[highlight_content]

शतदूषणी बाह्यप्रकाशानुपपत्तिवादः(18)

शतदूषणी

।।अथ बाह्यप्रकाशानुपपत्तिवादः अष्टादशः।।18।।

अज्ञानसन्तमसमाश्रयणोन्मुखानां संवित्प्रदीपमहसा सहसा निरुन्धन् ।

विद्यास्वयंवरपतिर्व्यपहन्त्वविद्यां सर्वानुभूस्स भगवान्पुरुषोत्तमो नः ।।

यत्तद्भावरूपाज्ञानदूषणसमये “नित्यमुक्तस्वप्रकाशचैतन्यैकस्वरूपस्य ब्रह्मणोऽज्ञानानुभवश्च न संभवतीत्या”दिभाष्यम्, तत्र बाह्यप्रकाश एव सर्वः परपक्षे न संभवतीत्यभिप्रेतम् । तद्धाकुर्मः । यदुच्यते – “नित्यमुक्तं ब्रह्मैव स्वगतानाद्यविद्यामनुभवती”ति,कथमिदमुपपद्यते? बन्ध (न) स्यानाद्यविद्यातत्कार्यानुभवात्मकत्वान्मोक्षस्य च तन्निवृत्तिरूपत्वात् । – “नित्यमुक्तस्य बन्धश्चेन्नित्यमुक्तिर्न संभवेत् । बन्धस्यापि च नित्यत्वाद्बन्धाभावे त्वमुक्तता” ।

ननु भवन्मतेऽप्य ज्ञानमस्त्येव, तच्च सर्वज्ञेनानुभूयते, स च नित्यमुक्त इति को विशेष इति चेन्न; पराज्ञानादिदर्शनस्य बन्धरूपत्वानभ्युपगमात् । ब्रह्माज्ञानमेव परगतं ब्रह्मणाऽनुभूयत इति चेन्न; तथाऽपि परगतत्वादेव तस्य बन्धरूपत्वप्रसङ्गाभावात् । तर्ह्यस्माकमप्यहंकारापरपर्यायान्तः करणगतमज्ञानं भवतु, तच्च संविदधीनसिद्धित्वात्तदात्मकब्रह्मणाऽनुभूयत इति को दोष इति चेन्न; सुषुप्तिमरणमूर्च्छाद्यहंकारविलय दशायामज्ञानानुभवभङ्गप्रसङ्गात् । न हि तदानीं निराश्रयाज्ञानस्थितिसंभवः, निरधिष्ठानभ्रमानुज्ञान प्रसङ्गात्; ब्रह्माश्रयत्वे तु स्वगताज्ञानानुभवावश्यम्भावः । भवत्वज्ञानानुभवः, स तु मिथ्याभूतानुभव इति न नित्यमुक्तत्वविरोध इति चेन्न; मिथ्याभूतस्यैव तस्य बन्धतयोपपादनात् । अन्यथा तन्निवृत्त्यर्थं शास्त्रारम्भानुपपत्तिप्रसंगात् । ततश्च तथाविधनिवृत्तिरूपे मोक्षे नित्ये कथं तत्प्रतियोगिनस्तस्य संभवः? ततश्च नित्यं ब्रह्मण्यविद्याविमुखे स्वयमेव विलीयमाना सा कथमहंकारादीन्यपत्यानि प्रसूताम्? कथं वा तेषु ब्रह्मणो दृष्टिपात इति न बाह्यानुभवसम्भवः । स एष प्रथमो हेतुर्ब्रह्माश्रयाज्ञानानुपपत्तिकथनेन व्याख्यातप्रायः; तृतीयश्च साक्षित्वशोधने प्रदर्शित एवेति कृत्वा मध्यमं हेतु विवब्रे – “स्वानुभवस्वरूपत्वादित्यादिना” ।।

अनुभूतिस्वरूपमपि ब्रह्म स्वानुभवैकतानमिति ह्यभ्युपगम्यते । तस्य स्वरूपातिरिक्ताविद्यानुभवः किं स्वतः? उतान्यतः? नाद्यः; स्वानुभवैकतानत्वव्याघातात्; अनिर्मोक्षप्रसंगाच्च । मोक्षे वा स्वाभाविकरूपव्याघातप्रसंगात् । किंच यत्र शुक्तिरजतादौ विषयमिथ्यात्वम्, तत्र विषयिणोऽपि मिथ्यात्वावश्यम्भावात् निवर्तकज्ञानेन सविषयवृत्तिस्वरूपबाध इति हि त्वन्मतम् । ततश्च यदि मिथ्याभूताविद्यानुभव (स्वभावता) स्स्वभावतो ब्रह्मणस्तदा तस्यापि मिथ्यात्वेन बाधकज्ञानेन निवृत्तिरेव स्यात् । नापि द्वितीयः, अविद्याब्रह्मातिरिक्तस्यान्यस्यानभ्युपगमात् । अभ्युपगमे वा तत्सत्यत्यमिथ्यात्वविकल्पेन सद्वितीयत्वानवस्थयोरन्यतरप्रसंगात् । माभूदविद्या ब्रह्मस्वरूपातिरिक्तमन्यत्, अविद्यैव तु ब्रह्मस्वरूपं तिरोधत्ते, तन्निबन्धनोऽयमविद्यानुभव इति चेन्न; प्रकाशमात्रस्य ब्रह्मणस्तिरोधाने तत्स्वरूपनाशप्रसङ्गादेरन्यत्र प्रपञ्चनात् ।

किंच तिरोहिते ब्रह्मणि तस्याविद्यानुभवः, अनुभूतायां चाविद्यायां लब्धस्वरूपया तया तिरोधानमित्यन्योन्याश्रयणम् । अनुभवनिरपेक्षं तिरोधानमिति चेत्; तथा सति तदज्ञानं काचादिवत्स्वसत्तया ब्रह्म तिरस्करोतीति संविदधीनसत्ताकत्वाभावेन स्वतस्सिद्धतया संविद्रूपज्ञानबाध्यत्वं न स्यात् । तेन च तदुपात्तः प्रपञ्चोऽपि तथाविध एवेति सत्यस्स्यात् । आहुश्च – “काचादिवत्तिरस्कारे दोषो वाचामगोचरः । ज्ञानबाध्यत्वहानिस्स्यात्स्यात्प्रपञ्चस्य सत्यता” । इति ।

अस्तुतर्ह्यविद्यानुभवाधीनं तिरोधानम्, अनुभवस्तु निरपेक्ष इति नान्योन्याश्रयणमिति चेन्न; अनिर्मोक्षप्रसङ्गादेरुक्तत्वात् । किंच अतिरोहितस्वरूपस्यैव लाघवेनाभ्युपगन्तुमुचितत्वात् । ननु भवतामपि ब्रह्मस्वरूपं स्वानुभवैकतानम्, तदेव च सर्वज्ञमित्यभ्युपगतमिति को विशेष इति चेन्न; अस्माकंब्रह्मस्वरूपस्य स्वानुभवैकतानत्वेऽपि गुणभूतेन ज्ञानेन सविषयत्वस्वभावेन स्वतेरसमस्तविषयीकरणात्। एतेन मुक्तोऽपि व्याख्यातः। बद्धस्य तु सर्वविषयीकरणस्वभावमपि ज्ञानमौपाधिकान् संकोचविकासान्भजतीति न विरोधः । उपाधयश्च प्रवाहानादिरूपेणोपस्थिताः कर्मादय इति नानवस्थादयो दोषाः । अतो यदि बाह्यानुभवमिच्छसि तदा स्वरूपमात्र प्रकाशस्वभावादात्म स्वरूपादतिरिक्तं तद्धर्मभूतं ज्ञानमभ्युपगच्छकत्यजवा बाह्यानुभवव्यसनमिति । त्यजामस्तर्हि बाह्यानुभवम्, न ह्यत्र वस्तु बाह्यं किंचिदनुभूयत इति चेन्न; विकल्पासहत्वात् । किमत्र बाह्यतया प्रतीयमानानामनुभूति स्वरूपत्वमभिमतम्? उत स्वरूपातिरिक्तानामवस्तुत्वम्? अथ वस्तूनामवस्तूनां वा बाह्यानामनुल्लेखः? उत बाह्यानुभवस्यैवा वस्तुत्वमिति । नाद्यः, आत्मख्यातिवादस्य त्वयैव दूषणात्, तदभ्युपगमस्य चान्यत्र दत्तोत्तरत्वात् । न द्वितीयः, प्रपञ्चापह्नवनिर्मूलनात् । अवस्तुत्वेऽपि तदुल्लेखस्य दुरपह्नवतया बाह्यप्रकाशावश्यंभावात् । न तृतीयः, सर्वलौकिकपरीक्षकहृदयविसंवादात्, सर्वसंरम्भविलयप्रसङ्गाच्च । न चतुर्थः, माध्यमिक वादावतारात् । अस्तु बाह्यानुभवस्यैवावस्तुत्वमिति चेन्न; तस्यैव विशोधितस्य त्वया ब्रह्मत्वाभ्युपगमात् तदतिरिक्तस्य तु त्वदभिमतस्य कुतश्चिदप्यसिद्धेः । सिद्धावपि तस्यैव बाह्यानुभवाभावे तद्व्यतिरिक्तानामपि बाह्यानुभवभेदानामसम्भवे पुनरनुल्लेखपक्षपरिशेषात् । अतो बाह्योल्लेखस्ते हातुमुपादातुं वा न शक्य (त इति) मिति दुरन्तमिति ।

इति श्री कवितार्किक सिंहस्य सर्वतन्त्र स्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु शतदूषण्यां बाह्यप्रकाशानुपपत्तिवादः अष्टादशस्समाप्तः ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.