शतदूषणी
।।अथ सत्त्वासत्त्वविवेकवादः षष्टितमः ।।60।।
अस्ति नास्तीति बोधाभ्यामभिव्याप्तेषु वस्तुषु ।
सदेव सदसद्बुद्धिनिमित्तत्वेन साध्यते ।।
यदेव हि प्रामाणिकत्वेन सदिति प्रतीतिगोचरतां भजते, तदेव रूपान्तरेण नास्तीत्यपि प्रतिक्षेपं भजते ।
तत्रासत्त्वमेव तत्त्वमिति सौगतोपदेशिनः, सदा सत्तवमिति सांख्याः, सत्त्वासत्त्वसमुच्चय इति जैनाः, उभयप्रहाणमित्यद्वैतिनः, उपाधिभेदादुभयव्यवस्थेत्यपरे, तत्रैव नास्तीति व्यपदेशोऽपि भावान्तरनिमित्त इति निष्कर्षकाः ।
नन्वसत्त्वमेव सर्वत्र युक्तम्, असतोऽपि शुक्तिरजतखरविषाणादेः भ्रान्तिहेतुवैचित्र्यादस्तीति धीविषयत्वदृष्टेरिति चेन्न; बाधाभावात् । नास्तिधीरेव बाध इति चन्न; उपाधिभेदेन विरोधाभावात् । मध्येऽप्यसत् कार्यम् आद्यन्तयोरसत्त्वात्, खपुष्पवदिति चेन्न; धर्मिहेतुग्राहकाभ्यां विरोधात्; स्ववाग्व्याघाताच्च । अस्तिबुद्धेर्नास्तिबुद्धिरपच्छेदनयेन बलीयसी, प्रतिषेधस्य प्राप्तिसापेक्षतया परत्वात्, *पूर्वाबाधेन नोत्पत्तिरुत्तरस्य हि सिध्यतीति मीमांसकैरेवोच्यत इति चेन्न; दुष्टहेतुजन्यत्वाविशेषे बलाबलविभागायोगात् । हेतुवैचित्र्ये पौर्वापर्यानियमाच्च । परत्वमात्रेण निषेधे त्वन्मतं नास्तीत्युक्तिमात्रेण तद्विरुद्धानां सर्वेषां विजयप्रसङ्गात् । तदुपरि जल्पेऽप्यव्यवस्थितिप्रसङ्गात् ।
नन्वस्तु तर्हि सर्वस्य सदा सत्त्वम्, असद्धियः सत्त्वप्राप्तिसापेक्षत्वात्, प्राप्तस्य च निर्बाधत्वादिति चेन्न; उपाध्यन्तरेण बाधाबाधविवेकस्य वक्तुं शक्यत्वात् । अन्यथा घटादिषु असद्व्यवहारस्य निर्विषयत्वप्रसङ्गात् । अनभिव्यक्त्या सविषयत्वमिति चेन्न; अभिव्यक्तेरपि सदा सत्त्वेन तत्रापि नञर्थासिद्धेः । तत्कार्यत्वे तद्वत्सर्वत्र सत्कार्यवादविलयात् । अभिव्यक्त्यन्तरस्वीकारेऽनवस्थादिदोषात् । उक्तं च *अभिव्यक्तिरनादित्वे कारणानामनर्थता । तदागन्तुकतामिच्छन् किं नान्यत्रैवमिच्छति ।।इति । पूर्वोत्तरकालाद्युपाधिद्वयसंबन्धेन सत्त्वासत्त्ववर्णने संबन्धिन उभयानुवृत्तेः सदातनत्वम्, असतः शशश्रृङ्गादेर्देशकालभेदेन सत्त्वाभावाच्चेति चेन्न; स्वस्य स्वप्रतियोगिनश्चाधारतया पूर्वोत्तरकालसंबन्दव्यपदेशात्, नित्यसद्वस्तुनः क्वचिदपि कथञ्चिदभावात् । *आदावन्ते च यन्नास्ति नास्ति मध्येऽपि तत्तथेति चेन्न; शशश्रृङ्गादाविष्टत्वात्, घटादौ बाधात् । तत्प्रसङ्गेऽपि तत्तत्कार्योपाधिकाद्यन्तग्राहकैरेव व्याप्तिग्रहणनिरोधात् । तद्विपर्यये च हेत्वात्मनि बाधादेव । असतः कथं जन्म? सतो वा कथम्? अभिमानमात्रमिति चेत्; दूषणमप्युक्तमेव । प्रागसत्त्वं च जन्मोपकारीति न तत्र विरोधचोद्यावकाशः । प्रागसतः खपुष्पस्य कथमनुत्पत्तिः? प्राक् सतो वा प्रत्यगात्मनः कथं नित्यव्यक्तिरिति चेत्; खपुष्पे नित्यासत्त्वादेवेति निपुणं पश्य । नित्यविशेषणं प्रयुञ्जानेन च स्वीकृतमनित्यमिति स्ववाग्विरोधः । ननु प्रागसतः उत्पत्तिकालेऽपि कारणादुत्पत्तिर्न घटत इत्युक्तम्; *असत्त्वान्नास्ति संबन्धः कारकैः सत्त्वसङ्गिभिः । असंबद्धस्य चोत्पत्तिमिच्छतो न व्यवस्थितिः ।। इति चेत्; अत्रोत्तरं दत्तमाक्षपादैः *घटादिनिष्पत्तिदर्शनात् पीडनेचाभिचारादप्रतिषेध इति । अस्यान्यत्र विस्तरो द्रष्टव्यः । अतोऽसतो नित्यासत्त्वं सतश्च नित्यसत्त्वमिति सांख्यवादः सुहृद्भिर्द्रव्यविषये योज्यः ।
यत्पुनः सत्त्वासत्त्वसमुच्चय इत्युच्यते, तद्देशकालादिभेदेन चेद्वयमनुमन्यामहे । अन्यथा चेदत्यन्तविरोधान्नाद्रियामहे । तथा च दूषणभूषणादिव्यवस्थाविलयेन व्यवहार एव निष्फलः स्यात् । तेन परस्परविरुद्धोऽयं पक्षः ।
ये पुनरुभयप्रहाणवादिनस्तेषामेव पक्षं परिशोधयामः । परस्परविरुद्धोभयाङ्गीकारवत्तदुभयप्रहाणस्यापि विरोधकुक्षिनिक्षेपमेवोपलभामहे । न हि घटत्वाघटत्वसमुच्चयवत् घटाघटविलक्षणयोरपि समुच्चयः संभवति, विरोधस्याविशेषात् । उपलम्भ एव विरोधोपशमने प्रभवति, स तु घटत्वाघटत्वसमाहारवत्तदुभयवैलक्षण्येऽपि परिपन्थी । न हि घटाघटविलक्षणं किञ्चित्पश्यामः । घटविलक्षणस्याघटत्वात् अघटविलक्षणस्य च घटत्वात् । उभयविलक्षणं पुनर्न किञ्चिदुपलभामहे । उपाधिभेदादुभयव्यवस्थेति पक्षमदूरविप्रकर्षात्परिगृह्णीमहे ।
उपाधिभेदस्तु स्वात्मना सत्त्वमन्यात्मना पुनरसत्त्वम्, स्वकाले सत्त्वमन्यकाले पुनरसत्त्वम्, तथा स्वदेशे सत्त्वमन्यदेशे पुनरसत्त्वमिति । इह तादात्म्यं संसर्गो वा सत्त्वमिति व्यपदिश्यते, तद्विरुद्धवेषेण वस्तुन्येवासद्व्यपदेशः ।
षष्ठे तु पक्षे विरुद्धधर्मयोग एव वस्तुन्यसद्व्यवहारहेतुतया व्यपदिश्यते, घटो हि घटात्मना सन् पटात्मना पुनरसन्निति निर्दिश्यते । सन्नेव स्वदेशकालयोः स्वविरोधिदेशकालयोरसन्निति । उपलम्भानुकूलत्वाल्लाघवाच्चेदमेवाद्रियन्ते वृद्धाः इति ।।
।।इति शतदूषण्यां सत्त्वासत्त्वविवेकवादः षष्टितमः ।।60।।