श्रीमते रामानुजाय नमः
परमाचार्य श्रीमद्यामुनाचार्य समनुगृहीते,
सिद्धित्रये ईश्वरसिद्धिः
2.1 तत्र कस्यचिदेकस्य वशे विश्वं प्रवर्तते ।
इति साधयितुं पूर्वं पूर्वपक्षं प्रचक्ष्महे ।।
(लाौकिकप्रत्यक्षस्येश्वरासाधकत्वं )
2.2 व्यवस्थितमितस्वार्थं न तावदिह लौकिकम् ।
साधनं तेन सर्वार्थतज्ज्ञानादेरसिद्धितः ।।
( योगिप्रत्यक्षसामान्यस्यासाधकत्वम् )
2.3 प्रत्यक्षत्वे तदप्येवं विद्यमानैकगोचरम् ।
भूतादिगोचरं नैव प्रत्यक्षं प्रतिभादिवत् ।।
( तार्किकवादः)
2.4 नन्वेकचेतनाधीनं विवादाध्यासितं जगत् ।
अचेतनेनारब्धत्वादरोगस्य शरीरवत् ।।
2.5 तथा सर्वार्थनिर्माणसाक्षात्करणकौशलम् ।
कार्यत्वादेव जगतस्तत्कर्तुरनुमीयताम् ।।
2.6 किमस्य तस्मिन्नायत्तं किन्नु जन्माथवा स्थितिः ।
प्रवृत्तिर्वाऽऽद्ययोस्तावत् साध्यहीनं निदर्शनम् ।।
( सिद्धसाधनवचनं )
2.7 चेतनाधीनतामात्रसाधने सिद्धसाध्यता ।
चेतनैर्भोक्तृभिर्भोग्यः कर्मभिर्जन्यते हि नः ।।
2.8 उपादानं पृथिव्यादि यागदानादि साधनम् ।
साक्षात्कर्तुं क्षमन्ते यत्सर्व एव च चेतनाः ।।
2.9 कर्मणः शक्तिरूपं यदपूर्वादिपदास्पदम् ।
मा भूत्प्रत्यक्षता तस्य शक्तिमद्ध्यक्षगोचरः ।।
2.10 आगमादवगम्यन्ते विचित्राः कर्मशक्तयः ।
तेन कर्मभिरात्मानः सर्वं निर्मिमतां पृथक् ।।
( सत्प्रतिपक्षितत्वम् )
2.11 अपि च-स्वार्थकारुण्यभावेन व्याप्ताः प्रेक्षावतः क्रियाः ।
ईश्वरस्योभयाभावाज्जगत्सर्गो न युज्यते ।।
2.12 सुखैकतानं जनयेज्जगतकरुणया सृजन् ।
तत्कर्मानुविधायित्वे हीयेतास्य स्वतन्त्रता ।।
( मीमांसकमतोपसंहारः )
2.13 असिद्धत्वाद्विरुद्धत्वादनैकान्त्याच्च वर्णितात् ।
कार्यत्वहेतोर्जगतो नयथोदितकर्तृता ।।
( तार्किकसमाधानम् )
2.14 अत्र ब्रूमो न कार्यत्वं क्षित्यादौ शक्यनिह्नवम् ।
सभागत्वात् क्रियावत्त्वात् महत्त्वेनविशेषितात् ।।
2.15 तादृशादेव मूर्तत्वात् बाह्य प्रत्यक्षतान्वितात् ।
ससामान्य विशेषत्वादित्यादिभ्यो घटादिवत् ।।
2.16 प्रत्यक्षं तत् प्रमेयत्वात्पदार्थत्वाद्धटादिवत् ।
एकेच्छानुविधायीदमचैतन्यात् स्वदेहवत् ।।
2.17 एकेनाधिष्ठिताः कार्यं-कुर्वते स्रवचेतनाः ।
देहसम्बन्धसापेक्षकार्यकृत्त्वात् त्वगादिवत् ।।
2.18 एकप्रधानपुरुषं विवादाध्यासितं जगत् ।
चेतनाचेतनात्मत्वादेकराजकदेशवत् ।।
इति श्रीमद्विशिष्टाद्वैतसिद्धान्तप्रवर्तनधुरन्धरपरमाचार्य-श्रीभगवद्यामुनमुनिसमनुगृहीते सिद्धित्रये ईश्वरसिद्धिः