[highlight_content]

शतदूषणी परमते अद्वितीयश्रुतिविसंवादवादः (59)

शतदूषणी

।।अथ परमते अद्वितीयश्रुतिविसंवादवादः एकोनषष्टितमः ।।59।।

स्वतस्सर्वजगत्सूतेस्संवित्सिद्ध्यादिभिः स्फुटम् ।

अद्वितीयपदोक्त्यैव साधिता सविशेषता ।।

अत्र हि अनन्तपदवदद्वितीयपदेनापि सविशेषतैव । तथा हि–अद्वितीयपदे किं तत्पुरुषः? उत बहुव्रीहिः? यदा तत्पुरुषः,तदाऽपि किं द्वितीयादन्यत्वम्, तद्विरुद्धत्वम्, तदभावमात्रं वा स्यात्? पूर्वत्र द्वितीयादन्योन्योन्याभावमात्रं वा विवक्षितम्? उत अब्राह्मणादिनयात्तत्सादृश्यपरत्वं वा? द्विधापि न द्वितीयहानिः । नतरां ब्रह्मणो निर्विशेषत्वम् । द्वितीयत्वाभावे प्रथमत्वादिमात्रं स्यात्, विशेषनिषेधे शेषाभ्यनुज्ञानसिद्धेः । अन्यथा प्रथमत्वादेरपि सामान्यतो विशेषतो वा निषेधे निर्विशेषत्वस्य निषेध्यत्वात् । तथा च न किञ्चिदित्युक्तं स्यात् । अनन्तरेऽपि विरोधः किं भावाभावत्मकतया? सहानवस्थित्या? वध्यघातुकभावेन वा? न प्रथमः, द्वितीयस्य ब्रह्माभावरूपत्वे तत्प्रतियोगितया ब्रह्मण एव तुच्छत्वापातात् । अभावप्रतियोगित्वमेव हि सर्वत्र तुच्छत्वम् । देशकालादिभेदात्सदपि स्यादिति चेन्न; अदेशकालव्यच्छेदनीयत्वोपगमात् । प्राक् प्रध्वंसादिविकल्पेनापि ब्रह्मणः कार्यत्वानित्यत्वतुच्छत्वप्रपञ्चान्तरसद्भावादिदोषो द्रष्टव्यः । अयमेव ब्रह्मण एव द्वितीयाभावरूपत्वेऽपि । किंच स्वाभावे ब्रह्मणि द्वितीयं कथमध्यस्येत? तद्भानाभानयोस्तदयोगात् । अविशदभाने सविशेषत्वभानावश्यंभावात् । दोषवैचित्र्यात् सर्वमुपपन्नमिति चेन्न; विरुद्धाकाराग्रहणमन्तरेण क्वचिदप्यध्यासादृष्टेः । तद्ग्रहेऽप्यध्यासे नित्यमध्यासप्रसङ्गात् । सहानवस्थानविरोधे सतः परिच्छिन्नत्वापत्तेः, शीतोष्णादिवद्भिन्नाश्रयत्व नियमविवक्षायां धर्मधर्मिणोरेकाश्रयत्वाभावात् ब्रह्मणः सधर्मकत्वाविरोधः, स्वनिष्ठताभङ्गश्च । एकाश्रयत्वाभावमात्रे वक्तव्ये सर्वस्य ब्रह्माश्रयत्वं श्रुत्यन्तरसिद्धं सिध्यत्येव । न तृतीयः, द्वितीयस्य घातुकत्वे सदनित्यत्वादि प्रसङ्गात् । सतो घातुकत्वेऽपि न द्वितीयात्यन्ताभावः, हन्तव्यस्यादौ स्वरूपलाभावश्यम्भावात् । अध्यासनिवर्तकत्वमेव अस्मदिष्टं घातुकत्वमिति चेत्; अस्तु सदध्यासघाति, अनध्यस्तात्मना द्वितीयस्थितेर्न क्षतिः । तथा तस्य न प्राप्तिरिति चेन्न; सगुणादिश्रुत्यैव तत्प्राप्तेः । कल्पितविषया सेति चेन्न; अद्यापि तद्बाधादृष्टेः । सतोऽध्यासाविरोधित्वे च अविद्यासहस्रैरपि न स्यादध्यासः; सत्यादित्ये सन्तमसवत् । अध्यस्यति हन्ति चेति चेन्न; नैरपेक्ष्यविरोधात् । अन्यथाऽन्यस्यैवान्ततो घातुकत्वात् । साधारणहेतुत्वे सिद्धे विशेषोक्तिरियमिति चेन्न; तस्यैव त्वदभिमतस्येतः पूर्वमसिद्धेः । प्रथमतृतीयादिभावमात्रेण द्वितीयविरोधवाचोयुक्त्या सुस्थं द्वितीयम् ।

तदभावमात्रपरे तु समासे न सदादिशब्दैः सामानाधिकरण्यं स्यात्, नञर्थस्य स्वतन्त्रत्वात् । तस्य तदात्मकत्वविवक्षायोगस्योक्तत्वाच्च । न च संभवन्त्यां गतौ वाक्यभेदाध्याहारादिर्न्याय्यः ।

नापि बहुव्रीहिः,तत्र द्वितीयं यस्य नास्तीति किं प्रथमादिविधिकटाक्षेण? सर्वनिषेधाभिप्रायेण वा? न पूर्वः, सर्वनिषेधासिद्धेः । नोत्तरः, बहुव्रीहिविरोधात् । *अनेकमन्यपदार्थे इति हि सः । किंच, द्वितीयनिषेधवत्त्वं च धर्मं ब्रह्मण उपस्थापयन्त्यां वृत्तौ कथं निर्विशेषत्वसिद्धिः? अनुस्थापयन्त्यां च कथंतरां नास्त्यर्थसंबन्धे यस्येति विग्रहः? न च स्वरूपमेवात्र नास्तिशब्दार्थः । अन्यपदार्थत्वायोगात्, स्वस्य स्वसंबन्धायोगाच्च । भेतक्लृप्त्युपचार इति चेत्तथापि द्वितीयाभाव एव ब्रह्मेति निष्कर्षः स्यात् । तत्र चोक्तमध्यासानुपपत्त्यादि । अपि च अविद्यातद्विकाराणां ब्रह्मव्यतिरेके कथमद्वितीयत्वम्? तन्मिथ्यात्वेऽपि तेषां द्वितीयत्वस्य दुस्त्यजत्वात् । सत्यमिथ्यार्थयोरव्यतिरेके विरोधात् । न च यूयं जैननयनिष्ठाः । तन्निष्ठाश्च तत्तामिव द्वितीयतां वाञ्छन्ति । ब्रह्मणो निर्विशेषत्वविवक्षायां च न किञ्चिदपि लक्षणं तत्र स्यादिति तदुदाहरणविरोधः । व्यवच्छेद्यायोगाच्चेति ।

अस्मत्पक्षे तु वृत्तिद्वयमपि सम्यक् । द्वितीयव्यतिरेकोक्त्या सतः स्यादग्रगण्यता । द्वितीयशून्यतोक्त्या च तत्समाननिषेधनम् ।

न ह्यपरं कुतश्चित् सर्वकारणं ब्रह्म, येन तस्य द्वितीयता स्यात् । न चास्य किञ्चिदैश्वर्येण समं, येन द्वितीयगणनां सहेत । * न तत्समश्चाभ्यधिकश्च दृश्यत इत्यादिश्रवणात् । तेनात्र सदृशद्वितीयनिषेधपरं वचः । आहुश्च-*यथैक एव सविता न द्वितीयो नभस्स्थले । इत्युक्त्या नहि सावित्रा निषिध्यन्तेऽत्र रश्मयः । तथा च, *यथा चोलनृपः सम्राडद्वितीयोऽत्र भूतले । इति तत्तुल्यनृपतिनिवारणपरं वचः । नतु तत्पुत्रतद्भृत्यकलत्रादिनिवारणम् । इति । भाष्ये तु प्रकरणस्थमृत्पिण्डादिष्विवैकशब्देना विभक्तनामरूपावस्थाविशेषविशिष्ट बोधनादुपादानत्वसिद्धौ पिण्डादिष्विवाधिष्ठात्रन्तरशङ्कायां तन्निषेधपरोऽयमद्वितीयशब्द इति स्थापितम् । एतदेव * बहुस्यामिति बहुभवनतत्सङ्कल्पयोराश्रयतयाऽनन्तरमेव स्थाप्यते * सोऽकामयत, बहु स्यामिति श्रुत्यन्तरैश्च । एतदर्थमेव प्रकृत्यधिकरणम् । अतोऽद्वितीयश्रुतिरेव विश्वातिशायित्ववाचिनी गुणविभूतिश्रुतिशतविदितबहु विधविशेषजातातिशयित विशेषान्तरतत्परा निर्विशेषवादिनां विसंवादिनीति नीतिविदः ।

।। इति शतदूषण्यां परमते अद्वितीयश्रुतिविसंवादवादः एकोनषष्टितमः ।।59।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.