदा पाण्डवानां तन्मे दहति साम्प्रतम् ||१७||
आशंसे त्वद्य कर्णस्य मनोऽहं पाण्डवान्प्रति |
प्रसादयितुमासाद्य दर्शयन्ती यथातथम् ||१८||
तोषितो भगवान्यत्र दुर्वासा मे वरं ददौ |
आह्वानं देवसंयुक्तं वसन्त्याः पितृवेश्मनि ||१९||
साहमन्तःपुरे राज्ञः कुन्तिभोजपुरस्कृता |
चिन्तयन्ती बहुविधं हृदयेन विदूयता ||२०||
बलाबलं च मन्त्राणां ब्राह्मणस्य च वाग्बलम् |
स्त्रीभावाद्बालभावाच्च चिन्तयन्ती पुनः पुनः ||२१||
धात्र्या विश्रब्धया गुप्ता सखीजनवृता तदा |
दोषं परिहरन्ती च पितुश्चारित्ररक्षिणी ||२२||
कथं नु सुकृतं मे स्यान्नापराधवती कथम् |
भवेयमिति सञ्चिन्त्य ब्राह्मणं तं नमस्य च ||२३||
कौतूहलात्तु तं लब्ध्वा बालिश्यादाचरं तदा |
कन्या सती देवमर्कमासादयमहं ततः ||२४||
योऽसौ कानीनगर्भो मे पुत्रवत्परिवर्तितः |
कस्मान्न कुर्याद्वचनं पथ्यं भ्रातृहितं तथा ||२५||
इति कुन्ती विनिश्चित्य कार्यं निश्चितमुत्तमम् |
कार्यार्थमभिनिर्याय ययौ भागीरथीं प्रति ||२६||
आत्मजस्य ततस्तस्य घृणिनः सत्यसङ्गिनः |
गङ्गातीरे पृथाशृण्वदुपाध्ययननिस्वनम् ||२७||
प्राङ्मुखस्योर्ध्वबाहोः सा पर्यतिष्ठत पृष्ठतः |
जप्यावसानं कार्यार्थं प्रतीक्षन्ती तपस्विनी ||२८||
अतिष्ठत्सूर्यतापार्ता कर्णस्योत्तरवाससि |
कौरव्यपत्नी वार्ष्णेयी पद्ममालेव शुष्यती ||२९||
आ पृष्ठतापाज्जप्त्वा स परिवृत्य यतव्रतः |
दृष्ट्वा कुन्तीमुपातिष्ठदभिवाद्य कृताञ्जलिः ||३०||
यथान्यायं महातेजा मानी धर्मभृतां वरः ||३०||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
143-अध्यायः
कर्ण उवाच||
राधेयोऽहमाधिरथिः कर्णस्त्वामभिवादये |
प्राप्ता किमर्थं भवती ब्रूहि किं करवाणि ते ||१||
कुन्त्युवाच||
कौन्तेयस्त्वं न राधेयो न तवाधिरथः पिता |
नासि सूतकुले जातः कर्ण तद्विद्धि मे वचः ||२||
कानीनस्त्वं मया जातः पूर्वजः कुक्षिणा धृतः |
कुन्तिभोजस्य भवने पार्थस्त्वमसि पुत्रक ||३||
प्रकाशकर्मा तपनो योऽयं देवो विरोचनः |
अजीजनत्त्वां मय्येष कर्ण शस्त्रभृतां वरम् ||४||
कुण्डली बद्धकवचो देवगर्भः श्रिया वृतः |
जातस्त्वमसि दुर्धर्ष मया पुत्र पितुर्गृहे ||५||
स त्वं भ्रातॄनसम्बुद्ध्वा मोहाद्यदुपसेवसे |
धार्तराष्ट्रान्न तद्युक्तं त्वयि पुत्र विशेषतः ||६||
एतद्धर्मफलं पुत्र नराणां धर्मनिश्चये |
यत्तुष्यन्त्यस्य पितरो माता चाप्येकदर्शिनी ||७||
अर्जुनेनार्जितां पूर्वं हृतां लोभादसाधुभिः |
आच्छिद्य धार्तराष्ट्रेभ्यो भुङ्क्ष्व यौधिष्ठिरीं श्रियम् ||८||
अद्य पश्यन्तु कुरवः कर्णार्जुनसमागमम् |
सौभ्रात्रेण तदालक्ष्य संनमन्तामसाधवः ||९||
कर्णार्जुनौ वै भवतां यथा रामजनार्दनौ |
असाध्यं किं नु लोके स्याद्युवयोः सहितात्मनोः ||१०||
कर्ण शोभिष्यसे नूनं पञ्चभिर्भ्रातृभिर्वृतः |
वेदैः परिवृतो ब्रह्मा यथा वेदाङ्गपञ्चमैः ||११||
उपपन्नो गुणैः श्रेष्ठो ज्येष्ठः श्रेष्ठेषु बन्धुषु |
सूतपुत्रेति मा शब्दः पार्थस्त्वमसि वीर्यवान् ||१२||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
144-अध्यायः
वैशम्पायन उवाच||
ततः सूर्यान्निश्चरितां कर्णः शुश्राव भारतीम् |
दुरत्ययां प्रणयिनीं पितृवद्भास्करेरिताम् ||१||
सत्यमाह पृथा वाक्यं कर्ण मातृवचः कुरु |
श्रेयस्ते स्यान्नरव्याघ्र सर्वमाचरतस्तथा ||२||
एवमुक्तस्य मात्रा च स्वयं पित्रा च भानुना |
चचाल नैव कर्णस्य मतिः सत्यधृतेस्तदा ||३||
कर्ण उवाच||
न ते न श्रद्दधे वाक्यं क्षत्रिये भाषितं त्वया |
धर्मद्वारं ममैतत्स्यान्नियोगकरणं तव ||४||
अकरोन्मयि यत्पापं भवती सुमहात्ययम् |
अवकीर्णोऽस्मि ते तेन तद्यशःकीर्तिनाशनम् ||५||
अहं च क्षत्रियो जातो न प्राप्तः क्षत्रसत्क्रियाम् |
त्वत्कृते किं नु पापीयः शत्रुः कुर्यान्ममाहितम् ||६||
क्रियाकाले त्वनुक्रोशमकृत्वा त्वमिमं मम |
हीनसंस्कारसमयमद्य मां समचूचुदः ||७||
न वै मम हितं पूर्वं मातृवच्चेष्टितं त्वया |
सा मां सम्बोधयस्यद्य केवलात्महितैषिणी ||८||
कृष्णेन सहितात्को वै न व्यथेत धनञ्जयात् |
कोऽद्य भीतं न मां विद्यात्पार्थानां समितिं गतम् ||९||
अभ्राता विदितः पूर्वं युद्धकाले प्रकाशितः |
पाण्डवान्यदि गच्छामि किं मां क्षत्रं वदिष्यति ||१०||
सर्वकामैः संविभक्तः पूजितश्च सदा भृशम् |
अहं वै धार्तराष्ट्राणां कुर्यां तदफलं कथम् ||११||
उपनह्य परैर्वैरं ये मां नित्यमुपासते |
नमस्कुर्वन्ति च सदा वसवो वासवं यथा ||१२||
मम प्राणेन ये शत्रूञ्शक्ताः प्रतिसमासितुम् |
मन्यन्तेऽद्य कथं तेषामहं भिन्द्यां मनोरथम् ||१३||
मया प्लवेन सङ्ग्रामं तितीर्षन्ति दुरत्ययम् |
अपारे पारकामा ये त्यजेयं तानहं कथम् ||१४||
अयं हि कालः सम्प्राप्तो धार्तराष्ट्रोपजीविनाम् |
निर्वेष्टव्यं मया तत्र प्राणानपरिरक्षता ||१५||
कृतार्थाः सुभृता ये हि कृत्यकाल उपस्थिते |
अनवेक्ष्य कृतं पापा विकुर्वन्त्यनवस्थिताः ||१६||
राजकिल्बिषिणां तेषां भर्तृपिण्डापहारिणाम् |
नैवायं न परो लोको विद्यते पापकर्मणाम् ||१७||
धृतराष्ट्रस्य पुत्राणामर्थे योत्स्यामि ते सुतैः |
बलं च शक्तिं चास्थाय न वै त्वय्यनृतं वदे ||१८||
आनृशंस्यमथो वृत्तं रक्षन्सत्पुरुषोचितम् |
अतोऽर्थकरमप्येतन्न करोम्यद्य ते वचः ||१९||
न तु तेऽयं समारम्भो मयि मोघो भविष्यति |
वध्यान्विषह्यान्सङ्ग्रामे न हनिष्यामि ते सुतान् ||२०||
युधिष्ठिरं च भीमं च यमौ चैवार्जुनादृते ||२०||
अर्जुनेन समं युद्धं मम यौधिष्ठिरे बले |
अर्जुनं हि निहत्याजौ सम्प्राप्तं स्यात्फलं मया ||२१||
यशसा चापि युज्येयं निहतः सव्यसाचिना ||२१||
न ते जातु नशिष्यन्ति पुत्राः पञ्च यशस्विनि |
निरर्जुनाः सकर्णा वा सार्जुना वा हते मयि ||२२||
वैशम्पायन उवाच||
इति कर्णवचः श्रुत्वा कुन्ती दुःखात्प्रवेपती |
उवाच पुत्रमाश्लिष्य कर्णं धैर्यादकम्पितम् ||२३||
एवं वै भाव्यमेतेन क्षयं यास्यन्ति कौरवाः |
यथा त्वं भाषसे कर्ण दैवं तु बलवत्तरम् ||२४||
त्वया चतुर्णां भ्रातॄणामभयं शत्रुकर्शन |
दत्तं तत्प्रतिजानीहि सङ्गरप्रतिमोचनम् ||२५||
अनामयं स्वस्ति चेति पृथाथो कर्णमब्रवीत् |
तां कर्णोऽभ्यवदत्प्रीतस्ततस्तौ जग्मतुः पृथक् ||२६||
श्रीमहाभारतम्
||५ उद्योगपर्वम् ||
145-अध्यायः-अभिनिर्याणपर्व
वैशम्पायन उवाच||
आगम्य हास्तिनपुरादुपप्लव्यमरिंदमः |
पाण्डवानां यथावृत्तं केशवः सर्वमुक्तवान् ||१||
सम्भाष्य सुचिरं कालं मन्त्रयित्वा पुनः पुनः |
स्वमेवावसथं शौरिर्विश्रामार्थं जगाम ह ||२||
विसृज्य सर्वान्नृपतीन्विराटप्रमुखांस्तदा |
पाण्डवा भ्रातरः पञ्च भानावस्तङ्गते सति ||३||
सन्ध्यामुपास्य ध्यायन्तस्तमेव गतमानसाः |
आनाय्य कृष्णं दाशार्हं पुनर्मन्त्रममन्त्रयन् ||४||
युधिष्ठिर उवाच||
त्वया नागपुरं गत्वा सभायां धृतराष्ट्रजः |
किमुक्तः पुण्डरीकाक्ष तन्नः शंसितुमर्हसि ||५||
वासुदेव उवाच||
मया नागपुरं गत्वा सभायां धृतराष्ट्रजः |
तथ्यं पथ्यं हितं चोक्तो न च गृह्णाति दुर्मतिः ||६||
युधिष्ठिर उवाच||
तस्मिन्नुत्पथमापन्ने कुरुवृद्धः पितामहः |
किमुक्तवान्हृषीकेश दुर्योधनममर्षणम् ||७||
आचार्यो वा महाबाहो भारद्वाजः किमब्रवीत् ||७||
पिता यवीयानस्माकं क्षत्ता धर्मभृतां वरः |
पुत्रशोकाभिसन्तप्तः किमाह धृतराष्ट्रजम् ||८||
किं च सर्वे नृपतयः सभायां ये समासते |
उक्तवन्तो यथातत्त्वं तद्ब्रूहि त्वं जनार्दन ||९||
उक्तवान्हि भवान्सर्वं वचनं कुरुमुख्ययोः |
कामलोभाभिभूतस्य मन्दस्य प्राज्ञमानिनः ||१०||
अप्रियं हृदये मह्यं तन्न तिष्ठति केशव |
तेषां वाक्यानि गोविन्द श्रोतुमिच्छाम्यहं विभो ||११||
यथा च नाभिपद्येत कालस्तात तथा कुरु |
भवान्हि नो गतिः कृष्ण भवान्नाथो भवान्गुरुः ||१२||
वासुदेव उवाच||
शृणु राजन्यथा वाक्यमुक्तो राजा सुयोधनः |
मध्ये कुरूणां राजेन्द्र सभायां तन्निबोध मे ||१३||
मया वै श्राविते वाक्ये जहास धृतराष्ट्रजः |
अथ भीष्मः सुसङ्क्रुद्ध इदं वचनमब्रवीत् ||१४||
दुर्योधन निबोधेदं कुलार्थे यद्ब्रवीमि ते |
तच्छ्रुत्वा राजशार्दूल स्वकुलस्य हितं कुरु ||१५||
मम तात पिता राजञ्शन्तनुर्लोकविश्रुतः |
तस्याहमेक एवासं पुत्रः पुत्रवतां वरः ||१६||
तस्य बुद्धिः समुत्पन्ना द्वितीयः स्यात्कथं सुतः |
एकपुत्रमपुत्रं वै प्रवदन्ति मनीषिणः ||१७||
न चोच्छेदं कुलं यायाद्विस्तीर्येत कथं यशः |
तस्याहमीप्सितं बुद्ध्वा कालीं मातरमावहम् ||१८||
प्रतिज्ञां दुष्करां कृत्वा पितुरर्थे कुलस्य च |
अराजा चोर्ध्वरेताश्च यथा सुविदितं तव ||१९||
प्रतीतो निवसाम्येष प्रतिज्ञामनुपालयन् ||१९||
तस्यां जज्ञे महाबाहुः श्रीमान्कुरुकुलोद्वहः |
विचित्रवीर्यो धर्मात्मा कनीयान्मम पार्थिवः ||२०||
स्वर्यातेऽहं पितरि तं स्वराज्ये संन्यवेशयम् |
विचित्रवीर्यं राजानं भृत्यो भूत्वा ह्यधश्चरः ||२१||
तस्याहं सदृशान्दारान्राजेन्द्र समुदावहम् |
जित्वा पार्थिवसङ्घातमपि ते बहुशः श्रुतम् ||२२||
ततो रामेण समरे द्वन्द्वयुद्धमुपागमम् |
स हि रामभयादेभिर्नागरैर्विप्रवासितः ||२३||
दारेष्वतिप्रसक्तश्च यक्ष्माणं समपद्यत ||२३||
यदा त्वराजके राष्ट्रे न ववर्ष सुरेश्वरः |
तदाभ्यधावन्मामेव प्रजाः क्षुद्भयपीडिताः ||२४||
प्रजा ऊचुः||
उपक्षीणाः प्रजाः सर्वा राजा भव भवाय नः |
ईतयो नुद भद्रं ते शन्तनोः कुलवर्धन ||२५||
पीड्यन्ते ते प्रजाः सर्वा व्याधिभिर्भृशदारुणैः |
अल्पावशिष्टा गाङ्गेय ताः परित्रातुमर्हसि ||२६||
व्याधीन्प्रणुद्य वीर त्वं प्रजा धर्मेण पालय |
त्वयि जीवति मा राष्ट्रं विनाशमुपगच्छतु ||२७||
भीष्म उवाच||
प्रजानां क्रोशतीनां वै नैवाक्षुभ्यत मे मनः |
प्रतिज्ञां रक्षमाणस्य सद्वृत्तं स्मरतस्तथा ||२८||
ततः पौरा महाराज माता काली च मे शुभा |
भृत्याः पुरोहिताचार्या ब्राह्मणाश्च बहुश्रुताः ||२९||
मामूचुर्भृशसन्तप्ता भव राजेति सन्ततम् ||२९||
प्रतीपरक्षितं राष्ट्रं त्वां प्राप्य विनशिष्यति |
स त्वमस्मद्धितार्थं वै राजा भव महामते ||३०||
इत्युक्तः प्राञ्जलिर्भूत्वा दुःखितो भृशमातुरः |
तेभ्यो न्यवेदयं पुत्र प्रतिज्ञां पितृगौरवात् ||३१||
ऊर्ध्वरेता ह्यराजा च कुलस्यार्थे पुनः पुनः ||३१||
ततोऽहं प्राञ्जलिर्भूत्वा मातरं सम्प्रसादयम् |
नाम्ब शन्तनुना जातः कौरवं वंशमुद्वहन् ||३२||
प्रतिज्ञां वितथां कुर्यामिति राजन्पुनः पुनः ||३२||
विशेषतस्त्वदर्थं च धुरि मा मां नियोजय |
अहं प्रेष्यश्च दासश्च तवाम्ब सुतवत्सले ||३३||
एवं तामनुनीयाहं मातरं जनमेव च |
अयाचं भ्रातृदारेषु तदा व्यासं महामुनिम् ||३४||
सह मात्रा महाराज प्रसाद्य तमृषिं तदा |
अपत्यार्थमयाचं वै प्रसादं कृतवांश्च सः ||३५||
त्रीन्स पुत्रानजनयत्तदा भरतसत्तम ||३५||
अन्धः करणहीनेति न वै राजा पिता तव |
राजा तु पाण्डुरभवन्महात्मा लोकविश्रुतः ||३६||
स राजा तस्य ते पुत्राः पितुर्दायाद्यहारिणः |
मा तात कलहं कार्षी राज्यस्यार्धं प्रदीयताम् ||३७||
मयि जीवति राज्यं कः सम्प्रशासेत्पुमानिह |
मावमंस्था वचो मह्यं शममिच्छामि वः सदा ||३८||
न विशेषोऽस्ति मे पुत्र त्वयि तेषु च पार्थिव |
मतमेतत्पितुस्तुभ्यं गान्धार्या विदुरस्य च ||३९||
श्रोतव्यं यदि वृद्धानां मातिशङ्कीर्वचो मम |
नाशयिष्यसि मा सर्वमात्मानं पृथिवीं तथा ||४०||