शतदूषणी
।।अथ अलेपकमतभङ्गवादः पञ्चषष्टितमः ।।65।।
अशेषाश्रमबाह्यानामीश्वराज्ञाभरश्रमात् ।
अलेपकदशाभाजामवलेपोऽत्र लुप्यते ।।
इह जगति केचिदवधूतसकलवर्णाश्रमधर्माश्चार्वाकसधर्माण आचणाडालमेकराशीभूय विधिनिषेधयन्त्रणामतन्त्रयन्तः पारिभाषिकब्रह्मविदो विश्वमाविलयन्ति, तैस्सह (वास) वादरूपसंभाषणादिकमपि निरयपातनमिति मन्वानास्तद्दर्शनेऽपि सर्वलोकलोचनमवलोकयन्तो दूरीभवन्ति सन्तः । उक्तं हि महर्षिभिः – * पुंसां जटाभरणमौण्ड्यवतां वृथैव मोघाशिनामखिलशौचबहिष्कृतानाम् (निराकृतानाम्) । तेयप्रदानपितृपिण्डविवर्जितानां संभाषणादपि नरा नरकं प्रयान्ति ।। इति । तत्र यद्यपि तदभिमतशूद्रादि (वि) जातीयब्रह्मविदां त्रैवर्णिकब्रह्मविदामिव तथाविधपतनं न संभवति, तथाऽपि तत्त्वमस्यादिवाक्यश्रवणोपदेशधर्मोपप्लवादिभिः तेषामप्यसंभाष्यता । स्मर्यते हि * कपिलाक्षीरपानेन ब्राह्मणीगमनेन च । शूद्रे वेदाक्षरेणैव निष्कृतिर्न विधीयते ।। इत्यादि । तथाऽपि धर्मोपप्लवप्रशमनाशया युगमात्रविप्रकृष्टा वदामः । आचार्यवचनादिभिरीदृशमप्यनुमतम् * यत्किञ्चिदपि कुर्वाणो विद्वद्गुरुनियोगतः । तेषां वचनसामर्ख्यात् प्रायश्चित्तीयते नच ।। इति ।
सर्वशिष्टबहिष्कृतेयं युष्मदवस्थितिराश्रमरूपा, अनाश्रमरूपा वा? पूर्वत्र चतुर्भ्योऽन्या अनन्या वा? न तावदन्या, श्रुतिस्मृतीतिहासपुराणादिषु पञ्चमाश्रमविधानादर्शनात् । * अथाश्रमं चरमं सम्प्रविश्येत्यादिरपि पारिव्रज्यविषयः प्रसिद्धः । अन्तिममात्रं हि चरमशब्दार्थः, न पुनः प्रसिद्धव्यतिरिक्तः । षोडशविधाश्रमप्रतिपादनं तर्हि कथमिति चेन्न; चतुर्णामेव चतुर्धा विभागेन तथा विधानात् । नाप्यनन्या, प्रथमं तावदनभ्युपगमात्, श्रुतिकिङ्करत्वप्रसङ्गाच्च । श्रुत्या ज्ञानविधानेन वयमप्याश्रमविशेषनिष्ठा भवामेति चेत्; श्रोत्रियाणां पुरतो मन्दं प्रभाषेथाः, नह्यकृतप्रायश्चितानां भवतामाश्रमप्रवेशमनुमन्यन्ते धार्मिकाः । न च युष्माभिरनेककालानुवृत्तदुर्वचस्वैरोचितप्रायश्चित्तं कर्तुं शक्यम् । स्वैररूपमेव किञ्चिदाश्रमविशेषनियतमिदमस्माकं महद्व्रतमिति चेन्न; तथाविधविध्यदर्शनात् । किञ्चास्मिन्महति सर्वलोकस्वरससिद्धे व्रते सति किमर्थमपुरुषार्थैरनन्तैर्नियमैः परिक्लेशयन्त्यागमाः । कश्चायमाश्रमो भवता वाङ्मात्रेणापि स्वीक्रियते? परमहंसाभिधानः पारिव्रज्यविशेष इति चेन्न; परमहंसादिविशेषमपि विविच्य प्रतिपादयन्तीषु शाट्यायनकाद्युपनिषत्सु पाराशर्यदत्तात्रेयादिस्मृतिषु भवत्परिगृहीतवेषाचारविपरीतोपदेशात् । अत एव मन्वादिषु त्रिविष्टपपात्रपवित्रकमण्डलुशिखायज्ञोपवीतत्रिदण्डानां सामान्येन विधानं न व्यवस्थितविषयमिति वक्तुं शक्यम् । ततश्च परित्यक्तयज्ञोपवीतादिकेष्वेकदण्डिकेष्वप्यद्याप्यायुष्मती विप्रतिपत्तिर्भास्करयादवप्रकाशादि ग्रन्थरसायनसेवया निवर्तते । किं पुनर्विशेषतोऽपि वेदबाह्यसाम्यमङ्गीकुर्वत्सु भवादृशेषु? त्रिदण्डैकदण्डादिष्वपि च मुख्यामुख्यतया विकल्प इत्यपि स्मृतिभिरेव सिद्धमिति प्रागेवोक्तम् ।
ननु द्विविधाः परमहंसाः, विवृतवेषाचारा गूढवेषाचाराश्चेति; तत्र जाबालिकौषीतकादिश्रुतिषु तन्मूलबोधायनशौनकक्रतुकापिल विश्वामित्रादिस्मृतिषु महाभारते ब्राह्मादिषु च पुराणेषु परमहंसस्य दण्डादिविधानात् विवृतवेषाचारास्सिद्धाः,वाजसनेयतैत्तिरीयकाथर्वणबाष्कलादिश्रुतिषु तन्मूलभगवद्गीतादिस्मृतीति हासभागवतादिपुराणादिषु च सर्वत्यागमात्रविधानात् गूढवेषाचारास्सिद्धा इति चेन्न; त्यागोक्त्यादीनां फलसङ्गकर्तृत्वादित्यागविषयत्वस्य वक्ष्यमाणत्वात् ।
ननु मैत्रायणीयब्राह्मणे तन्मूललोकाक्षिगृह्ये च परमहंसस्य दण्डग्रहणाग्रहणयोर्विकल्पो दृश्यते, तथाहि * परिव्राडेकशाटीपरिहितो मुण्डोदरपात्र्यरण्यनित्यो भिक्षार्थी ग्रामं प्रविशेदासायं प्रदक्षिणेनाविचिकित्सं सार्ववर्णिकं भैक्षाचरणमशिस्तपतितवर्जमयज्ञोपवीती शौचनिष्ठः काममेकं वैणवं दण्डमादधीत इति मैत्रायणीयब्राह्मणम् । अत्र कामशब्दाद्दण्डग्रहणे विकल्पो दर्शितः; लोकाक्षिगृह्ये च * अथातः परमहंसपरिव्रज्याविधिं व्याख्यास्यामः इत्युपक्रम्य, * सशिखान् केशआन् निकृत्य विसृज्य यज्ञोपवीतमित्याद्युक्त्वा, पुनरप्याह मौनी जातरूपधरः प्राचीमुदीचीं वा दिशं व्रजेत् तिष्ठ भगवन् दण्डं गृहाणेत्यध्वर्युणा दत्तं मस्तकप्रमाणं सत्वचमृजुं सौम्यमेकं वैणवं दण्डम् * इन्द्रस्य वज्रोऽसि, * सखा मे गोपायेति यदीच्छेदादधीतेति; अत्रापि यद्युपबन्धेनेच्छाश्रवणाद्विकल्पसिद्धिः । तथा वैखानससूत्रे चतुर्विधचतुराश्रमवर्णनावसरे * परमहंसा नाम वृक्षैकमूले शून्यागारे श्मशाने वा आसीना वा साम्बरा दिगम्बरा वा न तेषां धर्माधर्मौ सत्यानृते शुद्धयशुद्ध्यादि द्वैतं सर्वसमारसर्वात्मानः समलोष्टाश्मकाञ्चनाः सर्ववर्णेषु भैक्षाचरणमित्यादि । अत्र * साम्बरा दिगम्बरा वेति विकल्पो विवृतगूढाचारभेदाभिप्रायेण । परमहंसोपनिषदि तु काष्ठदण्डनिन्दनेन परमहंसानां ज्ञानदण्डत्वं विधीयते । तस्माद्दण्डधारणं न मुख्यम् । तर्हि को मुख्य इति चेत्; अयं मुख्यः *न दण्डं न शिखां न यज्ञोपवीतं नाच्छादनं चरति परमहंसः । * ज्ञानदण्डो धृतो येन एकदण्डी स उच्यते ।। काष्ठदण्डो धृतो येन सर्वाशी ज्ञानवर्जितः । स याति नरकान् घोरान् महारौरवसंज्ञकान् ।। इत्यादि । आहच विष्णुः * अन्नार्थं लिङ्गमुद्दिष्टं न मोक्षार्थं विधीयते इति । मोक्षधर्मे च *यतेः सत्यपि लिङ्गेऽस्मिन् ज्ञानमेव हि कारणम् । निर्मोक्षायेह दुःखस्य लिङ्गग्रामो निरर्थकः ।। काषायधारणं मौण्ड्यं त्रिविष्टब्धं कमण्डलुः । लिङ्गान्यन्नार्थमेतानि न मोक्षायति मे मतिः ।। अन्यत्र च * लिङ्गाभावात्तु कैवल्यमिति ब्रह्मानुशासनम् । एवमन्यान्यपि लिङ्गनिन्दापराणि वाक्यानि द्रष्टव्यानि। * अव्यक्तलिङ्गोऽव्यक्ताचार इत्यादीन्यपि लिङ्गपरित्यागाभिप्रायाण्येव । तदेवमस्ति परमहंसद्वैविध्यमिति ।
तदिदमपेशलम्, गन्धर्वभाषितप्रायैराप्तत्वेऽप्यनिदम्परैः वाक्यैः परमहंसस्य न त्वदिष्टभिदासिद्धिः । इह तावत्त्वत्पक्षपातिविज्ञानेश्वराद्यनुदाहृतत्वात्,त्वत्पक्षप्रतिक्षेपकैर्यादवाचार्य भास्करप्रभृतिभिर्बहु श्रुतैरुपन्यस्य दूषितत्वाभावाच्च । सन्दिग्धश्रुतित्वादिषु केषुचिद्वचनेषु अप्रत्ययादेव परिहारः, अन्येषु त्वन्यपरतयेति संग्रहः । तत्र यदुक्तं मैत्रायणीयब्राह्मणो तन्मूललोकाक्षिगृह्ये च परमहंसस्य दण्डग्रहणाग्रहणयोर्विकल्पो दृश्यत इति । तदसत्, तत्रापि स्मृत्यन्तरादि सम्प्रतिन्नस्यैकदण्डत्रिदण्डविकल्पस्यैव विवक्षितत्वात् । काममेकं वैणवं दण्डमाददीत यद्वा त्रिदण्डमिति हि तत्राभिप्रायः । एवं *यदीच्छेदाददीतेत्यत्रापि यद्येकं दण्डं गृहीतुमिच्छेत् तदैकम्, अन्यथा त्रिदण्डमिति । अन्यथा कथं जातरूपधरस्यैव दण्डग्रहणाग्रहणविकल्पः? विद्वदविद्वद्विषयसन्न्यास भेदसिद्धावविद्वद्विषयं दण्डग्रहणं विद्वद्विषयं तदग्रहणमिति चेत्; किमिदं कर्णे स्पृष्टः कटिं चालयसि? जातरूपधरस्य कथं तद्ग्रहणमित्येतदेव ह्यनुयोगास्पदम्, न हि वैणवं दण्डं धारयन् कश्चिज्जायते, न च दिगम्बरो विकीर्णमूर्धज एकदण्डधारी कश्चिद्भवतामपीष्टो दृष्टो वा । दण्डग्रहणकाले, काषायमपि गृह्णीयादिति चेत्; किमत्र प्रमाणम्? स्मृत्यन्तरादिकमिति चेत्; तर्हि तदनुसारादस्मत्प्रदर्शितमेवार्थ मङ्गीकुरुष्व । अत्रस्तत्र सन्न्यसनवेलायां प्रागुदग्गमनावसर एव तथा वेषः, अनन्तरं तु यथालाभं यथेच्छं वा त्रिदण्डैकदण्डयोरन्यतरस्य काषायादेर्ग्रहणमेवाभिमतमिति भावय । यच्चाविद्वद्विषयं दण्डग्रहणमिति, तदपि साहसिकप्रलपितम्; विद्वांसमधिकृत्यैव तद्विधानात् । कथं चातिशयितविद्येन भवता इतिहासपुराणादिपठितकाषायदण्डशिखाधारिणः कपिलपञ्चशिखदुर्वासः प्रभृतयो महर्षयश्शङ्करादयश्च भवत्सिद्धान्तप्रतिष्ठापकाः, भगवन्नाथमुनिमिश्रभास्करयादव प्रकाशादयश्चाविद्वांस इत्युन्नीतम्? तदेतदवैदिकसिद्धान्तसारस्यमन्तरेण न कस्यचिद्रोचेत ।
यत्तु विखनस्सूत्रे * साम्बरा दिगम्बरा वेति विकल्पो विवृतगूढाचाराभिप्रायेणेति, तदपि न; तदसिद्धेरेव तद्विषयत्वासिद्धेः । तत्र हि निस्सङ्गत्वप्रतिपादनाय तथातथा व्यपदेशः, यथा *वृक्षमूले शून्यागारे श्मशाने वा वासिन इत्यत्र न व्यवस्थितविषयो विकल्पस्तद्वदत्रापि । * न तेषां धर्माधर्मौ सत्यानृते शुद्ध्यशुद्धयादि द्वैतं सर्वसमा इत्यत्रापि नह्यधर्मासत्याद्यनुमतिः क्रियते । तथासति तेषामित्यविशेषेण परामृष्टानां विवृतवेषाणामपि तदनुमतिप्रसङ्गात् । न च तदिच्छसि । अतस्तत्राप्यधर्मासत्यादेः स्वाश्रमाङ्गभूतकतिपयधर्मव्यतिरिक्त धर्माधीनां च स्वरूपतः प्रहाणमुच्यते ।
यत्तु परमहंसोपनिषदि काष्ठदण्डनिन्दनेन ज्ञानदण्डविधानमित्युक्तम्, तदपि * न हि निन्दा निन्द्यं निन्दितुं प्रवर्तते, अपि तु निन्दितादितरत्प्रशंसितुमिति न्यायेन ज्ञानदण्डविधानादरादेव । यथा अनुदितहोमनिन्दा उदितहोमप्रशंसार्था, तथेहापि । अन्यथा काष्ठदण्डधारिणः कथं महारौरवादिप्राप्त्यभिधानम्? तथा च सति काष्ठदण्डधारणस्य महापातकत्वप्रसङ्गेन तद्धारिणां दूरपरिहरणीयत्वप्रसङ्गात् । तत्र शिखायज्ञोपवीताच्छादनपरित्यागोक्तिरपि तत एवान्यपरेति सिद्धम् । विवृतवेषादिविषयतया च वक्ष्यमाणप्रकारेण यथासंभवं तन्निर्वाहस्सर्वत्र । एवं लिङ्गनिन्दापराण्यपि सर्वाणि स्मृतिवचनानि लिङ्गमात्रवतां तत्तद्धर्मविकलानां निन्दापराणीति तत्र तत्रैव पूर्वापरपरामर्शेन सुव्यक्तम् । * अव्यक्तलिङ्गोऽव्यक्ताचार इति वाक्यं तु लिङ्गाचारयोर्गोपनमवमन्तव्यतार्थं विदधातीति प्रतीयते, न ह्यलिङ्गोऽनाचार इत्युच्यते । अतो नास्ति भवदभिमतं परमहंसद्वैविध्यम् । त्रिदण्डैकदण्डादिविकल्पास्तु संभवन्ति ।
ननु श्रीभागवते * न्यासे कुटीचकः पूर्वं बहूदो हंसनिष्क्रियाविति परमहंसस्य निष्क्रियत्वमुक्तमिति चेत्; किमतः? गूढाचारसिद्धिरिति चेन्न; कुटीचकादित्रयेण सह परमहंसावान्तरविशेषस्य निर्देशायोगात् । न हि पृथिव्यादिद्रव्यवर्गपरिगणने घटः पट इत्यपि परिगण्यते । परमहंसमात्रोपादाने तु न त्वदभिमतसिद्धः । तस्य निष्क्रियत्वोक्तिस्तु पूर्वपूर्ववत्कर्मप्राचुर्याभावात्, अल्पधने पुरुषे दरिद्रशब्दात् । न च सर्वे परमहंसास्सर्वक्रियाशून्या इति त्वयापि स्वीकृतम् । विवृतगूढवेषाचारविभागाभावप्रसङ्गात् ।
ननु करतलामलकीकृतसकल निगमस्मृतीतिहास पुराणार्थैस्समस्तन्यायसार्थवाहैः परमहंसपरिव्राजकपरिबृढैर्भगवच्छङ्कराचार्यैरशेषोप निषत्स्मृति जलधिसुधायामुपदेशसाहस्रिकायां सर्ववर्णाश्रमधर्मत्यागरूपो गूढाचारधर्मः स्वपक्षतयाऽभीक्ष्णं सयुक्तिकं प्रदर्शित इति चेत्; अहो भवान् महीयोभिराचार्यवर्णनादृष्टैरनिष्टान् विजिगीषते । ये पुनर्यत्प्रतिपादिते निर्विशेषात्माद्वैते प्रपञ्चवञ्चनादौ च प्रमाणसरणिमनुसरन्तो विवदन्ते, ते कथं तत्समर्थितेऽप्यन्यस्मिन्नपार्थे चरितार्थधियो भवेयुः । ये चात्राशरीरत्वादयो युक्त्याभासा वर्णाश्रमधर्मत्यागाय वर्णिताः, तेऽपि जीवन्मुक्तिजीवघातेन विनिहता वेदितव्याः । शरीरतत्प्रयुक्तसुखदुःखाद्यनुषङ्गस्य प्रत्यक्षादिसिद्धत्वेन तन्निषेधस्य तद्बाधितत्वात् ।
स्वरूपेण वर्णाश्रम रहितस्याप्यात्मनश्शरीरविशिष्टाकारेण तद्वत्तामुपजीव्य प्रवृत्तैश्शास्त्रैरेव तत्प्रयुक्तानुष्ठानसिद्धेः । न हि देहात्मभ्रमोपजीवनेन पारलौकिकशास्त्रोदयः । अतो न कथंचिदपि युष्मदनुष्ठीयमानं स्वैरकर्मसहं पारमहंस्यं नाम किमपि दृश्यते ।
ननु ये बहिर्विषयविमुखतया निषिद्धनिवृत्तविरक्तलिङ्गधारिणः त एव साक्षात्परमहंसाभिधानब्रह्मविदः, वयं तु नामात्रधारिण इति चेन्न; तैरप्याश्रमविशेषनियतलिङ्गविशेषस्य धर्मविशेषस्य चापरित्यागात् । यश्च तेषां विषयवैमुख्यं निषिद्धनिवृत्तिकारणमुक्तम्, तदपि किं निश्शेषशब्दस्पर्शादि वैमुख्यरूपम्, उत कतिपयवैमुख्य रूपमिति? नाद्यः, कबलग्रहणादौ कस्यचिदप्यंशस्य न्यूनत्वादर्शनात् । मिथ्यैतदिति चेत्; शान्तं पापम्, कृतघ्नोऽसि । ये भवत्सु ब्रह्मवित्त्वेन बम्भ्रम्यमाणाः प्रतिदिनमग्रासने कृत्वा यथाभिलाषं चतुर्विधमन्नमुपहरन्ति, ते पुनरेवंविधं वाक्यमाकर्ण्य कथं न परिदूयेरन्? येन च प्रमाणेन ब्रह्मविद्भोगानां तेनैवाब्रह्मविद्भोगानामपीति सर्वेषामनायासेन विषयवैमुख्यं समर्थितम् । द्वितीयेऽपि यत्किंचिद्विषयवैमुख्यमात्ररूपम्, उत निषिद्धवैमुख्यरूपमिति । पूर्वत्रान्येषामपि तत्संभवेन पुनरप्यविशेषः । उत्तरत्रापि तन्निषिद्धवैमुख्यं किमनिष्टत्वमात्रात्, उत शास्त्रसिद्धानर्थहेतुत्वाध्यवसायेन? नाद्यः, विकल्पासहत्वात् । अनिष्टत्वमपि शस्त्राग्निकण्टकादिवत्सर्वप्रतिकूलत्वोपलम्भाद्वा, ब्रह्मवित्प्रतिकूलत्वोपलम्भाद्वा, आनुकूल्यानुपलम्भन मात्राद्वा? न प्रथमः, सर्वलोकोपलम्भविरोधात् । अत एव नापरः, ब्रह्मविदां स्वात्मप्रत्यक्षविरोधात् । न हि मांसादिषु संस्कृतेषु ब्रह्मविदामपि निम्बादिवत् प्रातिकूल्यादिबुद्धिः । परेषां तु चेष्टाकारलिङ्गाकानुमानविरोधः । शैलूषादिचेष्टादिवदिहापीति चेन्न; परविप्रलम्भपरानन्द जननादिप्रयोजनायोगेन तथाविधबुद्धिपूर्वकत्वानुपपत्तेः । स्वार्थताबुद्धिपूर्वकत्वे तु वैमुख्यासिद्धेः, भक्षणाद्यर्थप्रवृत्तेरबुद्धिपूर्वकत्वायोगात् । निषिद्धार्थप्रवृत्तिरेव तेषां नास्तीति हेत्वसिद्धिरिति चेत्; प्रामादिकनिषिद्धप्रवृत्तेर्ब्रह्मविदामपि संभवात् । बुद्धिपूर्वकनिषिद्धप्रवृत्त्यभावस्तु शास्त्रसिद्धानर्थ हेतुत्वाध्यवसायेनैवेति द्वितीयः कल्पस्स्यात् । तथा च निषेधसास्त्रकिङ्करत्वेनाविशेषात् विधिशास्त्रमप्यनुबघ्नातीति दुरन्तता । नचैतदुभयं भवतामिष्टम् । यदाहुः *दग्धाखिलाधिकारत्वात् ब्रह्मज्ञानाग्निना मुनिः । वर्तमानः श्रुतेर्मूघ्नि नैव स्याद्विधिकिङ्करः ।। इति । अत्याश्रमपक्षोऽयम्, आश्रमपक्षे तूभयमपीष्टमिति चेत्; तर्हि यथाविधि लिङ्गाचारावनुवर्तस्व । तदा तु न विवदामहे । शास्त्रवश्यत्वाभावेऽपि ज्ञानिनोऽत्यर्थनिषिद्धनिरोधवासनाबलादेव बुद्धिपूर्वनिषिद्धनिवृत्तिरिति चेन्न; निषिद्धनिरोधवासना हि निषिद्धे प्रवृत्तिं निवर्तयति । नचाब्रह्मविदो निषिद्धं ब्रह्मविदोऽपि निषिद्धं भवति, अतिप्रसङ्गात् । अतश्चानिषिद्धत्वात् प्रवृत्तिरेव स्यात् । अन्यथा ब्रह्मचर्यावस्थानिषिद्धतत्सन्निरोधवासनया उत्तरेषामाश्रमाणामनारम्भ प्रसङ्गात् । विधिवशात्तत्र पुनः प्रवृत्तिरिति चेन्न; ब्रह्मचारिनिषिद्धेषु गृहस्थादीनामविहिताप्रतिषिद्धेषु केषुचिदन्तर्माल्यादिष्वप्यप्रवृत्ति प्रसङ्गात् । यदि च प्राङ्निषिद्धत्वमात्रेण तदानीमनिषिद्धेऽपि वासना निरोधिका, तदा ब्रह्मविदो न काचिदपि प्रवृत्तिः स्यात्, सर्वेषामपि कर्मणामधिकारिभेदेन देशकालादिभेदेन वा निषिद्धत्वात् । अस्तु तादृशो निरीहोऽस्माकं ब्रह्मविदिति चेन्न; समाधिं स्वापादिकं वाऽन्तरेण तादृगवस्थत्वासिद्धेः । नच समाधिस्थं तथाविधं प्रतिक्षिपामः । तस्याप्युत्थानकाले विधिनिषेधौ गलग्राहिणावेव । अस्तु तर्हि लोकसंग्रहार्थं निषिद्धवैमुख्यमिति; तर्हि न वैमुख्यमपि तु बलान्निरोधः । तथा च विहिताभिमुख्यमप्यभिमुखीभवति । लोकसंग्रहोऽपि लोकक्षोभजन्यपापभयादेवेति तदेव शास्त्रवश्यत्वम् ।
ब्रह्मानुभवरसवशादेव निषिद्धक्षुद्ररसवैमुख्यमस्त्विति चेन्न; अविहिताप्रतिषिद्धेऽप्यप्रवृत्ति प्रसङ्गात् । साच सत्यपि समाधिदशैवेति प्रागेवोक्तम् । एतेन जरठवद्भोक्तृत्वशक्तिवैकल्यात् ब्रह्मविदो भोगवैमुख्यमिति च प्रत्युक्तम् । अलाभान्निवारकराजादिभयाद्वा तद्वैमुख्यमिति तु स्यात् । तदेतत्तुरङ्गमब्रह्मचर्यम्, निर्विघ्नलाभदशायां तु स्वरैमेव ह्यायातम् ।
एतेनात्याश्रमपक्षेऽपि निषिद्धवैमुख्यं दूषितम् । अनाश्रमित्वावस्था च किं विधायकशास्त्रबलादङ्गीक्रियते, लिङ्गदर्शनमात्राद्वा, तदशक्त्या वा, अन्यतो वा कुतश्चिदिति । न प्रथमः, विधायकादर्शनात्; प्रत्युत * अनाश्रमी न तिष्ठेत्तु दिनमेकमपि द्विजः इत्यादिस्मृतिशतैर्निषेधात् । नचैतदविद्वद्विषयं मन्तव्यम्, सङ्कोचकाभावात् । अनाश्रमित्वविधिदर्शने हि तत्सङ्कोचः । ज्ञानिनामपि नाश्रमो निषिध्यते, अपि तु स्वैराचारः । यथा * नाविरतो दुश्चरितान्नाशान्तो नासमाहितः । नाशान्तमानसो वापि प्रज्ञानेनैनमाप्नुयात् इति । ननु * तद्यथा पुष्करपलाश आपो न श्लिष्यन्त एवमेवंविदि पापं कर्म न श्लिष्यते, * अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् । भवत्यत्यागिनां प्रेत्य न तु सन्न्यासिनां क्वचित् ।। इति श्रुतिस्मृतिभ्यां ज्ञानिन उत्तराधाश्लेषः श्रूयत इति चेन्न; दुश्चरितविरतिपरश्रुतिबलादेवाश्लेष श्रुत्यादेरबुद्धिपूर्वविषयत्वात्, आपद्विषयत्वाच्च । सूत्रितं च *सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनादिति * शब्दश्चातोऽकामकार इति च । * कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः, इत्युक्त्वा * न कर्म लिप्यते नरे इति वचनात् बुद्धिपूर्वकर्मणाऽप्यश्लेषः श्रुत इचि चेन्न; तस्य वाक्यस्य विद्याङ्गभूतासङ्गकर्मविषयत्वात् । विद्यास्तुत्यर्थत्वाद्वा । तथा चासूत्रयत् * नाविशेषादिति, *स्तुतयेऽनुमतिर्वेति च । अन्यथा पूर्वोक्तविरोधात् । दुश्चरितविरतिश्रुतिरेव किमन्यपरतया न निरूप्यत इति चेन्न; तस्यास्तात्पर्य विषयस्यान्यस्यादर्शनात् । विज्ञानविरोधादेव तत्रापि तात्पर्यमिति चेन्न; ज्ञानस्य दुश्चरितविरामाद्यभावे स्वसाध्यसाधकत्वा भावलक्षणवैकल्यप्रतिपादनमुकेन दुश्चरितादिनिन्दारूपतया तदभावविशिष्टत्वेन विशेष एव वाक्यस्य तात्पर्यात् । ज्ञाननिष्पत्त्यर्थं दुश्चरितादिनिवृत्तिः, निष्पन्नज्ञानस्य तु निरपेक्षतया स्वैरानुमतिरिति चेन्न; दुश्चरितप्रभृतीनां ब्रह्मप्राप्तिविरोधित्वेन * नैनमाप्नुयादिति प्रतिपादनात् । नह्यत्र, नाविरतो दुश्चरितात्, प्रज्ञानमाप्नुयादित्युच्यते । * नागुस्सम्पन्नमश्नातीत्यत्र क्षीरादिसम्पद्रूपविशेषनिषेधवत् प्रज्ञाननिषेधे तात्पर्यमिति चेन्न; पूर्वापरभावसहकृतकरण श्रुतिबलादेव सिद्धत्वप्रतीतेः साध्यत्वविवक्षायास्तद्विरुद्धत्वात्, स्वारस्याभावाच्च । अत एव * नागुः क्षीरेण भुङ्क्त इतिवदिति प्रत्युक्तम्, भोजनवत् ब्रह्मप्राप्तेरन्यतः प्राप्त्यभावाच्च । साध्यत्वविक्षायामपि ज्ञानस्याप्रयाणादनुवर्तनीयत्वस्य प्रतिपादितत्वात् । प्रतिदिवसमुपचीयमानानुवृत्त ज्ञानसिद्धयर्थं दुश्चरितविरामादेरप्यामोक्षादनुवर्तनीयत्वस्य प्रतिपादितत्वात् । अतो यावज्जीवं स्वैरनिषेधे अनन्यथासिद्धे सति * कुर्वन्नेवेत्यादिकं ज्ञानस्तुत्यर्थं ज्ञानाङ्गकर्मविधिपरं वेति नेतव्यम् ।
अत एव * अपि चेदसि पापेभ्यस्सर्वेभ्यः पापकृत्तमः । सर्वं ज्ञानप्लवेनैव वृजिनं संतरिष्यसि ।। यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन । ज्ञानाग्निस्सर्वकर्माणि भस्मसात्कुरुते तथा ।। ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः । लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ।। यस्य नाहङ्कृतो भावो बुद्धिर्यस्य न लिप्यते । हत्वापि स इमाँल्लोकान्न हन्ति न निहन्यते ।। इत्यादीन्यपि क्रियमाणे कर्मणि फलसङ्गकर्तृत्वादिप्रतिषेध परतया वा ज्ञानविशेषमाहात्म्यप्रतिपादनादिपरतया न स्वैरानुमतिलिङ्गानि । अत एव *अपिचेत्सुदुराचारो भजते मामनन्यभाक् । साधुरेव स मन्तव्यस्सम्यग्व्यवसितो हि सः ।। इत्युक्त्वा, अनन्तरमेव * क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं स गच्छतीत्यादिना समाधीयते । * तस्माद्ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेदिति विदुषो बाल्यविधिबलात्कामचारवादकाम भक्षत्वादिप्राप्तिरिति चेत्; नहि तत्र बाल्यशब्दो बालभावपरः, स हि वयोवस्थाविशेषरूप उपादातुं न शक्यते । अतः स्वमाहात्म्यानाविष्काररूपं बालकर्म उपादातुं शक्यत इति तद्विषयोऽयं विधिः; अन्यथा प्रागुक्तविरोधात् । सूत्रितं च * अनाविष्कुर्वन्नन्वयादिति । योगिनां च स्वमाहात्म्यानाविष्कारेण जडवदाचरणं योगोपकारकतया स्मर्यते यथा * जानन्नपि हि मेधावी जडवल्लोकमाचरेत् । सम्मानना परां हानिं याेगर्धेः कुरुते यतः ।। इत्यादि । सनत्सुजातोऽपि *य इमं सर्वदा भूतेष्वात्मानमनुपश्यति । अन्यत्रान्यत्र युक्तेषु किं नु (स) शोचेत्ततः परम् । अहमेवास्मि वो माता पिता पुत्रोऽस्म्यहं पुनः । आत्माऽहमस्य सर्वस्य यच्च नास्ति यदस्ति च । पितामहोऽस्मि स्थविरः पिता पुत्रश्च भारत ।। ममैव यूयमात्माथ न मे यूयं च नाप्यहम् । आत्मैव स्थानं मम जन्मचात्मेत्यादिना सर्वान्तरात्मभूत ब्रह्मसाक्षात्कारिणं सर्वजननिरुपाधिकसुहृदं ब्रह्मनिष्ठं प्रस्तुत्य, * तस्य सम्यक् समाचारमाहुर्वेदविदो जनाः । नैवं मन्येत भूयिष्ठं बाह्यमाभ्यन्तरं जनम् ।। इत्यादिना तस्य स्वाकारगोपनं विधाय, *यर्ह्येवमन्तरात्मानं ब्रह्मणो हन्तुमर्हति । निर्लिङ्गमचलं सिद्धं सर्वद्वन्द्वविवर्जितम् ।। इत्यादिना परिशुद्धात्मस्वरूपानुसन्धानं च विधाय, * योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते । किं तेन न कृतं पापं चोरेणात्मापहारिणा ।। इत्ययथा भूतात्मवेदिनं विनिन्द्य, * अश्रान्तस्यावनावात्मा सम्मतो निरुपद्रवः । शिष्टो नशिष्टवत्स स्याद्ब्राह्मणो ब्रह्मवित्कविः ।। इति विशिष्टस्यैव सतस्तस्यावमानसिद्ध्यर्थमविशिष्टवदभिनय एवाभिधीयते । व्यज्यते हि तत्रैव – *सम्मानपरिहारार्थं स्ववीर्यस्य हि गोपनम् । ये यथा वान्तमश्नन्ति बाला नित्यमभुङ्क्तये ।। एवं ते वान्तमश्नन्ति स्ववीर्यस्योपभोजनात् । नवै मानं च मौनं च महितौ चरतस्सदा । अयंमानस्य विषयो ह्यसौ मौनस्य तद्विदुः ।। इति । उक्तं हि तैत्तिरीयके *तस्मादेवं विद्वान् । वीव नृत्येत् । प्रेव चलेत् । व्यस्येवाक्ष्यौ भाषेत । मण्टयेदिव । क्राथयेदिव । श्रृङ्गायेतेव । उत मोपवदेयुः । उत मे पाप्मानमपहन्युरिति । इति । अत्रापि पापनिवृत्त्यर्थं परिभवनीयत्वसिद्ध्यर्थमुन्मत्तत्वादिसमान व्यापार एव हि विधीयते; न पुनः परमहंसानां परदारादिगमनरूपनिषिद्धकरणम्, नापि नित्यनैमित्ति उक्तं च मनुना * सम्मानाद्ब्रह्मणो नित्यमुद्विजेत विषादिव । अमृतस्येव चाकाङ्क्षेदवमानस्य सर्वदा ।। इति । अयमेवार्थः स्मृत्यन्तरेष्वप्युच्यते – * यन्न सन्तं नचासन्तं नाश्रुतं न बहुश्रुतम् । न सुवृत्तं न दुर्वृत्तं वेद कश्चित्स वैद्विजः ।। गूढं समाश्रितो विद्वानज्ञातश्चंरितं चरेत् ।। अन्धवज्जडवच्चापि मूकवच्च महीं चरेत् । स्वाचारस्यापरित्यागः स्वप्रभावस्य गोपनम् ।। अपरिग्रहशीलत्वं पावनानि प्रचक्षते । इत्यादिभिः ।
एतेन द्वितीयोऽपि हेतुः प्रत्युक्तः, प्रत्यक्षश्रुतिविरोधे प्राप्त्यभावे च लिङ्गदर्शनमकिञ्चित्करमेव । न च तदस्ति । आदिभरतोऽपि हि योगसिद्धयर्थं जडवदाचारमात्रे प्रवृत्त इति तत्रैव व्यक्तम् । तथाहि श्रीविष्णुपुराणे आदिभरतोपाख्याने * तत्र चोत्सृष्टदेहोऽसौ जज्ञे जातिस्मरो द्विजः । सदाचारवतां शुद्धे योगिनां प्रवरे कुले ।। सर्वविज्ञान सम्पन्नस्सर्वशास्त्रार्थतत्त्ववित् । अपश्यत्सच मैत्रेय आत्मानं प्रकृतेः परम् ।। आत्मनोऽधिगतज्ञानो देवादीनि महामुने । सर्वभूतान्यभेदेन स ददर्श सदाऽऽत्मनः ।। न पपाठ गुरुप्रोक्तां कृतोपनयनश्श्रुतिम् । न ददर्श च कर्माणि शास्त्राणि जगृहे न च ।। उक्तोऽपि बहुशः किञ्चिज्जडवाक्यमभाषत । तदप्यसंस्कारगुणं ग्राम्यवाक्योक्तिसंश्रितम् ।। अपध्वस्तवपुस्सोऽथ मलिनाम्बरधृग्जटी । क्लिन्नदन्तान्तरस्सभ्यैः परिभूतस्स नागरैः ।। सम्मानना परां हानिं योगर्धेः कुरुते यतः । जनेनावमतो योगी योगसिद्धिं च विन्दति ।। तस्माच्चरेत वै योगी सतां वर्त्म न दूषयेत् । जना यथाऽवमन्येरन् गच्छेयुर्नैव सङ्गतिम् ।। हिरण्यगर्भवचनं विचिन्त्येत्थं महामतिः । आत्मानं दर्शयामास जडोन्मत्ताकृतिं जने ।। भुङ्क्ते कुल्भाषवाट्यादि शाकं वन्यफलान् कणान् । यद्यदाप्नोति सुबहु तत्तत्ते कालसंयमम् ।। पितर्युपरते सोऽथ भ्रातृभ्रातृव्यबान्धवैः । कारितः क्षेत्रकर्माणि कदन्नाहारतोषितः ।। सरूक्षपीनावयवो जडकारी च कर्मणि । सर्वलोकोपकरणं बभूवाहारचेतनः ।। तं तादृशमसंस्कारं विप्राकृतिविचेष्टितम् । क्षत्ता सौवीरराज्सय विष्टियोग्यममन्यत ।। इति । तथोतरत्र * योगिनो विविधै रूपैर्नराणामुपकारिणः । भ्रमन्ति पृथिवीमेतामभि (वि)ज्ञातस्वरूपिणः ।। इति । न ह्यत्राधर्मानुष्ठानं किंचिदुक्तम्, न च धर्मोपप्लवः । कर्माणि तु यज्ञादीनि ब्रह्मचारित्वादेव नाग्रहीत् । अत एव तत्र *सतां वर्त्म न दूषयन्नित्यप्युक्तम् । भागवते च तस्य यज्ञोपवीतादिधारणदिकथनादाश्रमित्वमेव प्रतीयते । यथोक्तम् * कस्त्वं निगूढश्चरसि द्विजानां बिभर्षि सूत्रं कतमोऽवधूत इति । अत्र निगूढश्चरसीति स्वमाहात्म्यानाविष्कारो व्यक्तः । अत एव * न पपाठ गुरुप्रोक्तां कृतोपनयनः श्रुतिमित्यत्रापि कृतोपनयनत्वं न निषिध्यते । अनूच्चारणपरित्यागोऽपि जन्मान्तरसंस्कारोद्बोधनादिना वेदानां स्वतःप्रकाशते । अथवा एकवारश्रवणमात्रेण वेदधारणात् । दुर्वासः -प्रभृतीनामुन्मत्तव्रतादिकमपि कादाचित्कमाश्रमधर्मनिष्ठानामेव लोकोपहास्यतादिफलावसितम् । न पुनः सर्वाश्रमत्यागात्मकम् । अत एव दुर्वाससः पश्चात्सन्न्यासानुप्रवेशः काषायदण्डादिमत्त्वं च स्मर्यते । ऋभुशुकसंवर्तादिषु नग्नचर्यादिदर्शनादनाश्रमित्वमवगम्यत इति चेन्न; नग्नचर्याया अपि वर्षवातातपादितिति लक्षणकम्बलकबलिताशेषविशेषाकारपुरातनाधिकारि विशेषविषयव्रतविशेषरूपत्वात् । आश्रमित्वाभावे कथं वाताशनस्यैव संवर्तस्य महीभृता ऋत्विक्त्वेन वरणम्? अतस्सर्ववर्णाश्रम साधारणव्रतविशेष एव नग्नचर्या । गृहस्थस्यैव ह्यार्त्विज्यादिकम् । पूर्वं विधुरस्यापि कार्यार्थं दारक्रियादि पूर्वकमार्त्विज्यं युज्यते । ननु * पुरः पञ्चशतं नार्यो वारमुख्याः समाद्रवन्नित्यादिना *तस्य भुक्तवतस्तात तदन्तःपुरकाननम् । सुरम्यं दर्शयामासुरैकैकश्येन भारत ।। इति तस्य ब्रह्मविदो महर्षेः शुकस्य वारमुख्यासु गणिकासु भोजनमप्युक्तमिति चेन्न; ब्राह्मणादिपरिक्वोपनीतान्नभोजनेन तासां परिजनतया भोजनानन्तरं तालवृन्तादिग्रहणादिमुखेनावस्थानेऽपि तद्व्यपदेशोपपत्तेः । शुकस्य ब्रह्मचर्यादिपरीक्षणमात्रे हि तत्र तात्पर्यमिति सुव्यक्तम् । नैतन्निषिद्धान्नभोजनलिङ्गम् । उत्तरत्र च * विज्ञाते तु परे तत्त्वे प्रत्यक्षे हृदि शाश्वते । किमवश्यं हि वस्तव्यमाश्रमेषु वनेषु च । एतद्भवन्तं पृच्छामि तद्भवान् प्रब्रवीतु मे ।। इति शुकेन पृष्टे, जनकेन तेषामेवाश्रमधर्माणां सङ्गत्यागपूर्वकमनुष्ठानमेव ह्यक्तम् । यच्च तत्र *न विना ज्ञानविज्ञानान्मोक्षस्याधिगमो भवेत् । न विना गुरुसम्बन्धात् ज्ञानस्याधिगमः स्मृतः । आचार्थः प्लाविता तस्य ज्ञानं प्लव इहोच्यते । विज्ञाय कृतकृत्यस्तु तीर्णस्तदुभयं त्यजेत् । त्यज धर्ममधर्मं च त्यज सत्यानृते अपि । उभे सत्यानृते त्यक्त्वा येन त्यजसि तं त्यज । इत्युक्तम् । तत्र * तीर्णस्तदुभयं त्यजेदित्यनेन आमोक्षात्तदुपायभूत ज्ञानाचार्ययोरनुवर्तनीयत्वमेवोक्तम् । *त्यज धर्ममधर्मं चेति श्लोकस्तु * त्यज धर्ममसङ्कल्पात्त्यजाधर्ममहिंसया । उभे सत्यानृते बुद्ध्वा बुद्धिं परमनिश्चयाम् । इत्यनेन श्लोकेन व्याख्यातार्थत्वात् नासौ त्वदनुगुणः । यत्पुनः श्रीभागवते शुकस्य परमहंसस्य वेषानुक्त्वा * तत्रागमत् भगवान् व्यासपुत्रो यदृच्छया गामटमानोऽनपेक्षः । अलक्ष्यलिङ्गो निजलाभतुष्टो वृतश्च बालैरवधूतवेषः । तं द्व्यष्टवर्षं सुकुमारपादकरोरुबाह्वंसकपोलगात्रम् । चार्वारुणाक्षोन्नसतुल्यकर्णसुभ्व्राननं कम्बुसृजातकण्ठम् । निगूढजत्रुं पृथुतुङ्गवक्षसं सावर्तनाभिं वलिवल्गूदरं च । दिगम्बरं वक्रविकीर्णकेशं श्यामं सदा पिच्छिलयाऽङ्गलक्ष्म्या । स्त्रीणां मनोज्ञं रुचिरस्मितेन प्रलम्बबाहुं सुकुमारोत्तमाङ्गम् । प्रत्युत्थिता मुनयस्स्वासनेभ्यः इत्यादि, अत्र नग्नचर्यापरत्वाल्लिङ्गस्य निगूहनमलक्ष्यलिङ्ग इत्युक्तम् । यत्युनराश्वमेधिके प्रोक्तं * राजन्नाङ्गिरसः पुत्रस्संवर्तो नाम धार्मिकः । दिशश्चङ्क्रमते सर्वा दिग्वासा मोहयन् प्रजाः । उन्मत्तवेषं बिभ्रत्स चरन् वै तु यथासुखम् । वाराणसीं तु नगरीमभीक्ष्णमुपसेवते । नैव धर्मी न चाधर्मी नचापि हि शुभाशुभी । इत्यादि, तत्रापि धार्मिक इत्युपक्रमात् पुण्यक्षेत्रनिरन्तरसेवनरूप धर्मविशेषनिष्ठत्वस्य चाभिधानात् उन्मत्तवेषधारणमात्रमेवोच्यते ।
यत्युनरजगरोपाख्यानं स्वैरानुरूपमुपवर्णयन्ति; तदप्यसत् । तथा हि * केन वृत्तेन वृत्तज्ञ वीतशोकश्चरेन्महीम् । किञ्च कुर्वन्नरो लोके प्राप्नोति परमां गतिम् । इति युधिष्ठिरेण पृष्टो भीष्मः प्रत्याह * अत्राप्युदाहरन्तीममितिहासं पुरातनम् । प्रह्लादय च संवादं मुनेरजगरस्य च । चरन्तं ब्राह्मणं कञ्चित्तुल्यचित्तमनामयम् । पप्रच्छ राजन् प्रह्लादो बुद्धिमान् प्राज्ञसत्तमः । प्रह्लादः * स्वस्थः शुक्लो मृदुर्दान्तः निर्विवित्सोऽनसूयकः । सुवाग्बहुमतोलोके प्राज्ञश्चरसि बालवत् । इत्यादिना पूर्वं प्रह्लादप्रश्नेन ब्राह्मणस्य मुमुक्षूपादेया गुणाः प्रदर्शिताः । यत्पुनस्तत्रोक्तम् * धर्मार्थकामकार्येषु कूटस्थ इव लक्ष्यसे । नानुतिष्ठसि धर्माथौ न कामे चापि वर्तसे । इति; तदपि काम्यकर्मादिविषयमेव, अन्यथा उत्तरत्र धर्मोपभोगप्रतिग्रहवचनविरोधात् । प्रह्लादानुयुक्तो हि ब्राह्मणस्तत्र सर्वपदार्थानामनित्यत्वमुक्त्वाह * उत्पत्तिनिधनज्ञस्य किं कार्यमवशिष्यते । सर्वभूतानि संपश्यन्ननुरक्तानि मृत्युना । सर्वं सामान्यतो विद्वान् कृतकृत्यस्सुखं स्वपे । सुमहान्तमपि ग्रासं ग्रसे लब्धं यदृच्छया । शये पुनरभुञ्जानो दिवसानि बहून्यपि । आस्रवत्यपि मामन्नं पुनर्बहुगुणं बहु । पुनरल्पं पुनस्स्तोकं पुनर्नैवोपपद्यते । कणान् कदाचित्खादपि पिण्याकमपि च ग्रसे । भक्षये शालिमांसानि भक्ष्यांश्चोच्चावचान् पुनः । धारयामि च चीराणि शाणक्षौमाजिनानि च । महार्हाण्यपि वासांसि धारयाम्यहमेकदा । शये कदाचित्पर्यङ्के भूमावपि पुनश्शये । प्रासादे वापि मे शय्या कदाचिदुपपद्यते । न सन्निपतितं धर्म्यमुपभोगं यदृच्छया । प्रत्याचक्षे न चाप्येनमनुरुन्धे सुदुर्लभम् । अनियंतफलभक्ष्यभोज्यपेयं विधिपरिणामविभक्त देशकालम् । हृदयसुखमसेवितं कदर्यैर्व्रतमिदमाजगरं शुचिश्चरामि । सुखमसुखमनर्थमर्थलाभं रतिमरतिं मरणं च जीवितं च । विधिनियतमवेक्ष्य तत्त्वबुद्धया व्रतमिदमाजगरं शुचिश्चरामि ।* अनियतशयनासनप्रकृत्येत्यादि – अत्र यथा लब्धवृत्तित्वेऽपि प्रपञ्च्यमाने धर्म्यमिति धर्मादनपेतत्वमेव सावधानेनोक्तम्, उत्तरत्रापि निरपेक्षत्वमात्रेण यथालब्धवृत्तित्वं सम्माननपरिहरणमात्रं चोपदिश्यते । * निस्तुतिर्निर्नमस्कारो निर्द्वन्द्वो निष्प्रतिग्रहः । विचरैकाकी येन केनचिदाश्रितः । येन केन चिदाच्छन्नो येन केनचिदाशितः । यत्र क्वचन शायी स्यात्तं देवा ब्राह्मणं विदुः । निराशिषमनारम्भं निर्नमस्कारमस्तुतिम् । अक्षीणं क्षीणकर्माणं तं देवा ब्राह्मणं विदुः । येन पूर्णमिवाकाशं भवत्येकेन सर्वदा । शून्यं यस्य जनाकीर्णं तं देवा ब्राह्मणं विदुः । यस्मिन् वाचः प्रणश्यन्ति कूपे शाम्यन्तं तं देवा ब्राह्मणं विदुः । योऽहेरिव गणाद्भीतस्सम्मानान्मरणादिव । कुणपादिव च स्त्रीभ्यस्तं देवा ब्राह्मणंविदुः । इत्यादि * गृहीतमौनव्रतस्तूष्णींबभूवेत्यादिना जडादिवद्भावनामात्रमभिधीयत इति सुव्यक्तम् ।
यच्च तत्र विपरीतमिव किंचिदुक्तम्, * यर्हि वा व स भगवान् लोकमिमं योगस्यद्धाप्रतीपमिह चक्षाणस्तत्प्रकृतकर्मबीभत्सितमाजगरं नामावस्थितश्शयान एवाश्नाति पिबति खादत्यवमेहतीत्यादि, यच्चैवं गोमृगकाकचर्यया व्रजंस्तिष्ठन्नासीनः काकमृगगोवच्चरति षिबत्यवमेहतीत्यादि, तदप्यखिलमजगरगोमृगचर्यारूपलोकावज्ञाहेतुभूतयोगोपकारक व्रतविशेषविषयम् । तत एव च तथाविधस्यैव ऋुषभस्य विधिनिषेधकिङ्करत्वमेव ज्ञापितमिति न विरोधः । अत एव हि भक्तिज्ञानवैराग्यलक्षणं पारमहंस्यं* धर्ममुपशिक्षमाण इत्युपक्रमेऽप्युक्तम् । यच्चोत्तरत्र -* अवधूतं द्विजं कञ्चिच्चरन्तमकुतोभयम् । कविं निरीक्ष्य रमणं यदुः पप्रच्छ धर्मवित् ।। कुतो बुद्धिरियं ब्रह्मन् अकर्तुस्सुविशारदा । यामासाद्य भवांल्लोकं विद्वांश्चरति बालवत् । प्रायो धर्मार्थकामेषु विवित्सायां च मानवाः । हेतुनेह समीहन्ते आयुषो यशसश्रयः । त्वं तु कल्पः कविर्दक्षस्सुभगो मितभाषणः । न कर्तुमीहसे किंचिज्जडोन्मत्तपिशाचवत् । जनेषु मुह्यमानेषु कामलोभदवाग्निना । न तप्यसेऽग्निना मुक्तो गङ्गाम्भस्स्थ इव द्विपः । त्वं हि नः पृच्छतां ब्रह्मन्नात्मन्यानन्दकारणम् । ब्रूहि स्पर्शविहीनस्य भवतः केवलात्मनः । इति पृष्टेनावधूतेन ब्राह्मणेन -* सन्ति मे गुरवो राजन् बहवो बुद्ध्युपाश्रिताः । यतो बुद्धिमुपादाय मुक्तोऽहमिह तान् श्रृणु । पृथिवी वायुराकाश आपोऽग्निश्चन्द्रमा रविः । इत्युपक्रम्य, *एते मे गुरवो राजन् चतुर्विंशतिराश्रिताः । इति गुरुवर्गमुक्त्वा, *विषयेष्वाविशन् योगी नानाधर्मेषु सर्वतः । गुणदोषव्यपेतात्मा न विषज्येत वायुवत् । तेजस्वी तपसा दीप्तो दुर्घर्षोदरभाजनः । सर्वभक्षोऽपि युक्तात्मा नाधत्ते मलमग्निवत् । क्वचिच्छन्नः क्वचित् स्पष्ट उपास्यः श्रेय इच्छताम् । भुङ्क्ते सर्वत्र दातृणां दहन्प्रागुत्तराशुभम् । इत्याद्युक्तम्, तदप्युक्तेनैव न्यायेन योगिनिष्ठप्रशंसारूपातिवादात्मकमिति अपिशब्दादिभिरेव लिङ्गैर्व्यक्तम् । उपक्रमे प्रश्नवाक्येनापि निष्परिग्रहत्व निरभिमानत्वादिकं हि दर्शितम्, तदेव ह्युत्तरेणाप्यभिप्रेतम् । अतो यादृच्छिकसगुणविगुणान्न विवेकत्यागे सर्वभक्षोक्तेस्तात्पर्यम् । यच्च यादृच्छिकान्नव्यतिरेकेणापि पाणिपात्रभोजनमपि दृष्टमित्युच्यते, यथा -*स्तोकं स्तोकं ग्रसेद्ग्रासान् देहो वर्तेंत यावता । गृहानहिंसन्नातिष्ठेद्वृत्तिं माधुकरीं मुनिः । सायन्तनं श्वस्तनं वा न संगृह्णीत भिक्षितम् । पाणिपात्रोदरामात्रो मक्षिकेव न स्रंग्रही । गुणैर्गुणानुपादत्ते यथाकालं विमुञ्चति । न तेषु सज्जते योगी गोभिर्गा इव गोपतिः । इत्यादि; तदपि स्थास्नुपात्रपरित्यागादौ तत्परम् । परिव्राजां भिक्षाकाले शीर्णपर्णपुटेनापि भिक्षणस्य कैश्चिदनुमतेः । यच्च तदत्तरत्रेत्युपात्तम् -*ज्ञाननिष्ठो विरक्तो वा मद्भक्तो वाऽनपेक्षकः । सलिङ्गानाश्रमांसत्यक्त्वा चरेदविधिगोचरः । बुधो बालकवत् क्रीडेत् कुशलो जडवच्चरेत् । वदेदुन्मत्तवद्विद्वान् गोचर्यां नैगमश्चरेत् । यदृच्छयोपपन्नान्नमद्याच्छ्रेष्ठमुतावरम् । तथा वासस्तथा शय्यां प्राप्तं प्राप्तं भजेन्मुनिः । इत्यादि; तदपि क्रियमाणेष्वेवाकर्तृत्वानुसन्धानविधौ तत्परिमति प्रागुक्तनयेन नेतव्यम् । अन्यथा तत्रैव कथम् * अविधिगोचरश्चरेदित्यादिविधिर्घटेत?
यत्तु वाररुचे स्वरूपग्रन्थ इत्युपात्तम् -*देहजात्यादिसम्बन्धान् वर्णाश्रमसमन्वितान् । भावानेतान् परित्यज्य स्वं भावं भावयेद्बुधः । सर्वोपाधिविनिर्मुक्तं चैतन्यं यन्निरन्तरम् । तद्ब्राह्मणमिति ज्ञात्वा कथं वर्णाश्रमी भवेत् । इति । तदपि वररुचेः ऋुषिभावनयोपदेशपरं चेत् परिगृहीततमऋष्यन्तर स्मृत्यन्तरादिवचनाविरोधेन यथावस्थितपरिशुद्धात्मस्वरूपानु सन्धानपूर्वकवर्णाश्रमधर्मविशेषविधिपरतया योज्यम् । उपपत्तिपरं चेत् सर्वधर्मोपप्लवमूलकुतर्ककल्ककल्पितत्वेन प्रामाणिकैर्बीभत्सनीयम् । बृहस्पतिप्रणीतलोकायतादिग्रन्थवत् । विदुरवृत्तान्तोऽपि प्रागुक्तन्यायेन व्याख्यातः ।
यद्यपि * जपस्तपस्तीर्थयात्रा प्रव्रज्या मन्त्रसाधनम् । देवताराधनं चेति स्त्रीशूद्रपतनानि षट् । त्यिदि स्त्रीशूद्रादिषु भर्तृत्रैवर्णिकशुश्रूषावहिर्भूतजपतपः प्रभृतिषु पतनस्मृतिः, तथाऽपि क्षत्रियविशेषस्य सन्नयासाभ्यनुज्ञानवच्छूद्रादेरपि केषुचिद्व्रतेष्वनुज्ञानमस्ति । न च तस्य यज्ञोपवीतादिपरित्यागलक्षण दोषावकाशः, प्रागेव तदभावात् । ये च नग्नचर्यामातिष्ठन्ते महात्मानः ते हि ब्रह्मचर्यकाष्ठामधिष्ठा तथा भवन्ति । * ऋषयो वातरशनाः, * वातरशना ह वा ऋुषयश्श्रमणा ऊर्ध्वमन्थिनः इति हि श्रूयते । न पुनर्भवन्त इव पट्टांशुकादिभाण्डागारशालिनः क्षितिसुरचण्डालक्षीरसुरादिभेदत्यजः परकलत्रशरणाः पशुमृगसधर्माणः प्रजननसन्तताः श्रूयन्ते । सनत्कुमारादीनां नग्नता नित्यबाल्यावस्थतथा, केवलब्रह्मभावनाभावितात्मानः कुमारा हि ते महात्मानः श्रूयन्ते । पशुपतेर्नग्नचर्या तु पाशुपतव्रतविशेषाङ्गरूपत्वात् तत्र धर्मत्वसदसद्भावयोरपि त्रयीधर्मनिष्ठैरनुपादेयैव । यत्पुनर्मुग्धेन्दुशेखरस्य मुनिधर्मदारमोहनादिकमवैदिकाचारजालम्, तत्र वैराग्यशालिनस्तस्य मोहनाभिसन्धिविरहः प्रस्पष्टं पठितः । अन्यथाऽपि तस्थेश्वरत्वमभ्युपगच्छतामीश्वरत्वादेव परिहृतम् । * न देवचरितं चरेदिति ह्याहुः । लोकवेदविरुद्धयोरप्यलेपः स्वतन्त्रश्चेति हि महापाशुपताः प्राहुः । अनीश्वरत्वपक्षे तु तेजोविशेषेणैव सोढव्यम् । स्मरन्ति हि *दृष्टो धर्मव्यतिक्रमः साहसं च पूर्वेषां तेषां तेजोविशेषेण प्रत्यवायो न विद्यते तदन्वीक्ष्य प्रयुञ्जानस्सीदत्यवरजः इत्यादि ।
एतेन सर्वेश्वरस्य भगवतो वसुदेवनन्दनस्य स्वच्छन्दलीलया गोपवधूदर्शनव्याकुलीकरणं व्याख्यातम् । परिहृतं चैतदकर्मवश्यतया भगवत्पराशरादिभिः; * कामद्गीप्य इति भगवत्यनुरागानुवृत्तिरपवर्गायैव जायत इति चोक्तम् । ननु धर्मसंस्थापनार्थाय संभवस्तत्क्षोभकरणं चेति कथमिदमुपपद्यते? न, उक्तोत्तरत्वात् । नन्दगोपनन्दनत्वाभिमानमभि नयतस्तस्य न तावत्तदानीं वर्णाश्रमाचारानुवृत्तिनियमः । आभीरकन्यका अपि भगवन्तमेव भर्तारमभ्यर्थ्य जन्मानतरचरितव्रता दिव्यप्रकृतये एवेति तास्वप्सरस्समाधिरनुसन्धेयः । तत्तदभिमतफलप्रदानं चेश्वरस्यादोषायेति । यदा तु भगवान् वसुदेवतनयतया प्रतिबोधमभिनयन् यदुवंशोदितं क्षत्रधर्ममनुप्राविशत्, तदा सावधान एव सर्वदा सर्वान् धर्मानन्वपालयत् । तथाहि सर्वत्र कथ्यते -* न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन । नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ।। इति ।। तथा, *कृतोदकः कृतजपो हुताग्निस्समलंकृतः । तत उद्यन्तमादित्यमुपातिष्ठत माधवः । इति । तथा अश्वत्थामास्त्रपावकप्लुष्टविराटतनयागर्भसञ्जीवनावसरे साधिकषोडशस्त्री सहस्ररसिको बृन्दावनविहारी वल्लवीबृन्दनिविष्टयौवनारम्भो भगवान् स्वयमेववीचत् – *यदि मे ब्रह्मचर्यं स्यात् सत्यं च मयि तिष्ठति । अव्याहतं ममैश्वर्यं तेन जीवतु बालकः । इति ।
ननु श्वेताश्वतरोपनिषदुपसंहारे तदधिकारितया अत्याश्रमित्वोपपादनादप्राप्तार्थत्वेन तद्विधिरिति चेन्न; अतिशयिताश्रमविशेषनिष्ठ इति वा, ब्रह्मचर्यादित्रयातिक्रान्ताश्रमविशेषनिष्ठ इति वा, अन्येन वा केनचिदविरुद्धेन निमित्तेन तन्निर्वाहात् । अन्यथा स्फुटतरार्थश्रुतिस्मृतीतिहासादिशतकोपप्रसङ्गः । *शारीरं केवलं कर्म कुर्वन्, *सर्वारम्भपरित्यागी, *सर्वधर्मान् परित्यज्येत्यादिभिस्सर्वधर्म परित्यागोक्त्या चानाश्रमित्वसिद्धिरिति चेन्न; फलसङ्गकर्तृत्वादिविषयतया वा विधीयमानधर्मव्यतिरिक्तविषयतया वा यथासंभवं तद्व्यवस्थापनस्य तत्र तत्रैवोपक्रामदिभिर्व्यक्तत्वात् । *सन्न्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम् । इति सन्न्यासत्यागतत्त्वबुभुत्सयोपसेदुषे धनञ्जयायोक्तं भगवता -* एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च । कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम् । नियतस्य तु संन्यासः कर्मणो नोपपद्यते । मोहात्तस्य परित्यागस्तामसः परिकीर्तितः । इति । एतेन, *यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः । आत्मन्येव च सन्तुष्टः तस्य कार्यं न विद्यते । नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन । नचास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः । इत्यादीन्यपि वाक्यानि सर्वकार्यस्वरूपनिषेधपराण्यपि मुक्तदशां समाधिदशां वाऽऽश्रित्य निर्वाह्याणि । अतो यथायथमाश्रम विशेषविषयो वा फलसङ्गकर्तृत्वादिविषयो वासन्न्यासपरित्यागादिवादः, न पुनस्स्वैरपर्यवसित इति सिद्धम् ।
एतेन * न कर्मणान प्रजया धनेन त्यागेनैके अमृतत्वमानशुः, * न्यास एवात्यरेचयत्, * तस्मान्न्यासमेषां तपसामतिरिक्तमाहुः इत्यादि, * किमर्था वयमध्येष्यामहे किमर्था वयं यक्ष्यामहे किं प्रजया करिष्यामः येषां नोअयमात्मा ब्रह्मलोक इत्यादिकमपि धर्मविशेषादिविषयतया तत्रत्यात्मसमर्पणादिविषयतया वा यथायथं निर्वोढव्यम् । अतस्सर्वाश्रमपरित्यागोक्तिसंभवेऽपि प्रागुक्त एव न्यायः । न च तथाऽस्ति, अपि तु * त्रयो धर्मस्कन्धाः इत्याश्रमान्विधाय *ब्रह्मसंस्थोऽमृतत्व मेतीत्याश्रम निष्ठानामेव ब्रह्मविदाममृतत्वं श्रूयते * स खल्वेवं वर्तयन् यावदायुषं ब्रह्मलोकमभिसंपद्यते न च पुनरावर्तते न च पुनरावर्तते इति यावज्जीवं गृहस्थधर्मनिष्ठस्य ब्रह्मविदोऽपुनरावृत्तिराम्नाता । *यो वा एतदक्षरं गार्गीत्यादौ च ज्ञानरहितकर्मणामन्तवत्फलसाधनत्वं ज्ञानपूर्वककर्मणां स्थिरफलसाधनत्वं चोक्तम् । अतो न कदाचिदपि यावज्जीवं स्ववर्णाश्रमोचितधर्मस्वरूपत्यागसंभवः । यानि चान्यानि वाक्यानि सम्प्रतिपन्नश्रुतिस्मृतिष्वदृश्यमानानि स्वाचारानुरूपमतपरिचर्यया केषुचिदप्रसिद्धेषु वा नष्टकोशेषु वा अनिरूपितमूलाग्रेषु वा पुराणेषु प्रक्षिप्य पठन्ति पापिष्ठाः; तानि प्रत्यक्षश्रुत्यादिपरिशीलनशालिनीषु गरिष्ठगोष्ठीसु नावकाशं लभन्ते । तत्प्रामाण्येऽपि प्रसिद्धाविरोधेन नेतव्यमित्यत एवैतान्यपि निर्व्यूढानि ।
न च तृतीयः, अनाश्रमित्वाक्षेपकवचनादर्शनात् । जीवन्मुक्ते श्रुत्यर्थापत्त्यैवानाश्रमित्वसिद्धिरिति चेन्न; तद्दूषणादेव तदसिद्धेः । अस्तु नित्यमुक्तिवशात्सर्वाश्रमतया इति चेन्न; तस्या अपि मोक्षोपायोपदेशक शास्त्रादेव विस्तरतस्तत्प्रकरणे निषेधात् ।
चतुर्थस्तु विपरीत एव । अथ गौडपादहरिप्रभृतिभिराचरितत्वात्सर्वाश्रमपरित्यागोऽस्माभिः स्वीकृत इति चेत्; हन्त सदाचारनिदर्शनतया महान्त इमे दुर्ब्राह्मणशूद्रसन्तानादयः शिष्टा निर्दिष्टाः, यदनुविधायिनोऽपि यूयं शिष्टैर्बहिष्क्रियन्ते । हन्तैवं सति धर्मकीर्तिप्रभृतिभिः परिगृहीतत्वात्सौगत लोकायतिकादिसमय एव किं न स्वीक्रियते? न च वस्तत्परिग्रहेऽपि मुक्तिः प्रतिबध्यते । सत्यम्, तथाऽपि येनाकारेण यावज्जीवं जीवनाय लोको रञ्जयितुं शक्यः तेन यथायथं वर्तामह इति चेत्, सत्यमिदमन्तर्गतमुद्गीर्णं भवता, तदेव चार्वाकसमयरहस्यमिति तत्प्रहारेण प्रहृतमिदम् । न हि चार्वाकान् भवन्तोऽपि गोष्ठीषु व्यक्तमन्तर्भावयन्ति । भजन्तु वा प्रकाशं चार्वाकाभिख्याम् । ननु ब्रह्मविच्छब्दोऽस्मासु प्रयुज्यमानो दुरपह्नव इति चेत्; सत्यम्, भ्रान्तिमूलतया निरर्थकोऽयमिति ब्रूमः । दिगम्बरादिष्विदानीमृष्यादि शब्दप्रयोगवत् । तत्त्वविद इति भवता स्वयं स्थानेषु समाहूयामह इति चेत्; किमतः? तत्त्ववित्त्वमेवेति चेन्न; तस्य विडम्बनपरत्वात्, भवदधीनकार्यलाभकालप्रतीक्षणाद्वेति ।
नापि पञ्चमः, अधर्मत्वप्रसङ्गात् । यद्यपि स्वाश्रमधर्मानुष्ठानक्लेशादात्मानुसन्धान विच्छेदभयेन सर्वधर्मपरित्याग इति तु यथाहृदयं सत्यं वचः, तथापि श्रुतिस्मृत्यादयः शक्तानां धर्मलोपे प्रकृप्येरन्निति प्रायश्चित्तेन प्रतिसन्धानं वा निरयपतनं वाऽवश्यंभावीति निश्चीयताम् । अयं हि राजसस्त्यागः । यथोक्तं * दुःखमित्येव यत्कर्म कायक्लेशभयात्त्यजेत् । स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् इति ।
षष्ठस्तु हेतुस्तदा शोभते, यद्यशक्तिरनाहार्या परमार्थभूता स्यात् । नह्यशक्तमधिकृत्य शास्त्राणि प्रवर्तन्ते । न च तत्त्वतोऽशक्तिः, अन्येभ्यश्शक्तेभ्योऽनुतिष्ठद्भयो विशेषादर्शनात् । स्वहृदयविसंवादाच्च । सन्ति च धर्मसाक्षिणोऽन्येऽपि * आदित्यचन्द्रावनिलोऽनलश्च द्यौर्भूमिरापो हृदयं यमश्च । अहश्च रात्रिश्च उभे च सन्ध्ये धर्मश्च जानाति नरस्य वृत्तम् । इति । विधुरत्वादिदशास्वपि सर्वसामान्यधर्मादेरनु वर्तनीयत्वं तच्चलने च प्रायश्चित्तं तदकरणे प्रत्यवायश्चेति ।
नापि सप्तमः, सामान्यनिर्देशमात्रेण तदसिद्धं विशेषतस्तदनिरूपणादिति न कदाचिदपि बुद्धिपूर्वपापानामलेपसंभव इति ।
ननु भवन्तोऽप्यन्त्यजपर्यन्तान्भगवद्भक्ता इति धावन्तस्समाचारविप्लवाय जायन्त इति समोऽयम्, अस्माकं पुनः को विशेष इति चेत्; मैवम्; किं त्वया मुक्तानां तेषां प्रतिष्ठार्चनादिरूपसंभावनमुपप्लवकारणतयोपन्यस्तम्, उतजीवतामेवावज्ञादि परिहारेणान्येभ्य उत्कर्षभावनमिति । न प्रथमः, तेषां भगवदुपासनप्रभावविशेषनिश्शेषिताविद्याकर्म वासनादेहसंबन्धादीनामाबिर्भूतभगवत्साम्यानां जातिविशेषसंबन्धाभावेऽपि भक्तप्रतिष्ठार्चनशास्त्रैः पुरुषान्तरव्यावर्तनाय पूर्वाकारमुपलक्षणीकृत्य तत्समाने बिम्बे सन्निधाप्य सभाजनविषयतया प्रतिपादितानां तत्तच्छास्त्रप्रामाण्यानुसारेण तत्तदुचितसभाजनं विधीयमानं कथं पुनरुपप्लवकारणमुन्नीतं भवता? मुक्तावनन्तगरुडविष्वक्सेनतुल्या * इमाँल्लोकानिति श्रुत्याभगवदनुसञ्चरणादिकं कुर्वन्तीति सिद्धम् । नापि द्वितीयः, अनेनैव शरीरेण विद्यमानेषूपप्लवपर्यन्त संभावनस्य तेष्वभावात् । तताविधेभ्योऽन्येभ्यस्तेषु भगवद्भक्त्या संजातमतिशयमाद्रियामहे, न पुनर्जात्यादिभेदमेव भवन्त इव स्वरूपतो निह्नामहे, येनाचारविप्लवस्स्यात् । न च जात्याद्यनुरूप संबन्धादिवर्जनाद्भगवद्भक्तेष्वपि तेष्ववज्ञादि प्रसङ्ग इति वाच्यम्; तत्कालोचितस्पर्शवर्जनेऽपि स्त्रीधर्मिण्यामात्मजनन्यामिव मानसिकवाचिकसंभावनासामर्थ्यवैभवेन पुराणेतिहासभगवद्वाक्य शतनिर्णोतेन शास्त्रानुसारिणामवज्ञाप्रसङ्गाभावात् । उक्तंच भगवता * मद्भक्तान् शूद्रसामान्यान्नावमन्येत बुद्धिमानिति । यथा, मतङ्गजतुरङ्गमविहङ्गमगोमृगादिषु पुरोहितामात्यसामन्तान्तः पुरकुब्जकिरातवामन बधिरादिषु च महीपतिसमाश्रयणमहनीयतां गतेषु विशेषादनवमन्तव्येषु तत्तज्जातिगुणानुगुणवैषम्यव्यवस्थितमेवानुपाल्यते तथा भगवत्समाश्रितेष्वपीति न कश्चिद्दोषः । राजाधिराजस्य भगवतो राजवदुपचार इति न्यायात् । आदिभक्तानामनन्तगरुडादीनामिच्छावतारभेदा इति पुराणप्रसिद्धम् । तेन तेषां प्रतिष्ठार्चनादिकं रामकृष्णादिभगवदवतारादीनामिवेति भक्तप्रतिष्ठाशास्त्रानुसारेण निर्णेतव्यमिति ।।
।।इति शतदूषण्याम् अलेपकमतभङ्गवादः पञ्चषष्टितमः ।।65।।