[highlight_content]

शतदूषणी जिज्ञासानुपपत्तिवादः(2)

शतदूषणी

।। अथ जिज्ञासानुपपत्तिवादो द्वितीयः ।।2।।

अथ स्वात्मैकभासस्य निर्विशेषस्य दुष्यतः ।

विशुद्धस्यापि जिज्ञासा परेष्टा प्रतिषिध्यते ।।

यदाहुः -ब्रह्मशब्दनिर्दिष्टं विार्यम्, अनुदितानस्तमितस्वरूपैकप्रकाशमशेषविशेषशून्यमनाद्य विद्यान्धकारितं नित्युशुद्धं ेति ।
तत्र विित्रो व्याघातः ।

यद्धि न वित्तिकर्म, कथं तत्र जिज्ञासा सामान्यतो विदिते विशेषतश् वेदितव्ये तत्प्रवृत्तेः । अन्यथा हेतुप्रयोजनविरहे तदयोगात् ।
ब्रह्मणि तथाविधवेदनद्वयविषयत्वं परैरिष्यते । जिज्ञासापूर्वकं परीक्षणमत्र प्रक्रम्यते । त तत्र प्रमाणोपक्षेपेण । प्रमाणं निर्विषयं न निरूप्यम् । सविषयत्वे तु तद्विषयत्वाद्दृश्यत्वमिथ्यात्वजडत्वादिस्वोक्तानिष्टापत्तिः । स्वरूपप्रकाश एव हेतुः फलं जिज्ञासाया इति ेन्न, तस्यास्तदुभयसामानाधिकरण्यनियमदृष्टेः । स्वरूपप्रकाशस्य तदेकाधारताभावात् । अनादेः प्रकाशस्य निरपेक्षहेतुत्वे जिज्ञासानादित्वप्रसक्तेः । सापेक्षत्वे यथादर्शनंस्वविषयवेदनापेक्षणात् । प्रागसिद्धस्य तु्छत्वकार्यत्वयोरन्यतरप्रसङ्गात् प्राक्सिद्धस्य फलत्वायोगात् । फलत्वे ानादित्वभङ्गात् । उपहितरूपेण वेदनद्वयविषयत्वाज्जिज्ञासा स्यादिति ेन्न; हेतोरुपहितविषयत्वाभ्युपगमेऽपि फलस्य तथात्वे भ्रान्तित्वापातात् । भ्रान्तेश्ासंपाद्यत्वान्न तदर्थं प्रेक्षावतां प्रारम्भः । भ्रान्तिमेव प्रमितिं मन्यमानैस्सा संपाद्येति ेन्न; परीक्षकेभ्योऽपि प्राथमिकभ्रान्तिप्रमात्वव्यवसायिनामेव प्रागल्भ्यप्रसङ्गात् । स्वरूपव्यतिक्तिं कृत्स्नं मिथ्येति प्रयोजकशिक्षणविरोधा । नित्यभूतेऽपि समाधिवत् स्वमात्रसाक्षित्वं वैशद्यमात्रं वा साध्यमिति ेन्न, तयोरपि तत्स्वरूपत्वे सिद्धत्वात् । धर्मत्वे सत्यत्वमिथ्यात्वविकल्पक्षोभात् । अतिरिक्ताकारप्रकाश एव ेद्वैशद्यम्, तस्मिन्नप्याकारे स एव विकल्पः । नित्यस्वसाक्षिणि निरंशे निर्विशेषे क इदानीं प्रकाश्य आकारः ?

कथं जिज्ञासा इदं किमिति वा कथमिति वा सा स्यात्, सर्वत्र यथायथं विदिताविदिताकारभेदो दुस्त्यजः, कृत्स्नावगत्यनवगत्योर्नैष्फल्यनिर्हेतुकत्वाभ्यां तदयोगात्, किं कथमित्यत्र का गतिरितिेत्, न, तत्रापि सामान्यतः प्रतीतसमुदायान्तर्गतविशेषनिर्धारणार्थत्वात्किमादेः । एतेषु किं कथमित्येव हि तत्राकाङ्क्षा । यः पुनर्ज्ञाताज्ञातांशविकल्पेन जिज्ञासास्वरूपमेव खण्डयेत् स ब्रह्मजिज्ञासामपि जिघांसतीति कःप्रकृतोपयोगः । इष्टा सा यथालोकमिहापि, अन्यथाऽनारम्भेण शास्त्रो्छितेः । अस्त्विहापि सामान्यतः स्वरूपज्ञप्तिः; अध्यासविरोधिरूपेण विशेषतश् जिज्ञासा । मैवम्, निर्विशेषे सामान्यासिद्धेः निस्सामान्ये विशेषायोगात् । कल्पनया तदुपपत्तिरिति ेन्न, सामान्यरूपस्य कल्पितत्वे स्वरूपो्छित्तेः विशेषासम्भवा । न ह्यकिंिद्भूतो विशेषतः कश्ित् स्यात्; न खलु खरश्रृङ्गे कुण्ठत्वादिः । न “अस्ति ब्रह्मेति ेद्वेद सन्तमेनं ततो विदुरिति” (तै.आ.6-3) श्रावयन्ती श्रुतिः ब्रह्मणस्सामान्यधीबाधं सहेत । अत एव कल्पितास्तित्वरूपसामान्याकारभ्रमाद्विशेषबुभुत्सेति प्रत्युक्तम्, अपसिद्धान्ता । विशेषस्य तु कल्पितत्वे तज्जिज्ञासावैफल्यम् । न हिब्रह्मण्यसदपूर्वाकारकल्पनार्थं पूर्वकल्पितमिथ्याकारप्रतीत्यर्थं वा शारीरकमित्यवेदबाह्यः कश्िदपि क्षमते । कल्पिताकारमिथ्यात्वबोधनार्थमिति तु स्यात्, न तर्हि ब्रह्म जिज्ञास्यम्,अपि त्वयमाकारस्सत्यो मिथ्यावेति । ततः किमिति ेत्, श्रुतिसूत्रस्वरसार्थभङ्गस्तावत् । “ब्रह्मात्मैक्यं शास्त्रवेद्य”मिति स्वमतव्याहतिश् । कल्पितभेदमिथ्यात्वधीरेव तद्धीरिति ेत्, न; माध्यमिकमतेऽपि तद्भावेनत्वदिष्टैक्यलाभे तद्विवादविलयापातात् । य मन्यसे कल्पिताकारमिथ्यात्वबुद्ध्याऽपि ब्रह्मणस्त्छून्यत्वमवसेयमिति तज्जिज्ञासाद्युपपत्तिरिति, तदपि यदि सामान्यबुद्धिक्रोडीकृतं तदा न जिज्ञास्यम्; बहिष्ठस्य तु सत्यत्वे सद्वितीयता । मिथ्यात्वे प्रतियोगिसाहित्यसत्यता । साहित्यराहित्ययोस्सहजसङ्घर्षात् । परस्परविरोधे प्रकारान्तरस्थित्ययोगात् । यदि राहित्यमपि कल्पितं कथं तदा कल्पिताकारराहित्यनिवृत्तिः? यत्किञ्िन्निवृत्तिमात्रं तु प्रागपि सुलभमिति कृतं तदर्थविारव्यसनेन । अतस्स्वीकुरु वा सतस्सत्याकारद्वयवैशिष्ट्यम्, परिहर वा तज्जिज्ञासामिति ।

किं यद्यशुद्धं ब्रह्म जिज्ञासोर्वेदितव्यं तर्हि दुस्त्यजं नैष्फल्यम्, तथा प्रकाशस्य संसारभेषजत्वानभ्युपगमात् । अन्यथा प्रागेव मुक्तिसिद्धौ किमर्था जिज्ञासा? कथं अशुद्धतत्त्वोपदेशिनश्शास्त्रस्य तत्त्वावेदकत्वम्? कथंतरामतत्त्वज्ञानेन भ्रान्तिविलयः? ननुभूरन्ध्रभ्रमेणदामदर्वीकरभ्रमनिवृत्तिवत्स्यात्, न स्यात् तद्वदेव भ्रान्त्यन्तरस्थितावात्यन्तिकत्वासिद्धेः । तद्विलापकतत्त्वज्ञानदेरुक्तक्रमेणात्रासंभवात् । अहेतुकविनाशादेश् निरसिप्यमाणत्वात् ।

शुद्धं तर्हि जिज्ञास्यमपि न ते स्यात् ज्ञप्त्या तत्स्वरूपस्पर्शानभ्युपगमात् । शाखान्द्रन्यायेन स्वरूपस्पर्श इवेति मतमिति ेत्, कथं तदधीनबोधविषयतामन्तरेण दृष्टान्तदार्ष्टान्तिकयोयस्तदुपलक्ष्यत्वम् तद्विषयत्वे कथं तत्प्रयुक्तदोषातिक्रमः सोऽपि बोधः स्ववेद्यतायाभ्रान्तिर सत्यश्ेत्यदोष इति ेत्, विलीनं तत्त्वावेदकवाक्यैः ।
वेद्यमिथ्यात्वमन्तरेण भ्रान्तित्वायोगात् । उपलक्षणपर्वावलम्बननैष्फल्या

शुद्धिश्ास्य नित्याऽनित्या वा आद्ये किमर्था जिज्ञासा, अन्ततस्तस्यास्तादर्थ्यात् । शुद्धताध्यवसायार्थं सा स्यात्, न तु शुद्ध्यर्थमिति ेन्न, तदध्यवसायेनापि तत्सिद्ध्यर्थेन भवितव्यम्, अन्यथा नैष्फल्यात् । आरोपितशुद्धिनिरसनात्साफल्यमिति ेन्न, आरोपसंभवे नित्यशुद्ध्ययोगात् । उपरक्तेऽपि स्फटिके शुभ्रत्ववत्तत्सम्भव इति ेन्न, भावानभिज्ञानात् । नहि वयमारोप्यदोषत्वेनाशुद्धिं प्रसञ्जयामः, ब्रह्मण्येव कुदृष्टिकल्पितविविधदोषदृष्टेरभ्युपगमात्, किंतु भ्रमाद्याधारतया । न तथा स्फटिकस्स्वयं स्वात्मनि रागमध्यस्यति । न तत्कर्तृकोऽन्यकर्तृको वा रक्तताध्यासस्त्छ्वेतिमाख्यशुद्धिविरोधी । इह तु स्वदोषेण ब्रह्मणि स्वयमेव बंभ्रम्यमाणे कथं भ्रान्त्यादिप्रत्यनीकतामयी शुद्धिः । नित्या भ्रान्तिरपि स्फटिकरागादिवत्तत्त्वतो नास्तीति निस्तार इति ेत्, स्थितं तर्हि विारनैष्फल्यम् । असत्येव भ्रान्तिस्सतीव भातीति तन्निवर्तनं फलमिति ेत् न, तत्सत्त्वभ्रमसत्यत्वमिथ्यात्वविकल्पे सद्वितीयत्वानवस्थयोरन्यतरापातात् । स्वरूपेण ब्रह्म न भ्राम्यति, किन्तु जीवेश्वररूपाभ्यामिति ेत्, हन्त एकां व्याहतिं परिहर्तुमनेकामुपादत्से, कथमभ्रान्तस्य तस्य तद्भावः कथं सर्वज्ञोऽपि भ्राम्यतीति विवक्षाऽप्युत्तिष्ठेत? कथं ैक आत्मा युगपत्सर्वज्ञमज्ञं ात्मानमनुसंदधीत प्रपञ्यिप्यते (36 वादे) ैतत् ।

उत्तरत्र तु नित्यशुद्धत्वश्रुत्यादिविरोधः । किंोभयावधिमत्तया तदनित्यत्वम् उत्तरैकावधिमत्तया वा पूर्वैकावधिमत्तया वा नाद्यः, त्रिवर्गापवर्गयोरैकराश्यप्रसङ्गात्, वैराग्योपदेशादिवैयर्थ्यात्, अपुनरावृत्तिश्रुत्यादिविरोधा । अत एव न द्वितीयः -बन्धमोक्षयोर्व्युत्क्रमताप्रसङ्गात्, शुद्धेरसाध्यत्वेन विारादिनैष्फल्या । तृतीयस्तु न शुद्धेर्नित्यस्वरूपैक्ये स्यात् । निरवधित्वसावधित्वयोर्नित्यवैरात् । अतिरेके स एव सत्यासत्यविकल्पावतार इति ।

यद्यप्यस्मन्मते नित्यशुद्ध ईश्वरः, साध्यशुद्धिः क्षेत्रज्ञश् जिज्ञास्येते, तथाऽपि न प्रतिबन्दी, ईश्वरशुद्धेरसाध्यत्वात् । जीवशुद्धेस्साध्याया अपि स्वरूपान्यत्वात्सत्यत्वा । उदारगुणसागरः परमपुरुषः स्वाराधनात्मकशास्त्रार्थसंप्रीतस्त्रिवर्गमपवर्गं प्रय्छतीति हि प्राी मर्यादा । स यदि स्वयमेव भ्राम्येत् स्वाश्रितत्राणौपयिकगुणहीनो वा, न तर्हि जिज्ञास्यः, स्वरक्षणेऽप्यशक्तस्येति न्यायात् । कल्पितसार्वज्ञ््यादियोगात् तदभावेऽपि तीर्थादिवद्वा तस्य भजनं स्यादिति ेन्न, कल्पितस्य सार्व ज्ञ््यादेर्जिनादिष्वपि सिद्धेः तदुपसत्तिप्रसङ्गात् । सर्वैस्तेषु न तत्क्लृप्तिरिति ेन्न, अविशेषात् । महाजनपरिग्रहाद्विशेष इति ेन्न, सर्वेषां सर्वतस्सम्मूढत्वमि्छतां क्विदपि प्रामाणिकत्वादिलक्षण महत्त्वस्यासिद्धेः, प्राुर्यस्य विगानादप्रयोजकत्वा । यत्तु तीर्थादिवदिति तत्तदा सह्येत, यदि तत्सेवयेव तदुपसत्त्या प्रसाद्योऽन्यः । न हि क्रियात्छक्त्यपूर्वाण्येव फलन्तीति नैगमः पन्थाः । उक्तन्यायेन जैनगन्धिवेदान्तिमतेऽपि जिज्ञासानुपपत्तिर्द्रष्टव्या ।

तदेतदखिलमन्तर्निधाय ब्रह्मशब्दाभिधेयमुभयलिङ्गं सर्वेश्वरं प्रस्तुत्य तस्यैवारम्भसूत्रे विवक्षितत्वमाह -“तापत्रयातुरैरमृतत्वाय स एव जिज्ञास्य” (श्री भाष्य.जि ज्ञा) इति ।।

इति श्री कवितार्किक सिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताार्यस्य कृतिषु शतदूषण्यां जिज्ञासानुपपत्तिवादो द्वितीयः ।। 2 ।।

Languages

Related Parts

error: Content is protected !!