शतदूषणी
।।अथ उपबृंहणवैघट्यवादः अष्टचत्वारिंशः ।।48।।
गुणविभूतिविशेषविचित्रितं निगमसीमनि यत्समधीमहे । स्मृतिपुराणशतैरुपबृंहितं तदिदमस्तु सदा हृदयेषु नः ।।
यदुच्यते-निर्विशेषचिन्मात्रब्रह्मात्मैक्यं त्रय्यन्तसिद्धं स्मृतिपुराणादीन्युपबृंहयन्तीति; तत्र तावत् तत्तत्प्रकरणादिपरामर्शेन भाष्यकारै तेषां यथावस्थितोऽर्थः प्रदर्शितः । सामान्यतः किंचिदुच्यते । यदा शब्दमात्रस्य निर्विशेषबोधनसामर्थ्यं नास्तीत्युपापीपदाम तदा कैव कथा तद्विशेषाणाम्? यदा च श्रुतिपरिषदशेषाऽपि विशिष्टविषयेति निरणैष्म, तदा कथं तदुपबृंहणानि तत्प्रतिपादकानि प्रतिपद्येमहि? यदा पुनः निर्विशेषपरा सेति पश्यसि, तदा तत्रोपबृंहणं नाम किं यथोक्तानुवादमात्रम्? उत तद्धक्तीकरणम्? अथानुक्तवस्त्वन्तरवर्णनम्? अन्यद्वा किंचित्? इति । न प्रथमः,अनुवादमात्रेषूपबृंहणत्वप्रसिद्ध्यभावात्; प्रयोजनाभावाच्च । ज्ञातस्थिरीकरणं प्रयोजनमिति चेन्न; श्रुतिप्रामाण्ये तदर्थे च यथावन्मीमांसिते तदनुवादमात्रेण तदतिरिक्तस्थिरीकरणासंभवात् । यदि तत्रानाश्वासः, तदा कैव कथा संभवद्भ्रमप्रमादादिदोषेषु पौरुषेयेषु वाक्येषु? नच साक्षात्सौगतमतमाश्रित्य संवादात्प्रामाण्यमनुमन्तुमर्हसि । नचैवमुपबंृहणान्तरसापेक्षम्, अनवस्थाप्रसङ्गात् । न च तन्निरपेक्षम्, श्रुतिवदेव तव तत्राप्यनाश्वासप्रसङ्गात् । परस्परसंवादादुभयत्राश्वास इति चेत्; मास्तु, असकृदनुसंहितैक श्रुतिवाक्यमात्रजन्मनि तत्प्रत्ययप्रवाहेऽपि तस्य कर्तुं शक्यत्वात्, अतिप्रसङ्गश्च तदेति ।
नापि द्वितीयः, निर्विशेषपक्षे तदयोगात् । तथा हि-यन्निर्विशेषं श्रुतं तच्छ्रुत्यैव व्यक्तम् । तदतिरिक्तप्रकाशने तु सविशेषत्वावश्यंभावादुपबृंहणोपबृंहणीयवैघट््यम् । मिथ्याभूतातिरिक्ताकारबोधनेऽपि कथं तत्त्वावेदकस्यातत्त्वावेदकमुपबृंहणं स्यात्? अथ श्रुतौ कस्यचिदप्रतिपन्नं कस्यचित्प्रतिपन्नं ब्रह्मस्वरूपमेवात्र व्यज्यत इति मन्यसे; तदपि न, श्रुतिं प्रत्यनङ्गत्वप्रसङ्गात् । तदाभिमुख्यजननात्तदङ्गत्वमिति चेत्; तत्फलसिद्धौ किं तदाभिमुख्येन? असिद्धौ वा कुतस्तत्?
नापि तृतीयः, अनुपबृंहणत्वप्रसङ्गादेव । अन्यथा परस्परभिन्नार्थानां वेदभागानामेव परस्परोपबृंहणत्वप्रसङ्गात् ।
नापि चतुर्थः, अत्यन्तभिन्नार्थत्वस्याभिन्नार्थत्वेऽप्यन्यूनानतिरिक्तविषयत्वस्यातिरिक्तविषयत्वेऽपि सत्यमिथ्यार्थत्वयोर्दूषितत्वात् न्यूनबोधनमवशिष्यते । नच तदाऽप्युपबृंहणता, उक्तांशस्य तुल्यतया नैरपेक्ष्यात् । अनुक्तांशेऽनुक्तेरेवोपबृंहणत्वगन्धाभावादिति । किंच, यच्चाधिकं श्रुतौ बोध्यते तत्सत्यत्वे सविशेषता, तन्मिथ्यात्वे श्रुतिरतत्त्वावेदिका, पुंवाक्यं तु न तथेत्यापन्नम् । नच माभू दुपबृंहणमिति वाच्यम्; शारीरकाधिकरणेषु तत्रतत्र स्मृतिसंवादोदाहरणादिविरोधात् । अन्यथा चेदनुग्राहकतर्कस्यापि प्रहाणप्रसङ्गात् । तत्प्रहाणो पुनः* आर्षं धर्मोपदेशमित्यादिमहर्षिवचनविरोधः । न चैवमस्मन्मते प्रसङ्गः, श्रुतिप्रतिपन्नस्यैव ब्रह्मणोऽनन्तगुणविभूतेरप्रतिपन्नानेकगुणविभूतिवैशिष्ट्यबोधनेन व्यक्तीकरणोपपत्तेः । न चाप्रतिपन्नस्यांशस्यावेदार्थत्वम्, (वि) प्रकीर्णानन्तशाखे महति वेदवृक्षे यत्र क्वचित्कोटरे तस्यापि लीनत्वात्, तस्य चाल्पभागश्राविभिरयोगिभिरधिगन्तुमशक्यत्वात्, तत्कृते च योगिभिरुपबृंहणप्रणयनोपपत्तेः । कति कति च दृश्यन्ते अधीयमानास्वपि शाखास्वप्रतिपन्नाः संशयिताश्च उपबृंहणाधीनाध्यवसायाः सारार्थाः? अन्यथा कथं वेदार्थे वादिनां मतभेदसमुत्थानम्? न चोपबृंहणानां मिथो विरोधान्निर्णयासिद्धिः; उपबृंहणीयविरोधाविरोधाभ्यां विशेषात् । अत एव हि शारीरकस्मृत्यधिकरणे कपिलादिस्मृतेर्निरासः । उपबृंहणीयाविरुद्धमन्वादिस्मृतिसन्निधौ तद्विरुद्धकपिलादिस्मृतेरप्रमाणत्वान्न तेरुपबृंहणं नाप्युपबृंहणीयबाध इति हि तत्रार्थः । तेन तामसराजसङ्कीर्णपुराणादिभिर्वेदोपबृंहणं पुराणविवेकपरिज्ञानशून्यानामविवेकितानिबन्धनमिति तन्नाद्रियामहे । उक्तं हि मात्स्ये * अग्नेश्शिवस्य माहात्म्यमित्यारभ्य, * सात्त्विकेष्वथ कल्पेषु माहात्म्यमधिकं हरेः । तेष्वेव योगसंसिद्धा गमिष्यन्ति परां गतिम् ।। इत्यन्तम् । तदेतत्सर्वमर्थतो निदर्शितं भाष्ये-* उपबृंहणं नाम विदितसकलवेदतदर्थानां स्वयोगमहिमसाक्षात्कृतवेदतत्त्वार्थानां वाक्यैः स्वावगतवेदवाक्यार्थव्यक्तीकरणम्, सकलशाखानुगतस्य वाक्यार्थस्याल्पभागश्रवणदुरवगमत्वेन तेन विना निश्चयायोगादुपबृंहणं हि कार्यमेवेति । एवं च सामान्यतो निर्विशेषतया उपबृंहणासंभवेऽनुपबृंहितेन वेदेनार्थनिश्चयायोगाद्वेदविप्लावक एव निर्विशेषवादः । स्मरन्ति च- * इतिहासपुराणाभ्यां वेदं समुपबृहंयेत् । बिभेत्यल्पश्रुताद्वेदो मामयं प्रतरिष्यति ।। इति ।।
।। इति शतदूषण्याम् उपबृंहणवैघट्यवादः अष्टचत्वारिंशः ।।48 ।।