[highlight_content]

शतदूषणी संविदनुत्पत्तिदूषणवादः(21)

शतदूषणी

।।अथ संविदनुत्पत्तिदूषणवादः एकविंशः ।। 21।।

विविधविषयाकृष्टैर्वागादिभिस्सुलभागसां स्वयमुपनतं स्वान्तर्घ्वान्तं चिरस्य निरस्य नः ।

भगवति हरौ प्रत्यक्तत्वान्तरात्मनि निर्भरप्रसृमरसुधाधाराकारा प्रसीदतु शेमुषी ।।

ये तु स्ववचनविरोधजालमप्यवधीरयन्तः सर्वसाक्षिकामपि संविदुत्पत्तिं प्रतिक्षिपन्ति, तान्प्रति ब्रूमः । किं घटादिविषयप्रकाशात्मिकाया एव संविद उत्पत्तिः प्रतिक्षिप्यते? उत सकलविषयविरक्तायाः कस्याश्चिदन्यस्याः? नाद्यः, घटादीनामप्यनुत्पत्तिमत्त्वप्रसंगात् । नहि तदुत्पत्तेः प्रागेव तद्विषया प्रत्यक्षसंविदस्मदादीनां सम्भवति । अन्यथाऽस्मदादीनामपि सर्वदा सर्वज्ञत्वप्रसङ्गात् । ननु पूर्वं स्वरूपेणावतिष्ठते, पश्चात्तु सामग्री वैचित्र्यात्तत्तद्घटादिविषया भविष्यतीति चेन्न; सत्यां संविदि सामग्र्या एवानपेक्षणात् । तत्तद्घटादिविषयीकरणलक्षणसम्बन्धार्थं तदपेक्षेति चेन्न; सामग्रीविशेष प्रतिनियतसंवित्स्वरूपातिरिक्तसम्बन्धकल्पने प्रमाणाभावात् । संवित्स्वरूपनित्यत्वे श्रुतिसिद्धे सामग्री वैयर्थ्यपरिहाराय तत्कल्पनमिति चेत्, स किं संविदि साध्य आकारः? उतानादिसिद्धं संवित्स्वरूपमेव? तत्र सधर्मकत्वसविकारत्वादिभीरुणा भवता प्रथमः पक्षो न कक्षीकार्यः . आरोपितधर्मविकारान्वयाददोष इति चेन्न; आरोपस्यैव विषयीकरणात्मकस्य निरूप्यमाणत्वात् । यदि हि विषयीकरणमप्यारोपितम्, तर्हि तद्विषयविषयीकरणान्तरापेक्षयाऽनवस्था । क्वचिद्वा विषयीकरणस्य सत्यत्वेन प्रागुक्तो दोषः । न च विषयीकरणमारोपितमप्यविषय इति वाच्यम्; व्याघातात् । नापि विषयीकरणान्तरमन्तरेण स्वरूपेणैव तत्प्रकाशत इति वाच्यम्, तत्रैव सामग्रीनैरपेक्ष्यप्रसंगेन सर्वदा संविदस्तद्विषयत्वे तत्सम्बन्धि घटादेरपि सर्वदा प्रकाशप्रसङ्गात् । किंच विश्वव्याप्तायामनादौ संविदि तत्तदधिष्ठानतया भासमानायां सम्बन्धार्थं सामग्रीगवेषणमिति भवतो न युज्यते; न ह्यसंविदध्यस्तो घटादिलक्षणः कश्चित्समस्ति भवताम्; न च घटादिः सामग्रयऽधीनसंबन्धलक्षणमात्रसिद्धसत्ताकः । अतो यावदुत्पत्तिविनाशं घटादिप्रकाशो दुर्वारः । प्रकाशत एव कस्मैचिदिति चेन्न; सर्वस्मैप्रसङ्गात् । एकस्यामेव हि संविदि विश्वारोपो भवताम् । अनन्तसंविदध्यासात्प्रकाशाप्रकाशोपपत्तिरिति चेन्न; घटादिविषयसंविदामध्यस्तत्वे संविदन्तरानुपलम्भे च शून्यवादप्रसंगात् । सत्यां संविदि नानात्वमात्रमध्यस्तमिति चेत्, तथा सति सर्वत्र सर्वविषयप्रकाशो दुर्वारः, सर्वेषु प्रतिमाचन्द्रेषु कलङ्कप्रकाशवत् ।

यस्तु दृग्दृश्ययोस्सम्बन्धानुपपत्त्या विश्वमपह्नोतुमीहते,स कथं तत्सम्बन्धार्थं प्रयतते? अतः संविदनुत्पत्तिवादिनामप्रकाशो वा यावत्सत्तं तत्प्रकाशो वा दुष्परिहरः ।

प्रागभावरहितायास्संविदः कथमुत्पत्तिरिति चेन्न; उक्तानुपपत्त्यैव तद्वत्त्वात् ।

ननु न तावत्संविदा स्वप्रागभावग्रहः, स्वप्रागभावस्थितौ संविदनुत्पत्त्या ग्राहकाभावात् । तदपक्रमे तु विषयाभावादेव तद्ग्रहणायोगात् । नापि संविदन्तरेण तद्ग्रहः, निष्प्रतियोगिकाभावग्रहणायोगात् । प्रतियोगिन्याश्च संविदस्स्वतस्सिद्धायास्संविदन्तरविषयत्वायोगादिति । नैवम्, स्वतः परतश्च तद्ग्रहोपपत्तेः ।

स्वतस्तावत् एतावन्तं कालं न किंचिदहमज्ञासिषमिति योऽयं प्रत्ययः, स हि सामान्यतः पूर्वकालवर्तिनं स्वात्माभावमपि गृह्णाति । न चातीतस्य प्रागभावस्य कथं विषयीकार इति वाच्यम्, अस्मदादिप्रत्यक्षज्ञान व्यतिरिक्तज्ञानेषु त्रिकालवर्तिनामपि ग्रहणात् । न चातीतस्यासतो ग्रहणादप्रमाणत्वम्, अतीतस्यापि स्वकाले सत्त्वात्, अन्यथा वर्तमानस्य पूर्वोत्तरकालासत्त्वेन तद्ग्राहिणोऽप्यसद्ग्राहित्वेना प्रमाणत्वप्रसङ्गात् । गृह्यमाणवैपरीत्याभाव एव हि प्रामाण्यम्, न पुनर्ग्राह्यस्यग्रहणसमकालत्वम् । अन्यथा भवन्मतेनार्निवचनीयरजतसमकालवर्तिन्या रजतभ्रान्तेः प्रामाण्यप्रसङ्गात् ।

संवित्प्रागभावग्राहकं किमिदं प्रमाणमिति चेत् यद्धवद्यभावग्राहकं तदेव । प्रत्यक्षानु प्रविष्टतया वा पृथक्प्रमाणात्मिकया वा योग्यानुपलब्ध्या घटाद्यभावग्रह इति चेत् । इहापि तथैव । अतिक्रान्तैवानुपलब्धिकाले कथमुपकुर्यादिति चेन्न; स्मृत्यभावकल्पितया प्राचीनयैव तया तत्सिद्धेः, प्रातर्गजाभावादिविज्ञानवत् । तद्वदत्रापि प्रमाणसंज्ञाविशेषो यथारुचि प्रक्षिप्यताम् । न च संस्कारविलयात् स्मृत्यभावः; प्रबलतरसुखदुःखकालदैर्ध्यादिसंस्कारतिरस्कारकाभावे तदयोगात् । न च सुषुप्त्यादय एव संस्कारोच्छेदकाः, तथा सति पूर्वदिनाद्यनुभूतस्यास्मरणप्रसङ्गात् । तथा च सुप्तोत्थितः शत्रुमपि मित्रतया प्रतिपद्येत, पु(त्र)त्रीमपि, कलत्रतया, श्रोत्रमपि नेत्रतयेति विश्वविप्लवः । न च विषयप्रकाश विरहादहंभाव विगमाद्वा संस्कारानुत्पत्त्या तदस्मृतिः, अर्थान्तरा प्रकाशासद्भावयोः प्रकाशमानसंस्कारोत्पत्ति प्रतिबन्धकत्वेऽतिप्रसङ्गात् ।

न चाविशदप्रकाशरूपत्वादस्मृतिः, सर्वदा संविदंशस्यास्मरणप्रसंङ्गात् । न हि संविदंशे वैशद्यं तवास्ति, नित्यमेव निर्धर्मकत्वात् । विषयाश्रयोल्लेखाद्वैशद्ये तत्समृतिरिति चेत्, तदपि न; वैशद्यमन्तरेणाप्यन्धकाराद्यनुभूतवस्तुमात्रादिषु स्मृतिदर्शनात् । तदेवं स्वतस्तत्प्रागभावग्रह उपपादितः । परतोऽपि तत्प्रागभावग्रहः संविदो वेद्यत्वसमर्थनादेव सिद्धः । अन्यथा त्वद्वाक्यजन्यापि संवित्तत्प्रागभावस्य दुर्ग्रहत्वं न साधयेत्, संवित्प्रागभावदुर्ग्रहत्वग्रहणे संविद्ग्रहणावश्यंभावात् । स्वप्रकाशस्वरूपमेव प्रतियोगित्वेनोपजीव्य तत्प्रागभावदुर्ग्रहत्वं साध्यत इति चेत्, एवं तर्हि तत्प्रागभावग्रहेऽपि तदेवोपजीव्यताम् ।

किंच, प्रतिवादिनः शिष्याणां च त्वत्सिद्धान्तार्थज्ञानमनुत्पन्नं मत्वैव त्वया वाक्यं प्रयुज्यते, स्वयमपि कदाचिद्गुरूपदिष्टं प्रतिवादिनिर्दिष्टंवाऽर्थमजानानो न जानामीत्येव भाषसे, जिज्ञाससे चः; एवं मूर्खपण्डितविभागोऽपि लोके बहुलमुपलभ्यते । तदेतदखिलं ज्ञानप्रागभावग्रहाभावे कथं घटेत? ज्ञानादिविधिशास्त्रं च कथं जीवेत्?

तदेवं स्वस्मिन्वर्तमानस्य भविष्यत्संवित्प्रागभावस्य ग्रहणं योग्यानुपलब्ध्या जायते, अतीतस्य तु स्मरणानुमानादिना । परगतस्याप्यनुमानादिनैव । अतः स्वतः परतोऽपि सिद्धः संविदः प्रागभावः ।

ननु भवद्भिरपि धर्मभूतज्ञानस्यापि स्वरूपनित्यत्वमभ्युपेतम्, ततश्च तत्प्रागभावतदुत्पत्तयादि समर्थनेऽपसिद्धान्त इति चेन्न; अस्माकं धर्मभूतज्ञानस्य सधर्मकत्वादवस्थाविशेषवत्त्वात्तत्तदर्थं सामग्रीसमागमोपपत्तेः । तत्तत्प्रकाशात्मकावस्थाविशेषेषु च प्रागभावोत्पत्त्यादिबुद्धेरुपलम्भ विरोधाद्यभावात्, अपसिद्धान्ततानवताराच्च । अनुभूतेरवस्थान्तरापत्तिरेव न सम्भवति, अजत्वादेवेति चेन्न; स्वरूपानुत्पत्तिमात्रस्य भवदभिमताविद्यया अस्मदभिमतप्रकृत्यादिभिश्च व्यभिचारात् । समस्तव्यतिरिक्तत्वे सतीति तर्ककौशलम्, अन्ततोऽप्रयोजकत्वं च । अवस्थान्तरापत्तिराहित्यस्य हेतुत्वेसाध्याविशेषात्, मिथ्याभूतावस्थान्तरनिषेधेऽपसिद्धान्तात्, सत्यावस्थानिषेधे च व्यतिरेकव्याप्तेर्भग्नत्वात् । यत्सत्यावस्थाविशिष्टं तज्जायते, यथाघट इति हि सा । न च घटादेः सत्यावस्थाविशिष्टत्वं त्वयाऽभ्युपगम्यते ।

एतेनानुभूतेर्विनाशनिषेधोऽपि प्रत्युक्तः, प्रागुक्तप्रकारेण प्रत्यक्षादिबाधाच्च । यदि घटाद्यनुभूतिर्न विनश्येत्, तर्हि सुषुप्त्याद्यनुपपत्तिः, भवत्पक्षे मोक्षानुपपत्तिश्च । विद्यामानायां तस्यां विषयोल्लेखविलक्षणावस्था विशेषस्य प्राग्वदेव दुष्प्रतिपादत्वात् । प्रध्वंसेऽपि ग्राहकभावचोद्यं प्राग्वदेव परिहर्तव्यम् । न च स्वरूपनित्यत्वे प्रघ्वंसानुपपत्तिः, घटादिष्वपि सत्कार्यवादिभिस्तथैव प्रध्वंसस्य निर्वहणीयत्वात् । उक्तं च भाष्ये – “तमिममिन्द्रियद्वारकज्ञानप्रसरमपेक्ष्योदयास्तमयव्यपदेश ”(श्री भाष्यं, जिज्ञा) इति ।

नापि द्वितीयः,अहमर्थविलक्षणाया निर्विषयायास्संविदोऽनुपलम्भनिरस्तत्वात् । मुक्तौ निर्विषयत्वस्यान्यत्र प्रतिक्षेपात् । स्वापमदमूर्च्छासु निर्विषयसंविदुपलम्भोऽस्तीति वाङ्मात्ररूपत्वात् । अहमर्थस्य तु स्वरूप मात्रप्रकाशात्मकस्य विषयान्तरविरहेऽपि घटादिविषयग्राहिसंविद्विलक्षणतया तदाश्रयतया च प्रतिपन्नस्य भवता संविद्विलक्षणतयाऽहङ्कारग्रन्थित्वाभ्युपगमात्; पक्षान्तरे तु तद्वदेव तद्धर्मभूतसंविदोऽपि सर्वदा निर्विषयत्वसाधनस्योपलम्भनिरस्तत्वात् । सुषुप्तौ तु निर्विषयायास्तस्याः प्रकाशादर्शनात् । स्वमात्रप्रकाशस्याप्यहमर्थस्वरूपस्यास्माभिःप्रत्यक्त्वानन्दत्वादिविशेषवत्तयैव स्वतः प्रकाशत्वाभ्युपगमेन क्वचिदपि निर्विशेषप्रकाशानभ्युपगमात् । यद्यप्यस्मत्पक्षे सुषुप्त्यादिषु धर्मभूता संविन्निर्विषया, तथाऽपि साश्रयत्वादिभिस्तदानीमपि न निर्धर्मकत्वम् । विषयरहितायास्तु तस्यास्तदानीं न प्रकाशमिच्छामः, येन प्रतिसन्धानप्रसङ्गचोद्यान्न मुच्येमहि । उक्तं हि भाष्ये – यत्त्वनुभूतेस्स्वयंप्रकाशत्वमुक्तम्, तद्विषयप्रकाशनवेलायां ज्ञातुरात्मनस्तथैवे”(श्री भाष्यं,जिज्ञा) त्यादि ।

यच्चानुमानम् – “अनुभूतिरनुत्पन्ना, अनुभूतित्वादि”त्यादिकम्, तदप्युपपादितप्रत्यक्षादिसमस्तप्रमाणबाधितम्, प्रागुक्तप्रतिकूलर्तकजालप्रतिहंत च । केवलव्यतिरेकिभङ्गश्चान्यत्र कृतः । घटादिविषयोल्लेखरहित स्वरूपमात्रपक्षीकारे चाश्रयासिद्धिर्वा सिद्धसाधनं वेत्यादिदूषणमूह्यम् ।।

।।इति श्री कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु शतदूषण्यां संविदनुत्पत्तिदूषणवादः एकविंशः ।। 21 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.