शतदूषणी
अथ तिरोधानानुपपत्तिवादः पञ्चत्रिंशः ।
यन्मायामोहितात्मनो यान्मायामोहितं विदुः । तत्प्रपद्य तदुक्तोयं तिरोधिरवधूयते ।।
यदाहुर्ब्रह्मधातिनो ब्रह्मविदो ब्रह्मस्वरूपमविद्यातिरोहितमिति । तत्र किमिदन्तिरोधानम्? किमिन्द्रियसम्बन्धनिवारणम्, किमैन्द्रियकज्ञानस्य तद्विषत्तानिवर्तनम्, यद्वा सर्वेषामपि ज्ञानानां तद्विषयतापाकरणम्, अथवा स्वस्य स्वकर्मताव्यपोहः, स्वप्रकाशभङ्ग एव वा, विशदस्वरूपस्याप्यविशदस्वरूपत्वापादनं वा, ब्रह्मप्रकाश सामग्र्यनुप्रविष्टस्वभावनिरासो वा, अनिरूपणीयस्वरूपमन्यदेव वा किञ्चिदिति ।
नाद्यः, अशक्यत्वात् । तथाहि – सम्बन्धशब्देन किं सामान्यतस्सम्बन्धमात्रं विवक्षितम्, तद्विशेषो वा? आद्येत्विन्द्रियाणां ब्रह्मणश्चारोपणीयत्वारोपणाधि करणत्वादिसम्बन्धोपि न स्यात् । तथाच सति तेषामेवासिद्धौ किन्तत्सम्बन्धनिवारणापेक्षया । तदसिद्धिरपि नास्माकं दोषायेति चेन्न; – अवगति (शेष) क्रमाधीनसिद्धिभङ्गस्य भवद्भिरनभ्युपगमात्; अन्यथा व्यावहारिकप्रत्यक्षतन्मूलानुमानादि व्यवहारव्यवस्थापि न सिद्ध्येत् । इन्द्रियोत्पत्तिवादिन्यः श्रुतयश्च प्रकुष्येषुः । द्वितीयेतु किं सर्व विशेषनिषेधः, कतिपयविशेषनिषेधो वाभिमतः? पूर्वन्तु पूर्वेणैव दत्तोत्तरम्, निर्विशेषं न सामान्यमिति हि न्यायविदः । उत्तरत्रापि स विशेषः किं ज्ञानोत्पत्त्यनुपयुक्तः संयोगादिमात्रलक्षणः, उततदानुगुण्यविशेषित इति । अनुपयुक्तत्वपक्षे तिरोधानशब्दानुपपत्तिः, सर्वव्यापिनि ब्रह्मणि सर्वाधिष्ठाने सोपि सम्बन्धो दुर्निवारश्च । पक्षान्तरेतु तदानुगुण्यं किं सर्वत्रापि निवर्तनीयम्, ब्रह्ममात्रे वा? सर्वत्र चेत्?प्रत्यक्षद्यनुपपत्तिरेव । ब्रह्ममात्रे चेत्? किमिदं तिरोधानं कदाचिन्निवर्तनीयम्, उतानिवर्तनीयम्? निवर्तनीयत्वे ब्रह्मण ऐन्द्रियकत्व प्रसङ्गेन “”अद्रेश्यमग्राह्य” मित्यादिश्रुतिविरोधः । दृश्यत्वप्रयुक्त मिथ्यात्वजडत्वादि प्रसङ्गः । शास्त्रस्य च ब्रह्मविषयस्यानुवादरूपता च । अनिवर्तनीयत्वे तु नित्यतिरोधानान्नित्याध्यासः, तस्य तदधीनत्वाभ्युपगमात् । एवञ्च सन्मात्रग्राहिप्रत्यक्षवादोपि प्रतिक्षिप्तस्स्यात् ।
तत एव न द्वितीयोपि । किञ्च किमिदमैन्द्रियकत्वेन सम्प्रतिपन्नं ज्ञानं साधिष्ठानं जगद्गृह्माति, उत निरधिष्ठानम्? आद्ये त्वारोपितवत् अधिष्ठानस्यापि शुक्तिरजतादिष्विदमर्थस्येव तत्प्रतीतिविषयत्वाविशेषात् कथमिवतन्निवर्तनीयम् । द्वितीये त्वपसिद्धान्तो निरधिष्ठानभ्रमापातश्च । नच ब्रह्मव्यतिरिक्तं किमप्यधिष्ठानं ब्रूषे ।
अत एव न तृतीयोपि; उक्तेन न्यायेन सर्वेषामपि ज्ञानानां तद्विषयत्वात् । अन्यथा कथं ब्रह्मविषयाजडत्वस्वयम्प्रकाशत्व सत्यत्वविचारसङ्कथाः प्रवर्तेरन् ।
नापि चतुर्थः, भवतैव तदनभ्युपगमात् । अन्यथा ब्रह्मण एवसाक्षाद्दृश्यत्वप्रसङ्गात् । अतिरोहितदशायां विषयत्वविषयित्वलक्षण स्वभाववैशिष्ट्येन भेदसत्यत्वप्रसङ्गाच्च ।
नापि पञ्चमः, स्वप्रकाशशब्देन किं स्वगोचरं प्रकाशान्तरं विवक्षितम्, स्वरूपमेव वा? नाद्यः, दत्तोत्तरत्वात् । द्वितीये तु स्वप्रकाशभङ्ग इति किं सिद्धस्य प्रकाशस्य विनाशो विवक्षितः, उत सेत्स्यत उत्पत्तिप्रतिबन्धः?पूर्वत्र नश्वरत्वं ब्रह्मणः प्रसज्यते; ततश्च श्रुतिविरोधः, निरधिष्ठानभ्रमप्रसङ्गादयश्च पूर्वोक्ताः पार्ष्णिं गृह्णीयुः । उत्तरत्र ब्रह्मानादित्वभङ्गः । एवंच ब्रह्मस्वरूपघातिन्यविद्या स्वयमस्ती किमाश्रया तिष्ठेत् । तस्यास्तदन्तरेणापि सिद्धौ सत्यत्वप्रसङ्गः ।
नच षष्ठः, प्रत्यक्षैकस्वरूपे स्वात्मनि पारोक्ष्य लक्षणावैशद्यापादनायोगात् । अन्यथा स्वात्मभङ्गप्रसङ्गात् । निर्विकारे निर्विशेषे वस्तुनि विषयातिरेकलक्षणवैशद्यस्यापि दुर्निरूपत्वात् । वेदान्तजन्यवृत्तिविशेषविषयत्वमेव वैशद्यमिति चेन्न; – प्रकाशयातिरेका भावे धारावाहिवदनुपकारकत्वात् । प्रकाशयातिरे सविशेषत्वस्यावर्जनीयत्वात् ।
नापि सप्तमः, स्वरूपभूतप्रकाशस्यासाध्यत्वेन सामग्रीनैरपेक्ष्यात्; तद्गतस्यातद्गतस्य वा प्रकाशान्तरस्य तद्विषयस्यानभ्युपगमात् । अभ्युपगमे वा सधर्मकत्व – दृश्त्वादेर्दुर्निवारत्वत् । तन्मिथ्यात्वे तदर्थसामग्रीनैष्फल्यं स्यात् । भ्रान्तिज्ञानोत्पत्तिसामग्रीविच्छेदस्य च दोषत्वाप्रसिद्धेः । प्रतिबन्धकाभावस्य हेतुत्वमनभ्युपगच्छतां सप्तमस्य पक्षस्य दुर्घटत्वाच्च ।
अष्टमस्तु कष्टः पक्षोविकल्प्यते । किन्तदधिष्ठानभूतं ब्रह्म प्रकाशप्रतिपक्षभूतम्, उत तदनुगुणम्, अथोदासीनमिति? आद्ये पूर्वोक्ता एव दोषाः । द्वितीये असाध्यस्य किं तदानुगुण्येन । साध्यत्वे च प्रागुक्ता दोषाः । प्रकाशानुगुणे च कथन्तिरोधानवाचोयुक्तिः । प्रकाशमानेच कथमध्यासः । प्रकाशमान एवाधिष्ठाने सर्वत्राध्यास इतिचेत्? तर्हि किन्तिरोधान प्रयासेन । यथावत्प्रकाशमानेध्यासायोगादिति चेन्न; – निर्विशेषस्य स्वप्रकाशस्याविद्याशचेनाप्ययथास्वरूपप्रकाशत्वापादनायोगात् । तद्योगे वा निर्विशेषत्वादिभङ्गप्रसङ्गात् । तृतीयेप्यजागळस्तनवदनुपकारकत्व मेव ।
ननु भवत्पक्षेपि जीवब्रह्मणोः स्वरूपं स्वयम्प्रकाशम्, तदुभयमपि कर्मरूपयाविद्यया तन्मूलगुणत्रयमयपापरूपया मायया तिरोहितमिति निर्विगानमेव; अन्यथा संसारात्यन्ताभावप्रसङ्गात्; ततश्च भवतोपि समानं चोद्यमिति समदुःखसुखौ भवावेति चेन्नः; – भवत एव दुःखसम्बन्धः, अस्माकन्तु सुखमेवेति पश्यतु भवान् । ब्रह्मणस्तावत् स्वरूपं स्वयम्प्रकाशमपि नान्यस्मै प्रकाशते, तद्धर्मेण तु तस्य प्रकाशते, सर्वेषामात्मनां स्वरूपमपि स्वस्मा एव स्वप्रकाशत्वात् अन्यस्मै तदीयज्ञानान्तरकर्मतयैवावभासते; ततश्च तद्गोचरज्ञानप्रसरोत्पत्तिप्रतिबन्धादिलक्षणं तिरोधानमुपपन्नमेव । स्वस्मै तु नित्यं प्रकाशमानत्वान्नित्यसर्वज्ञत्वाच्च ब्रह्मणो न स्वरूपहानाज्ञत्वादिदोषलेशावकाशः । जीवस्य तु स्वरूपं यद्यपि स्वस्मै स्वयं प्रकाशते, यद्यपि च तत्रैव दोवाद्यध्यासः, तथापि न भवत्पक्षवद्दोषः; प्रकाशमानाकारस्याधिष्ठानत्वोपाधिकत्वात्ः, तथापि न भवत्पक्षवद्दोषः; प्रकाशमानाकारस्याधिष्ठानत्वो पाधिकत्वात्, तदारोपप्रतिबन्धकस्य तत्तद्विरोधर्मप्रकाशस्य विनिवारणेन तिरोधानोपपत्तेश्च । देवादि विलक्षणस्वरूपप्रकाशे कथन्तेध्यास इति चेन्न; – वस्तुतो विलक्षणत्वेपि विलक्षणवित्त्यभानात् । शुक्तिरजताख्याताबिदम्भानवत् । इदमर्थो हि वस्तुतोरजतात् विलक्षणोपि न तथा भाति, तद्वैलक्षण्य व्यवस्थापकस्य शुक्तित्वादेरप्रतीतेः । तथेहापि सावयवत्वस्थूलत्वा नित्यत्वविकारित्वजडत्वादि धर्मविशिष्टेदेहाद्वैधर्म्यरूपनिरवयवत्वागुणत्व नित्यत्वनिर्विकारत्वस्वप्रकाशत्वादीनां स्वरूपप्रकाशे प्रकाशाभावात्तद्विपरीताकारारोपः स्वरूपमात्रेच प्रकाशमाने युक्त एव । ममाप्येवमस्त्विति चेन्न; – भवत्पक्षे तत्तद्धर्माणामभावात् । तदभावस्तदप्रकाशस्योपकारक एवेति चेत्? तथासति नित्यतिरोधानान्नित्याध्यास प्रसङ्गः । नहि तत्तत्प्रकाशलक्षणा तिरोधानानिवृत्तिः कदाचिदप्युपपद्यते । ब्रह्मण्यसतान्तेषां तत्वज्ञानोदयदशायां प्रकाशे तत्वज्ञानस्यैवातत्वज्ञानत्वप्रसङ्गेन पुनरप्यनिर्मोक्षप्रसङ्गात् । ब्रह्म स्वरूपमेव तथा तथा भातीति न दोष इति चेत्? किन्तथात्वं स्वरूपम्, उत स्वरूपातिरिक्तम्? पूर्वत्रेदानीमपि तत्प्रकाशोदुर्वारः । उत्तरत्र तु तदानीन्तनभ्रान्तिर्दुर्वारेति दुस्तरं व्यसनम् । ततो यदि निर्धर्मकमपि जडत्वेनाभ्युपेतम्, तदा तत्स्वरूपाप्रकाशलक्षणं तिरोधानमपि वक्तुं शक्यते, यद्वा स्वयम्प्रकाशमपि सधर्मकत्वेनाभ्युपेतम्, तदा तद्धर्माप्रकाशलक्षणं तिरोधानं सुवचमिति न कथञ्चिदपि निर्विशेषनित्यस्वयम्प्रकाशे स्वस्य परस्य वा ज्ञानान्तरागोचरे वस्तुनि तिरोधानवाचोयुक्तिर्घटत इति ।
इति शतदूषण्यां तिरोधानानुपपत्तिवादः पञ्चत्रिंशः । (35)