श्रीमद्वेदान्ताचार्यविरचिता
मीमांसापादुका
मीमांसापादुका धर्मप्रमाणपरीक्षाधिकरणम्
धर्मे वेदः प्रमाणं तदितरदपि वा नोभयं वोभयं वेत्येवं सन्देहडोलाविहरणविहितानेकदिक्क(सृप्त)प्रसक्तान् । जिज्ञासून्वेद एवेत्यवधृतिनियतावस्थितीन्कल्पयिष्यंश्चक्रे सूत्रं तृतीयं चटुलमतिदशावारणारम्भणार्थम् ॥ ८८ ॥
अत्रायोगान्ययोगौ प्रशमयितुमियं चोदनामानतोक्तिस्सत्सूत्रादौ स्फुटं तत्समसनविषयक्षेपणीयक्रमेण । अध्यायस्थाप्यसिद्ध्यै प्रथममभिदधे तन्निमित्ते परीष्टिः कर्तव्या नेति वा स्यादिह विनिगमना सूत्रकृत्काकुभेदात् ॥८९॥
मानं धर्मे न चिन्त्यं दुरपलपतयेत्युत्थितस्याऽऽस्तिकस्य प्रज्ञाचोरप्रसूतभ्रमपरिहृतये चिन्त्यमित्युत्तरं स्यात् । चिन्त्ये याऽस्मिन्प्रयुक्ते प्रथनकथनतस्तत्परीष्टिर्निषेद्ध्या छेकोक्तिस्साऽपि यस्मादकरणमिषतस्तत्परीष्टिं करोति ॥ ९० ॥
सामान्यान्न प्रमाणं क्षममपलपितुं स्वोक्तिबाधादिदोषात्तत्सिद्धिश्च प्रमाणात्स्वपरघटनतो नानवस्थाद्यतः स्यात् । धर्मे मानं तु चिन्त्यं प्रथितमपि बहिर्वादसंक्षोभशान्त्यै नो चेन्नास्तिक्यनिष्ठैः प्रमितिपथजुषामत्र पार्ष्णिग्रहस्स्यात् ॥ ९१ ॥
वेदो धर्मे निमित्तं स्वयमपि भविता तद्विधानात्तथाऽपि प्रामाण्यं हि प्रसाध्यं प्रथमसमुदिते लक्षणे पादभेदैः । तस्माद्धर्मप्रमायां करणमिति धिया तन्नमित्तत्वमुक्तं भक्त्या चोक्तिः प्रशस्तिं प्रथयति महतीं मुख्यभावानुरूपाम् ॥ ९२ ॥
॥ इति धर्मप्रमाणपरीक्षाधिकरणम् ॥