[highlight_content]

शतदूषणी ऐक्योपदेशान्यथानुपपत्तिभङ्गवादः(49)

शतदूषणी

।।अथ ऐक्यापदेशान्यथानुपपत्तिभङ्गवादः एकोनपञ्ाशः ।।49।।

त्रिविधिदिदन्तर्यामितां प्राप्य तिष्ठन्निखिलनिगमनिष्टैर्नित्यमैक्योपदेशैः ।

भ्रमममलधियां यो वारयत्येकभक्त्या भवतु शरणवाणी तत्पदे शाश्वती नः ।।

यदाहुः,*तत्त्वमसि, *क्षेत्रज्ञं ापि मां विद्धीत्याद्यैक्योपदेशान्यथानुपपत्त्या परिशुद्धे ब्रह्मण्येवाज्ञानं भेदभ्रमश्ावश्यं कल्पनीयम् । नात्रैक्यं न प्रतीयते, न ाविवक्षितम्; सामानाधिकरण्यस्य तन्निष्ठत्वात्, विशिष्टैक्यवादिनाऽप्यैक्यमात्रस्यास्थितत्वा । नेदमारोपवृत्त्या सामानाधिकरण्यम्, तत्त्वोपदेशप्रकरणविरोधात् । न सम्बन्धादिद्वारोपारः, बाधकाभावात् । यद्यप्यस्मन्मतेऽपि लक्षणा, तथाऽपि प्रधानभूतसामानाधिकरण्यप्रतिपाद्यस्य मुख्यस्यैक्यस्यापरित्यागात्, तत्संरक्षणाय स्वरूपोलक्षणभूतनिमित्तमात्रप्रहाणादिकं न दोषाय भवति । न भेदाभेदसमुयः, व्याघातात् । अत एव नोभयत्यागः, तात्पर्यविरोधस्योक्तत्वा । अन्यथा शून्यतैव पर्यवस्येत् । नैष दृष्टिविधिः; उपासनैकवाक्यत्वाभावात्; तत्सद्भावेऽपि तल्लिङ्गाभावा । अतो जीवपरयो रैक्ये तद्भेदे प्रतीयमाने द्विन्द्रदर्शनमूलभूतदोषवदात्मभेददर्शनहेतुरविद्याऽभ्युपगन्तव्या, तन्मूलभेदभ्रमोन्मूलनेन सप्रयोजन एवैक्योपदेशः यथैकश्न्द इतीति ।।

अत्र ब्रूमः-यद्यैक्योपदेशोऽन्यथानुपपन्नः स्यात्तदैवं परिशुद्धे ब्रह्मण्यज्ञानभेदभ्रमादयः कल्प्येरन्, स त्वन्यथाऽप्युपपन्नः, अन्यथैवोपपन्नश् । तथा हि-शरीरात्मभावनिबन्धनं सामानाधिकरण्यं व्युत्पादितमन्यत्र । नात्रद्वयोः स्वरूपैक्यं विवक्षितुं शक्यम् । विरुद्धयोस्तदसंभवात् । अन्यथा यूपादित्यैक्यवाक्येऽपि भेदभ्रमहेतुदोषकल्पनप्रसङ्गात् । विरोधादेश् समानत्वात् । न लाक्षणिकसामानाधिकरण्येऽप्यैक्यं परित्यक्तम्, ययाकयािद्दृत्त्या एकस्मिन्नेव वृत्तेरङ्गीकृतत्वात् । अतः सामानाधिकरण्यस्य संभवति गत्यन्तरे परिशुद्धब्रह्मणि तन्मूलविरुद्धाज्ञानादिपरिकल्पनं निर्मूलम् । अज्ञानमूलभेदभ्रमवादे उपदेश एव नोपपद्यत इति स्थितमन्यत्र । नानुपपन्नत्वस्योपपादकतया स्वयमनुपपन्नान्तरं कल्प्यम्,नाविद्यादेः स्वरूपमुपपत्तिमदिति दर्शितम् । यदि दूरं गत्वा दुर्घटत्वमेव भूषणमिति वल्गसि तर्ह्यैक्योपदेशमेवादौ दुर्घटमभिमन्येथाः । अप्रामाण्यं तर्हि तस्य स्यादिति ेत्; अस्मन्मतप्रतिपादितप्रकारेण प्रामाण्यस्य सिद्धत्वात् । यदि वा माभूत्प्रामाण्यम्, यदज्ञानादिपरिकल्पनेऽप्यन्ततः फलति तेदादौ तदप्रामाण्यं सिध्यति, किं दूरं धावसि?

किं भेदोपदेशान्यथानुपपत्त्या परमार्थभिन्नेऽप्यात्मन्यैक्यभ्रममूलमज्ञानं किं न कल्प्यते? ऐक्यश्रुतीनामतत्त्वावेदकत्वप्रसङ्गभयादिति ेत्; तर्हि भेदश्रुतीनां तत्प्रसङ्गभयात् भेदभ्रममूलाज्ञानमपि न कल्पय । नैका श्रुतिरितरस्या दासी, येन तदर्थं तामुपद्रवेम । प्रत्यक्षादिसंवादा भेदश्रुतेरेव बलीयस्त्वम् । न भेदस्वरूपं दुर्निरूपमिति तदप्रामाण्यस्वीकारः, अभेदस्वरूपस्यापि तथाविधयुक्तिभिर्दुर्निरूपतया तत्प्रतिपादकानां तत्स्वीकारप्रसङ्गात् । किं त्वदुक्तयैवानुपपत्त्या नास्त्येव भेदप्रतीतिरिति किं न कल्प्यते? प्रत्यक्षादिविरोधादिति ेत्; तर्हि निरवद्यभेदश्रुतिविरोधे दृष्टिं पातय । भ्रान्तिसिद्धे भेदेऽप्यैक्योपदेशो द्विन्द्रादिष्विव घटत इति ेत्; अज्ञानादिरहितेऽपि ब्रह्मणि भ्रान्तिसिद्धैक्येन तदुपदेशोऽपि संभवत्येव । भिन्ने ब्रह्मण्यभिन्नत्वभ्रमः किमर्थमुत्पाद्यत इति ेत्; अभिन्ने ब्रह्मणि भिन्नत्वभ्रमः किमर्थमुत्पाद्यते? अथोपासनेन फलविशेषार्थमिति ेत्? तुल्यम् । उपासनविध्येकवाक्यत्वं दृष्टिलिङ्गं वाऽत्र न दृश्यत इति ेत्तुल्यम् । दूरानुकर्षात्तत्र दृश्यत इति ेत् न किमत्रापि? अपि न ब्रह्मणः शुद्धत्वान्यथानुपपत्त्यैव तस्य जीवैक्योपदेशो नास्त्येवेति वा सन्नप्यन्यपर इति वा तत्परोऽपि भ्रान्तिमूल इति वा कल्पयितुं युक्तम् । नाशुद्धिमिथ्यात्वेनाविरोधः, उपदेशमिथ्यात्वेन तदुपपादकाभावेऽप्यविरोधप्रसङ्गात् । यश्ासौ* क्षेत्रज्ञं ापि मां विद्धीति तत्त्वपरिज्ञानसापेक्षस्तदुपदेशः, तेनैव तदज्ञानं कल्प्यत इति ित्रम्! तदेत्छ्रीमद्गीताभाष्येऽपि स्पष्टमाह । तथा भाष्येऽप्यदर्शयत्,*नाप्यैक्योपदेशान्यथानु पपत्त्येत्यादिना ।।

।।इति शतदूषण्याम् ऐक्यापदेशान्यथानुपपत्तिभङ्गवादः एकोनपञ्ाशः ।।49।।

Languages

Related Parts

error: Content is protected !!