श्रीमद्वेदान्तदेशिकविरचिता
सुभाषितनीवी
सुभाषितनीवी सदाश्रितपद्धतिः
सुवृत्तस्यावदातस्य कलापूर्णस्य सत्पतेः ।
क्षणलेशग्रहेऽपि स्यादतीर्थस्यापि तीर्थता ।। 8.1 ।।
प्रतिपत्प्राप्तितः प्रागप्यपातार्ह पदाश्रितः ।
राजा तदितरो वापि नोपरागेण गृह्यते ।। 8.2 ।।
विषमो गुणभेदेन विकारान् जनयन् क्रमात् ।
समये महतां योगादहङ्कारः प्रतीयते ।। 8.3 ।।
स्वदृष्टि प्रतिघातोऽपि स्वच्छे क्वचन शोभनः ।
तत्र ह्यभिमुखः स्वात्मा झटित्येव प्रकाशते ।। 8.4 ।।
शिक्षके हरिताकारो मेरौ नीलतनुर्द्विजः ।
अपूर्ववर्णवान् भाति सत्यनिष्ठे च कौशिकः ।। 8.5 ।।
कलङ्किनि जडे क्वापि सौरं प्रतिफलन्महः ।
तमोऽपहत्वं तनुते समृद्धिं च दिने दिने ।। 8.6 ।।
स्वतश्चैतन्यभिन्नस्य विषमच्छिद्रभागिनः ।
कस्यचित् प्राज्ञमूलास्स्युः पुरुषार्थ प्रवृत्तयः ।। 8.7 ।।
महान्तं पुरुषं प्राप्य कञ्चित् सत्त्वप्रवर्तकम् ।
प्रतिबुद्धो जनस्तेन परमं साम्यमश्नुते ।। 8.8 ।।
सूत्रं रत्नसमावेशात् चर्म सत्पद संश्रयात् ।
तदभेदेन गृह्येत तृणमप्यस्त्रमन्त्रणात् ।। 8.9 ।।
एकयैव गुरोर्दृष्ट्या द्वाभ्यां वापि लभेत यत् ।
न तत् तिसृभिः अष्टाभिः सहस्रेणापि कस्यचित् ।। 8.10 ।।
रथ्यातोयं त्रिदशसरिता राजनीतिस्सुकीर्त्या
काव्यालापः त्रियुगकथया कायवान् आत्मबुद्ध्या ।
दारप्रीतिः प्रजननधिया जन्तुहिंसा मखेन
प्रज्ञाहीनः परहितविदा सङ्गतः शुद्धमेति ।। 8.11 ।।
विभुर्बन्धं प्राप्य व्यतनुत विमुक्तिं व्रजभुवां
स्वतन्त्रोऽसौ दूतः स्वयमजनि सूतश्च जगताम् ।
प्रतिज्ञां स्वामौज्झत् स्वपदतटिनीसूनुसमरे
महद्योगात् प्रायो वहति महिमानं तदधिकम् ।। 8.12 ।।
॥ इति सदाश्रितपद्धतिः ॥ 8 ॥