श्रीमद्वेदान्तदेशिकविरचिता
सुभाषितनीवी
सुभाषितनीवी सच्चित्तपद्धतिः
पुंसः कस्यचिदास्थाने द्विजेन्द्रस्सूरिसेविते ।
गुणवत्पक्षपातेऽपि मध्ये तिष्ठति मानभृत् ।। 7.1 ।।
देशकालविशेषेण विषमत्वं समत्ववत् ।
निशादिवसयोः दृष्टम् अहोरात्रस्य न क्वचित् ।। 7.2 ।।
चकोरस्य दरं देवश्चक्रवाकस्य चादरम् ।
विवस्वान्नाभिसन्धत्ते विश्वमेतत् प्रकाशयन् ।। 7.3 ।।
प्रतिग्राहति जीमूते प्रत्यर्पयति वा स्वयम् ।
अपूरणमपाम्पत्युः पूरणं च न लक्ष्यते ।। 7.4 ।।
छिद्रं जनयतां तीक्ष्णैः अच्छिद्रं बिभ्रतामपि ।
त्रासहीनाः सुमणयस्वभावात् उपकुर्वते ।। 7.5 ।।
अनुज्झितसुहृद्भावः सुहृदां दुर्हृदामपि ।
सम इत्येव भाव्योऽपि नम इत्यभिभाव्यते ।। 7.6 ।।
मरुद्भिः पीड्यमानोऽपि सन्त्यक्तोऽपि दिवानिशम् ।
विषयस्नेहरहितो रत्नदीपः प्रकाशते ।। 7.7 ।।
जनयत्यनिले दावं शमयत्यपि तोयदे ।
अभिन्नैः स्थीयते पुण्यैः आशमारण्यपादपैः ।। 7.8 ।।
अहार्येण कदाप्यन्यैः असंहार्येण कैरपि ।
तितिक्षाकवचेनैकस्सर्वं जयति संवृतः ।। 7.9 ।।
अमृतस्यन्दिनं कञ्चित् कृष्णमेघं द्विजस्स्मरन् ।
उदन्यया न वेशन्तम् उदन्वन्तं च वीक्षते ।। 7.10 ।।
विदधातु धाम तमसा कृतेन किं
यदि वा न वेत्ति न विधिर्न वा वयम् ।
प्रथमोपकारि चरमं यतस्ततः
प्रतियोगिनो भवति तस्य सार्थता ।। 7.11 ।।
विभवेष्वपि दोषगन्धहीनः
प्रलयेवावस्थितिम् अक्षयां दधानः ।
विषमेष्वपि भावयन् समत्वं
पुरुषः कोऽपि हृदि स्थितः प्रजानाम् ।। 7.12 ।।
॥ इति सच्चित्तपद्धतिः ॥ 7 ॥