॥ श्रीरस्तु ॥ श्रीमत्प्रणतातिहरवरदपरब्रह्मणे नमः। श्रीमते इयग्रीवाय नमः। श्रीमते रामानुजाय नमः।
श्रीमते निगमान्तमहादेशिकाय नमः ।
कवितार्किकसिंहसर्वतन्त्रस्यतन्त्र श्रीमद्वेदान्तदेशिकविरचितः
तत्त्वमुक्ताकलापः- सर्वार्थसिद्धिसमेतः ॥
श्रीमान्वेङ्कटनाथायः कवितार्किककेसरी। वेदान्ताचार्यवों मे संनिधत्तां सदा हृदि ॥
॥ जडद्रव्यसरः ॥ १
1.1 लक्ष्मीनेत्रोत्पलश्रीसततपरिचयादेष संवर्धमानो नाभीनालीकरि(ङ्ग)ङ्खन्मधुकरपटलीदत्तहस्तावलम्बः ।
अस्माकं संपदोघानविरलतुलसीदामसंजातभूमा कालिन्दीकान्तिहारी कलयतु वपुषः कालिमा कैटभारेः ॥ १ ॥
1.1 जयति सकलविद्यावाहिनीजन्मशैलो जनिपथपरिवृत्तिश्रान्तविश्रान्तिशाखी ।
निखिलकुमतिमायाशर्वरीबालसूर्यो निगमजलधिवेलापूर्णचन्द्रो यतीन्द्रः ॥
ताराकल्पे स्फुरति सुधियां तत्त्वमुक्ताकलापे दूराद्वृत्त्या दुरधिगमतां पश्यतां सर्वसिद्ध्यै ।
नातिव्यासव्यतिकरवती नातिसंकोचखेदा वृत्तिस्सेयं विशदरुचिरा कल्प्यतेऽस्माभिरेव ॥
आरिप्सितस्य प्रबन्धस्याविघ्नपरिसमाप्त्यादिसिद्ध्यै मङ्गलमाचरन्नर्थाद्वक्ष्यमाणं द्रव्याद्रव्यविभागं प्रतितन्त्रविशेषांश्च संग्रहेण सूचयति – लक्ष्मीति । “यज्ञविद्ये”त्यादिना सर्वविद्यानां तादधीन्योक्त्या सा ख्याप्येति लक्ष्मीरादौ संकीर्त्यते । नित्ययुक्तत्वसूचनाय सततपरिचयोक्तिः । नाभीत्यादिना पद्मभुवः कार्यत्वकर्मवश्यत्वसूचनात्ततोऽर्वाचामनीश्वरत्वं कैमु(तिक)त्यसिद्धम् । अस्माकमिति । जीवानामीश्वरादन्योन्यं च भेदः, प्रत्यक्त्वमहंशब्दार्थत्वं च प्रख्याप्यते । तेन स्थालीपुलाकन्यायेन परमतनिरासमप्युदाहरति – संपदोघानिति । तत्त्वज्ञानादिकाः स्वप्राप्तिपर्यन्तास्सिद्धिपरम्पराः । अखिलेत्यादिना सत्त्वाधिकप्रशस्ततमद्रव्यार्चनीयतयाऽन्येभ्यो व्यावर्तनीयत्वमनुवर्ण्यते । कालिन्दीकान्तिहारीत्यनेन तद्गुणानां परगुणतिरस्कारत्वमुपलक्ष्यते । कैटभारेर्वपुष इति व्यतिरेकविभक्त्या शुद्धसत्त्वमयविग्रहयोगस्त(स्य स्व)त्स्वरूपादन्यत्त्वं च स्थाप्यते । वपुषः कालिमेति द्रव्याद्रव्यविभागप्रदर्शनार्थम् । एवं जडाजडाद्यपि यथास्थानमूह्यम् ॥१॥
1.2 नानासिद्धान्तनीतिश्रमविमलधियोऽनन्तसूरेस्तनूजो वैश्वामित्रस्य पौत्रो विततमखविधेः पुण्डरीकाक्षसूरेः ।
श्रुत्वा रामानुजार्यात्सदसदपि ततस्तत्त्वमुक्ताकलापं व्यातानीद्वेङ्कटेशो वरदगुरुकृपालम्भितोद्दामभूमा ॥ २ ॥
1.2 चिकीर्षितस्य श्रद्धेयत्वाय वक्तृसंप्रदायवैलक्षण्यं दर्शयति – नानेति । सत् – प्रामाणिकं मुमुक्षोरुपादेयं च; तदन्यदसत् । सतस्सत्त्वेनासतश्चासत्त्वेन श्रवणमिहेष्टम्, ततः – श्रवणादेव हेतोः ॥२॥
1.3 प्रज्ञासूच्याऽनुविद्धः क्षतिमनधिगतः कर्कशात्तर्कशाणाच्छुद्धो नानापरीक्षास्वशिथिलविहिते मानसूत्रे निबद्धः ।
आतन्वानः प्रकाशं बहुमुखमखिलत्रासवैधुर्यधुर्यो धार्यो हेतुर्जयादेः स्वहृदि सहृदयैस्तत्त्वमुक्ताकलापः ॥ ३ ॥
1.3 प्रबन्धस्य स्वरूपातिशयादपि सुधीभिस्स्वीकार्यत्वमाह – प्रज्ञेति । ज्ञातस्यातिशयाधायिनी धीः प्रज्ञा । कलापस्यानुविद्धत्वादि प्रत्येकद्वारा । तत्त्वानां प्रज्ञया अनुविद्धत्वं सम्यङ्निर्धारितत्वम् । रत्नान्तरेषु शाणक्षतिसंभवो न मुक्तासु । प्रमाणतर्कैर्याथात्म्यान्वेषणं परीक्षा । तन्नानात्वं तर्कादिभेदात् । मुक्तासु स्वानुगुणपरिमाणयुक्तं सूत्रं मानसूत्रम् । अन्यत्र प्रमाणमेव सूत्रं, तस्याशिथिलविहितिः – निर्बाधत्वेन विशेषतो धीस्थत्वम् । प्रकाशम् – आलोकं बोधं च । बहुमुखम् – सर्वतोदिक्कं सर्वविषयं च । त्रासो मणिदोषः प्रतिपक्षाद्भीतिश्च । जयादेरित्यादिशब्देन क्वचिदैश्वर्यादेरन्यत्र तत्त्वनिर्णयस्य च संग्रहः । हृच्छब्दो वक्षश्चित्तं च वदति । सहृदयैः – सारासारविवेचनार्हहृदयवद्भिः । धार्यः – क्वचिदाभरणतयाऽन्यत्राप्रमोषेण ॥३॥
1.4 शिष्टा जीवेशतत्त्वप्रमितियुतपरोपासना मुक्तिहेतुः शक्यस्तत्तत्प्रकारावगतिविरहिभिर्नैव याथात्म्यबोधः ।
ते ते चार्था विदध्युः कुमतिविरचितास्तत्त्वबोधोपरोधं तस्मान्निर्धूतसर्वप्रतिमतविमतिं साधये सर्वमर्थम् ॥ ४ ॥
1.4 नन्वपवर्गसिद्धौ यदन्तरङ्गं तदेव विशदं तदर्थिभिरवगन्तव्यम्, तावदेव शिष्यादिभ्योऽपि प्रवर्तितव्यम्, किमन्यैरिह कीर्त्यमानैरित्यत्राह – शिष्टेति । शिष्टा – चोदितेत्यर्थः । जीवेशावेव तत्त्वे जीवेशतत्त्वे; तयोः प्रमितिरिहागमजन्या । परोपास्तेस्तत्त्वज्ञानमितिकर्तव्यता, नतु स्वयं साधनम् । प्रमितियुता – प्रमितिजनितानुस्मृतिपूर्विकेत्यर्थः । तदभिप्रायेणोक्तं जीवपरमात्मयाथात्म्यज्ञानपूर्विकेत्यादि । परोपासनेति सर्वविद्याभिप्रायं, परस्य ब्रह्मण उपासनेति वा । शक्य इत्यादि – न हि द्रव्याद्रव्यविभागाभावे शिष्टोपासनमूलकतत्त्वप्रतीतिसिद्धिः । तत्त्वनिरूपणाभावे च तत्त्वनिर्णयोपयुक्तयोस्तर्कानुमानयोर्व्याप्तिः शङ्काकलङ्किता स्यात् । परोक्तानुमानानामन्यतरासिद्ध्यनैकान्तिकत्वाद्युद्भावनं च कथं स्यात्? परो वा कथमस्मत्सिद्धान्तानभिज्ञः कथायामस्माभिरधिकुर्यात्? परकल्पितार्थभङ्गेन तदहङ्कारखण्डनं च तत्त्वाध्यवसायसंरक्षणार्थम् । तत्तदिति प्रस्तुतौ जीवेशौ गृह्येते । अथवा तत्तत्प्रकृत्यादिप्रकारबोधाभावे तत्तत्प्रतिसंबन्धिकं तयोरपि याथात्म्यं नावगम्येत । ते ते चार्थाः ब्रह्मविवर्तपरिणामभिन्नाभिन्नत्वादयः । कुमतिविरचिताः – कुदृष्टिभिः कल्पिताः, भ्रान्तिविजृम्भिता इति वा । अत एव कुमतिभिरर्थ्यन्त इत्यर्थाः न तु परमार्थाः । प्रतिमतैर्विमतिः – विवादः, तत्प्रसूता वा विरुद्धबुद्धिः । सर्वमर्थं – मुमुक्षुभिर्ज्ञातव्यम् । परम्परयेत्यर्थः ॥४॥
1.5 आवापोद्वापतस्स्युः कतिकति कविधीचित्रवत्तत्तदर्थेष्वानन्त्यादस्तिनास्त्योरनवधिकुहनायुक्तिकान्ताः कृतान्ताः ।
तत्त्वालोकस्तु लोप्तुं प्रभवति सहसा निस्समस्तान्समस्तान् पुंस्त्वे तत्त्वेन दृष्टे पुनरपि न खलु प्राणिता स्थाणुतादिः ॥ ५ ॥
1.5 तथाऽपि निर्धूतसर्वप्रतिमतविमतिं सर्वमर्थं साधये इत्यशक्योक्तिः, त्रैकालिकसिद्धान्तभेदानन्त्यादित्याशङ्कोद्घाटनपूर्वकं प्रयोजकशिक्षया कृत्स्नानिष्टनिरासः, कृत्स्नाभीष्टसाधनं च शक्यमिति स्थापयति – आवापेति । एकस्मिन्नेव हि दर्शने व्याख्यातृभेदात्केषांचित्प्रमेयानामावापोद्वापौ दृश्येते, यत एकदेशिव्यपदेशः । कविधीचित्रवत् – कवीनां धीभिः कृतं काव्यादिकं कविधीचित्रम्; तद्वन्मतभेदा अप्यनन्तास्संभवन्ति । तत्तदर्थेष्वस्तिनास्त्योरानन्त्यादित्यन्वयः । अस्तिनास्त्योरिति प्रयोगपरम् । कुहना – छद्म । तत्संबन्धिन्यो युक्तयः कुहनायुक्तयो हेत्वाभासच्छलजातिरूपाः ताभिः कान्ताः सम्यक्त्वेनैव भाताः । तत्त्वालोकः – यथार्थाध्यवसायः । प्र(कृ)स्तुतशङ्कानिरासार्थमपेक्षणीयान्तराभावात्सहसेत्युक्तम् । निस्सम इति निरधिकत्वोपलक्षणम् । प्रतिरोधबाधरहित इत्यर्थः । उक्तस्थापकं त्रय्यन्तार्थविशेषव्यञ्जकमप्यर्थान्तरं न्यस्यति – पुंस्त्व इति । पुनर्न प्राणिता – संशयविपर्ययसामग्रीलोपान्न भासेतेत्यर्थः ॥५॥ इति तत्त्वज्ञानप्रयोजनम् ॥
1.6 द्रव्याद्रव्यप्रभेदान्मितमुभयविधं तद्विदस्तत्त्वमाहुर्द्रव्यं द्वेधा विभक्तं जडमजडमिति प्राच्यमव्यक्तकालौ ।
अन्त्यं प्रत्यक् पराक् च प्रथममुभयथा तत्र जीवेशभेदान्नित्या भूतिर्मतिश्चेत्यपरमिह जडामादिमां केचिदाहुः ॥ ६ ॥
1.6 अथ निरूप्यमर्थजातं साधर्म्यवैधर्म्यभेदैस्संगृह्य विभज्य च निर्दिशति – द्रव्येति । अत्र तत्त्वमिति पदार्थमात्रोक्तिः । मितं – प्रमितम् । तथात्वं च सर्वसाधारणम् । तदपि हि सामान्यतः प्रमितम् । अन्ततस्स्वपरनिर्वाहान्नानवस्था । इदं च साधर्म्योक्तिमात्रं व्यवच्छेद्याभावेन लक्षणत्वासिद्धेरित्येके । निर्दिष्टव्यापित्वे सति तदन्यवृत्ति(रहितत्वा)विरहाल्लक्षणमपि स्यादित्यन्ये । बाह्यकुदृष्टिव्यावृत्तास्तद्विदः । अत्र तत्तदन्यरूपेण विभागेषु न नीलपीतादिवत्कोट्यन्तरावकाशः । द्रव्यत्वात्यन्ताभाववत्त्वरूपेण तदन्यत्वस्य विवक्षितत्वाद्द्रव्यलक्षणं वक्ष्यति । जडमिह स्वगोचरज्ञानत एव प्रकाशमानम् । अव्यक्तशब्देन व्यक्तमपि लक्ष्यते तदनन्यद्रव्यत्वज्ञापनार्थम् । प्रत्यक् – स्वस्मै भासमानम् । पराक् – परस्मा एव भासमानम् । भूतिर्विभूतिः, स्वातिशयाधानार्थं नियन्तव्यद्रव्यम् । नित्या भूतिरिति नित्यप्राचुर्यतश्शुद्धसत्त्वमुपलक्ष्यते । इहादिमां – नित्यभूतिम् । केचिज्जडामाहुरिति सयूथ्यमतभेदोक्तिः ॥ ६ ॥ इति द्रव्यविभागः ॥
1.7 तत्र द्रव्यं दशावत्प्रकृतिरिह गुणैस्सत्त्वपूर्वैरुपेता कालोऽब्दाद्याकृतिस्स्यादणुरवगतिमान् जीव ईशोऽन्य आत्मा । संप्रोक्ता नित्यभूतिस्त्रिगुणसमधिका सत्त्वयुक्ता तथैव ज्ञातुर्ज्ञेयावभासो मतिरिति कथितं संग्रहाद् द्रव्यलक्ष्म ॥ ७ ॥
1.7 प्रस्तुतस्य द्रव्यस्य तदवान्तरभेदानां च लक्षणमाह – तत्रेति ॥ तत्र – द्रव्याद्रव्ययोर्मध्ये । द्रव्यं दशावत् – विकारधर्मवदित्यर्थः । ईश्वरादावपि मूर्तसंयोगा आगन्तुकास्सन्ति । संचरति हि मूर्ते तस्य विभुनश्च संयोगा विद्यन्त एव । प्रकृतिशब्दः प्राग्वद्विकृतीनामप्युपलक्षकः; त्रिगुणशब्दाभिलप्यद्रव्यमित्यर्थः । तत्स्वगुणैरेव लक्षयति – गुणैरित्यादिना । इह – अव्यक्तकालयोर्मध्ये । त्रिगुणस्य रजस्तमसी पृथग् लक्षणे ; सत्त्वं तु बन्धकत्वेन विशेषितम् । कालोऽब्दाद्याकृतिरिति । उपाधिकृतविभागैरब्दादिव्यवहारविषय इत्यर्थः । तत्तत्परिणामवान्काल इति पक्षोऽपि वक्ष्यते । ईश्वरादचेतनादणोश्च व्यवच्छेदायाणुरवगतिमानित्युक्तम् । ईशोऽन्य आत्मा – अणुव्यतिरिक्तश्चेतन इत्यर्थः । जीवे विभुत्वोक्तिरीश्वरेऽणुत्वोक्तिश्चान्यपरेति सूत्राद्युक्तम् । संप्रोक्ता, तत्परैश्शास्त्रैरिति शेषः । त्रिगुणसमधिका – त्रिगुणद्रव्यादन्या । सत्त्वयुक्ता – सत्त्वाख्यगुणविशेषवती । त्रिगुणान्यत्वं कालादेरप्यस्तीति तद्व्यवच्छेदोऽनेन कृतः । एतावन्मात्रेण त्रिगुणसाधर्म्यमित्यभिप्रायेण तथैवेत्युक्तम् । रजस्तमस्समानाधिकरणसत्त्वस्यापि तत्र सत्त्वात् ; “सत्त्वं निर्मलत्वात्प्रकाशकम्” इत्यादि समानमिति वा । ज्ञातुर्ज्ञेयाक्भासो मतिः – अहमिदं जानामीत्यहमर्थाश्रयतया सिध्यन्सकर्मकः प्रकाशो मतिरित्यर्थः । तादृशावस्थयाऽपि तद्विशिष्टं गृह्यते । द्रव्यलक्ष्म – सामान्यतो विशेषतश्चेति शेषः ॥ ७ ॥ इति द्रव्यतद्विशेषलक्षणम् ॥
1.8 एकार्थप्रत्यभिज्ञा भवति दृढतरा दर्शनस्पर्शनाभ्यां संघातादेरयोगादवगमयति सा वस्तु रूपादतोऽन्यत् । एकस्मिन् दूरतादेरविशदविशदप्रत्यभिज्ञादि तद्वत् नैकत्वेऽप्यक्षभेदाद्भिदुरमिव मिथस्संश्रयादिप्रसङ्गात् ॥ ८ ॥
1.8 ननु द्रव्यमद्रव्यमित्युभयमसिद्धं रूपादेराश्रयाभावात्, रूपादितया विकल्प्यमानस्यैकस्यैव वा सत्त्वादिति पक्षद्वयमेकेनैव प्रतिक्षिपति – एकार्थेति ॥ एवमाहुर्वैभाषिकाः – निराधारा निर्धर्मकाश्च रूपादयश्चत्वारः पदार्थाः । ते चक्षुराद्येकैकेन्द्रियग्राह्या इति ।
वात्सीपुत्रास्तु शब्दादीन् पञ्च वैभाषिका विदुः । शब्दात्मानश्चतुर्ष्वेव केचिदित्यपरेऽब्रुवन् ॥
तत्र निराधारत्वं तावत्प्रतिसन्धानविशेषेण निरस्यति । अस्ति हि दृष्टमेव स्पृशामीति द्वीन्द्रियग्राह्यवस्तुविषया धीः । सा तावन्न संशयात्मा विरुद्धानियतकोट्य(नवलम्बात्)नुपलम्भात् । न च विपर्ययः स्वारसिकबाधादृष्टेरनन्यथासिद्धेश्च । तदेतदुभयं दृढतरेति संगृहीतम् । ग्रहणमिति वक्तव्ये प्रत्यभिज्ञेत्युक्तिर्ज्ञातृज्ञेयस्थैर्यस्यापि व्यक्त्यर्था । सेयं न रूपमात्रगोचरा, तस्य स्पर्शनविषयत्वाभावात्, अन्यथाऽन्धस्यापि स्पर्शनेन रूपोपलम्भनप्रसङ्गात् । न च स्पर्शमात्रगोचरा, तस्यापि दृग्विषयत्वाभावात् । तथात्वे चास्पृशतोऽपि दृशा स्पर्शधीप्रसङ्गात् । न चोभयविषया, दर्शनस्पर्शनयोः प्रत्येकविषयत्वादेव । अत इयं प्रत्यभिज्ञा रूपाद्यतिरिक्तं तदाश्रयभूतं वस्तु प्रकाशयति, इदं रूपस्पर्शवदिति । ननु रूपस्पर्शयोर्नियताक्षवेद्यत्वेऽप्यवस्थाभेदात् प्रतिसन्धानं स्यात्; न स्यात्, न ह्यस्माकमिव स्थिरमवस्थान्तरभाक्किंचित्त्वन्मते । विभज्यवैभाषिकपक्षस्त्वतिमन्दः । तदिह संहतासंहतस्वलक्षणभेदमात्रं तु स्यात्; तत्र संघातस्वरूपं तस्य प्रतिसन्धानविषयत्वं च न युज्यते इत्याह – सङ्घातादेरयोगादिति । सङ्घातोऽपि सङ्घातिस्वरूपस्तदन्यो वा? पूर्वत्र न प्रतिसन्धानपदम्, द्वितीये सत्योऽसत्यो वा? आद्ये द्रव्यवाद एव वरं, संसर्गाख्यधर्मस्वीकारो वा; तेन परस्परविशिष्टस्वरूपमेवेत्यपि निरस्तं विशेषणविशेष्यतत्संबन्धातिरिक्तविशिष्टायोगात् । द्वितीये कथं प्रत्यभिज्ञात्मकार्थक्रियाकारित्वम्? निरन्तरस्वरूपं सङ्घात इति पक्षोऽपि प्रत्येकपक्षवन्नेन्द्रियान्तरेण प्रतिसन्धिः स्यात् । अन्यथा रसादिष्वपि संहतेषु तत्प्रसङ्गात् । एतेन देशैक्यमेव संघात इत्यपास्तम्; एकदेशान्वयिनां त्रैकालिकानामेकसंघातत्वप्रसङ्गात् । देशोऽपि तदातदा भिन्न एवेति चेन्न, क्षणभङ्गस्य निरसिष्यमाणत्वात् । न च ते देश आकाशादिरूपः, तस्य युष्माभिरावरणाभावादिमात्रत्वज्ञापनात् । न चोपादानरूपः, स्पर्शरूपादीनां भिन्नभिन्नक्षणोपादानत्वाभ्युपगमात् । एकोपादानत्वे तु तदेव द्रव्यं पृथिव्यादिदेशैक्यात्सङ्घातस्यापि संघातान्तरापेक्षायामनवस्था, अन्योन्याश्रयो वा । त्वन्मते पृथिव्यादिः रूपादिसङ्घातातिरिक्तो न; तथा पृथिव्यादेरपि देशैक्यं पृथिव्यादिसङ्घातातिरिक्तं न । अतिरिक्तं चेत्पृथिव्यादेर्देशैक्येऽपि तद्देशसङ्घातातिरिक्तं पृथिव्यादिदेशानां देशान्तरैक्यमेव प्रयोजकं स्यात् । एवं सत्यनवस्थेत्यर्थः । एवं च पृथिव्यादिसङ्घातप्रयोजकैकदेशानपेक्षायां तु रूपादेस्संहतत्वे पृथिव्यादिसंहतत्वमेव प्रयोजकं स्यात्; पृथिव्यादेस्संहतत्वे तु रूपादेस्संहतत्वमेवेत्यन्योन्याश्रय इत्यर्थः ।
अथ स्यात् गृहीतेन रूपेण पूर्वमेव स्पर्शोऽनुमितः, तत्र दृष्टरूपानुमितमेव स्पृशामीप्येव प्रतिसन्धानमिति चेन्न; द्वयोरेकाश्रयत्वग्रहणमन्तरेण व्याप्तिग्रहणासंभवादनुमानासिद्धेः । दृष्टे रूपे स्पृष्टे च स्पर्शे भेदाग्रहात् । दृष्टमेव स्पृशामीति बुद्धिशब्दाविति चेन्न, भेदेनैव तयोर्गृह्यमाणत्वात्; रसादिष्वपि प्रसङ्गाच्च । ननु निर्विषयैवेयं प्रत्यभिज्ञा वासनावशात्स्यादिति चेन्न; योगाचारनीत्या रूपादेरपि निह्नवप्रसङ्गात् । बाधाबाधाभ्यां विशेष इति चेन्न; स्वारसिकबाधादृष्टेर्यौक्तिकबाधस्य समत्वाच्च । अतो रूपस्पर्शवदिदमिति मिथो भिन्नविशेषणमेकं विशेष्यं सर्वलोकसिद्धं दुरपह्नवम् । यत्तु मतान्तरं स्पर्शमात्रस्वरूपो वायुः स्वलक्षणः, तैजसादयस्तु द्वित्रिचतुस्स्वभावाः, अतस्तेजःप्रभृतीनां द्वीन्द्रियग्राह्यत्वमिति, तदप्यसत्; एकस्यानेकस्वभावत्वायोगात्; तदभ्युपगमे च जैनमतावतारात् । अनेकधर्मत्वे त्वस्मन्मतसिद्धेः । एकस्मिन्नेव रूपादिस्वभावभेदकल्पनेति चेन्न; सर्वत्रासिद्धस्य कल्पनायोगात्, क्वचित्सिद्धौ द्रव्यवादसिद्धेश्च । एतेन भेदोपलम्भाभावादभेदसिद्धिरिति प्रत्युक्तम्, विपरिवर्तस्यैव सुवचत्वात् । न हि रूपमिदमिति घटादीन्कश्चित्क्वचित्प्रत्येति । किंतु तद्वदिति । सहोपलम्भनियमादिति हेतुचतुष्टयं च निरसिष्यामः(हे) । न च रूपादेर्धर्मिणश्च सहोपलम्भनियमः, पीतशङ्खादिभ्रमे रूपमन्तरेण रूपिणस्तमन्तरेण तस्य चोपलब्धेः । न चात्रान्यश्शङ्खस्तदानीमुत्पन्नः, नापि शङ्खरूपोऽयं पित्तविवर्तः, स्पर्शनेन स एवायं शङ्ख इति गृहीतेः । एवं स्पर्शादावपि । यदि चासौ हेतुरङ्गीक्रियते किमपराद्धं “सहोपलम्भनियमादभेदो नीलतद्धियोः” इति वदद्भिः? अतस्सहोपलम्भनियमाद्धर्मधर्मिभेद एव सिध्यति । किंच रूपस्पर्शयोस्सहधीनियमस्त्वयाऽपि दुस्साधः; अतस्तयोरयुगपदुपलम्भादभेदासिद्धावेकस्य प्रत्यभिज्ञाविषयस्य ततोऽन्यत्वं (प्र)स्पष्टम् । यत्तदन्यत्र युष्माभिरुक्तम् –
“अनुपप्लवभूतार्थस्वभावस्य विपर्ययैः । न बाधो यत्नवत्त्वेऽपि बुद्धेस्तत्पक्षपाततः ॥” इति,
तदिह प्रतिसन्धेयम् । बुद्ध्यन्तराणि च तद्बाधकान्यभिन्नेन्द्रियजन्यान्याह – एकस्मिन्निति । आसन्नदेशे दृष्ट्वा दूरं गतस्याविशदा प्रत्यभिज्ञा, दूरे दृष्ट्वा समीपं गतस्य तु विशदा; एवं क्रमात् बहलविरलालोकादिवशादप्युभयधा ग्राह्या । अल्पधर्मविशिष्टतया ग्रहणम् अविशदग्रहणम्; भूयोधर्मविशिष्टतया तु विशदग्रहणम्; नतु न्यूनाधिकदर्शनमात्रम्; तथा सति घटपटदर्शने घटमात्रदर्शने च विशदाविशदव्यवहारप्रसङ्गात् । न चात्र रूपमेवाविशदं विशदं च भाति, पीतशङ्खादिभ्रमे रूपान्तरवत्तया भातस्यापि तथा प्रत्यभिज्ञानात् । नापि परिमाणं, तस्य परमार्थस्य त्वयाऽनभ्युपगमात् । दूरे च परिमाणान्तरवत्तया वस्तुनः स्फुरणात् । अत एव नैकत्वसंख्या; दूरासन्नयोरेकानेकत्वबोधे तदेवेति दर्शनात् । अत्रोत्तरेणादिशब्देन संशयविपर्यय(धि)योर्ग्रहणम् । संशयविपर्ययौ तावदधिष्ठानग्रहे विशेषाग्रहात् समानधर्मग्रहाच्च भवतः । तथादृष्टिनियमश्च नान्यथयितुं शक्यः ।
अधिष्ठानस्य कार्त्स्न्येन भानेऽभाने च न भ्रमः । भाताभाताकृतिभिदा कथं निर्धर्मके भवेत् ॥
बाधकधीश्चाधिष्ठानातिरिक्ततदसाधारणधर्मविषया, तत्स्वरूपग्रहस्यारोपसहत्वात् । जिज्ञासा च नात्यन्तानुपलब्धे, अदर्शनात् । न च निश्शेषविदिते, वेद्याभावात् । अतस्तद्विषये विदिताविदिताकारत्वं सिद्धम् । तदिदं सर्वमभिप्रेत्य भिन्नाभिन्नवादिभिरप्युक्तम् –
“आविर्भावतिरोभावधर्मकेष्वनुयायि यत् । तद्धर्मि यत्र वा ज्ञानं प्राग्धर्मग्रहणाद्भवेत् ॥” इति । अत्रागृहीताशेषधर्मधर्मिग्रहणं तु न मृष्यामहे । यत्तु बौद्धैरुक्तम् –
“धर्मोपकारशक्तीनां भेदे तास्तस्य किं यदि । नोपकारस्ततस्तासां तथा स्यादनवस्थितिः ॥ नानोपाध्युपकाराङ्गशक्त्यभिन्नात्मनो ग्रहे । सर्वात्मनोपकार्यस्य को भेदः स्यादनिश्चितः ॥” इति ॥
तदपि मन्दम्, अन्वयव्यतिरेकसिद्धकारण(णादि)वैचित्र्यनिबन्धनस्वभावभेदवतामुपाधीनां परस्परव्यभिचारिवृत्तिनियतसामग्रीबोध्यत्वेन ग्रहणाग्रहणयोरुपपत्तेरिति । नन्वस्तु प्रतिसन्धानबलात् द्वीन्द्रियाह्यं किञ्चित्; तत्तु रूपरसाद्यात्मकमिति वा तदाश्रय इति वा न मृष्यामहे । तेषामेवाभावात् एकस्मिन्नेव ग्राहकभेदात्तत्तद्धर्मधीः, यथा मणिकृपाणदर्पणादिव्यञ्जकभेदान्मुखादेरणुत्वपृथुत्वमलिनत्वविमलत्वादिधीः, सव्यदक्षिणविपर्यासश्चेति । तमिमं पक्षं प्रतिक्षिपति – नैकत्वेऽप्यक्षभेदाद्भिदुरमिवेति । इह तावत्सर्वत्रासिद्धस्य कल्पनानुपपत्तिरुक्ता । बाधकान्तरमाह – मिथ इति । चक्षुरादिग्राहकवैजात्यं हि ग्राह्याकारभेदात्कल्प्यते । तदसिद्धौ कथं तद्ग्राहकभेदकॢप्तिः, तदभावे च कथं तत एव ग्राह्याकारभेदकॢप्तिरिति । इह तु मध्ये बुद्धिभेदप्रवेशे चक्रकम् । अस्तु कारणभेदादिन्द्रियभेदकॢप्तिरिति चेन्न; इन्द्रियवैजात्यव्यवस्थापकस्य तस्यानुपलम्भात्, तत एव तत्कॢप्तौ तत्रापि मिथस्संश्रयात् । ननु दर्पणादिग्राहकभेदाद् ग्राह्ये सव्यदक्षिणविपर्यासः, पृथुत्वाणुत्वविमलत्वमलिनत्वकल्पना च दृष्टेति चेत्सत्यम्; दर्पणादेस्तद्धर्माणां च भेदेन दृष्टत्वात्तदधीनाध्यासभेदो यथादर्शनमङ्गीक्रियते । अत्र तु न तथा । अक्षेषु च ते बहिः कल्पनीयानां रूपादीनामसंभवात् । उपाधिज्ञाननिरपेक्षेयमौपाधिकभेदधीरस्तु मण्डूकवसाक्तदृष्टेर्वंशेषूरगबुद्धिवदिति चेन्न; तत्तद्दोषशक्त्या तत्तद्भ्रान्तिभेदसिद्धेः कल्प्याकारस्य क्वचित्संभवाच्च । चक्षुरादिस्वभावा एवात्रापि रूपादिभ्रान्तिहेतवो दोषा इति चेन्न; सर्वकल्पनाधारे स्वलक्षणेऽप्यनाश्वासप्रसङ्गात् । ततश्चेन्द्रियस्वभावभेदोऽपि दुर्वचः; अधिष्ठानाकाङ्क्षायामपि बुद्ध्यैव चरितार्थत्वात् । तथा चेन्द्रियस्वभावभेदोऽपि नावेक्ष्यः; पूर्वपूर्वबुद्धिशक्तिभेदादेवोत्तरोत्तरविचित्रभेदोपपत्तेः । ननु स्पर्शनेन्द्रियस्याज्ञातैर्भागभेदैः करतलप्रकोष्ठादिवर्तिभिरस्यैव दुरालभाः स्पर्शस्योल्लेखभेदा भवन्तीति चेन्न । स्पर्शस्यात्र भेदेनानुल्लेखात् दुरालभावयवानां तु वह्निकणवच्छरीरमाविशतां तद्विकृतिजनकत्वमात्रम्; प्रदेशभेदेन विकृतितारतम्यं च वह्न्यादिभिरिव नानुपपन्नम् । ननु मनुष्यपशुमृगादीन्द्रियभेदाद्भक्ष्यादिष्वानुकूल्यादिवैपरीत्यं तत्तारतम्यं च दृश्यते । न च वस्त्वेवानुकूलप्रतिकूलस्वभावम्; विरोधात्, सर्वेषामविशेषेण सर्वदोभयविधानुपलम्भात्, अनेकान्तवादानभ्युपगमाच्च । एवं चक्षुरादिभेदाद्रूपादिभेदभ्रमस्स्यादिति; तदपि न, तत्तत्कर्मशक्तिवैचित्र्यात्तत्तदनुकूलत्वादिव्यवस्थोपपत्तेः । वस्तुषु चानुकूलत्वप्रतिकूलत्वे सुखदुःखजनकत्वे एव; तथाऽपि सुखदुःखे बुद्धिभेदावेव भवद्भिरपि स्वीक्रियेते । ततश्चात्र विषयभेदाद्धीभेदः । तस्मादेव च स इति प्रसङ्गः स्यादिति चेन्न; विषयभेदस्य स्वकारणाद्यधीनत्वात्, तदुत्पाद्यबुद्धिभेदस्य तत्कारणत्वाभावात्, द्वयोरपि परस्परप्रतीतिनिरपेक्षप्रमाणसिद्धत्वाच्च । एवमुपाधिभेदैरेकस्मिन्नेव ह्रस्वत्वदीर्घत्वधीनिदर्शनान्यपि नेतव्यानीति । अत्रादिशब्देन पूर्ववत् संशयाद्यसंभवो नीलपीतशीतोष्णमधुराम्लादिभेदासंभवश्च गृह्यते । न हि नीलादिभेदेष्विन्द्रियभेदोपाधिकत्वं शक्यं वक्तुं, रूपादिभेदमिथ्यात्वे तदन्तःपातिनीलादिभेदोऽपि मरीचिकावीचिकान्यायेन मिथ्यैव स्यादिति चेन्न; असिद्धस्यासिद्धेन दुस्साधत्वात् । मिथो निदर्शनेन साधने मिथस्संश्रयात् निदर्शनमात्रेण निश्शेषनिह्नवप्रसङ्गाच्चेति । तथाऽप्येकमनेकस्वभावमिति चेन्न । स्वरूपभेदस्यानभ्युपगमात् धर्मभेदस्याविरुद्धत्वात् ।
वेद्यहेतुफलाकारैर्भिन्नैरेका समेति धीः । तथा बाह्येऽपि दृष्टत्वाद्युगपत्क्रमशोऽपि नः ॥
प्रतिसंबन्ध्यनेकत्वं यथा नैकस्य बाधकम् । तथा संबन्ध्यनेकत्वं स्वाभीष्टे च समत्वतः ॥ ८ ॥
॥ इति द्रव्यसिद्धिद्रव्याद्वैतभङ्गौ ॥
1.9 धर्मो निर्धर्मकश्चेत्कथमिव भविता सोऽभिलापादियोग्यो धर्मेणान्येन योगे स च भवति तथेत्यव्यवस्थेति चेन्न । कश्चिद्धर्मोऽपि धर्मी स्फुटमतिमथने स्वान्यनिर्वाहकत्वं तन्निष्कर्षप्रयोगेष्वपि भवति पुनस्तस्य धर्मी विशेषः ॥ ९ ॥
1.9 एवमेकाश्रयानेकदृष्टावन्यतरनिह्नवार्थिनौ पुनरपि धर्मधर्मिभावभङ्गमुखेन प्रवृत्तौ प्रतिहन्येते; अन्यथा “अन्तस्तद्धर्मोपदेशात्” इत्याद्यनिरूढप्रायं स्यात् । नन्वनुमानं प्रमाणमिच्छन्न धर्मधर्मिभावं बाधितुमर्हति, तस्य हेतुसाध्यधर्माश्रयावश्यंभावात् । आह च धर्मकीतिर्हेतुबिन्दौ,
“पक्षधर्मस्तदंशेन व्याप्तो हेतुस्त्रिधैव सः । अविनाभावनियमाद्धेत्वाभासास्ततोऽपरे ॥ इति ॥ अन्येऽपि “ग्राह्यधर्मस्तदंशेन व्याप्तो हेतुः” इति । सत्यं, काल्पनिकहेतुसाध्यधर्मद्वारा अनुमानप्रवृत्तिः, पारम्पर्येण तु स्वलक्षणविश्रान्त्या भाक्तमनुमानप्रामाण्यमिति हि बौद्धानां रहस्यम् । तत्त्वगत्या चतुर्विधानामपि तेषां धर्मधर्मिभावः क्षेप्यः । अतस्तद्भङ्गमनूद्य प्रत्याह – धर्म इत्यादिना । अयमर्थः – यस्त्वया कश्चिद्धर्म इष्यते स निर्धर्मकः सधर्मको वा? आद्ये तस्य शब्दवाच्यत्वं न स्यात्, अविशिष्टस्य व्युत्पत्त्याद्यगोचरत्वात् । सर्वधीशब्दानां विशिष्टविषयत्वं च भवतां भाष्यादिषूक्तम् । द्वितीये तु येन धर्मेण धर्मः सधर्मकः सोऽपि पूर्ववद्धर्मान्तरेण धर्मी स्यादित्यपरापरापेक्षायामनवस्था, द्वित्रादिपर्वमात्रे विश्रम इति व्यवस्थाभावात् । धर्मत्वं च धर्माणां भावः । अतस्तस्यापि धर्मत्वं वाच्यम् । न चैतत्तस्यात्मैव, आत्माश्रयात्; न चान्यत्, अनवस्थानादेवेति चेत्, तन्न; सर्वेषां धर्माणां निर्धर्मकत्वानङ्गीकारात् । कश्चिद्धर्मोऽपि धर्मी स्फुटं – स्पष्टम् । स्फुटदृष्टं हि नापह्नोतव्यम् । त्वयाऽपि हेतुसाध्यादिधर्माणां पक्षधर्मत्वादिधर्माः स्वीकार्याः, अन्यथाऽनुमानासिद्धौ क्षणभङ्गादिसाधनायोगात् । अतिमथने – अत्यन्तचर्चायाम् । यद्वा स्फुटमतिमथने – विशदबुद्ध्या सावधानं विमर्शे सतीत्यर्थः । स्वान्यनिर्वाहकत्वं – स्वपरव्यवहारादिव्यवस्थापकत्वम् । यत्र ह्यनवस्थाभयाद्धर्मान्तरं नेष्यते तत्र निमित्तान्तरनिरपेक्षौ तद्धीव्यवहारौ । यथा गोशब्दस्य व्यक्तिवृत्तावित्थंभावभूतं गोत्वं निमित्तम्; गोत्वे तु न निमित्तान्तरमपेक्षते, आनन्त्यव्यभिचाररूपानुपपत्त्यभावात् । एवं शुक्लादिशब्देष्वपि । ननु गौः शुक्ल इत्यादिविशेष्यपर्यन्तोक्तौ तथा स्यात्; क्वचिद्गुणमात्रविषयेषु शुक्लादिशब्देषु भावप्रधानेषु द्व्येकयोरित्यादिषु त्वतलाद्यन्तेषु जातिर्गुणः क्रियेत्यादिषु च वाच्यानां तत्तद्धर्माणामिदंत्वेन निर्देशादित्थंभावसापेक्षत्वेऽनवस्था । अनपेक्षत्वे तु इदमित्थमिति हि सर्वा प्रतीतिरिति भाष्यादिविरोध इत्यत्राह – तन्निष्कर्षप्रयोगेष्वित्यादि । अयं भावः – उदाहृतेषु नियतानियतनिष्कर्षकशब्देषु जातिगुणादेः प्रधानतया निर्देशेऽपि सन्ति केचिद्यथाप्रमाणमित्थंभावाः । त्वयाऽपि हेतुसाध्यादि(दीनां) धर्माणां पक्षधर्मत्वादिधर्माः स्वीकार्याः । अनवस्था च कथंचिदुपशमनीया । स्वीकृतं च संवेदनसंवेदने शब्दशब्दादौ स्वपरनिर्वाहकत्वम् । न चात्र कर्मकर्तृविरोधः; स्वोत्पादकत्वादाविव पौर्वापर्यादिवैगुण्याभावात् । किंच स्वलक्षणादीनां जात्यादीनां च संवृत्तिसिद्धानां निर्धर्मकत्वेऽपि कथंचिदभिलापार्हत्वं त्वयाऽपि ग्राह्यम्; अन्यथा तत्तत्संव्यवहारेण कथादिप्रवृत्त्ययोगात् । अतो निर्धर्मकं शब्दवाच्यं न भवतीति स्वसिद्धान्तविरोधः, स्ववचनव्याघातश्च । आस्तामेतत्; समानाधिकरणस्येव व्यधिकरणस्यापि व्यावर्तकत्वादित्थंभावत्वं सिध्यति । तथा च नियतनिष्कर्षकप्रयोगेष्वप्येतेषु धर्मो धर्मं विशिनष्टि, यथा पटस्य शौक्ल्यं खण्डस्य गोत्वमित्यादिषु । धर्मिविशेषो धर्मस्य स्वेतरनिष्ठाद्व्यवृत्तिधीहेतुरित्यर्थः । न चात्र मिथःसंक्षयः, विशेषणविशेष्यधियोस्तद्व्यवहारयोश्च मिथो जन्यत्वाभावात् । निष्कर्षानिष्कर्षव्यवहारयोश्च विवक्षाभेदायत्तत्त्वात्; उभयधा व्यवहारस्य सर्वत्र सर्वैरपि दुरपह्नवत्वात् । यश्चात्र समानाधिकरणप्रयोगे विशिष्टत्वेनावस्थितोऽप्यर्थतः स्वधर्ममन्यनिष्ठाद्व्यवच्छिनत्ति, स एव पटस्य शौक्ल्यमित्यादिप्रयोगे गुणीभवन् कण्ठोक्तेन स्वसंबन्धेन विशिनष्टि । गोत्वं शौक्ल्यमित्यादिपदेष्वपि “तस्य भावस्त्वतला”वित्यादिविहिततद्धिताश्रयवाच्यत्वेन धीस्थ एवार्थो निष्कृष्यमाणः स्वविशेषणनिरूपकतयाऽनुशिष्यते । एवं विशेष्यस्यैव द्विधा विशेषणयोग इति व्यञ्जनाय पुनःशब्दः; निकर्षप्रयोगेषु विशेषं वा द्योतयति ॥९॥
1.10 तच्छून्ये तस्य वृत्तिः कथमिव घटते तद्विशिष्टे तु वृत्तौ स्वाधारत्वप्रसङ्गस्तत इह न गुणो नापि धर्मीत्ययुक्तम् । तद्वृत्तिर्धर्मिमात्रे न भवति तत एवास्य तच्छून्यताऽतो नोक्तौ दोषौ स्वधीवाग्विहतिरितरथा तद्वदन्येऽपि जल्पाः ॥ १० ॥
1.10 पुनरपि धर्मस्य धर्मिणि वृत्तिं विकल्प्य तदुभयमपह्नुवानं प्रत्याह – तच्छून्य इति ॥ योऽयं रूपादिः द्रव्यस्य गुणतयेष्टस्स किं स्वशून्ये वर्तते स्वविशिष्टे वा? नाद्यः; व्याघातात् । अन्यथा सर्वेषां सर्वत्र वृत्तिः किं न स्यात्? खपुष्पादीनामपि कथं निषेधः? योग्यानुपलब्ध्येति चेन्न; तदुपब्दध्यनुपलब्ध्योरपि विरोधाभावात् । किंचानुपलब्धिरभावोपस्थापनेन भावं विरुन्ध्यात्; तदा कथं तच्छून्ये तस्य वृत्तिः? न द्वितीयः, आत्माश्रयापातात् । शिष्टं विशेषणविशेष्यतत्संबन्धातिरिक्तं न किंचित्, तस्मिन् प्रमाणाभावात् । न चोक्तेषु त्रिष्वन्यतममात्रम्, तावति विशिष्टधीव्यवहारयोरभावात् । अतः संबन्ध्युभयं विशिष्टशब्दार्थ इति स्यात् । तथा च स्वविशिष्टे वर्तमानो गुणस्स्वविशेष्यमिव स्वात्मानमपि स्वाधारीकुर्यात् । किमत्रानिष्टम्? स्वस्य स्वस्मादन्यत्वम्; अभेदे कथमाधाराधेयभावः? प्रतिसंबन्धिभेदाभावात् । न चात्र भिन्नाभिन्नत्वं दृष्टं युष्मदिष्टं वा । एवं वृत्त्यनुपपत्या वा गुणगुणिनोरन्यतरपरिशेषः स्यात्, उभयपरित्यागो वेति परोक्तमयुक्तम् । कथमित्यत्राह – तद्वृत्तिर्धर्मिमात्र इति । न वयं तच्छूऽन्ये तद्विशिष्टे वा तस्य वृत्तिं ब्रूमः । अपि तु वस्तुतस्तद्विशिष्टे विशेष्ये तद्विशिष्टप्रवृत्त्यभावे तच्छून्ये वृत्तिस्स्यादेवेति चेत्तत्राह – न भवति तत एवास्य तच्छून्यतेति । यत्र यद्वर्तते तस्य कथं तच्छून्यत्वम्? न च तद्वति वर्तमानस्य तस्मिन्नपि वृत्तिरिति नियमः । घटवति भूतले वर्तमानानां गुणादीनां घटेऽपि वृत्तेरदृष्टेः । एवं घटस्यापि । ननु सर्वत्र वृत्तिविकल्पेन विशिष्टं दूषयतः किं नि(दर्श)दानम्? किं क्वचिदपि विशिष्टप्रतीतिरेव नास्ति, सत्यपि वा निष्कारणिका, सकारणाऽपि वा दुर्निरूपितकारणा, निरूपितकारणाऽपि वा निर्विषया, सविषयाऽपि वा बाधितविषयेति । नाद्यः, लौकिकपरीक्षकबहिष्कारप्रसङ्गात् । सर्वशून्यवादिनाऽपि हि संवृत्त्या विशिष्टधीरिष्यते । न द्वितीयः; कार्यस्य कारणावश्यंभावात्, तदनभ्युपगमे तु लोकायतावतारात् । इष्यते चाविद्यावासानादिभ्रान्तेरपि निदानं भवद्भिः । अत एव न तृतीयः । नापि चतुर्थः, स्वपरलोकव्यवहारविरोधादेव । कथं किलासौ विशिष्टप्रतीतिः? कथं च निर्विषया? न पञ्चमः; अद्यापि बाधस्याशामोदकायमानत्वात् । विकल्पप्रामाण्यं च वक्ष्यते । अतो यथादर्शनं क्वचित्किंचिद्वर्तते न स्वस्मिन्निति व्यवस्थिते त्वदुक्तौ व्याघातात्माश्रयदोषौ न स्त इत्याह – अतो नोक्तौ दोषाविति । अन्यथाऽनिष्टमाह – स्वधीवाग्विहतिरितरथेति । स्वधीविहतिः स्ववाग्विहतिः स्वधीवाग्विहतिरिति प्रत्येकसमुदायपरं योज्यम् । कथं तवापि विशिष्टधीविरहे तद्विषयव्याहारव्यवहारावुदाहरणोपनयौ च वस्तुतस्तद्धर्मविशिष्टविषयौ? बुद्धिस्स्वप्रकाशा अभिन्नदेशकालं स्वलक्षणम् कल्पनापोढमभ्रान्तं प्रत्यक्षं प्रतिवादिवाक्यमसाधकं विशिष्टं नास्तीत्यपि विशिष्टमात्थ; तच्च विशिष्टविषयस्वधीविरुद्धमिति । ननु सन्त्यन्येऽपि धर्मधर्मिभावभञ्जकाः परेषां प्रसङ्गाः ते कथमुद्धार्या इत्यत्राह – तद्वदन्येऽपि जल्पा इति । अन्येऽपि नित्यसमाधिरूपाः शुष्कप्रलापास्तद्वन्निरस्तवाक्यैस्तुल्यं वर्तन्ते । उत्थानपरिहारप्रकारभेदेऽपि स्वव्याघातादिदोषाविशेषादित्यर्थः ।
घटकुड्यवदन्यत्वेऽनन्यत्वे तु स्वरूपवत् । न गुणस्य गुणत्वं स्यादित्यसत्स्वोक्तिबाधतः ॥
दूष्यादन्यदनन्यद्वा दूषणं न तु दूषणम् । गर्दभादिवदन्यत्वेऽनन्यत्वे दूषणीयवत् ॥
एवं संबद्धत्वासंबद्धत्वसमानकालत्वासमानकालत्वयुगपद्ग्राह्यत्वायुगपद्ग्राह्यत्वादिविकल्पस्य बाधास्तदुद्धाराश्च विशुद्धबुद्धिभिरवधातव्याः, दूष्येणापि संबन्धादिविकल्पदोषसाम्यादिति ॥ १० ॥ इति धर्मधर्मिभावः ॥
1.11 स्वच्छन्देनागमेन प्रकृतिमहदहङ्कारमात्राक्षसिद्धिर्नाध्यक्षेणाप्रतीतेर्न पुनरनुमया व्याप्तिलिङ्गाद्यसिद्धेः । सत्त्वाद्युन्मेषभिन्नान्महत इह तथा स्यादहङ्कारभेदः प्राच्यादक्षाणि मात्राः प्रजनयति परो मध्यमस्तूभयार्थः ॥ ११ ॥
1.11 एवं द्रव्याद्रव्ये सामान्यतः प्रसाध्य द्रव्येषु प्रथमोद्दिष्टं त्रिगुणमादौ परीक्ष्यते । तत्र कश्चिदाह – धीमन्निदर्शनतया प्रसिद्धस्सुरगुरुर्लोकायतं शास्त्रमारभ्य पृथिव्यादीनि चत्वार्येव तत्त्वान्याह । अधिकानि तु तावन्मात्रविभागोद्देशादपोढानि, अतिरिक्तचेतननिषेधाच्चेति । अत्र किं लोकायतसूत्राणि स्वयंप्रमाणतयोपादीयन्ते? तदुपस्थापकतया वा? नाद्यः; असम्मतेः, गुरूक्तेश्च विरोचनोपदेशवदसुरमोहनार्थत्वात् । न द्वितीयः, उक्तेषु विवादाभावादधिकानां निषेधस्य निष्प्रमाणकत्वात् । अनुपलब्ध्या निषेध इति चेन्न; योग्यानुपलब्धेरभावादितरस्य निषेधकत्वायोगात् । उपलब्ध्या चेच्चतुर्णामुपादानमाकाशेन किमपराद्धम्? अस्ति ह्यासंसारं तदुपलम्भः । न चात्रास्पर्शत्वादिभिर्बाधः; अरूपत्वादिना वाय्वादेरपि निह्नवप्रसङ्गात् । शेषं च वक्ष्यामः । अथोपलम्भबलादस्त्वाकाशमपीति चेत्, तथैव भिन्नाभिन्नभवानुभूतार्थप्रतिसन्धाताऽप्यभ्युपगन्तव्यः । अस्तु तर्हि षड्धातुवादः अध्वर्युभिस्तथाऽध्ययनादिति चेत्तर्ह्युद्गातृभिश्चतुर्णामध्ययनाच्चतुर्धातुवादः स्यात् । अनुक्तमविरुद्धमन्यतो ग्राह्यमिति चेत्समानम्; भूयसां च प्राबल्यादुपबृंहणप्राचुर्याच्च । न चात्र मिथो विरोधान्निरर्थकार्थवादमात्रता, सम्यङ्न्यायानुग्रहमात्रेण बलाबलदृष्ट्या विरोधशान्तेः । केचित्तु प्रकृत्यादिशब्दैरदृष्टादिकं कथ्यत इत्याहुः । यथाऽऽहोदयनः- ‘इत्येषा सहकारिशक्तिरसमा माया दुरुन्नीतितो मूलत्वात्प्रकृतिरित्यादि, तदेतदषष्ठु; नियतक्रमानुपूर्वप्रकृतिविकृतिपरम्परोपदेशात्, बाधाभावे भाक्तत्वायोगात्; अन्यथा सर्वत्र श्रुतहान्यश्रुतकल्पनाप्रसङ्गाच्च । तदेतत्सर्वमभिप्रेत्याह – स्वच्छन्देनेति ॥
साधकबाधकप्रमाणाभावे विशिष्टार्थबोधनसामर्थ्यमागमस्य स्वाच्छन्द्यम् । आगम इह श्रुतिस्मृतीतिहासादिः । कारणदोषबाधकप्रत्ययविरहादस्मदाद्यतीन्द्रियविषयं शास्त्रमपि प्रत्यक्षवच्छ्रद्धेयमेव । अत आगमिकानामपि सद्भावनिश्चय इति सिद्धिशब्दाभिप्रायः । ननु प्रत्यक्षसिद्धं पृथिव्यादितत्त्वं, तच्च कार्यावस्थं प्रकृतिद्रव्यमेवेति ब्रूथ, तथा सति कारणावस्थमपि तदेवेति कथं तस्याप्रत्यक्षत्वम्? अश्रुतागमैरप्रतिसंहितव्याप्तिभिश्च बालादिभिरपि चक्षुरादिकरणानि व्यवह्रियन्ते । अतः कथं तेषामागमिकत्वम्? तत्राह – नाध्यक्षेणेति । प्रत्यक्षविरुद्धेयं प्रतिज्ञेत्यत्राह – अप्रतीतेरिति । नहि प्रकृत्याद्यवस्थस्य प्रत्यक्षतः प्रतीतिरस्ति । अवस्थादिभेदैरेकस्यैव प्रत्यक्षत्वाप्रत्यक्षत्वे बहुलं लोकदृष्टे । चक्षुरादिव्यवहाराश्च लौकिकानां तत्तदधिष्ठानमात्रविषयाः । मनसा जानामीत्युक्तिरपि धीविशेषविषया । अहमिति प्रत्यक्षं तु न महत्तत्त्वविषयमहंकारविषयं वा, प्रत्यगात्मन एवाहमिति भानात् । अध्यवसायादयोऽपि वस्तुत आत्मधर्माः; करणभेदायत्ततया तु त[त्त]द्वृत्तित्वोपचाराः । दृष्टेषु पृथिव्यादिष्वपि शास्त्रैकवेद्याः कतिकति न सन्त्याकाराः? किं पुनरन्येषु? अतो लोकोत्तीर्णाकारेण त्रिगुणस्य शास्त्रवेद्यत्वम् । एषां च तत्त्वानां तदवान्तरभेदानां च यथागमं यथादर्शनं च लक्षणं ग्राह्यम् । केषुचित्क्षीरगुडादिरसभेदवद्दुर्वचा अपि भेदास्त्वनुभवादिसिद्धा दुरपह्नवाः । ननु सांख्योक्तैरनुमानैः प्रधानादिसिद्धिः स्यादित्यत्राह – न पुनरनुमयेति । न त्वनुमानैरित्यर्थः । तत्र हेतुः – व्याप्तिलिङ्गाद्यसिद्धेः – यथासंभवं व्याप्तिलिङ्गपक्षदृष्टान्तानामसिद्धेरित्यर्थः । तथा हि – यत्तावदुक्तं कारणगुणात्मकत्वात्कार्यस्याव्यक्तमपि सिद्धमिति, अयमर्थः – यत्कार्यं तत्कारणगुणात्मकं यथा तन्त्वादिगुणात्मकं पटादि । तथा महदादिकार्यजातमपि सुखदुःखमोहात्मकतया स्वकारणगतसुखदुःखाद्यात्मकं भवति । अतस्तत्कारणं सुखदुःखाद्यात्मकं प्रधानमिति । तत्र पटादेः किमिदं कारणगुणात्मकत्वम्? किं कारणगुणतादात्म्यमुत कारणं प्रति गुणभूतत्वम्? अथाप्रधानत्वम्? कारणगुणैर्गुणित्वं वा? तत्सजातीयगुणवत्त्वं वा? अन्यद्वा किंचित्? नाद्यः, असिद्धेः । न खलु तन्त्वादिगुणैः शौक्ल्यादिभिः पटस्य तादात्म्यं दृष्टं, तथा सति गुणवत्तन्तुनिष्पत्तिमात्रेण पटनिष्पत्तिप्रसङ्गात् । न चायमिष्टः प्रसङ्गः; अभिव्यक्तिवादादेरपाकरिष्यमाणत्वात् । अत एव न द्रव्यस्य गुणतादात्म्यम्; शुक्लः पट इति च न पर्यायः । न द्वितीयः, अदृष्टेरेव । तन्तुसमवेतत्वात्पटस्य तन्तुगुणत्वोक्तिरिति चेन्न; अवयविसमवाययोस्त्वयाऽप्यनभ्युपगमात् । पटस्य तन्तुनिष्ठत्वमुपलब्धमिति चेत्, किमतः? कार्यावस्थानां कारणद्रव्यवर्तित्वमात्रसाधनापत्तेः । तथा च न कारणावस्थस्य सुखद्यात्मकत्वसिद्धिः । कारणमात्रं तु सिद्धत्वान्न साध्यम् । तृतीयेऽपि किमिदं कार्यस्य कारणं प्रत्यप्रधानत्वम्? तत्कार्यत्वमिति चेन्न; सिद्धसाधनात्, साध्याविशेषाच्च । न ह्यकारणेन किंचित्कार्यमिच्छामः । कारणसहकारित्वादिसाधनेऽपि न विवक्षितसिद्धिः । न चतुर्थः, अवयविवादे तन्तुपटोदाहरणायोगात् । तत्र हि तन्तुगुणैः पटगुणा जन्याः । द्रव्यनित्यत्ववादे सिद्धसाधनात्; कार्यावस्थस्य कारणावस्थानियतगुणसाधने विरोधात् । पञ्चमस्तु विलक्षणमहत्त्वाद्यधिकरणत्वान्निरस्तः । सजातीयगुणसद्भावमात्रे साध्ये सिद्धसाधनात्, सर्वगुणासजातीयत्वसाधने कार्यकारणयोरविशेषप्रसङ्गात् । मृत्सुवर्णादिवत्कार्यविशेषव्यवस्थापककारणस्वभावसाजात्यविवक्षायां गोमयमाक्षिकाद्यारब्धवृश्चिकादिषु व्यभिचारात् । तदभिप्रायं च सूत्रं दृश्यते त्विति । नापि षष्ठः, तस्य त्वद्बुद्धिमात्रारूढस्यादूष्यत्वात् । लोकदृष्टस्य तु कस्यचिदुक्तोत्तरप्रायत्वात् । अतः कर्मणां स्वविषयस्वरूपफलप्रदत्वानुमानवत्कार्याणां स्वगुणसरूपगुणकारणत्वानुमानमप्यनैकान्त्यदुःस्थमिति । ये च भेदानां परिमाणादित्यादिना हेतव उक्तास्तत्र तावद्यत्परिमितं तत्सकारणकमित्यत्र न व्याप्तिर्जीवाणुत्वनित्यत्वयोस्साधयिष्यमाणत्वात् । महदादीनां स्वरूपमनुमानसिद्धं वा पक्षीक्रियते? आगमसिद्धं वा? नाद्यः, तल्लिङ्गासिद्धेः । ननु चिच्छक्तेरेव स्वतो विषयप्रवणतायामनिर्मोक्षप्रसङ्गात् अस्ति किंचिद्द्वारम्; तत्तु न चक्षुरादिमात्रं, तदुपरमेऽपि सङ्कल्पाद्युत्पत्तेः । नापि मनोमात्रविश्रमः, तत्प्रशान्तावपि स्वप्ने मनुष्यस्य स्वात्मनि व्याघ्राद्यभिमानात् । नाप्यहङ्कारे पर्यवसानं, तद्विरामे सुषुप्तौ प्रश्वासनिश्वासहेतुभूतप्रयत्नाधारस्य महतस्सिद्धेः । न च तदवधिस्तत्त्वपङ्क्तिः, तस्यापि परिमितत्वेन कार्यत्वात्; तत्कारणं त्वव्यक्तं न परिमितमित्यत्र प्रमाणमस्ति । तत्कल्पनायां त्वनवस्थापातः, अतोऽव्यक्तमपरिमितमादिकारणमिति वृत्तिभेदसिद्धैर्महदादिभिरव्यक्तानुमानं स्यात् । तदेतत्कथामात्रम् । स्वतस्सर्वग्रहणयोग्याऽपि हि पुंसां चिच्छक्तिस्संसारावस्थायां कर्मणा संकुचन्ती कर्मोत्पन्नैरेव द्वारैर्यथाकर्म प्रसरतीति तु त्रय्यन्तवृद्धाः । नापि सङ्कल्पादिभिर्मनःकॢप्तिः, संस्कारप्रनाड्याऽपि तदुपपत्तेः । अन्यथा मनसाऽपि तदुत्पादनायोगात् । करणस्य च द्रव्यत्वं नावश्यापेक्षितम् । न च स्वप्ने व्याघ्राद्यभिमानादहङ्कारकॢप्तिः, मनसैव तादृशसंस्कारसध्रीचा तदुपपत्तेः । निश्वासादिहेतुभूतप्रयत्नाधारतया महत्कॢप्तिरप्ययुक्ता । अदृष्टवशादेव बाह्यस्येवान्तरस्यापि मरुतः स्पन्दनोपपत्तेः । न चादृष्टस्यापि महत्तत्त्वाश्रयत्वमितःपूर्वं सिद्धम् । यदा चेश्वरप्रयत्नाधीनत्वमुच्छ्वासादेस्सेत्स्यति, तदा क्षेत्रज्ञस्यापि न जीवनपूर्वकः प्रयत्नः कल्प्यः । किमुत कस्यचिदचिद्द्रव्यस्य? परिमितत्वं तु महतः कुतस्त्यम्? अन्तर्देहमेव तत्प्रवृत्त्युपलम्भादिति चेन्न; त्वत्पक्षे विभोरप्यात्मनः शरीरावच्छिन्नप्रदेश एव व्यापारावेशवद्विभोरपि महतस्सहकारिविशेषसामर्थ्यात् क्वाचित्कप्रवृत्तिसंभवात् । न च वृत्तिभेदमात्रादन्तःकरणभेदकॢप्तिर्युक्ता । “कामस्सङ्कल्प” इत्यादिना मनस्येव बहुविधवृत्तिश्रुतेः । कामादीनां मनस्सामानाधिकरण्यम् “आयुर्घृतमितिवद्भाक्तम्”; महतश्च त्वया मिथो विरुद्धभावाष्टकसुखदुःखाद्याश्रयत्वस्वीकारात् । बाह्येन्द्रियमनोहङ्काराणामालोचनादिवृत्तिभेदाश्रयणमप्ययुक्तम्, महत एव सहकारिभेदात् सर्ववृत्त्यविरोधात् । अत एव शास्त्रतो महदादितत्त्वसिद्धावपि तेषां पृथक्करणत्वं वृत्त्याश्रयत्वं वा न कल्प्यम् । एवं चक्षुरादिष्वालोचनोक्तिरपि नेया । न द्वितीयः, महदादीनामागमतस्सिध्यतां साक्षात्परम्परया वा प्रधानजन्यत्वसिद्धेः, अनुमातव्याभावात् ।
एकप्रमाणवेद्यत्वे कार्यकारणयोर्मिथः । बोध्यबोधकते न स्तः सहदृष्टाग्निधूमवत् ॥
विप्रतिपन्नं प्रत्यनुमानं सार्थकमिति चेन्न; महदादीनभ्युपेत्यानभ्युपेत्य वा तेष्वव्यक्तकारणकत्वविप्रतिपत्त्ययोगात् । यदप्याहुः कार्याणां स्वाधिकपरिमाणादुत्पत्तिर्नियतेति, तदप्यसत्; वस्त्रादिषु वैपरीत्यदृष्टेः । अव्यक्तस्य च परिच्छिन्नत्वं “तमसः परस्तान्मृत्युं भिनत्ति” इत्यादिशास्त्रशतसिद्धम् । व्याप्तिवचनं तदनन्तमसंख्यातप्रमाणं चेत्यादिकमपि विभुत्वमन्तरेणापि स्यात् । घटादीनामपि स्वन्यूनपरिमाणैः पिण्डाद्यवयवैरेवोत्पत्तिरिति समन्वयश्च कुत्र? केषाम्? कीदृशः? सुखादिरूपेषु कार्येषु सत्त्वादीनां समनुगतिरिति चेत्, किमतः? न हि यद्येष्वनुगतं तत्तेषां कारणमिति नियमः, शौक्ल्यगोत्वादेरनेकानुगतस्य तत्कारणत्वाभावात् । अन्यथा व्यक्ताव्यक्तसाधारणधर्माणां तदुभयकारणत्वप्रसङ्गात् । तथा च तत्त्वाधिक्यप्रसङ्गः । एतेन विगीतं स्वानुगतकारणकं कार्यत्वाद्धटशरावादिवदित्यपि निरस्तम् । घटादिष्वनुगतस्य मृत्त्वस्य तत्कारणत्वासिद्धेः, मृद्द्रव्यस्य तु घटाद्यात्मना विभक्तस्याविभक्तस्य वा तेष्वनुगतत्वादृष्टेः । यदप्येकरूपान्वितत्वादेकोपादानत्वमिच्छन्ति, तदपि स्वपरमतनिर्धूतम्, सर्वथा सारूप्ये हेतौ तत्त्वभेदभङ्गप्रसङ्गात्; यथाकथंचित्सारूप्ये तु व्यभिचारात्, साक्षादेकोपादानत्वसाधने सृष्टिक्रमादिशैथिल्यं स्यात् । मृत्तन्त्वाद्युपादानभेदश्च निह्नूयते । परम्परयेति तु मृद्धटादिनिदर्शनविरुद्धम् । नित्येषु च पुरुषेषु साक्षित्वादयो धर्मास्साधारणा युष्माभिरेव पठ्यन्ते, नतु तेषां हेतव इष्टाः । व्यक्ताव्यक्तयोश्च “त्रिगुणमविवेकि” इत्यादिसाधर्म्यपाठादेकोपादानत्वप्रसङ्गः । कार्यत्वे सतीति विशेषणेऽपि मृत्पिण्डद्वयारब्धघटादिभिर्गोमयादिनानोपादानवृश्चिकादिभिश्चानैकान्त्यम् । [बह्वा]तन्त्वारब्धपटादिभिश्च तेषामपि पक्षीकरणे दृष्टान्तासिद्धिः । [अविदित]व्यतिरेकिहेतुविवक्षायामपि न दृष्टः कारणभेदोऽपह्नोतुं शक्यः । नापि कारणान्तरमेकं विधातुं, दृष्टैरेव हेतुभिरदृष्टघटितैः कार्याणां चरितार्थत्वात् । न च शास्त्रमन्तरेण जगतस्सत्त्वादिगुणसमन्वयसिद्धिः, येन तन्मयं कारणमुन्नीयेत । ननु सुख्यामि दुःख्यामि मुह्यामीति स्वानुभवसिद्धास्तावत्सुखादयः, ते च कार्यभूताः स्वानुरूपं कारणमाक्षिपन्ति । तथातथा तेषुतेषु विषयेषु कालभेदेन पुरुषभेदेन च प्रीत्यप्रीतिविषादजनकत्वं दृष्टम्, तदपि तत्तद्गतविचित्रगुणविशेषहेतुकं युक्तमिति । तन्न; संप्रतिपन्नदृष्टादृष्टहेतुशक्त्यैव सर्वोपपत्तौ तदतिरिक्तत्रैगुण्यकॢप्त्ययोगात् । गुणानां कार्यैकनिरूपणीयत्वभाषणमपि शास्त्रोपज्ञम् । अन्यथा त्रैगुण्योन्मेषभेदस्याप्यतिरिक्तनिर्वाहकत्रैविध्यकॢप्तावनवस्थाप्रसङ्गात् । सामग्र्यनवस्था तु सिद्धा न क्वापि दोषाय, प्रत्युत गुणायेति सर्वैरेष्टव्या । गुणत्रयात्मकं च कारणमिच्छतस्ते विश्वस्यैकोपादानत्वं दुर्वचम् । ननु साम्यावस्थानां सत्त्वरजस्तमसां सङ्घातः प्रकृतिः; अतः कारणैकत्वं स्यात् । तन्न, चित्रपटारम्भकशुक्लकृष्णरक्ततन्तुसङ्घातन्यायेन सूक्ष्मदृष्टौ कार्याणां यथास्वं कारणभेदस्यैवाङ्गीकारात् । ततश्च भेदानां भिन्नत्वे सति विका(र)रित्वादभिन्नहेतुकत्वकॢप्तिश्च निरस्ता; सत्त्वादीनां भिन्नत्वाद्विकारित्वाच्च । अथ तत्त्वाभिन्नकारणान्तरकॢप्तिः, तथा सति स्वाभीष्टतत्त्वसंख्याविरोधः; सत्त्वादिद्रव्यभेदाभ्युपगमाच्च । “शक्तितः प्रवृत्तेश्च” इत्येतदपि मन्दम् । यदि कारणशक्तितः कार्यं प्रवर्तते कथमव्यक्तसिद्धिः? ननु कारणशक्तिर्नाम सत्कार्यपक्षे न कार्यस्याव्यक्तत्वादन्या । यथा हि तिले तैलस्य । अतस्सर्वकार्योपादानव्यक्तसिद्धिरिति । मैवम्, यदि तैलाश्रयतिलवदव्यक्तावस्थाश्रयस्वीकारः, तदा पूर्ववत्स्वेष्टतत्त्वसंख्याविरोधः । अथ न, विषमस्तिलदृष्टान्तः । नोदाहरणमादर्तव्यम्; क्षीराद्दधिवत्सूक्ष्मावस्थात्स्वस्मादेव जगदुत्पत्स्यत इति । तथाऽपि संप्रतिपन्नावधिस्तत्त्वपङ्क्तिरस्तु । यद्वा तदपि सूक्ष्म सूक्ष्मान्तरादिति कथं तत्त्वेयत्ता? एतेन सांख्यानां सूक्ष्मशरीरकॢप्तिश्च निरस्ता । यदाहुः – पूर्वोत्पन्नमव्यक्तमित्यादिना, तन्न; नह्यत्र लिङ्गशब्दोक्तसूक्ष्मशरीरसद्भावे प्रमाणमिति स्थूलवत्प्रत्यक्षम्, कैश्चिदप्यनुपलम्भात् । विभोरात्मनस्स्वर्गादिगत्युपदेशान्यथानुपपत्त्या तत्कॢप्तिरिति चेन्न; तत्कॢप्तावपि युष्मन्मते तद्गतेरात्मन्युपचारात् । ततो वरमदृष्टशक्त्या तत्रतत्र देहोत्पत्तिमात्रेण तत्तद्देशगत्युपचारः । ननु स्थूलदेहद्वयान्तरालवर्ती क्षेत्रज्ञस्तत्कालीनदेहवान्, क्षेत्रज्ञत्वात्; यस्तथा स तथा यथा कालान्तरवर्तोत्यनुमीयेत । मैवम्; विपक्षे बाधकाभावात्; गत्युपदेशानुपपत्तेः परिहृतत्वात् । अशरीरत्वे मुक्तत्वप्रसङ्ग इति चेन्न; प्रलयवदविरोधात् । तत्रापि सूक्ष्माचिद्विशिष्ट एव पुरुष इति चेन्न; अत्रापि तावन्मात्रसाधने सिद्धसाधनात् ।
आगमस्तु गत्यवस्थायां पूर्वशरीराकृष्टसूक्ष्मावयवसङ्घातमात्रेणापि गतार्थः । “सूक्ष्मं प्रमाणतश्च तथोपलब्धेः” इति सूत्रमपि तावन्मात्रविषयम् । पुर्यष्टकशरीरोक्तिश्च न शरीरान्तर्वर्तिसूक्ष्मदेहसद्भावपरा । “कारणकार्यविभागादविभागादिति हेतुश्च महदादिपक्षसिद्ध्यसिद्धिविकल्पेन निरस्तः । किंच कार्याणां सतां क्वचित्कारणे विभागाविभागौ नियताविति कृत्वा विचित्रस्य कार्यवर्गस्य विभागाविभागस्थानतया प्रधानं सिषाधयिषितम् । न त्वेवं नियमः; यथा मृदादिषु घटादीनामेतौ दृष्टौ न तथा तन्त्वादिषु पटादीनाम् । न हि तन्त्वेकदेशात्मकः पटः येन घटादिन्यायः स्यात् । एकस्मादनेकोत्पत्तिनियमश्चानेन भग्नः, त्वयाऽपि संहतेस्सत्त्वादिभिर्जगदारम्भोक्तेश्च । यत्र कार्याणां विभागाविभागदृष्टिः न तत्र सर्वत्रोपादानत्वम्, निमित्तेऽपि क्वचित्तद्दृष्टेः अरणेरिवारणेयस्य । न हि काष्ठे पार्थिवांशो वह्नेरुपादानम् । न च वह्न्यंशो धूमस्य । एवं सति नाव्यक्तस्यैव सिद्धिः । विश्वनिमित्तस्यापि कस्यचिदेवमनुमातुं शक्यत्वात्, तस्य च विजातीयस्यापि संभवात् । किंच यथा मृदवयवसङ्घाते घटादेरविभागादिः, तथा पार्थिवाद्यणुसङ्घाते तत्तद्भूतभौतिकानां स किं न स्यात्? ततश्च का कथा तदतिरिक्ततत्त्वकल्पनायाम् । कृत्स्नैकदेशसंयोगानुपपत्त्याऽणुसङ्घातस्य कारणत्वकॢप्तिरयुक्तेति चेन्न; सत्त्वादिविभुद्रव्यसङ्घातस्यापि तत्रैव संयोगविकल्पावतारात् । अणूनां मिथः कार्त्स्न्येन संयोगे पृथुकार्यानुपपत्तिस्स्यात्, न तु विभूनामिति चेन्न; तेषामपि मिथः कार्त्स्न्येन संयुक्तानां स्वापेक्षयाऽल्पपरिमाणबहुकार्योत्पत्तौ प्रतिकार्यं कारणस्य कृत्स्नैकदेशवियोगविकल्पे कार्यान्तराणामनुत्पत्तिर्वा कारणस्य सावयवत्वं वा स्यादिति चर्चा स्यात् । श्रौते तूपादाने “श्रुतेस्तु शब्दमूलत्वात्” इति समाधानं सूत्रितम् । अपि च क्षीरदधिरुचकस्वस्तिकादिन्यायेन स्वस्यैव पूर्वावस्थाविशेषवतस्स्वोपादानत्वे सिद्धे किमन्यत्र कुत्रचिदविभागादिगवेषणया? घटादयोऽपि मृत्पिण्डादिषु तत्तदंशैरेवोपादीयन्ते न तु पिण्डादिभिः । कूर्मावयवदृष्टान्तश्चात्र मन्दः, तत्र ह्याकुञ्चनप्रसारणाभ्यामवयवान्तरावृतानावृतत्वसिद्ध्या भवत्यव्यक्तव्यक्तावस्थाभेदः, न तूपादानोपादेयभावात् । न च तत्र कस्यचिदवयवनाशोत्पत्तिव्यवहारः । अतो न कथंचिदप्यनुमानादव्यक्तादिसिद्धिः ।
आगमेन विना सिद्धिस्तन्मात्राणां च दुर्वचा । उद्भवानुद्भवाद्यैस्तु लोके सूक्ष्मादिकल्पना ॥
अक्षेषु वचनादीनामनुपहतैस्सहकारिमद्भिस्तदवयवविशेषैरेवोपपत्तौ न तावत्कर्मेन्द्रियकॢप्तिः; रूपादिज्ञानादीनां च तत्तदधिष्ठानभेदैरेव तदनुगुणदशाविशेषितैस्संभवात्; तदतिरिक्तकल्पनेऽपि काणादादिकल्पितन्यायेन स्मृतिविशेषनुगृहीतेन भौतिकोपपत्तेराहङ्कारिकेन्द्रियसिद्धिरनागमतो न भवति ।
कल्पनागौरवभयात्कलाकाष्ठाद्यकल्पयन् । अविशेषात्प्रधानादिकल्पनामप्यपास्य तु ॥
षड्विंशत्तत्त्ववादश्च यदि युक्त्या समर्थ्यते । सांख्यवत्प्रतिवक्तव्यो न विस्रम्भस्तदागमे ॥
तं षड्विंशकमित्याहुस्सप्तविंशमथापरे । इत्यत्र न विरोधस्स्याच्छ्रुतिमात्रानुसारतः ॥
एवमागमिकेषु महदादिषु कालभेदनियतविकारभेदाधीनं विशेषमाह – सत्त्वादीति । गुणत्रयाश्रयात्प्रधानात्सत्त्वादिगुणोन्मेषभेदेन सात्त्विको राजसस्तामसश्चेति त्रिधा महानुत्पद्यते । त्रिभ्यश्च महद्भ्यस्तथैव त्रिविधोऽहङ्कारः । तत्र प्राच्यादेकादशेन्द्रियाणि । परस्तु भूतादिसंज्ञस्तन्मात्राः क्रमाज्जनयति । मध्यमस्तैजसाख्यः पूर्वापरयोरनुग्राहकतया तदुभयसाध्यसृष्टिद्वयार्थः । तुशब्दो मतान्तराद्व्यवच्छिनत्ति । कल्पितं हि कैश्चित्तन्त्रान्तरनिष्ठैः कर्मेन्द्रियाणां प्रवृत्तिशीलतया राजसाहङ्कारजन्यत्वम्; तच्चायुक्तं शब्दैकगम्येऽर्थे युक्तिभिरन्यथाकरणायोगात् ॥ ११ ॥इति प्रकृतिमहदाद्यागमिकतासृष्टिप्रकारौ ॥
1.12 तत्राहङ्कारजन्यं भजति परिणतैः शब्दमात्रं नभस्त्वं तद्वत्तन्मात्रपूर्वास्तदुपरि मरुदग्न्यम्बुभूम्यः क्रमात्स्युः । सूक्ष्मस्थूलस्वभावस्वगुणसमुदयप्रक्रियातारतम्यात् तन्मात्राभूतभेदः कललदधिनयात् कल्पितस्तत्त्वविद्भिः ॥ १२ ॥
1.12 एवं प्रकृत्यादीनामागमगम्यत्वं सृष्टिप्रकारं च संजगृहे । अथ तेषु तन्मात्रसृष्टौ श्रुतिस्मृतिविप्रतिपत्तेस्संशयं विपर्ययं वा निरस्यति-तत्रेति ॥ श्रूयते हि “तन्मात्राणि भूतादौ लीयन्त” इति । नच श्रुतिविरुद्धा स्मृतिरुदीयेत; अतः पञ्चानामपि तन्मात्राणां तामसाहङ्कारादुत्पतिः । बहुवचनात् बहुत्वस्य च प्रसिद्धितो नियमः । भूतानां तु यथास्वं तन्मात्रेभ्यः क्रमादुत्पत्तिरिति कश्चिन्मन्यते । तं प्रति ब्रूमः- न ह्यनुपबृंहणा श्रुतिराप्ततमा । अन्योन्यघटितानेकोपबृंहणविरोधे तदनुगुणं नेतव्या । अतः पाशवद्बहुवचनमनादरणीयम् । अंशभूयस्त्वव्यक्त्यर्थं वा । तस्माच्छब्दतन्मात्रमेकमहङ्कारजन्यम्, तच्च परिणतिविशेषादाकाशत्वं भजते । एतेन सर्वत्र सृष्टौ द्रव्यानुवृत्तिस्सूच्यते । तद्वत् – आकाशवत् । तन्मात्रपूर्वाणि वाय्वादिभूतानि स्युः । ननु यदि शब्दाद्याश्रयतया तत्तद्भूतत्वं तर्हि कथं तत्र पञ्चकद्वयत्कॢप्तिरित्यत्राह – सूक्ष्मेति । स्वगुणा इह शब्दादयः, तेषां समुदय उत्पत्तिः । तत्प्रक्रियातारतम्यं सूक्ष्मस्थूलस्वभावतयैव । तच्च शास्त्रगम्यम् । कललशब्दोऽत्र दुग्धदधिमध्यावस्थाविषयः । तत्र हि निवृत्तभूयिष्ठमाधुर्यमीषदम्लत्वमुपलभ्यते तथा स्यात् ॥ १२ ॥ इति तन्मात्रभूतसृष्टिप्रकारः ॥
1.13 अद्भ्योऽग्निस्तेजसस्ता इति न हि वचसोर्बाधितुं युक्तमेकं निर्वाहः कल्पभेदाद्यदि न दृढमितात्तत्त्वसृष्ट्यैकरूप्यात् । व्यष्टौ ताभ्यः कदाचित्तदुपजनिरतो व्यत्ययस्तत्समष्टौ आदावप्सृष्टिवादश्श्रुतिमितमितरन्न प्रतिक्षेप्तुमीष्टे ॥ १३ ॥
1.13 एवं तन्मात्रभूतसृष्टिप्रकार उक्तः । तत्र तोयतेजसोः सृष्टौ प्रमाणविप्रतिपत्तिं शमयति – अद्भ्योऽग्निरिति ॥ अबाधेन गतिमत्त्वे श्रुतिविरोधप्रतीतावपि स्मृतिस्तद्वदबाध्येति भावः । गत्यन्तरं निवारयति – निर्वाह इति । स्वेष्टां गतिमाह – “व्यष्टौ” इति । निमित्तभूताभ्य इति भाव्यम्, अतश्शब्दो हेतुमवधिं वा ब्रूते । ननु “आपो वा इदमग्रे” “अप एव ससर्जादावित्यादिश्रुतिस्मृतिदर्शनादग्न्यादेस्सर्वस्याद्भ्यस्सृष्टिस्स्यादित्यत्राह – आदाविति । महदादीनामिवाग्नेरप्यद्भ्यः पूर्वभावित्वं बहुश्रुतिस्मृतिसिद्धमतस्तदविरुद्धं दुर्निवारमित्यर्थः । श्रुतिषु च न्यूननिर्देशेष्वनुक्तमधिकमन्यतो ग्राह्यं श्रुतहानायोगात्, अव्यवस्थितन्यूनाधिकसृष्टिकल्पने गौरवाच्च ॥ १३ ॥ इति अप्तेजसोर्व्यष्टिसृष्टिविशेषः ॥
1.14 पृथ्व्यास्स्पर्शादिभेदो द्रवमृदुकठिनीभावभेदश्च दृष्टस्तद्वत्पृथ्वीजलाग्निश्वसनपरिणतिर्लाघवायेति जैनाः । तत्र द्रव्यैक्यमिष्टं क्रमजनिविलयौ त्वागमादप्रकम्प्यौ तर्कैकालम्बिगोष्ठ्यां भजतु बहुमतिं तादृशी लाघवोक्तिः ॥ १४ ॥
1.14 ननु कथमेवं तोयतेजसोर्व्यष्टिसमष्टिसृष्टिव्यवस्था, विचित्रपरिणामशालिनस्त्रिगुणस्य कालभेदेनानियतपरिणामोपपत्तेः । उक्तं च जैनैः – पुद्गलाख्यमेकजातीयद्रव्यं तत्तत्सामग्रीभेदैरव्यवस्थितक्रमान् भिन्नाभिन्नस्वभावान् विचित्रपर्यायान् भजत इति यथा काणादप्रभृतीनामेकैकभूतपरमाणवः; यथा च सांख्यादीनामेकैकं भूतम् । अतो न शाश्वतभूतभेदकॢप्तिः । वाय्वादिचातुर्विध्योक्तिरपि पर्यायभेदनिबन्धना; नियतक्रमभूतसृष्टिकल्पना च लाघवयुक्तिविहता; तदेतदनुभाषते – पृथ्व्या इत्ति । दूप्यांशव्यक्त्यै शेषमनुमनुते – तत्र द्रव्यैक्यमिति । त्रिगुणद्रव्यमेव हि वाय्वाद्यवस्थमिति भावः । नियतक्रमत्वे कल्पनागौरवमागमबलादपनयति – क्रमेति । लाघवतर्कस्य का गतिरित्यत्राह – तर्केति । गुरुकल्पनाप्रवृत्तं प्रति हि लाघवोक्तिः शोभत इति भावः ॥ १४ ॥इति पुद्गलानामनियतपृथिव्यादिपरिणामवादभङ्गः ॥
1.15 तत्त्वेष्वाथर्वणेऽष्टौ प्रकृतय उदिताः षोडशान्ये विकारा निष्कर्षेदंपरेऽस्मिन् वचसि तदितरत्सर्वमावर्जनीयम् । दृष्ट्वा सांख्यं पुराणादिकमपि बहुधा निर्वहन्त्येतदेके चिन्तासाफल्यमान्द्याच्छ्रमबहुलतयाऽप्यत्र तज्ज्ञैरुदासि ॥ १५ ॥
1.15 ननु तत्त्वसृष्टौ क्रमनियमो न संभवति “आकाशमिन्द्रियेष्विन्द्रियाणि तन्मात्रेषु” इति सुबालोपनिषदाम्नानात् । अव्यवस्थिताश्च सृष्टिव्यवहाराः पृथ्व्यादिषु दृश्यन्ते । अतो यथाश्रुतं कल्पभेदात् सृष्टिभेदः स्यादित्यत्राह – तत्त्वेष्विति ॥ अधीयते हि केचिदाथर्वणिकाः “अष्टौ प्रकृतयः षोडश विकारा” इति । अत्र तावदव्यक्तमहदहङ्कारतन्मात्राणां प्रकृतित्वमविगीतम् । इन्द्रियेभ्यस्तत्त्वान्तरोत्पत्तिः श्रुत्यन्तरेषु पुराणेषु वा न क्वचिद्दृश्यते । सौबाले च लयानुक्रमे पूर्वापरवाक्यवदिन्द्रियतन्मात्रवाक्ययोर्न लीयत इति पदमावृत्तम् । एवं वाक्यवैरूप्ये सत्यनुषङ्गात् वरमधिकरणविभक्त्याऽपि संसर्गमात्रग्रहणमिति स्थिते प्रकरणान्तरैककण्ठ्यं भवतीति केवलविकृतित्वमिन्द्रियाणां युक्तम् । भूतानां चाकाशादीनां चतुर्णां साक्षात् तन्मात्रद्वारेण वा तत्त्वान्तरोपादानत्वे प्रकृतयो विकृतयश्च पृथग् द्वादश स्युः । ननूपबृंहणविशेषानुसारादिन्द्रियाणि शब्दादिगुणाश्च षोडशविकाराः, भूततन्मात्रभेदानादरेण प्रकृतयश्चाष्टावभ्युपगम्यन्ताम् । मैवम्; द्रव्यतत्त्वप्रकरणे गुणपरिगणनानौचित्यात्, गुणशब्देन च क्वचिद्गुणाश्रयविवक्षा स्यात् । गत्यभावे गुणविवक्षायामप्यत्र द्रव्यविवक्षोपपत्तेः । “आकाशाद्वायुः” इत्यादीन्यपि स्थूलसूक्ष्मभेदानादरेणेति समाधानम् । एवं स्थिते तामसाहङ्कारोत्पन्ने तन्मात्रपञ्चके भूतान्येकद्वित्रिचतुःपञ्चभिस्तन्मात्रैरारभ्यन्त इति सांख्याः । पूर्वपूर्वतन्मात्राणि उत्तरोत्तरतन्मात्रमेकैकं भूतं जनयन्ति इति पौराणिकाः । तत्राप्युत्तरोत्तरभूतसृष्टौ पूर्वपूर्वेषां तन्मात्राणां भृतानां वा सहकारित्वमिति पक्षभेदः । एवमन्योऽपि यथामति । तदिदमाह – दृष्ट्वेति । एतत् – इतरत्सर्ववाक्यजातमित्यर्थः । किमिति पूर्वाचार्यैरत्रोपेक्षितं तत्राह – चिन्तेति ।
न प्रधानविरोधः स्यादीदृशानवधारणे । इति शिक्षयितुं शिष्यान्प्राचां क्वचिदनिश्चयः ॥ १५ ॥ इति प्रकृतिविकृतिविभागचिन्ता ॥
1.16 निश्शेषं कार्यतत्त्वं जनयति स परो हेतुतत्त्वैश्शरीरी तत्तत्कार्यान्तरात्मा भवति च तदसौ विश्रुतो विश्वरूपः । तेजोऽबन्नाभिधेये बहुभवनमभिध्यानलिङ्गं च दृष्टं तस्मादीशाननिघ्नाः प्रकृतिविकृतयस्स्वस्वकार्यप्रसूतौ ॥ १६ ॥
1.16 प्रक्रान्तेषु प्रकृत्यादिकारणेषु ”पुरुषार्थ एव हेतुर्न केनचित्कार्यते करणम्” इति वदतस्सांख्यस्यानन्यथासिद्धैः श्रुत्यादिभिर्बाधमाह – निश्शेषमिति ॥ ”यत्किंचित्सृज्यते येन”, ”जगत्सर्वं शरीरं ते” इत्यादिभिरेतत्सिद्धम् । ”तत्सृष्ट्वा, तदेवानुप्राविशत्” इत्यादेश्चार्थमाह – तत्तदिति । अन्तर्यामिब्राह्मणसुबालोपनिषदादिप्रसिद्धिमपि संवादयति – तदसाविति । विश्रुतः प्रधानपुरुषविलक्षणत्वेन विश्वशरीरकतया प्रत्यक्षश्रुतिसिद्धः, क्वचिद्विश्वरूपशब्देनापि । ”तत्तेज ऐक्षत”, ”बहु स्यां”, ”ता आप ऐक्षन्त बह्व्यः स्याम” इति वाक्यविशेषाभिप्रेतं तद्व्यनक्ति – तेज इति । न ह्यचेतनमात्रस्यानुत्पन्नकरणकलेबरस्य कर्मिणो वा तदानीं बहुभवनसङ्कल्पाश्रयत्वं युक्तम्, गौणत्वं चात्रापि ”गौणश्चेन्नात्मशब्दात्” इति सूत्रन्यायेन निरस्तम् । प्रकृतं हि मुख्यमीक्षणम्; अत्रापि तत्संभवे नान्यथा गतिर्युक्तेति भावः । उक्तनिगमनव्याजेन –
”विकारजननीमज्ञामष्टरूपामजां ध्रुवाम् । ध्यायतेऽध्यासिता तेन तन्यते प्रेर्यते पुनः ॥ सूयते पुरुषार्थं च तेनैवाधिष्ठिता जगत् ॥”
”मयाऽध्यक्षेण प्रकृतिस्सूयते सचराचरम् । ”यत्किंचिद्वर्तते लोके सर्वं तन्मद्विचेष्टितम् ॥ इत्यादिकमपि प्रख्यापयति – तस्मादिति ॥ १६ ॥ इति सर्वतत्त्वानामीश्वराधिष्ठानेन कार्यकरत्वम् ॥
1.17 द्वेधा भूतानि भित्त्वा पुनरपि च भिनत्त्यर्धमेकं चतुर्धा तैरेकैकस्य भागैः परमनुकलयत्यर्धमर्धं चतुर्भिः । इत्थं पञ्चीकृतैस्तैर्जनयति स जगद्धेतुरण्डादिकार्याण्यैदंपर्यं त्रिवृत्त्वश्रुतिरधिकगिरामक्षमैका निरोद्धुम् ॥ १७ ॥
1.17 तत्त्वान्तराणामीश्वराधीनत्वं व्यष्ट्याद्यारम्भवृत्तान्तैरपि व्यनक्ति – द्वेधेति ॥ स खल्वादिकर्ता स्वसृष्टानि पञ्च भूतानि द्विधा कृत्वैकैकं भागं स्थापयित्वाऽर्धान्तराणि चतुर्धा विभज्य तत्तद्भागैश्चतुर्भिर्भूतान्तराणामविभक्तान्यर्धान्तराण्यनुकलयति । यथोक्तम् –
एवं जातेषु भूतानि प्रत्येकं स्युर्द्विधा ततः । चतुर्धा भिन्नमेकैकमर्धमर्धं ततः स्थितम् ॥
व्योम्नोऽर्धभागाश्चत्वारो वायुतेजःपयोभुवाम् । अर्धानि यानि वायोस्तु व्योमतेजः पयोभुवाम् ॥ इति ।
ततः पञ्चधा विभक्तानां भागानां पञ्चस्वर्धान्तरेषु योजनमिति परोक्तं निरस्तम् । एवं पञ्चीकृतानां व्यष्टिकार्येषु विनियोगमाह – इत्थमिति । महदादिभिश्चेति भाव्य ”महदाद्या विशेषान्ता” इत्याद्युक्तेः । ननु ”हन्ताहमिमास्तिस्रो देवता” इत्याद्यारभ्य ”तासां त्रिवृतंत्रिवृतमेकैकां करवाणि”, ”त्रिवृतंत्रिवृतमेकैकामकरोत्” इति त्रिवृत्करणे श्रुते पञ्चीकरणादिस्मृतिरन्यपरा स्यादित्यत्राह – ऐदंपर्यमिति । तात्पर्यमित्यर्थः । अत्रानन्यपराणां भूयसां च बलीयस्त्वमनुक्तानामविरुद्धानामपेक्षितानामन्यतोऽपि ग्राह्यत्वं स्थापितम् । अभाष्यत च त्रिवृत्करणं पञ्चीकरणप्रदर्शनमिति ॥१७॥ इति पञ्चीकरणप्रक्रिया ॥
1.18 कार्यं नैवारभेरन्समधिकमणवस्सर्वतस्संप्रयुक्ता दिक्संयोगैकदेश्यान्न घटत इह ते दिक्कृतोऽप्यंशभेदः । बुद्धेस्त्वंशानपेक्षा स्फुरति विषयिता विश्रमस्त्वस्तु दृष्टे नो चेदारम्भकांशप्रभृतिषु नियता दुर्निवाराः प्रसङ्गाः ॥ १८ ॥
1.18 ननु पञ्चीकरणाभिधानात्पञ्चसु भूतेषु स्वतस्सभागत्वम्, व्यष्टिसमष्टिभावः, भूतांशानां चात्यन्तभिन्नत्वं समानन्यायतया प्रकृतिपर्यन्तेषु तत्त्वान्तरेष्वपि तत्सर्वं सिद्धम् । भूतभागानां चात्यन्तभेदो वेणुरन्ध्रश्लोकेऽभाष्यत । एवं सत्यणुसमाहार एव प्रकृतिरिति स्थिते ”महद्दीर्घवद्वा ह्रस्वपरिमण्डलाभ्याम्” इत्यौलूक्योपालम्भो न युक्त इत्यत्राह – कार्यमिति ॥ अयं भावः – अनन्यपरशास्त्रसिद्धेष्वर्थेषु ”श्रुतेस्तु शब्दमूलत्वात्” इति न्यायेन गत्यन्तराभावे काचिद्गमनिका स्वीकार्या । अनुमेयेषु तु यथादृष्टान्तं सिद्धिः, अन्यथाऽतिप्रसङ्गात् । ततश्चावयविवादिनामवयवास्स्वभागैर्मिथस्संयुज्यावयविनमारभन्त इति सिद्धान्तः । एतच्च द्व्यणुकावधि निर्विघातं, द्व्यणुकारम्भे तु निरवयवा अणवोऽवयवा इति कल्पितम् ;
तत्रैवं प्रसङ्गावतारः – यदि परमाणवस्स्वांशतस्संयुज्यावयविनमारभेरन्, तदा तदंशोऽवयवरूपस्तदन्यो वा ? आद्ये तस्यापि तथेत्यनवस्था । अन्यस्तु स्वाभाविकः औपाधिको वा? पूर्वत्र भिन्नाभिन्नता स्यात् । उत्तरत्रोपाधिसंबन्धेऽप्यंशभेदो दुर्वचः । परिशेषात्तन्निरपेक्षसंयोगैरन्योन्यानाघ्रातभागभेदरहितैरणुभिरारम्भः स्यात् । त्यक्तस्तर्हि सप्रतिघत्वविरोधः । सर्वेषु च परमाणुष्वेकपरमाणुप्रदेशमात्रावस्थितेषु स्वाधिकदेशव्यापिकार्यारम्भो न [सिध्येत्] स्यात्, न खल्ववयवास्पृष्टे कुत्रचित् प्रदेशेऽवयवी तिष्ठेत्, अदृष्टेरनिष्टेश्च । अवयवनाशादवयविनाशे क्षणमनाधारोऽवयवीति चेत् तथा कल्पयताऽपि त्वया पूर्वं तन्तुसंघानवच्छिन्नप्रदेशे पटस्य वृत्तिर्न कल्पिता । एवमधिकारम्भानुपपत्तौ मेरुसर्षपादिविचित्रभेदासिद्धिः । सेयमसिद्धं सिषाधयिषत्ससिद्धहानिः ; तथा चासिद्धसाधनं निर्मूलम् । ननु परिमितानां सर्वेषां दिग्भेदेन भागभेदे दृष्टे परमाणुष्वपि तथाऽङ्गीकारो दुर्वार इत्यत्राह – दिक्संयोगेति । दिक्संयोगायत्तोऽपि हि भागभेदस्सावयवेष्वेव दृष्टः, त्रसरेणोरपि त्वया सावयवत्वकॢप्तेः । निरवयवेषु तु विश्वव्याप्तैकदिक्तत्त्ववादिनस्ते तन्निबन्धना भागकॢप्तिरशक्या । तदुपाधिसंयोगात्तु स्यादपि यदि तत्राप्यंशानंशविकल्पक्षोभोऽतिलङ्घ्येत । अतस्सर्वदिगुपाधिसंयोगानां परमाणुषु पृथक्प्रदेशरहितानां कथमौपाधिकभागभेदापादकत्वम् ? यदि चानंशभेदेन संयुक्ता उपाधयः क्वचिद्भागभेदकास्तर्हि परमाणव एव तथा किं न स्युः ? वृथा चैवमंशकॢप्तिरभागेन संयोगावस्थितेरिति । तदिदं सर्वमभिप्रेत्याहुः –
ष [ट्केन] ट्कोणयुगपद्योगात् परमाणोष्षडंशता । षण्णां समानदेशत्वे पिण्डः स्यादणुमात्रकः ॥ इति ॥
ननु बुद्धिस्तावत्सर्वतन्त्रसिद्धा । सांवृतीत्यपि हि तां माध्यमिको मन्यते । सा चैकाऽप्यनेकविषया दृष्टेष्टा च । निरंशा च सा प्रत्येकं कार्त्स्न्येनांशतो वा विषयीकुर्यात् ? नाद्यः ; अन्यानुल्लेखप्रसङ्गात् । न द्वितीयः, निरंशत्वादेव । तत्र चेत् कश्चित्समाधिः अणुष्वपि तथा स्यात् । तत्राह – बुद्धेस्त्विति । तुश्शङ्कानिवृत्त्यर्थः । विषयित्वं ह्यंशानपेक्षतयैव दृष्टम्, नह्यन्यतोऽपि तस्यान्यथादृष्टिः, अतो यथोपलम्भमेकवदनेकोऽपि विषय एकस्या बुद्धेः । एवमेकस्य निरंशस्यानेकबुद्धिविषयत्वमपि निरूढम् । अवयव्यारम्भकसंयोगस्तु त्वयाऽपि न क्वचिदंशनिरपेक्ष उक्तः; क्वचिद्विशेषाङ्गीकारे नियामकाभावः । अथ संघातारम्भकसंयोगेऽपि समः प्रसङ्ग इति, न समः; संयोगसाध्यसंघाताभावात् । तत्स्वीकारे ह्यवयविवाद एव वरम् । संयोगस्तर्ह्येकोऽनेकवृत्तिस्सन्नंशानंशविकल्पदौस्थ्यं नातिक्रामेत् । न ह्यसौ नास्त्येव सिद्धयोस्साद्ध्यतया दृष्टेरिति, तदपि न ; विषयित्ववन्निस्तारात् । सोऽपि हि द्वयोर्न स्वांशाभ्यां वर्तत इति दृश्यते । एवं स्वामित्वादयोऽपि न प्रतिबन्दिः । अस्तु तर्हि संयुक्तप्रतिबन्दिः । मूतैर्विभूनां संयोगोऽस्ति न वा ? न चेदन्यतरकर्मजसंयोगलोपः ; अविशेषात् । अस्ति चेत् यदि कार्त्स्न्येन विभुद्रव्यमेकेन स्पर्शवता संयुज्यते, कथं स्पर्शवदन्तरेण तस्य संयोगः स्यात् ? अंशतश्चेत् सावयवत्वप्रसङ्गः । न हि विभुद्रव्यस्यावयवित्वं संघातत्वं वा सुवचं, पूर्वत्र स्पर्शवत्त्ववृत्तत्वकार्यत्वानित्यत्वादिप्रसङ्गात् । उत्तरत्र नानात्वभेदाभेदयोरन्यतरापातात् । तत्र च विभुद्रव्यांशानां मिथस्संयोगोऽस्ति न वा ? अस्ति चेत् तत्रापि स एव प्रसङ्गः ; नास्ति चेदसंहतरूपता स्यात् । औपाधिको विभूनामंशभेद इति चेन्न । उपाधिसंयोगेऽपि अंशादिविकल्पानपायात् । निरंशेऽपि संयुज्यमानं स्वरूपेण तद्भेदोपाधिरिति चेन्न । स भेद उपाधिना च्छिन्ने चेदवयवविश्लेषात्मा स्यात्, अच्छिन्ने तु भेदाभेदवाद एव शरणम् । अत एव स्वसमानपरिमाणेषु विभुप्रदेशेषु तत्तदुपाधिसंबन्धव्यवस्थेति निरस्तम्, तत्प्रदेशभेदस्यैव मृग्यमाणत्वात् । विभुद्रव्यमेव तत्तन्मूर्ततुल्यपरिमाणं जायत इति चेन्न ; विरोधादुक्तदोषानतिक्रमाच्च । काल्पनिकांशभेदेन मूर्तसंयोग इति चेत्तर्हि वस्तुतस्त्वखण्डेनेत्युक्तं स्यात् । अंशभेदकल्पना च किं विभुद्रव्यस्वरूपमात्रे उत तदंशे एवेति दुस्तरो गर्तः । निरंशानामपि स्वभावत एव विभूनामनेकमूर्तसंयोगक्षमत्वमिति चेदणूनामपि एतदस्तु ; अविशेषात् । एव त्रसरेणुप्रतिबन्दिश्च भाव्येति । अत्रोच्यते – यदि वयं प्रदेशवर्तिगुणनिह्नवाय प्रवर्त्स्यामस्तदा विभुप्रतिबन्द्याऽणुप्वपि तत्संभवः प्रदर्श्येत । किं त्ववयव्यारम्भकाणामवयवैरेव संयोग इति नियमस्य त्वयैवान्येषु सर्वेष्वङ्गीकारात् कल्प्येष्वपि तत्प्रसङ्गो दुर्वार इति ब्रूमः । न चान्यत्रैवायं नियम इति स्थाप्यम्; तादृशानामणूनामदृष्टेः, अनन्यथासिद्धलिङ्गाभावाच्च । यदि विभज्यमानेष्वभावपरिशेषायोगात् परमाणुरपि सत्त्वरजस्तमसां सर्वोपकृष्टस्संघात इति सांख्यमतस्य निर्मूलत्वात्, महत्परिमाणतारतम्यविश्रान्तिवत् परिमाणतारतम्यत्वादणुपरिमाणतारतम्यविश्रान्तिरपि क्वचित्कल्प्येत ; तत्राह – विश्रमस्त्वस्तु दृष्ट इति । दृष्टे त्रसरेणौ विश्रमसंभवे न मृग्यं ह्यन्यत् । तथा च सिद्धसाध्यता । यदि त्रसरेणुरेव परमाणुस्स्यादप्रत्यक्षस्तर्हि स्यादिति चेत्, हन्त कुत्रैषा व्याप्तिः ?
सिद्धो ह्यन्यत्र दृष्टान्तस्साध्ये त्वन्योन्यसंश्रयः । त्रसरेणुः पराणुस्सन् कि नाध्यक्षोऽपराणुवत् ॥
चाक्षुषत्वप्रकर्षनिकर्षयोर्महत्त्वप्रकर्षनिकर्षानुविधानात् द्रव्यस्य चाक्षुषत्वं महत्त्वनियतमिति चेत्, चाक्षुषावयवकस्यैव द्रव्यस्य चाक्षुषत्वनियमदर्शनादचाक्षुषावयवकस्य त्रसरेणोरप्यचाक्षुषत्वप्रसङ्गे कथं निस्तारः ? अगत्येति चेत्, भवतु कुतश्चिन्महत्त्वाभावेऽपि क्वचिदेवम् । अत एव मूर्तत्वे सति महत्त्वात् त्रसरेणुः कार्यद्रव्यारब्ध इति कल्पनाऽपि निरस्ता । अस्तु बाह्येन्द्रियग्राह्यत्वादेव तत्साध्यमिति चेन्न ; विपक्षे बाधकाभावात् । अन्यथा त्रसरेण्वारम्भकस्यापि कार्यद्रव्यारब्धत्वकल्पनायां निवारकाभावात् । तत्र विपक्षे बाधकं नास्तीति चेदत्रापि तथेत्युक्तमेव । अतो न द्व्यणुकमित्यपि किंचित् । एवमारम्भकपरम्परायास्सावयवत्वं तद्व्यापकतयाऽभिमतमनित्यत्वं कुतश्चिन्महत्त्वं च प्रसज्यमानमनिवारणीयं स्यात् । एतत्सर्वमभिप्रेत्याह – नो चेदिति । अणुषु स्वाभावसमानाधिकरणसंयोगसिद्धेरौपधिकांशवत्त्वस्वीकारात् इष्टप्रसङ्गतां परिहर्तुमारम्भकशब्दः ॥१८॥ इति कल्प्यपरमाण्वारम्भवादभङ्गः
1.19 स्याद्भागानन्त्यसाम्ये परिमितिसमता सर्षपक्ष्माभृतोश्चेन्मैवं भागेष्वनन्तेष्वपि समधिकता स्थौल्यहेतुर्गिरेः स्यात् । व्यक्त्यानन्त्येऽपि जात्योः परतदितरता पक्षमासाद्यनन्तं श्रौतोपादानसौक्ष्म्यं न भवदभिमतं तत्प्रथिम्नश्श्रुतत्वात् ॥ १९ ॥
1.19 नन्वेवं सर्वत्रावयवानन्त्यप्रसङ्गे सर्षपमहीधरादिपरिमाणवैचित्र्यं न स्यादिति शङ्कते – स्यादिति ॥ प्रसञ्जकस्याप्रयोजकत्वमित्य [त्वा] भिप्रायेण प्रतिवक्ति – मैवमिति । आनन्त्यसाम्येऽप्यवयवानां न्यूनाधिकभावेन परिमाणवैषम्योपपत्तिमाह – भागेष्विति । एतच्चोत्तरमनन्तभागाभ्युपगन्तॄणां तत्प्रसञ्जकानां च समानम् ।
अण्वंशानामनन्तत्वे गन्तॄणां तदतिक्रमः । कदाऽपि न स्यात्किं न स्याद्वेगातिशयवैभवात् ॥
द्युमणेरातपस्सर्पन्नुदयाद्रिशिखामणेः । तत्क्षणं किं न निर्भाति पश्चिमाद्रिशिखण्डकः ॥
आनन्त्याविशेषे कथं न्यूनाधिकभाव इत्यत्राह – व्यक्तीति । सत्ताप्रभृतिघटत्वादिपर्यन्तानां सर्वासां जातीनां त्रैकालिकानन्तव्यक्तिवृत्तित्वमविशिष्टं, तथाऽपि न्यूनाधिकवृत्त्यैव परापरभावो युष्माभिः कल्पितः, तद्वदिहापि स्यादिति भावः । निदर्शनान्तराण्यप्याह – पक्षेति । अनन्ताः पक्षा मासाश्च, तथाऽपि मासापेक्षया द्वैगुण्यं पक्षाणामेष्टव्यम् । आदिशब्देन क्षणप्रभृति परार्धादिसंग्रहः । अन्यच्च, घटसमुदायाद्धटपटसमुदायोऽधिकः; हिमवद्दक्षिणदेशान्मेरुदक्षिणदेशः, एकात्मदुःखजातादनन्तात्मदुःखजातमित्यादि स्वयमूह्यम् । ”नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीराः” इति जगदुपादानं निरतिशयसूक्ष्मं श्रूयते ; अतोऽस्मदाद्यग्राह्यो दुस्त्यजः परमाणुरित्यत्राह – श्रौतेति । न हि सर्वन्यूनपरिमाणत्वं तत्सूक्ष्मत्वम्, पूर्वोक्तसर्वगतशव्देन श्रुत्यन्तरैश्च विरोधात् । न च जात्यभिप्रायोऽसौ ; एकस्य सर्वोपादानत्वोक्तेः, सर्वव्यापिस्वतस्सर्वज्ञजगत्कर्तृविषयत्वाच्च वाक्यस्य । सक्ष्मशब्दश्च न परिमाणविशेषनियतः । उक्तं च विभ्वीं प्रकृतिं महीयसश्च महदादीन् प्रकृत्य(क्रम्य) साङ्ख्यैः ”सौक्ष्म्यात् तदनुपलब्धिः” इति । ननु त्रसरेणोरष्टमः षष्ठो वा भागः परमाणुरिति सर्वानुमतैः शिल्पिनां शास्त्रैर्धर्मशास्त्रैस्तन्मूलश्रुत्या च परमाणुसिद्धिः स्यात् ॥ तन्न ; शिल्पादिशास्त्राणां परमाणावतत्परत्वात् ; मानोन्मानादिविशेषनिर्धारणं हि तत्र विधित्सितम् । ततो हेतुकोक्तानुवादमात्रमिह स्यात् । तत्र च त्रसरेणुतः किंचित् सूक्ष्मं भवतु, मा वा भूत् । दृष्टोपक्रमं विवक्षितसिद्धिरित्यत्राकूतम् । शास्त्रतश्च क्वचिदनन्यथासिद्धात् परमाणुसिद्धावपि तदनुमानभङ्गात्परस्य मानभङ्गः, यथा प्रकृत्याद्यनुमायिनस्साङ्ख्यस्य ।
श्लो – शास्त्रैकविषयत्वे च परमाणोर्न सिध्यति । नित्यस्पर्शादियोगित्वं भूतानां विकृतित्वतः ॥
अस्पर्शाण्वंशसंघत्वात्कतिचित्प्रकृतेरतः । एकैकाण्वंशभागेऽपि भागानन्त्यं प्रचक्षते ॥
निरंशा प्रकृतिस्सैव परिणामविभागिनी । अनन्तांशात्मिका चेति व्याहतं साङ्ख्यभाषितम् ॥
अत्यन्तभिन्नसत्त्वादिद्रव्यसंघात्प्रधानतः । यथांशं विश्वसृष्टौ च न स्यात्त्रिगुणता क्वचित् ॥१९॥
इति परमाणुकारणतावादभङ्गः ॥
1.20 कार्योपादानभेदे न कथमधिकतो(ता) गौरवादेस्स्वकार्यं नान्यत्वं नामसंख्याव्यवहृतिधिषणाकारकालादिभेदैः । द्रव्याभेदेऽप्यवस्थान्तरत इह तु ते पत्रताटङ्कवत्स्युः नो चेदंशांशिनोस्स्यात्प्रतिहतिरुभयोः स्पर्शवत्त्वाविशेषात् ॥ २० ॥
1.20 एवं पृथिव्याद्युपादानं चिन्तितम् । अथोपादानातिरिक्तं कार्यद्रव्यं नास्तीति साध्यते तत्रावस्थाभेदमात्रं स्वीकृतम् । अयमेव च सत्कार्यवाद आरम्भणाधिकरणसाध्यः ।
विसृष्ट्युल्लासविक्षेपाः कार्याणां कथिताः क्वचित् । कल्पनीया न सर्वत्र परिणामोक्त्यबाधतः ॥
आविर्भावतिरोभावजन्मनाशविकल्पवत् । नित्यं जगदिति स्मृत्या व्यवस्थाद्वयमीरितम् ॥
तदिह प्रत्यक्षागमबलादेकस्यैव द्रव्यस्यावस्थाभेदादुपादानोपादेयभाव इति स्थिते द्रव्यान्तरं प्रागसदागन्तुकं वदतः प्रतिवक्ति – कार्येति । । कार्यद्रव्यस्य स्वोपादानद्रव्याद्भेदे सति द्विपलकैकपलकन्यायेन तन्तुगुरुत्वम्, समं न्यूनमधिकं वा पटगुरुत्वं च संभूय पतनातिरेकं कथं न कुर्यात् ? तदकरणे कश्चिदपि हेतुर्न सिध्येदित्यर्थः । तथा हि – न तावदवयविनि गुरुत्वं न जायते, परमाणुगुरुत्वपरिशेषप्रसङ्गात् । तथा च त्वयाऽनभ्युपगमात्, अयुक्तेश्च । कार्यगुरुत्वादेव ह्यणुगुरुत्वं कल्पयसि । जातस्य च न स्वाभावतः पतनहेतुत्वाभावः । प्रतिबन्धात्कार्यानतिरेक इति चेत्, किमयं प्रतिबन्धोऽवयविगुरुत्वस्य ? उतावयवगुरुत्वस्य ? नाद्यः ; परमाणुगुरुत्वस्यैव [प्र] पतनहेतुत्वप्रसङ्गात् । तथा सति गुरुत्वात् पतनं द्रवत्वात्स्यन्दनमिति तत्तत्क्रियावन्निष्ठगुरुत्वादिकल्पनभङ्गापाताच्च । अतो वरमवयविनि गुरुत्वाद्यनुत्पत्तिकल्पनम् ; तत्र चोक्तो दोषः । न द्वितीयः, कदाचिन्निष्कम्पेऽवयविनि शाखाफलहस्तादिलम्बनाभावप्रसङ्गात् । तथा च कथमवयव्यपि तत्र लम्बेत ? संयोगान्तरादर्शनात् लम्बमानोऽवयवी स्वावयवमपि लम्बयतीति चेन्न ; सर्वावयवलम्बनप्रसङ्गात् । सङ्घातवादिनस्तु यथार्हं प्रतिब[न्धां]द्धांशेऽलम्बनोपपत्तिः । कार्यगुरुत्वोत्पत्तौ कारणगुरुत्वं नश्यतीति चेन्न ; अपसिद्धान्तात्, रूपादिष्वपि तथात्वप्रसङ्गात् । अथ कार्यगुरुत्वस्यातिमन्दत्वात्सूक्ष्मं पतनवैषम्यं दुर्ग्रहमिति, तदपि न ; मान्द्यकारणादृष्टेः, कल्पकासंभवाच्च । अतस्तन्तुतत्कार्यपटसमुदायोन्माने पटद्वयोन्मान इव गुरुत्वान्तरकार्यं दुस्त्यजम्, आदिशब्देन द्रवत्वगन्धादिसंग्रहः । स्वकार्यं – त [त्त]दुचितं कार्यमित्यर्थः । तथाऽप्यनन्यथासिद्धभेदकभूम्ना भेदसिद्धौ गुरुत्वान्तरकार्यादर्शनं कथंचिदन्यतरप्रतिबन्धेन नेयमित्यभिप्रायेण शङ्कमानं प्रत्याह – नान्यत्वमिति । यद्यपि नामभेदाभेदावर्थभेदाभेदयोरप्रयोजकौ, तथाऽपि पर्यायातिरिक्तो विशेषणविशेष्यभावानर्हो वाचकभेद इह नामभेदः । स च सिंहव्याघ्रशब्दवत् स्ववाच्यं भिन्द्यात् । संख्याभेदोऽप्येकस्यैव द्वितीयादियोगाद्यद्यपि स्यात्, तथाऽपि मैवमत्र ; बहवस्तन्तवः, एक पट इति विभजनात् । व्यवहृतिरिहार्थक्रियासिद्ध्यर्थो व्यापारः । पटाद्यर्थं तन्त्वादय उपादीयन्ते, पटादयस्त्वाच्छादनाद्यर्थम् । न च तन्त्वादिमात्रे पटादिधीः, पटादिषु वा तन्वादिधीरिति धिषणाभेदः । आकारभेदश्च व्यवस्थिताश्रयो वृत्तचतुरश्रत्वादिः । पूर्वकालीनास्तन्त्वादयः पटादयस्तु पश्चाद्भाविन इत्येवंविध इह कालभेदः । आदिशब्देन कारणभेदादिसंग्रहः । अंशुप्रभृतयस्तन्त्वादीनां पटादीनां तु तन्त्वादय इति नियतोऽत्र कारणभेदः । कार्यभेदश्च एवं नियत एव । कारणस्यैव च कार्यत्वे कारकव्यापारवैयर्थ्यं स्यादिति भेदहेतवः । एषामन्यथासिद्धिमाह – द्रव्याभेदेऽपीति । तुशब्दोऽवधारणे । उपादानोपादेयतयावस्थाद्वयवति द्रव्ये घटपटवद्भेदं साधयितुं न शक्नुवन्तीत्यर्थः । अत्र दुस्तरप्रतिबन्द्यभिप्रायेण निदर्शयति – पत्रताटङ्कवदिति । पत्रस्य हि कुण्डलितस्य नियतं नामान्तरं दृष्टम् । सफलश्चावस्थान्तरेण कारकव्यापारः, न ह्यत्रावयव्यन्तरोत्पत्तिः । आकुञ्चनप्रसारणपद्मसंकोचविकासादिष्वपि तत्कल्पनाप्रसङ्गात् । न चैकेनावयवेनावयव्यारम्भः, असमवायिकारणासंभवात् । अवयवावयवसंयोगस्तत्रासमवायिकारणमिति चेन्न ; तस्यान्यार्थत्वात् । अन्यथा अंशूनां तन्तुवत् पटाश्रयत्वमपि स्यात् । न च तद्युक्तम् ; आरब्धकार्यैरवयवैस्तदैवावयव्यन्तरारम्भानभ्युपगमात् । तत्र हि सप्रतिघत्वविरोधाद्बिभेषि । एवं संप्रतिपन्नावस्थाभेदमात्रानादरेण द्रव्यान्तरकल्पनेऽपि तमेव विरोधं प्रसञ्जयति – नो चेदिति । अंशांशिनोः – अवयवावयविनोरित्यर्थः । उक्तप्रसङ्गे तदभिमतमेव हेतुमाह – उभयोरिति । द्वयोर्द्रव्ययोरन्यतरस्य वा स्पर्शहीनत्वे मिथः प्रतिरोधो नास्ति । इह तु न तथेत्यभिप्रायेणोभयोरित्युक्तम् । अवयवावयविनोरेकत्र वृत्तिर्नास्तीति चेत्, समवायिदेशैक्याभावेऽपि संयोगिदेशैक्यमङ्गीकरोषि, तत्र कथं तन्त्ववष्टब्धनभःप्रदेशे पटसंयोगः, माभूदिति चेत् मूर्तामूर्तसंयोगविलोपप्रसङ्गः । मेरुमन्दरादीनामप्यविभक्ताकाशप्रदेशवृत्तावविरोधः स्यात् ; नीरक्षीरादिमेलने का वार्ता ?
हन्त ! स्वसिद्धान्तं प्रस्मृत्य पृच्छसि । एतेन भूमावुन्मज्जति, निमज्जतीत्यादिसिद्धनिदर्शनमपि निहतम् । तस्मादवयवावयविव्यतिरिक्तविषय एव सप्रतिघत्वविरोधव्यवस्थापनमपि निर्मूलमिति ॥२०॥
1.21 इत्थं वृत्त्यादिखेदो न भवति न च नः कल्पनागौरवं स्याद्वस्त्रे दीर्घैकतन्तुभ्रमणविरचिते वस्त्रधीर्नापि बाध्या । देशाधिक्यं समेतेष्वणुषु न हि ततः स्थूलधीबाधशङ्का संसर्गादेर्विशेषादवयविपरिषद्राशिवन्यादिवादः ॥ २१ ॥
1.21 परपक्षे प्रसञ्जितानां दोषाणामभावात् स्वपक्षस्य सम्यक्त्वमाह – इत्थमिति ॥ इत्थम् – अवस्थाभेदमात्रेण निर्वाहे अविभागेनावयवी वर्तते तदैकावयवदर्शनेऽप्यवयव्युपलभ्येत, जातिरिव प्रत्याधारम् । अथ विभज्य, अवयवातिरिक्तांशभेदेनानवस्थापातः । बलवत्प्रमाणोपनीतेऽर्थे संप्रतिपन्नवद्वृत्त्यनुपपत्तिर्विलीयत इति चेन्न; प्रमाणबलस्यात्र निरस्तत्वात् । आदिशब्देनोत्पत्तिनाशानुपपत्तिस्संगृह्यते । तथाहि – पृथुतरपटनिर्माणप्रक्रमे द्वितन्तुकादिपटपङ्क्तिरुत्पद्यते न वा? न चेत्, बुद्धिशब्दान्तरादिरवस्थाभेदादेवेति सिद्धं स्यात् । उत्पद्यते चेत् त्रितन्तुकाद्यारम्भदशायां पूर्वपूर्वं तिष्ठति न वा? पूर्वत्र तदनारम्भः, आरब्धकार्यैस्तदानीमवयव्यन्तरानारम्भात् । न च द्वितन्तुकादिस्तन्त्वन्तरसहितस्त्रितन्तुकाद्यारम्भक इति युक्तम् । इह तन्तुषु पट इत्यादिस्वाभिमतव्यवहारविरोधात् ।
पूर्वसिद्धपटैस्सार्धं तन्तुभिः पटसंभवे । पटपङ्क्तिस्समीक्ष्येत क्रमादाधिक्यशालिनी ॥
प्राक्सिद्धानां पटादीनामुत्तरोत्तरजन्मनि । अहेतुको विनाशश्च स्थिरपक्षे न युज्यते ॥
न चेदुपलम्भविरुद्धनाशसन्ततिकल्पनाप्रसङ्गः । एवमेकद्वित्र्यादितन्त्वपकर्षणादशायामपि खण्डपरम्परोत्पत्तिनाशपरम्पराकॢप्तिः क्लिष्टतरा । लाघवशालिनि सङ्घातमात्रपक्षे राशिन्यायान्नासौ दोषः । ननु गौरवभयादवयविपरिहारे सौगतवत्स्वरूपविशेषमालम्ब्य तन्त्वादीनां संयोगोऽपि त्यज्यतामित्यत्राह – न चेति । अत्र हि परैरप्यसमवायिकारणतयाऽभिमता दृष्टा च संयुक्तावस्था स्वीकृतेति नास्माकमिह काचित्कल्पना । कुतस्तद्गौरवं संभवेदिति भावः । स्वलक्षणसमुदायवादिनाऽपि नैरन्तर्यरूपोऽतिशयः कश्चिदिष्यते; अन्यथा दूरस्थवदेकताभ्रान्तिः पुञ्जबुद्धिर्वा न स्यात् । त्वमपि विभूनामणूनां च नित्यानामपि हेतुभेदैरवस्थान्तरापत्तिमङ्गीकरोषि ; सर्वद्रव्यस्वरूपनित्यत्वं तदवस्थाभेदं च वदतामपि तथा किं न स्यात्? संयुक्तावस्थाऽपि हि परिणामः । कथं तर्हि नित्यानित्यविभागः? इत्थम् – द्रव्यतदवस्थयोस्तथाभावादेव, द्रव्यविवक्षायां त्ववस्थाविशिष्टवेषेणानित्यत्वव्यवहार इति । ननु तन्तव एव व्यतिषङ्गविशेषविशिष्टाः पट इति भवतां राद्धान्तः “पटवच्चेति सूत्रे दर्शितः । तथा सति दीर्घैकतन्तुपरिवर्तनविशेषनिष्पादितेऽवयविनि कथं पटबुद्धिः स्यात्? अनेकतन्तुसङ्घातासिद्धेरित्यत्राह – वस्त्र इति । नहि वयं तन्तुगतमेकत्वं द्वित्वबहुत्वादिकं वा पटधीनिबन्धनं नियच्छामः; यथादृष्टि सर्वसंभवात् । त्वं तु स्वपक्षदोषमस्मत्पक्षस्थं मन्यसे । प्रदर्शितं हि पत्रे ताटङ्कनिष्पत्तावेकस्यावयवस्यानारम्भकत्वम् ; अतस्तवैव तत्र पटधीबाधः । एकस्यारम्भकत्वेऽतिप्रसङ्गोऽपि तवैव । स्यादेतत्, अवयविनमनभ्युपगच्छतामन्ततः पर्वतादयोऽपि परमाणव एव संहताः स्युः । ते न प्रत्यक्षाः ; अतः “सर्वाग्रहणमवयव्यसिद्धेरित्यक्षपादोक्तमनतिक्रमणीयं स्यात्, स्थूलद्रव्याभावे चाणुसंहतौ स्थूलत्वाध्यासोऽपि न सिध्येदिति ; तत्राह – देशाधिक्यमिति । अयं भावः – स्थूलधीरित्यवयविधीर्वा? परिणामविशेषधीर्वा? प्रत्यक्षयोग्यत्वधीर्वा? प्रत्येकदेशादधिकदेशत्वधीर्वा? नाद्यः, तदभावप्रसक्तेरिष्टप्रसङ्गात् । न द्वितीयः, संहतैरेवावयविवत्परिणामान्तरस्य सृष्ट्युपपत्तेः । अणुष्वेव कथं विरुद्धं स्थूलत्वं स्यादिति चेदेकत्वाद्याश्रयेष्वेव कथं द्वित्वादिकमिच्छसि? अपेक्षाबुद्धिसंगृहीतान्यानुबन्धसामर्थ्यादिति चेद्बुद्ध्यनपेक्षसंभेदसामर्थ्यादेव परिमाणान्तरमपि पश्यन्तु भवन्तः । न तृतीयः, एकैकस्याप्रत्यक्षत्वेऽपि समुदायवशाद्दृश्यत्वोपपत्तेः । यथैकैकस्य दवीयसः केशहिमादेरदर्शनेऽपि संहतानां दृश्यत्वम्; एकैकस्याप्यासत्तौ दर्शनाद्योग्यत्वमस्तीति चेदणूनामपि त्रसरेणुमात्ररूपाणां सामग्रीसंभवे तथैव स्यात् । न चतुर्थः, माषादिराशिषु सहतिभेदैर्देशतारतम्यदृष्टेः । ननु तत्तत्परिमाणावयविद्रव्याभावे तत्प्रयुक्तदेशन्यूनाधिकत्वं दुर्निरूपं स्यात् । मैवम् ; न ह्यवयविनिरूपणेनैव देशाधिक्यादिनिरूपणम्, सुरभित्वगन्धत्वादेरिव संबन्धिन्यूनाधिकभावेनापि तदुपपत्तेः । द्रव्येषु नैवमिति चेत् न, द्व्यणुकोत्पत्तेः पूर्वक्षणे संयुक्ताणुद्वयस्य प्रत्येकदेशादधिकदेशत्वावश्यंभावात् । अन्यथा सर्वपरमाणूनां समानदेशत्वे प्रागुक्तदोषप्रसङ्गात् । द्व्यणुकान्तरपरिच्छिन्नस्स देश इति चेन्न ; सहवृत्त्ययोगात्, अन्यथा परिच्छेदासिद्धेः । समवायिनस्संयोगिनो वा देशस्याभावे कथं तत्र देशाधिक्यमिति चेन्न ; आकाशाद्यंशभेदेन तदुपपत्तेः । कथं निरवयवस्यांशभेद इति चेदात्मानं पृच्छ । कर्णशष्कुल्याद्युपाधिपरिच्छित्त्या नभसि नानाश्रोत्राणि कल्पयसि । भेर्यादिशव्देषु श्रूयमाणे तरङ्गवृत्त्या तत्तदनन्तरदेशेषु शब्दोत्पत्तिं साधयसि । वेणुरन्ध्रादिविशेषभागाश्च प्रसिद्धाः । आकाशादेरप्रत्यक्षत्वात्तदंशतारतम्यं दुर्ग्रहमिति चेन्न ; प्रत्यक्षाकाशवादिनं प्रति हेत्वसिद्धेः । त्वयाऽपि मापादवयविनो महीधरस्याधिकदेशत्वं गृह्यते । आलोकमण्डलांशभेदैस्तत्र देशाधिक्यमिति चेन्न ; आलोकस्यापि नभसि न्यूनाधिकदेशवृत्तित्वदृष्टेः । परिमाणाधिक्यमात्रमेव पर्वतादिषु गृह्यत इति चेदगृह्यमाणमपि देशाधिक्यं तत्रास्ति न वा? अस्ति चेत्सङ्घातेऽपि कश्चोद्यावकाशः? न चेत्तत्तद्देशेषु चक्षुःप्रसरादिनिरोधकत्वं न स्यात् । अन्यथाऽल्पदेशवर्तिनः सर्वत्र निरोधकत्वप्रसङ्गात् । अतः परस्परानाक्रान्तदेशावष्टम्भेन संहन्यमानेषु त्रसरेणुषु सुग्रहमेव देशाधिक्यम्, देशस्त्वालोकाकाशादिर्यः कश्चिद्यथायोग्यमस्तु । अत एव प्रधानाभावादणुषु स्थौल्यारोपोऽपि न स्यादिति चोद्यमपि निस्तीर्णम् । तथाऽपि यदि संसृष्टास्तन्तव एव पटस्ततस्तन्तुराशिमात्रेऽपि पटधीः स्यादित्यत्राह – संसर्गादेरिति । न हि त्वयाऽपि तन्तुसंसर्गमात्रं पटस्यासमवायिकारणमिष्यते ; तथा सति कुविन्दादिव्यापारनैरपेक्ष्यप्रसङ्गात् । अतो यादृशात्संसर्गविशेपादवयवी तवोत्पद्यते तादृशसंसर्गविशिष्टास्तन्तवः पट इति क्वातिप्रसङ्गः? आदिशब्देन संसर्गिद्रव्याणि देशकालौ च गृह्यन्ते । द्वितीयेन त्वादिशब्देन यूथपङ्क्तिमण्डलसेनाव्यूहपूर्णचतुरश्रादिसंग्रहः । परिषदाद्युपादानं दृष्टान्तार्थम् । मत्वर्थीयमपि शूरवती सेनेतिवत् प्रत्येकसमुदायभेदविवक्षया स्यादिति ।
भिन्नानामेव संश्लेषे संघातैक्यानुसारतः । संयुक्तौ द्वाविति प्रख्या राशिद्वित्वनयाद्भवेत् ॥
महत्त्वैकत्वयुक्तत्वप्रभृतेरपि राशिवत् । संयुक्तद्रव्यनिष्ठत्वान्न संयोगं प्रसञ्जनम् ॥
घनत्वश्यामतादीनां वनैकाधिकरण्यतः । न स्याद्वृक्षबहुत्वादेर्घनत्वाद्यैर्विशेषणम् ॥
तन्तवः सितरक्ताद्याः पटचित्रानुयायिनः । अवयव्यनपेक्षत्वं चूर्णसंहतिचित्रवत् ॥
रूपादीनामचित्रेऽपि वदन् वैषम्यदर्शनम् । अपह्नुवीत वैयात्यात्खपुष्पादेरदर्शनम् ॥
या चासौ धारणाकृष्ट्योरुपपत्तिरसूत्र्यत । तादृग्भूतावयव्यर्थे संघाते सा भविष्यति ॥
गाढावयवसंश्लेषरहितेऽवयविन्यपि । धारणाकर्षणे न स्तस्तथा चाभ्युपगच्छसि ॥
धारणाकर्षणे चात्र धृताकृष्टानुबन्धतः । दृढावयवसंश्लेषसहितेऽवयविन्यपि ॥
अंशान्तरेषु तेऽस्माकं सिद्धे जतुगृहीतवत् । तृणोपलादिजतुसंगृहीतं यदुदाहृतम् ॥
तत्राप्यवयवी नेष्टः कश्चिज्जतुतृणादिषु । पाशाद्यैरपि पश्वादेर्धारणाकर्षणे क्षमे ॥
किं तत्र पशुपाशादिष्ववयव्यभ्युपेयते । संग्रहप्रभवं चात्र धारणाद्यनुभाष्य तु ॥
पक्षिलस्तन्मतस्थो वा नोत्तरं सम्यगब्रवीत् । आरब्धकार्यैरारम्भो मिथस्सप्रतिघत्वतः ॥
न्यायवार्तिकटीकादौ क्षिप्तस्संमतिरत्र नः । प्रत्यक्षातीन्द्रियोपात्ते प्रत्यक्षत्वं च दुर्भणम् ॥
चाक्षुषाचाक्षुषद्रव्यसंयोगे चाक्षुषत्ववत् । मुधा चोदाहृतं कैश्चिद्धिमवत्परमाणुकम् ॥
टीकाकारस्तु तत्राह सूक्ष्मद्रव्योपलक्षणम् । विशेषानुपलम्भेऽपि राश्येकत्वमतिर्यथा ॥
वृक्षादिष्वपि तद्वत्साद्यथादृष्टि व्यवस्थितेः । एकदेशे समस्ते च वृक्षलक्षणसंभवे ॥
वृक्षधीरुपपद्येत संग्रहाच्चापृथङ्मतिः । “सर्वाग्रहणमवयव्यसिद्धेरिति सूत्रयन्” ॥
प्रत्यक्षव्यतिरिक्तान्तकॢप्तिदौस्थ्यपराहतः । “सेनावनवदित्यादावप्रत्यक्षाणुसूत्रणम्” ॥
त्रसरेण्ववधिस्थाणुस्थापकेषु न शोभते ॥२१॥
1.22 द्रव्यैक्यं प्रत्यभिज्ञा प्रथयति परिमित्यन्तरेऽन्याप्रतीतेरंशूत्कर्षक्षयादिक्षममपि च ततो राशिवत्स्थूलमेकम् । नो चेदश्रान्तचण्डानिलजलधिधुनीदन्तिदावानलाद्यैः क्षोणीयं क्षुद्यमाना क्षणमपि चरमामण्ववस्थां न जह्यात् ॥ २२ ॥
1.22 एवं तन्तुपटादीनां भेदे बाधकं तत्साधकानामन्यथासिद्धत्वं चोक्तम् । तथाऽप्यभेदे किं प्रमाणमिति वदन्तं प्रति स्थिरत्वे प्रमाणमेवात्र प्रमाणमित्याह – द्रव्यैक्यमिति ॥ परिमित्यन्तरे, सत्यपीति शेषः । इदं च भेदसाधकानामुपलक्षणम्, यथा प्रसारितस्याकुञ्चितस्य दीर्घत्वह्रस्वत्वे, यथा च घनीकृतस्य विरलीकृतस्य च तूलपिण्डस्याल्पत्वविपुलत्वे दृश्येते, एवं वृत्तचतुरश्रत्वादिविशेषे दृष्टेऽपि स्यात् । कुतः? अन्याप्रतीतेः, द्रव्यान्तरस्यादर्शनादित्यर्थः । अन्यथा सर्वत्र यत्किंचिदवस्थाभेदमात्रेऽपि द्रव्यभेदो दृश्यत इति धृष्टवादे का प्रत्युक्तिः? पद्मसंकोचविकासादिषु च द्रव्यान्तराभावो न्यायवार्तिकटीकायामुक्तः । किंचान्त्यावयवित्वं पटादीनामिष्यते । तैरनेकैरच्छिन्नावयवैरेकपटादिनिर्माणेऽवयव्यन्तरमुत्पद्यते न वा? पूर्वत्र तेषामन्त्यावयवित्वव्याघातः । उत्तरत्र तन्त्वादिभिरपि तथा स्यात्, अविशेषात् । अन्यस्तर्ह्यन्त्यावयवी भवत्विति चेन्न । सर्वत्रैवं कस्यचित्कार्यस्य सहकारिभेदैः संभवात् । सन्ति चास्मदाद्यशक्यस्रष्टारः केचित्, अन्तत ईश्वरश्च । किं च योऽसौ गोपुरादिरन्त्यावयवी तत्र यदि कश्चित्सुधाभिरवयवान्तरं संघटयेत् तदा तत्पूर्वं गोपुरं तिष्ठति नश्यति वा? पूर्वत्र कथमन्त्यः? उत्तरत्रानन्यथासिद्धोपलम्भविरोधः । नाशकारणाभावे नाशानुपपत्तिः । अपि च तूलपिण्डमध्यस्थमंशुं यदि कश्चित्सूच्याऽपकर्षेत्, तदा तस्य परिमाणह्रासो न दृश्यते ; न च तस्य नाशः । अथापि तत्र ते नाशः कल्प्यः, असमवायिविनाशात् समवायिविगमाच्च । संघातवादे त्ववयवोत्कर्षापकर्षवादमात्रान्न किंचिद् द्रव्यमुत्पद्यते, नश्यति वा ; केवलमाषादिराशिष्विवोपचयापचयमात्रमेव । अतो यथोपलम्भं संघातपक्ष एव साधीयानित्याह – अंशूत्कर्षेति । आदिशब्देनांशविदारणसन्धाने गृह्येते । यदि क्वाचित्कावयवभेदमात्रात्पूर्वद्रव्यनिवृत्तिरवयव्यन्तरोत्पत्तिः स्यात्, तत्रानिष्टमाह – नो चेदिति । अव्यवस्थितेषु प्रदेशभेदेषु तैस्तैर्भेदकैरणुद्वयविघटने द्व्यणुकविनाशादिक्रमेण महापृथिवीपर्यन्तनाशे सति अवस्थितसंयोगैरपि पुनस्तदारम्भावसरो न सेत्स्यति । तदेतत्समुद्रादिषु कैमुत्यसिद्धम् । यदप्येवं कल्प्यते – द्वाभ्यामेवाणुभ्यामाद्यं कार्यद्रव्यमारभ्यते, एकस्यानारम्भकत्वादसमवायिविरहात् । संयोगो हि न स्वेन ; स्वस्य बहुभिरारब्धत्वे महत्त्वप्रसङ्गेन प्रत्यक्षत्वापातात् । बह्वारब्धस्याप्यणुत्वेऽतिप्रसङ्गः; तत्परिमाणं चावयवसंख्याविशेषेणावयवमहत्त्वप्रचययोरसंभवात्, नित्यपरिमाणस्यानारम्भकत्वात्, स्वातिशयपरिमाणारम्भकत्वनियमेनाणुतरपरिमाणारम्भकत्वप्रसङ्गाच्च । सा च द्वित्वसंख्या सर्वज्ञापेक्षाबुद्धिजन्या तद्विनाशकाभावेऽपि कार्यत्वादनित्या । एवं त्रिभिरेव द्व्यणुकैस्त्रसरेण्वारम्भः, तावतैव महत्त्वलाभात्; द्वाभ्यामारम्भे त्ववयवप्रचयमहत्त्वरूपकारणान्तराभावेन महत्त्वानुत्पत्तावदृश्यत्वप्रसङ्गात् । स च त्रसरेणुः अप्रत्यक्षावयवकतद्रूपोऽपि स्वयं प्रत्यक्षः प्रत्यक्षरूपश्च । यद्वा अन्यरूपारोपेणालोच्यते; यथाऽऽहोदयनः – “दृश्यमेव ह्यालोकरूपमारोप्य पिञ्जरस्त्रसरोणोश्चालोच्यत” इति । उत्तरावयविनां त्वनियतसंख्यैरारम्भः । भावरूपस्य सर्वस्य समवाय्यसमवायिनिमित्तसापेक्षत्वेऽपि प्रध्वंसस्तु निमित्तमात्रजन्य इत्यादि । एतादृशं कल्पनाजातं न विद्यावृद्धा बहुमन्यन्ते । तथा च सूत्रं – “अपरिग्रहाच्चात्यनतमनपेक्षेति ॥२२॥ इत्यवयविवादभङ्गः ॥
1.23 संघातोऽनेकभूतैरपि भवति यथा ह्येकभूतस्य भागैर्देहादिः पञ्चभूतात्मक इति निगमाद्युक्तिभिश्च प्रसिद्धम् । न त्वेवं संकरः स्याद्व्यवहृतिनियमस्सूत्रितस्तारतम्याद्देहादौ येन भूतान्तरयुजि भवतो भौमतादिव्यवस्था ॥ २३ ॥
1.23 या चान्या कल्पना शरीरादिषु पृथिव्याद्यनेकभृतसद्भावेऽप्येकमेव भूतमुपादानमन्यत्संसर्गिमात्रमिति, तामपि निरस्यति संघात इति ॥ अवयविसद्भावे ह्येकप्रकृतित्वं नियन्तव्यं न वा त्वया? संघातवादे तु यथादर्शनं सर्वमुपादानम् । न च विजातीयानां संहतिर्नास्ति दृष्टविरोधात् युष्मत्सिद्धान्तविरोधाच्च । अन्यथा कथं तैजस्त्वाभिमते काञ्चनादौ गुरुत्वादिकॢप्तिः? किंच “त्रिवृत्करणं नामरूपव्याकरणार्थं चतुर्विधाहारमयं शरीरं” इति च गर्भोपनिषत् । “पञ्चभूतात्मकं वपुः” इत्यादि च स्मर्यते । तदिदमाह – देहादिरिति । यथा विजातीयवृक्षपोतव्यतिषक्तोपचये वृक्षैकत्वधीः, एवमेकस्मिन्ननेकभूतारब्धे विरुद्धजातिसमावेशगन्धोऽपि न स्यादित्याह – न त्विति । एवंशब्द उक्तहेतुपरो वा ; अपूर्वद्रव्यानुत्पादादित्यर्थः । तदुत्पादेऽपि न जातिसङ्कर इत्याशयः । नरसिंहादिन्यायेनोभयविलक्षणावयव्युत्पत्तिसंभवात् । कल्प्यते च युष्माभिश्चित्रं रूपान्तरम् । एतेन तज्जातीयोपात्तं कथमतज्जातीयमित्यपि प्रत्युक्तम्, तन्त्वादिजातीयैरतन्त्वादिजातीयोत्पत्त्यभ्युपगमाच्च । भवतु वा पृथिवीत्वतोयत्वादीनामेकत्र समावेशः, तथाऽपि का हानिः? परस्परपरिहार्युपाधिद्वयसमावेशन्यायेन दर्शनादर्शनाभ्यामेव सर्वातिप्रसङ्गशान्तेः । ननु पाञ्चभौतिकेषु कथमेकभूतशब्दस्तत्तदर्थक्रियावानियमश्च? वर्णितो हि भवद्भिरेव भूतान्तरोपष्टब्धेष्वपि देहादिषु पार्थिवाप्यादिविभागः । कथं च मन्त्रार्थवादेषु “पृथिवी शरीरमित्यादिविशेषव्यपदेश इत्यत्राह – व्यवहृतीति । सूत्रितो ह्यसौ “वैशेष्यात्तु तद्वादस्तद्वाद” इति “त्र्यात्मकत्वात्तु भूयस्त्वात्” इति च । अत्र प्रतिबन्दीं प्रथयति – देहादाविति । येनेति तारतम्यपरामर्शः । तवाप्यनारब्धावयविकेषु विजातीयराशिषु भूयसा व्यवहारो लोकसिद्धस्संमन्तव्यः । विजातीयदारुशिलाद्यारब्धेषु च खट्वागोपुरादिषु किंचिज्जातीयत्वनियमः, तत्रावयव्यनारम्भे सर्वत्रैवमस्मन्मतसिद्धिः ।
विभागादविभागाच्च भूतभौतिकभेदधीः । सत्येव यदि वा द्रव्ये सिद्धसाध्यदशाद्वयात् ॥
एकत्वं च बहुत्वं च मृत्पिण्डकरकादिवत् । समष्टितव्यष्टिनीत्यैव त्रिगुणे वदति श्रुतिः ॥
ईदृक्सत्कार्यवादश्च वैदिकैः परिगृह्यते । द्रव्यस्य पूर्वसिद्धस्य साध्यावस्थाविशेषतः ॥
ननु यदि पूर्वं नित्यं सत् द्रव्यं, तत्कथं सांख्यमतमुज्झतः कार्यं स्यात्? या त्वागन्तुक्यवस्था सा न प्राक्सती । अतः कथं सत्कार्यवादं ब्रूथ ? इत्थम्- प्राक्सदेव द्रव्यमवस्थान्तरविशिष्टवेषेण कार्यम् ; तथैव लोकवेदव्यवहारस्थितिरिति ॥२३॥ इति देहादेः पाञ्चभौतिकत्वम् ॥
1.24 सन्ति प्रागप्यवस्थास्सदितरकरणाप्राप्तनिष्पत्त्यदृष्टेः शक्ताशक्तप्रभेदादिभिरपि यादि न स्वोचितात्कार्यदृष्टेः । तस्मिन्सत्येव तस्माज्जनिरपि नियता तन्निमित्तादिनीतेर्व्यक्तिर्व्यक्ताऽनवस्थां भजति न च कृतामात्थ नैवं क्रतौ नः ॥ २४ ॥
1.24 ईदृशसत्कार्यवादमसहमानस्य सांख्यस्य नित्यैकान्तवादनियतान् प्रयोगानन्वाह- सन्तीति ॥ द्रव्यपक्षीकारेऽस्मान् प्रति सिद्धसाध्यता ; अतोऽवस्थेत्युक्तम् । यदाहुस्सांख्याः –
“असदकरणादुपादानग्रहणात्सर्वसंभवाभावात् । शक्तस्य शक्यकरणात्कारणभावाच्च सत्कार्यम्” ॥ इति ॥
तत्रायं सदितरकरणादृष्टेरित्येको हेतुः । अप्राप्तनिष्पत्त्यदृष्टेरिति द्वितीयः । सदितरशब्देन प्रागसत्त्वमिह विवक्षितम्, न ह्यसत्खपुष्पादि क्रियेत ; मा भून्नित्यासतः करणम् । अत्र प्रागसत्त्वमात्रमिति चेन्न ; तद्वदेव कदाचिदसतस्सर्वदेवासत्त्वा- पातात् । न चासतः कदाचित्सत्त्वापत्तिः ; विरोधात् । न हि चिच्छक्तेः कदाचिदपि जडत्वम्, जडस्य वा चित्त्वम् । एवं यद्यतोऽन्यत् न तत्सर्वं कदाचिदपि तत्स्यात् ; प्रमाणादेरपि कदाचिदप्रमाणत्वप्रसङ्गात् । न चातीतादेर्वर्तमानतादि- रीश्वरेणापि ? सुनिष्पादः । असत्त्वं सत्त्वं च वस्तुनोऽवस्थेति चेत्, वस्तुनस्तर्ह्यनादितैव । नच सन्निवासन्घटः प्रागुपलभ्यते; अस्माकं त्वव्यक्तावस्थयाऽनुपलब्धिरप्युक्ता । न ह्यसन् घटादिर्न घटादिरिति तु कस्यचिद्वचनं बालप्रतारणम्, अभावप्रतियोगिवचने विवक्षितविरुद्धोक्तेः, अभावमात्रविवक्षायां विरोधादिति । उपादानग्रहणादित्यनेन विवक्षितं हेतुं व्यतिरेकेण व्यनक्ति- अप्राप्तनिष्पत्त्यदृष्टेरिति । न हि घटादिकार्यमप्राप्तैरन्यत्र दण्डचक्रादिभिस्तस्योत्पत्तिः, तन्त्वादिभिर्वापटादेः । अतोऽवगभ्यते स्वकार्यं प्राप्तैरेव निमित्तैरुपादानैश्च स्वसाघ्यसाधनमिति । प्राप्तिश्च द्विनिष्ठेति साध्यस्यापि साधनवत्पूर्धभावित्वात्, सदेव साध्यमिति । शक्तस्य शक्यकरणादित्युक्तहेत्वभिप्रायेण शक्ताशक्त- प्रभेदवचनम् । असतोऽप्यप्राप्तस्यापि सृष्टिः, हेतुशक्तिनियमात्स्यादित्यस्योत्तरमेतत् । अयं भावः -यदि कारणेष्व- सत्तदप्राप्तं च कार्यमुतद्येत, तदा तिलेभ्य एव तैलं किमुत्पाद्यते, न सिकतादिभ्यः? शक्ताशक्तभेदादिति चेत्, सिद्धं नस्समीहितम् । तिलानां तैलोत्पादनशक्तिर्हि तद्गर्भत्वमेव, अन्यादर्शनात् ; तदशक्तिश्च सिकतानां तदभावः । तथा सति तद्वतस्तन्निष्पत्तेः प्रागपि तत्सिद्धिरनिवार्येति । आदिशब्देन कारणभावात्, सर्वसंभवाभावादिति हेनुद्वयग्रहणम् । काराणभावात्- कार्यस्य कारणात्मकत्वादित्यर्थः । प्रागेव सति कारणे कथं तदा तदभिन्नं कार्यमसद्भवेत् ? नन्वस्तु प्रागसदेव कार्यं मा च भूवन् हेतुप्राप्तितद्वृत्तितदैक्यानि, तथाऽपि कस्यचिदेव किंचित्कार्यमित्यत्र सर्वसंभवाभावादिति प्रसङ्गतद्विपर्ययाभ्यां प्रत्युक्तिः । तथा हि -यदि प्रागसत् हेतुभिरप्राप्तं हेतुवृत्तितादात्म्यरहितं च तत उत्पद्यते, सर्वस्मात्सर्वसंभवः स्यात्, नचासावस्तीति । पञ्चानामप्याभासत्वाभिप्रायेण प्रतिवक्ति- नेति । तत्र प्रथमस्य प्रतिक्षेपे हेनुः- कार्यदृष्टेरिति । शेषाणां तु स एव स्वोचितादिति विशेषितः । न तावत्कार्यमिति किमपि न दृष्टम्, सर्वलोकवेदविरोधात्; व्यक्तिसाधनस्यापि निराश्रयत्वप्रसङ्गाच्च । न च दृष्टमपि न सत्यं, माध्यमिकादिमतानां निराकरिष्यमाणत्वात् । न च सत्यमपि न कारणाद्व्यतिरेकेण गृह्यते ; उक्तोत्तरत्वात्, प्रकृतिविकृतीत्यादिविभागभङ्गप्रसङ्गाच्च । अतः कारणाद्भिन्नत्वेन दृष्टं कार्यं तेनाकारेण पूर्वं नासीदिति त्वयैवाकामेनापि स्वीकर्तव्यम् । न हि घटाकारेण निष्पन्नस्य पुनरपि दण्डादिव्यापारनिष्पाद्यत्वमस्ति । किंच कार्यव्यङ्ग्यशब्दौ च व्यवस्थितविषयौ लोकं दृष्टौ । कारकव्यञ्जकभेदश्च । कारकं समग्रमप्येकमुत्पादयति । व्यञ्जकं तु सहकारिसंपन्नं समानेन्द्रियग्राह्याणि समानदेशस्थानि तादृशानि सर्वाण्यपि व्यनक्ति । तदत्र घटादिव्यक्तिसामग्र्यैव तद्वन्मृत्पिण्डगतानां करकादीनामपि व्यक्तिः स्यात् । व्यञ्जकत्वे सिद्धे ह्यवान्तरव्यङ्ग्यभेदप्रतिनियतव्यञ्जकभेदव्यवस्थाकॢप्तिः । न चेह तथा ; आगन्तुकाभावे च पुरुषवत्प्रकृतिरपि ते निर्व्यापारैव स्यात् । तथा च गतं सृष्टिप्रलयादिवादैः सिद्धान्तसृष्ट्यादिभिश्च । किंच सत्कार्यमिति कार्यस्य सत्त्वमात्रे साध्ये सिद्धसाध्यता ; कारकव्यापारात्प्रागपि सदिति साध्ये कार्यस्य कारकव्यापारस्य प्रागसत्त्वमङ्गीकृतं स्यात् । असदकरणात्, शक्तस्य शक्यकरणादिति हेत्वोश्च करणशब्देना- पूर्वोत्पादने विवक्षिते स्ववचनव्याघातः । व्यक्तिविवक्षायां तु व्यज्यमानत्वात्प्रागपि सदिति स्यात् ; तदा अन्यतरासिद्धो हेतुः । ननु सतोऽभिव्यक्तौ घटतैलतण्डुलादिनिदर्शनमस्ति, असत उत्पत्तौ न किंचिदिति चेत्, किमतः ? न हि निदर्शनमेव प्रमाणं, हेतुनैष्फल्यप्रसङ्गात् । न च निदर्शनाभावो बाधकः, सर्वत्र प्रतिनियतस्वभावलोपप्रसङ्गात् । अपि च असदकरणादित्यत्र कार्यस्य प्राक्सत्त्वे क्रियमाणत्वादित्येव हेतुः स्यात्, तथा च प्रतिज्ञाहेतुविरोधः । विपक्षात् स्वपुष्पादेः सपक्षाच्च सर्वस्मात् व्यावृत्तत्वेन हेतोरसाधारणत्वप्रसङ्गश्च । भावत्वेन तु प्राक्सत्त्वं साधयाम इति चेत्, तथाऽपि प्रत्यक्षविरोधः । अन्यथा नित्यासतोऽपि कुतश्चिन्नित्यसत्त्वसाधने निवारकाभावात् । असतः सत्त्वापादनमशक्यमित्युक्त-मिति चेन्न ; अत्यन्तासत्त्वे विवक्षिते कार्येषु तदभावात् ; प्रागसत्त्वे तु सृष्ट्यनुगुणस्यैव तद्विरुद्धत्वोपन्यासात् ।.
प्रागसत्तुच्छमेव स्यात् सच्च नित्यं सदित्यसत् । अयथादृष्टि निर्णेतुरशेषाभीष्टविप्लवात् ॥
अन्योऽपि घटवान्कालः कालत्वादिति वादिनः । पक्षदृष्टान्तबाधादिप्रसङ्गः प्रणिधीयताम् ॥
यच्च कारकाणां कार्यं प्राप्तानामेव तदुत्पादकत्वमिति ; व्याहतमेतत् । किंच कि दृष्टत्वादेवमङ्गीक्रियते ? अव्यव- स्थाभयाद्वा ? नाद्यः ; अनन्यथासिद्धनियतपूर्वभावित्वादतिरिक्तायाः कार्यप्राप्तेः कारणानां मिथः प्राप्तिवत् त्वयाऽप्यदृष्ट-त्वात् । तदिहानङ्गाङ्गीकारो युक्ताङ्गहानिश्च, प्रागसत्त्वस्य युक्तस्योपेक्षणात् । अविषयवृत्तित्वं वा, कारकाणां संबन्धस्य विरुद्धस्थले संचरणात् । समश्च प्राप्तावप्यतिप्रसङ्गः । न हि प्राप्तयोरपि रज्जुघटयोर्जन्यजनकता । तत्र नित्यप्राप्ति- र्नास्तीति विशेष इति चेत् , निमित्तानामपि घटादिभिर्नित्यप्राप्त्यसंभवात् । उपादाने तु स्यादिति चेन्न; निमित्तवदेव नित्यप्राप्तिनैरपेक्ष्यात् । त्वत्पक्षेण च यद्येन नित्यप्राप्तं न तत्तस्योपादेयम् ; यथा पटस्य तन्तुः, तथा च पटः, तस्मान्न तन्तुपादेय इति प्रसङ्गात् । प्रकृतिपुरुषयोर्नित्यप्तप्तयोर्नोपादानोपादेयभावः । अतौ यद्येन नित्यप्राप्तं न तत्तस्योपादेयं यथा प्रकृतिपुरुषयोरन्योन्यमिति, पटादिकमपि येन नित्यप्राप्तं कथ तस्योपादेयं स्यात् ; तयोरन्योन्यप्राप्तिर्नास्तीति चेन्न ; “पङ्ग्वन्धवदुभयोरपि संयोगस्तत्कृतः सर्ग” इति स्वसमयविरोधात् । अजसंयोगपक्षे विभूनामपि नित्यप्राप्तेः । “व्याप्तिरूपेण संबन्धस्तस्याश्च पुरुषस्य च । दारुण्यग्निर्यया”- इत्यागमविरोधाच्च । “जहात्येनां भुक्तभोगामिति श्रुत्या मुक्तस्य प्रकृतिप्राप्तिर्निवर्त्स्यतीति चेन्न ; तदाऽपि परस्परधर्माध्यासाधिकारभूतदर्शनमात्रनिवृत्तेः त्वदिष्टत्वात् ; यद् ब्रूथ – “या दृष्टाऽस्मीति पुनर्न दर्शनमुपैति पुरुषस्य” इति । अतः कार्यप्राप्तिः कारणानङ्गम् । उक्तं चाक्षपादेन “घटादिनिष्पत्तिदर्शनात्पीडने च व्यभिचारादप्रतिषेध” इति । अत्र कार्यमप्राप्तैः इत्युपस्कार्यम् । एतेन-
“असत्त्वान्नास्ति संबन्धः कार[कै]णैः सत्त्वसङ्गिभिः । असंबद्धस्य चोत्पत्तिमिच्छतो न व्यवस्थितिः ॥
इति साङ्ख्यवृद्धगाथाऽपि प्रत्युक्ता । इह तु स्वोचितात्कारकचक्रात् तत्संबन्धतश्च कार्यदृष्टेरित्यव्यवस्थामूलघातः । एतेन विमतं पूर्वापरकाक्त्योरपि सत् प्रमेयत्वात् सत्त्वाद्वा, आत्मवत् ; विगीतः काल एतद्धटादिमान्, कालत्वात्, एतत्काल-वदित्यादिर्निरस्तः ; सर्वलोकप्रत्यक्षादिबाधात् ।
कारकव्यञ्जकानां च व्यवहारव्यवस्थितिः । किंनिमित्तेति वक्तव्यं सर्वनित्यत्ववादिना ॥
न हि व्यक्तौ विशेषोऽस्ति न चावरणवारणम् । तयोरपि भवत्पक्षे नित्यत्वात्साध्यता कथम् ॥
आवारकं च नित्यं चेन्नित्यमावरणं भवेत् । अन्यथा त्वपसिद्धान्तस्तत्तिरोधिश्च दुर्वचः ॥
तिरोधिं तन्निवृत्तिं च नानित्यौ तस्य मन्यसे । मिथश्चाभिभवाद्युक्तिर्गुणेष्वेवमनर्थिका ॥
समानदेशकालत्वमभावप्रतियोगिनोः । सहन्ते क्वाप्यगत्यैव न तथाऽत्रान्यथा गतेः ॥
अपि चाशेषनित्यत्वे पौर्वापर्यं न कुत्र चित् । व्यक्तिभोगापवर्गादिसाध्यतोक्तिरतो मुधा ॥
स्वप्रवृत्त्यादिनैष्फल्यं शास्त्रादेरप्यनुत्थितिः । सांख्यचार्वाकयोस्स्यातां साध्यसाधनबाधनात् ॥
अयोग्यत्वं तिरोधानं योम्यत्त्वं व्यक्तिरित्यपि । तन्नित्यानित्यताभ्यां ते विवक्षितविघातकृत् ॥
इन्द्रियप्रतिघातेन भागैर्भागान्तरावृतिः । यथाऽन्यत्र तथा नात्र कादाचित्कदशात्यजः ॥
असंभवनिरस्तं च ग्रसनोद्ग्रसनादिकम् । मृत्पिण्डादिषु दुस्साधं शास्त्रमप्यनिदम्परम् ॥
अप्राप्तावव्यवस्थोक्ता प्राप्तावपि तवापतेत् । व्यक्तिवादोऽत एवेत्यप्ययुक्तं तन्निरासतः ॥
सत्त्वादिगुणभूयिष्ठभागभेदाव्यवस्थितेः । त्रिगुणद्रव्यसंबन्धः प्रवाहानादिरात्मनाम् ॥
सार्वकज्ञ्यप्रगभावात्मा तिरोधिरपि कर्मिणाम् । संविद्विकाससङ्कोचप्रवाहान्नातिरिच्यते ॥
तत्तत्कर्मप्रवाहेण तयोरेवं व्यवस्थितेः । न हि स्वरूपतोऽनादेर्हेतुरस्माभिरिष्यते ॥
यत्तु कारकशक्तिर्नाम तद्गतं सूक्ष्मं कार्यमिति कल्प्यते तत्प्रतिबन्द्या प्रतिरुणद्धि- तस्मिन्निति । तस्मादित्यत्रापि स्वोचितादिति विशेषणीयम्, यथा सर्वेषु द्रव्येषु तिला [रव तैलगर्भाः स्वकारणशक्त्या सृज्यन्ते, तथा तत्तत्कार्य- नियतपूर्वभावितया तत्तदुत्पादकस्वभावास्ते ते भावास्तथैवेति स्वीकार्यम् ; अन्यथा दृष्टहानमदृष्टकल्पनं च । प्रतिबन्द्य- न्तराणि स्वव्याघातं चाभिप्रेत्याह- तन्निमित्तेति । निमित्तादीनां कार्योत्पादनशक्तिरस्ति वा न वा ? न चेत्कथं तन्नि- मित्तत्वम् ? अन्येषां वा कथमतन्निमित्तत्त्वम् ? । अस्ति चेत्सा किं कार्यस्य सूक्ष्मावस्था ? अन्या वा ? न पूर्वः ; अप- सिद्धान्तात् । उपादाने हि तत्सत्त्वमङ्गीकरोषि, अन्यथा प्रकृतेरिवात्मनोऽपि प्रपञ्चगर्भत्वेन प्रकृतित्वप्रसङ्गात् । आत्मा खल्वयस्कान्तवन्निर्व्यापारोऽपि सन्निधिमात्रेण निमित्तमिष्यते, तथा सति निमित्तोपादानवैषम्यविलयाच्च । नाशकेषु च नाश्यवृत्तिरस्ति वा न वा ? अस्ति चेद्वह्नौ तूलवद्विरोधः । न चेत्कथं तदेव तस्य नाशकम् ? न ह्यतद्वृत्तिस्तेन नाश्यते, शुक्तावविद्यमानस्य रूप्यस्य तया नाशप्रसङ्गात्, सर्वत्र वाऽतिप्रसङ्गात् । दूषणेषु च दूष्यं वर्तते न वा ? पूर्वत्र दूषण- त्वादेरिव तद्वृत्तेस्तेन दूषणायोगः । उत्तरत्र तद्वृत्तिरहितस्य घटादेरिव तद्दूष्यत्वं न स्यात् । अथैतेषु यथादर्शनं व्यवस्थेष्यते । प्रकृतेऽपि तथा स्यात् । एवं निमित्तादिप्रतिबन्द्यैव कार्यस्य कारणभावः सर्वत्र सर्वसंभवप्रसङ्गश्च निरस्तः । यानि च सांख्यानामवस्थातद्वतोरभेदसाधकानि, तेषु यदेतत् पटस्तन्तुभ्यो न भिद्यते तद्धर्मत्वादिति ; अत्र तावत्प्रति- ज्ञाहेतुविरोधः स्पष्टः । दृष्टान्ताभावेन व्याप्तिश्च नास्ति । यद्यतो भिद्यते न तत्तस्य धर्म इति व्यतिरेकव्याप्तिरस्तीति चेन्न ; सपक्षेभ्यस्तन्तुभ्योऽपि व्यावृत्तत्वेन केवलव्यतिरेकित्वायोगात् । यदपि तदुपादेयत्वात्तदभिन्न इति, एतदपि पूर्ववदेव । तदुपादेयत्वं च तज्जन्यत्वमात्रं वा, तद्विकारत्वं वा, तत्संबन्धित्वं वा, तद्धर्मत्वं वा, तदभिन्नत्वं वा, अन्यद्वा यत्किंचिदिति । नाद्यः; निमित्तैरप्यभेदप्रसङ्गात् । न द्वितीयः, तद्धर्मत्वहेतूक्तदोषादेव । उभयत्र पटावस्था तन्त्वात्मा न भवति तन्तुभ्यो भिन्नत्त्वात् घटवदिति प्रतिप्रयोगस्य शक्यत्वाच्च । इष्टो हि त्वयाऽपि तत्र भेदोऽपि । न तृतीयः, कारणेषु परस्परसंबन्धिषु व्यभिचारात्, त्वत्पक्षेणासिद्धेश्च । न हि धर्मधर्मिणोस्तादात्म्यवादिनः तत्संबन्धित्वसंभवः, समवायस्यानभ्युपगमात् अन्यतरस्याद्रव्यत्वे तु संयोगायोगाच्च । न चतुर्थः, प्रागेव दूषितत्वात् । न पञ्चमः, तस्यैव साध्यत्वात् । न षष्ठः, अभेदव्याप्यस्य कस्यचिदन्यस्य त्वयाऽप्यदर्शनात् इति । यच्चैतत्पटस्तन्त्वात्मकः तत्संयोग- तदप्राप्तिरहितत्वात्, तादात्म्याभावे हि कुण्डबदरयोरिव संयोगो वा स्यात्, हिमवद्विन्ध्ययोरिवाप्राप्तिर्वा ; तदुभयमिह निवर्तमानं तादात्म्यविरहमपि निवर्तयति इति । तदपि मन्दम्; तादात्म्यविरहेऽप्यन्यतरस्याद्रव्यत्वात् संयोगाभावः; तद्धर्मस्वभावत्वादेवाप्राप्तिपरिहार इत्यन्यथासिद्धस्यासाधकत्वात् । अन्यथा तादात्म्यभाव इव भेदसद्भावेऽपि घटपटयोरिव धर्मधर्मिभावो न स्यादिति प्रसज्येत । गुरुत्वान्तरकार्यादर्शनं तु द्रव्यान्तरोत्पत्तिं प्रतिरुन्ध्यात् ; न त्ववस्था- तद्वतोरभेदं विदधीत । ननु जनिरपि व्यक्तिरेव, “जनी प्रादुर्भावे” इति धात्वर्थपाठात् । न ; जनिव्यक्तिशब्दयोरर्थभेदेनैव निरूढेः । प्रादुर्भावपाठोऽप्युत्पत्तिपरस्स्यात् निर्वर्त्यप्राप्यभेदसिद्धेश्च । जन्यं हि निर्वर्त्यम्, व्यङ्ग्यं तु प्राप्यम् । अभूतत- द्भावादिषु प्रागसतस्सत्त्वमनुस्मृतमेव । भवतु वा जनिशब्दो व्यक्तिपरः ।
न व्यक्तिरुपलब्धिस्ते दृष्टादृष्टदशान्वयात् । अथोपलब्धियोग्यत्वं न तदव्यापकत्वतः ॥
सत्स्वलक्षणपूर्तिश्चेदभिव्यक्तिस्तदप्यसत् । साऽपि वः प्राक्तनी नो चेन्न सिध्येद्धेतुरप्यसन् ॥
किं च व्यक्तिरपि नित्या कार्या वा ? पूर्वत्र कारकाणामिव व्यञ्जकानामपि नैष्फल्यम् । उत्तरत्रार्धजरतीयः सत्कार्यवादः । व्यक्तेरपि व्यक्त्यर्थं कारकापेक्षेति चेत् तत्रानवस्थाप्रसङ्गमाह- व्यक्तिरिति । व्यक्तेः कार्यत्वपक्षे अपसिद्धान्त- मसदकरणादित्यादिहेतुविरोधं चाभिप्रेत्याह- न चेति । ननु कार्यस्य कृतिस्तावन्न कार्यस्वरूपमेव ; कार्यं क्रियते घटः क्रियत इति सामान्यतो विशेषतश्च सहप्रयोगात् । अतिरिक्ता च सा । तया सनि कार्यव्यक्तौ कः प्रद्वेषः ? कृतिरपि कृता वा व्यक्ता वा ? पूर्वत्रानवस्था ; उत्तरत्र कारकनैष्फल्यापसिद्धान्तौ । व्यक्तिरपि कृता व्यक्ता वेत्युभयधाऽप्य- नवस्था । तत्राह- नैवमिति । कृतिर्हि कारकाणां व्यापारः, स चागन्तुस्वकारणव्यापरेण जन्यते । सोऽपि तथेति सिद्धाऽनवस्थैषा । सा च सर्वसंमता न दोषः । त्वयाऽप्यभिव्यञ्जकव्यापारो व्यञ्जकान्तरव्यापारव्यङ्ग्य इति वाच्यम् । ननु व्यक्तिर्न व्यज्यते न क्रियते च, अव्यक्तैव नित्यं स्वयं व्यक्तैव वा कार्याणां व्यक्तिः स्यात् । न स्यात्, तदर्थकारक- व्यापारवैयर्थ्यप्रसङ्गात्, कार्याणां नित्यव्यक्तिप्रसङ्गाच्च । ननूत्पत्तिर्नाम सत्तासमवायो वा, स्वकारकसमवायो वा ? स चं नित्यः न तदर्थश्च कारकव्यापारः कृतिरिति समा नश्चर्चा । न ; समवायस्यास्माभिरनभ्युपगमात् । तदेतदस्मच्छब्दान्वा- देशेन सूचितम् । का तर्ह्युत्पत्तिः ? कृतिरेव । अन्यधर्मः कथमन्यस्योत्पत्तिरिति चेतादर्थ्येन तद्धर्मतोपचारात् । यदा हि तन्त्वादयो व्याप्रियन्ते तदा पट उत्पद्यत इति व्यवहरन्ति, आद्यक्षणावच्छिन्नपटत्वावस्थैव वा पटोत्पत्तिरुच्यते । “सैव तदवस्थस्योत्पत्तिरिति भाष्यमपि तदभिप्रायमेव स्यात् । अत एव हि सहप्रयोगोपपत्तिः । न चेदृश्या उत्पत्तेरीदृश- मुत्पत्त्यन्तरमस्ति । तथाऽपि प्रागसिद्धस्वरूपलाभादुत्पत्तिशब्द उपचाराद्भवतु वा मा वा । तदा कार्योत्पत्त्यर्थः कारकव्यापार इति सिध्यति । स एव यदोत्पत्तिर्विवक्षिता, तदा कार्यार्थः कारकव्यापार इत्येव वक्तव्यम्, अन्यथा तूपचारः ।
क्रियैव कारकाणां स्यात् प्रतिसंबन्धिनीत्यसत् । प्राक्सत्त्वासत्त्वसंक्षोभस्तस्यामपि हि दुस्तरः ॥
क्रियावद्भिः पटादेश्च कारकैस्तादृशोऽन्वयः । प्रधाने गागनिष्पत्त्या भागैरैक्याच्च भागिनः ॥
प्राक्सत्त्वं सर्वभावानां मिथश्चैक्यमिति त्वसत् । भिन्नांशपूर्वसत्त्वे हि नाभिन्नाद्भेदसंभवः ॥
भिन्नाभिन्नाद्यदि व्यक्तिर्भेदानां प्राक्तनी भवेत् । एकस्य प्रागसन् भेदो यदि सपादस्मदिष्टवत् ॥
प्राक्सतोऽस्याप्यवस्था चेत्तथाऽप्यस्मदभीष्टवत् ॥ २४ ॥ इति सांख्यसत्कार्यवादभङ्गः ॥
1.25 वस्तुस्थैर्यं विरुद्धानुपहितविषया साधयेत् प्रत्यभिज्ञा नैकस्मिन् शक्त्यशक्ती कृतितदितरयोः साह्यभेदेन सिद्धेः । एकस्मिन् कालभेदाद्भवति च सहकार्यन्वयानन्वयादिर्नो चेन्नो देशभेदादपि सुपरिहरस्तेन नैकं क्वचित्स्यात् ॥ २५ ॥
1.25 अर्धवैनाशिकनिरासाय सत्कार्यवादे साधिते तुल्यन्यायतया सर्वनित्यत्ववादेन समुत्थितः सांख्यो निरस्तः । अथ पक्षत्रयप्रतिपक्षं वैनाशिकमतं निरस्यति- वस्तुस्थैर्यमिति ॥ वस्तुशब्देन सत्त्वानुमानसूचनम् । यथाऽऽहुः- “यत्सत् तत्क्षणिकं यथा जलधरः सन्तश्च भावा इति । यदक्षणिकं तदवस्तु यथा खसूनम् । अक्षणिकत्वे चामीषां तद्वदसत्त्व- प्रसङ्ग इति भावः । विरुद्धानुपहितविपयेति– विरुद्धाधर्मासंसृष्टविषयेत्यर्थः । दीपस्रोतःप्रभृतिषु अनन्यथासिद्धभेदकब- लात् बाधः । विप्रतिपन्नैकत्वधीः प्रमा विरुद्धधर्मासंसृष्टविषयत्वात् संमतैकत्वधीवत् । न हि स्वलक्षणानां प्रत्येकमेकत्वं नास्ति ; तथा सत्येकानेकसर्वविकल्पलोपेन माध्यमिकविजयप्रसङ्गात् । रूपादिधीवदित्येव वोदाहर्तव्यम् । तदियं प्रमितिः सती प्रत्यभिज्ञा पूर्वापरकालवर्तिविषयं साधयति । दीपनदीप्रवाहकृत्तपुनःप्ररूढकेशादिषु तु संप्रतिपन्नसामग्री- भेदादिबाधकबलात् तस्या न साधकत्वम् । ननु स इति धीः स्मृतिः, अयमित्यनुभवः, निरन्तरात्पत्तेः ज्वालाक्षणेष्विव तयोर्भेदाग्रह इति, तन्न ; समानाधिकरणबोधात् । यद्यपि सोऽयमिति व्यवहारे तादृशधीभेदेन वैयधिकरण्यशङ्का ; तथाऽपि तमिमं पश्यामीत्यादिषु उभयाकारविशिष्टस्यैकस्य दृशिकर्मत्वदृष्टेर्बुद्ध्यैक्यं दुरपह्नवम् । अत एव ग्रहणस्मरणात्मकमिदं ज्ञानमिति वदन्तः प्रत्युक्ताः । ननु कथमिन्द्रियासंबद्धः तदंश इदानीमिन्द्रियेण गृह्येत ? मनोसंबद्धोऽनुभूतविषयः कथं मनसा ? तदनुभवजन्यसंस्कारसहकारादिति चेत्, समानमत्रापि । दृष्टत्वात् तथैव तत्रेति चेत, अत्राऽपि तथैव । वैद्याकारैकदेशादुत्पन्नस्य प्रत्यक्षत्त्वे शुक्तिरजतधीरपि मानं स्यादिति चेन्न; आरोपप्तारोपाभ्यां विशेपान् । किं च संस्कारोपनीतरजताद्यारोपे च इदं रजतमिति चाक्षुषबुद्धिरेका । न हि तत्र रजताद्बुद्ध्युत्पत्तिः, तस्यासन्निहितत्वात् ; अर्थजत्वेन त्वदुक्ताविसंवादित्वप्रसङ्गाच्च । इन्द्रियजन्यतया प्रत्यक्षत्ववत् संस्कारजन्यतया स्मृतित्वमपि दुर्निवारमिति चेन्न, तमेतमनुभवामि पश्यामीत्यादिप्रत्यक्षविरोधादेव । अत एव संस्कारप्राधान्यमुत्प्रेक्ष्य केवलस्मृतित्वशङ्काऽपि निरस्ता । भवतु वा स्मृतित्वमपि ; तथाऽपि स्मृत्यनुभवात्मकमेकं ज्ञान स्वविषयस्य स्थिरत्वं साधयत्येव । कथमप्रमा स्मृतिरर्थं व्यवस्थापयेदिति चेत् ; किमत्राप्रमात्वं ज्ञानव्यतिरिक्तत्वं वा ? अनुभवव्यतिरिक्तत्वं वा ? अयथार्थत्वं वा ? नाद्यः, असिद्धेः । न द्वितीयः, त्रितयप्रकाशवादिभिः स्मृतेरप्यात्मस्वात्मविषयेऽनुभवत्वस्वीकारात्, त्वया च स्वसंवेदनांशेऽपि । विषयांशेऽनुभवव्यतिरिक्तत्वं स्मृतेरिति चेत्, तथाभूताऽपि स्वकारणानुभवात् स्वविषयमबाधितं व्यवस्थापयेत् । अस्वातन्त्र्यादिविचारसत्यत्र प्रकृतानुपयुक्तः । न तृतीयः, यथार्थस्मृतौ विरोधाभावात् । सर्वाऽपि स्मृतिरयथार्था अतीतस्य वर्तमानतया अवभासादिति चेन्न ; अतीततयाऽपि प्रायशः स्मृतिभिरर्थोल्लेखात् । प्रच्युततदाकारस्य तद्वत्तया भासनादयाथार्थ्यमिति चेन्न ; स्मृतिप्रमोषे तदभावात्, अतीतादिविषयानुमानानामपि तत्प्रसङ्गाच्च । तर्हि पाकरक्तेऽपि श्यामत्वधीर्यथार्था स्यादिति च मन्दम् ; प्राचीनश्यामताबुद्धौ विरोधाभावात् । एतेन स्मृतिर्न बाह्यविषया नष्टेऽप्यर्थे स्मृतिदर्शनादिति वदन्तोऽपि निरस्ताः । एव प्रत्यभिज्ञा स्थिरविषयेति सिद्धे सोऽहमिति धीश्चात्मनः स्थिरत्वमुल्लेढि । तदहं स्मरामीति स्मृतिमात्रेण चैतत्सिद्धम् । ननु विरुद्धानुपहितविषयेत्यसिद्धम्, कुर्वदकुर्वत्क्षणयोः शक्त्यशक्तिभ्यां वैजात्यादित्यत्राह- नैकस्मिन्निति । कुर्वतोऽकुर्वतश्चैकत्वेऽङ्गीक्रियमाणेऽपि शक्त्यशक्तिरूपविरुद्धधर्माध्यासो न स्यादित्यर्थः । शक्तश्चेत्कुर्यादेव, न करोति चेदं कुसूलनिहितं बीजमिति प्रसङ्गतद्विपर्ययाभ्यां शक्त्यशक्तिसिद्धिरिति चेन्न ; शक्तस्यापि करणाकरणयोः सहकारिसन्निध्यसन्निधिप्रयुक्तत्वात् । तदाह- कृतितदितरयोरिति । साह्यं- सहभावः । कदाचित्पुष्कलैः सहकारिभिः साह्यं कदाचिद्विकलैरिति प्रयोजकभेदेनेत्यर्थः । अकुर्वत्स्वभावस्य कथं सहकारिभिरपि कुर्वता, कुर्वत्स्वभावस्य वा कथम् ?
तद्विरहात्तदभाव इति चेन्न ; सहकारिसन्निधौ कुर्वत्तया तदभावे चाकुर्वत्तया स्वभावव्यवस्यासिद्धेः । परसापेक्षः कथं स्वभाव इति चेन्न ; स्वहेतुसापेक्षत्ववदुपपत्तेः, अधिपतिसहकार्यालम्बनसमनन्तरप्रत्ययाश्चत्वारो विज्ञानोत्पत्तौ कारण- मिति युष्मदुक्तिविरोधात् । अर्थजत्वं च प्रामाण्यं ब्रूषे । उपच्छन्दनार्थमुतानवाक्यमिति चेन्न ; अतिप्रसक्त्या सिद्धान्त- स्थितेर्दुर्निरूपत्वप्रसङ्गात् । शक्तं चेदन्त्यतनुसंयोगादिवदवश्यसिद्धसहकारिचक्रं स्वकार्यं कुर्यादिति चेन्न ; स्वकारणारापततां सहकारिणामेतदधीनत्वाभावान् । पराधीनत्वेऽप्यवर्जनीयं ततान्निधानमिति चेन्न ; अन्यथाऽपि दृष्टेः । अस्तु सहकारिसंबन्धासंबन्धादिकमेव विरुद्धत्वाद्भेदकमित्यत्राह- एकस्मिन्निति । आदिशब्देन प्रस्तुतकरणा- करणादिसंग्रहः । कालभेदाद्विरुद्धस्वीकारे किम्, कुत्र, नासीत्, न स्याद्वेति सर्वत्राव्यवस्थितिरिति चेन्न ; दर्शनादर्शननियमाभ्यामेव संभवासंभवस्थितेः । एवमनभ्युपगममनुवदन्प्रतिबन्दिमाह- नो चेदिति । अत्रास्ति करोति च, अन्यत्र नास्ति न करोति चेत्यादिनिर्देशभेदेन सत्त्वासत्त्वादिसमुच्चयः सुदुष्परिहरः स्यात् । अपिर्विषयभेदाद्यनुक्त- समुच्चये । विषयादिभेदादपि हि विरोधः परिह्रियते । क्वचिच्छक्तं क्वचिदशक्तं केनचिज्जन्यते व्यज्यते बाध्यते वा नान्येन, कस्यचित् प्रतियोगी व्याप्यः व्यापकः पूर्वः परो वा नान्यस्येत्यादि । एवं विषयभेदादिभिरपि विरोधस्ते दुष्परिहरः । ततः किमित्यत्राह- तेनेति । विरुद्धानां देशकालाद्यसमाहितविरोधत्वेन स्वलक्षणस्यापि विरुद्धशतक्षुण्णतया नानात्वे तत्क्षोदानां च तथातथा क्षोदे किंचिदप्येकं न सिध्येत्, तदभावे च कुतोऽनेकमिति माध्यमिकमतापातः । सैव तर्हि सुगतमतकाष्ठेति तत्र तिष्ठाम इति चेत् ; तन्निष्ठेन त्वयाऽस्मन्मतबाधकानुपन्यासे विवादाभावः । तदुपन्यासे तु तत्रतत्र तद्बाधावाधविकल्पदौस्थ्यं दुष्परिहरमिति भावः ॥ २५ ॥
1.26 तत्त्वेदंत्वे हि कालान्तरघटनमये नैककाले घटेतां कालद्वैतेऽनवस्थाद्यत इह न मितिः प्रत्यभिज्ञेति चेन्न । स्वस्य स्वाभावकाले विहतिनियमनात्स्वेन चात्रैककाल्यात् काले कालानपेक्षे कथमपि सुवचौ नानवस्थाविरोधौ ॥ २६ ॥
1.26 पुनरपि प्रकारान्तरेण प्रत्यभिज्ञाबाधकं विरुद्धधर्माध्यासं प्रतिबन्दिविशेषमप्याशङ्कते- तत्त्वेदंत्वे हीति ॥ अतीत- कालसंबन्धस्तत्त्वम्, वर्तमानकालसंबन्ध इदंत्वम्, न ह्यतीतं वर्तत इति संभवति सर्वेषां नित्यत्वप्रसङ्गात् ; वर्तमानं च यद्यतीतं कथमस्मदादिप्रत्यक्षेण गृह्येत ? किं च कालद्वयान्वयरूपयोः तत्त्वेदन्वयोरेकवस्तुसंबन्ध एकस्मिन्काले भिन्ने वा ? पूर्वत्र विरोधः ; तस्मिन्नेतस्मिंस्तदुभयपूर्वापरे वा क्वचिदपि काले कालान्तरसंभेदायोगात्, अन्यथा त्रैकाल्य- यौगपद्यप्रसङ्गात् । एतेन विरुद्धानुपहितविषयेति विशेषणं चासिद्धम् । उत्तरत्र कालद्वयनिर्वाहककालभेदाश्रयणे तयोरपि तथेत्यनवस्थापांतः ; न चैवं दृष्टमिष्टं वा । न च देशद्वयप्रतिबन्दिः, अस्माभिस्तदनभ्युपगमात् । तस्मात्कालद्वयविशिष्टे वस्तुनि प्रवृत्ता कृत्स्ना प्रत्यभिज्ञा न प्रमितिः विरुद्धविषयत्वात् शुक्तिरूप्यधीवत्, प्रत्यभिज्ञात्वादेव वा दीपादिप्रत्यभिज्ञावदिति चेत्, अत्र न कालद्वयमात्रं वस्तुनि विरुद्धं, विरुद्धकालान्वयस्तु नास्तीत्यभिप्रायेण प्रतिवक्ति- नेति ।
अतत्तामनिदन्तां च तत्त्वेदन्त्वे निरस्यतः । अन्योन्यप्रतिषेधस्तु न ततः सेद्धुमर्हति ॥
एकस्य भिन्नकालाभ्यां वैशिष्ट्यं विहतं यदि । तथा स्याद्भिन्नदेशाभ्यां पुञ्जबुद्धिस्ततो न ते ॥
तर्हि कालद्वयविरोधः कुत्रेत्यत्राह- स्वस्येति । नियमनात्- यथाप्रमाणं व्यवस्थापनादित्यर्थः । अत एवातीतस्य वर्तमानत्वं वर्तमानस्य वाऽतीतत्वमिह न प्रवर्तनीयम् । ननु तत्त्वेदन्त्वे तावत् विरुद्धे, अन्यथा यौगपद्ये विरोधाभावप्रस- ङ्गात्, तत एव कालद्वयमप्येकस्य विरुद्धमिति तत्राह- स्वेनेति । पूर्वापरकालयोगो हि विरुद्धः । स्वेनोपाधिनाऽवच्छि- न्नस्यैकस्य कालस्यावान्तरोपाधिभिर्नानात्वेऽपि तत्तदुपाधीनामेव तत्तदवान्तरकालद्वयान्वयविरोधः । अन्यापेक्षया पूर्वा- परकलयोरन्यस्य विरुद्धत्वे क्षणकालस्याप्यन्यापेक्षया पौर्वापर्यात्तत्कालवर्तित्वमपि वस्तुनो विरुध्येत । क्षणकालसंबन्धो वस्तुनः काल्पनिक इति चेत्, ततोऽपि माध्यमिकोत्थानम् । ननु स्वरूपसत्यता क्षणसंबन्धित्वं च साध्यते न केवलं क्षणकालमात्रसंबन्धित्वम् । अतस्तुर्यबौद्धात् त्रयाणां विशेष इति । तर्हि सिद्धसाधनम् । अतः क्षणिकपक्षे स्थिरपक्षे वा स्वाभावकाले वृत्तिर्विरोधाद्वारणीया न तु स्वकालवृत्तिरिति भावः । अत्र च विरोधानवस्थयोः शङ्काऽपि नास्तीत्याह- काल इति । न ह्ययमपि काल एतस्मिन्काले किमुत कालान्तरम् ? तत्कालोऽपि न तस्मिन्काले किमुतायम् ? अत एतत्कालतत्कालौ वा कालान्तरं वाऽनपेक्ष्य एकस्मिन्वस्तुनि कालद्वयं संबध्यत इति स्थिते कथंचिदप्यनवस्थाविरोधयो- र्नावकाशः । तथाऽपि कालद्वयं परस्पराभावनान्तरीयकं तदात्मकं वा कथमेकत्र स्यादिति चेन्न ; कालद्वयस्यान्योन्यस्मि- न्नभावेऽपि तदुभयसंबन्धिनि वस्तुन्यभावाभावात् । यस्तु तस्मिन्वस्तुन्यसंबद्धः कालः तस्य तत्र सद्भावं न ब्रूमः । न हि वयं नित्यानित्यविभागं निराकुर्मः ॥ २६ ॥
1.27 प्रत्यक्षं वर्तमानं प्रथयति यदिहावर्तमानाद्विभक्तं तस्मात्तेनैव सिद्धं क्षणिकमिति न सत्तावदित्यप्रतीतेः । तत्कालासत्त्वमेव ह्यपनयति सतो वर्तमानत्वबोधः कालेऽन्यत्रापि सत्त्वं प्रमितमिति कथं तद्विरोधप्रसङ्गः ॥ २७ ॥
1.27 अथ प्रत्यक्षेणैव प्रत्यभिज्ञाप्रत्यक्षस्य विरोधं भावानां क्षणिकत्वसिद्धिं च शङ्कते- प्रत्यक्षमिति ॥ अस्मदादिप्रत्यक्षं तावद्वर्तमानमात्रविषयमिति सर्वसंमतम् । अन्यथा दृश्यमानानां पदार्थानां तत्क्षणापेक्षया पूर्वापरविशेषाणामपि प्रत्य- क्षत्वप्रसङ्गात् । तस्मादगृहीतपूर्वापरविशेषं वर्तमानग्राहि प्रत्यक्षमवर्तमानाद्व्यावृत्तमेव स्वविषयं गृह्णाति । एतदेव च क्षणि-कत्वं वस्तूनां यदपूर्वोत्तरत्वम् । अतस्संस्कारनिरपेक्षप्रत्यक्षबाधिता प्रत्यभिज्ञा देशान्तरस्थग्राहिशुक्तिरूप्यधीवत् संस्का-रोपनीतकालान्तरस्यभेदसंवृत्त्या तस्मिन्निदन्त्वमस्मिन्वा तत्त्वमारोप्य कल्पितैक्यविषयेति । अत्र प्रत्यक्षवृत्तान्तानभिज्ञो-क्तिरियमित्यभिप्रायेण प्रतिवक्ति- न सदिति । प्रत्यक्षस्य कालान्तरसंबन्धप्रतिक्षेपकत्वाभावमाह- तावदिति । वर्तमानत्व-विधिरेवावर्तमानत्वनिषेधात्मा तावन्मात्रकालवर्तित्वं नियच्छेदित्यत्राह- तत्कालेति । तत्कालसत्त्वविधिर्हि तदानीमसत्तां निरुन्ध्यात्, न तु कालान्तरसत्तामित्यर्थः । तथाऽपि इदंकारवता प्रत्यक्षेण कालान्तरसत्त्वस्यानालम्बनात् तत्प्रतिक्षेप इति चेत्तत्राह- कालेऽन्यत्रापीति । अयं भावः- यथेदमिति तत्कालसत्ता गृह्यते, तथा तदिदमिति कालद्वयसत्त्वमपि प्रत्यक्षेणैव गृहीतम् । एव सति न्यूनाधिकविषयतामात्रमिह प्रत्यक्षयोर्न विरुद्धविषयत्वम् ; अन्यथाऽतिप्रसङ्गादिति । अल्पवि१यस्य प्राबल्यमालम्भविधौ दृष्टमिति चेन्न ; विरोधे सत्येव बलाबलविमर्शात् । इह तु विरोध एव न समस्ति । अपि च प्रत्यक्षं किं वर्तमानत्वेन स्वविषयं गृह्णाति, उत वस्तुवृत्त्या वर्तमानम् ? नाद्यः ; त्वन्मते प्रत्यक्षतयाऽभिमतस्य निर्विकल्पकस्य वि[कल्प]शिषबोधनाशक्तेः, सविकल्पकस्य तु प्रत्यक्षत्वानभ्युपगमात् । न द्वितीयः, इन्द्रियसंयुक्त- क्षणस्य तज्जन्यज्ञानकालेऽतीतत्वात्, तदुत्तरक्षणस्य स्वपूर्वक्षणेन्द्रियसंप्रयोगायोगेन तज्जन्यधीविषयत्वासंभवात् ; तदातनाक्षिसंप्रयोगस्य तु तात्कालिकबुद्धिहेतुत्वासिद्धेः । अतस्ते कथं प्रत्यक्षं वर्तमानग्राहि ? अस्मन्मते त्विन्द्रिय संप्रयोगस्य तद्विशिष्टवस्तुनस्तदुपहितकालांशस्य च स्थायित्वेन धीक्षणानुवृत्तौ तद्विपयतया प्रत्यक्षोदयात् । संप्रयोगानन्तरक्षणे धीरपि निर्वर्त्यते । अतो नासंप्रयुक्तं नास्थिरं नावर्तमानं वा प्रत्यक्षमिति ।
पूर्वापरबहुव्यक्तिव्याप्तिग्रहणसंभवा । न काचिदपि युक्तिः स्यात् सर्वक्षणिकवादिनः ॥ २७ ॥
1.28 उत्पन्नानां विनाशे ध्रुवभवितृतया हेत्वपेक्षाविहीने जन्मन्येवोपरोधात्क्षणिकमिह जगत्सर्वमित्यप्यसारम् । लिङ्गं ह्येष्यत्त्वमात्रं जननविधरता तत्क्षणानुक्षणत्वे तत्त्वं तज्जन्यता वा तदिदमनियमासिद्धिबाधादिदूष्यम् ॥ २८ ॥
1.28 ननु “जातस्य हि ध्रुवो मृत्युः” इति प्रसिद्धम् । अतस्सतां सत्तानुबन्धी विनाशः स्वरूपवन्न हेतुसापेक्षः झटित्ये- वापतेत् । तस्मात् सर्वं क्षणिकमित्यनूद्य परिहरति- उत्पन्नानामिति ॥ असारं- न्याय्यादन्यदित्यर्थः । तत्र हेतुं विक- ल्पयति- लिङ्गमिति । एवं विकल्पिते यथासंभवं दोषानाह- तदिदमिति । तथा हि । तत्राद्ये तावद्यत् यस्य ध्रुवं भवि- ष्यति न तत्तस्य हेतुसापेक्षं, नाशश्च जातानां ध्रुवभावीत्युक्तं स्यात् । तदा कस्यचिदङ्कुरस्य सामग्रीप्रवाहवशात् ध्रुवं भविष्यद्भिः पत्रपुष्पादिभिर्घटादीनां कपालादिभिरप्यनैकान्त्यम्, सर्वत्र चैकसन्तानोत्तरक्षणैः । नहि ते तन्निरपेक्षाः ; तथा सति प्रागेवोपनिपाते कथं तत्र सन्तानत्वमपि ? पूर्वक्षणानामर्थक्रियाविरहात् असत्त्वं च स्यात् चार्वाकवादः । द्वितीये तु यद्यस्यानुत्पन्नमनुबन्धि न तद्धेत्वपेक्षम्, यथा गोरश्वापोह इति स्यात् । तथा च हेत्वसिद्धिः प्रतियोगिवत्सवोचितहेतु- जन्यत्वात् । मुद्गरादयोऽपि सभागसन्तानमात्रारम्भकाः, नतु नाशजनका इति चेन्न ; दीपादिसन्ताना[नाम]न्तिमध्वंसकेषु तदसिद्धेः । न हि तत्र विभक्तसूक्ष्मावस्थान्तरापत्तिमिच्छसि ; अन्वयव्यतिरेकाविशेषे व्यवस्थापकाभावात् । निस्स्व-भावतया तुच्छस्य हेत्वपेक्षाविरहो व्यवस्थापक इति चेन्न ; प्रतियोगिवदेव नियतकालतया प्रमितस्यात्यन्ततुच्छत्वायोगात्, खपुष्पवच्चानादित्वप्रसङ्गेन सर्वभावासिद्धिप्रसङ्गात् । ध्वंसस्य च तुच्छत्वे तत्कालेऽपि स्वकाल इव भावानां सत्त्वप्रसङ्गाच्च । तथा च क्षणभङ्गं प्रतिज्ञाय स्थिरवादं साधयसि । कीदृशं च ध्वंसस्य निस्स्वभावत्वम् ? यदि यत्किंचित्स्वभावविरहः, तत्स्वलक्षणेऽपि समानम् । सर्वस्वभावविरहस्तु ध्वंसेऽप्यसिद्धः । अन्यथा कथमस्य पक्षीकारः ? ध्वंसरूपतया सिद्धस्येति चेत्, तर्हि तत्स्वभावस्य कथं सर्वस्वभावविरहः ? अपि चास्य प्रागसत्त्वे हेत्वपेक्षा दुर्वारा ; प्राक्सत्त्वे तु भावापह्नवः । तत एवाभावस्याप्यभाव इति सर्वाभावः स्यात् । तृतीये च स एव क्षणो यस्य स तत्क्षणः तस्य भावस्तत्क्षणत्वं तदा ध्रुवभावि सहभावीत्यर्थः । अयमपि हेतुरसिद्ध एव । न च प्रध्वंसप्रतियोगिनोर्यौगपद्यसंभवः, संभवे वा भावः पश्चादपि किं न स्यात् ? अनुक्षणशव्दोपचरितस्तु हेतुरनन्तरक्षणवर्तित्वम्, तत्रापि भावोत्पत्त्यपेक्षयाऽऽनन्तर्य- विवक्षायामसिद्धिः । भावस्वरूपापेक्षया त्वानन्तर्यनियमे भाव एव हेतुः स्यादिति कथं हेतुनैरपेक्ष्यम् ? तदतिरिक्तनैरपे- क्ष्यं विवक्षितमिति चेन्न ; तद्वदेव सहकारिणामप्यवर्जनीयत्वादिति । पञ्चमे त्वसिद्धिर्व्याघातश्च । ननु कथं ध्रुवभाविशब्देन तत्त्वविवक्षा शङ्क्यते ? इत्थम्- यद्यतो भिद्यते न तत्तस्य ध्वंसः, यथा रूपस्य रसः । ध्वंसस्तु कस्यचिदेव भवतीति तदात्मकः । अतः स्वोत्पत्तावेव स्वात्मनि ध्वंसे सन्निहिते कथं क्षणान्तरं प्राप्नुयादिति । तत्रेदं ब्रूमः- ततो भिन्नस्यापि तत्प्रध्वंसत्वं यथादर्शनं स्यात् । अन्यथा भिन्नस्य भिन्नकालस्य च कारणत्वादिकमपि हीयेत ; अविशेषात् । स्वात्मन एव स्वनाशात्मकत्वे पश्चादिव स्वकालेऽपि स्वाभावसिद्धेः । स एव सर्वापह्नवस्स्यादिति । तज्जन्यत्वे हेतौ प्रतिज्ञाविरोधः । तज्जन्यत्वं हि तद्धेतुकत्वम् ; तेन कथं हेतुनैरपेक्ष्यसाधनम् ? हेत्वन्तरनैरपेक्ष्यमपि च दुर्वचमित्युक्तम् । अतः क्रमभाविसहकारिविशेषात् कार्यान्तरमिव स्वनाशमपि स्वयमुत्पादयतु नाम । न ततः क्षणिकत्वं सिध्येदिति । बाधश्चामीषां प्रागुक्तप्रत्यभिज्ञया स्पष्टः । आदिशब्दः प्रदर्शितयोरपसिद्धान्तप्रतिज्ञाविरोधयोः संग्रहार्थः ॥ २८ ॥
1.29 कालानन्तर्यसाम्ये क्षणिकवपुषि ते देशकालाद्युपाधौ सर्वे पूर्वे भवेयुस्तदुपरि भवतां कारणानि क्षणानाम् । सन्तानैक्यव्यवस्था निजफलनियतिर्वासनानां च न स्यात् कार्पासे रक्ततादिक्रमविपरिणमत्संस्कृतद्रव्यतस्स्यात् ॥ २९ ॥
1.29 प्रतिकृलतर्कप्रतिहतिमप्याह- कालानन्तर्येति ॥ आदिशब्देन दिक्संग्रहः । अयमर्थः- सर्वं क्षणिकमिति वदतस्ते कस्यचित्किञ्चित्प्रति कार्यत्वं किमनन्तरकालभावित्वमात्रान् ? उत तद्विशेषात् ? आद्ये त्रैलोक्योदरवर्तिनः पूर्वक्षणा-स्सर्वे तदनन्तरभाविनां सर्वेषां क्षणानां कारणानि स्युः । द्वितीयेऽप्यसौ विशेषः किं देशाद्युपाधिनिरपेक्षः ? तत्सापेक्षो वा ? नाद्यः, अतीन्द्रियस्य तु तस्यादर्शनात्, दृश्यस्य तु वह्निधूमत्वादेरतिप्रसङ्गित्वात् । न द्वितीयः, यस्मिन्देशादौ यद्वर्तते तस्मिन् जायमानस्य तत्कारागमिति नियमो न संभवति । कार्यक्षणस्य कारणदेशादिवर्तित्वे कारणदेशादेः क्षण- द्वयापत्तेः ; तथा चानन्तरक्षणयोगेऽपि को बोधः ? अतः स्थिरदेशादिकमनभ्युपगच्छतस्तत्प्रयुक्तनियमायोगात् अति- प्रसङ्गस्तदवस्थ एव । ननु यद्देशादिक्षागवर्ती कारणक्षागः तत्कार्यदेशादिक्षणे स्वकार्यमारभत इति नियम इति चेन्न ; देशादिक्षणद्वयेऽपि कार्यकारणव्यवस्थाया दुः[स्थ]साधत्वात् । तदेतदभिप्रेत्याह- सन्तानैक्यव्यवस्था न स्यादिति । यदप्याहुः- “यस्मिन्नेव हि सन्तान आहिता कर्मवासना । फलं तत्रैव बध्नाति कार्पासे रक्तता यथा” ॥ इति । कर्मवासनेत्यनुभववासनाया उपलक्षणम् । तदपि दूषयति- निजफलनियतिर्वासनानां च न स्यादिति । सन्तानैक्ये सिद्धे हि यस्मिन् तस्मिन्निति निर्देशः स्यादिति भावः । दृष्टान्तस्तर्हि कथमित्यत्राह- कार्पास इति । रञ्जकद्रव्यविशेष- सस्कृतबीजावयवानुवृत्त्या कार्यस्रोतोविशेषनियमे यथादर्शनं तत्र तादृशफलसिद्धिर्युक्ता । त्वन्मते तु तदेतत् संततिव्यव- स्थापकाभावात्, तत्रैव फलं बध्नातीति दुश्शको नियम इति भावः ॥ २९ ॥
1.30 मेयत्वाद्यैर्विगीतं क्षणिकमिह जगत्स्यात्क्षणोपाधिवच्चेत् बाधो दृष्टान्तहानिः स्थिर इति विदितो यत्क्षणस्याप्युपाधिः । सामग्री कार्यशून्या क्षण इयमपि तद्धेतुसंघो न चासौ हेतुर्नान्यः स्थिरास्ते क्रमवदुपधिवत्स्यात्क्षणत्वं स्थिरेऽपि ॥ ३० ॥
1.30 क्षणभङ्गसाधनान्तरं दूषयितुमनुवक्ति- मेयत्वाद्यैरिति ॥ इह- पक्षदृष्टान्तविकल्पार्हे वस्तुजाते ; विगीतं क्षणिकं मेयत्वात् सत्त्वात् भासमानत्वाद्वा । अत्र स्यादित्यनेनाक्षणिकतायामसत्त्वप्रसङ्गः सूच्यते । अर्थक्रियाकारित्वं हि सत्त्वम् ; तच्च कुर्वत्क्षणस्यैवास्ति । अकुर्वत्क्षणस्य तु तदभावादसत्त्वं प्राप्तमिति, घटजलधरादौ दृष्टान्तिते साध्यवैकल्यं क्रमेण कथंचित्परिहर्तव्यम् । इह तु न तथेत्यभिप्रायेण क्षणोपाधिवचनम् । इति रौचित्यादाक्रष्टव्यः । अत्र बाधोक्तिस्साध्य- विकल्पेन बहुधा भाव्या । तथा हि- क्षणिकत्वं नाम क्षणसंभवत्त्वं वा, क्षणकालसंबन्धित्वं वा, क्षणमात्रवर्तित्वं वा, क्षणद्वयसंबन्धशून्यत्वं वा, क्षणकालत्वं वा, तदुपाधित्वं वा ? नाद्यः, सिद्धसाधनात्, स्थिरमपि नस्सामग्र्या क्षणे संभवतीति । न द्वितीयः, तत एव । कालमेवानिच्छतस्ते कोऽसौ क्षणकालः ? कश्च तत्संबन्धः ? तदभ्युपगमे सिद्धान्तबाधः । अत एव न तृतीयोऽपि ; प्रत्यभिज्ञया च बाधः प्रागुक्तः । न चतुर्थः, उक्तबाधादेव ; क्षणेतरस्य तथात्वे खपुष्पवदसत्त्वप्रसङ्गस्य दुर्वारत्वात् । त्वन्मते च खपुष्पनिदर्शनेन प्रसञ्जनं युक्तम् । एवमपि हि ब्रूथ–
“तस्माद्वैधर्म्यदृष्टान्ते नेष्टोऽवश्यमिहाश्रयः । तदभावे च तन्नेति वचनादेव तद्गतेः” ॥ इति । अन्येऽपि केचिदाहुः-. “यस्मिन्ननित्यता नास्ति कार्यताऽपि न विद्यते । तस्मिन्यथा खपुष्पादाविति शक्यं हि भाषितुम्” ॥ इति । न पञ्चमः, तद्देशतद्वर्तिनोरिव कालतद्वर्तिनोरैक्यस्य प्रत्यक्षेण बाधात् । तत एव न षष्ठः ; यदा हि घटादयः स्वरूपेण क्षणोपाधयः स्युः कालतारतम्यधीः कुत्रापि न भवेत् । तथा च स्थिरशङ्काया एवानुदयात् निर्विषयमनुमानं स्यात् । सर्वस्य च त्रिलोकस्य स्वप्रयोजनेच्छया हि प्रवृत्तिः । सा फलार्थिनः फलिनश्च भेदे बाध्यते ।
न च त्वमपि कृत्येषु निरन्वयविनाशवत् । मत्सन्तानसमृद्ध्यर्थमिति मत्वा प्रवर्तसे ॥ तदिह स्वाभिप्रायादिबाधश्च । आत्मदृष्टान्तेन च प्रत्यनुमानबाधः । तत्र साध्यवैकल्यं च घटादीन्निदर्शयद्भिः युष्माभि- रिव क्रमात्प्रशमनीयम् । अस्ति च सोऽहमिति प्रत्यभिज्ञयाऽस्माकं तत्सिद्धिः । आलयविज्ञानसन्ततिविषयेयमिति चेत्, इदमपि परिभाषामात्रम्, प्रमाणाभावात् । “नान्यदृष्टं स्मरत्यन्य इति परिभाषाया निर्बाधत्वाच्च । निरर्थकं चेद- मालयविज्ञानसन्ततिकल्पनम् ; तस्य प्रवृत्तिविज्ञानेन सह सर्वप्रकारसंबन्धायोगात्” इति । अथ क्षणोपाधिवदित्युक्तं प्रति- वक्ति- दृष्टान्तहानिरिति । अक्षणिकत्वे कथं क्षणोपाधिरित्यत्र गढाभिप्राय आह- सामग्रीति । कार्यशून्या-कार्य- प्रागभावसमन्वितेत्यर्थः । क्षणः- क्षणोपाधिरिति यावत् । तथाऽपि तस्य क्षणिकत्वं न प्रतिक्षिप्तमित्यत्राह- इयमपीति ।
ननु हेतूनां संघोऽपि हेत्वनतिरिक्तश्चेत् तेषां भवत्पक्षे स्थिरत्वान्न क्षणोपाधित्वम् । अतिरिक्तोऽप्यक्षणिकः क्षणोपाधिर्न स्यादित्यत्राह- न चेति । अयं भावः- संघशब्दो न संबन्धमात्रवाचकः, संबन्धशब्दपर्यायत्वाप्रसिद्धेः । न च तत्तत्सं- बन्धिस्वरूपवाचकः, प्रत्येकमप्रयोगात् । अतः केनचिदुपाधिना संगृहीतास्त एव संघशब्दार्थः । तत्र यदि त एव क्षणोपाधितया दृष्टान्तीक्रियन्ते तथा सति स्थिरास्त इति । ननु तत्संहतिहेतुरुपाधिदृष्टान्तः स्यात् । मैवम् ; न हि नः केवलनित्यात् केवलानित्याद्वा कस्यचिदपि कार्यस्योत्पत्तिः ; किंतु तत्समुदायात् । तत्र नित्यांशे तावत्क्षणिकशङ्काऽपि नास्ति, अनित्येऽपि यतश्चिरोत्पन्नाद्धेतोस्संघभावः सोऽपि स्थिरतरः । यस्तु चरमस्सहकारी स च स्थिर एव सन् स्वकार्यप्रागभावोपहितन्द्रपः कालमवच्छिन्दन् क्षणोपाधिरित्युच्यते, तदुपधानं च तस्य प्रत्यक्षादिसिद्धम् । न चात्र क्षणिकं
किंचित्सिध्यति अनवच्छिन्नस्य कालतत्त्वस्य कालपरिच्छेदलक्षणानित्यताभावात् ।
क्रियादिश्च स्थिरोऽप्येवं क्षणोपाधिर्विशेषकैः । तत्प्रकर्षनिकर्षैस्तु तत्तत्कालप्रकल्पना ॥
इयं तावत्सर्वलोकसाक्षिकी, क्षणकालावच्छेदकयोः प्रागूर्ध्वव्यापिनोरक्षणिकत्वात्, तदवच्छिन्नस्य कालस्य तु क्षणत्वादेव न क्षणिकत्वमिति वस्तुस्थितिः । त्वत्पक्षे तु क्षणकालावच्छेदः क्षणोपाधिरसिद्धः कालस्यैवाभावात् । न चासिद्धोऽपि साध्यः स्वमतविरोधात् । यथाऽऽहुः-
“योऽपि तावत्परासिद्धः स्वयं सिद्धोऽभिधीयते । भवेत्तत्र प्रतीकारः स्वतोऽसिद्धे तु का क्रिया” ॥ इति । अनन्यावच्छेदार्थेन स्वरूपेणैव कश्चित्क्षणशब्दवाच्य इति चेत्, तर्हि क्षणभङ्गसाधनात्पूर्वमसिद्धः कथं दृष्टान्तः स्यात् ? उत्तरप्रागभावाप्तपूर्वध्वंसैककालतः । मध्यमक्षणतादृक्त्वं व्यवस्थाप्यं त्वयाऽप्यतः ॥
ननु क्षणक्षरणस्वभावा प्रकृतिरिति हि भवत्सिद्धान्तः । अत्र प्रतिक्षणमुदयविलयिनो विकाराः क्षणिका एवेति तद्दृष्टान्ते- नान्येषां युष्माभिः किं नानुमीयत इति चेत्, अशक्यत्वादयं सुहृदुपदेशस्त्यज्यते । सर्वक्षणिकत्वं साधयितुमुपक्रम्य स्थिरद्रव्यवृत्तिक्षणिकविकारवदिति कथं दृष्टान्तयेम् ? तेषु च न त्वदभिमतं क्षणिकत्वम्, प्रदीपादिवदाशुतरवद्विनाशित्व-मात्रेण क्षणिकतोक्तेः । तदेतदभिप्रेत्याह- क्रमवदिति । क्षणत्वं- क्षणोपाधित्वमित्यर्थः ।
द्वयोरयुगपद्दृष्टिर्युगपच्च यथायथम् । अशक्यापह्नवा तस्मादस्मदुक्तैव पद्धतिः ॥ ३० ॥
1.31 दीपादीनां कदाचित्सदृशविसदृशाशेषसन्तत्यपेते ध्वंसे दृष्टेऽप्यशक्या तदितरविषयेऽनन्वयध्वंसकॢप्तिः । बाधादेर्दर्शितत्वादपि च दृढमिते सान्वयेऽस्मिन्घटादौ दुर्दर्शावस्थया स्युः पयसि लवणवल्लीनदीपादिभागाः ॥ ३१ ॥
1.31 इह च प्रतिसंख्याप्रतिसंख्यानिरोधयोः निरन्वयविनाशत्वे परोक्तं निदर्शनं दूषयति – दीपादीनामिति ॥ आदिशब्देन क्षणरुचिबुद्बुदादिसंग्रहः ।
स निरन्वयनाशस्स्याद्धर्मो धर्म्यपि वा पुनः । पूर्वसंघातभागो वा यद्भावेनानुवर्तते ॥
उत्पत्तिश्च तथाभूता निरन्वयसमुद्भवा । तावुभौ सर्वभावानां नियताविति सौगताः ॥
यो विनाशस्स निरन्वयः, यथाऽन्त्यदीपस्य, अस्ति च विनाशो जातानाम्; अतस्सोऽपि निरन्वय इति निरन्वयध्वंसकॢप्तिर्न शक्या । तदुपपादयति – बाधादेरिति । प्रत्यभिज्ञाबाधस्य प्रवृत्त्याद्यनुपपत्तीनां च दर्शितत्वात् । विपरिवर्तश्च युक्त इत्याह – अपि चेति । अन्त्यदीपविनाशस्सान्वयः विनाशत्वात् पटादिविनाशवत् । साध्यविकलो दृष्टान्त इति चेन्न; सङ्घातांशानां वा गन्धादिधर्माणां वा श्यामरक्तादिधर्मिणां वा यथासंभवमनुवृत्तेर्दृढोपलब्धत्वात् । प्रत्यक्षबाधपरिहाराय दुर्दर्शावस्थत्वोक्तिः । स्युरित्यनेन दृश्यावस्थानिवृत्तावपि स्वरूपसत्त्वं सूच्यते । ननु पयसि लवणवदित्ययुक्तं, तत्रापि निरन्वयविनाशात् । तन्न; रसेन सूक्ष्मावयवानुमानात् । दीपावयवेषु लिङ्गमपि नास्तीति चेन्न; दीपोर्ध्वदेशिनां किञ्चिदौष्ण्योपलब्ध्या दीपावयवसंक्रान्तेस्सुगमत्वात् । प्रभूतदीपपार्श्ववर्तिनां च तापस्वेदादिस्तत एव । एवमन्त्यदीपनाशेऽप्यदृश्यावयवविसर्पस्सिद्धः । अतो विनष्टदीपभागानुपलब्धेरदृश्यावस्थानिबन्धनत्वादनन्यथासिद्धप्रत्यक्षसिद्धः सान्वयविनाशदृष्टान्त एव साधीयान् । अन्त्यदीपादेश्च यदि न किञ्चिदुपादेयं ततोऽर्थक्रियाविरहादसत्त्वं स्यात् । बुद्ध्यादिरर्थक्रियाऽस्त्विति चेन्न, तस्यानियतत्वात् । विनाशस्तर्ह्यर्थक्रियाऽस्त्विति चेन्न, तस्य ते तुच्छत्वात् ध्रुवभावित्वेन अहेतुक-त्वाभ्युपगमाच्च । एवमन्त्यदीपासत्त्वे च तत्कारणपरम्पराया अपि तथात्वं स्यादिति ॥ ३१ ॥ इति क्षणभङ्गनिरासः ॥
1.32 सत्त्वेऽसत्त्वेऽपि पूर्वं किमपि गगनतत्पुष्पवन्नैव साध्यं हेतुप्राप्तिर्न पश्चाद्भवितुरघटितोत्पादनेऽतिप्रसङ्गः । जन्यं जन्मान्यथा वा द्वयमसदनवस्थानकार्यक्षतिभ्यामित्याद्यैर्हेतुसाध्यं न किमपि यदि न स्वक्रियादेर्विरोधात् ॥ ३२ ॥
1.32 ननु साध्यसाधनभावे सिद्धे हि प्रस्तुतं पक्षचतुष्टयं सिध्येत्; स एव नास्तीति चार्वाक उत्तिष्ठते – सत्त्वेऽसत्त्व इति ॥ यदि कार्यं कारकव्यापारात्पूर्वमस्ति तदा पूर्वसिद्धगगनादिवत्किमपि न कार्यं स्यात् । अथ तदा नास्ति, तदाऽपि खपुष्पवन्न कार्यम्; न चासतः सत्त्वापादानसंभवः । न हि नीलं शिल्पिसहस्रेणापि सितीकर्तुं शक्यमिति । कार्यं च कारणेन सह पूर्वं पश्चाद्वा जायते ? आद्ये किं कस्य कारणं कार्यं वा स्यात् ? द्वितीयेऽपि ततः पूर्वस्य कथ तज्जन्यत्वम् ? वैपरीत्यापातश्च लोकव्यवहारानुरोधात् । तृतीये हेतुः स्वेन प्राप्तं साधयेत् अप्राप्तं वा ? आद्ये प्राप्तत्वादेव पूर्वसिद्धेर्न साध्यत्वम्, न चोत्तरकालीनस्य पूर्वकालीनेन प्राप्तिः, उभयस्वरूपसिद्ध्यपेक्षत्वात्तस्याः । तदिदमाह – हेतुप्राप्तिरिति । द्वितीयमपि दूषयति – अघटितेति । अप्राप्तोत्पादने सर्वस्मात् सर्वमुत्पद्येत; प्रकाश्यमप्राप्य वा दीपः प्रकाशयेत्; दाह्यमप्राप्य वा दहनो दहेत् । पुनर्विकल्पान्तरेण विहतिमाह – जन्यमिति । घटो जायत इत्येतौ तावन्न पर्यायौ, सहप्रयोगात्, यावद्विनाशं जायत इति प्रयोगप्रसङ्गाच्च । पटो जायत इति प्रयोगश्च न स्यात्; घटपटशब्दयोरपार्यायत्वात् । अतः कार्यस्वरूपातिरिक्तं जन्म । तच्च जन्यमजन्यं वेति विकल्प्य द्वयमप्ययुक्तमित्याह – द्वयमसदिति । क्रमात् बाधकमाह – अनवस्थानकार्यक्षतिभ्यामिति । जन्मनो जन्यत्वं हि जननकर्मतया; अतस्तस्यापि जन्म स्वीकर्तव्यम्, एवं तस्यापीत्यनवस्था । अनन्यत्वे तज्जन्मनोऽनादित्वात् तद्वतो घटादेरपि तथात्वं स्यात् । तया च कार्यत्वक्षतिः स्यादिति । आदिशब्देन भिन्नाभिन्नत्वादिविकल्पक्षोभसंग्रहः । हेतुश्च साध्यं च हेतुसाध्यं, हेतुना साध्यं वा । ईदृशानां तर्काणां युक्ताङ्गहान्यादिकमभिप्रेत्याह – नेति । साधारणदुष्टत्वमाह – स्वक्रियादेरिति । इह तावदनिष्टकोटिभङ्गो न प्रत्याख्येयः । अन्यत्रैवमुत्तरगतिः – यदत्र पुर्वमसत्त्वे कार्यत्वं न स्यादिति तद्विरुद्धभाषितं, प्रागसत्त्वविशेषितं सत्त्वमेव हि कार्यत्वम् । तत्र च प्रागसत्त्वे प्रागसत्त्वमेव न स्यादिति वा, तद्विशिष्टं न स्यादिति वा, सत्त्वमात्रं न स्यादिति वा प्रसङ्गार्थस्स्यात् ? तत्र न प्रथमः, कस्यापि स्वाभावेन व्याप्त्यभावात् । अन्यथा शून्यवाद एव स्यात्; अनेकान्तवादो वा । न द्वितीयः तदसत्त्व एव तद्विशिष्टसिद्वेः; न हि विशेषणसत्त्वं विशिष्टविरोधि । न तृतीयः, असत्त्वस्य स्वकालसत्त्वेन विरोधग्रहणात्, अन्यथा देशान्तरसत्त्वेऽपि विरोधप्रसङ्गेन स एवान्त्यबौद्धपक्षस्स्यात् । यत्तु पश्चाद्भाविनः कारणप्राप्तिर्नास्तीति, तत्र पौर्वापर्यनियमलक्षणा प्राप्तिर्दृष्टत्वादनिवार्या । संयोगात्दिलक्षणा तु मा भूदनङ्गत्वात् । ततश्च नातिप्रसङ्गः, नियामकस्य सिद्धत्वात् । प्रकाश्यदाह्यादिषु च यथादर्शनं कार[काणां]णानां मिथः प्राप्तिरेवाङ्गम्, न तु कार्येण ज्ञानेन सह, भस्मादिना वा । यस्तु जन्मनो जन्यत्वाजन्यत्वविकल्पेनातिप्रसङ्ग उक्तः, नासावस्मत्पक्षे युक्तदोषः । न हि वयमभिव्यक्तिं वा कारणसमवायादिकं वा जन्मेति ब्रूमः, किन्तूपादानावस्थाविशेषम् । तस्य कार्यावस्थासामानाधिकरण्यव्यपदेशः तादात्म्येन तदाश्रयवृत्तेः; एवं ध्वंसादिसामानाधिकरण्यमपि यथायथमूह्यम् । ईदृशस्य जन्मन उपादानावस्थान्तरसाध्यत्वे कारणानवस्थामात्रमापतति; सा च न दोष इति सर्वाविगीतम् । यच्च भिन्नत्वे गवाश्वयोरिव कार्यकारणता न स्यात्, अभिन्नत्वे च कथं सिद्धस्य साध्यत्वमिति, तन्न; कारणात्कार्यस्य भिन्नस्यैवोत्पत्तिदर्शनात् ।
अन्यया बुद्धिबोध्यादौ भिन्नत्वादिविकल्पतः । बोध्यत्वादिक्षतेर्न स्यात् स्वमतस्थापनाऽपि वः ॥
अथ किंचित्कारेणाकिंचित्कारेण वा कारणत्वम्, पूर्वत्र हेतुनां किंचित्कारजननेऽपि किंचित्कारान्तरापेक्षयाऽनवस्था, किंचित्कारस्यापि किंचित्कारजननापेक्षया उत्तरत्रातिप्रसङ्ग इति । अत्रापि व्रूमः – यत्र किंचित्कारोण हेतुत्वं दृष्टम्, यथा काष्ठादेर्ज्वालादिना, तत्र तथा । न चानवस्था हेतुसंपत्तिपरम्पराया दोषत्वाभावात्; अतिरिक्तस्यात्रानिरूपणात् । यत्र तु द्वारनिरपेक्षं हेतुत्वं तत्रापि दर्शनबलात् किंचित्कारान्तरं न जनयितव्यम्, यतोऽनवस्था स्यात् । न चातिप्रसङ्गः, नियतपूर्वत्वग्राहिणा प्रत्यक्षेणैव तन्निवारणात् । अन्यथा तदपि ते प्रमाणं न स्यादिति विश्वापह्नवः । यच्च कार्यं कुर्वतोऽकुर्वतो वा कारणत्वम्, आद्ये कार्यस्यापि पूर्वसिद्धिप्रसक्त्या कार्यत्वाभावः । द्वितीये विरोधातिप्रसङ्गाविति; तदप्यषष्ठु, भाविकार्यानुगुणव्यापारवत्त्वमेव कारणस्य कुर्वत्त्वम् । तत्र कथं कार्यस्य स्वस्मात् पूर्वसिद्धिः ? कुर्वत्त्वनिरूपणं तु भाविनाऽपि कार्येण बुद्ध्यारोहिणा सिध्येत् । एतेन निर्व्यापारस्सव्यापारो वा हेतुरित्याद्यपि दत्तोत्तरम् । कार्यकारणत्वयोः स्वभावत्वे पटत्वनीलत्वादिवत् सर्वं प्रत्यपि स्याताम्; अस्वभावत्वे कस्यचिदपि न स्यातामित्यपि नियतप्रतिसंबन्धिकस्वभावत एव तदुभयसिद्धेर्निरस्तम् । दण्डादिकार्यत्वं घटादिकारणत्वं वा नीलादिवदेव पुरुषभेदेऽप्यविपर्यस्तमेव । अथ स्यात्, कार्यकारणभावस्य द्विष्ठत्वे द्वयोरपि द्वैरूप्यादविशेषविरोधभेदापत्तयस्स्युः, एकस्थत्वेऽपि यत्रैकस्मिंस्तत्रैवमिति; तत्र ब्रूमः – कार्ये कार्यत्वं कारणे कारणत्वं च वर्तते; तथाऽप्यन्योन्यनिरूप्यतया संबन्धव्यवहारादिसिद्धिरिति । स्यादेतत्, न तावद्दण्डादयो मृदाद्यवयवाश्च प्रत्येकं घटाद्युत्पादनशक्ताः ; अदर्शनात् । अत एव न समुदिता अपि, न हि नद्यस्समेत्यापि दहेयुः । न च सिकतास्संभूय तैलं जनयेयुः । शक्तानामेव संभूय करणे सर्वे कृतकरास्स्युः । शक्तस्य कुर्व-तोऽप्यन्याकाङ्क्षायां सर्वैरपि स्यात् । तथा च देशादिव्यवहितानामसन्निधेः कथं कार्यारम्भः ? न हि कार्ये कारणानां साध्यांशभेदः; विभक्तदशायां समुदाये वा तस्यादृष्टेः ; निरंशे गुणादौ च दुर्वचमेतदिति । अत्रोच्यते – समुदितानां कार्यकरत्वमेव हि प्रत्येकमपि[हि]शक्तिः ; कथमत्र वियुक्तैः कार्यकरणं कथं च समेतेषु कृतकरता ? अतश्शक्तस्यापि सहकार्याकाङ्क्षायामतिप्रसङ्गश्च निरस्तः, यावत्कार्यसिद्धिनियतविषयत्वात्तस्या इति । ननु पूर्वं कारणमित्युक्ते नष्टं कारणमित्युक्तं स्यात् । दृष्टा च मृदिते मृत्पिण्डे घटोत्पत्तिः, तथा च स्वात्मानमलभमानस्य कथं परसाधकत्वम् ? अन्यथा चिरातिक्रान्तस्य च स्यादेव कारणत्वम् । तुच्छस्य च कारणत्वे कार्यमपि तुच्छं स्यात्, नित्यं वेति; तदपि न, पूर्वक्षणसत्त्वमेव हि कारणस्य कार्योपयोगि ; न च तत्तदा नास्ति । कार्यक्षणे तु कस्यचिदसत्त्वं न कारणत्वविरोधि । पूर्वं नष्टमित्यप्यसाधु ; स्थिरवादे तदयोगात् । पिण्डस्य तु न साक्षात्कारणत्वन् । न च पिण्डस्तत्प्रध्वंसो वाऽत्यन्ततुच्छः, स्वकाले सद्भावात् । कालान्तरासत्त्वेन तुच्छत्वे प्रत्यक्षविषयोऽपि तथा स्यात् । तथा चेयं माध्यमिकगतिः । अथ ब्रूषे पूर्वत्वमेव कारणस्य दुर्निरूपम्, पूर्वकालवृत्तित्वं हि तत्; काले च पूर्वत्वामुपाधिकृतम्; स चोपाधिर्यद्ययमेव, तदा तदधीनं कालस्य पूर्वत्वं कालाधीनं चोपाधेरित्यन्योन्याश्रयः ; अन्यापेक्षायां चक्रकम्, अनवस्थाऽपि । कालस्य क्रमवदुपाधिसंबन्धभेदाद्भेदश्च कृत्स्नैकदेशविकल्पदुःस्थ इति । एवं ब्रुवता किं पौर्वापर्यमेव न दृष्टम् ? दृष्टमपि वा बाधितम् ? नाद्यः, स्वाभ्युपेतलोकव्यवहारविरोधात् । न द्वितीयः, सर्वेषां नित्यत्वतुच्छत्वयोरन्यतरप्रसङ्गात् । अतः काले सत्यसति वा क्रमस्तावद् दुरपह्नवः ।
क्रमेणोपाधिभिर्योगस्साकल्येनांशतोऽपि वा । कालस्य न घटेतेति स्थिरवादी कथं वदेत् ॥
प्रत्यक्षप्रतिरुद्धश्च क्षणभङ्गपरिग्रहः । अपसिद्धान्तमादध्यान्मानमन्यदनिच्छतः ॥
अथ लोकायतान्तस्थमनुमानं च मन्यसे । आगमोऽप्यविसंवादी तदन्तस्स्थातुमर्हति ॥
यत्र प्रवृत्तिसामर्थ्यं न लोकादुपलभ्यते । अनुमीयेत तत्रापि प्रामाण्यमविशेषतः ॥
अस्त्वेवम्; तस्य नियमो न शक्यः अस्मादेवेदमनन्तरमिति । तदेतन्नियतपूर्वत्वं हि न जातेर्जातिमपेक्ष्य, द्वयोरपि त्रैकालिकत्वात् । न च जातेर्व्यक्तिमपेक्ष्य, सर्वासां जातीनां पूर्वत्वेन कारणनियमासिद्धेः । जात्यन्तरापेक्षया कार्यत्वं न दृष्टमिति चेत् ; किमतः पूर्वमेतज्जातिकार्यत्वमपि दृष्टम् ? एकव्यक्तेश्च नियमो दुर्ग्रहः, अननुवृत्तेः; कृत्तिकारोहिण्योरपि ह्युदयभेदेष्वेव व्याप्तिर्गृह्यते । एतेन व्यक्तेर्जात्यपेक्षया वा व्यक्त्यपेक्षया वा पूर्वत्वनियमोऽपि प्रत्युक्त इति । अयमप्यनुक्तोपालम्भः; एतद्धर्मकादेतद्धर्मकमुपजातमिति जात्युपाधिक्रोडीकृतरूपेण व्यक्तिषु नियमसिद्धेः । यथादर्शनं चेय-त्तानियमरहितनिरुपाधिनिर्व्यभिचारभूयोदर्शनबलेन व्याप्तिसिद्धिश्चानुमाने वक्ष्यते । न च सर्वस्मात्तादृशात्तादृशं सर्वमनियतं वा स्यादिति शङ्कनीयम् । तथा व्याप्तेरग्रहणात्, तद्विरुद्धा च ते प्रार्थना मोघैव । तृणारणिमण्यादिषु च वह्न्याद्युत्पत्तौ सामान्यतो विशेषतश्च हेतुकार्यभावो मन्तव्यः । तत्र कार्यवैजात्यं न दृश्यत इति चेन्न; अनुपलब्धवैषम्याणामप्यायुर्वेदादिषु शक्तिभेदसिद्धेरवान्तरवैजात्यस्य स्वीकार्यत्वादिति ।
सांख्यसौगतचार्वाकैरन्येऽप्येवमुपप्लवाः । प्रयुक्ताः प्रतिवक्तव्याः प्रतिष्ठितनयस्थितैः ॥
यदत्र माध्यमिकमतस्थैरुच्यते –
“पूर्वसंबन्धनियमे हेतुत्वे तुल्य एव नौ । हेतुतत्त्वबहिर्भूतसत्त्वासत्त्वकथा वृथा ॥” इति,
तत्रोच्यते – प्राक्कालनियतत्वेन कारणं प्रमितं न वा । आद्ये तदेव तत्सत्त्वमन्यथा नियमोऽपि न ॥
अन्यदपि यदुक्तम् –
“अन्तर्भावितसत्त्वं चेत्कारणं तदसत्ततः । नान्तर्भावितसत्त्वं चेत्कारणं तदसत्ततः ॥” इति,
अत्र तदसत्तत इत्यत्र स्थाने सदिदं तत इति पाठ्यम् । विशेषणतयोपलक्षणतया वा सत्तासंबन्धिनि नासत्त्वारोपश्शक्यत इति ।
सत्त्वं च सदसद्वेति विकल्प्यानिष्टकल्पने । असत्त्वं सदसद्वेति विकल्प्योत्तरमूह्यताम् ॥
स्वक्रियादिविरोधश्च सूत्रप्रभृतिदुस्तरः । गुरुशिष्यादिवाक्यानां परबोधार्थता यतः ॥
तेभ्यश्चैतन्यमित्यादि वदता गुरुणा स्वयम् । किण्वादिभ्यः प्रसिध्यन्ती मदशक्तिर्निदर्शिता ॥
प्रत्यक्षाल्लोकशब्दोक्तादधिकं च तदायतम् । अभाष्यत भवत्पूर्वैः प्रत्यक्षं चार्थसाधकम् ॥
अर्थकामौ पुमर्थौ च दृष्टोपायैरुदीरितौ । प्रीयसे दूयसे च त्वं बिभेषि च ततस्ततः ॥
इष्टं प्राप्तुमनिष्टं च निवर्तयितुमुद्यतः । तत्सिद्धौ चरितार्थत्वं लोकवत्किं न मन्यसे ॥
बुभुक्षुरन्नमादत्से श्वभक्ष्यादि जहासि च । परोक्त्या प्रतिपद्यार्थं प्रतिब्रूषे जिगीषया ॥
तत्त्वावधारणार्थं वा वादे किं न प्रवर्तसे । स्वयं वा मानतर्काभ्यां किं न किञ्चित्परीक्षसे ॥ ३२ ॥
1.33 कादाचित्कस्य कालावधिनियतिकरं पूर्वसत्कारणं स्यात् भावोपष्टम्भशून्यो न खलु तदवधिं प्रागभावोऽपि कुर्यात् । कार्यं निर्हेतुकं चेत्कथमिव न भवेन्नित्यता तुच्छता वा कादाचित्कस्वभावाद्यदि न नियमनादन्यथाऽतिप्रसङ्गात् ॥ ३३ ॥
1.33 ननु परिवेषादिषु नियतपूर्वसत्किञ्चिन्न दृश्यते । न च घटादिदृष्टान्तेन तदनुमेयम्, विपरिवर्तस्य दुर्वारत्वात् । अतो दृश्यमाना अप्यवधयः केषुचिद्रसोत्पत्तौ रूपादिवद्यदृच्छासिद्धा इत्यत्राह – कादाचित्कस्येति ॥ अयं भावः – यदि परिवेषादीनामपि कादाचित्कत्वं दृष्टं तत्र निपुणं निरूपयतां देशकालादृष्टविशेषादातपादिकारणविशेषस्सिद्धः । तदनुपलम्भेऽपि सन्दिग्धपरिवेषादिदृष्टान्तेन नान्यत्र हेत्वभावश्शक्योऽनुमातुम्, अनिश्चितसाध्यस्य दृष्टान्तत्वायोगात्, निश्चितसाध्यविपर्ययस्य पक्षत्वाद्यतिपातात्, निश्चितनिदर्शनादनिश्चितानुमानं युक्तमेव । न च त्वद्विवादमात्रेण घटादिषु सर्वलोकसंमतः कारणसद्भावस्सन्दिह्यते । एतेनाहेतुतो भावोत्पत्तिः कण्टकतैक्ष्ण्यादिदर्शनात् इत्यादि च प्रत्युक्तम् । अस्तु हेतुनिरपेक्षो नियतकालः प्रागभाव एव कार्यस्य पूर्वावधिः । स हि स्वभावविरुद्धतया कार्यकालमनश्नुवानस्तत्पूर्व एवेति सिद्धम् । अतः किमन्यैरित्यत्राह – भावोपष्टम्भेति । भावान्तरमभाव इति स्थापयिष्यते । इह त्वपिना पक्षान्तरान्वारोहस्सूच्यते । अयं भावः – यदि कार्येण प्रागभाव एव केवलोऽपेक्षणीयस्तद्वदेतेनाप्यनादिना भाव्यम् । अतः प्रागवधिः सन्नप्यभावस्तत्तद्भावशेखरित एव स्वात्मानमवधित्वेन नियच्छेदिति । नित्यस्वभाववत् कादाचित्कस्वभावस्यापि हेतुनैरपेक्ष्यं स्यादित्यत्राह – कार्यं निर्हेतुकं चेदिति । विषमं निदर्शनमित्याकूतम् । तदेवानिष्टप्रसङ्गेन व्यनक्ति – कथमिति । निरवधित्वे गत्यन्तरं न संभवतीति भावः । कार्यस्य निर्हेतुकत्वं सतोऽसतो वेति विकल्पे पूर्वत्र नित्यता, अन्यत्र तुच्छता स्यादिति विभा[ज्य]व्यम्, पूर्वावधिवदुत्तरावधेरप्यसत्कल्पत्वान्नित्यत्वम् । न हीतःपरं न भवितव्यमनेनेत्यपि नियमोऽस्ति । ननु कादाचित्कत्वं स्वभावो न वा ? आद्ये नित्यस्वभाववन्निरपेक्ष एव स्यात् । द्वितीये कथ-मतत्स्वभावः कारणसहस्रेणापि तत्स्वभावतां नेतुं शक्यः ? स्वभावस्य च हेतुमत्त्वे निर्हेतुकमिति किंचिन्न स्यात् । अतो नित्यस्वभाववन्नियतकालस्वभावता स्यादिति शङ्कते – कादाचित्केति । कादाचित्कस्वभावत्वेऽपि हेत्वधीनतां तत एव नित्यस्वभाववैषम्यं चाभिप्रेत्याह – न नियमनादिति । न हि यतः कुतश्चिदनन्तरमनेन भवितव्यमिति कादाचित्कत्वम्, अनियमादृष्टेः; अस्मादनन्तरमेवेदमिति कालविशेषव्यवस्थादृष्टेरित्यर्थः । उक्तनियमानभ्युपगमे सर्वत्र सर्वदा सर्वतः कार्यं स्यादिति तर्कबाधं व्यनक्ति – अन्यथेति । न हि धूमादिना यदा कदाचिद्भवितव्यमित्यस्य कादाचित्कत्वं नियम्यते; तथा सति गर्दभादेरनन्तरं तदुपलब्धिर्वा सामग्र्यनन्तरमनुपलब्धिर्वा स्यादिति ॥ ३३ ॥ इति कार्यकारणभावादि-समर्थनम् ॥
1.34 नेत्रादेर्दीपिकादेरिव नियमयुतं तैजसत्वादिसाध्ये रूपादिग्राहकत्वं यदि करणतया स्यादसाधारणत्वम् । तत्साहाय्यं त्वसिद्धं भवति गमकतामात्रमप्यञ्जनादावक्षाहङ्कारिकत्वं श्रुतिपथनिपुणैर्घोषितं नैव बाध्यम् ॥ ३४ ॥
1.34 प्रकृतस्य प्रकृत्यादिकारणवादस्य प्रतिपक्षा निरस्ताः । तत्र देहादिवदिन्द्रियाणामपि भौतिकत्वं वदतः प्रतिवक्तिनेत्रादेरिति ॥ नियमयुतं सावधारणम्, रूपादिषु मध्ये रसाद्यग्राहकत्वेन विशेषितमित्यर्थः । चक्षुस्तैजसं रसाद्यग्राहकत्वे सति रूपग्राहकद्रव्यत्वात् दीपवदिति । एवं त्वगिन्द्रियं वायवीयं स्पर्शादिषु मध्ये स्पर्शस्यैव ग्राहकद्रव्यत्वात् अङ्गसङ्गिसलिलशैत्याभिव्यञ्जकवायुवत् । रसनस्याप्यत्वे रसस्यैवेति दन्तान्तस्तोयदृष्टान्तः । घ्राणस्य पार्थिवत्वे गन्धस्यैवेति चन्दनकुङ्कुमादिगन्धाभिव्यञ्जकनिम्बत्वगादिनिदर्शनम् । श्रोत्रस्य तु नभस्त्वे श्रोत्रं गुणावान्तरजात्या स्वगुणसजातीयगुणग्राहकम् बाह्येन्द्रियत्वात् चक्षुरादिवदिति । शब्दो गुणावान्तरजात्या सजातीयगुणवतेन्द्रियेण गृह्यते बहिरिन्द्रियव्यवस्थापकगुणत्वाद्रूपादिवत् । शब्दो भूतेन्द्रियग्राह्य इति वा । बहिरिन्द्रियव्यवस्थापकत्वादित्येव हेतुः । तथा श्रोत्रं भौतिकम्, बाह्येन्द्रियत्वात् चक्षुरादिवत् । आकाश इन्द्रियारम्भकः, भूतत्वात् भूतान्तरवदिति । शब्दोपलब्धिर्वा भूतेन्द्रियकरणिका बाह्येन्द्रियव्यवस्थापकोपलब्धित्वात्, रूपोपलब्धिवत् । तत्राद्येषु चतुर्ष्वनुमानेषु हेतुविकल्पमनूद्य दूषयति – यदि करणतयेत्यादिभिः । यस्मिन्सति कार्यं भवत्येव तत्करणम्; तच्च सन्निकर्षविशेषविशिष्टतयेन्द्रियाणाम् । ननु –
उद्विग्नो ह्यन्धकारेण कश्चिदेवं ब्रवीत्यपि । किं चक्षुषा ममैतेन दृष्टं दीपेन यन्मया ॥
इति दीपादिषु साधकतमत्वं कश्चिद् ब्रूयात्, अतस्सपक्षवृत्तेर्हेतोः कथमसाधारणत्वम् ? इत्थम् – आलोकेन विनाऽपि जन्तुभेदेषु चक्षुषो रूपादिग्राहकत्वं सिद्धम् । अन्धकारे च मनुष्यादीनां तत्त्वतोऽन्यथा वा । अत ईदृशं प्राधान्यमपेक्ष्य इन्द्रियेषु करणत्वं दीपादिषु सहकारित्वं च प्रख्यातमनुरुध्य विकल्पप्रवृत्तेरविरोधः । कोट्यन्तरं दूषयति – तत्साहाय्यं त्वसिद्धमिति । करणभूतेन्द्रियापेक्षया तेषामेव दीपादिवत्सहकारित्वमनुपपन्नमित्यर्थः । दीपादीन्प्रति सहकारित्वान्नासिद्धिरिति चेत्तर्हि प्रमातृप्रमेययोरपि तथात्वात्तत्सिद्धः स्यात् । तयोः सतोरपि कदाचित्कार्यं नास्तीति चेत्तावता करणत्वं माभूत् तत्सहकारित्वं तु सिद्धमेव । दीपे च सति भाव एवेति नियमो नास्ति । संप्रयोगविशेषसाहित्यात्स्यादिति चेत्तर्हि तयोरपि ततस्स्यादेवेत्यनैकान्त्यम् । एतेन करणत्वादिविकल्पानादरेण रूपादिबोधकद्रव्यत्वमात्रं हेतुरित्यपि निरस्तम् । तद्व्यनक्ति – भवतीत्यादिना । आदिशब्देन प्रमात्रादिसंग्रहः । अञ्जनत्य शक्ये प्रतिबन्धकनिवर्तकत्वमात्रमिति चेन्न ; अशक्ये गूढनिदर्शनादौ शक्त्याधानेन सहकारित्वदृष्टेः । शक्त्याधानं हि सहकारीति चेन्न; दीपादावपि तथा कॢप्तिप्रसङ्गात् । सत्तयैव हेतुत्वं तत्र दृष्टमिति चेदत्रापि तथाऽस्तु ; अविशेषात् । ये च तत्तदिन्द्रियदोषैरपि रूपादिधीरस्तीति मत्वा “शरीरयोगे सत्येव साक्षात्प्रमितिसाधनम्” इति लक्षयन्ति ; तन्मते तत्तद्दोषैरप्यनैकान्त्यम् । तेषां तैजसत्वानभ्युपगमात् । दन्तान्तस्तोयदृष्टान्तश्चायुक्तः ; विषयसंस्कारकस्य व्यञ्जकत्वायोगात् । न हि ग्रस्यमानं किंचिदसंस्कृत्य दन्तान्तस्तोयस्योपकारकत्वम् ; तावता च रसव्यञ्जकत्वे रसगन्धाद्युद्भवहेतोरग्न्यादेरपि किं तन्न स्यात् ? वायुश्च वेगेनाभिघ्नन् सूक्ष्मान्सलिलकणानन्तश्शरीरं प्रवेशयति । शैत्यं तु तेषां त्वगिन्द्रियप्रवेशवैषम्याद्विशदमनुभूयते । तावता स्पर्शव्यञ्जकत्वे गन्धोपकारकस्य तस्य तद्व्यञ्जकत्वमपि किं नेष्यते ? तथा च घ्राणपार्थिवत्वानुमानं दुःस्थमिति । एव चतुर्णां भौतिकत्वासिद्धौ तद्दृष्टान्तेन श्रोत्रभौतिकत्वानुमानान्यपि च्छिन्नमूलानि । आकाश इन्द्रियारम्भक इति चायुक्तम् । श्रोत्रस्य त्वन्मते तदारब्धत्वाभावात् । भूतत्वादिति च घटादिभिरनैकान्तिकम् । किंचात्र लोकसिद्धनयनबुद्बुदादिपक्षीकारे रूपादिविशेषैस्तेषां पार्थिवत्वसिद्धेः कालात्ययापदेशः । अनुमानतस्त्विन्द्रियसिद्धिरशक्येति वक्ष्यते । सामान्यतो दृष्टादधिष्ठानातिरिक्तेन्द्रियसिद्धावपि तदाहङ्कारिकत्वं श्रौतमबाध्यम् । इन्द्रियाण्यहङ्कारविशेषा इति हैरण्यगर्भोक्तिरपि तदाहङ्कारिकत्वानुगुणा ; अतः श्रुतिसिद्धपक्षीकारेऽपि बाध एव । प्रतिप्रयोाश्च – बाह्येन्द्रियाण्यभौतिकानि इन्द्रियत्वात्, मनोवत् । प्रत्येकपक्षीकारेण वा चक्षुरतैजसमित्यादि ; तावेव हेतुदृष्टान्तौ ; परस्परं वा घ्राणादयो दृष्टान्ताः । विपक्षे बाधकसदसद्भावश्च समः, यत्किंचिद्दृष्टान्तमात्रानुसारेण प्रसङ्गस्य सुलभत्वादिति । परोक्तानुमानानामागमबाधमभिप्रेत्याह – अक्षाहङ्कारिकत्वमिति । श्रुतिपथनिपुणैः – मनुपराशरपाराशर्यादिभिः । घोषितं – बहुषु प्रदेशेषु स्पष्टोक्तं नैव बाध्यम् – अशक्तैरनुमानैरन्यपरैश्च वाक्यैरिति शेष ॥ ३४ ॥
1.35 तन्मात्रेष्विन्द्रियाणां श्रुतिरिह न लयं वक्ति किंतु प्रवेशं नो चेत्पृथ्व्यादिवाक्येष्विव हि लयपदं व्योम्नि चाक्षेषु च स्यात् । भूतैराप्यायितत्वात्क्वचिदुपचरिता भौतिकत्वोक्तिरेषामन्नाप्तेजोमयत्वं श्रुतिरपि हि मनःप्राणवाचामुवाच ॥ ३५ ॥
1.35 ननु “इन्द्रियाणि तन्मात्रेष्विति श्रुत्या भौतिकत्वममीषां भातीत्यत्राह – तन्मात्रैष्विति ॥ पूर्वापरपर्यायेष्विव आकाशेन्द्रियादिपर्याययोर्लयो न पठ्यते । न चात्रानुषङ्गः कार्यः; सति गत्यन्तरेऽध्याहारवत्तस्याप्ययोगात् । अन्यथा द्वितीयादिषु सर्वेषु पर्यायेष्वप्यनुषङ्गेण भाव्यम्; वैरूप्यायोगात् । इन्द्रियाणामाकाशप्रकृतित्वं च सर्वोपबृंहणविरुद्धम् । अस्यां चोपनिषदि भूतादेराकाश आकाशाद्वायुरित्यादिः सृष्टिक्रम उक्तः । “षोडश विकारा” इति श्रुतेश्चासामञ्जस्यं स्यात् । अतो वरमधिकरणत्वोक्तिमात्रानुसारादाकाशस्येन्द्रियेषु, तेषां चाकाशारम्भकतन्मात्रेषु प्रवेशविशेषाभिधानमित्यभिप्रायेणाह – कितु प्रवेशमिति । अयं भावः -यद्यप्याकाशस्येन्द्रियैः प्रागपि संबन्धः, तथाऽपि तत्तदिन्द्रियाप्यायकभूतांशानां स्वकारणलयक्रमात् (आकाशदशापन्नत्वात्तदानीमिन्द्रियेष्वाकाशस्यैव संसर्गः । अनन्तरमाकाशे च शब्दतन्मात्रावस्थे तानीन्द्रियाणि शब्दतन्मात्रसंसर्गीणि भवन्ति । अतस्तन्मात्रान्तराणामपि तदवस्थापत्त्या तत्तदंशभेदविवक्षया बहुवचनोपपत्तिः । अतः “तन्मात्राणि भूतादौ लीयन्त इत्यपि बहुवचनं गतार्थम् । [अत्रैवं व्याख्यातम् – इन्द्रियाप्यायक-भूतांशानां सर्वेषामाकाशतापन्नत्वादाकाशस्यैव इन्द्रियसंसर्ग आसीत् ; पञ्चानामपि भूतानां शब्दतन्मात्रापन्नत्वादिन्द्रियाणि शब्दतन्मात्रांशभेदेषु संसृष्टान्यासन्निति । एवमनभ्युपगमे वाक्यवैरूप्यदोषं व्यनक्ति – नो चेदिति । ननु “श्रोत्रं नभो घ्राणमुक्तं पृथिव्या” इत्यारभ्य “वाय्वात्मकं स्पर्शनमामनन्ति” इत्युच्यते ; “नभः श्रोत्रं च तन्मयम्” इत्यादि च । अत आहङ्कारिकत्ववाक्यं परम्परया नेयनित्यत्राह -भूतैरिति । तदिदं व्यवस्थापितं वेदार्थसंग्रहे – “भूतैस्त्वाप्यायनं महाभारत उच्यते इति । इममेव न्यायम् “अन्नमयं हि सोम्य मन आपोमयः प्राणस्तेजोमयी वाक्” इत्यादिष्वपि योजयितुमाह – अन्नाप्तेजोमयत्वमिति । न खलु हैतुकैरपि मनसः पार्थिवत्वं कल्प्यते ; वायुरूपस्य प्राणस्याप्यत्वम् ; तस्मादाप्यायनपरत्वमेव तत्र वाच्यम्, एवमन्यत्रापि । “अग्निर्वाग्भूत्वा मुखं प्राविशत्, आदित्यश्चक्षुर्भूत्वाऽक्षिणी प्राविशदित्यादिषु तत्तद्देवताधिष्ठाने तात्पर्यम् ; “अग्निं वागप्येति” इत्यप्ययश्रुतिश्चाधिष्ठातृदेवतांशापक्रमणपरेत्यभाष्यत । “ओषधीर्लोमानि” इत्यादिना अनपियद्भिर्लोमादिभिस्सह पाठात् ॥ ३५ ॥ इतीन्द्रियाणामभौतिकत्वाहङ्कारिकत्वे ॥
1.36 रूपादिज्ञानसिद्धौ यदि करणतया कल्पनं धीन्द्रियाणां तद्वद्गत्यादिकर्मस्वपि करणतया सन्तु कर्मेन्द्रियाणि । कर्मज्ञानाक्षहेत्वोस्समपरिहरणा ह्यन्यथासिद्धिशङ्का तस्मादेकादशाक्षाण्यपि निगमविदो मन्वते न्यायपूर्यम् ॥ ३६ ॥
1.36 अथ मनष्षष्ठान्येवेन्द्रियाणि, वागादिष्विन्द्रियशब्दो भाक्त इति वदतः प्रतिबन्दिपूर्वकेण प्रमाणेन प्रतिक्षिपति-रूपादीति ॥ अयं भावः – यद्यागमः प्रधानीक्रियेत तदा “इन्द्रियाणि दशैकं च” इति व्यवतिष्ठेत । यदा तु क्रिया करणपूर्विकेति व्याप्त्या रूपादेः सुखादेश्चोपलब्धिः, स्मृतिश्च क्रियात्वात्करणपूर्विकेति कल्प्येत ; तदा वचनादानादिक्रियाऽपि तत्पूर्विका कल्प्या स्यात् । अथ तावताऽधिष्ठानातिरिक्तं न सिध्यतीति मन्यसे, ज्ञानेन्द्रियेष्वपि तथैवालोकादिभिरधिष्ठानैश्च सिद्धसाध्यता । गोलकादिसद्भावेऽपि कदाचित् कार्यं न जायते इत्यतिरिक्तसिद्धिरिति चेत् ; समं वागादावपि । सामग्रीवैकल्यात् प्रतिबन्धकाच्च तत्र तथेति चेत् ; चक्षुरादावपि तथैव । सत्यप्यालोकादौ दोषादर्शनेऽपि गोलकादितः कदाचित्कार्यं न जायत इति चेत्, तदपि समम् । दोषस्सूक्ष्मस्तत्रेति चेत् ; अत्राप्येवमस्तु । ज्वालाघ्रातबीजन्यायेन विशेषादर्शनेऽपि दोषस्य कल्प्यत्वात्, कल्पितेऽपि ह्यतीन्द्रिये तदानीं तद्भ्रंशहेतुस्सूक्ष्मो दोषस्त्वयाऽप्यङ्गीकार्यः । अन्यथा कथं कर्मेन्द्रियकॢप्तेरन्यथासिद्धिः ? ननु च यदि चक्षुर्गोलक एवेन्द्रियम्, कथं तर्हि दूरस्थं व्यवहितं वा न प्रकाशयति ? इत्थम् – यथाऽयस्कान्तादेरव्यवहितानतिविप्रकृष्टाकर्षकत्वं, तथेह प्रकाशकत्वम् । आभिमुख्यविशेष एव च बाह्यैरुक्तस्संबन्धोऽस्तु । नन्वयस्कान्तादिवदाभिमुख्याभावेऽपि दर्पणादिभिः स्वमुखादेः पश्चाद्भागवर्तिनां च दर्शनं कथं स्यात् ? भवतो वा कथम् ? चाक्षुषस्य तेजसः प्रतिलोमवृत्त्येति चेत्; सा कुड्यपाषाणादौ कथं न जायते ? मणिसलिलदर्पणादिषु च कथं भवति ? अपर्यनुयोज्यतत्तद्वस्तुस्वभावविशेषादिति चेत् ; अस्तु तर्हि स एव सन्निधिविशेष-सामर्थ्यादनभिमुखवस्तुनिदर्शनस्य हेतुः । द्रव्यान्तरकल्पनाद्वरं सिद्धद्रव्यसामर्थ्यविशेषस्य प्रतिफलनादौ संमन्तव्यस्य कार्यान्तरयोजनामात्रम् । अतो धीन्द्रियाणां कल्प्यत्वे कर्मेन्द्रियाणामपि कॢप्तिरनिवार्या ; अन्यथासिद्धिशङ्कापरिहारौ च समाविति । तदेतत्सर्वमभिप्रेत्याह – कर्मेति । त्यज्यतां तर्हि वर्गद्वयमिति चार्वाकोत्थानं प्रतिरुणद्धि – तस्मादिति । अतीन्द्रियेन्द्रियकल्प्यत्वासंभवादप्राप्ते च शास्त्रस्यार्थवत्त्वादिति भावः । निगमविद इत्यनेन श्रुतिस्मृत्यनुविधानसूचनम् । “एका कन्या दशेन्द्रियाणि” इत्यादेर्न हि कश्चिद्बाधो दृश्यते । नच कणभक्षाक्षपादाद्यनुसारेण षट्कावच्छिन्नेन्द्रियलक्षणकॢप्तिर्यक्ता । यथाऽऽहुः –
सिद्धानुगममात्रं हि कर्तुं युक्तं परीक्षकैः । न सर्वलोकसिद्धस्य लक्षणेन निवर्तनम् ॥ इति ॥
वक्ष्यते चानुवृत्तं तल्लक्षणं सात्त्विकाहङ्कारोपात्तत्वम् । न च कर्मेन्द्रियाणां तन्त्रान्तरसिद्धं राजसत्वमनुमन्तव्यम् ; शब्दप्रमाणके यथाशब्दं व्यवस्थापनात् । साङ्ख्यैरप्यत्र शास्त्रमेवानुसृतम् – “सात्त्विक एकादशकः प्रवर्तते वैकृतादहङ्कारात्” इति । साधितं च सप्तगत्यधिकरणसिद्धान्ते हस्तादीनामपि तादृशमिन्द्रियत्वं न्यायपूर्वम् । “क्रिया करणपूर्विकेति व्याप्त्यनुसारेण तत्तत्करणमात्रानुमानेऽपि अलौकिकविशेषप्रतिपत्तिश्शास्त्रत एवेति भावः । एवं च शास्त्रयोन्यधिकरणे भाष्यम् – “अतीन्द्रियेऽर्थे शास्त्रमेव प्रमाणं” इति । चन्द्रबिम्बपरभागादिषु व्यवधानविप्रकर्षादिभिरस्मदादीन्द्रियग्रहणानर्हेषु नानुमानम् ; तस्य पक्षाश्रयहेतुधर्मव्यापकान्वयमात्रातिरिक्तेषु प्रवृत्त्ययोगात्, साध्यसामान्यस्य तु विवक्षितविशेषविरुद्धव्याप्तत्वेन तदाकर्षकत्वायोगात् । अतोऽतीन्द्रियध [र्मि]र्मकल्पनाद्वरं दृष्टेषु केषुचिद्वैषम्यमात्रस्वीकार इति तात्पर्यम् ॥ ३६ ॥ इत्येकादशेन्द्रियसिद्धिः ॥
1.37 सांख्यैस्त्रेधोक्तमन्तःकरणमिह मनोबुद्ध्यहङ्कारभेदाच्चित्तं चान्ये चतुर्थं विदुरुभयमसत्तादृशश्रुत्यभावात् । तत्तत्तत्त्वोक्तिमात्रं न हि करणभिदामाह कॢप्तिस्तु गुर्वी बुद्ध्याद्याख्या निरूढा क्वचिदिह मनसो वृत्तिवैचित्र्य(मात्रा)योगात् ॥ ३७ ॥
1.37 उक्तेष्विन्द्रियेषु एकमेवान्तःकरणमिति तत्त्वम् । सांख्यास्त्वाहुः – “करणं त्रयोदशविधम् ; “अन्तःकरणं त्रिविधं दशधा बाह्यं त्रयस्य विषयाख्यम् इति । अन्ये तु चित्ताख्यमप्यन्तःकरणमन्यदाहुः । तदनुभाषते – सांख्यैरिति ॥ तदिदं मतद्वयं निष्प्रमाणकमित्याह – उभयमसदिति । कथमित्यत्र श्रुत्या कल्पनया वा तत्सिद्धिरिति विकल्पे प्रथमस्यासिद्धिमाह – तादृशेति । ननु तान्यपि त्रीणि सुबालोपनिषदि पृथिव्यादितत्त्वपङ्क्तौ मनसोऽनन्तरं पठ्यन्त इत्यत्राह – तत्तदिति । अयं – भावः – न हि तत्त्वपङ्क्तिपाठमात्रान्मनस्सहपाठमात्राद्वा करणत्वं सिध्येत् ; तथा सत्यव्यक्तादीनामपि तत्प्रसङ्गात् इति । द्वितीयं दूषयति – कॢप्तिरिति । एकस्यैव हि मनसः स्मृत्यनुभवभेदेन वा संकल्पविकल्पभेदेन वा वृत्तिभेदमन्येऽप्याहुः । श्रूयते च “कामस्संकल्प इत्यादौ “एतत्सर्वं मन एवेति । अत्र “आयुर्धृतमित्यादिवत्सामानाधिकरण्यम् । पुरुषधर्मा एव हि वस्तुतः कामादयोऽध्यवसायादयश्च । तदिह पुरुषबुद्धिभेदनियतसामग्रीभेदव्यवस्थितं वृत्तिभेदमात्रं न करणभेदकल्पकमिति भावः । ननु “चक्षुश्च द्रष्टव्यं च नारायण” इत्यादिना पञ्चज्ञानेन्द्रियाण्युक्त्वा “मनश्च मन्तव्यं च नारायणः, बुद्धिश्च बोद्धव्यं च नारायणः, अहङ्कारोऽहङ्कर्तव्यं च नारायणः, चित्तं च चेतव्यं च नारायण” इत्याम्नातम् । अनन्तरं चैवं कर्मेन्द्रियाण्यधीतानि । अतः करणगणमध्यपाठादग्र्यप्रायनयेन बुद्ध्यादीन्यपि करणानि स्युरित्यत्राह -बुद्ध्याद्याख्येति । तथा च भाष्यम् – “अध्यवसायाभिमानचिन्तावृत्तिभेदान्मन एव बुद्ध्यहङ्कार-चित्तशब्दैर्व्यपदिश्यते” इति । अतस्तत्त्ववर्गमध्ये मनोनन्तरं बुद्ध्यादिचित्तान्तपाठोऽपि मनस एव हि वृत्तिभेदविशिष्टस्येति नेतुं शक्यम् । न च चित्तं नाम तत्त्वान्तरं सृष्टिप्रलयप्रकरणेषु पठ्यते । “अयमेव त्वहङ्कार उत्कृष्टजनावमानहेतुरित्यादिप्रथमसूत्रभाष्यमहमर्थहेयत्वनिरासपरतयाऽन्यार्थम् ; अन्वारुह्याप्युपपत्तेः । अनुग्राहकत्वमात्रेण परम्परया वा गर्वहेतुत्वोक्तेरविरोधादिति ॥ ३७ ॥ इत्यन्तःकरणवैविध्यभङ्गः ॥
1.38 एकं तत्तत्प्रदेशप्रतिनियततया शक्तिभेदं प्रपन्नं देहव्यापीन्द्रियं चेत्प्रथममिह भवेदागमेनैव बाधः । नो चेत्स्याद्देहभेदप्रतिनियततया सर्वजन्तोस्तदेकं भेदाम्नानादकॢप्तेरपि न च भजते देह एवेन्द्रियत्वम् ॥ ३८ ॥
1.38 नन्वेवं बाह्यकरणभेदोऽप्यपोहितुं शक्यः, मनोवदेकस्य वृत्तिभेदात्पृथक्कार्यव्यपदेशोपपत्तेः । आहुश्च बाह्यैकदे-शिनः – “एकैकदेहेष्वेकमेवेन्द्रियम्” । प्रदेशभेदैस्तु रूपादिप्रकाशनशक्तिनियमः । षडायतनागमोऽपि तथैव व्यवस्थाप्यः, स्वरूपभेदप्रयोजनाभावात् । “कल्प्यते शक्तिभेदश्चेच्छक्तिरेवेन्द्रियं भवेत्” इति चायुक्तम्, धर्मिकल्पनातो वरं हि धर्मकल्पनम् । प्रदेशानामेव तत्तत्करणत्वोपपत्तौ प्रदेशिकॢप्तिरनर्थिकेति चेन्न ; देहव्यापिनः स्पर्शस्योभयसंमतेः, तस्य च करतलप्रकोष्ठास्यनेत्रादिषु स्पर्शग्रहणशक्तिवैषम्यदृष्टेः । अतश्चैकस्यैव सर्वत्र देहे स्पर्शनत्वम्, तत्रतत्र चक्षुरादित्वं चेति । तदेतदाह – एकमिति ॥ किमेकेन्द्रियस्य श्रुतस्य कल्पितस्य वा शक्तिभेदव्यवस्थापनमिति विकल्पमभिप्रेत्याद्यं दूषयति – प्रथममिति । बाधस्य दूषणान्तरादौद्भट्यसूचनाय प्राथम्योक्तिः । आगमेनैव – धर्मिग्राहकेणैवेत्यर्थः । गौरवदोषश्च कॢप्तिपक्षे वक्तव्यः, नास्मत्पक्ष इति चाभिप्रेतम् । इन्द्रियकॢप्तिः प्रागेव निरस्ता । अत्र तदेकत्वकॢप्तावतिप्रसङ्गमाह – नो चेदिति । यथैकमेवाकाशं तत्तत्पुरुषादृष्टोपार्जितकर्णशष्कुल्यवच्छेदभेदैः प्रतिपुरुषं व्यवस्थितोपकारकमिति वैशेषिकादिभिः कल्प्यते, तथा त्वयाऽप्येकमेवेन्द्रियं तत्तद्भोगायतनभेदनियतशक्तिकं सर्वोपकारकं कल्प्यमिति भावः । न चैवमस्त्विति वाच्यम् ; अपसिद्धान्तात् । ननु च नानादेहमध्येषु वसतः कथमेकत्वमिति चेत् ; चक्षुर्गोलकाद्यवच्छिन्नानामिन्द्रियप्रदेशभेदानां कथम् ? न कथञ्चिदिति चेत्तर्ह्यनेकेन्द्रियवादः । पुञ्जैकत्वमस्त्विति चेत् किमतः ? ग्राहकांशानां मिथो[भिन्न]विभक्तत्वात् । न च तत्ता तदन्यस्य न च तस्य ततोऽन्यता । सत्ताद्यैर्जैनवद्वाच्या सर्वमानविरोधतः ॥ स्पर्शनस्य पुञ्जस्य भागाश्चक्षुरादय इत्यप्यसत् ; नियामकाभावात् । अत्रावयविसामान्यसादृश्यापोहादिभिरैक्यकल्पने अपसिद्धान्तातिप्रसङ्गौ, देहातिरिक्तेन्द्रियकल्पनं चास्मिन्पक्षे अपार्थम् । न ह्यत्र दृष्टहानिरदृष्टकल्पना वा; कुतस्तद्गौरवम् ?अतिरिक्तेन्द्रियकल्पनेऽपि देहावयवानां नियतोपकारकत्वमिष्यते । अस्तु तर्ह्ययमेव पक्ष इत्यत्राह -भेदाम्नानादिति । अयं भावः – भौतिकाद्देहात् इन्द्रियाणां सात्त्विकाहङ्कारोपादानकत्वेन भेदाम्नानात् -कॢप्तिप्रसङ्गाभावात् बाधाच्च मुधाऽत्र लघुपक्षोक्तिरिति ॥ ३८ ॥ इत्येकेन्द्रियवादभङ्गः ॥
1.39 सूक्ष्माण्येकादशाक्षाण्यपि न यदि कथं देहतो निष्क्रमादिश्चित्ताणुत्वे तु सर्वेन्द्रियसमुदयने धीक्रमोऽप्यस्तु मानम् । वृत्त्याऽक्ष्यादेर्दवीयः प्रमितिजनकता वृत्तिराप्यायनार्थैः भूतैर्जातः प्रसर्पः श्रुतिमितमपि चानन्त्यमेषां स्वकार्यैः ॥ ३९ ॥
1.39 यदेतेष्विन्द्रियेषु मनसः कैश्चिन्नित्यत्वमुक्तम्, तदिन्द्रियोत्पत्तिश्रुत्यैव निरस्तम् । प्रकृत्येकदेशपरिणतिर्मन इति सिद्धे विभुत्वानुमानानि च बाधितानि । यत्तु मनो विभु सर्वदा स्पर्शरहितद्रव्यत्वात्, ज्ञानासमवायिसंयोगाधारत्वात्, नित्यत्वे सति द्रव्यानारम्भकद्रव्यत्वादात्मादिवदित्यादि ; तदेतत्सर्वमात्माणुत्ववादिनं प्रति न शोभते । ज्ञानासमवायिसंयोगाधारत्वं चात्ममनसोरसिद्धम् ; ज्ञाननित्यत्वस्य साधयिष्यमाणत्वात् । नित्यत्वे सति द्रव्यानारम्भकद्रव्यत्वादित्येतच्चोत्पत्ति-श्रुत्याऽपहृतविशेषणम् । द्रव्यानारम्भकत्वं च भवतामवयव्यनारम्भकत्वम्, तच्चास्माकमणुष्वपि ; विद्यते । यदपि सर्वदा विशेषगुणशून्यद्रव्यत्वात्, कालवदिति ; असिद्धमिदमौपनिषदानाम्, त्रिगुणद्रत्वे मनसि सत्त्वादिविशेषगुणसंमतेः । दूरस्थस्मृत्या मनोविभुत्वं कल्प्यमिति चेन्न; अनुभवसंस्कारप्रत्यासत्त्यैव तदुपपत्तेः । एवमन्यदपि । तदिहैकादशानाम् “अणवश्चेति सूत्राभिप्रेतमविभुत्वमातिष्ठते – सूक्ष्माणीति ॥ विपक्षे बाधकं वदन्नेवात्र प्रमाणमाह – न यदीति । परोक्तानुमानानां च विपक्षे दण्डश्च नास्ति ; सर्वत्र कार्योपलब्धेरिन्द्रियान्तराणामिव मनसोऽपि संचारादप्युपपत्तेः । “तमुत्क्रामन्तम्”, “शरीरं यदवाप्नोति” इति श्रुतिस्मृतिसंवादाच्च; आदिशब्देन देहान्तरावाप्तिगत्यागतिसंग्रहः । न चैतेषां जीववदणुत्वं विशेषतो दृश्यते ; तथा सति श्रोत्रादीनामनेकाधिष्ठानवर्तित्वम्, स्पर्शनरसनयोश्च पृथुप्रदेशव्यापित्वं न स्यात् ; सिद्धेऽपि ह्यणुत्वे विकासशक्त्या वृत्तिविशेषद्वाराऽऽप्यायकप्रचयाद्वा पृथुत्वमङ्गीकार्यम् । अन्यथा पिपीलिकादिशरीरस्थस्य स्पर्श-नस्य गजादिशरीरप्रवेशे तादृशपृथुत्वासिद्धिप्रसङ्गात् ; गजादिभ्यः कीटादिशरीरप्रवेशे तु तादृशस्सङ्कोचः । मनसस्तु परमाणुत्वेऽपि सद्वारकविषयसंबन्धसिद्धेरविरोधः । तत्र “युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गमिति परोक्तं मनोविभुत्ववादप्रतिषेधोपयोगादनुमन्यते – चित्ताणुत्वे त्विति । अयं भावः – व्यासङ्गदशायां समग्रैरपि बाह्येन्द्रियैर्युगपज्ज्ञानानि नोत्पद्यन्ते । दीर्घशष्कुलीभक्षणादिषु च व्यासङ्गदृष्टान्तेन धीक्रमोऽनुमेयः । क्रमभाविकारणान्तरसापेक्षो ह्यसौ ; न चादृष्टभेदोऽपेक्ष्यः, तस्य दृष्टोपहारेण चरितार्थत्वात् ; अन्यथाऽतिप्रसङ्गात् । प्रतिबन्धकाभावे ह्यदृष्टोपनीतदृष्टसामग्र्यैव कार्यसिद्धिर्नियता । तदिह कारणान्तरं यदि विभु स्यात् युगपदनेकेन्द्रियसंबन्धितया युगपत्पञ्चविषयज्ञानोत्पत्तिप्रसङ्गः ; एवं देहपरिमाणत्वेऽपि । न च मनसस्ततोऽपि सूक्ष्ममध्यमपरिमाणत्वे प्रमाणमस्ति । विभुनोऽपि मनसः केनचिच्छरीरावयवेनावच्छिन्नतयैव कार्यकरत्वमिति चेन्न ; तस्य निष्कम्पत्वेऽन्यत्र कार्याभावप्रसङ्गात् । सञ्चारित्वे तु तादृशवेगवतस्तस्य देहातिरिक्तत्वमणुत्वं च साधीयः ; किमन्तर्गडुना व्यापकेन मनसा ? यस्तु सर्वेषां देहावयवानां यथासंभवमवच्छेदकत्वं ब्रूयात्; तस्य प्रागुक्तप्रसङ्गानतिवृत्तिः, अतिगौरवं च । यद्येवमिन्द्रियाणि देहान्तःस्थानि त[दा]था कथ चक्षुश्श्रोत्रयोर्दूरस्थग्राहकत्वमित्यत्राह – वृत्त्येति । वृत्तिद्वारा संबन्धादित्यर्थः । ननु वृत्तिर्यदि स्वरूपं देहपरिच्छिन्नत्वान्न दूरस्थे वृत्तिः, धर्मोऽपि न धर्मिणमतिवर्तेतेत्यत्राह – वृत्तिरिति । भूतैः सहेति वा चारैः पश्यन्तीतिवद्वा योज्यम् । यद्यप्यप्राप्यकारित्वं हैतुकगत्या हठात्कारेण वक्तुं शक्यम् ; तथाऽपि “दिवीव चक्षुराततम्” इत्याद्यागमिकव्यवहारस्वारस्यबाधाभावाद्वृत्तिद्वाराप्राप्त्युक्तिः । नयनरश्मिगतितत्प्रतिघातादिकं च भाष्योक्तम् । ननु प्राणशब्दनिर्दिष्टानोन्द्रियाणि प्रक्रम्य “सर्व एवानन्ता” इति श्रुत्या सर्वेषामिन्द्रियाणां विभुत्वं ग्राह्यमित्यत्राह – श्रुतिमितमिति । यथोक्तं भाष्ये – “हृदयस्थानां चेन्द्रियाणां तत्तन्नाडीभेदैस्तत्तत्प्रदेशविशेषप्रसर्पात् तत्रतत्र कार्यकरत्वं चावधातव्यम् । अत्र “सर्वे प्राणा अनृत्क्रामन्तीति श्रुतेस्सङ्कोचकाभावात् “मनष्षष्ठानीत्यादेश्च न्यूनसंख्याव्यवच्छेदमात्रेणाप्युपपत्तेः, कर्मेन्द्रियाणां प्रतिशरीरमुत्पत्तिविनाशं व्यष्टिसमष्टिभावराहित्यं च वदन्तः प्रत्युक्ताः ॥ ३९ ॥ इतीन्द्रियाणां सूक्ष्मत्वम् ॥
1.40 प्राप्यग्राहीन्द्रियत्वाद्विमतमितरवत्प्राप्तिरुक्तप्रकारा वृत्तिं दृष्टेर्निरुन्धे विरलपटनयादम्बुकाचादिरच्छः । नो चेद्गृह्येत योग्यं सममिह निखिलं निष्फले छादकादौ स्थैर्ये तद्योग्यभावो न हि गलति समा सन्ततिस्त्वन्मतेऽपि ॥ ४० ॥
1.40 यदुक्तं “वृत्त्याऽक्ष्यादेर्दवीयःप्रमितिजनकतेति, तत्र बाह्यैरेवमुच्यते – वृत्तिप्रसरणे क्रमयौगपद्यविकल्पायोगाद्दूर-स्थविषया प्राप्तिर्न भवतीति; अतो यद्रूपग्राहकं यच्छब्दग्राहकमिन्द्रियं तदप्राप्यग्राहि यथा मन इति; तत्र तावत् प्रत्यनुमानमाह – प्राप्येति ॥ ननु गृह्यमाणस्य वर्तमानक्षणस्य पूर्वक्षणवर्तीन्द्रियसंबन्धायोगादिन्द्रियान्तराणामप्यसंबन्धग्राहकतया साध्यविकलो दृष्टान्तः । मैवम् ; क्षणभङ्गकुसृतेः प्रागेव निरासात् ॥
अतिप्रसङ्गोऽसंबन्धग्रहणे स्यात्समं त्विदम् । संबन्धग्रहणेऽपीति न सद्योग्यान्वितग्रहात् ॥
गृहीतस्येष्यते कश्चित्संबन्धो व्यभिचारतः । न संबन्धस्य सर्वस्य ग्रहणं व्यभिचारतः ॥
नात्र कर्मेन्द्रियैरनैकान्त्यम्, यथास्वं व्यापारेण स्पृष्टेर्ग्राहिशब्देन विवक्षितत्वात् ; तस्य च सर्वत्र प्राप्तविषयत्वात् । न च मनसा, तस्यापि बाह्येन्द्रिभयद्वारा बहिर्विषयप्राप्तेः ; यद्वा बाह्यज्ञानेन्द्रियत्वादिति मनःकर्मेन्द्रियव्यवच्छेदः । ननु उन्मिषितमात्रं चक्षुश्चन्द्रं गमयति । न चैकस्मिन्क्षणे तावान्देशो वृत्त्या लङ्घयितुं क्षमः । क्रमे तु प्रतिपरमाण्ववच्छेदं विलम्ब्य गमनात् प्रतीतिरपि विलम्बेत, दूरासन्नग्रहणकालतारतम्यं च स्यात् । मैवम् ; उदयत्येव सवितरि सकलदिग्व्यापिन्यां प्रभायामिव इन्द्रियवृत्तेस्तादृशवेगातिशयस्याविस्मयनीयतया पद्मपत्रशतवेधनीत्या यौगपद्याभिमानोपपत्तेः । ननु सिद्धे गमने यौगपद्याभिमानकॢप्तिः, नात्र तत्सिध्यतीति चेन्न; स्वाभ्युपगतसाम्यात् । बुद्धिसन्ततेश्शरीरान्तरगमनं दीपालोकादिगमनं च दृष्टं कल्प्यं वा ? नाद्यः, त्वयाऽप्यनभ्युपगमात् । द्वितीये तु तथेहापि किं न स्यात् ? न देहान्तरादौ गतिः प्राप्तिर्वा । किंतु तत्रतत्र देशकालनैरन्तर्येणोत्पत्तिमात्रमिति चेत्तथेहापि त्वया कल्प्यताम्; अविशेषात् । ननु प्राप्तिः कल्प्या, तदभावस्त्वनुपलम्भमात्रेण सिध्यतीति चेन्न ; योग्यानुपलब्धेरभावात् । अतीन्द्रियस्य हि प्राप्तिरपि तथैव । अतो नात्र बाधशङ्का । ननु दूरस्थत्वाद्विषयेन्द्रिययोः प्राप्तिर्बाधितेत्यत्राह -प्राप्तिरिति । वृत्तिद्वारेति शेषः । उक्तप्रकारेति पुनरनुवचनं वाद्यन्तरोक्तप्राप्तिप्रकारनिरासार्थम् । अथापि क्वचिद्व्यवहितग्रहणदर्शनात्प्रमाणतस्तर्कतश्च बाधः स्यादित्यत्राह – वृत्तिमिति । अच्छः -आलोकाद्यनुप्रवेशानुगुणसन्निवेशवानित्यर्थः । दृश्यते ह्यनाविलसलिलमूलप्रविष्टस्सूर्यालोकः ; तत्रत्यं च तत्प्रतिफलनदीप्तं शिलाविशेषादि । यथावत्प्रसरमत्यन्तनिरोधं च परिहर्तुं विरलपटनिदर्शनम् । अत एव हि तत्राविशदप्रतिभासः । सरन्ध्रत्वे स्फटिकादिषु सलिलगलनादिप्रसक्तिः स्यादिति चेन्न ; आलोकप्र[वे]काशवत्सु सर्वेषु सलिलप्रवेशस्य त्वया दुर्वचत्वात् । अच्छिद्रपरुवकसंपुटस्थगितकर्पूरकस्तूरिकादिगन्धनिस्सरणन्यायाच्च द्रव्यविशेषप्रवेशानुगुणसन्निवेशवत्त्वं काचादेरङ्गीकार्यम् । अप्राप्यग्रहणेऽपि हि कुड्यादिव्यवहितं न ग्राह्यम् ; काचादिव्यवहितं तु ग्राह्यमिति वस्तुस्वभाववैचित्र्यं त्वयाऽपि स्वीकृतम् ।
नीरन्ध्रेऽप्यम्बुकाचादौ दृक्प्रभादेः प्रवेशनम् । वस्तुस्वभाववैचित्र्यादिति केचित्प्रचक्षते ॥
सर्वत्र स्वरूपयोग्यत्वायोग्यत्वाभ्यामेव ग्रहणाग्रहणे । तत्र छादकतदभावौ निरर्थकाविति वदतां बाधकं स्वोक्तानुमानस्य विपक्षे बाधकम् । अयस्कान्तनिदर्शनेऽपि छादकनैप्फल्येऽतिप्रसङ्गमभिप्रेत्याह – नो चेदिति । इह योग्यं निखिलं सर्वस्मिन् जगति स्वरूपयोग्यं सर्वे समं गृह्येत – अविशेषाद्युगपदेवेत्यर्थः । आदिशब्देन अतिदूरत्वकालविप्रकर्षादिकं दृष्टान्ततया गृह्णाति । छादकाभावः स्वरूपतस्सहकारी, न तु प्राप्तिविरोधिप्रत्यनीकतयेति चेन्न ; आलोकादिप्राप्तिविरोधिच्छत्रादिन्यायस्यात्रानपायात् । न च यत्रक्वचिच्छादकाभावः सहकुर्यात् ; अतिप्रसङ्गात् । किंतु नयनार्जवदेशे । अयं च नियमः प्राप्तिविरोधिनिवृत्तिरूपतयेति युक्तमुत्पश्य । रूपग्रहणसामग्र्यामेव प्रदीपादिछादकं प्रभाप्रतिघातार्थं दृष्टम् । उन्मीलितनिमीलितचक्षुषः पिठरकावृतदीपप्रभान्यायेन पूर्वप्रसृतनयनप्रभाया विनाशादतिक्रमाद्वा ग्राह्य-ग्रहणाभावः । अत्र गृहीतच्छन्नमपि गृह्येतेति प्रसङ्गारूढम् । तदा सममिति पूर्वमिवेत्यर्थः । तच्च क्षणभङ्गेन योग्यायोग्यभेदकल्पनया परिजिहीर्षतः सर्वलोकप्रसिद्ध्यनुसारिणा स्वमतेनोत्तरमाह – स्थैर्य इति । अयं भावः – छादनदशायां पूर्वगृहीतस्य स्वरूपयोग्यत्वं स्थितं नष्टं वा ? आद्ये कथं न गृह्येत ? प्राप्तेरप्रयोजकत्वात् । द्वितीये नाशकं न दृष्टम् । छादकमेव स्वरूपयोग्यतानाशकमिति चेन्न ; अव्यवाहितदेशस्थैरप्यग्रहप्रसङ्गात् । यं प्रति व्यवधिस्तं प्रति योग्यता नष्टेति चेत्, छादकापगमेऽप्यग्रहप्रसङ्गात् । तदपगमात्पुनरुत्पद्यत इति चेत् ; हन्त ! अदृश्यमानानन्तोत्पत्तिनाशकल्पनात् प्रतिपुरुषनियतानन्तयोग्यताभेदकल्पनाच्च वरं प्रदीपप्रभान्यायेन प्राप्तिविघातकतया छादकसाफल्यस्वीकारः । परपक्षेणाऽपि प्रसङ्गस्थैर्यमाह – समेति । अपिरन्वारोहद्योतकः । क्षणभङ्गपक्षेऽपि योग्यक्षणादयोग्यक्षणोत्पत्तौ कारणक्षणस्य सर्वैरदृष्टस्तत्तत्स्वरूपातिरिक्तश्शक्तिभेदो वा सहकारिभेदो वा कल्प्यः । उभयमपि स्वमतबाधकं दृष्टम् । छादकमेवायोग्यक्षणोत्पादनसहकारीति चेन्न ; अपसिद्धान्तात्, छादकस्य किञ्चित्करत्वानपायात् तोयादिव्यवहितेऽप्यग्रहप्रसङ्गात् छन्नस्य च सर्वादृश्यत्वप्रसङ्गात् नेत्रसन्निकृष्टेन पक्ष्मकरतलादिना दवीयस्तरदिवाकरे क्षणोत्पत्तेरत्यद्भुतत्वाच्च । तस्मादस्मदुक्तमेव छादकसाफल्यम् । उक्तातिप्रसङ्गस्सांख्यादिपक्षेऽपि समः । यदि ह्यहङ्कारविकारयोश्चक्षुश्श्रोत्रयोर्यावद्देशस्थविषयग्राहित्वं दृष्टं तावत्पृथुत्वं तत्तच्छरीरोत्पत्तिसमयसिद्धम्, तत्राधिष्ठानाद्बहिरवस्थितांशो वृत्तिरित्युच्यत इति, तदा निमीलना-द्यवस्थायामपि ग्राहकत्वप्रसङ्गः, प्राप्तेरनपायात् । अथ पृथ्वग्रा संतताऽपि बहिर्वृत्तिर्दीपप्रभान्यायेन विनश्यति ; अत एव छन्नग्रहणाभाव इति; तथात्वेऽप्येकस्यादृश्यमानपृथुत्वाणुत्वाद्यनन्तावस्था, स्वतो भिन्नाभिन्नवृत्त्यंशनाशः, तन्नाशेऽपि स्वरूपावस्थानमित्यादिबहुविधकल्पनापात इति । यत्तु कैश्चिदुच्यते -निष्क्रान्तमात्रमेव चाक्षुषं तेजो बाह्येन बहुदेशव्यापिना चन्द्रसूर्यादिज्योतिषा संवलितं तावत्प्रथिमानमवयविनमारभते, तेन च संबन्धादुन्मिषितस्य दूरस्थग्रहणं दूरासन्नयोर्युगपद्ग्रहणं च सिध्येदिति । तदयुक्तम्, निष्क्रमणकल्पनस्य गुरुत्वात् । अनिष्क्रान्तमेव किं नावयविनमारभेत, आन्तरनिष्क्रमणवद्बाह्यप्रवेशोपपत्तेः ? अपि चास्मिम्पक्षे त्रिभुवनविवरव्यापिना तेजसा सह चाक्षुषतेजस्संवलनात्तेन संबद्धं सर्वं युगपद्भासेत पश्चाद्भागादिस्थितं च । अथार्जवावस्थानमपेक्षणीयमित्युच्येत, तदाऽस्मद्व्याप्तेस्सिद्धत्वात् ; अन्यथा दर्पणतरङ्गादिसन्निधाने स्वमुखादिग्रहणं न स्याम् । किं च निमीलताक्षस्यापि प्राङ्निष्ठ्यूतनयनमहस्संभवबाह्यालोकानुवृ्त्त्या दृश्यदर्शनानुवृत्तिः स्यात् । अतः प्रागुक्तप्रकारैव प्राप्तिरिति ॥ ४० ॥ इति चक्षुरादेः प्राप्यकारित्वम् ॥
1.41 शब्दं गृह्णाति दूराभ्युदितमपि बहिस्सन्तता श्रोत्रवृत्तिर्दिग्भेदासन्नतादिग्रहणमपि तदा तत्र तत्सन्निधानात् । इत्येकेऽन्ये तु दूरान्तिकगतजनताशब्दधीकालभेदात् श्रोत्रायातस्य तस्य ग्रहमनुमितिमप्याहुरस्मिन्दिगादेः ॥ ४१ ॥
1.41 भवतु चक्षुषस्तेजसाऽऽप्यायितत्वान्मणिप्रभान्यायेन काचिद्वृत्तिः, श्रोत्रस्य त्वाकाशाप्यायितस्य सा कथमित्यत्राह – शब्दमिति ॥ विकारिद्रव्यस्य तावत्स्वरूपत आप्यायकद्वारा वा तत्रतत्र वृत्तिरविरुद्धा । न चानुपलम्भविरोधः ; योग्यत्वाभावात् । अन्यथा स्वेष्टमपि भज्येत । तवापि हि बुद्धिसन्ततेः शरीरान्तरगमनमालोकादिगमनं च दृष्टं कल्प्यं वा ? नाद्यः, अशक्यत्वादनभ्युपगमाच्च । न द्वितीयः, तद्वदत्रापि कल्पनोपात्तेः । न हि तत्र गतिः प्राप्तिर्वा कल्प्यते । किंतु तत्रतत्रोत्पत्तिमात्रमित्रि चेत्तथाऽत्रापि त्वया कल्प्यम् ; अविशेषात् । न च शब्दात्मकाः पुद्गलाः श्रवणदेशमायाता दृश्यन्त इति युक्तम् ; शब्दस्य रूपादिवद्गुणत्वोपपत्तेः पुद्गलत्वायोगात् । नापि शब्दस्यैवागमनम्, बाह्यैकेन्द्रियग्राह्यतया श्रुत्यादिभिश्च रूपादेरिवाद्रव्यस्य क्रियानुपपत्तेः । न च शब्दस्य तद्व्यञ्जकस्य वा वीचीतरङ्गकल्पना ; अत्यन्तगौरवात् । न च व्याप्तं श्रोत्रम्, युगपत्सार्वत्रिकशब्दोपलम्भप्रसङ्गात् । न च प्रतिनियतैः प्रदेशैश्शक्तम् ; नियामकाभावात् । श्रोत्रसमवायेन शब्दो गृह्यत इति पक्षस्तु इन्द्रियाणामभौतिकत्वस्थापनयाऽपास्तः । अतो यथोपलम्भं तत्तज्जन्तुषु स्ववृत्त्या तावद्देशव्याप्तं श्रोत्रं तत्तद्देशे शब्दं गृह्णातीति । एवमनभ्युपगमे दोषमभिप्रेत्याह – दिग्भेदेति । यदि श्रोत्रवृत्तिस्तत्रतत्र न स्यात् कथं तद्विशिष्टः शब्दो गृह्येत ? न ह्यत्र प्राच्यादिप्रतिनियतं लिङ्गं दृश्यते ; नापि दूरासन्नत्वनियतम् । अतश्शब्दस्वरूप इव तदुत्पत्तिदेशविशेषेष्वपि श्रोत्रवृत्तेः शक्तिः कार्यकल्प्या । आसत्तितारतम्यानुरोधेन विशदाविशदावभासश्च चक्षुर्वृत्तिनयेन नेतव्यः । अत्र पक्षान्तरं स्थापयितुं सांख्यानुसारिणां पक्षोऽयमिति निगमयति – इत्येक इति । बुद्ध्यन्तरानुगुणमतान्तरमाह – अन्ये त्विति । दूरस्थस्ताड्यमानभेर्या दशकोणाभिघातात्पश्चाद्विलभ्बेन शब्दं शृणोति, वादकास्तदासन्नाश्चाविलम्बितम्, तदेतद्गन्धाश्रयद्रव्यविसर्पन्यायमन्तरेण कथं स्यात् ? अत एवानुवातप्रतिवातयोरतिदूरानतिदूरं च शब्दो गृह्यते ; बहिरन्तर्गृहगतानां च दूरस्थशब्दग्रहणे स्फुटास्फुटधीश्च । अतः “श्रोत्रप्रदेशायातभूतधर्मस्य शब्दस्य ग्रहणम्, तस्यायातत्वमाश्रयद्वारकम् । “शब्दगन्धसूर्यालोकरत्नप्रभादयो धर्म्यतिवर्तिनो गतिमन्तश्च इत्यात्मसिद्धिवाक्ये शब्दशब्दो गन्धशब्दवदाश्रयलक्षकः ।
गुहासौधादिसंक्षोभः प्रतिशब्दश्च जृम्भते । निस्साणादिप्रणादेन तदेतत्पक्षसङ्गतम् ॥
नन्वेवं दिगादिविशिष्टोपलम्भः कथमित्यत्राह – अनुमितिमिति । आदिशब्देन दूरासन्नत्वग्रहः दृष्टान्तप्रदर्शनं च ।
यथा मयूरवीणादेः शब्दोऽयमिति गृह्यते । तथा प्राच्यादिजातोऽयमिति लिङ्गात्तथाविधात् ॥
तत्र यद्यपि शब्दस्य विशेषः कोऽपि दुर्वचः । तथाऽपि विदितस्तैस्तैर्लिङ्गं स्यात्सम्मतेष्विव ॥
नन्विमौ द्वावपि पक्षौ हाठिकौ, पूर्वत्र दिगादिषु श्रोत्रस्य शक्तिकल्पनागौरवात्, उत्तरत्र दुर्वचलिङ्गदर्शनकॢप्तेरिति । हन्त ! एवं वदन् किं शब्दग्रहे दिगादिग्रहणमेव नास्तीति मन्यते ? सदपि वा निष्कारणकम् ? सकारणमपि वा कारणान्तरसिद्धमिति ? नाद्यः, सर्वलोक[धी]विरोधात् ; सामग्रीवैकल्यात्तु कदाचिद्दिगादिरहितधीः । न द्वितीयः, आगन्तोरहेतुकत्वविरोधात् । न तृतीयः, आगमादेरत्रासंभवात् । भ्रान्त्याऽत्र दिगादिधीरिति चेन्न ; प्रतिपुरुषनियतदिगध्यासहेतुभूतधर्मविशेषग्रहाभावात्, भावे वा तत एव तत्तदनुमानोपपत्तेः । तद्वदेव च दिगादेरप्युपलम्भोपपत्तेः । न चाबाधितांशे भ्रान्तिकॢप्तिर्युक्ता । अतः प्रत्यक्षतोऽनुमानतो वाऽत्र दिगादिग्रह इत्यन्यतरपक्षोऽनतिक्रमणीयः । शब्दस्य नित्यविभुत्वात्तदाश्रितत्वाद्वा श्रोत्रेण नित्यसंबन्ध इति वादस्त्वद्रव्यसरे निरसिष्यते [इति] ॥ ४१ ॥ इति श्रोत्रवृत्तिशब्दाश्रयागमनपक्षौ ॥
1.42 प्रत्यक्षं व्योम नीलं नभ इति हि मतिश्चक्षुषैवास्मदादेः कूपोऽसौ रन्ध्रमेतत्पतति खग इहेत्यादिधीश्चात्र मानम् । आधारोऽत्रातपादिर्यदि भवति कथं तस्य चेहेति बोधस्तस्यांशैश्चेत् त्र्यणौ तच्छिथिलगति न च व्योमवागातपादौ ॥ ४२ ॥
1.42 इन्द्रियचिन्तानन्तरं भूतचिन्ताप्राप्तौ प्रथममाकाशे चार्वाकैरपि संमन्तव्यं प्रमाणविशेषं पुरस्करोति – प्रत्यक्षमिति ॥ कथमित्यत्राह – नीलमिति । धूम्रादेरुपक्षणमेतत् । आरोपितं नभसि तलत्वादिवन्मलिनत्वादिकमिति चेत् – असावारोपश्चाक्षुषोऽन्यो वा ? आद्येऽधिष्ठानमपि चाक्षुषमेष्टव्यम्, अन्यथाऽतिप्रसङ्गात् । द्वितीयस्त्वसंभवी, निमीलिताक्षस्य तादृशारोपादृष्टेः । अत एव अनुमिते नभसि नैल्यारोप इत्यपि निरस्तम् । न च नीलं नभ इति धीरेव नास्ति विश्वविसंवादात् । नाप्यसावचाक्षुषः, अस्मदादिचक्षुर्व्यापारानुविधानात् । नभसि विततानां पार्थिवावयवानां कृष्णगुणमात्रं चक्षुषा गृह्यत इति चेन्न, नीलं नभ इति धर्मिपर्यन्तबुद्धेः, गुणिलिङ्गत्वाच्चात्र नीलादिशब्दनाम् ; एतेन नीलरूपस्मृतिप्रमोषोऽयमिति पक्षोऽपि निरस्तः । ननु नभसि स्वतो नैल्याभावात् पञ्चीकृतेऽप्यस्मिन्नैल्यस्य पार्थिवांशमात्रनिष्ठत्वात् तस्मिन्नेवांशे स्यादसौ चाक्षुषधीः । मैवम् ; तस्य नभश्शब्दार्थत्वायोगात् । नीलपटन्यायस्य चात्र ग्राह्यत्वात् बालातपसन्निधावरुणं नभ इत्यादिबुद्धेः । तत्राप्यरुणातपग्रहणमात्रमिति चेत् ; कस्तर्हि तत्र नभश्शब्दार्थः ? न ह्यनेकार्थोऽयं शब्दः, अनुवृत्तमनतिप्रसङ्गि च निमित्तं दुर्लभम्; पृथिव्यूर्ध्वत्वादेस्तथात्वाभावात् । चन्द्रिकादिविशेषानादरेण विरलावस्थितद्रव्यमात्रं नभ इति चेन्न ; वियति विरला चन्द्रिकेत्यादिपृथग्व्यपदेशात् । वैरल्यदर्शनमपि नभःप्रत्यक्षतामन्तरेण न घटते । तत्तन्मध्यप्रदेशानां तैस्तैरस्पृष्टता हि विरलता ; तथा च मध्यदेशभूतं नभः प्रत्यक्षम् ; परस्परासंयोगमात्रं वैरल्यमिति चेन्न ; भिन्नकालेषु गुणादिषु च विरलधीप्रसङ्गात् । वर्तमानानामासन्नदेशस्थानां द्रव्याणामसंयोगो विरलतेति चेन्न । चन्द्रिकादिष्वसंयुक्ततेजःकणानामासन्नदेशतया नभस एव ग्राह्यत्वात् । विरलविरलतरादिबुद्धौ असंयोगाविशेषे मध्यदेशाल्पत्वभूयस्त्वग्रहणमन्तरेण का गतिः ? दूरदूरतरादिस्थितिरिति चेत् तथाऽपि दूरासन्नदेशतया नभः प्रत्यक्षमेव । दिशस्तत्र देशत्वं स्यादिति चेत्, न, उपाध्यतिरेकिण्यामपि तस्यां प्रत्यक्षत्वस्य नभस्समानचर्चत्वात् । दीर्घेण ह्रस्वेन च स्पष्टुं योग्यत्वमेव दूरत्वमासन्नत्वं च । अतो नात्र प्रदेशबुद्ध्यपेक्षेति चेन्न ; तयोस्तत्तत्स्वरूपत्वेऽतिप्रसङ्गात् । अतिरेके तु देशविशेषस्थित्युपलम्भमन्तरेण तदसिद्धेः । अत्र चाक्षुषमेवोपलम्भान्तरमप्युदाहरति – कूपोऽसाविति । कूपरन्ध्रादयो हि तत्तद्देशविशेषतया सर्वलोकप्रत्यक्षसिद्धाः । आवरणाभावमात्रं तु निरसिष्यते । पत्रिणश्च पतनदेशतया नभः प्रत्यक्षयामः ; तत्र इहप्रत्ययस्यान्यथासिद्धिमाशङ्कते – आधार इति । इहेति प्रतीयमानत्वमात्रमिहाधारत्वम् । परिहरति – कथमिति । इह नभस्यातपादिरिति व्यतिरेकनिर्देशान्नातपादिरिहशब्दार्थः स्यादिति भावः । अत्रोदयनाद्युक्तमाशङ्कते – तस्यांशैरिति । आतपाद्यंशांस्तदाधारीकृत्येत्यर्थः । दूषयति – त्र्यणाविति । परैस्त्र्यणुकानाम-प्रत्यक्षद्व्यणुकाश्रितत्वस्वीकारादंशैरिह प्रतीतिनिर्वाहस्तत्र कुण्ठित इत्यर्थः । माभूत्स्वांशैः त्र्यणुकानामिहेति धीः, त्र्यणुकसमुदायमिहेति निर्दिश्य प्रत्येकं तदाधेयतयोपचर्यतामित्यत्र क्लिष्टगतौ लोकव्यवहारं प्रतिपक्षयति – न चेति । इह नभसि त्र्यणुकम्, इह व्योम्न्यातपः इत्यादिव्यवहारे त्र्यणुकतत्समुदायादिव्यतिरिक्ते कुत्रचिन्नभःपर्यायाणां प्रयोगः प्रसिद्धः । सर्वलोकप्रतीतिव्यवहारोल्लङ्घनं तु सर्वसंक्षोभकं साहसमिति भावः । चश्शङ्काद्योतकोऽवधारणार्थो वा ॥ ४२ ॥
1.43 रूपस्पर्शोज्झितत्वान्न भवति गगनं दर्शनस्पर्शनार्हं घ्राणश्रोत्रे रसज्ञाऽप्यवगमयति न द्रव्यमन्यत्त्वबाह्यम् । तस्मान्नाध्यक्षवेद्यं वियदिति यदि न प्रत्ययस्यापरोक्ष्यात् पञ्चीकारेण नैल्यं पटमलिनिमवद्भाषितं वोपकुर्यात् ॥ ४३ ॥
1.43 आकाशस्य प्रत्यक्षत्वे परोक्तं बाधकं शङ्कते – रूपेति ॥ नभो न चाक्षुषम्, रूपशून्यद्रव्यत्वात् ; नापि स्पार्शनं स्पर्शशून्यद्रव्यत्वादिति हेतुद्वयविभागः । अन्येषां तु बाह्येन्द्रियाणामत्रासंभवमाह – घ्राणेति । घ्राणादीनि हि स्ववेद्यगुणाश्रयमपि नावगमयन्ति, किं पुनर्द्रव्यान्तरमिति भावः । मानसप्रत्यक्षमिह दूरनिरस्तमित्याह – अन्यदिति । तुशब्दोऽत्रा-त्यन्तासंभवपरः । अबाह्यम् – आत्मतद्धर्मव्यतिरिक्तेषु न स्वातन्त्र्येण प्रवर्तत इत्यर्थः । संकलितमाह – तस्मादिति । अस्मदादीति विशेषणीयम् । चोद्यस्य दत्तोत्तरत्वाभिप्रायेण प्रतिवक्ति – नेति । अभिप्रेतं व्यनक्ति – प्रत्ययस्येति । अयं भावः – न रूपादिविरहाच्चाक्षुषत्वादिहानिः, रूपादिप्रत्यक्ष[त्व]वद्यथादर्शन व्यवस्थोपपत्तेः । प्रतिप्रयोगश्च – विगीतमस्मदादिबाह्येन्द्रियग्राह्यं बाह्यत्वे सत्यस्मदाद्यपरोक्षधीविषयत्वात्, अविगीतवत् । नात्र हेतुरसिद्धः, परिशेषप्राप्तेः । न तावदत्रागमिकी नभःप्रतीतिः, तदनभिज्ञानामपि संभवात् । नाप्यानुमानिकी, सिद्धेऽपि तदनुमाने अनधिगततादृशानुमानानां नभःप्रतीतेः । तदेवमाकाशस्यात्रानुमानादिविषयत्वायोगात् आबालपण्डितमनुभूयमानत्वाच्च तद्बुद्धिरपरोक्षेति सिद्धम् । नन्वसिद्धस्य सिद्धस्य वा नभसः प्रत्यक्षत्वसाधनम् ? नाद्यः, अनुमानकथाबाह्यत्वात् । न द्वितीयः, अनुमानतस्तत्सिद्धेस्त्वदनभ्युपगमात्, प्रत्यक्षतस्तत्सिद्धेरस्मदनभ्युपगमादिति । मैवम् ; उभयसंमतादागमतोऽपि तत्सिद्धेः । आस्तामागमः, पृथिव्याद्यतिरिक्तस्य नभःप्रतीतिविषयस्य कस्यचिदुभयसंमत्या पक्षीकारोपपत्तेः । अन्यथा कथम[न्य]त्र त्वदुक्तमप्रत्यक्षत्वानुमानं जीवेत् ? सर्व-लोकप्रत्यक्षविरुद्धं च तत् । तथाऽपि तत्स्वीकारे बुद्धिव्यतिरिक्ततया बाह्यार्थस्सर्वोऽप्यप्रत्यक्ष इति वदन् सौत्रान्तिक एव समर्थः स्यात् । तदेवं नीरूपस्यापि नभसश्चाक्षुषत्वं निर्व्याघातम् । भाष्ये त्वस्य पञ्चीकरणेन रूपवत्तया चाक्षुषत्वाविरोधवचनं वैभवात्स्यात् । यथा रूपरूपिरूपसमवेतरूपैकार्थसमवेतानां चाक्षुषत्वमविशिष्टमङ्गीक्रियते, तथा रूपिद्रव्यसंवलितस्यापि क्वचित्स्यात् । न चातिप्रसङ्गः, समचर्चत्वात् । न हि रूपिद्रव्यं रूपैकार्थसमवेतं वा सर्वं चक्षुर्ग्राह्यम्, योग्यतानियमस्य दुर्लङ्घत्वादिति । तदेतदभिप्रेत्याह -पञ्चीकारेणेति ॥ ४३ ॥ इत्याकाशस्यास्मदादिप्रत्यक्षत्वम् ॥
1.44 शब्दस्याधारभूतं कथमपि गगनं शक्यते नानुमातुं स्वेच्छातः पारिशेष्यक्रम इह कथितोऽतिप्रसङ्गादिदुःस्थः । निष्क्रान्त्यादेर्न तद्धीस्सति नभसि यतो नास्ति कुड्यादिकेऽसौ रोधस्त्वावारकैश्चेत्तदभवनवशान्निष्क्रमादिश्च सिध्येत् ॥ ४४ ॥
1.44 अथाकाशस्यानुमानतस्सिद्धिं निराकरोति – शब्दस्येति ॥ शब्दः क्वचिदाश्रितो गुणत्वादित्येतावता तावन्न पृथि-व्याद्यतिरिक्तशब्दाश्रयसिद्धिः ; सर्वस्य किंचिद्भावात् परिशेषहेतूनां तु विपक्षे बाधकाभावात् । न हि शब्दस्य पृथिव्याद्याश्रितत्वे किंचिदनिष्टं स्यात् ; पुष्पादिगन्ध इतिवद्भेर्यादिशब्द इति सर्वलोकबुद्ध्यनुविधाने कल्पना च लघ्वी । शब्दो विभुगुणो न भवति ; बाह्येन्द्रियग्राह्यगुणत्वादिति विपरीतपरिशेषस्यापि सुशकत्वात् । स्पर्शो न पृथिव्यादिधर्मः, नीरूपेन्द्रियग्राह्यत्वादित्यादिभिः पृथिव्याद्यतिरिक्तस्पर्शाधारकल्पनप्रसङ्गाच्च । तदेतदभिप्रेत्याह – स्वेच्छात डति । आदिशब्देन विपरीतप्रसङ्गसंग्रहः । निष्क्रमणं प्रवेशनमित्याकाशलिङ्गमिति परोक्तं प्रतिवक्ति – निष्क्रान्त्यादेरिति । उपपादयति – सतीति । यत्राकाशस्तत्र सर्वत्र निष्क्रमणादिकं न सिध्यति, आकाशव्याप्ते कुड्यादौ निष्क्रमणादेरशक्यत्वात् । न च कुड्यादिष्वाकाशो नास्तीति वाच्यम् ; तस्य सच्छिद्र[त्वाभाव]त्वप्रसङ्गादिति भावः । सहकारिवैकल्यात्कुड्यादिषु निष्क्रमणादिकार्यप्रतिरोध इति शङ्कते – रोध इति । तुशब्दः केवलाकाशाद्विशेषद्योतकः । एवं सति निष्क्रमणादेरन्यथासिद्ध्या निर्मूलं नभःकल्पनमित्यभिप्रायेणाह – तदभवनेति । न हि निष्क्रमणादेराकाशं समवायि ; देहादिक्रियाया नभोनिष्ठत्वाभावात् । नाप्यसमवायि ; द्रव्यस्य तथात्वानभ्युपगमात्, समवायिकारणप्रत्यासन्नत्वायोगाच्च । निमित्तं तु ईश्वराद्यतिरिक्तमपूर्वमिह नापेक्ष्यमिति भावः ॥ ४४ ॥ इत्याकाशानुमेयत्वभङ्गः ॥
1.45 यत्त्वाकाशोऽवकाशप्रद इति कथितं शास्त्रतस्तत्र याऽसावन्योन्यं(न्य) स्पर्शभाजां विहतिरिह न सा प्राच्यतत्त्वेष्विव स्यात् । इत्यैदंपर्यमूह्यं न यदि कथमिवान्येषु लभ्योऽवकाशः सिद्धादेः स्वप्रभावाज्जल इव कथितो युज्यते मज्जनादिः ॥ ४५ ॥
1.45 ननु शरीरादिष्वाकाशोऽवकाशदानेनोपकरोतीति तत्तच्छास्त्रसिद्धम् ; अतोऽस्य निष्क्रमणादिलिङ्गत्वं ग्राह्यम् । तदिदमनुभाषते यत्त्विति ॥ शास्त्राभिप्रेतमस्योपकारकत्वं शिक्षयति – तत्रेति । पृथिव्यादिचतुष्कस्येव स्पर्शवत्प्रतिघाति त्वमाकाशस्य नास्ति ; तत्पूर्वेषामिवाहङ्कारादितत्त्वानाम् । अतः प्राणिसञ्चारादिप्रतिघातकत्वाभावादस्योपकारकत्वकथनमिति तात्पर्यं निपुणनिरूपणीयम् । न ह्याकाशेन देयमवकाशाख्यं द्रव्यान्तरमस्तीति भावः । आकाश एव तर्ह्यवकाशः स्यादित्यत्राह – यदीति । अस्पर्शत्वाविशेषान्महदादिप्रदेशानामप्यवकाशत्वं ग्राह्यम् । ननु स्पर्शवतां मिथःप्रतिघातकत्वनियमो नास्ति, भूमावुन्मज्जति निमज्जतीत्यादिसिद्धप्रतिपादनादित्यत्राह – सिद्धादेरिति । अनेन जन्मौषधिमन्त्रतप-स्समाधिभूतसिद्धिमतां तत्तदुपष्टब्धानां च संग्रहः । जलदृष्टान्तेन विभज्य प्रवेशनं पुनश्शाघ्रसंभेदश्च सूच्यते । केचित्तु सिद्धादीनां प्रभावविशेषेण भूम्यादिषु प्रवेशप्रतिघात एव नास्तीति मन्यन्ते काचादिषु नीरन्ध्रेषु नयनप्रभादेरिवेति ॥ ४५ ॥ इत्यवकाशनिरूपणम् ॥
1.46 सद्रूपेणैव भानान्न भवति वरणाभावमात्रं विहायः संसर्गाभावमात्रं न च भवति यतो नास्ति संसर्गिबोधः । अत्यन्ताभावनाशावजननिरपि वा सत्सु तेष्वेव न स्युस्तादात्म्याभावसिद्धिः कथ(मिव)मपि च भवेत्तंतमर्थं विहाय ॥ ४६ ॥
1.46 अत्र केचिच्चार्वाकास्सौगताश्च प्राहुः – “चत्वार्येव भूतानि” । आकाशस्त्वावरणाभाव एव । स च निस्स्वभावः । तुच्छतयैवोपलम्भात् । यत्र चावरणं न तत्राकाशः । अभित्त्वा दुर्दर्शत्वात्, भेदं त्वावरणाभावस्यैव सिद्धेः । यदि तत्राकाशः स्यात् निरवकाशं न किंचित्स्यात् । अतो घटतदभावन्यायादावरणेष्वसत्त्वादयमावरणाभावः । तदिह शून्यधातुसंज्ञिते च निस्तत्त्वेऽप्यावरणाभावे खपुष्पादिषु ततच्छब्दा[दि]वन्मिथ्याजले मृगतृष्णिकादिशब्दवच्च व्यामोहैकनिबन्धना व्योमादिशब्दाः । अत्र नञुपश्लेषाभावादसद्रूपतातिरस्कारः । अत्र च तलत्वविपुलत्वमलिनत्वादिकमध्यासमन्तरेण न कथंचिदप्युपपद्यते । प्रतियोगिगतानां च स्मर्यमाणानां गृह्यमाणेऽस्मिन्नध्यासः । अस्ति चासौ सिद्धः ; दुःखाभावे सुखाभिमानात्, आलोकाभावे च नीलत्वबहलत्वाद्यध्यासस्य वैशेषिकादिभिरङ्गीकारात्, शशशृङ्गं तीक्ष्णमित्यादिशब्दजन्याध्यासदृष्टेश्च । वदन्ति च शब्दज्ञानानुपाती वस्तुशून्यो विकल्प इति; एष वन्ध्यासुतो यातीत्यादिषु । अतो नास्त्येव नभ इति । तत्राह – सद्रूपेणेति ॥ अयं भावः – सर्वं हि वस्तुजातं संविद्व्यवस्थाप्यम्, संविद्यते च भावरूपतयैव नभः, भावान्तरमेवाभाव इति स्थापयिष्यते । अन्यथाऽपि ब्रूमः – नाभावस्य निस्स्वभावता, अभावस्वभावतयैव तत्सिद्धेः । स्वान्यस्वभावतया सिद्धिस्तु न कस्यापि । न च स्वेन स्वभावेन सिद्धस्य परस्वभावविरहादसत्त्वम्, अतिप्रसङ्गात् । उक्तं च न्यायभाष्ये – “असच्चासदिति गृह्यमाणं तथाभूतं विद्यमानमविपरीतं च तत्त्वमिति । तुच्छतयैवोपलब्ध्याऽपि निरस्तं निस्स्वभावत्वम् । तुच्छता ह्यभावप्रतियोगित्वम्, अभावत्वम्, वस्त्वन्तरशून्यत्वम्, अन्यद्वा किंचित् ? न प्रथमः, स्वकालादिषु सतामभावप्रतियोगिनां यथाप्रमाणं तत्तत्स्वभावविशिष्टत्वात् । न द्वितीयः, दत्तोत्तरत्वात् । न तृतीयः, ईदृशतुच्छत्वस्य स्वरूपाविरोधिनस्सर्वत्र सुलभत्वात् । न चतुर्थः, अस्मन्मतविरोधिनस्त्वदिष्टस्य कस्यचित्कुतश्चिदत्रासिद्धेरिति । यत्त्वावरणेष्वाकाशो नास्तीति, तदसत्, त्वदुक्तयुक्त्यैव तत्सिद्धेः । अभित्त्वा दुर्दर्शत्वं हि व्यवहितत्वात् । अत एव तत्र नास्तीति न निश्चाय्यम् । भित्त्वा तु प्रेक्षणे नभस्तत्र दृश्यत एव । न चात्रावरणाभावमात्रोपलम्भः, इहावरणं नास्तीति साधिकरणस्य तस्योपलम्भात् ; इहाकाश इतिवत्स्वात्मन्येव भेदोपचारात्स्यादिति चेन्न ; बाधकाभावात् । अधिकरणानवस्थाप्रसङ्गो बाधक इति चेन्न ; आकाशादेस्साधिकरणतयैवौपलम्भ इत्यनभ्युपगमात् । इहाकाश इतिवदित्यत्र चाकाशशब्देनावरणाभावविवक्षायां पक्षदृष्टान्तभेदाभावः, त्वदनभ्युपगतस्य परमतसिद्धस्य त्वया दृष्टान्तीकर्तुमयुक्तत्वात् । प्रतिबन्दिग्रहणमात्रमिदमिति चेन्न ; इह मूर्ते वस्तुनि आकाशसंबन्ध इति प्रतीतौ विरोधाभावात् । आवरणाभावधीरपि तथैव स्यादिति चेत्, अस्त्वेवम् ; तथाऽपि कदाचिदिह तारकेत्यादिवन्निरधिकरणतया गगनोपलम्भे तदतिरिक्तनभः – सिद्धिनिषेधः । आवरणेषु निरवकाशत्वं च विशेषणराहित्यात्, आवरणरहितमेव ह्याकाशमन्यद्वा किंचिदवकाशः, न त्वाकाशमात्रम् । आवरणेष्वविद्यमानतया तदभाव आकाश इति चायुक्तम् ; सर्वेषां स्वस्मिन्नविद्यमानतया स्वाभावत्वप्रसङ्गात् । यत्तु व्योमादिशब्दा व्यामोहैकनिबन्धना इति, तदसत् ; प्रमाणसिद्धे क्वचिद्वस्तुन्येव सर्वशब्दानां व्युत्पत्तेः, तद्विषयतयैव च व्यवहारात् ; खपुष्पादिषु त्वयोग्यसमभिव्याहारादन्यथाधीः । मृगतृष्णादिशब्दा अपि जलाध्यासादिकरणार्हमरीचिव्यूहादिविषयाः । यद्यपि तलत्वादिकमाकाशेऽध्यस्तम्, अल्पत्वविपुलत्वादिकं त्ववच्छेदकभेदायत्तम्, तथाऽपि सत्येवारोपः । यत्त्वसति दुःखाभावे सुखाध्यासो दृष्ट इति, तदर्भकवाक्यम् ; सत्येव दुःखाभावे सुखारोपात् । अभावस्य भावान्यत्वमात्रमेव ह्यसत्त्वं सिद्धम् ; तेन च स्वरूपसन्नेवासौ । आलोकाभावे नीलत्वाध्यासस्त्वस्मान् प्रति नोदाहर्तव्यः । अत एवाध्यस्तनैल्यमालोकाभावमात्रमेव नीलं नभ इति भातीति निरस्तम् ; आलोकदेशे च नभःप्रतीत्यनुवृत्तेः । नन्वस्मदिष्टक्षणिकत्वादिकं क्वचित्ते सिद्धमसिद्धं वा ? उभयधाऽपि कथं तत्प्रतिक्षेपः ? कथं वा तस्मिन् केषां चित्सत्यताभ्रमं निर्वक्ष्यसि ? इत्थम् -एतदुत्तरक्षणवृत्तित्वाभावो हि यत्र क्वचिदन्यत्र सिद्धः, स सर्वस्मिन् कुतश्चिदारोप्यते प्रतिक्षिप्यते चेति सुस्थमेतत् । एवमन्यत्सर्वमपि चिन्त्यम् । शशशृङ्गं तीक्ष्णमित्यादिषु च प्रमिते शशादौ शृङ्गवत्त्वारोपः, शृङ्गादौ च प्रमिते सत्याऽसत्या वा तीक्ष्णधीः इत्येतावत्सहृदयहृदयारूढम् ; नात्रासति किंचिदारोप्यते । एवमनभ्युपगमे वर्णक्रमनिर्देशवत्स्यात् । एतेन शशस्तीक्ष्णशृङ्गवानित्यपि निरूढम् । भूतेषु भाविषु च कथं भ्रम इति चेत् कथं वर्तमानेषु ? तेषां सत्त्वादिति चेन्न ; स्वकालसत्त्वस्य कालान्तरासत्त्वस्य च साधारणत्वात् इति । आवरणाभावश्च सत्योऽसत्यो वा संसर्गाभावादिविभागं नातिक्रामेदिति मत्वा तत्रतत्र दूषणमाह -संसर्गेत्यादिना पद्यशेषेण । संसर्गाभावस्तावन्निरूप्यमाणः संसर्गिनिरूप्यसंसर्गप्रतियोगिकतयाऽधिकरणप्रतियोगिभूतसंसर्गिबोधाभावे कथं बुध्येत ? अत्यन्ताभावोऽपि संसर्गाभावभेद एव । यथा अश्वे गोत्वस्य शशे वा शृङ्गस्य । तथा च अत्रावरणं नास्तीति साधिकरण-भूताभावधीरनिवार्या । खपुष्पवदावरणानामत्यन्तासत्त्वे तु शून्यवादश्शरणम् । वर्तमानेषु चावरणेषु तत्प्रध्वंसप्रागभावौ दुर्वचौ । तौ हि किमन्यत्र विद्यमानानाम् ? उताविद्यमानानाम् ? नाद्यः, तेषां तदुभयायोगात् । न द्वितीयः, तत एव ; न हि शशे शृङ्गस्य नाशप्रागभावौ । तदिह सर्वावरणनाशादिकं दुर्वचम् ; असंभवात् । कतिपयावरणनाशादिकं चावरणदेशेऽप्यस्तीति तत्रापि निष्क्रमणादिप्रसङ्गः । ननु संसर्गे तु विधिरेकेनापि, तन्निषेधस्तु सर्वप्रतियोगिकः । तद्वदत्रापि सर्वावरणाभावे व्योमधीः स्यात् । न, असंभवस्योक्तत्वात् । एवं सति च संसर्गाभाव एव नामान्तरेणोच्यते ; तत्र च दत्तमेवोत्तरम् । अस्तु तर्ह्यावरणतादात्म्याभावोऽसौ स्यात् । स ह्यसिद्धप्रतियोगिकतया स्वयमप्यसिद्धः । तदात्मनश्चाकाशस्य तुच्छत्वं युक्तमिति । तत्राह – तादात्म्येति । चो दूष्यसमुच्चये ; श्रुत्यादिविरोधरूपदूषणसमुच्चये वा । असिद्ध-प्रतियोगिकत्वमस्य क्वचिदपि तादात्म्यपदार्थाभावाद्वा ? आवरणद्वयस्य तदभावाद्वा ? नाद्यः, अभावप्रतियोगित्वेन तत्कल्पनस्यासिद्धिप्रसङ्गात् । न हि क्वचित्सिद्धिमनपे[क्ष्य]क्षकस्य क्वचिदपि कल्पना, माध्यमिकमतोत्थानप्रसङ्गात् । नोत्तरः, संसर्गाभावस्याप्यसिद्धप्रतियोगिकत्वापातात् ; न ह्येतत्कालीनैतद्भूतलघटसंसर्गो निषिध्यमान इहान्यत्र च सिद्धः । घटसंसर्गमात्रं यत्रक्वचित्सिद्धमिति चेत्, घटतादात्म्यमपि तथैव । अस्तु तर्ह्युभयत्राप्यसिद्धप्रतियोगिकत्वम् ; किं नश्छिन्नमिति चेन्न ; अतिप्रसङ्गस्योक्तत्वात् । अत्यन्ताभावोऽप्यसिद्धप्रतियोगिक इति पक्षश्च निरस्तः ।
तत्रतत्र स्वतादात्म्यं सिद्धमन्यत्र कल्प्यते । बाधकैः क्षिप्यते चेति नास्माकमिह विप्लवः ॥
सर्वत्र तादात्म्याभावस्तत्तद्वस्तुनिष्ठतयैव सिध्येत् ; न तु तन्मध्यादिदेशतया । यथा मिथस्संयुक्ते वियुक्ते वा सिंहे गजान्यत्वं गजे च सिंहान्यत्वमिति । इदमावरणं न भवतीति तादात्म्यनिषेधश्च कस्यचिदावरणस्य वा ? अनावरणस्य वा ? आद्ये विरोधः । आवरणान्तरं न भवतीति विवक्षायामविरोध इति चेत् ; सत्यम्, तथाऽपि न तत्राकाशप्रतीतिविषयावरणाभावसिद्धिः । द्वितीये त्वावरणान्यद्रव्यमिदहङ्कारास्पदं सिध्यत्येव । नन्वावरणाभाव एवेदंकारगृहीतः आवरणतादात्म्याभावाधिकरणतया बुध्यताम्, न हि तत्तदभावयोस्तादात्म्यमिति । मैवम् ; न ह्यावरणतादात्म्याभावस्यावरणान्यत्वं बुध्वा कश्चित्तत्र नभःपर्यायान्प्रयुङ्क्ते, निष्क्रमणादौ वा प्रयतत इत्यलमतिविस्तरेण । “आकाशे चाविशेषात्” इति सूत्रभाष्ये चैतत्सर्वमनुसन्धेयमिति ॥ ४६ ॥ इत्याकाशस्यावरणाभावमात्रत्वभङ्गः ॥
1.47 नित्यत्वाद्यम्बरादेर्यदि निरवयवद्रव्यताद्यैः प्रसाध्यं कः स्याद्बाधो विपक्षे कथमिव निगमे वाधकेऽत्रानुमा स्यात् । बाधस्सामान्यदृष्ट्या श्रुतिसमधिगते नैव कुत्रापि शक्यस्तेनामूर्तत्वलिङ्गान्न सृजति विमतो मूर्तमित्याद्यपास्तम् ॥ ४७ ॥
1.47 सोऽयमाकाशस्सर्वव्यापी नित्यश्चेति वैशेषिकादयः । जैनास्तु तत्र लोकाकाशः अलोकाकाशश्चेति विभाग-मप्याहुः । मूलप्रकृतिर्विभ्वीति सांख्याः । मनो विभ्विति भाट्टाः । तेषां पक्ष सहेतुकमनुभाषते – नित्यत्वादीति ॥ नित्यत्वं व्यापित्वं च पृथक्साध्यम् । प्रत्येकं तयोरेते हेतवः – विगीतं नित्यं विभु च निरवयवत्वे सति महत्त्वात्, सर्वदा निष्पन्दत्वे सति महत्त्वात्, सर्वदा स्पर्शरहितद्रव्यत्वात् इत्यादयः ; निरवयवेन्द्रियग्राह्यगुणत्वादित्याकाशस्यैव ; ज्ञानासमवायिसंयोगाधारत्वात् इति मनस एव । एतेषां साधारणमप्रयोजकत्वमभिप्रेत्याह – कः स्यादिति । न ह्येतेषामनित्यत्वादौ किञ्चिदनिष्टं स्यात् ; स्वाच्छन्द्येनानिष्टकल्पने विपरीतकल्पनस्यापि शक्यत्वात् । अक्षोभ्यं दूषणान्तरमाह – कथमिवेति । येष्वनित्यत्वम् अविभुत्वं च सृष्ट्यादिवा[क्यै]दैस्तत्त्वान्तरावृतत्वादिवाक्यैश्च सिद्धं, तेषु तद्विरुद्धसाधनमागमबाधितमित्यर्थः । उक्तेषु च हेतुषु निरवयवत्वादिकं पञ्चीकरणवादिशास्त्रविरुद्धम् । सर्वदा स्पर्शरहितद्रव्यत्वादिति विभुत्वसाधने अणुत्वेन श्रुतिसिद्धैर्जीवैरनैकान्त्यम्, ज्ञानासमवायिसंयोगाधारत्वम् आत्ममनसोरसिद्धं च । ज्ञानद्रव्यत्वादेर्वक्ष्यमाणत्वात् ज्ञानावस्थानां चात्ममनस्संयोगासमवायिकारणकत्वाभावात् । किं चात्र नित्यत्वसाधनमाकाशदिद्रव्यपक्षीकारेण वा ? आकाशत्वाद्यवस्थापक्षीकारेण वा ? आद्ये सिद्धसाध्यता ; द्वितीये तु स्वानभ्युपगतपक्षीकारो न युक्तः । श्रुत्यैव तदङ्गीकारे तथैव बाधः । अनुमानेन श्रुतिबाधे तु हैतुकप्रलपैश्श्रुतिप्रमाणस्य निश्शेषोच्छेदप्रसङ्गमभिप्रेत्याह – बाध इति । प्रत्यक्षविरोधरहितानन्यपरश्रुत्या यथावदधिगतेऽर्थे येनकेनचित्सामान्यतोदृष्टेन बाधशङ्कायां श्रौतहिंसा न धर्मः हिंसात्वात् संमतवत्, विगीतमस्थि पवित्रम् अस्थित्वात् शङ्खवत् इत्यादेरपि प्रसङ्गः स्यादिति भावः । उक्तं दूषणं प्रस्तुते पक्षे साध्यान्तरविषयहेत्वन्तरेष्वपि दर्शयति – तेनेति । आकाशो न स्पर्शवदुपादानम् ; स्पर्शशून्यत्वात् । एवं वाय्वादिकमपि न तेजःप्रभृत्युपादानम् रूपशून्यत्वात् रसशून्यत्वात् इत्यनुमानजातं श्रुत्यादिविरोधा-दपास्तमित्यर्थः ॥ ४७ ॥ इत्याकाशादेरनित्यत्वाव्यापित्वादि ॥
1.48 प्राक्प्रत्यक्त्वादिभेदं भजतु वियदिदं भानुयोगादिभेदादस्यैवोपाधिभेदादधिकदिश इव स्तां परत्वापरत्वे । व्योमोत्तीर्णेऽपि देशे प्रभवतु तदुपाध्यन्वितैस्तत्तदर्थैर्दूरत्वादिव्यवस्था स्वयमुत विभुना ब्रह्मणा किं परैर्नः ॥ ४८ ॥
1.48 अथ पराभिमतां विश्वव्यापिनी दिशमनभ्युपगच्छंस्तत्कल्पकानामन्यथासिद्धिमाह – प्रागिति ॥ यदि प्रागादिधीव्यवहारसिद्ध्यै दिक्तत्त्वं कल्प्यते तत्संप्रतिपन्न व्योमैव भवतु । सूर्योदयाद्युपाधिभेदेन तद्विभागात् पूर्वदक्षिणपश्चिमाद्युपाधिकॢप्तिश्चाधिकेऽनधिकेऽपि समाना । अप्रत्यक्षायां च दिशि प्रत्यक्षैरुपाधिभिरवच्छेदधीर्दुर्लभा । सूर्योदयादिविशेषितातपादिभिरेव प्रागादिधीव्यवहारसिद्धौ किं तदन्यकल्पनया ? शाखाचन्द्रनयाच्चातपादेस्सूर्योदयादेश्च संबन्धधीर्युज्येत । उपहितस्य शब्दार्थत्वान्न दिक्छब्दस्य व्योमातपादिपर्यायता स्यात् । ननु साक्षात्संबन्धरहितसंयुक्तसंयोगभूयस्त्वाल्पत्वनिबन्धने दूरासन्नपरत्वापरत्वे तत्तत्संबन्धोपनायकव्यापकद्रव्ययोगमन्तरेण कथं स्यातामित्यत्राह – अस्यैवेति । न हि त्वया कल्प्यमानमपि दिक्तत्त्वं तदुपाधियोगमन्तरेण परत्वापरत्वे जनयेत् । तथा सति तैरेवोपाधिभिरुपहित व्योमाद्येव परत्वादिसिद्धौ पर्याप्तम् । अधिकशब्देन कल्पनागौरवं सूच्यते । नन्वाकाशः परिच्छिन्न इति भवसिद्धान्तः ; तथा च कथमाकाशरहितप्रदेशे दूरत्वादिकॢप्तिरित्यत्राह – व्योमेति । दूरत्वादिसिद्ध्यनुगुणोपाधिमद्भिर्महदादिभिस्तत्सिद्धिः स्यात् । व्योमोत्तीर्ण इत्युपलक्षणम्, व्योमसंपृक्तद्रव्यादिभिरपि तदुपपत्तेः । अनियमेन बहूनां दिक्त्वकल्पने गौरवं स्यादिति चेन्न, असिद्धकल्पनादनेकैरपि सिद्धैरेव निर्वाहस्य लघुत्वात् । यद्येकमेव सर्वत्र दिग्व्यवहारकारणमिष्यते, तदा सर्वव्यापिना सर्वहेतुभूतेन परमात्मनैव सर्वं सिध्येत्, तस्यैव सन्तु उपाधिभेदास्सहकारिणः । अथवा तत्तदुपाधयस्तावत्प्रत्यक्षाः । तत्संबन्धोऽपि साक्षात्परंपरया वा दूरासन्नादेर्दृष्ट एव । तद्दृष्ट्या च परत्वादिसिद्धौ किं तदुपहितगवेषणया ? कार्यविशेषाणामन्यतस्संभवे च न क्वचित्तदतिरिक्तं कल्प्यमित्यभिप्रायेणाह – किं परैर्न इति । परैः – व्यापकेश्वरव्यतिरिक्तैः उपाधिमात्रव्यतिरिक्तैर्वेत्यर्थः । नः – ईश्वरमिच्छतां गौरवभीतानां चेति यावत् ॥ ४८ ॥
1.49 अन्यस्मिन्नन्यधर्मान् घटयतु वियदाद्यत्र नातिप्रसक्तिः सिध्यत्कार्योपयुक्तोपनयननियमोपेततच्छक्तिकॢप्तेः । एवं ह्येवाधिकायामपि दिशि भवतोऽतिप्रसङ्गो निषेध्यो धर्मी धर्मश्च कल्प्यौ तव तदितरता स्यात्तु काले स्वमानात् ॥ ४९ ॥
1.49 ननु यद्याकाशादयः परधर्म परत्र घटयेयुः, ततः पाण्ड्यदेशस्थितेन जपाकुसुमेन पाटलीपुत्रस्थितं स्फटिकमणिमुपरञ्जयेयुः ; विश्वमपि व्यामिश्रसर्वस्वभावं स्यादिति प्रसक्तिमुद्भाव्य परिहरति अन्यस्मिन्निति ॥ हेतुमाह – सिध्यदिति । यथा कलमबीजस्याङ्कुरजननशक्तिकल्पनेऽपि न कोद्रवाङ्कुरजनकत्वं दृश्यमानकार्यानुगुणकारणशक्तिकल्पनात्, तथा वियदादिष्वपि परत्वादिसिद्ध्युपयुक्तोपनायकतयैव तच्छक्तिकॢप्तेरित्यर्थः । अत्र प्रतिबन्दिमभिप्रेत्याह – एवं हीति । नन्वधिकाया दिशस्तावदर्थत[यैव]या धर्मिग्राहकेण सिद्धिः ; न तथा वियदादेः, तत्स्वरूपस्यान्यतस्सिद्धत्वादिति चोद्यं विपरीतफलमित्यभिप्रायेणाह – धर्मीति । नावश्यं धर्मिग्राहकेणैव सर्वत्र शक्तिसिद्धिः । गृहीतेष्वपि धर्मिषु तत्तत्कार्यदर्शनेन तन्नियतशक्तिकॢप्तेः । अत एव नातिप्रसङ्गः, अयस्कान्तादिवत्तन्नियमात् । यन्निबन्धनस्त्वतिप्रसङ्गः, स सिद्धे कल्प्येऽपि समः समाधिः । एवं स्थिते वरमुभयकल्पनादेककल्पनम् । ननु शक्तिरपि कल्प्यमाना न निराधारा कल्प्यते । तस्मात्साधारशक्तिकल्पने शक्तिविशिष्टाधारकल्पने वा समं गौरवम् । तन्न ; यद्यपि शक्तितद्वन्तौ मिथोऽवच्छिन्नौ, तथाऽपि सिद्धांशस्य कल्प्यत्वायोगादसिद्धांशनियतैव कॢप्तिरिति विशेषसिद्धिः स्यादिति भावः । नन्वेवं वियदादेरेव सूर्यपरिस्पन्दाद्युपनायकत्वसंभवात्तदन्यः कालो न सिध्येदित्यत्राह – तदितरतेति । न हि वयं परत्वादिलिङ्गैराकाशाद्यतिरिक्त कल्पयामः, किंत्वागमिकमभ्युपेमः । अतो न तस्यासिद्धिरिति भावः ॥ ४९ ॥
1.50 संख्यानं तत्त्वपङ्क्तौ क्वचिदपि न दिशः कालवद्वा न भेदः कण्ठोक्तो व्याक्रियादिव्यवहरणमपि ह्यन्यथैवोपपन्नम् । श्रोत्रादुक्तस्तु लोकप्रभृतिवदुदयस्तस्य तत्राप्ययो वा नैतावत्तत्त्वभेदं गमयति न च तच्छ्रौत्रतामान्यपर्यात् ॥ ५० ॥
1.50 यदि पृथक्त्वेन लोकवेदप्रसिद्धा दिगपह्नूयेत तथा वायुरपि । अस्य ह्युपलभ्यमानः स्पर्श उष्णश्शीतोऽनुष्णाशीतोवा ? त्रेधाऽपि न छान्दोग्याधीततेजोबन्नातिरेकस्सिध्येत् । तिर्यक्पवनमप्यदृष्टवशात्तेषामेव स्यात् ; शब्दधृतिकम्पैरपि नातिरिक्तमनुमातव्यम् ; तैरेव तत्संभवात् । वातोपनीततत्तद्भूतान्तरावयवन्यायादनुद्भूतरूपतया दुर्दर्शत्वं स्यीदित्यत्राह – संख्यानमिति ॥ अयं भावः – न हि वयमप्रत्यक्षस्य वायोः स्पर्शशब्दधृतिकम्पलिङ्गैस्सिद्धिरिति वदामः, येन तेषामन्यथासिद्धिरुच्येत । किंतु तेषुतेषु शास्त्रेषु तत्त्वपङ्क्तौ परिगणनात्, नैवं दिक्तत्त्वं गण्यत इति । तत्र कालप्रतिबन्दि निस्तरति – कालवद्वेति । अस्ति हि “रूपान्तरं तद्द्विज कालसंज्ञम्” इत्यादि । ननु “दिग्देशकालेष्वस्तातिः” इत्यादिषु देशाद्भिन्ना दिक् कालवच्छास्त्रेषु व्यवह्रियत इत्यत्राह – व्याक्रियेति । प्रमाणसिद्धदिक्तत्त्वानुसारेण तत्कार्यविशेषविधायिनां शास्त्राणां तत्स्वरूपनिष्कर्षे तात्पर्याभावान्न ततस्त्वदिष्टसिद्धिरित्याशयः । अथ स्यात् “प्राणाद्वायुरजायत” इत्यादौ वाय्वादितत्त्वैस्सह दिशः पृथक्सृष्टिरुच्यते ; अतस्तद्वद्दिशोऽपि तत्त्वान्तरत्वं स्यात् ; एवं “दिशः श्रोत्रम्” इति ; तद्वदप्ययोऽपि श्रूयत इत्यत्राह – श्रोत्रादिति । लोकप्रभृतिवदिति प्रतिबन्दिवचनम् । अत्र हि “नाभ्या आसीदन्तरिक्षम्” इत्यादिभिर्न तत्त्वसृष्टिश्श्रूयते । किंतु ब्राह्मणक्षत्रियचन्द्रसूर्यादिव्यष्टिसृष्टिप्रकरणे अन्तरिक्षस्वर्गादिकल्पनम् । अतो दिक्सृष्टिरपि व्यष्टिविषया न तत्त्वान्तरं कल्पयितुं शक्नुयादित्याह – नैतावदिति । अथापि दिशः श्रोत्रोपात्तस्य व्यष्टिविशेषत्वं स्यादित्यत्राह – न चेति । श्रौत्रतां – श्रोत्रोपादानतामित्यर्थः । न हीन्द्रियाणि कस्यचिदुपादानानीति प्रागेवोक्तम् । गत्यभावादत्र विशेषः कल्प्यतामित्यत्राह – आन्यपर्यादिति । अत्र हि दिगुपाधीनां तद्देवतानां वा भगवतः श्रोत्रात् चन्द्रादेरिव सृष्टिः स्यात् । अतस्तत्त्वान्तरकल्पनं निर्मूलमित्यर्थः ॥ ५० ॥ इति दिश आकाशादावन्तर्भावः ॥
1.51 वातो वातीति साक्षान्मतिरितरसमा स्पर्शतो नानुमाऽसावन्धेऽन्येषु प्रसङ्गान्न पुनरगमकं स्पर्शनं रूपशून्ये । अन्याक्षग्राह्यतादृग्विधगुणविरहो ह्यन्यदक्षं न रुन्धे निर्गन्धो नीरसोऽपि स्फुरति यदनलो दर्शनस्पर्शनाभ्याम् ॥ ५१ ॥
1.51 आकाशे चिन्तिते प्रसङ्गाद्दिगन्तर्भाव उक्तः । अथाकाशानन्तरभाविनि वायौ स्वरूपतस्संप्रतिपन्ने प्रमाणविप्रतिपत्तिं निरस्यति – वातो वातीति ॥ त्वगिन्द्रियपवनसंयोगे सति सावधानस्य वातो वातीति धीस्तावद् दुरपलपा । सा साक्षात्काररूपा क्षित्यादिधीसमत्वादित्यर्थः । यदत्र गुणेन गुण्यनुमानमाहुः तत्प्रतिषेधति – स्पर्शत इति । न हि गन्धादिवदिह गुणमात्रोपलम्भ इति भावः । अन्यथाऽतिप्रसङ्गमाह -अन्ध इति । अन्धे – पुरुषे, अन्येषु – पृथिव्यादिषु भूतेषु त्वगिन्द्रियेण या स्पर्शधीस्सा स्पर्शमात्रविषया तत्तद्द्रव्यानुमितिहेतुस्स्यात् । अन्धोक्तिश्चक्षुषा द्रव्यग्रहणनिवृत्त्यर्था । उपलक्षणमेतदन्धतमसमध्यस्थस्य ; सालोकेऽपि निमीलितचक्षुषश्च । न चैतद्युक्तम्, दर्शनस्पर्शनाभ्यामेकार्थग्रहणाभ्युपगमात् अन्यथा द्रव्यापह्नवप्रसङ्गाच्च । ननु नीरूपं कथं प्रत्यक्षम् ? आत्मादीन् पश्य । कथं बाह्याक्षग्राह्यम् ? रूपादी-न्निरूपय । कथं स्पर्शनवेद्यम् ? स्पर्शमेव परामृश, इत्यभिप्रायेणाह – न पुनरिति । तथाऽपि नीरूपद्रव्यं कथं बाह्येन्द्रियग्राह्यं त्वगिन्द्रियग्राह्यं वेत्यत्राह – अन्याक्षेति । इन्द्रियाणां स्वग्राह्यविशेषगुणोपधानेन हि द्रव्यग्राहकत्वमिति वः कल्पना । ततश्चेन्द्रियान्तरग्राह्यविशेषगुणविरहेऽपि वायोस्त्वगिन्द्रियग्राह्यत्वमविरुद्धमित्यर्थः । यदि रूपशून्यद्रव्यत्वाद्वायुरप्रत्यक्ष इत्युच्येत तदा रसशून्यद्रव्यत्वात्तेजोऽपि किं तथा गन्धशून्यद्रव्यत्वाद्वा । अतोऽवादि इन्द्रियान्तरग्राह्यविशेषगुणविरहो नेन्द्रियान्तरवेद्यत्वविरोधीति । अत्राविगीतमुदाहरणमाह – निर्गन्ध इति ॥ ५१ ॥
1.52 संख्याद्यास्स्पर्शनास्स्युस्तदधिकरणकास्स्पर्शने गन्धवाहे तेषां द्रव्योपलम्भप्रतिनियतनिजाध्यक्षयोग्यत्वतश्चेत् । इ(ष्टंत्वं)ष्टस्त्वंशेन चात्मप्रभृतिषु सहते तैः प्रसिद्ध्यन्ति सर्वे तद्बाह्ये व्याप्तिरिष्टा यदि सततगतेरप्यसावस्तु बाह्ये ॥ ५२ ॥
1.52 वायुप्रत्यक्षतायां परोक्तमनिष्टं शङ्कते – संख्येति ॥ वायौ त्वगिन्द्रियग्राह्ये तन्निष्ठसंख्यापरिमाणादिद्वीन्द्रियग्रा-ह्यवर्गोऽपि तेन सह त्वचा गृह्येत । तेषां संख्यादीनां स्वाधारद्रव्योपलब्धियोग्यतासमानयोग्यताकत्वादित्यर्थः । अत्रांशत इष्टप्रसङ्गतामाह – इष्टमिति । उपलभ्यते ह्येका वह्निशिखा, एका वारिधारेत्यादिवत् एकोऽयं वायुरिति । रन्ध्रभेदनिष्क्रान्तेषु च वायुषु सावधानं स्पृशतो द्वित्वद्विपृथक्त्वादयो भान्ति । यावता च त्वगिन्द्रियभागेन वायुस्संबध्यते, तावदवच्छिन्नं तत्परिमाणं च गृह्यत एव । न हि घटादावपि त्वगिन्द्रियसंबद्धप्रदेशाभ्यधिकवर्ति परिमाणं तेन गृह्यते । स्पृष्टापसृते वायौ संयोगविभागौ स्फुटौ । एकस्मिन् शरीरे अनेकैर्वंशरन्ध्रादिभिरनेकेषु वायुस्रोतस्सु प्रवर्तितेषु तत्तदपेक्षया परत्वापरत्वे अपि सुलभे ; कर्म च, वतीति प्रत्ययात् । अन्यथा सरित्प्रवाहे स्यन्दनं च त्वचा न गृह्येत । यस्तु वायोः संमूर्च्छनाद्यवस्थासु संख्यादेरग्रहः स तोयादावपि समः । प्रसङ्गस्य व्याप्तिभङ्गमप्याह – न चेति । आत्मनि तावद्यद्यप्यहमेक इति धीस्स्यात्, तथाऽपि तत्परिमाणं न गृह्यते । अत एव ह्यणुत्वविभुत्वदेहपरिमाणत्वसन्देहः । एवमन्यदपि । तथा बाह्येष्वपि द्रव्योपलम्भेऽपि द्वित्वत्रित्वाद्यग्रहो दृष्टः । उक्तव्यतिरिक्तेष्वयं नियम इति शङ्कते – तद्बाह्य इति । सान्तर्हसमाह – सततगतेरिति । यथादर्शनं व्यवस्था त्वयाऽपि दुस्त्यजेति भावः ॥ ५२ ॥ इति वायुप्रत्यक्षत्वम् ॥
1.53 न प्राणो वायुमात्रं सह परिपठनान्न क्रिया द्रव्यतोक्तेस्तेजोवद्वा न तत्त्वान्तरमगणनतो वायुतानुज्झनाच्च । तस्माद्वातो विशेषं घनजलकरकान्यायतः प्राप्य कंचिद्देहान्तर्दाशविध्यं भजति बहुविधोपक्रियो वृत्तिभेदैः ॥ ५३ ॥
1.53 अथ राजसमहान् प्राण इति वदतः प्रतिवक्तुं प्राणस्य वायुविशेषतां विवक्षुस्तत्र विशेषापह्नवं प्रतिषेधति – न प्राण इति ॥ वायुत्वप्रसिद्ध्याऽसौ वायुमात्रामति चेन्न ; सर्वत्र सामान्यप्रसिद्ध्या विशेषत्यागप्रसङ्गात् । अयोग्ये च नानुपलम्भबाधः । श्रुतिप्राप्तं हेतुमाह – सहेति । “एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च, खं वायुर्ज्योतिराप” इति सृष्टिवाक्ये वायुप्राणयोस्सहपाठात् । न चात्र प्राणशब्दोऽन्यार्थः ; अबाधे प्रसिद्धत्यागायोगात् । न च वायुसामान्ये प्राणशब्दप्रसिद्धिः । जगत्प्राण इति समाख्या तु न तदंशस्य शक्तिं गमयेत् । देहावच्छेदमात्रेण विशेषात्पृथगुक्तिरिति चेन्न ; तत्सृष्टद्युक्तेः प्रयोजनमान्द्यात् । अस्तु तर्हि वायोः क्रियाविशेषः प्राणः स्तिमितवायौ प्राणशब्दप्रयोगाभावात्, उच्छ्वासादौ प्रयोगाच्चेत्यत्राह – न क्रियेति । हेतुमाह – द्रव्यतोक्तेरिति । वायुर्द्रव्यमिति तावत्सिद्धम् । प्राणे च तदुक्तिस्सार्वत्रिकी ; प्राणस्स्पन्दत इति च पृथग्व्यपदिशन्ति । उक्तश्च सहपाठो न तत्क्रियायाः, अग्र्यप्रायनयविरोधात् । नच मनःप्रभृतीनां क्रिया तैस्सहात्र पठ्यत इति भावः । यद्यसौ वायुविकारविशेषः वह्निरिव तत्त्वान्तरं स्यादित्यत्राह – तेजोवदिति । यदि तत्त्वपङ्क्तौ निविष्टः प्राणो भूतान्तरवत् पृथक्संख्यायेत ; न ह्येवमसावित्याह – अगणनत इति । तत्त्वपरिगणनं च पूर्वपूर्वनियतस्वभावपरित्यागेन विकारान्तरसृष्टौ ; नतु विकारमात्रे “पृथिव्या ओषधयः” इत्यादिषु तत्प्रसङ्गात् ; प्राणे च वायुत्वं न निवृत्तम् । अतश्च न तत्त्वान्तरमित्याह – वायुतानुज्झनाच्चेति । तथाऽपि देहोपादानत्वावस्थापन्नो वायुः प्राणस्स्यात् किमधिककल्पनयेत्यत्राह – तस्मादिति । अयं भावः -“यावद्ध्यस्मिन् शरीरे प्राणो वसति तावदायुः, “अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः । प्राणापानसमायुक्तः पचामि” इत्यादिपु देहात्पृथक्त्वेन प्राणवायुः प्रसिद्धः । अतो न देहोपादानवायुरसौ । किंतु योगाद्युपयुक्तशास्त्रवेद्यविशेषवान् कश्चिद्वायुरयमिति वायुत्वानुवृत्तिव्यक्त्यै जलमयकरकानिदर्शनम् । दाशविध्यं – प्राणापानादिभेदैर्नागकूर्मादिभेदैश्च दशविधत्वम् । तत्तद्वृत्तिभिरुपकारप्रपञ्चस्तत्तदागमेषु ग्राह्यः । अयं चार्थः “न वायुक्रिये पृथगुपदेशादित्यधिकरणसिद्धः” । “आपोमयः प्राण” इति तु, “अन्नमयं हि सौम्य मनः”, “तेजोमयी वागितिवदाप्यायनपरम् ; अन्यथाऽनेकशास्त्रविरोधात् ॥ ५३ ॥ इति प्राणस्य वायुविशेषत्वम् ॥
1.54 प्राणोऽक्षं प्राणशब्दादुपकरणतया क्षेत्रिणश्चेत्ययुक्तं शब्दैक्यं ह्यैकजात्यं व्यभिचरति न च प्राणताऽक्षेषु मुख्या । देहस्यानक्षभावेऽप्युपकृतिरधिका तत्समाक्षोक्त्यदृष्टिर्न प्राणे सात्त्विकाहंकरणविकृतितालक्षणं तद्धि तेषाम् ॥ ५४ ॥
1.54 अत्र कश्चिदाह प्राणसंवादादिष्विन्द्रियैस्सह प्राणः पठितः ; प्राणशब्दश्च साधारणः प्रयुक्तः; क्षेत्रज्ञोपकरणत्वं च समानम् ; अतः प्राण इन्द्रियमिति । एतदनूद्य परिहरति – प्राण इति ॥ सहपाठमात्रं न तज्जातीयत्वसाधकमित्यभिप्रायः । प्राणशब्दवाच्यत्वं नेन्द्रियत्वसाधकमित्याह – शब्दैक्यमिति । अन्यथा अनेकार्थशब्दलोपप्रसङ्ग इति भावः । अत्र च प्राणशब्दः क्वचिन्मुख्यः क्वचिद्भाक्तः । एवमप्येकशब्दप्रयोगमात्रात्साजात्ये वैजात्यमेव जगति लप्येतेत्यभिप्रायेणाह – न चेति । क्षेत्रज्ञोपकरणत्वस्य व्यभिचारमाह – देहस्येति । क्षेत्रज्ञोपकारकत्वं देहे [भूयसा] संदृश्यते ; न तत्रेन्द्रियत्वमिष्यते । इन्द्रियशब्दप्रयोगाभावात्तत्रानिन्द्रियत्वमित्यत्राह – तत्समेति । इन्द्रियत्वोक्तेरदर्शनं देहे प्राणेऽपि समम् । अतः प्राणोऽपि नेन्द्रियमित्यर्थः । इन्द्रियलक्षणनिवृत्त्या च प्राणे तच्छब्दवाच्यत्वनिवृत्तिरित्यभिप्रायेणाह – न प्राण इति । सात्त्विकाहङ्कारोपादानकत्वमेवेन्द्रियलक्षणम्, परोक्तलक्षणानुपपत्तेरित्यभिप्रायेणाह – लक्षणमिति । यत्तु शरीरयोगे सत्येव साक्षात्प्रमितिसाधनमिन्द्रियमिति, अत्र कर्मेन्द्रियेष्वव्याप्तिस्तावदास्ताम् ; स्वेदादिशैत्याभिव्यञ्जकव्यजनवातादेरुक्तलक्षणयोगादतिव्याप्तिर्दुर्वारा । शरीरसंयुक्तमतीन्द्रियमिति विशेषणेऽपि चाक्षुषतेजःकणानां चूर्णविक्षेपवद्विसर्पे मूलस्कन्धस्य प्रमितिसाधनत्वाभावात्, अग्रस्कन्धस्य शरीरसंयुक्तत्वायोगात्, नोभयत्राप्येतद्विशिष्टमिन्द्रियलक्षणमस्ति । परंपरया संबन्धस्त्वतिप्रसञ्जकः । आद्रष्टुराचन्द्रमसश्च कश्चिच्चक्षुरिन्द्रियावयवी तदानीमेव निष्पन्न इत्यत्र न किंचित्प्रमाणमन्यत्र संप्रदायात् । इन्द्रियदोषवदिन्द्रियगुणाश्च शरीरसंयुक्तास्साक्षात्प्रमितिसाधकस्सन्ति ; तैश्चानैकान्त्यं सुवचम् । शुद्धेष्वपि परोक्तलक्षणेषु न प्रस्तुते तत्सिद्धिरिति ॥ ५४ ॥ इति प्राणस्यानिन्द्रियत्वम् ॥
1.55 प्राणापानाख्यभस्त्रारभसविसृमरः प्राप्य वैश्वानराख्यां मध्येदेहं हुताशो वसति जलनिधावौर्ववत्सर्वभक्षः । तत्तद्विद्यासु वे(द्यस्त्वन)द्यं त्वन इव हि परज्योतिषः सोऽपि रूपं नात्मानौ तौ जडत्वाज्जनिविलयमुखैर्भेदकण्ठोक्तिभिश्च ॥ ५५ ॥
1.55 वायोरनन्तरं वह्निनिरूपणे प्राप्ते प्राणसङ्गत्या वैश्वानरं तावच्छिक्षयति – प्राणेति ॥ “तस्य मध्ये महानग्निः” इत्यादिकमिहानुसन्धेयम् । वारिनिर्वाप्यत्वनिवृत्त्यै बाडवनिदर्शनम् । प्राणवैश्वानरविचारस्य प्रधानशास्त्रार्थोपयोगमभिप्रेत्याह – तत्तदिति । अनः – प्राणः । “अथ यदतः परो दिवो ज्योतिर्दीप्यत” इत्यारभ्य “इदं वाव तत् यदिदमस्मिन्नन्तः पुरुषे ज्योतिरित्याद्यामनन्ति छन्दोगाः ।” प्रसङ्गान्नास्तिकयोगिजननिरासाय द्वितीयसरवक्तव्यमुपक्षिपति – नात्मानाविति । अजडो नित्यो भूतभौतिकविलक्षणश्चात्मा स्थापयिष्यते ॥ ५५ ॥ इति प्राणवैश्वानराग्न्योस्साङ्गत्यमनात्मत्वं च ॥
1.56 धर्मो भाति प्रभैका बहलविरलताद्यत्र दृष्टानुसारात् सा दीपांशा विशीर्णा इति यदि बहुधा कल्पनागौरवादिः । रत्नादीनां स्थिराणां विशरणविहतेर्निष्प्रभत्वादि च स्यात् तेजस्तत्सप्रभाकं तिमिरहरतया साऽपि तेजोविशेषः ॥ ५६ ॥
1.56 अथात्र धर्मधर्मिणोः सजातीयत्वे निदर्शनार्थं लोकबुद्ध्यनुगुणं भाष्यस्थं प्रभानिरूपणं प्रदर्शयति – धर्भ इति ॥ प्रदीपादिधर्मभूता तद्वत्स्वयमप्येका विष्वक्प्रसृता सूक्ष्मांशुकन्यायेन सुघटितसङ्घातलक्षणा प्रभा सर्वेषां भाति । तत्र मूलाग्रयोर्बहलत्वविरलत्वोष्णत्वोनुष्णत्वाद्युपलम्भस्तत्तद्वस्त्वन्तरेष्विव नैक्यबाधक इत्यभिप्रायेणाह – बहलेति । अन्यथा स्थूलमूलत्वादिना दीपादिष्वपि नैक्यं सिध्येदिति भावः । अवयवविशरणवादमनूद्य प्रतिवक्ति – सेति । विशरणक्रिया, तत्स्वभावानां वेगवतां तेजोवयवानामनुपशान्तवेगानामेव संभूय किञ्चिदुद्गमनेन दीपाद्यवयव्यारम्भणम्, घनीभूतानामनन्तरक्षणे विशरणम्, ऊर्ध्वगमनशीलानां च तेषां तत्तदंशतश्च तिर्यगूर्ध्वमधश्च प्रसरणम्, तादृशप्रसरणहेतुवैचित्र्यं बहलविरलत्वादिसिद्ध्यै केषांचिद्वेगातिशयः इत्याद्यनुपलब्दविविधार्थकल्पनागौरवं प्रसज्यते । आदिशब्देन सर्वलोकोपलम्भशास्त्रविरोधसंग्रहः । बाधकान्तरमाह – रत्नादीनामिति । प्रत्यभिज्ञाविषयप्रधानोदाहरणतया प्रसिद्धेषु स्थिरतरेषु रत्नादिषु प्रतिक्षणविनाशोऽवयवविशरणं च न कल्पयितुं शक्यम् । अतस्तेषु त्वदुक्तप्रकारेण प्रभोत्पत्तिकल्कनायोगान्निष्प्रभत्वप्रसङ्ग इत्यर्थः । परिशेषतः स्वाभिमतमाह – तेज इति । उक्तानुपपत्त्या दीपादितेजः प्रभाविशिष्टमेवोत्पद्यते इत्यर्थः । ननु प्रभाद्रव्यं न तत्त्वपङ्क्तौ गण्यते, तद्बहिर्भावश्चापसिद्धान्तः । अन्तर्भावश्च न वायुपर्यन्तेपु, रूपवत्त्वात् । न तोयपृथिव्योः, रसगन्धादिरहितत्वत् । न तेजसि, तद्धर्मतयाऽभ्युपगमात् । अतो विशीर्णतेजोतिरिक्ता प्रभा नास्तीत्यत्राह – तिमिरहरतयेति । तिमिरहरत्वं तेजस्त्वमात्रे हेतुः । विशेषशब्दस्तु प्रतीतिसिद्धावान्तरवैषम्यव्यक्त्यर्थः । तिमिरहरत्वं चात्र भास्वर-रूपविशिष्टतया, न तेजस्त्वमात्रेण । अतो न साध्याविशेषशङ्का । एवं नीरसत्वे सति रूपवत्त्वादित्यपि हेतुः ॥ ५६ ॥ इति प्रभायाः प्रभावदवयवातिरेकतेजस्त्वे ॥
1.57 भाष्ये भास्वत्प्रभादौ प्रतिहतिबह(हु)लीभावपूर्वं यदुक्तं तेन स्रोतस्समाधिं परमतनयतः प्राहुरेके प्रभायाम् । वस्तुन्यस्ते विकल्पे स्फुटविघटनयोर्वेक्तुराप्तस्य वाचोस्तात्पर्यं तर्कमानानुगुणमधिगुणैश्चिन्त्यमन्तेवसद्भिः ॥ ५७ ॥
1.57 अत्र ग्रन्थान्तरसिद्धमतान्तरमाह – भाष्य इति ॥ करतलेनाहिमकररश्मीनां गतिप्रतिहतिः । तथैव तत्र बह-लतया स्फुटोपलम्भश्चाभाष्यत । प्रतिबिम्बनिरूपणे च नयनरश्मीनां दर्पणे प्रतिहतिरुक्ता । तदेतत्प्रभाप्रभावतां सहोत्पत्तिनाशपक्षे नोपपद्यते । दृश्यते च रत्नप्रभादेरपि प्रतिघातकसन्निधौ सङ्कोचस्तदपगमे विकासश्च । अतः पाञ्चभौतिकस्य रत्नादेः पार्थिवाद्यंशेन दृढावस्थितस्यापि तेजोंऽशेन गन्धादिन्यायवता विशरणप्रसरणादिकं युज्यते । आतपवारणादिवृत्तान्तश्च वर्षवारणादिन्यायात्किरणगतितत्प्रतिघातावनुमापयति । निवृत्ते चातपे क्षितिजलयोरौष्ण्योपलम्भात्तेजोंशविशरणसंक्रमणे गम्येते । प्रभातद्वतोराश्रयाश्रयित्वादिभाषणं तु परसम्मत्यैव तन्मतनिदर्शनम् । प्रभा हि प्रदीपादिना सह जनिध्वंसिनीति केचित् । तथा हि साङ्ख्या इन्द्रियवृत्तिनिदर्शनतया आहुः –
दीपप्रभा यथा तस्मिन्विनश्यति विनश्यति । तथा बहिर्गताऽप्येषा मूलच्छेदाद्विनश्यति ॥ इति ॥
ननु विरुद्धभाषणादुभयं त्यक्त्वा सौगतगतिरिह संग्राह्येत्यत्राह – वस्तुनीति । न तावदिह सिद्धे वस्तुनि विकल्पः । नच वाक्ययोरैकार्थ्यं क्लिष्टगत्या कल्प्यम्, विरोधस्फौट्यात् । आप्तवाक्ये च नोभयत्यागः ; सहजक्षणिकपुञ्जद्वयपक्षस्य क्षणभङ्गनिरासेनैव निरस्तत्वाच्च । अतोऽन्यतरवाक्यस्य अन्यपरत्वे प्राप्ते प्रमाणतर्कानुगुणं परमार्थतात्पर्यं प्रज्ञाशालिभिश्छात्रैः प्रतिबोद्धव्यमिति ॥ ५७ ॥ इति प्रभाविषयग्रन्थद्वयगमनिका ॥
1.58 प्राच्ये स्नेहादिनाशे चरम इव दृढोऽनन्तरं दीपनाशः सामग्र्यन्यान्यकार्यं जनयति च न चानेकदीपप्रतीतिः । साम्यादेः स्यात्तु तद्धीः प्रवहणभिदुरास्सप्रभास्तत्प्रदीपा निर्बाधा भास्करादौ प्रथयति नियतं प्रत्यभिज्ञा स्थिरत्वम् ॥ ५८ ॥
1.58 ननु दीपादीनां स्थिरतया गृहीतानामपि क्षिप्रविनाशित्वमभ्युपगतम् । तच्चावयवविशरणपक्ष एवोपपद्यते । तथाऽऽहुः – “अवयवविशरणलिङ्गजबोधसहायेन चक्षुषा भेदम् । ज्वालासु निर्णयामः – इति । पक्षान्तरेषु तु प्रत्यभिज्ञा दुर्बाधेत्यत्राह – प्राच्य इति ॥ दाह्यविनाशानन्तरं वह्निनाश इति चरमदीपादिषु दृष्टम् ; इष्टं च सर्वेषाम् । प्रतिक्षणं च दीपदशादिप्रक्षयो दीपादिषु प्रत्यक्षः । प्रयोगश्च – प्राच्यस्नेहदशादिनाशः स्वानन्तरभाविस्वजनकदीपनाशवान् दीपारम्भकस्नेहादिनाशत्वात्, अन्त्यवत् इति । सावधानं प्रपश्यद्भिश्च प्रवाहवद्दीपो दृश्यते ; दशाग्रमारभ्य तन्मूलपर्यन्तं प्रतिकलमन्योऽन्यो दीपः प्रवर्तमानो निवर्तमानश्च दृष्टः । प्रयोगान्तरमभिप्रेत्याह – सामग्रीति । द्वितीयादिस्नेहादिसामग्री दीपजनिका ; अविकलदीपजनकजातीयसमुदायत्वात्, आद्यवत् । अन्यथा प्रथमाऽपि नोत्पादयेत् । तथा च जितं चार्वाकैः । नन्वस्तु प्रतिक्षणदीपारम्भः, प्रतिक्षणविनाशस्तु कुतस्त्य इत्यत्र पूर्वानुमानसिद्धेऽपि युक्त्यन्तरबाधमाह – न चेति । यदि द्वितीयादिक्षणे पूर्वपूर्वदीपनाशो न स्यात्, अनेकघटाद्युत्पत्तिनयाद्युगपदनेकदीपोपलब्धिः स्यात् ; न चैवमस्ति । निगमयति – साम्यादेरिति । प्रभया सहोत्पत्तिपक्षेऽप्येवं दीपादेराशुतरविनाशित्वं सिद्धम् । यत्र तु सामग्र्यनुवृत्त्यादिहेतुविरहः तत्र स्थिरत्वप्रसङ्गो न दोष इत्यभिप्रायेणाह – निर्बाधेति ॥ ५८ ॥ इति स्थिरास्थिरतेजोविभागः ॥
1.59 वर्णानां तादृशत्वादतिकठिनतया गौरवस्यापि भूम्ना धात्रीभागैः प्रभूतैस्स्फुटमिह घटिता धातवो हाटकाद्याः । तादृक्त्वेऽपि स्फुरत्ताद्यनितरसुलभं किञ्चिदन्वीक्ष्य तज्ज्ञैः व्याख्यातं तैजसत्वं विधितदितरयोस्तन्त्रसौकर्यसिद्ध्यै ॥ ५९ ॥
1.59 यत्तु हेमादेस्तैजसत्वमाहुः “त्रपुसीसलोहरजतसुवर्णानां तैजसानामग्निसंयोगाद्द्रवत्वमद्भिस्सामान्यमिति, तत्प्रागेव पाञ्चभौतित्वसाधनात्प्रत्युक्तम् । विशेषतश्च परोक्तेर्भङ्गाय ब्रूमः – वर्णानामिति ॥ हेमरूप्यादिवर्णाः पार्थिवत्वाभिमताभ्रकशुक्त्यादिसमा दृश्यन्ते । अन्यथा कथं तत्तद्भ्रमः काठिन्यं च तेष्वधिकम् ? तच्च स्वतः पृथिव्या एव, “काठिन्यवान् यो बिभर्ति” इत्यादिदर्शनात् । गुरुत्वं च तेषुतेषु भूयिष्ठम् । तेजोमात्रे तु न तत्प्रसङ्गः । जले तु सदप्येतन्नैवं क्वचिदतिशयितम् । नचाप्यत्वं तेषामिच्छसि । तदिह पञ्चीकृतारब्धव्यष्टिप्रपञ्चे हेमादिषु पार्थिवांशः प्रभूत इति निश्चीयते । कथमन्यथा “निष्के तु सत्यवचनमित्यादि निरुह्येत ; तथात्वे तैजसत्वस्मरणं कथमित्यत्राह – तादृक्त्वेऽपीति । स्फुरत्तादि – तेजस्समानं वर्णविशेषं स्वतश्शुद्धत्वं चेत्यर्थः । तज्ज्ञैः – तथाभूतवेदिभिः । व्याख्यातं – विशेषतः प्रकथितम् । किमर्थमित्यत्र तैजससमाख्यातेषु विधिनिषेधसाधारण्यसौकार्यार्थमित्याह – विधीति । ननु सर्पिर्जतुमधूच्छिष्टानां पार्थिवानामत्यन्ततापलुप्तद्रवत्वं दृष्टम्, न तथा हेमादौ ततस्तेषामपार्थिवत्वम् । मैवम् ; एवमपि तोयान्यत्वस्य दुस्साधत्वात् । द्रवत्वविशेषात्तैजसत्वसाधने च न कश्चिद् दृष्टान्तः । पाकजद्रवत्वेन पार्थिवत्वसाधने तु सर्पिराद्यस्ति ; अलुप्तद्रवत्वं च हेमादेस्तदुपष्टम्भकपार्थिवांशेऽप्यस्ति । अन्यथा तत्र तदानीं काठिन्यानुवृत्तिप्रसङ्गात् । अतः पक्षविपक्षमात्रवृत्तित्वाद्विरुद्धता ॥
अवान्तरविशेषाच्च नातज्जातीयता भवेत् । अतिप्रसङ्गसाम्राज्यादशेषापह्नवेन वा ॥
न च हेमादिशब्दानां युक्तं दृष्टप्रमाणतः । अलोकव्यवहारार्हे कुत्रचिद्वृत्तिकल्पनम् ॥ ५९ ॥
इति हेमादेस्तैजसत्वोक्तितात्पर्यम् ॥
1.60 नैल्याद्भौमं तमिस्रं चटुलबहलताद्यन्वयात्तन्न नैल्यं छायावत्पारतन्त्र्यं त्वयस इव मणौ दृष्टिसिद्धात्स्वभावात् । स्पर्शाख्यातिर्न रूपं हरति हरिशिलाऽऽलोकवत्तत्र चाक्ष्णोर्नालोकोऽर्थ्यस्ससिद्धाञ्जननयनदिवाभीतदृष्ट्यादिनीतेः ॥ ६० ॥
1.60 तेजोऽनन्तरे तोये विप्रतिपन्नार्थाभावात्तदुल्लङ्घनेन तमसः पृथिव्यामन्तर्भावमाह – नैल्यादिति ॥
“तमः खलु चलं नीलं परा[वं]परविभागवत् । प्रसिद्धद्रव्यवैधर्म्यान्नवभ्यो भेत्तुमर्हति ॥
इति य एवं वदन्ति तान्प्रत्युभयसम्मतेन नीलत्वेन पार्थिवत्वं साध्यते, द्रव्यान्तरकल्पने गौरवात् । अवान्तरविशेषश्च न वैजात्यहेतुरित्युक्तम् । प्रभातुल्यत्वपक्षे पित्तवद्दृक्प्रभापसर्पपक्षेऽपि नीलत्वाद्भौमत्वं सिद्धमेव । ये त्वाहुः – “वियति विततानां सूक्ष्माणां पृथिव्यवयवानां कृष्णो गुणस्तम” इति तेषां निराधारनैल्योपलम्भोऽशक्यसाधन इत्यभिप्रायेणाह – तन्न नैल्यमिति । हेत्वन्तरमाह – चटुलेति । चटुलत्वबहलत्वविरलत्वादिकं हि द्रव्यधर्म एव । न च तदुपलम्भो नास्ति, नीलोपलम्भो वा, विश्वविरोधात् । न चात्रालोकापसर्पणादिहेतुभेदैश्चटुलत्वमारोपितम् ; प्रत्यक्षभ्रमेषु गुणमात्राधिष्ठानत्वादृष्टेः । गन्धो वातीत्यादिष्वपि द्रव्याभिप्रायेण प्रयोगः । यदि स्वतन्त्रद्रव्यं तमः तदा तत्तद्गत्यागत्यनुविधानं कथमित्यत्राह -छायावदिति । यथाऽयस्कान्तस्थितिगत्यनुविधानं पृथग्द्रव्यस्याप्ययसो दृश्यते तथाऽत्रापि स्यात् ; यथा- दृष्टि स्वभावव्यवस्थापनात् । ननु पार्थिवत्वरूपवत्त्वे स्पर्शवत्त्वव्याप्ते ; न च ध्वान्ते स्पर्श उपलभ्यते ; अतस्ते उभेतस्य न स्त इत्यत्राह – स्पर्शाख्यातिरिति । तमःस्पर्शस्यायोग्यत्वादित्यभिप्रायेण नीलत्वसाम्याच्च हरिशिलालोकदृष्टान्तः । यन्नीलं तदालोकसहकृतचक्षुर्ग्राह्यम् ; तमश्च न तथा ; ततश्चाक्षुषप्रत्ययाभावे नीलत्वाभिमान इत्यत्राह – तत्र चेति । आलोकोपलब्धावालोकान्तरं न सहकारि, तथाऽत्र स्यात् ; विषयस्य सतस्तत्र सहकारित्वमिति चेत् ; अथापि वस्तुभेदे वैरूप्यं सिद्धम् ? एवं ध्वान्तेऽप्यालोकनैरपेक्ष्यं स्यात् । अलङ्घनीयनिदर्शनान्तरमाह – ससिद्धाञ्जनेति । अञ्जनविशेषसहकृतं हि चक्षुरन्धतमसेऽपि पदार्थान्दर्शयति, तथेहापि स्यात् । तत्र सहकार्यन्तरप्रभावादिति चेत् ; अत्राप्यालोकाभावस्य सहकारिणः प्रभावादित्यङ्गीकुरुष्व । यथा च किंचिद्बहलालोकग्राह्यं किंचिन्मन्दालोकेनापि, तथा किंचिदालोकग्राह्यं किंचिन्न तथेति यथादर्शनं नियमः । दृक्स्वभावाच्च ; यथा दिवाभीतादिदृष्टेरालोकनैरपेक्ष्यम्, तथा दृश्यस्व-भावादिहापीति किं नेष्यते ? अस्त्वेवम्, तथाऽप्यालोकमध्ये किं नोपलभ्यत इति चेत् ; आलोकनाश्यत्वादिति केचित् ; उत्सारितत्वादित्यन्ये ; मध्यन्दिनोल्काप्रकाशादिवदभिभवादित्यपरे ।
अद्रव्यत्वादिपक्षाणामत्रासंभवसिद्धये । आद्यमेव तमो ध्वान्तमिति केचिदुपाचरन् ॥
किंच तेजस इव तमसोऽपि शरीरत्वाम्नानादालोकमध्ये तमस्सृष्टिवचनादेकस्मिन् काले तमस्तेजःप्रलयपाठाच्चास्य द्रव्यत्वप्राकृतत्वसिद्धौ रूपवत्त्वेन वायुपर्यन्तव्यपोहः । कृष्णरूपवत्त्वाच्च वह्निजलव्यावृत्तिः सिध्येत् ; “यत्कृष्णं तदन्नस्येति श्रुत्यनुसाराच्च । तदिदं तमः परब्रह्माच्छादकाविद्यानिदर्शनतया विषयावारकं कैश्चिदुक्तम् । तदसत् ;
तमोव्यवहितालोकस्थितनानार्थदर्शनात् । दृग्गतेरविरुद्धस्य दृश्यच्छादकता कथम् ॥
अतो मर्त्यादिदृष्टीनां दृश्यसंबन्धमात्रतः । दर्शनप्रतिघातित्वं स्वभावात्तमसि स्थितम् ॥ ६० ॥ इति तमसः पार्थिवत्वम् ॥
1.61 नालोकाभावमात्रं तिमिरमविरतं नीलमित्येव दृष्टेर्नैल्यं त्वारोपितं चेत्कथमिव न भवेत्क्वापि कस्यापि बाधः । आरोपे चात्र नैल्यं न भवति नियतं भास्वरान्यत्वसाम्यान्नात्रादृष्टं नियन्तृ प्रतिनियतगुणारोपकॢप्तेर्गुरुत्वात् ॥ ६१ ॥
1.61 ये त्वाहुः – आलोकाभाव एवालोकविरोधित्वलक्षणसमानधर्मस्मारितनैल्योपरक्तो नीलं तम इति गृह्यते ; नञुपश्लेषरहितशब्दवाच्यत्वं तु प्रलयादिशब्दन्यायेन स्यादिति ; तान्प्रतिवक्ति – नालोकेति ॥ अबाधितं नीलोपलम्भं हेतुमाह – अविरतमिति । आरोपितं नीलरूपत्वं नाभावत्वविरोधीत्यभिप्रायेणाशङ्कते – नैल्यं त्विति । आरोपस्य कालभेदेन पुरुषभेदेन वा बाधव्याप्तिमभिप्रेत्याह – कथमिवेति । अविरतमिति सूचितमेतेन व्यञ्जितम् । ननु तमो न नीलम् असत्यालोके चक्षुषा प्रतीयमानत्वादिति बाध इति चेन्न ; दृष्टान्तासिद्धेः । आलोकाभाव एव दृष्टान्त इति चेन्न ; त्वत्पक्षे पक्षदृष्टान्तभेदाभावात्, अस्मन्मते तु भावातिरिक्ताभावासिद्धेः, आलोकाभावे दिवाभीतादिचक्षुर्ग्राह्यैर्नीलैर्व्यभिचाराच्च । दृवैषम्यवद्दृश्यवैषम्यं च व्यवस्थापकं स्यादित्युक्तम् । अतोऽस्मदादिविशेषणेऽप्यनिस्तारः; तमोधर्मभूतनैल्यादिदृष्टान्तस्तु तदभावसाधने विरुद्धः । आरोपितनैल्यादिदृष्टान्तस्तु शुक्तिरूप्यशशश्रृङ्गादिवदनादेयः । अनारोपितं तु सत्येवालोके चक्षुषा गृह्यते ; तथाऽपि भ्रान्तिदशायां गृह्यमाणारोपाभावेऽपि चाक्षुषभ्रान्तिविषयत्वादेवायं हेतुस्सिद्ध इति चेन्न ; तमसि नैल्यारोपसिद्धिमन्तरेणास्य हेतोरनुत्थानात् । भवति हि बाधाद्दृष्टान्तलाभः ; तेन च स इति मिथस्संश्रयः । अस्पर्शत्वादिबाधकान्तरं तु निरस्तम् । अत्र नीलमित्येवेत्यवधारणतात्पर्यभेदसिद्धं दूषणान्तरमाह – आरोपे चेति । अयं भावः – आरोप एवात्र न संभवति । अभावस्य हि स्वरूपमेव हि भेद इति मन्यसे; अतस्तद्ग्रहे तदग्रहे वा कथमारोपः ? एवं च ब्रूषे । आलोको हि भास्वरः, तद्विरोधी च तदभावः, कृष्णद्रव्यमपि भास्वरान्यत्वात्तथैव । अत आलोकविरोधित्वसाधर्म्यादकृष्णे कृष्णधर्माध्यास इति । एवं सति रक्तपीतादीनामपि तथात्वाविशेषात्तत्र तदारोपः किं न स्यादिति । अत्र यदुक्तं काणादैः – आरोपे सति निमित्तानुसरणं न तु निमित्तमस्तीत्यारोप इति, तदयुक्तम् । आरोपे सतीत्यसिद्धेः निमित्तस्य चातिप्रसङ्गिनोऽनुसरणायोगात् । यथा च रज्जौ सर्पाध्यासः तथा कदाचिदम्बुधाराद्यध्यासोऽपि किं न भवति ? सत्यां च सामग्र्यां कार्यानुत्पत्तिरिति न लौकिकमेतत्, नच यौक्तिकम् । यच्चोक्तमदृष्टादिकं चात्र नियामकमवसेयमिति ; तद्दूषयति – नात्रेति । विचित्रादृष्टभेदविषमिते जगति सर्वजन्तुसाधारणस्य दुरुपशमतावन्मात्रभ्रमहेतोरदृष्टविशेषस्य कल्पनेऽतिगौरवं स्यादित्यभिप्रायेणाह – प्रतिनियतेति ॥ ६१ ॥
1.62 ध्वान्तं तेजश्च नासीदिति मुनिभिरुपाख्यायि संवर्तवार्ता भावाभावौ निषेद्धुं तदुभयविधिवद्व्याहतत्वादशक्यम् । अन्तर्यन्तुश्च तेजस्सहपठिततमो देह इत्यामनन्ति स्याच्चाभावोऽपि भावान्तरमतिमथने वक्ष्यमाणक्रमेण ॥ ६२ ॥
1.62 आलोकाभावपक्षस्यागमवैगुण्यमाह – ध्वान्तमिति ॥ अर्थोपादानमेतत् – शब्दस्तु “नासीत्तमो ज्योतिरभून्न चान्यदिति । कथमस्य प्रकृतविरोधित्वमित्यत्राह – भावाभावाविति । न हि कस्यचिदेकदैकत्र भावाभावाविधिश्शक्यते ; तद्वदुभयनिषेधोऽप्यशक्यः । अन्तत उभयनिषेधस्य उभयविधिविश्रमणेन व्याघातादिति भावः ॥ ६२ ॥ इति तमस आलोकाभावमात्रत्वभङ्गः ॥
1.63 तिष्ठत्युर्वी भचक्रं पवनरयवशाद्भ्राम्यतीत्युक्तमाप्तैर्भ्रान्तैः कॢप्तं त्रिलोकीभ्रमणमिह तथा मेदिनीभ्रान्तिपातौ । तद्भ्रान्तौ प्राक्प्रतीचोः प्रसजति पतने पत्रिणोस्तारतम्यं पाते गुर्व्यास्तु तस्याः प्रलघु दिवि समुत्क्षिप्तमेनां न यायात् ॥ ६३ ॥
1.63 भूप्रसङ्गात्तद्भ्रमणादिपक्षं निराकर्तुं स्वपक्षं तावदाह – तिष्ठतीति ॥ आप्तैः – पुराणादिकर्तृभिस्तदनुसारिभिश्च । आप्तिश्च तेषां “हिरण्मयेन सविता रथेन” इत्यादिश्रुत्यनुसारात् । अस्मिन् पक्षे सर्वलोकोपलम्भस्वारस्यमस्ति । न च गणितादिविरोधः । कक्षीकृतश्चायं पक्षः कार्तान्तिकैरपि । यथाऽऽह आर्यभटः –
“उदयास्तमयनिमित्तं नित्यप्रवहेण वायुनाऽऽक्षिप्तः । लङ्कासमपश्चिमगो भपञ्जरस्सग्रहो भ्रमति ॥ इति ।
केश्चित् “उत्ताना ह वै देवगवा वहन्ति” इत्यादिनिर्वहणाय त्रैलोक्यभ्रमणं स्वीकृतम्, तदुपालभ्यते – भ्रान्तैरिति । यथा स्वयं भ्राम्यन्तो बालिशा भुवं भ्राम्यन्तीमभिमन्यन्ते तथेदमिति भावः । यदि स्थिरतयैव दृष्टानां ग्रहनक्षत्राणां भ्रमणं कल्प्यते तदविशेषाद्भुवोऽपि कल्प्यतामिति चेन्न ; अपेक्षितस्यान्यथैव सिद्धेः । अत्र “अनुलोमगतिर्नौस्थ” इत्यादिषु स्थापितस्य भूभ्रमणवादस्य जैनोक्तस्य च भूपतनस्य भ्रान्तिकल्पितत्वमतिदिशति – तथेति । इषीकाप्रोतपत्रिकादिवत्स्वदेशं मुञ्चन्ती द्रुततरमधरोत्तरवृत्त्या भूः भ्रमतीति हि तद्भ्रान्तिपक्षः । अत्रोत्क्षिप्ताश्शरशिलादयः स्वदेशे तदासन्ने वा कथं निपतेयुः, नित्यं च स्वदेशपश्चिमभाग एव तेषां निपातस्स्यात् । उड्डीनाश्च पक्षिणो न कुलायमासीदेयुः, प्रत्यङ्मुखं पततां च तेषां गन्तव्यानि स्वयमपि तृणं प्रतिगच्छेयुः । प्राङ्मुखं गच्छतां तु दुःखेनापि न सन्निकृष्येरन् । एकदेशस्थिते च वर्षति वलाहके मुहूर्तमात्रान्मही शतयोजना सिच्येत । अतिकुशलानामपि धन्विनां दक्षिणोत्तरदिग्देशावस्थितस्थिरलक्ष्यवेधो न स्यात् । शरविहङ्गादीनामपि धरणीसममेव वायुना नोदनान्नोक्तप्रसङ्ग इति चेन्न ; तथाविधस्य प्रबलमारुतस्यानुपलम्भनिरस्तत्वात्, सर्वेषां प्रत्यङ्मुखगतिप्रतिरोधप्रसङ्गाच्च । यो हि महापृथिवीं प्रभञ्जनः प्रसभमार्तयति तं कथं लघीयांसो विहङ्गादयः प्रतिसरेयुः ? किंतु पृथिव्याः पूर्वमेव प्राङ्मुखं दूरमापनीयेरन् ? किंच ज्योतिर्गणभ्रमणहेतुर्मारुतश्शास्त्राभ्यनुज्ञानात् प्रत्यक्षविरोधाभावाच्च संगृह्यते, भूभ्रमणहेतुस्त्वसौ शास्त्रोपलम्भ-विरोधान्न कल्प्यः ; भुव एव वायुवददृष्टवशात्तादृशभ्रमणोपपत्तेः । स्यादेवं किं नश्छिन्नमिति चेन्न ; उपलम्भानुसारस्य छिन्नत्वात् । अत एव अनन्तताराग्रहभ्रमणकल्पनादेकभ्रमणकल्पनं वरमित्ययुक्तम् ; ताराभ्रमणादेरागमिकस्याकल्प्यत्वाच्च । तदेतत्सर्वमभिप्रेत्याह – तद्भ्रान्ताविति । – मूपतने दोषमाह – पात इति । अयं भावः – पातो हि भुवो न तावदुपलम्भागमाभ्याम्, तयोरिह तद्विपरीतत्वात् । नाप्यनुमानतः, गुरुत्वात्पतनस्य प्रतिबन्धके निरोधोपपतेः । निरालम्बने निरवधौ नभसि नित्यं निपतन्तीमलब्धप्रतिष्ठां भुवं कः प्रतिरुन्ध्यादिति चेन्न ; “वासुदेवस्य वीर्येण विधृतानि” इत्यादिना तत्सिद्धेः । भूपतने चोत्क्षिप्ताश्शिलादयो न कदाचिद्भुवं प्राप्नुयुः । गौरवप्रकर्षकाष्ठाभूताद्भूमण्डलादतिलघीयसां रजःप्रभृतीनामधिकपतनकल्पनं चोपहास्यम् ; पोतवालुकादिन्यायस्त्विह दुर्वचः, उपष्टम्भकादिविशेषस्यानभ्युपगमात्, तत्कल्पने च तस्याप्यन्यत्कल्प्यम् इत्यनवस्थानात्, वायुविशेषस्योपष्टम्भकत्वकल्पने तेनैव नित्यमपतनमिति किं न रोचते ? तदिह युक्तिमात्रशराणानां निराधाराऽपि स्वभावादेव तिष्ठति भूमिः । आगमानुविधायिनां तु सर्वाधारेण ब्रह्मणा सोपधानं निरुपधानं च विधृतेति । अत एव पृथिव्याधारस्थिरतरकर्परकॢप्तिर्निरस्ता । कर्परस्यापि निराधारस्य स्थित्यनुपपत्तेः, चतुरुदधिसंक्षोभसहत्वस्य पृथिव्यामेव कल्पयितव्यत्वात् । ये च पतनोत्पतनस्वभावभूतचतुष्टयमयत्वान्न पतति नोत्पतति च भूपिण्ड इत्याहुः, तेषामन्यूनानतिरिक्ततादृशावस्थानोचितपरिमाणैर्भूतैरारब्धः परिदृश्यमानमृच्छिलादिविलक्षणश्चागत्याऽन्य एव भूपिण्ड इत्यादिकल्पना केवलमूहमात्रसिद्धा । अन्ये – दक्षिणोत्तरध्रुवयोरयस्कान्तसमाधिं भूगोले चाय-स्समाधिमारोपयन्ति, ; तेऽपि कल्पनागौरवोपहताः ; भूगोलस्यैव हि अदृशशक्तिकल्पनं युक्तम् ; न तु दवीयसोरात्मस्थितिनिर्वाहसोपक्षयोः ध्रुवयोः । केचिद्भूगोलघनमध्यदेश एव सर्वेषामधोधोदेशः, तदभिमुखदत्तचरण एव स्थलजलचरः सर्वो जन्तुवर्गः । भूमिस्तु तदाश्रिता नानाकेसरपरिवृतकदम्बकुसुमग्रन्थिवन्मक्षिकावृतमधुगोलवच्च तिष्ठति । अमरानराश्च परस्परमधःस्थितान्मन्यन्ते । पतनं च सर्वेषां भूगोलमध्यदेशाभिमुखमेव । पृथिव्यंशास्त्ववकाशालाभान्न तत्र प्रविशन्ति । अतो महापृथिव्या न कदाचित्पतनम्, तामपेक्ष्य कस्यचिदधोदेशस्याभावात् इति । तदेतद्भुवोऽधस्तादुपरि च लोकानुपदिशद्भिश्शास्त्रैरुपरुध्येत । यत्तु – “पातालदेशाः क्षितिगोलमध्ये सप्तोपदिष्टास्तलपूर्वकास्ते” इति, यदपि “मेरुर्योजनमात्रः प्रभाकरो हिमवता परिक्षिप्तः । नन्दनवनस्य मध्ये रत्नमयस्सर्वतोवृत्तः ॥ इत्यादि, तदिदं गणितविसंवादाभावेऽपि शास्त्रान्तरविरुद्धं न कल्प्य न चोपदिष्टमिति श्रद्धातव्यम् ॥ ६३ ॥ इति भूभ्रमणादिवादभङ्गः ॥
1.64 ज्योतिश्शास्त्रं पुराणाद्यपि न हि निगमग्राह्यमन्योन्यबाध्यं विद्यास्थाने तु सर्वं प्रतिनियतनिजोपक्रियांशे प्रमाणम् । तात्पर्यं तर्कणीयं तदिह बहुविदा भूपरिध्यादिभे(दे)दैः दुर्ज्ञानं सर्वथा यन्मुनिभिरपि परैस्तत्र तूदासितव्यम् ॥ ६४ ॥
1.64 भूपरिधिकलानादिषु वैदिकशास्त्रद्वयविरोधं परिहर्तुमाह – ज्योतिरिति ॥ निगमग्राह्यमिति हेतुगर्भम् ; यद्यु- भयबाधोऽन्यतरबाधो वा, न तत्र बाधितस्य वेदोपकारकत्वं स्यादिति भावः । कथं वा विरुद्धयोस्साकल्येन प्रामाण्यमित्यत्राह – विद्यास्थानमिति । येनयेनोपकारेण दशविद्यास्थानानि वेदैरुपजीव्यन्ते, तत्रांशे विरोधाभावात्प्रामाण्यं प्रतिष्ठितमित्यर्थः । अंशान्तरे कथमित्यत्राह – तात्पर्यमिति । न ह्यन्यपरवाक्यैरापातप्रतीतार्थस्थापनम् ; यत्र च तात्पर्यं तत्र च न विरोध इति भावः । ननु ज्योतिरागमे पञ्च सिद्धान्ताः प्रवृत्ताः, पुराणेष्वप्येवं मतभेदा दृढाः । तत्रान्यतमप्रतिक्षेपे मुनयोऽपि यदि मुह्यन्ति किं कर्तव्यमित्यत्राह – दुर्ज्ञानमिति । परैः – ऋषिव्यतिरिक्तैरस्मदादिभिरित्यर्थः ॥ ६४ ॥ इति भूपरिमाणादिवाक्येपु परस्परविरोधपरिहारः ॥
1.65 सूर्यावृत्त्याद्युपाधिव्यतिकरवशतः कालताऽस्त्वम्बरादेरन्यस्मिन्नन्यधर्मोपनयननियमः प्राग्वदत्रेति चेन्न । कल्पान्तेऽप्येककालः प्रकृतिपुरुषवद्ब्रह्मणो रूपमन्यन्निर्दिष्टोऽनाद्यनन्तो मुनिभिरिति ततः कार्यता चास्य भग्ना ॥ ६५ ॥
1.65 उद्दिष्टलक्षितेषु त्रिगुणानन्तरं कालः परीक्ष्यते । तत्र “अपरस्मिन्परं युगपदयुगपच्चिरं क्षिप्रमिति काललिङ्गानि इति परोक्तेरानुमानिकः काल इति मन्वानः साङ्ख्यसौगतचार्वाकवञ्चितः कश्चित्कालं निह्नुते – सूर्येति ॥ आदिशब्देन विभुद्रव्यान्तरम् उपाधिबुद्धिविशेषश्च संगृह्यन्ते । स्थविरयुवादिषु परत्वापरत्वनिर्वाहाय तत्कारणभूतबुद्धिविशेषविषयसूर्यपरिस्पन्दप्रकर्षनिकर्षादिघटकतया कालः कल्प्यते । तत्र संप्रतिपन्नैराकाशादिभिरेव तत्तदुपाधिव्यतिकरितैः, उपाधिभिरेव वा, बुद्धिसन्निकर्षघटितैः, तादृशोपाधिबुद्धिभिरेव वा, अपेक्षितसिद्धौ किमिह तदतिरिक्तकल्पनया ? यद्यतिप्रसङ्गभयाद् बुद्धिविशेषसंबन्धानादरेण कालोऽन्यः कल्प्यते, तथाऽप्यतिप्रसङ्गस्तदवस्थः ; यथादर्शनं व्यवस्था च समानेति भावः । कालता -परत्वादिनिर्वाहकतेत्यर्थः । अत्र दिङ्निरूपणे दर्शितमतिप्रसङ्गं तद्वदेव परिहरति – अन्यस्मिन्निति । शास्त्रोक्तं न लाघवतर्कबाध्यमित्यभिप्रायेणाह – नेति । कथं शास्त्रे तदुक्तिरित्यत्राह – कल्पान्तेऽपीति । उक्तं हि वैष्णवे पुराणे – “विष्णोः स्वरूपात्परतोदिते द्वे” इत्यारभ्य “रूपान्तरं तद्द्विज कालसंज्ञम् इति । कार्यभूताकाशाद्यन्तर्भावश्चानेन भग्न इति व्यनक्ति – तत इति । एतेन त्रिविधा प्रकृतिः, कालः परमाकाशोऽव्यक्तमिति केषांचित्कल्पनाऽपि निरस्ता । ननु जैननिराकरणे “कालस्य त्वित्यादिना भाष्येण कालो निराकृत इव भाति ।” मैवम्, सर्वप्रतिपत्तिषु तत्तत्पदार्थविशेषणतया सर्वलोकानुभूतस्य न बौद्धादिभिर्नास्तित्वं वक्तुं शक्यम् । न त्वया पृथक् तदस्तित्वं साध्यम् । कालोऽस्तीत्यादिपृथग्व्यवहारस्तु अपृथक्सिद्धविशेषणानां निष्कृत्य । व्यवहारवदिति तन्निर्धारणे तात्पर्यात् ; अन्यथा शास्त्रैः स्वग्रन्थान्तरैस्संप्रदायैश्च विरोधस्स्यादिति ॥ ६५ ॥ इत्याकाशाद्यतिरिक्तकालसिद्धिः ॥
1.66 कालोऽस्मीति स्वगीता कथयति भगवान्काल इत्याप्तवर्यो हेतुः सर्वस्य नित्यो विभुरपि च परः किं परेणेति चेन्न । कालान्तर्यामितादेः न खलु समुदितः संप्रतीते तु भेदे साधर्म्यं नैक्यहेतुः स हि तदितरवद्घोषितस्तद्विभूतिः ॥ ६६ ॥
1.66 एवमपि कालस्य परमात्मव्यतिरिक्तत्वं न सिध्यति, रूपान्तरमिति स्वरूपविवक्षोपपत्तेः, तत्स्वरूपैक्ये प्रमाणसद्भावाच्चेत्यभिप्रायेणाह – काल इति ॥ स्वशब्दोऽत्र परमात्मविषयः । गीयते हि – “कालोऽस्मि लोकक्षयकृत्प्रवृद्धः” इत्यादि । तद्वत् “अनादिर्भगवान्काल” इति पराशरेणोक्तमपि ख्यापयति – कथयतीति । आप्तवर्यत्वमस्य “देवतापारमार्थ्यं च इस्यादिभिस्सिद्धम् । नित्यविभुना परमात्मनैव त्रैकालिकसार्वत्रिकसर्वव्यवहारसिद्धिमभिप्रेत्याह – हेतुरिति । तदतिरिक्तकालकल्पनस्य निरर्थकत्वमाह – किं परेणेति । रूपान्तरमित्यत्र क्लिष्टा गतिरयुक्तेत्यभिप्रायेण प्रतिवक्ति – नेति । कालेऽपि सामानाधिकरण्यं तत्तत्पदार्थान्तरेप्विव निर्वहतीत्याह – कालान्तर्यामितादेरिति । आदिशब्देन कालाभिमानिरूपसंग्रहः । सन्ति हि जीवमनोहङ्काराभिमाननियतानुबन्धानि सङ्कर्षणादिरूपाणि, तद्वदिहापि स्यात् ; “को भवानुग्ररूप” इति प्रश्नसंघटनाच्च । सर्वकार्यहेतुत्वनित्यत्वविभुत्वैस्तदैक्यसाधनं निरस्यति – संप्रतीते त्विति । वस्त्वन्तर इव भेदकण्ठोक्तिं व्यनक्ति – स हीति । “ब्रह्मा दक्षादयः काल” इत्यादिभिरिति शेषः । “विष्णुमन्वादयः काल” इत्यत्र तु विष्णुशब्दोऽवतारपरः ; तस्य तद्विभूतित्वं च तादृशरूपेण ॥ ६६ ॥ इति कालस्येश्वरैक्यशङ्कापरिहारः ॥
1.67 कालस्योत्पत्तितः प्राक् परमपि च लयात् कालनास्तित्ववादी स्वोक्तिव्याघातभग्नो न वदति यदि तत्को वदेत्कालसृष्टिम् । आप्तस्तत्सृष्टिवादस्तदुपधिपरिणत्यादिभिस्सार्थकस्स्यान्नोचेत्तत्रापि पूर्वापरवचनहतिर्दुर्निवारप्रसङ्गा ॥ ६७ ॥
1.67 ये तु महदादिवत्कालतत्त्वमुत्पत्तिनाशवदिति तन्त्रा[न्तरा]नुसारिणो वदन्ति, तान्प्रतिक्षिपति – कालस्येति ॥ उत्पत्तेः पूर्वं नाशतः पश्चाच्च कालो नास्तीति वदन् किं तत्र पूर्वशब्दस्य पश्चाच्छब्दस्य च निरर्थकत्वं मन्यते ? सार्थकत्वं वा ? पूर्वत्र निरर्थकनिग्रहस्थानापत्तिः । उत्तरत्र कालस्यैव तदर्थत्वात्तत्र कालनिषेधे स्ववचनविरोधः । अथ काले कालो नास्तीत्यविरोधं मन्येत, तर्हि सूष्टिप्रलयमध्यकालेऽपि कालाभावात्तत्रापि कालनास्तितां ब्रूयादिति कथं कालसिद्धिः ? गत्यभावान्मौनमाश्रित्य यः पूर्वं पश्चाच्च नास्तीति न ब्रूयात् तदाऽस्मन्मतं न निषेधतीति नास्माभिरुत्तरं देयम् । अथ पार्श्वस्थो यदि कश्चिद् ब्रवीति तस्याप्युक्तदोषस्सम इत्यभिप्रायेणाह – तत्को वदेदिति । “सदेव सोम्येदमग्र आसीत्”, “नासदासीन्नो सदासीत्तदानीम्” इत्यादिश्रुतिविरोधश्चात्राभिप्रेतः । “विद्याकालौ भवत्कृतौ” इत्यादिषु कालोत्पत्तिवचनं कथभित्यत्राह – आप्त इति । आप्तवाक्यस्थ इत्यर्थः । यथा निमेषादिसंवत्सरान्तजनिश्रुतिः पक्षमासादिष्वागमापायिताप्रख्यातिश्च उपाधीनां तत्संयोगादिपरिणतीनां तदभिमानिदेवतानां वा सृष्ट्या अर्थवती, तथाऽसावित्यर्थः । अन्यथा तत्रापि विरोधमाह – नो चेदिति । पूर्वापरवचनहतिः – पूर्वं परं च कालो नास्तीति वचनस्य बाध इत्यर्थः । अथवा पूर्वापरग्रन्थविरोधः, प्रलयादिकालमनूद्य हि प्रकृतिविकारास्सर्वे सृष्टिवाक्येषु प्रतिपाद्यन्ते । श्लो. कालोपश्लिष्टवेषेण ह्यभूदस्तिभविष्यतीन् । प्रयुञ्जतेऽर्थभेदेषु सदा चास्तिमनेहसः ॥ ६७ ॥ इति कालोत्पत्तिवादपरिहारः ॥
1.68 कालोऽध्यक्षावसेयः क्षणलवदिवसाद्यंशतोऽर्थान्विशिंषन् साक्षाद्धीस्तत्तदर्थेष्विव भवति हि नः कापि कालान्वयेऽपि । तत्संयोगाः परत्वादय इति च ततोऽप्येष नैवानुमेयो नो चेन्न क्वापि लोकव्यवहृतिविषयोऽव्यक्तवत्स्यादनेहा ॥ ६८ ॥
1.68 नीरूपद्रव्यस्यापि प्रत्यक्षत्वसंभवः प्रागेव साधित इति कृत्वा कालप्रत्यक्षत्वं लोकोपलब्ध्या नियमयति – काल इति ॥ अवसीयमानप्रकारमाह – क्षणेति । क्षणमयं तिष्ठतीत्यादिप्रकारेण तत्तदर्थविशेषणतयाऽवसीयत इति यावत्, अभिज्ञायां क्षणरूपेण प्रत्यभिज्ञायां दिवसादिरूपेण चेति विभागः । अनुमीयमानो विशिष्यादित्यत्राह – साक्षादिति । प्रत्यक्षप्रतीतौ विशेषणतया दृश्यमानस्य कालस्यानुमेयत्वे तत्तत्पदार्थानामपि सौत्रान्तिकोक्तनयादानुमानिकत्वं प्रसज्यत इति भावः । न चासावनुमातुं शक्य इत्याह -तत्संयोगा इति । कालमनभ्युपगच्छतां बुद्धिविशेषसंघटितसूर्यावृत्त्याद्युपाधिभिरेव वैशिष्ट्यं वस्तूनां परत्वादि । अभ्युपगच्छतां तु तत्तदुपहितकालसंयोगाः । न च तदतिरिक्तं दृष्टं कल्प्यं वा इत्यद्रव्यसरे स्थापयिष्यते । कालस्यानुमेयत्वेऽनिष्टं प्रसञ्जयति – नो चेदिति । न हि परत्वापरत्वादिभिः कश्चित्कालोऽस्तीत्यनुमाय तद्विशिष्टतया पदार्थान् व्यवहरन्ति लौकिकाः । अतः कालोऽप्यव्यक्तवच्छास्त्रैकवेद्य इति ; तद्वदेव लोकव्यवहारविषयो न स्यादित्यर्थः । नन्वस्मदादिप्रत्यक्षमप्रत्यभिज्ञारूपं वर्तमानमात्रविषयमिति सर्वसंमतम् । अतोऽस्य पूर्वापरकालविशिष्टविषयत्वमसंभवि, पूर्वापरव्यतिरिक्तं तु वर्तमानं न पश्यामः ; अतः कथं कालप्रत्यक्षत्वम् ? इत्थम् – किं भवान् वर्तमानधियमेव नानुभवति ? सतीमपि वा निर्विषयाम् ? सविषयामपि वा कल्पितविषयाम् ? न प्रथमः, इदं पश्यामीत्यादिव्यवहारोच्छेदप्रसङ्गात् । अत एव न द्वितीयः, अस्वविषयधियां त्वनभ्युपगमाच्च । न तृतीयः ; क्वचित्सिद्धस्यैवान्यत्र कल्प्यत्वात् ; तथा च तत्सिध्येत् । रूपादिषु दृष्टं वर्तमानत्वं काले कल्प्यतामिति चेन्न ; क्षणिकरूपादिसन्ततावपि पूर्वापरातिरिक्तवर्तमानत्वस्य त्वया दुर्वचत्वात्, अन्यथा कालेऽपि तदुपपत्तेः । कालमनिच्छतश्च ते काले कथं कल्पना ? निरधिष्ठानाऽसौ कल्पनेति चेन्न ; ईदृशकल्पनाभ्युपगमे माध्यमिकागमप्रवेशप्रसङ्गात् । स्थिरवादे तु रूपादिष्विव केनचिद्रूपेण कालेऽपि वर्तमानत्वं सिद्धम् । ननु रूपादीनां वर्तमानकालसंबन्धो वर्तमानत्वम्, नाऽसौ कालस्य स्यात् । मैवम् ; त्वयैव कालस्य वर्तमानत्वेन रूपादिवर्तमानत्वनिर्वाहात् ॥
वर्तमाननिषेधे च भवित्री विश्वनिह्नुतिः । न पतति भविष्यद्वा प्रत्यक्षविषयोऽस्ति नः ॥
वर्तमानभ्रमश्चात्र तत एव न सिध्यति । पौर्वापर्यातिरिक्ता तु दुस्त्यजा वर्तमानता ॥
अतीतागामिधीरेव वर्तमानतिर्यदि । भूतभाविसमस्ताप्त्या न शोकादिसमुद्भवः ॥
पूर्वापरत्वसंभेदे वर्तमानमतिर्यदि । त्रिकालस्थेऽपि तत्सिद्धेः क्वातीतागामिता भवेत् ॥
प्रारब्धश्चासमाप्तश्च वर्तमानो य उच्यते । व्यापारसमुदायोऽसौ विवक्षितफलावधिः ॥
तत्रापि क्षणभेदेन नष्टत्वादिविकल्पतः । वैवक्षिकमिहान्यच्च वर्तमानत्वमक्षतम् ॥
ननु सतो विनाशप्रागभाव एव वर्तमानत्वम् । तद्विशिष्टेषु पदार्थेषु दृश्यमानेषु किं सतो वाऽसतो वा कालस्य दृश्यमानतया ? मैवम् ; कालासत्त्वपक्षस्य निरस्तत्वात्, तत्सत्त्वे तु तत्साध्यानां पूर्वापरयुगपदादिव्यवहारविशेषाणां तद्यतीतिपूर्वकत्वस्य स्वरसप्राप्तत्वात् । किंचात्र सत इति वर्तमानत्वविवक्षायां कि विनाशप्रागभावोपश्लेषेण ? वर्तमानत्वमेव च वर्तमानत्वमित्युक्तं स्यात् । अथ प्रमाणसिद्धत्वादिरूपं सत्त्वम् ; तदाऽपि विनाशस्य प्रागभावः प्रतियोगिस्वरूपमेवेति तेन रूपेण योगिभिर्गृह्यमाणं त्रैकालिकमपि वर्तमानं स्यात् । अतोऽन्यदेव वर्तमानत्वम् ; तच्च कालोपश्लेषेणैव गृह्यते । वर्तमानकालोपाधिसंबन्ध एव वस्तूनां वर्तमानत्वमित्यपि न वाच्यम् ; उपाधौ तदभावादवर्तमानत्वप्रसङ्गात् ; उपाधिभिरेव सर्वव्यवहारनिर्णये किमप्रत्यक्षकालकल्पनया ? ॥ ६८ ॥ इति कालप्रत्यक्षत्वम् ॥
1.69 कालस्योपाधिभेदात्कतिचिदभिदधत्यब्दमासादिभेदं तत्तद्रूपेण कालः परिणमत इति प्राहुरेके तदा तु । ये तत्रोपाधयः स्युस्त इह परिणतिं प्राप्नुयुस्सानुबन्धाः नित्यो व्यापी च तादृक्परिणतिभिरसौ सर्वकार्ये निमित्तम् ॥ ६९ ॥
1.69 यदि नित्य एकः कालः, तस्य कथं परिच्छिन्नानेकस्वरूपत्वमित्यत्र प्रसिद्धं पक्षमाह – कालस्येति ॥ आदि-शब्देन भूतभविष्यत्त्वादेरपि संग्रहः । नित्यस्यापि कालस्य द्रव्यान्तराणामिवावस्थाभेदैस्सर्वमिदं स्यात् । अवस्थाश्चात्रोपाधिसंबन्धमात्ररूपा इति लघीयान्पक्षः । पक्षान्तरमाह – तत्तद्रूपेणेति । यादवप्रकाशैरप्यभ्युपगतोऽयं पक्षः – “कालोऽनाद्यनन्तोऽजस्रक्षणपरिणामी मुहूर्ताहोरात्रादिविभागयुक्सर्वेषां परिणामस्पन्दहेतुः इति वचनात् । अयं भावः – क्षणरूप एव कालस्य सर्वदा परिणामः ; तत्संख्याप्रकर्षतारतम्याम्मुहूर्तादिविभागः ; तत एव चाब्दादीनामाद्यन्तमयमाद्युत्पत्तिक्षणविकल्पचोद्यं निस्तीर्णम् । प्रतिपुरुषमिष्टक्षणारम्भेणाब्दादिगणनाऽपि युक्तैव । अत्र च स्वतः क्षणादिभेदानभ्युपगमे कथमुपाधिभिरपि भेदः स्यात् ? तेषां कालमात्रेण संबन्धे तद्विशेषकत्वायोगात्, तदंशेन संबन्धे तु स्वत एव कालांशभेदसिद्धेः । ननु कालविकारेष्वपि कृत्स्नैकदेशसंबन्धविकल्पदोषस्समानः ; विकारान्तरेण भेदेऽनवस्थाप्रसङ्गश्चेति चेन्न ; आश्रयैकदेशवृत्तिगुणादिन्यायेन निर्वाहादिति । अयं परिहार उपाधिसंबन्धमात्रपक्षेऽप्यविशिष्ट इत्यन्ये मन्यन्ते ।
स्पन्दसन्ततिसिद्ध्यर्थं कालस्याणुत्वकल्पनम् । आशावसानतोकानां दुराशामात्रजृम्भितम् ॥
क्रियासन्ततिवत्काले परिणामपरम्परा । किं न स्यात्स्वप्रकर्षाद्यैः परत्वादिप्रसाधिका ॥
एकाश्रयक्रियासंख्या काल इत्याप्तभाषितम् । कालोपाधिविशेषाणां सर्वेषामुपलक्षणम् ॥
अत्र परिणतिपक्षमनूद्य तत्राप्युपाधिव्याप्तिमाह – तदा त्विति । अनुबन्धाः – ऋतुलिङ्गादयः । आनन्तर्यनियमादुत्तरोत्तरकार्याणामुपाधिमूलत्वं च सिद्धम् । ऋतुलिङ्गादीनां तु न कालकार्यहेतुनियमः । ये तु शैवादयः कालमनित्यमव्यापिनं परिमितकार्यहेतुं च प्राहुः, तान्प्रत्याह – नित्य इति । क्षणाद्यंशस्यागन्तुकत्वेऽपि स्वरूपतो नित्यः । नित्यत्वं चात्र प्रध्वंसविरहमात्रम् ; न तु सर्वदा सत्ता, कालान्तराभावात् । व्यापित्वं तु क्षणतोऽपि स्यात्; सार्वत्रिकाणामपि केषांचिद्यौगपद्यसिद्धेः । नित्यत्वे प्रागेव प्रमाणं दर्शितम् । व्याप्तिश्च – “कालं स पचते तत्र न कालस्तत्र वै प्रभुः” इत्यादिभिस्सिद्धा । त्रिगुणविभूतिवत्कालप्रतिनियतविकारास्तत्र न सन्तीत्यर्थः । स्वविकाराणामुपादानतयाऽन्येषां निमित्ततया वाऽस्य सर्वहेतुत्वं “कालः पचति भूतानीत्यादिभिर्गम्यते । तदपि सर्वत्र सन्निहितस्य । ननु “अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः”, “सर्वव्यापी सर्वभूतान्तरात्मा इत्यादिषु एकस्य सर्वव्यापत्वं श्रूयते ; अतस्तद्व्याप्यस्य कालस्य कथं विभुत्वम् ? इत्थम् – न हि न्यूनदेशवर्तित्वमेव व्याप्यत्वम् ; तथा सति समव्याप्तिभङ्गप्रसङ्गात् । तर्हि तद्वदन्योन्यव्याप्यत्वमिह स्यादिति चेत्, किमत्रानिष्टं परस्परप्रवेश्यत्वाद्यनभ्युपगमात् । द्वयोरपि सर्वसंयोगित्वे वि[वादा]रोधाभावात् । अतो यत्र कालस्तत्र सर्वत्र परमात्माऽस्तीति तस्य कालव्यापकत्वम् । इदं च तस्य धर्मभूतज्ञानेऽपि द्रष्टव्यम् । परमात्म[नः]स्वरूपैकदेशे विश्वं व्यवस्यितमित्येतदपि तादृशव्यतिरिक्तविषयम् । अन्यथा तस्य ज्ञानानन्दत्वादेरपि एक-देशित्वप्रसङ्गात् । न चैवं सति सर्वजीवानां व्यापित्वेऽप्यविरोधः स्यादिति वाच्यम् ; अणुत्वश्रुत्या तत्प्रतिषेधात् इति । ननु कालतो देशतो व्यतिरेकग्रहणस्याशक्यत्वान्नित्यविभूनां कारणत्वमेव न सिध्यति, कुतस्सर्वकारणत्वमित्यनुयोगश्च धर्मिग्राहकेणैव निरस्तः । अस्ति हि लोकेऽप्युपदेशतोऽपि तत्तद्वस्तुषु कारणत्वग्रहणम् । अथ स्यात् – नियतपूर्वसत्त्वं कारणत्वम्, नियमश्चास्मिन्सत्येवेदं भवतीप्येवंरूपः ; तत्रावधारणसिद्धोऽन्यदा नास्तीत्ययमर्थो नित्येषु च विभुष्वग्रहण इति । मैवम् ; प्रसङ्गतोऽपि नियमसिद्धेः ; तथा हि । इदं सर्वकारणमिति बोधयतामयमाशयः – यद्येतन्न स्यात् सर्वं नोत्पद्येत । अतस्सर्वोत्पत्तिप्रयोजकमेतदिति ; न पुनर्यदा यत्रेदं नास्ति तदा तत्र सर्वं नास्तीति । अतस्सुष्ठूक्तं नित्य-व्यापिनः कालस्य सर्वकार्यहेतुत्वम् ॥ ६९ ॥ इति कालस्यारुच्छेदकप्रकारविभुत्वसर्वकार्यहेतुत्वानि ॥
1.70 वायुर्दोधूयते यद्यदयमुडुगणो बम्भ्रमीति द्रुतं खे तेजो जाज्वल्यते यद्यदपि (जलनिधि)न जलधिर्माधवीं दोधवीति । भूर्यद्वा बोभवीति स्थिरचरधृतये तच्च तादृक्च सर्वं स्वायत्ताशेषसत्तास्थितियतनपरब्रह्मलीलोर्मिचक्रम् ॥ ७० ॥ ॥
इति तत्त्वमुक्ताकलापे जडद्रव्यसरः प्रथमः ॥ १ ॥
1.70 प्रकृतचिन्तावर्गस्य परब्रह्मवैभवव्यञ्जकतया सार्थकत्वं प्रथयति – वायुरिति ॥ माधवीं – पृथिवीम् । “मेघोदय-स्सागरसन्निवृत्तिरित्यादिषूक्तं स्मारयति” – तच्च तादृक्चेति । यतनं – व्यापारः । सुग्रहमन्यत् ॥ ७० ॥ इति सर्वतत्त्वस्थितिप्रवृत्तीनामीश्वरेच्छायत्तत्वम् ॥
॥ इति श्रीसर्वार्थसिद्धिसमेते तत्त्वमुक्ताकलापे जडद्रव्यसरः प्रथमः ॥ १ ॥