शतदूषणी ।।
अथ सन्मात्रग्राहिप्रत्यक्षभङ्गवादः द्वादशः ।।12।।
यस्य सत्त्वेन विश्वस्य सत्ता सदसदात्मनः ।
प्रत्यक्षाद्यपरिच्छेद्यं तत्सदैकमुपास्महे ।।
यत्तु प्रत्यक्षादिविरुद्धं शास्त्रार्थमुपपाद्य पुनस्सानुशयैरुक्तम् – प्रत्यक्षादिविरोधे सत्येव हि शास्त्रस्यबलीयस्त्वं वक्तव्यम् । विरोधमेव न पश्यामः; प्रत्युतैकरस्यम्; प्रत्यक्षस्यापि शास्त्रस्येव निर्विशेषसन्मात्र ग्राहित्वात् । ननु यदि सन्मात्रं प्रत्यक्षेण गृह्यते, तदा घटोऽस्ति पटोऽस्ति इत्यादिनानाकारवस्तु विषयोपलम्भव्यवहारयोर्विरोधः । न हि सत्सदित्येव प्रतीतिव्यवहाराविति चेत् – मैवम्; यथा इदं रजतमित्यादि रूपेषु शुक्तिरजतादिभ्रमेष्विदमंशस्याबाधितस्य सर्वत्र प्रत्यक्षेण ग्रहणं रजताद्यंशस्य त्वारोपितस्यैव भ्रान्त्यैवेति विविच्यते, तद्वदत्रापि सर्वत्र सन्मात्रप्रकाशव्यवहारयोः प्रत्यक्षोपज्ञत्वम्, घटपटादिभेद विषययोस्तु तयोर्भ्रमोपज्ञत्वमिति विविञ्चामः; तथा हि घटोऽ:स्तीत्यादावस्तित्वं तद्भेदश्च प्रकाशते; व्यवह्रियते च । तत्र विधिव्यवच्छेदयोर्भावाभावात्मनोरैक््यायोगात् भेदस्तावदङ्गीकार्यः । ततश्च स्वरूपभेदयोः सद्घटयोः किं द्वयोरपि ग्राहकं प्रत्यक्षम्, उत अन्यतरग्राहि इति विचारणीयम् । पूर्वत्रापि किं युगपद्ग्राहकम्, उत क्रमेणेति । न प्रथमः; स्वरूपग्रहणस्य निरपेक्षतया झटित्युत्पत्तेः भेदग्रहणस्य त्वाश्रय – प्रतियोगिग्रहणसापेक्षस्य जघन्यत्वाच्च यौगपद्यासंभवात् । न द्वितीयः; क्षणिकस्य ज्ञानस्य निरपेक्षं स्वरूपमवलम्ब्यास्तमितस्य भेदग्रहणाय क्षणान्तरस्थितेरशक्यत्वात् । अन्यतरग्राहित्वपक्षेऽपि न भेदमात्रग्राहित्वम्, निराश्रयभेदग्रहासंभवात् । ततःपरिशेषात् स्वरूपमात्रग्राहिप्रत्यक्षमिति सद्ध्यति ।
एवं प्रत्यक्षस्य भेदग्राहित्वासंभवे तन्मूलानां प्रमाणान्तराणामपि न वस्तुतो भेदसमर्थनसामर्थ्यमिति कुतस्तत्सिद्धिः? सिद्ध्यन्नपि च भेदः इतरव्यवच्छेदरूपतया स्वयभावात्मतया षष्ठप्रमाणवेद्य इत्यतोऽपि न तस्य प्रत्यक्षग्राह्यता । एवं प्रत्यक्षे प्रथमाक्षसन्निपातक्षणभाविनि स्वरूपमात्रमवलम्ब्य विलीनेऽपि,अविद्यावशात् तदनन्तरभाविनि विकल्पेऽपि सन्निकर्षात् प्रत्यक्षाभिमानमात्रं जायते, न तु साक्षात्प्रत्यक्षतेति भ्रान्तिमूल एव भेदव्यवहार इति ।। अत्र ब्रूमः – “भेदापह्नवलोभेन भेदं विधिनिषेधयोः । स्वयं समर्थयन् मूर्खः स्ववाग्वज्ज्रेण खण्डितः ” ।।
यदुक्तं स्वरूपभेदयोर्युगपत् क्रमेण वा ग्रहणमिति, तत्र योग्येषु भेदेषु युगपदेवेति ब्रूमः । तदाह – “एकक्षणवर्तित्वेऽपि प्रत्यक्षज्ञानस्य तस्मिन्नेव क्षणे वस्तुभेदरूपतत्संस्थानगोत्वादेर्गृहीतत्वात् क्षणान्तरग्राह्यं न किंचिदिह तिष्ठति” इति । स्वरूपवज्जातिगुणादेरपि तत्तदिन्द्रिययोग्यत्वाविशेषात् एकसामग्रीवेद्यत्वं निर्विकल्पकनिरूपणे प्रदर्शितम् । न च जात्याद्यतिरिक्तं भेदमिच्छामः । त्वमपि हि घटोऽस्तीत्यादिषु घटत्वादिकमेवात्र भेदतयोदाहरसि । घटत्वादेश्च स्वरूपेण गृह्यमाणस्य न प्रतियोगिज्ञानापेक्षा । आश्रयप्रकाशापेक्षायामपि सहोपलम्भादेव नैराकाङ्क्ष्यं समर्थितम् । प्रतियोगिनिरपेक्षस्य कथं भेदत्वमिति चेत् ? यदि तस्य भेदत्वं नास्तीति मन्यसे तर्हि तत एव आश्रयस्येव तद्गतघटत्वादेरपि ग्रहणे न कश्चिद्दोषः । तदाऽपि न सन्मात्रग्राहकत्वसिद्धिः । सौहार्देन तु वदमः; “जात्यादीनामेव स्वरूपेण गृह्यमाणानां न प्रतियोग्यपेक्षा, तेषामेव तु भेदत्वाख्येन स्वधर्मेण गृह्यमाणानांकदाचित्प्रतियोग्यपेक्षा” इति सर्वेषां स्वप्रतीतिसाक्षिकमेतत्। भेदत्वं चानन्तरमेव भेदनिरूपणे (वादः 13)शिक्षयिष्यामः । बाधाभावे च (वादाः 13 – 15 – 16) सेत्स्यति, शुक्तिकारजतादिबद्बाध्याबाध्यांश निष्ठावार्ताऽपि निरस्ता ।
यच्चोक्तम् – प्रत्यक्षस्य भेदग्राहित्वाभावात् तन्मूलानामन्येषामपि प्रमाणानां न भेदसमर्थनसामर्थ्यमिति, तत्र किं तेषां कस्यचिदप्यग्राहकत्वं विवक्षितम्, उत अभेदग्राहित्वम्, यद्वा भेदग्राहित्वेऽपि तत्र प्रामाण्यं नास्तीति? नाऽऽद्यद्वितीयौ; प्रतीतिबाधापसिद्धान्तादिदोषप्रसङ्गात् । न तृतीयः; भेदबाधकानां निरसिष्यमाणत्वात् । यदि च प्रत्यक्षचर्वितचर्वणेन तदर्थे अप्रामाण्यमनुमानादेः, तदाऽतीन्द्रियस्य कस्यचिदपि कुतश्चित्सिद्धिर्न स्यात् ।
यदि च स्वविषयभेदे अनुमानादीनां प्रामाण्यं नाङ्गीकृतम्, कुत्र तर्हि तेषां तत्स्यात् । न कुत्रचिदिति चेत्, तर्हि प्रत्यक्षैकप्रमाणवादी चार्वाकः प्रत्यक्षाप्राप्तविषयप्रामाणान्तरप्रदर्शनेन किं त्वया प्रतिक्षिप्यते । धर्माधर्म परतत्त्वादिगोचरवेदप्रामाण्यप्रत्याशयेति चेत्, चार्वाकवदेव वस्तुतस्तत्र तत्प्रामाण्यमनिच्छतस्ते किमनया स्वैराचारसुखोपरोधिन्या दुराशया । प्रत्यक्षस्य भेदग्राहित्वाभावे लिङ्गलिङ्ग्यादिभेदो विकल्पसिद्ध इति तन्मूलानामनुमानादीनामप्रामाण्यमिति चेत्, तर्ह्यनुमानादिकं प्रमाणमेव न भवतीति चार्वाकवत् ब्रूहि, न पुनर्भेदे न प्रमाणमिति । किंच प्रत्यक्षमूलस्यापि शास्त्रस्य प्रत्यक्षविरुद्धार्थेऽपि प्रामाण्यं संभवतीति मन्यमानस्य तवानुमानादेरपि तथात्वे को विरोधः?
यच्च – अभावरूपस्य भेदस्याभावप्रमाणवेद्यत्वान्न प्रत्यक्षवेद्यत्वं संभवतीति – तत् अभावाख्यं प्रमाणान्तरं प्रमेयान्तरं चानभ्युपगच्छतां गोष्ठीषु नावतिष्ठते । भवतु वा षष्ठं प्रमाणम्, तथाऽपि तत्रैव भेदग्राहकतयाऽभ्युपगते क्रमयौगपद्यविकल्पानुपपत्तिस्तदवस्था । प्रत्यक्षेणाधिकरणग्रहणे संस्कारोन्मेषाच्च प्रतियोगिस्मरणे सति क्षणिकेनाप्यभावजन्यज्ञानेन भेदग्रहणमुपपद्यत इति चेत्, हन्त! तहिर्पूर्वप्रत्यक्षेणाधिकरणग्रहणे तथैव प्रतियोगिस्मरणे च सति क्षणिकेनापि प्रत्यक्षान्तरेण भेदग्रहणे काऽनुपपत्तिः? पूर्वोत्तरप्रत्यक्षयोः परस्परवार्तानभिज्ञतया वैशिष्ट्यं न सिद्ध्येदिति चेत्, हन्त! किंप्रत्यक्षस्याभावप्रमाणस्य च परस्परवार्ताभिज्ञता शिक्षिता भवता? येन तत्र वैशिष्ट्यं बोद्धव्यमिति मन्यसे । प्रथमोदितप्रत्यक्षसंस्कारात् विशिष्टज्ञानोदयस्तत्रेति चेत्, किं प्रत्यक्षान्तरे तथा निर्वाहो राजशासनवारितः । अत एव प्रत्यक्षाभासेन विकल्पेन भेदग्रहणमित्येतदपि दत्तोतरम् ।
एवं प्रत्यक्षस्य भेदग्राहित्वासंभवे तुल्यन्यायतया षष्ठप्रमाणस्य प्रत्यक्षाभासस्य च भेदग्राहित्वा संभवं सिद्धं कृत्वा, “अपिचे”त्यादिना प्रतीतिविरोधादिकमुदाजहार भाष्यकारः । तत् व्याकुर्मः यदि सन्मात्रं प्रत्यक्षग्राह्यम्, न भेदः तदा तुल्यन्यायतया षष्ठप्रमाण – प्रत्यक्षाभासादेरपि भेदग्राहित्वासंभवात् घटोऽस्ति पटोऽस्तीति विशिष्टविषयाप्रतीतिर्विरुध्येत; अश्वार्थिनश्च महिषदर्शने निवृत्तिर्न स्यात्; भेदग्रहणासंभवस्य त्वयोक्तत्वात्; सदिति ग्रहणस्य चाश्वादिसर्वसाधारणस्य निवर्तकत्वायोगात् । सर्वेषां प्रत्यक्षज्ञानानां सन्मात्रविषयत्वे तत्तत्प्रतिपत्तिविषयप्रतिनियतानां सर्वेषां शब्दानां स्मृतिप्रसङ्गः । ततश्च तत्प्रयोगोऽपि यथाविवक्षमेवेति सर्वेषां शब्दानां पर्यायत्वप्रसङ्गः । सर्वेषां च प्रत्यक्षज्ञानानां पूर्वपूर्वगृहीतमात्रग्राहितया स्मृतिवैलक्षण्यं न स्यात् । न च तदिष्यते; सर्वेन्द्रियजन्यज्ञानानामेकविषयत्वेऽभ्युपगते रूपशब्दाद्यग्रहणनिबन्धनान्धबधिरादिभेदः, तत्प्रतिनियतविषयबोधजनकत्वहेतुकेन्द्रियभेदक्लृप्तिश्च न स्यात् ।
यत्तु शास्त्रस्य प्रत्यक्षविरोधपरिहाराय तयोरेकविषयत्वं साधितम्, तदपि शास्त्रस्य प्रतिपन्न विषयानुवादकत्वापादकम् । ब्रह्मणश्च प्रत्यक्षवेद्यत्वं शास्त्रयोन्यधिकरणार्थविरुद्धम् । “न संदृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम्”, ,(कठ.6 – 1.1. तै. महाना) “न चक्षुषा गृह्यते नापि वाचा”(मुण्ड 3 – 1 – 8) “मनसा तु विशुद्धेन”, (श्रुतिः)”न मांसचक्षुरभिवीक्षते तम्”, “न मांसचक्षुषा द्रष्टुं ब्रह्मभूतः स शक्यते” इत्यादि श्रुतिस्मृतिविरुद्धं च । किंच प्रत्यक्षजन्यक्षणिकज्ञानेन सन्मात्रस्य ग्रहणमुपपादयता ब्रह्मण एव दृश्यत्वमुक्तं स्यात्; ततश्च तत्प्रयुक्ततया त्वदभिमतानि जडत्व – नाशित्व – मिथ्यात्वादीनि दुर्निवाराणि ।
अतो जात्यादिलक्षणभेदविशिष्टब्रह्मव्यतिरिक्तघटादिसद्विशेष विषयमेवास्मदादिप्रत्यक्षम्, योगि प्रत्यक्षमपि तत्तद्ग्रहणादिविशिष्टविषयमित्युक्तम् ।
अपिच सच्छब्दार्थः स्वरूपं घटादिशब्दार्थस्तु भेद इति केनावधृतं त्वया घटपटादिषु सदनुवृते सतिघटादेश्च मिथो व्यावृत्तेरिति चेत्; घटादेस्सदनुवृत्तेः सत्त्वस्य चासतो घटात् व्यावृत्तेर्विपरीतं किं न स्यात् । असतोऽपि किं घटत्वमिति चेत्, मैवम्; “न हि सन् घटादिः” इति युष्माभिरेव वर्णनात् । यदा च घटोऽस्ति पटोऽस्तीति सदनुवृत्त्या सतस्स्वरूपत्वमिष्यते, तदा घटो नास्ति पटो नास्तीत्यसदनुवृत्त्या तस्यापि स्वरूपत्वं किं नेष्यते । सति तद्व्यावृत्तेरिति चेत्,असति सतोऽपि व्यावृत्तेस्तस्यापि तन्नेष्यताम् । अतो घटत्वादिवत् सत्त्वमसत्त्वं च तत्तद्वस्तूनां धर्म एव । स्वरूपं तु घटादीनां घटत्वादसत्त्वादेश्चाश्रयतया परस्परासंकीर्णं प्रत्यक्षेण गृह्यते । अतः सच्छब्दार्थः स्वरूपं चेत्, घटशब्दार्थोऽपि स्वरूपमेव । घटत्वा देर्धर्मतया निष्कर्षे सत्त्वादेरपि तथेति न स्वरूपत्वम् । अतो यत् स्वरूपं घटादीनां प्रत्यक्षग्राह्यम्, तत् परस्परं व्यावृत्तं सत्ताघटत्वाद्यनन्तविशेषविशिष्टं चेति न तस्य निर्विशेषैकस्वरूपता । अनुवर्तमानं चैकं सत्त्वं घटादिधर्मभूतमिति न तस्यापि सर्वधर्मिभूतब्रह्मता । यश्च प्रतिवस्तुनियतं प्रामाणिकत्वादिकमेव सत्त्वमिच्छति, तस्य पुरतः सत्त्वमेकमित्यपि दुस्साधम् । अतः प्रत्यक्षस्य सर्वस्य नैकविषयत्वम्; नतरां निर्विशेषविषयत्वम्, नतमां ब्रह्मविषयत्वमिति सिद्धे प्रत्यक्षमूलानां प्रमाणान्तराणामपि प्रत्यक्षगोचरविशिष्टविषयत्वे न कश्चिद्दोषः; प्रत्युत निर्विशेषविषयत्व एव प्रत्यक्षादिबाध इति सिद्धम् ।
।।इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु शतदूषण्यां सन्मात्रग्राहिप्रत्यक्षभङ्गवादो द्वादशः ।।12।।