॥ जीवसरः द्वितीयः ॥ २ ॥
यो मे हस्तादिवर्ष्मेत्यवयवनिवहाद्भाति भिन्नस्स एकः
प्रत्येकं चेतनत्वे बहुरिह कलहो वीतरागो न जातः ।
तत्सङ्घातातिरिक्तेऽप्यवयविनि कथं तेष्वसिद्धा मतिस्स्यात्
सङ्घातत्वादिभिर्वा घट इव तदचित्स्यान्ममात्मेत्यगत्या ॥ १ ॥
अथ प्रत्यगर्थे जीवस्तावन्निरूप्यते । तत्र चार्वाकेणापि दुरपह्नवं प्रमाणमाह – य इति ॥ हस्तादिवर्ष्म – हस्तादिरूपं शरीरमित्यर्थः । मम हस्तादि मम वर्ष्मेति वा पृथगुदाहर्तव्यम् । अस्ति तावदयं व्यतिरेकप्रत्ययः; तत्र न तावदेकोऽवयवोऽवयवान्तराणि ममेत्यभिमन्यते; तथाऽनुपलम्भात्, व्यवस्थापकाभावाच्च । सर्वावयवविषयश्चासौ ममकारः । न चावयविनोऽयं स्वावयवाभिमानः, तन्निरासात् । नापि सङ्घातस्सङ्घातिनोऽभिमन्यते, संसर्गस्य तदयोगात्, संसर्गिणां तु दत्तोत्तरत्वात् । एवमवयवेषु बहुष्वभिमन्तव्येष्वबाधितैकप्रत्ययविषयोऽभिमन्ता हस्तादिभ्यस्तत्सङ्घाताच्चान्य इत्यभिप्रायेणाह – स एक इति । स्मर्यते च *पिण्डः पृथग्यतः पुंसश्शिरःपाण्यादिलक्षण इत्यादि । अवयवोपचयापचयविनाशादिकालेष्वपि स एवाहमिति प्रत्यभिज्ञाविषयः कालभेदेऽप्यभिन्न इति चात्र भाव्यम् । अन्यथा पाण्याद्यवयवच्छेदे हि तदनुभूतस्मरणं न स्यात्; अन्यदृष्टस्यान्येन स्मरणायोगात् । न च तदनुभववासनासंक्रमादन्योऽपि स्मरति, मात्राद्यनुभूतस्य गर्भादिभिः स्मरणप्रसङ्गात् । न च संसर्गे वैषम्यं कल्प्यम्, नियामकाभावात् । वासनासंक्रमश्च पटादिषु मृगमदादेर्द्रव्यस्य संक्रमः । न चेह तथा, त्वयैवानभ्युपगमात् । गुणसंक्रमो न क्वचिदपि । न चात्र रुमाक्षिप्तकाष्ठन्यायः, दुःखादेरपि तथोत्पत्तिप्रसङ्गात् । कल्प्येषु च नियामकादृष्टेः ।
सर्वबोधैश्च हृत्कोशे संस्काराधानमित्यपि । न दृष्टं न च तत्कॢप्तौ लिङ्गं किमपि दृश्यते ॥
स च संस्कारकोशस्ते सङ्घातात्मा प्रतिक्षणम् । प्रचयापचयाभ्यां स्याद्भिन्नः स्मर्ताऽत्र को भवेत् ॥
प्रत्येकचैतन्यपक्षे दूषणान्तरमाह – प्रत्येकमिति । अयं भावः – बहूनां हि चेतनानां कार्यवशात्संहतानामपि परस्परमीर्ष्यासूयादयो दृश्यन्ते । नात्र कदाचिदपि तथा । मिथश्चैते किमर्थमुपकुर्युः? न तावददृष्टार्थम्; त्वया तदनभ्युपगमात् । न चैकग्रामवर्तिनामिव कार्यतोऽन्योन्यमुपकारः; क्वचिदपि देहे तादृगभिसन्धेरदर्शनात् । एक एवाहं सर्वैरवयवैर्यथार्हमधिष्ठितैः स्वात्मन उपकरोमीति सर्वेषां स्वसंवेदनसिद्धमिति । ननु स्वोपकारनिरपेक्षपरोपकर्तारः पराभ्यसूयारहिताः स्वपाण्यादयः स्वहेतुशक्त्या यदृच्छातो वा सिद्धा इत्यत्राह – वीतरागा इत्यादि । जातः कश्चिच्चेतनः, स च रागद्वेषादिरहितः, तदा सर्वप्रवृत्तिनिवृत्तिभङ्ग इति भावः । आवृत्त्याऽन्योऽप्यर्थः । जातमात्रो हि जन्तुः स्तन्यादिवाञ्छायुक्तस्तदर्थप्रवृत्त्या निश्चीयते । तदवस्थस्य च रागादयो भवान्तरीयसंस्कारोद्बोधमन्तरेण न युज्यन्ते । ततश्च देहतदंशव्यतिरिक्त आत्मेति । एवं मनुष्यादिशरीरप्राप्तिदशायामदृष्टविशेषात्पूर्वजन्मानुभवसंस्कारभेदैरेव मतिरुचिभेदाश्च युज्यन्ते । अवयविवादमन्वारुह्याप्याह – तत्सङ्घातेति । अयं भावः – अवयवगतविशेषगुणपूर्वका एव ह्यवयविनि विशेषगुणास्तद्वादिभिरिष्यन्ते । प्रत्यवयवचैतन्यं च निरस्तमेव । नन्ववयवनिष्ठं चैतन्यं सूक्ष्मवर्तित्वात्सूक्ष्मम् । अवयविनिष्ठं तु स्थूलवर्तित्वात्स्थूलम्; तदेव व्यवहारयति । मैवम्; त्रसरेणुकल्पानामपि जन्तूनां प्रवृत्तिदर्शनात्, अतोऽपि स्थूलतमानां मनुष्यमातङ्गाद्यवयवानां पृथक् स्वधीपूर्वप्रवृत्तिप्रसङ्गात् । न च मनुष्याद्यवयवेषु चैतन्यमनुद्भूतमिति वाच्यम्, अनुद्भूतैरुद्भूतारम्भायोगात् । यत्तु सूत्रितं सुरगुरुणा * पृथिव्यापस्तेजो वायुरिति तत्त्वानि, तेभ्यश्चैतन्यं किण्वादिभ्यो मदशक्तिवदिति; इदमपि प्रत्येकसमुदायादिविकल्पदोषोक्त्या दत्तोत्तरम् । अस्ति हि प्रत्यवयवं किण्वादीनां संसर्गविशेषे मदशक्तिः, अम्लकर्पूरादिषु विषशक्तिश्च । एतेन चूर्णहरिद्रासंसर्गजरागादयोऽपि निरूढाः । ननु चैतन्यमिति न कश्चिद्गुणः यस्याधारोऽपेक्ष्यः; किंतु याऽसौ युष्माकं चैतन्यसामग्री सैव चैतन्यपदार्थस्स्यात्; व्याहारव्यवहारयोस्तयैवोपपत्तौ मध्ये गुणविशेषकल्पने गौरवादिति; तन्न, तस्याः प्रत्यक्षत्वायोगात् । प्रत्यक्षाप्रत्यक्षसमुदायो हि सर्वत्र सामग्री । प्रत्यक्षश्च जानामीति बोधः । न च तद्धीरानुमानिकी, त्वया कथमप्यतीन्द्रियानुमानानभ्युपगमात्; प्रवृत्तिरहितदशायामपि जानामीति धीसद्भावाच्च ।
देहधातुविशेषो वा विकासो वाऽस्य कश्चन । ज्ञानमित्यपि वक्तुं ते न युक्तं तददर्शनात् ॥
हृदयस्थः पित्तविशेषः प्रकाशक इति वैद्यागमस्त्वन्यपरः । ये तु लोकायतमित्यत्रायतशब्दविवक्षितमनुमानमपि प्रत्यक्षान्तर्भावेण तत्फलतया वा गृह्णन्ति, तान्प्रत्यनुमानान्यप्याह – सङ्घातत्वादिभिरिति । तदिति वर्ष्मपरामर्शः । अचित् – न चैतन्याश्रय इत्यर्थः । विमतमचेतनं सङ्घातत्वाद्घटवत् । आदिशब्देन बाह्येन्द्रियग्राह्यत्वाच्चाक्षुषत्वाद्भूतत्वाद्रूपवत्त्वादित्यादीनां ग्रहणम्; तथा विगीता धीश्चैत्रव्यतिरिक्तविषया, धीत्वात्, मैत्रधीवत् इति । न चैषां प्रत्यक्षबाधः शङ्क्यः; देहात्मबोधस्यान्यथासिद्धिसंभवात् व्यतिरेकधीप्राबल्याच्च । ननु भेदधीबलादेषां प्रत्यक्षविरोधः परिजिहीर्षितः; सा तु न भेदसाधिका; ममात्मेत्यभेदेऽपि तद्दृष्टेरित्यत्राह – स्यादिति । अयं भावः – मम हस्तः, शरीरमित्यादिप्रत्ययाः मम गृहमित्यादिवद्व्यक्तव्यतिरेकाः । ममात्मेति धीस्तु घटस्य स्वरूपमितिवदभेदेऽपि निर्दिष्टविशिष्टांशनिष्कर्षगोचरतया तन्मात्रभेदस्थापिकाऽगत्या स्वीकृता, नान्यत्रापि, अतिप्रसङ्गादिति ॥ १ ॥
2.72 स्याद्वाऽसौ चर्मदृष्टेरयमहमिति धीर्देह एवात्मजुष्टे
निष्टप्ते लोहपिण्डे हुतवहमतिवद्भेदकाख्यातिममूला ।
श्रुत्यर्थापत्तिभिश्च श्रुतिभिरपि च नस्सर्वदोषोज्झिताभिः
देही देहान्तराप्तिक्षम इह विदितस्संविदानन्दरूपः ॥ २ ॥
अथ स्यात् – अस्ति तावत् स्थूलोऽहं जानामीत्यादिधीः । तत्र स्थौल्यं शरीरस्थं ज्ञानादिकं तदन्यनिष्ठमिति दुर्विवेचम् । ममेति भेदधीश्च नाभेदधियं बाधितुमर्हति, अविशेषात् । अनुमानानि च वह्न्यनुष्णत्वानुमानवत्स्युः । तत्र निषेध्यं ह्युष्णत्वं वह्नावेव सिद्धमिति चे[द]त्तत्रापि निषेध्यं चेतनत्वं देह एव ग्राह्यम् । न च प्रत्यक्षप्रतिपन्ने वादिविमतिमात्राद्बाधकानुमानावकाशः, अतिप्रसङ्गात् । विप्रतिपत्त्या सन्देहः, सन्देहे न्यायप्रवृत्तिस्स्यादिति चेन्न; दृष्टे कस्मिंश्चिद्विगायति वह्नावनुष्णत्वानुमानप्रसङ्गात् । एतेन शास्त्रतोऽतिरिक्तबोधात्सन्देहः, ततश्चानुमानमिति निरस्तम् । तत्प्रामाण्यव्यवसायाव्यवसाययोरत्र सन्देहानुदयात्, सन्दिग्धशास्त्राद्दृढप्रत्यक्षं हि बलीयः । अन्यथा अग्निरनुष्ण इति कस्यचिद्वाक्येनापि सन्देहेऽनुष्णत्वानुमानस्य निर्बाधत्वप्रसङ्गात् । ऐक्यभेदधीभ्यामेव सन्देह इति चेन्न; अग्नेर्ज्वालेति भेदधियाऽग्नेरुष्णत्वेऽपि केनचिद्धेतुना ज्वालानुष्णत्वानुमानप्रसङ्गात् । साङ्ख्याद्युक्तान्यनुमानानि त्वत्साधकतमानि । पठन्ति हि ‘सङ्घातपरार्थत्वात्’ इति । अत्राद्ये पत्यादिशरीरार्थैर्भार्यादिशरीरैस्सिद्धसाधनता । न च तावदतिरिक्तं खट्वादिदृष्टान्तेऽपि दृष्टम् । स्वाभिमतात्मपारार्थ्यसाधने त्वप्रसिद्धविशेषणः पक्षः । दृष्टान्तश्च साध्यविकलः । खट्वादौ च संहतपरार्थत्वनियमदृष्ट्या तत्रापि संहतः परः प्रसज्येत । अनवस्थाभयात्तस्यासंहतत्वकल्पनाद्वरं शरीरस्यानन्यार्थत्वकल्पनम् । एवमधिष्ठेयत्वभोग्यत्वाभ्यामधिष्ठातृभोक्तृकल्पनं चायुक्तम्; स्वाभिमतात्माधिष्ठेयत्वभोग्यत्वयोस्सर्वत्रासिद्धेः, साध्याविशेषाच्च । अधिष्ठेयत्वादिमात्रे हेतावाकारभेदेन स्वेनैव स्वस्य तदुभयसंभवात् । अधिष्ठेयत्वं हि कस्यचिद्व्यापारेण व्यापार्यत्वम् । तच्च स्वस्य परस्य चेति न विशेषः । भोग्यत्वमप्यनुकूलबुद्धिविषयत्वम् । तच्च स्वेनैव स्वस्य देहातिरिक्तत्वेऽप्यनुमतम् । यच्चाहुः – ‘नेदमनात्मकं जीवच्छरीरम्, अप्राणादिमत्त्वप्रसङ्गात्’ इति; तत्र जीवच्छरीरं सात्मकं प्राणादिमत्त्वादिति प्रसङ्गानुग्राह्यः प्रयोगः । तस्मिन्नप्रसिद्धविशेषणः पक्षः, त्वदिष्टस्यात्मनः क्वचिदप्यसिद्धेः । आत्मशब्दवाच्ययत्किंचिद्योगविवक्षायां स्वभावयत्नादियोगात्सिद्धसाधनता । किंचानेनैव हेतुना जीवच्छरीरं खपुप्पवदित्यपि साधयन्नपि दुर्वारः स्यात् । अप्रसिद्धसाधनस्याभ्युपगमात् । अस्ति किंचित्खपुष्पा [दि] शब्देनोपस्थाप्यं तदेवात्मेति चेन्न; असत आत्मत्वसाधनायोगात् । यत्किंचिन्मात्रस्य साधने च सिद्धसाधनता, विवक्षितविशेषस्य दुस्साधत्वात् । अपि च सर्वेषु वस्तुषु तत्तदसाधारणधर्मेण सात्मकत्वं साध्यं स्यात्, विपक्षे तत्तदसाधारणधर्मविरहप्रसङ्ग इत्यनुग्राहकसिद्धेश्च । अनुपलम्भबाधादिकं तु समानम् । अतोऽनन्याधिष्ठितस्वयंवाहकयन्त्रन्यायाद्विचित्रभूतपरिणतिविशेषसंभवोऽयं देहयन्त्र इति । अत्र प्रत्येकसमुदायादिविकल्पादौऽस्थ्यादिप्रगुक्तप्रबलबाधकप्रतिक्षिप्तेऽपि पक्षे गाढाभिनिवेशस्य सोपपत्तिकं भेदबुद्धेरनुमानानां च बलीयस्त्वं पुनरनुद्घाटयन्निष्कम्पामैक्यधियमन्वारुह्य मानान्तरेण बिबाधयिषुः परेष्टं तद्बलमन्वाह -स्याद्वेति ॥ अन्यथासिद्धिसूचनाय चर्मदृष्टेरिति मौढ्यपरम् । अयमिति गुणक्रियादिविशेषविशिष्टपिण्डावमर्शः । संसर्गविशेषादयं भ्रम इति बोधयितुमात्मजुष्टत्वोक्तिः । तन्निदर्शनेन शोधयति – निष्टप्त इति । संसर्गजत्वात्संभावितान्यथासिद्धिकमैक्यप्रत्यक्षं शास्त्रेण बाधितुं शक्यमित्याशयः । संसृष्टेष्वपि सर्वत्र कथं न भ्रम इत्यत्राह – भेदकेति । यत्र हि सामग्री तत्र कार्यं स्यादिति भावः । नन्वैक्यधीरिह दृष्टा, तदन्यथासिद्धिस्तु शङ्किता; नैतावता विवक्षितसिद्धिरित्यत्राह – श्रुतीति । श्रुत्या भाविता अर्थापत्तयः श्रुत्यर्थापत्तयः, ताभिः; श्रुतार्थापत्तिभिरिति यावत् । सन्ति हि देहान्तरानुभाव्यस्वर्गस्वाराज्यादिसाधनविधायिन्यो यमनरकादिप्रापकश्रुतयश्च । न च तत्रानाश्वासः, श्रुतिप्रामाण्यस्थापनात् । अतोऽर्थादापद्यते देहान्तरानुयायी भोक्ताऽस्तीति । पश्वादिदृष्टफलसाधनविधयश्च तत्तत्फलोपायदशानुवृत्तभोक्तृसापेक्षाः । नचात्र सङ्घातस्य भोक्तृत्वम्; उपायसाधकसङ्घातस्योपचयादिना भिदुरस्यानुवृत्त्यसंभवात् । अहमुपायानुष्ठाता तत्फलं भुञ्ज इति च स्वरूपतः कालतश्चाभिन्न एकः प्रतिसन्धीयते । मुक्त्युपायविधयश्च सर्वबन्धनिवृत्तिवदात्मस्थित्याक्षेपकाः । देहात्मभेदं कण्ठोक्त्याऽप्याह – श्रुतिभिरपीति । चः श्रुतिवदनन्ताः स्मृतीस्समुच्चिनोति । स्वतःप्रामाण्ये प्राप्ते बाधकासंभवार्थं सर्वदोषोज्झितत्वोक्तिः । ‘देही नित्यमवध्योऽयम्’, ‘वासांसि जीर्णानि’ इत्यादिस्मारणाय देहीत्यादिकथनम् । व्यावर्तकधर्मवर्गप्रदर्शनार्थं संविदानन्दरूपतोक्तिः । रूपशब्दः स्वरूपपरः, निरूपकधर्मपरो वा ॥ २ ॥ इत्यात्मनो देहातिरेकः ॥
2.73 बाह्याक्षेभ्योऽन्य आत्मा तदखिलविषयप्रत्यभिज्ञातुरैक्यात्
कर्तुः स्मृत्यादिकार्ये करणमिति मनो मानसिद्धं ततोऽन्यत् ।
प्राणास्तङ्घातरूपा वपुरुदितनयान्न ध्रुवं चेतयन्ते
ज्ञानं च ज्ञातृधर्मः क्षणिकमपि च वस्तेन नास्यात्मभावः ॥ ३ ॥
ये पुनरेवमाहुः – चक्षुराद्यन्वयव्यतिरेकानुविधायिरूपादिज्ञानं तन्निष्ठमेवोचितम् । व्यपदिशन्ति च चक्षुः पश्यतीत्यादि; तथा स्पर्शनसुखो वायुः, श्रवणकटुश्शब्द इति । इन्द्रियेषु च विकलेषु विकलोऽहमिति धीर्जायते, सकलेष्वन्यथा; परस्परानुभूतार्थप्रतिसन्धानमपि संस्कारवैचित्र्यात्; तच्चैकशरीरानुप्रवेशायत्तम् । अतो हेत्वादिप्रतिसन्धानमपि सिद्धम् । अहं पश्याम्यहं शृणोमीत्याद्यपि सर्वेषामिन्द्रियाणामहमर्थत्वात्सिद्धम् । पञ्चानामपि व्यवहारहेतुभूतं मुखं प्रवृत्तिकारणं शरीरं च साधारणम् । तेनैक एवायं व्यवहरतीति लौकिकावगमः । अनुमानमपि – चक्षू रूपग्रहणाधिकरणम्, चक्षुष्ट्वात्, यन्नैवं तन्नैवं यथाऽन्यदिति । एवं श्रोत्रादिष्वपीति । तान्प्रत्याचष्टे – बाह्याक्षेभ्य इति ॥ पाण्यादिषूक्तां प्रतिसन्धानानुपपत्तिमिन्द्रियेष्वपि दर्शयितुमाह – तदखिलेति । तेषां चक्षुरादीनां प्रतिनियता विषया रूपादयः । अखिलानां तेषां प्रतिसन्धाता त्वेकः, योऽहं द्रष्टा स ख शृणोमीति । भ्रान्त्या यत्तच्छब्दाभ्यां द्वयोरेकीकार इति चेन्न; द्वयोरप्येकवदेकत्वमोहायोगात्; अन्यस्य मुह्यतोऽनभ्युपगमात् । एकश्चाहं बहुभिरिन्द्रियैरनुभवामीति भेदेन चेति । न च कस्यचिदहं चक्षुरित्यादिधीः, स्थूलोऽहमित्यादिदेहात्मबुद्धेश्चेन्द्रियात्मवादेऽपि दुस्त्यजत्वाद्वरमिह देहात्मवादः । रूपादिज्ञानस्य चक्षुराद्यन्वयव्यतिरेकानुविधानं तत्करणतयाऽपि स्यात् । तथा चाभिमानः चक्षुषा पश्यामि श्रोत्रेण शृणोमीति । अत एव चक्षुः पश्यतीत्यादिकं भाक्तम् । वैकल्यादिधीश्च चक्षुषा विकलोऽहमित्यादिरूपा; नतु चक्षुरहं नास्मीति, विरोधात् । नहि नष्टमिन्द्रियं स्ववैकल्यमनुसन्धत्ते, असत्त्वात् । नाप्यन्यत्, तस्यावैकल्यात् । अन्यथा तत्रापि विरोधात् । यदि परमिन्द्रियान्तरविरहमिन्द्रियान्तराण्यनुसन्दधीरन्; तथाऽपि गतस्येन्द्रियस्य नाहमर्थत्वसिद्धिः । अन्यथा पाण्यादिविकलोऽहमिति बोधेऽपि पाण्यादीनामात्मत्वप्रसङ्गात् । न चेन्द्रियमिन्द्रियान्तरसदसद्बोधक्षमम्; तस्य तदप्रत्यक्षत्वात् । अनुमानतोऽपि बोद्धुस्तस्य रूपाद्यनुपलम्भात्तद्बोधककरणाभाव एवानुमेयः । ततश्चैक एव तत्तत्करणाधीनरूपादिग्रहणोऽहमर्थस्सिद्धः । मिथोऽनुभूतप्रतिसन्धानार्थं च संस्कारवैचित्र्यं किमिति चिन्त्यम् । यद्यात्मान्तरेषु स्मृत्युत्पादनशक्तिः, तन्न; सर्वेषु तत्प्रसङ्गात् । तच्छरीरवर्तिष्विति चेन्न, औदरक्रिम्यादिष्वपि तत्प्रसङ्गात् । शरीरान्तरवर्तित्वात्तत्र न प्रसङ्ग इति चेन्न; भिन्नावयवस्थित्याऽपि प्रतिसन्धानाभावप्रसङ्गात्; सन्निधानस्य चाविशेषात् । संस्काराणां सर्वेन्द्रियसाधारणहृत्कोशवर्तितया शरीरैक्याच्च विशेष इति चेन्न; त्वदिष्टसंस्कारकोशे मानाभावात्, अनेकेषामहमर्थानामेकशरोरयोगे च । ततश्च वरं यथोपलम्भमेकस्मिन्नहमर्थे सर्वैस्संस्काराधानम् । न चोपदेशचेष्टाभिर्मिथो बोधनेनान्योन्यसंस्कारार्पणम्, अदर्शनात् । अविचारितरमणीयोऽयं पञ्चानां परस्परसंस्कारादिलाभ इति, तत्त्वादृशेष्वेव वक्तव्यम् । यदपि शरीराद्यैक्यादेकत्वावगम इति; स किं तत्रत्यानामेव? अन्येषां वा? नाद्यः, परस्परानभिज्ञत्वात्; अनुमानतस्तु भिन्नतयैव सिद्धेः; चक्षुःश्रोत्रादिरूपोऽहमिति भ्रमादर्शनाच्च । न द्वितीयः, स्वशरीरसिद्धप्रकारेण परशरीरेऽपि बहुत्वानुमानात् । केवलव्यतिरेकिभिरिन्द्रियाणां ज्ञातृत्वाद्यनुमानमतिप्रसङ्गाद्यनेकदोषोपहतम् । ततश्चैकस्यैव सर्वग्रहणाधिकरणत्वे त्वस्मन्मते कः प्रद्वेषः? अन्धबधिराद्यभावश्च स्यात्; ज्ञातुर्ज्ञानकरणतयैव चक्षुरादीनां सिद्धेस्तद्विपरीतानुमानानां धर्मिग्राहकबाधश्चेति । अस्तु देहाच्चक्षुरादिभ्यश्चात्माऽन्यः । स तु मन एव स्यात्, देहादेरन्यत्वात् एकत्वेन प्रतिसन्धानोपपत्तेः; असङ्घातरूपत्वेन प्रत्येकादिविकल्पानवकाशाच्च । तदतिरिक्तात्मकॢप्तौ तु गौरवम् । अतो मम मन इति भेदोक्तिः क्लिष्टगत्येति । तत्राह – कर्तुरिति । अयं भावः – किमत्र स्मृत्यादिकरणस्य मनसस्तत्कर्त्रा तादात्म्यं साध्यते? तेन वा कर्तुः? न तावदाद्यः, ततोऽन्यतयैवानुमानतश्शास्त्रतो वा तत्सिद्धेर्धर्मिग्राहकबाधात् । अत एव न द्वितीयः, स्वस्य स्वयमेव स्मृत्यादिकरणमित्यत्र मानाभावाच्च । करणमङ्गीकृत्य कर्तृनिरासः क्रियत इति चेन्न; ज्ञातृमात्रापह्नवे मनसोऽपि ज्ञातृत्वाभावप्रसङ्गात्; तदन्यज्ञातृनिरासे कल्प्येन कॢप्तत्यागायोगात् । अथ कर्तारमङ्गीकृत्य करणत्यागः, तदा मनस आत्मत्वं न साधितं स्यात् । किंतु तस्यासत्त्वम्; तच्च तद्ग्राहकमाने सति न शक्यमिति । अन्यस्त्वाह – प्राणाधीना देहेन्द्रियमनसां प्रवृत्तिः । आत्मशब्दश्च प्राणे दृष्टः, प्राणशब्दश्चात्मनि । प्राणस्थितिगमनाभ्यां च जीवति म्रियत इति व्यवहारः । सुषुप्तावुच्छ्वासनिश्वासप्रवृत्तौ सत्यामपि सामग्र्यभावाद्बोधाभावः । मम प्राणा इत्येतदपि कथंचिन्नेतव्यमिति । अत्र देहात्मवादे निदर्शितान् दोषानतिदिशति – प्राणा इति । अधिकाशङ्का तु, ‘प्राणोऽस्मि प्रज्ञात्मा इति श्रुतिस्वारस्यात् । परिहारदार्ढ्याभिप्रायेण ध्रुवशब्दः । देहादिव्यापारहेतुत्वमनैकान्तिकम् । आत्मप्राणशब्दयोर्व्यतिहारोऽनेकार्थतया स्यात् । प्राणस्थित्यादौ जीवतीत्यादिव्यवहार आत्मान्यत्वेऽप्यविरुद्धः । प्राणोऽस्मीति तद्वैशिष्ट्यपरम् । एवमन्यपरवाक्यान्तरैरपि वायुस्वरूपत्वमात्मनो न शङ्क्यम् । सांख्ययोगिमतं तु बहिष्कार्यमेव । अन्ये तु मन्यन्ते – न देहेन्द्रियादिकं भोक्तृ, न च नित्यः कश्चिदन्यः, सुषुप्त्यादौ तेषां भोक्तृत्वादृष्टेः । सति ज्ञाने भोक्तृत्वमिति चेत्तर्हि तस्यैव तदस्तु, किमन्तर्गडुभिरन्यैः? तस्य च भोक्तृत्वमनुकूलप्रतिकूलविषयावगाहित्वम् । तच्च यदृच्छावैचित्र्यादिति नादृष्टाद्यपेक्षा । नच सुषुप्त्यादौ निर्विषयधीसन्ततिसद्भावे किंचिन्मानम्, प्रबोधारम्भसामग्रीवैचित्र्याद्यदृच्छयैव वा जागराद्यज्ञानोपपत्तेरिति । बौद्धास्तु ग्राहकाभिमानारूढोऽनादिधीसन्तान एवात्मा, अहं जानामीत्यादिबोधस्त्वालयविज्ञानवशादाश्रयकल्पनया वा स्यात्; अतिरिक्तस्तु बाधितत्वादनादेय इत्याहुः । तदेतन्मतद्वयं तन्त्रेण निरस्यति – ज्ञानमिति । संविदधीना हि सर्ववस्तुव्यवस्था । ज्ञानं च ज्ञातृधर्मतयैव वेद्यते । नच ज्ञानस्य भोक्तृत्वम् । अनुकूलप्रतिकूलविषयावगाहेऽपि तस्य भोगात्मकत्वं सिध्येत् । मम भोग इति मन्यमानस्तु ज्ञातैव भोक्ता । आनुकूल्यादिकं हि तदपेक्षयैव, उपलम्भविरुद्धकल्पनायोगात् । आलयविज्ञानकॢप्तिश्च निष्प्रमाणिका । उपलब्धस्य च बोद्धुः कुतो बाधः? धर्मधर्मिभावायोगादिति चेन्न; आदावेव तत्साधनात् । प्रत्यभिज्ञातुरेकस्यासंभवादित्यप्ययुक्तम्; क्षणभङ्गादेरपि निरस्तत्वात्; ज्ञानेतरमिथ्यात्वं च निरसिष्यते । अनुपलम्भस्तु बाधकः स्वस्य चेदसिद्धः, परस्य त्वबाधकः, अन्यथा धीसन्ततिभेदादेरप्यसिद्धिप्रसङ्गात् । बुद्धेस्त्वात्मत्वानुमानमिन्द्रियादेरिवायुक्तम् । ननु वर्तमानक्षणमात्रविशिष्टतयाऽऽत्मोपलभ्यते, पूर्वापरकालतदुपाध्यादीनामप्रत्यक्षतया तद्विशिष्टवस्तुप्रत्यक्षत्वायोगात्, अन्यथा परभागस्थितवह्निनाऽपि पर्वतस्य विशिष्टोपलम्भप्रसङ्गेऽनुमानादिप्रमाणभङ्गः स्यादिति; तदप्यसत् । प्रत्यभिज्ञायाः प्राक्कालविशिष्टग्रहणस्य दर्शितत्वात्, नित्यत्वादीनामपि तत्तत्प्रमाणैरुपस्थापनात् । नच नित्योऽहमित्युपलम्भे सर्वकालोपाधिप्रत्यक्षत्वप्रसङ्गः; प्रमाणसिद्धिमात्रेण तथा व्यवहारात्, इष्टं चैतदन्यत्रापीति ॥ ३ ॥ इत्यात्मन इन्द्रियाद्यतिरेकः ॥
2.74 धीर्नित्या यस्य पक्षे प्रसरति बहुधाऽर्थेपु सैवेन्द्रियाद्यै-
स्तेनात्माऽजागलस्थस्तन इव किमिह स्वीक्रियेतेति चेन्न ।
कल्प्यं चेदात्मतत्त्वं कथयितुमुचितं लाघवं तत्र युक्त्या
नित्या सा यस्य तद्वानपि निगममितो गौरवं नास्य भारः ॥ ४ ॥
मा भूदस्थिरज्ञानानां प्रतिसन्धानाद्यनर्हत्वादात्मत्वम् । यस्यात्मवत्तद्धर्मभूता धीर्नित्या, सा प्रसरणभेदैस्तत्तदर्थान्प्रकाशयतीति पक्षः; तस्य किं तदाश्रयभूतेन नित्यात्मनेति चोद्यमनूद्य प्रत्याह – धीरिति ॥ धीतद्वन्तौ, तावत्पृथगदृष्टौ । तत्र ‘न विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यते’, ‘तथा हेयगुणध्वंसात् इत्यादिभिर्द्वयोरपि नित्यत्वं यस्य सिद्धं तस्य कल्पनागौरवरूपो भारो नास्तीत्यर्थः ॥ ४ ॥ इति नित्यबुद्ध्यतिरिक्तात्मसिद्धिः ॥
2.75 ज्ञानत्वं वक्ति पुंसः श्रुतिरिह न पुनर्बुद्धिमात्रस्य पुंस्त्वं
प्रत्यक्षादेः प्रकोपादनुगतकथने ज्ञानमर्थप्रकाशः ।
स्वस्यैवात्मा तु सिद्धिं मतिरनुभवति स्वान्ययोस्सिद्धिभावं
ज्ञातुर्जाड्यप्रसङ्गव्युदसनविषया ज्ञानमात्रोक्तयोऽपि ॥ ५ ॥
ननु ‘द्रष्टा श्रोता इत्यारभ्य ‘विज्ञानात्मा पुरुष’ इत्यादिषु जीवस्य ज्ञानस्वरूपत्वं श्रूयते; अतस्तस्य ज्ञानादतिरेको दुस्साध इत्यत्राह – ज्ञानत्वमिति ॥ न ह्यत्र स्वधर्मतादात्म्यं विधीयते, अशक्यत्वात् । किंतु धर्मवद्धर्मिणोऽपि विज्ञानात्मत्वं नाम धर्मान्तरमुपदिश्यते । ज्ञानानुवादेनात्मत्वस्य विधिः स्यादित्यत्राह – पुनरिति । अन्यथा बाधकमाह – प्रत्यक्षादेरिति । आदिशब्देनानुमानशास्त्रयोस्संग्रहः । ज्ञानत्वविधानेऽपि तद्विरोधस्स्यादित्यत्राह – अनुगतेति । कस्यचिदर्थस्य प्रकाशरूपत्वमुभयत्रानुवृत्तं ज्ञानशब्दनिमित्तं तद्विधौ न विरोध इत्यर्थः । अर्थप्रकाश इत्युक्तं विषयतो विभजते -स्वस्येति । स्वासाधारणेन केनचित्स्वभावेन विशिष्ट इह स्वशब्दार्थः । धर्मभूतज्ञाने तु तावदतिरिक्तग्राहित्वं विशेषमाह – मतिरिति । ‘विज्ञानघन एवेत्यादिभिर्ज्ञानमात्रत्वोक्त्या ज्ञातृत्वनिषेधात्कथमुभयत्रानुवृत्तधर्मकॢप्तिरित्यत्राह – ज्ञातुरिति । नात्रावधारणमन्ययोगव्यवच्छेदार्थम्; किंतु ‘विज्ञानघन इत्यादि पूर्ववाक्यपरामर्शादंशतोऽपि ज्ञानत्वायोगव्यवच्छेदपरमिति भावः ॥ ५ ॥ इत्यात्मनो ज्ञानमात्रत्वोक्तिनिर्वाहः ॥
2.76 आत्मा स्वेनैव सिध्यत्यहमिति निगमैर्यत्सवयंज्योतिरुक्तः
स्वापेऽप्यस्य स्वसिद्धावशयिषि सुखमित्यक्षता प्रत्यभिज्ञा ।
चेतश्चान्यानपेक्षं मतिषु न हि भवेत्किं च वेदान्तदृष्ट्या
ज्ञानत्वादेष धीवत् स्वविषयधिषणानिर्व्यपेक्षखसिद्धिः ॥ ६ ॥
सिध्यतु देहादिभ्योऽन्य आत्मा; स कथमनन्यसाधनः? स्वानुभवबलादिति चेन्न; धर्मतोऽपि तदुपपत्तेः । आत्मत्वादित्यनुमानादिति चेन्न; युष्माभिः केवलव्यतिरेक्यनभ्युपगमात्, ज्ञानस्य च सपक्षस्याभ्युपगमात् । स्वयंज्योतिष्ट्वश्रुतेरिति चेन्न; ज्योतिश्शब्दस्यात्र भाक्तत्वात् । चक्षुस्सहकारिणि तेजोविशेषे हि तन्मुख्यता । ‘स्वेन रूपेणाभिनिष्पद्यते इति त्वौपाधिकरुपनिवृत्तिपरम् । इष्टं च भवतामपि स्वधर्मेणात्मनो भानम् – तावतैवान्यत्रादृष्टेन स्वयंप्रकाशत्ववादोऽस्त्विति । एतत्प्रत्याह -आत्मेति । एवकारोऽत्र परप्रकाश्यत्वनियमनिवृत्तिपरः । यद्यहंत्वादिरहितः स्वयं प्रकाशते, तदा परमतं स्यादित्यत्राह – अहमिति । अहमर्थं आत्मेति सेत्स्यति; अतस्तत्प्रकाशे कथं परेष्टावकाश इति भावः । प्रतिज्ञाते मानमाह – निगमैरिति । बहुवचनेन ज्ञानत्ववादिनोऽपि निगमास्तत्परा इति व्यज्यन्ते । यद्यपि ‘हृद्यन्तर्ज्योतिः पुरुष इत्यत्रापि ज्योतिश्शब्दो भाक्तः; तथाऽपि स्वप्रकाशे प्रदीपादिवल्लोकदृष्ट्याऽन्यनिरपेक्षत्वं स्वरसावगतं न बाध्यम् । स्वधर्मेणान्यप्रकाशकत्वमुपचारनिमित्तं स्यादिति चेन्न; बाह्यज्योतिषि स्वधर्मनिरपेक्षप्रकाशस्यापि स्वतःप्रतीतेः । स्वधर्मेण भासमानत्वमेव ज्योतिश्शब्दोपचारनिमित्तमिति चेन्न; बाह्ये तदभावात् । स्वधर्मतः प्रकाशकत्वं च, ‘योऽयं विज्ञानमयः प्राणेषु इति पदान्तरसिद्धतया पुनरुक्तं स्यात् । उपचारनिमित्तव्यञ्जनमात्रं पदान्तकृत्यमिति तु मन्दम् । स्वयंप्रकाशत्वे सुषुप्त्यादावपि प्रकाशेतेत्यत्राह – स्वापेऽपीति । अयंभावः – प्रत्यभिज्ञाबलात्सुषुप्तावप्यहमर्थोऽस्तीति सिद्धम् । श्रुतिस्वारस्याच्च प्रकाशमानत्वमपि ग्राह्यम् । तथा च सुखमहमस्वाप्समिति प्रबुद्धपरामर्शस्वारस्यं च न बाध्यमिति । ननु यदि सुषुप्तावात्मा प्रकाशते तन्मनसैवास्तु कृतं स्वप्रकाशत्वेनेत्यत्राह – चेत इति । अयं भावः – बाह्यविषयेषु तावच्चक्षुरादीन्यनुमानागमसंस्कारान् वा संगृह्य प्रवर्तते, आत्मनि च तत्तदुपहितं जनितं वा किंचिदुपधायैव; स्वापे तु दृष्टविरुद्धमनोवृत्तिकल्पनाद्वरं श्रुतिस्वारस्यानुरोध इति । अनुमानरुचीनां तदप्यस्तीत्याह – किं चेति । वेदान्तदृष्ट्येति ज्ञानत्वहेतोरसिद्धिपरिहारः । ज्ञानस्य स्वप्रकाशत्वं साधयिष्यत इति तद्दृष्टान्तोक्तिः ॥ ६ ॥ इत्यात्मनः स्वयंप्रकाशत्वम् ॥
2.77 प्रत्यक्त्वं पुंसि केचित् स्वविषयधिषणाधारतामात्रमाहुः
स्वस्मै स्वेनैव भानं तदिति समुचितं तत्स्वतस्सिद्धिसिद्धेः ।
प्रत्यङ् स्वापेक्षयाऽसौ त्वमयभिति मितः स्वेतरैः स्वस्य बुद्ध्या
भातं नित्यं परस्मै जडमजडमपि स्यात्परागर्थ एव ॥ ७ ॥
‘कश्चिद्धीरः प्रत्यगात्मानमैक्षत् इत्यादावात्मनः प्रत्यक्त्वं गम्यते । तत्किमिति विमर्शे प्रत्येतुः प्रत्येतव्यादव्यतिरेक इति कैश्चिदुक्तं तावदाह – प्रत्यक्त्वमिति । स्वप्रकाशपक्षे तु प्रत्यक्त्वद्वैविध्यमाह – स्वस्मा इति । यदि प्रत्यक्त्वमात्मनः स्वभावः, तदा परेणापि गृह्यमाणोऽहमिति गृह्येतेत्यत्राह – प्रत्यङ्ङिति । स्वेतरबुद्ध्या गृह्यमाणत्वं न स्वस्मै भासमानत्वम् । अतस्तद्बुध्या गृह्यमाण आभिमुख्ये त्वमिति, अन्यदा अयमिति च गृह्येत । स्वापेक्षया तु स्वबुद्ध्या स्वरूपेण वा भासमानतया प्रत्यङ्ङित्युच्यते । तेन रूपेणाहमर्थ इति दृशा अहं त्वं च सर्वात्मानुवृत्तम् । त्वंभावादिना तु न तस्य बाधः । तर्हि तत्र पराक्छब्दोऽपि किं न प्रवर्तत इत्यत्राह – भातमिति । जडमजडं वा यन्नित्यं परस्मै भासते तत्परागर्थ एव । न तस्य स्वस्मै भासमानत्वप्रसङ्गः । व्यपदेशनियमश्च तत एवेति ॥ ७ ॥ इति प्रत्यक्त्वादिप्रकारः ॥
2.78 बोद्धा कर्ता च भोक्ता दृढमवगमितः प्रत्यगर्थः प्रमाणैः
कर्तृत्वाभाववादे स्वयमिह भगवानान्यपर्यं त्वगायत् ।
कर्ता शास्त्रार्थवत्त्वात्कृतिषु च स पराधीन आभाषि सूत्रै-
श्चित्रैः कर्मप्रवाहैर्यतनविषमता सर्वतन्त्राविगीता ॥ ८ ॥
अत्र केचिदाहुः – ज्ञातृत्वादिकमन्तःकरणस्यैव; आत्मनस्तु साक्षितामात्रम् । यद्वा प्रकृतेः कर्तृत्वम्, आत्मनो भोक्तृत्वमात्रम्; गीतं चैतत् ‘कार्यकारण’ इत्यादिनेति । तान्प्रत्याह -बोद्धेति ॥ त्रिभिरपि प्रमाणैर्ज्ञातृत्वादिप्रकारत्रयवानात्मा निस्संशयं बोधितः; अतो न तत्रैकमपि निह्नोतुं शक्यम्, किं पुनस्त्रितयम् । कुतर्कैस्तु किं नाम दुरपलपमिति भावः । शास्त्रैरात्मनः कर्तृत्वनिषेधे का गतिरित्यत्राह – कर्तृत्वेति । स्वयमिति – कर्तृत्वनिषेधक एव स्ववाक्यतात्पर्यमाहेति भावः । भगवानित्याप्ततमत्वव्यञ्जनम् । अगायत् – ‘पञ्चैतानीत्यारम्भ’, ‘न स पश्यति दुर्मतिरित्यन्तेनेऽतिशेषः । शारीरके च कर्तृत्वं प्रसाध्य तस्य पराधीनतामात्रं स्थापितमित्यत्राह – कर्तेति । यदि कर्तृत्वमात्मधर्मः, स चेत्पराधीनः, तस्य तर्ह्यात्मत्ववदेकरूपः किं न स्यादित्यत्राह -चित्रैरिति । नात्र केनापि चोदनीयमिति भावः ॥ ८ ॥ इत्यात्मनः कर्तृत्वादि ॥
2.79 यद्भव्यं तन्न न स्याद्यदभवितृ न तद्यत्नकोट्यापि सिद्ध्येद्
द्वेधाऽपि व्यर्थयत्ना नर इति यदि न स्वोक्तियत्नादिबाधात् ।
यद्यत्नेनैव भव्यं भवति यतनतस्तत्स्वहेतूपनीता-
द्दुस्साधा यत्नलभ्ये प्रति यदि यतते तत्र नैष्फल्यमिष्टम् ॥ ९ ॥
अथ ‘यदभावि न तद्भावि यद्भावि न तदन्यथा, इति मन्यमानैरुक्तं यत्ननैष्फल्यम् । तदिदमनुद्य परिहरति – यद्भव्यमिति ॥ नर इति बहुवचनम् । हेतुमाह – स्वोक्तीति । सर्वयत्ननैष्फल्यं वदन्किमिति साफल्यवादिनं क्षेप्तुमीहते? नैष्फल्यवाक्यं च किमर्थं प्रयुङ्क्ते? किमर्थं च स्वयं भीतो बुभुक्षुर्वा धावति? अतोऽन्वयव्यतिरेकाद्यवसितं यत्नफलमप्रणोद्यम् । आदिशब्देन प्रमाणत्रयसंग्रहः । बाधं सिद्धसाध्यतां च वक्तुं सफलनिष्फलयत्नौ विभजते – यद्यत्नेनेति । यतनमयत्नतस्सिद्धमिति शङ्कां परिहर्तुं स्वहेतूपनीतादित्युक्तम् । प्राचीनयत्नजनितादृष्टतो हि तत्सिद्धेरिति भावः । दुस्साधेत्यादिना दुष्कर्ममूलनिष्फलयत्नानुवादः । तत्र नैष्फल्यमिष्टं – तस्मिन्नंशे नैष्फल्यं त्वया न साध्यम्, साध्यमपि तद्विषयमिति भावः ॥ ९ ॥ इति यत्नसाफल्यम् ॥
2.80 भिन्ना जीवाः स्वतस्स्युः प्रतिनियततया धीस्मृतीच्छासुखादेः
चेतोभेदाद्व्यवस्था न तु भवति यथा देहबाह्याक्षभेदात् ।
नित्यान् भिन्नाश्च जीवान्कथयति निगमस्तद्धि नोपाधितस्स्यात्
आत्माद्वैतश्रुतीनामितरहृदयता तत्रतत्रैव सिद्धा ॥ १० ॥
जीवः परस्य ब्रह्मणः औपाधिकांशः । घटाकाशमहाकाशवत्तयोर्भेदः । जीवानां मिथो भेदस्तु घटकरकाद्याकाशवदिति पक्षं दूषयति – भिन्ना इति ॥ स्वतः – न तूपाधितः । हेतुमाह – प्रतिनियततयेति । ननु कोऽयं प्रतिनियमः? न तावद्बुद्ध्यादीनां स्वरूपभेदः, एकस्मिन्नप्यात्मनि तदुपगमात् । नापि भिन्नाधारत्वम्, तस्यैव साध्यत्वात् । अत एव नासाधारण्यम्, तत्खल्वाश्रयभेदसापेक्षम् । नापि परस्परप्रतिसन्धानाभावः, परस्परभावस्यैवासिद्धेरिति । अत्र ब्रूमः – यथैकशरीरावच्छिन्नबुद्ध्यादीनामेकाश्रयतयैव प्रतिसन्धानं न तथा शरीरान्तरजानाम् । अन्यथा गुरुशिष्यभावादयोऽपि न स्युः । तदेवं गम्यते – चैत्रात्मा मैत्रतादात्म्यरहितः, तदनुभवजन्मस्मृत्यनाधारत्वात्, कदाचिदपि तद्गतसुखादिप्रतिसन्धानरहितत्वादित्यादि । अत्र परोक्तामन्यथासिद्धिं परिहरति -चेतोभेदादिति । तुरवधारणे । अस्ति हि कल्पभेदेन चेतोभेदः । सन्ति च कल्पादौ जातिस्मराः, ‘स्वयमागतविज्ञाना’ इत्यादेः । तत्र प्रतिबन्द्यभिप्रायेणाह – यथेति । न हि देहभेदे प्रतिसन्धानाभावः, पूर्वजन्माभ्यस्तप्रतिसन्धानदृष्टेः । न च बाह्येन्द्रियभेदे, सर्वधीविरोधात् । तद्वच्चेतो – भेदोऽपि न व्यवस्थाहेतुरिति । ईश्वरान्मिथश्च जीवानां निरुपाधिकभेदः, ‘पृथगात्मानं प्रेरितारं च मत्वा’, ‘जुष्टं यदा पश्यत्यन्यमीशम्’, ‘नित्यो नित्यानाम्’ इत्यादि श्रुतिस्वारस्यसिद्ध इत्याह – नित्यानिति । मुक्तावपि भेदश्रुतिमभिप्रेत्याह – तद्धीति । ननु ‘अयमात्मा ब्रह्म’ ‘तत्त्वमसि’ इत्यादिभिर्जीवब्रह्मतादात्म्ये सिद्धे भेदस्यौपाधिकत्वं ग्राह्यमित्यत्राह – आत्माद्वैतेति । अयं भावः – शरीरशरीरिभावेन सामानाधिकरण्यं स्थापयिष्यते । आस्तामेतत् । यथा यूपादित्यसामानाधिकरण्यं प्रत्यक्षविरोधादन्यपरं, तथेहापि स्वरूपैक्यविधानं तावदशक्यमिति । तत्रतत्रेति वीप्सायाः क्वचिद्विशिष्टवृत्तिः क्वचित्तूपचार इत्यादि तात्पर्यभेदस्सूच्यते ॥ १० ॥ इत्यौपाधिकभेदवादभङ्गः ॥
2.81 जीवाः पृथ्व्यादिभूतेष्वणव इव मिथो भेदवन्तः स्वतोऽमी
सन्मात्रब्रह्मभागास्तदिह नियतयस्सुस्थिता इत्ययुक्तम् ।
ऐक्यस्याप्यक्षतत्वादनवधि च सति ब्रह्मणि स्यादवद्यं
सत्यं तच्चेत्यभिज्ञैर्बहिरगणि मृषावादतोऽप्येष पक्षः ॥ ११ ॥
अथ स्वाभाविकजीवांशभेदाभेदं दूषयति – जीवा इति ॥ उक्तं विरोधमेव बाधहेतुमाह – ऐक्यस्यापीति । पक्षद्वयसाधारणं दषणान्तरमाह – अनवधीति । सति ब्रह्मणि -सर्वात्मकसद्रूपे ब्रह्मणीत्यर्थः । अस्मिन्पक्षे निरवद्यत्वादिश्रुतिर्निर्विषया स्यात्, ईश्वरस्यापि सर्वतादात्म्यप्रतिसन्धायिनः क्लेशादिनिषेधायोगादिति भावः । एतत्पक्षद्वयादविद्याकृतदुःखादिभेदवादो वरमित्यभिप्रायेण सत्यं तच्चेत्याद्युक्तम् ॥ ११ ॥ हति ब्रह्मस्वरूपस्वाभाविकांशजीवभेदभङ्गः ॥
2.82 देहत्वाद्यैर्विगीतं निखिलमपि मया ह्यात्मवत्किं च पुंस्त्वात्
सर्वे जीवा अहं स्युर्न यदि भवति ते गौरवादीत्यसारम् ।
श्रुत्यध्यक्षादिबाधात्प्रसजति च तदा तत्तदैक्यं घटादेः
पक्षादेर्वादिनोश्चेत्यलमिह कलहैस्तज्जिगीषादिमूलैः ॥ १२ ॥
अन्ये त्वाहुः – अविद्याशबलं ब्रह्मैव जीवः, स च सर्वशरीरेष्वेकः; अप्रतिसन्धानमविद्यावैचित्र्यात्; प्रतिबुद्धास्तु ‘सोऽहं स च त्वम्’ इति प्रतिसन्दधते; प्रमाणं चात्र श्रुतिस्मृतय इति । एतदपि पूर्वोक्तनीत्या दत्तोत्तरम् । अविद्यास्वरूपादिकं दूषयिष्यते । अत्र चैको व्रीहिरित्यादिवज्जीवैक्यवादास्साजात्यात्स्युः; ‘पीण्डतास्समदर्शिन’ इत्यादिभिस्तथात्वावगमात् । ‘मित्रामित्रकथा कुतः इत्यादिकं रागादिपरिहारपरम् । ‘यद्यन्योऽस्ति’ इत्यादिकं स्वरूपेऽन्यादृक्त्वनिषेधार्थम् । ‘एको देवस्सर्वभूतेपु गूढ’ इतीश्वरविषयम् । ‘आकाशमेकं हि यथा’, ‘एक एव हि भूतात्मा’ इत्यादि निदर्शनमपि तत्तत्संसर्गशङ्कितवृद्धिह्रासादिनिषेधार्थम् । ‘घटध्वंसे घटाकाशो न भिन्नौ नभसा यथा इत्यादिकमौपाधिकवैषम्यनिवृत्तावत्यन्तसाम्यं व्यनक्ति’ । नहि घटध्वंसे घटावच्छिन्नः आकाशांशोऽशान्तरेणैकीभवति । आकाशतामात्रं तु घटस्थितावपि सिद्धमित्येषा दिक् । तदिह प्रतिसन्धानादिप्रसङ्गे शास्त्रतात्पर्ये च वक्तव्यशेषाभावात्तदुक्तमनुमानादिकमनूद्य दूषयति – देहत्वाद्यैरिति ॥ निखिलं – सर्वज्ञदेहप्रभृति पिपीलिकादिदेहपर्यन्तम् । सर्वे जीवाः – ब्रह्मादि – स्थावरान्ताः । न यदि इत्यादिना विपक्षे बाधकोक्तिः । असारत्वे हेतुमाह – श्रुतीति । सर्वैर्हि प्रमाणैर्जीवानां मिथस्तादात्म्यप्रसङ्गः प्रतिक्षिप्तः । उक्तानुमानवर्गस्याभाससमानत्वमाह – प्रसजतीति । देशान्तराणि एतद्धटेन घटवन्ति देशत्वात् एतद्देशवत्; अन्येऽपि घटा एतद्धटात्मानः घटत्वात् एतद्धटवत्, इत्यादौ किं वाच्यम्? अध्यक्षादिविरोध इति चेत् समम् । अविद्ययाऽऽत्मनि भेदधीः, ऐक्यं तु स्वभावस्स्यादिति चेत्, घटादावपि तथाऽस्तु । न चायमिष्टप्रसङ्गः, विवर्तद्वयस्य तादात्म्यानभ्युपगमात् । अन्यथा व्यावहारिकव्यवस्थाविलोपात् । प्रयुक्तानुमानावयवेष्वपि वाक्यत्वादिना तादात्म्यसंभवेऽन्यतमपरिशेषः स्यादित्यभिप्रायेण पक्षादेरित्युक्तम् । वादिनोरिति । अत्रेष्टप्रसङ्गत्वसंभवेऽपि विवादोच्छेदादौ तात्पर्यान्न वैयर्थ्यम् । तद्विवृणोति – इत्यलमिति ॥ १२ ॥ इति सर्वशरीरैकजीववादभङ्गः ॥
2.83 साविद्यं ब्रह्म जीवस्स च न बहुतनुर्नेतरे सन्ति जीवाः
स्वप्नादेकस्य लोके बहुविधपुरुषाध्यासवद्विश्वकॢप्तिः ।
नेतः प्राक्कोऽपि मुक्ता न परमपि स तु प्राप्स्यति श्रेय एको
मायोत्थौ बन्धमोक्षाविति च मतमसत्सर्वमानोपरोधात् ॥ १३ ॥
अथैकशरीरैकजीववादमनुभाषते – साविद्यमिति ॥ साविद्यं ब्रह्म जीव इति पूर्वस्यास्य च साधारणम्; स चेत्यादिविशेषोक्तिः । वक्ष्यमाणपक्षाद्वैषम्यं व्यनक्ति – नेतर इति । विचित्रजीवोपलम्भं निर्वहति – स्वप्नादिति । एकमेव शरीरं जीववत्, स्वप्नदृष्टशरीरन्यायादन्यानि निर्जीवानीत्यर्थः । ‘शुको मुक्त इत्यादिवैघट्यं परिहरति – नेतः प्रागिति । पूर्वं मुक्ता न सन्ति चेत्पश्चादप्यद्वैतविदो न मुच्येरन्नित्यत्रेष्टप्रसङ्गतामाह – न परमपीति । तर्हि मोक्षशास्त्रं व्यर्थं स्यादित्यत्राह – स इति । नित्यमुक्तस्यैकशरीरे बन्धमोक्षभ्रमं साधयति – मायोत्थाविति । उक्तं प्रागुक्तहेतुना दूषयति – इति चेति । आत्मभेदो हि सर्वप्रमाणैस्सिद्धः । तत्र यदि देहान्तरं निर्जीवम्, एकमपि तथैव; भ्रान्तिसिद्धजीवत्वस्याविशेषात् । एकत्रात्माऽस्ति जीवत्वं तु नास्ति, अत्र तूभयं, नेति चेन्न; तेष्वप्यध्यासाधिष्ठानतया आत्मसत्त्वस्य त्वया दुस्त्यजत्वात् । अन्यथा निरधिष्ठानभ्रमप्रसङ्गात् । स्वप्ननीत्या लाघवमिच्छतस्तदेव लभ्यम्, स्वप्नस्य तद्द्रष्टुश्च सत्यत्वात् । इह तु तन्मिथ्यात्वस्य त्वयैवोक्तेरिति ॥ १३ ॥
2.84 स्वस्य स्वेनोपदेशो न भवति न परब्रह्मणा निष्कलत्वा-
न्नाविद्या चेतयित्री स्वतनुसमधिकं वर्ष्म निर्जीवमात्थ ।
कश्चित्तत्त्वं ब्रवीतीत्ययमुपनिपतद्भ्रान्तिरुन्मुच्यते चेत्
तादृग्भ्रान्तिः पुराऽपि ह्यभवदिति न ते किं तदैवैष मुक्तः ॥ १४ ॥
एकस्य जीवस्योपदेष्ट्रत्वासंभवादनिर्मोक्षप्रसङ्गमाह – स्वस्येति ॥ अत्र स्वात्मैव वा स्वस्योपदेष्टा? अशरीरं वा परं ब्रह्म? विश्वाध्यासहेतुरविद्यैव वा? देहान्तरप्रतीतो जीवो वा? इति विकल्पमनुस्मृत्य पूर्वार्धेन क्रमाद्दूषणम् । ननु ‘अनादिमायया सुप्तो यदा जीवः प्रबुध्यते इति वचनादुपदेशनिरपेक्ष एव कदाचिद्बोधोऽस्तु । मैवम्, नैरपेक्ष्यानुक्तेः । जीव इत्येकत्वोक्त्या जीवान्तरासंभवान्नैरपेक्ष्यं सिद्धमिति चेन्न; एकवचनस्य जात्यैक्यपरत्वात् । नैरपेक्ष्येऽपि निस्तारं शङ्कते – कश्चिदिति । शुकादिषु मुक्तिहेतुतया पूर्वमपि तादृशभ्रमजननात्तदानीमेवास्य मोक्षः स्यादित्याह – तादृगिति । परस्मै ब्रवीतीति तदा भ्रान्तिरिति चेत्; तथाऽप्यद्वैतं ब्रवीतीत्यवगतेरर्थतः स्वार्थोपदेशभ्रमफलसिद्धेः । तदेवं हेत्वनुपपत्त्या नित्यमनिर्मोक्षः; अहेतुकमोक्षे नित्यमुक्तौ च शास्त्रनैष्फल्यमिति । तदभ्युपगमे सिद्धान्तत्यागात्कृतं वादेनेति ॥ १४ ॥ इत्येकशरीरैकजीववादभङ्गः ॥
2.85 तोयाधारेषु दोषाकर इव बहुधोपाधिषु ब्रह्म शुद्धं
छायापन्नं विशेषान् भजति तनुभृतस्तत्प्रतिच्छन्दभूताः ।
इत्यप्यत्यन्तदुःस्थं प्रसजति च तदा जीवनाशोपवर्ग-
च्छायाच्छायावदैक्यं न भजति न च तद्दर्शनं ब्रह्मणस्ते ॥ १५ ॥
अथ बहुजीवकॢप्तिपक्षं शङ्कते – तोयेति ॥ नित्यशुद्धस्य ब्रह्मणो न भ्रान्तिः । यथा नित्यशुद्धेऽपि चन्द्रमसि तत्प्रतिबिम्बेष्वाधारभेदानुगुणा विशेषाः काल्पनिकाः, एवमविद्याविवर्तेषु पृथगभिव्यक्तं ब्रह्म तत्तदनुगुणविचित्रविशेषवदिव भाति । ईदृशभेदकॢप्त्या मुक्तादिसमस्तव्यवस्थोपपत्तिः । इमं पक्षं दूषयति – इत्यपीति । अयं भावः – यदि ते बद्धमुक्तबद्धमोचकादिव्यवस्था भ्रान्तिसिद्धा सा तर्ह्येकजीववादेऽप्यविशिष्टेति किं बहुजीवबह्वविद्याकल्पनेन? ब्रह्मणो जीवभावानुपपत्त्या पृथग्जीवाः कल्प्या इति चेन्न; मिथ्याभूतजीवत्वस्य विरोधाभावात्; अन्यथा अध्यासाधिष्ठानत्वस्य विरोधप्रसङ्गात् । न च निरधिष्ठानं भ्रममिच्छसि । ‘दुर्घटत्वमविद्याया भूषणमिति च पश्यन् ब्रह्माज्ञानं किं नानुमन्यस इति । अस्मिन्पक्षे दूषणान्तरमाह – प्रसजतीति । यथा प्रतिबिम्बाधारनिवृत्तौ तत्रोत्पन्नस्यानिर्वचनीयस्य प्रतिबिम्बस्य नाशः, तथा तत्तदविद्यानिवृत्तौ तेते जीवा नश्येयुः । मुक्तौ जीवानां ब्रह्मणैकीभावमात्रं नतु नाश इत्यत्राह – छायेति । छायावत्कल्पिता जीवा इति मन्यसे । तत्र हि बाधदशायामाधारनिवृत्तिदशायां वा छायायां छायावता सहैक्यापत्तिर्न दृश्यते, तद्वदिहापि । तैमिरिकचन्द्रभेदन्यायेनाप्यत्र न भवति, तत्रापि बाधदशायां द्वितीयादिचन्द्राणां प्रथमचन्द्रैक्यापत्तेरनभ्युपगमात् । दूषणान्तरमाह – न चेति । बिम्बप्रतिबिम्बयोर्द्वितीयादिचन्द्राणां चन्द्रद्रष्टा कश्चिदन्यस्सिद्धः; इह तु न कश्चित्; ब्रह्मणो दृङ्मात्ररूपत्वाङ्गीकारात्, अविद्यायास्तु द्रष्टृत्वप्रसङ्गाभावात्, प्रतिबिम्बस्थानीयानां जीवानां स्वाध्यासहेतुत्वायोगात् । अनादिरध्यासो हेतुनिरपेक्ष इति चेन्न; स्वरूपानादेरविद्ययाऽपि नैरपेक्ष्यप्रसङ्गात्; प्रवाहानादित्वे जीवानां भङ्गुरत्वप्रसङ्गात् । तथा च धीसन्ततिवादसमत्वम्, अकृताभ्यागमादिप्रसङ्गः, श्रुत्यादिविरोधश्च स्यात् । ईदृशभ्रमनिरासाय सूत्रितं च स्वप्नोत्थितं प्रति ‘स एव तु कर्मानुस्मृतिशब्दविधिभ्य इति ॥ १५ ॥ इति ब्रह्मप्रतिच्छन्दजीववादभङ्गः ॥
2.86 एकं ब्रह्मैव नित्यं तदितरदखिलं तत्र जन्मादिभागि-
त्याम्नातं तेन जीवोऽप्यचिदिव जनिमानित्यनध्येतृचोद्यम् ।
तन्नित्यत्वं हि साङ्गश्रुतिशतपठितं सृष्टिवादः पुनः स्यात्
देहादिद्वारतोऽस्येत्यवहितमनसामाविरस्त्यैकरस्यम् ॥ १६ ॥
ब्रह्मदत्तादिभिरुक्तं जीवानां स्वरूपतस्सृष्टिसंहृतिविषयत्वमनूद्य दूषयति – एकमिति ॥ जनिमानिति लयोपलक्षणम् । अनध्येतृचोद्यम् – कतिपयाध्येतुस्तात्पर्यानभिज्ञस्य वा चोद्यम् । साङ्गशब्दः सोपबृंहणपरः, ‘अजो नित्यः शाश्वतोऽयं पुराणः’, ‘प्रकृतिं पुरुषं चैव’ इत्यादिश्रुतिस्मृतिशतमिह भाव्यम् । सृष्टिवादः – ‘तोयेन जीवान्व्यससर्ज’ इत्यादिः । ‘पुरुषश्चाप्युभावेतौ लीयेते परमात्मनि’ इत्यादिलयवाद उपलक्ष्यते । ब्राह्मणो जायते, क्षत्रियो जायते इत्यद्यतनजन्मादौ दृष्टम् । तद्वत् प्राकृतिकनैमित्तिकसृष्ट्यादावप्यचिदुपष्टम्भेन निर्वाह इहादिशब्दग्राह्यः । अवहितमनसां -श्रुतितात्पर्यैकाग्रमनसामित्यर्थः ॥ १६ ॥ इति जीवनित्यत्वम् ॥
2.87 स्थैर्यं चेन्नाभ्युपेतं भवभृति न भवेदैहिकार्थप्रवृत्तिः
देहान्तत्वे तु धर्म्ये पथि निरुपधिका विश्ववृत्तिर्न सिध्येत् ।
आकल्पस्थायिपक्षे कृतमफलतया मुक्तिमार्गोपदेशैः
आमोक्षस्थायितायां श्रुतितरनभिमुखी पूरुषार्थे चतुर्थे ॥ १७ ॥
आत्मानित्यत्ववादिनश्चतुर्विधाः । तेषु ज्ञानात्मवादिनशारीरखितावप्यात्मनो भिदुरत्वमाहुः । प्राणेन्द्रियास्मवादिन आत्मानमाशरीरस्थायिनम् । पौराणिकैकदेशिनस्तु प्रलयान्तम् । औपनिषदामासास्तु मोक्षावधिकम् । एतेषु दूषणवार्गः किंचिदुद्ग्रहणेनोपलक्ष्यते -स्थैर्यमिति ॥ तत्र स्थैर्यं चेन्नाभ्युपेतमित्याशुतरविनाशित्वानुवादः । बाधकमाह – न भवेदिति । आत्मानमुत्तरकालानवस्थायिनं मन्यमानो न किंचिदुद्दिश्य प्रवर्तेत । तत्खल्वायत्यां, सुखं दुःखनिवृत्तिं वाऽभिसन्धाय । तत्कथं घटेत? फलकाले स्वाभावात्, स्वकाले फलाभावात् । सन्तानैक्यादिकुसृतयस्तु प्रागेव निरस्ताः । द्वितीयपक्षे दूषणं देहान्तत्व इति । यदि देहावधिरात्मा, तदा देहात्मवाद इव प्रेक्षावतो महाजनस्य धर्मादनपेते मार्गेऽनादिस्सार्वत्रिकी दृष्टफलाद्युपाधिरहिता प्रवृत्तिर्न घटेत; तदाहुः –
‘विफला विश्ववृत्तिर्नो न दुःखैकफलाऽपि च । दृष्टलाभफला नापि विप्रलम्भोऽपि नेदृशः’ ॥ इति । तृतीयं दूषयति – आकल्पेति । अयं भावः – यदि सर्वदुःखनिवृत्तियुक्त आत्मनाश एव मोक्षः, स तर्हि वः कल्पान्ते स्वयमेवैष्यति । नचासौ पूर्वं साध्यः । त्वरया मध्ये स्वनाशार्थमुपायग्रह इति चेन्न; स्वनाशस्य सर्वप्रमाणैरपि पुमर्थत्वासिद्धेः । एवं च भाषितम् – ‘अहमर्थविनाशश्चेन्मोक्ष इत्यध्यवस्यति । अपसर्पेदसौ मोक्षस्थाप्रस्तावगन्धतः’ ॥ इति । चतुर्थे बाधकमाह -आमोक्षेति । अनभिमुखीति – स्वनाशरूपं चतुर्थपुरुषार्थं न वक्ति । स्वेन रूपेणाभिनिष्पन्नस्य भोगादीनप्याह । ननु ‘विज्ञानघन एवैतेभ्यो भूतेभ्यस्समुत्थाय तान्येवानुविनश्यतीति जीवविनाशः श्रूयते; मैवम्; लोकधीरूढानुवादमात्रत्वात्, अदर्शनमात्रपरत्वाद्वा । स्मर्यते च – ‘अदर्शनादिहायातः पुनश्चादर्शनं गत इति । अन्यथा कथम् ‘अविनाशी वा अरे अयमात्माऽनुच्छितिधर्मा’ इति तन्नित्यत्वसाधनम्? ननु ‘न प्रेत्य संज्ञाऽस्तीति मुक्तस्य निस्संबोधत्वश्रुत्या नाशस्सिध्येत्; न; देहादिभिरेकीकृत्य बुद्धेः तन्निबन्धनाख्याभेदस्य वा निवृत्तौ तात्पर्यात् । ब्रह्मण्यात्यन्तिकलयः कथम्? अनात्यन्तिकवत्, स्वविशिष्टे ब्रह्मण्यौपाधिकरूपेण विशेषत्यागेन श्लेषस्य विवक्षितत्वात् । अन्यथा मुक्तिदशायां भेदोक्तिभिर्विरोधात् । ‘यथा नद्यस्स्यन्दमानास्समुद्रे अस्तं गच्छन्ति नामरूपे विहाय’ इति निदर्शनान्मुक्तोऽप्यस्तमेष्यतीति चेन्न, प्रविष्टजलस्य स्वरूपनाशाभावात्; अन्यथा पयःप्रस्थद्वयसंभेदे प्रस्थशेषत्वप्रसङ्गात्, ‘यथोदकम्’ इत्यारभ्य, तादृगेव भवती’ति श्रुत्यन्तरविरोधाच्च । घटध्वंसे घटाकाशोऽपि न नश्यत्येव; घटसंययोगनाशात् नश्यतीत्युपचरन्ति । मुक्तिदशायां भेदनिवृत्तिवादाश्च कर्मकृतवैषम्यनिवृत्तिपराः । साधर्म्यवादिभिरप्येतदेव व्यवस्थाप्यते । ‘ब्रह्मैव भवतीत्यवधारणाज्जीवनिवृत्तिर्गम्यत इति चेन्न; अत्यन्तसाम्ये तात्पर्यात् । यथा ‘वैष्णवं वामनमालभेत स्पर्धमानो विष्णुरेव भूत्वेमाँल्लोकानभिजयतीति, तदेतत् ‘नात्मा श्रुतेर्नित्यत्वाच्च ताभ्य’ इति सूत्राभिप्रेतमिति ॥ १७ ॥ इत्यात्मानित्यत्वादिवादानामध्यक्षादिविरोधः ॥
2.88 व्याप्तास्सर्वत्र जीवास्सुखतदितरयोस्तत्रतत्रोपलम्भा-
न्निर्वाह्ये देहगत्यागतिरिह वितथा तद्वतोऽपीति चेन्न ।
वक्त्री पञ्चाग्निविद्याप्रभृतिषु भविनां स्वस्वरूपेण सिद्धं
यातायातप्रकारं श्रुतिरगतिरिमां लाधवोक्तिं शृणोतु ॥ १८ ॥
‘नित्यस्सर्वगत’ इति श्रुत्या आत्मनां नित्यत्वे तत्सहचरितं सर्वगतत्वमपि स्यादिति शङ्कते – व्याप्ता इति ॥ आगमस्यानुग्राहकमाह – सुखेति । तदितरशब्दोऽत्र दुःखवत् धीच्छादीनामपि संग्राहकः । अविभुत्वे सर्वत्र दुःखाद्युपलम्भो न स्यादित्यर्थः । आत्मगत्या सर्वत्र सुखादीति शङ्कां गौरवप्रसक्त्या वारयति – निर्वाह्य इति । अत्र श्रुतेरन्यपरत्वाभिप्रायेण प्रतिवक्ति – नेति । सर्वगतत्वोक्तिस्तावत् (‘अग्निर्यथैको भुवनं प्रविष्टः’, ‘वायुस्सर्वगतो महान्’ इत्यादिवदेकजातीयानां सर्वत्रानुप्रवेशान्नेतुं शक्या । गतेश्च श्रुतत्वान्न कल्पनागौरवमित्याह – वक्त्रीति । प्रभृतिशब्देन ‘तेन प्रद्योतेनैष आत्मा निष्क्रामति तमुत्क्रामन्तं प्राणोऽनूत्क्रामति प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति इत्यादयस्संगृह्यन्ते । न च तासां श्रुतीनां प्राणानूत्क्रमणादिभिरन्यथासिद्धिरास्थेया’ इत्यगतिशब्दाभिप्रायः ॥ १८ ॥
2.89 अव्यापित्वेऽपि पुंसोऽभिमतबहुवपुःप्रेरणे यौगपद्यं
ज्ञानव्याप्त्योपपन्नं बहुषु च वपुषोंऽशेषु निर्वाह एषः ।
यच्चादृष्टं क्रियां स्वाश्रययुजि तनुतेऽन्यत्र तत्कृद्गुणत्वा-
दित्येतत्सिद्धसाध्यं विभुन इह हि तद्ब्रह्मणः प्रीतिकोपौ ॥ १९ ॥
अविभुत्वे सिद्धैश्वर्याणां युगपदनेकशरीराधिष्ठातृत्वं न स्यादित्यत्राह – अव्यापित्वेऽपीति ॥ बहुवपुःप्रेरणं किं द्रव्यान्तरद्वारकम्? उत कर्मनिमित्तम्? आद्ये यथा पाणिपादादिद्वारनियतं युगपत्खड्गपादुकाद्यधिष्ठानम्, न तथाऽत्रेति भावः । द्वितीये स्वकर्मनियतमनेकशरीराधिष्ठानं कर्मिणः स्वसन्निधिविरहे कथं स्यादिति । ज्ञानव्याप्त्या -स्वरूपसन्निधानाभावेऽपि ज्ञानस्य युगपदनेकदेहाधिष्ठानानुगुणवृत्त्येति भावः । स्वरूपव्याप्तिर्ज्ञानतोऽधिष्ठानाभावेऽनर्थिका । तर्हि तत एव कुड्यादीनामप्यधिष्ठानं स्यात् । न स्यात्, तदधिष्ठानानुगुणकर्मातिशयविशेषाभावात् । ये तु तादृशातिशयवन्तः, ते कुड्यादीन्यप्यधितिष्ठेयुर्यथा परकायादीन् । देहैकदेशवर्तिन आत्मनो युगपदनेकावयवाधिष्ठानं कथमित्यत्रापि प्रत्येतव्यमेतदेवेत्याह – बहुष्विति । धर्माधर्मौ स्वाश्रयसंयुक्त एवाश्रयान्तरे क्रियां जनयतः क्रियाहेतुगुणत्वाद्गुरुत्ववदिति परोक्तमनुवदति – यच्चेति । तत्र सिद्धसाधनतामाह – इत्येतदिति । तद्व्यनक्ति – विभुन इति ॥ इह हि धर्माधर्मशब्दः कर्मनिमित्तेश्वरप्रीतिकोपरूपबुद्धिद्योतकः । अस्ति हि ‘शुभे त्वसौ तुष्यति दुष्कृते तु न तुष्यतेऽसौ परमश्शरीरी’ इति ॥
न च प्रीतेरपूर्णत्वं न च कोपात्सदुःखता । फलप्रदित्सारूपत्वादुभयोरपि कर्मणोः ॥ अतो न दोषः ॥ १९ ॥
2.90 इष्टं प्रादेशिकत्वं विभुषु जनिमतां बुद्धिशब्दादिकानां
तेनादृष्टं च तादृङ्न यदि तव सुखाद्याश्रयव्यापकं स्यात् ।
तस्मात्तत्स्वप्रदेशान्वयवति जनयेत्स्वं फलं यत्ननीत्या
भ्रातृव्यादौ च पीडां न घटयितुमलं किं विभुत्वेन भोक्तुः ॥ २० ॥
उक्तानुमानस्य दूषणान्तरमाह – इष्टमिति ॥ विभुष्वात्माकाशादिषु जायमानानां बुद्धिशब्दादिकानां स्वाश्रयैकदेशवर्तित्वं युष्माभिरिष्यते, सार्वत्रिकत्वे प्रत्यक्षादिबहुप्रमाणविरोधात् । अदृष्टं च तादृशमिष्टम् । तच्च स्वाश्रयसंयोगिनि क्रियां जनयत् स्वावच्छिन्नप्रदेशसंयुक्त एव जनयेत्; अन्यथा प्रयत्नेनापि दूरस्थप्रेरणप्रसङ्गात् । न चादृष्टं तत्र तत्र गच्छति, अमूर्तत्वात् । अतोऽदृष्ठकारितदूरस्थकार्याणामनुत्पत्तिप्रसङ्गः । ननु प्रत्यात्मनियतान्यनन्तान्यदृष्टानि विप्रकीर्णवृत्तीनि विद्यन्ते; अतस्सर्वक्रियोपपत्तिरित्यत्राह – भ्रातृव्यादाविति । अयं भावः -अद्यतनाभिचारक्रियानिष्पाद्यमानमदृष्टं कर्तुरात्ममनस्संयोगावच्छिन्ने प्रदेशे स्यात् । तच्च भ्रातृव्यदेहमेदादिन्करोति । एवं देशान्तरानुभाव्यस्वर्गादिफलसाधनेऽपि माय्यम् । न च दूर एवेदमदृष्टमुत्पद्यते, असमवायिदेशावच्छेदेन तदुत्पत्तेः स्थापनात् । अतः कथं देशान्तरस्थे भ्रातृव्यशरीरादौ पीडां जनयेत्? तस्मादात्मनस्सर्वत्रावस्थानं निरर्थकमिति निगमयति – किं विभुत्वेनेति ॥ २० ॥ इति जीवविभुत्वभङ्गः ॥
2.91 स्वादृष्टोपार्जितत्वाद्विभुषु यदवदन्विग्रहादेर्व्यवस्थां
तच्चैवं निर्निमित्तं तत इह न कथं सर्वतस्सर्वभोगः ।
आराध्ये विश्वसाक्षिण्यनुगुणफलदे त्वस्ति राजादिनीति-
स्तत्साम्ये भोगसाम्यं न हि भवति यथाकर्म भोगप्रदानात् ॥ २१ ॥
यदि सर्वे जीवास्सर्वशरीरव्यापिनः, सर्वे देहास्सर्वेषां भोगायतनानि स्युः, इति प्रसङ्गे परोक्तं परिहारमनुवदति – स्वादृष्टेति । दूषयति – तच्चेति ॥ अयं भावः – यद्यदृष्टं स्वावच्छिन्नप्रदेशे देहादिसृष्ट्या फलं जनयेत्, तदा यष्टुः स्वर्गादिकमिहैव स्यात्; प्रदेशान्तरे तु प्रयत्ननीत्या जनयितुं नालमिति । अतस्त्वत्पक्षे प्रतिनियतादृष्टजन्यत्वस्यैवासंभवाद्व्यवस्थाभङ्गो दुर्वार इत्याह – तत इति । नन्वणुपक्षेऽपि फलानां जीवगतादृष्टाजन्यत्वात् परगतस्य व्यवस्थापकत्वानभ्युपगमादनियमस्तदवस्थ इत्यत्राह – आराध्य इति । परगतत्वेऽपि राजादिषु दृष्टेन न्यायेन तत्तदाराधकादिप्रतिनियतानुग्रहादिवैचित्र्यात्तत्तदुचितफलसमर्पणे यथाप्रमाणं व्यवस्था सिध्येदिति भावः । सर्वफलप्रदानानुगुण्यार्थं विश्वसाक्षितोक्तिः । सहाधीते च कर्माध्यक्षत्वसाक्षित्वे । ननु ‘समोऽहं सर्वभूतेषु इति वदतः कथं विषमफलप्रदत्वमित्यत्राह – तत्साम्य इति । भोगसाम्यं क्षेत्रज्ञानामन्योन्यमिति शेषः । सूत्रादिसिद्ध हेतुमाह – यथाकर्मेति ॥ २१ ॥
2.92 देहान्तर्मात्रदृष्टेः पृथगिह विषयिप्राणजीवोत्क्रमोक्ते-
र्भूयोवाक्यानुसारादणुरिति वचने तादृशोपाध्युपनुक्तेः ।
ईशादाराग्रमात्रो ह्यवर इति भिदावर्णनात्स्पन्दवाक्या-
द्वयाप्त्युक्तिर्जातिधर्मप्रतिहतिविनिवृत्त्यादिमात्रेण जीवे ॥ २२ ॥
अथाप्यणुत्वे किं प्रमाणमित्यत्राह – देहान्तरिति । अयं भावः – यद्याता विभुः स्वयंप्रकाशश्च, किमिति सर्वत्र सर्वदा न प्रकाशते? अहमिति सार्वत्रिकः प्रकाशत एवेति चेन्न; अस्मिन्देहेऽहं वर्त इतिवत्सर्वत्र प्रतीतिप्रसङ्गात् । सार्वत्रिकस्याविशदप्रकाशोऽस्तीति च न प्रमाणम् । व्यञ्जकान्तरसापेक्षत्वाद्व्यञ्जकदेशे व्यक्तिरिति नियमहेतुरिति चेन्न; स्वप्रकाशत्वविरोधात् । अथ मानसप्रत्यक्षः, तथाऽपि कथं क्वाचित्कोपलब्धिः? यद्यपि सामग्रीदेशानुविधानेन ज्ञानोत्पत्तिः; तथाऽपि विषयत्वं न तन्निघ्नम्, तथा अदृष्टेः । अगृहीतपरिमाणस्य स्वरूपतो ग्रहणे देहात्मभ्रमात् क्वाचित्कत्वोपलम्भ इति चेन्न; भ्रमव्यतिरिक्तमानसप्रत्यक्षेष्वपि तद्दृष्टेः । विवेकतस्समाहितानामपि परिच्छिन्नतया तदुपलब्घेः; ‘हृदि ह्ययमात्मा’ इत्यादिदृष्टेश्च । हेत्वन्तरमाह – पृथगिति । इन्द्रियादीनां पृथगुत्क्रमणोक्तेरात्मोत्क्रमणं न भाक्तमिति भावः । सर्वगतत्वोक्तिसद्भावेऽप्यणुत्वोक्तीनां बलीयस्त्वं व्यनक्ति – भूय इति । सन्ति हि ‘एषोऽणुरात्मा चेतसा वेदितव्यः’, ‘वालाग्रशतभागस्य शतधा कल्पितस्य च । भागो जीवस्स विज्ञेयः इत्यादिका बह्व्यः’ । ननु विभोरपि परमात्मनोऽणुत्वं श्रूयते, तथेह स्यात्; तन्न; तत्र हि – एव आत्माऽन्तर्हृदयेऽणीयान् व्रीहेर्वा’ इत्यादिष्वौपाधिकाणुत्वव्यक्तेः । जीवाणुत्वश्रुतौ तादृशोपाध्यनुक्तेः; प्रत्युत स्वरूपनिर्देशेनैव बालाग्रसूक्ष्मभागसमत्वं ख्याप्यते । यद्यौपाधिकं जीस्याणुत्वम्, तस्य जीवेश्वरसाधारणत्वात् ‘आराग्रमात्रो ह्यवरोऽपि दृष्टः इति परव्यावर्तकपरिमाणोक्तिर्विहन्येतेत्यभिप्रायेणाह – ईशादिति ॥ स्वप्नसुषुप्त्यादिवाक्येषु ‘आसु तदा नाडीषु सृप्तो भवति’, ‘ताभिः प्रत्यपसृप्य पुरीतति शेते’ इत्यादिभिर्जीवस्य तत्रतत्र स्वरूपेण संचरणं श्रूयत इत्याह – स्पन्दवाक्यादिति ॥ एतैर्बलीयोभिर्जीवव्याप्तिवचनानामन्यपरत्वमाह – व्याप्त्युक्तिरिति ॥ ‘तस्यात्मपरदेहेषु सतः’ इत्यादौ जातितः, ‘स चानन्त्याय कल्पते’ इत्यत्र धर्मतः । तथा च सूत्रं ‘प्रदीपवदादेशस्तथा हि दर्शयति’ इति । सर्वगत इत्यत्र क्रमेण सर्वविधाचेतने प्रवेशाद्वा, शिलदिष्वपि प्रतिहत्यनर्हतया वा; तथा च भाषितम् ‘अतिसूक्ष्मतया सर्वाचेतनान्तःप्रवेशस्वभावः’ इति । आत्मनोऽणुत्वे पृथिव्याद्यणुवत्प्रत्यक्षत्वं न स्यादिति चेन्न, विभुत्वेऽपि ते विभ्वन्तरवदप्रत्यक्षत्वप्रसङ्गात् । यथादृष्टि व्यावृत्तिरस्तीति चेत् अणुत्वेऽपि समम् । न चास्माकं पृथिव्याद्यणूनामप्रत्यक्षत्वनियमः । एवमणुत्वे मानसप्रत्यक्षत्वं न स्यादिति प्रसङ्गोऽपि श्रुतिविरोधादिभिः प्रत्याख्येयः ॥ २२ ॥ इति जीवाणुत्वम् ॥
2.93 नात्मा देहानुरूपं विविधपरिणतिर्निर्विकारोक्तिबाधात्
स्थूलोऽहं मूर्ध्नि जातं सुखमिति च मतिस्तस्य देहात्ममोहात् ।
नानादेहश्च योगी प्रसजति भिदुरः पुंसि देहप्रमाणे
मुक्तौ देहात्ययात्स्यात्परिमितिविरहस्तत्प्रयुक्तेऽस्य माने ॥ २३ ॥
जैनास्त्वाहुः – सर्वाणि द्रव्याणि पर्यायवन्ति, आत्माऽपि द्रव्यम्, अतस्सोऽपि तत्तद्भोगायतनानुगुणाणुत्वमहत्त्वादिपर्यायवानिति; तान्प्रतिक्षिपति – नात्मेति ॥ यो यद्भोगायतनवर्ती स तत्समपरिमाण इति नियमस्तावन्न दृष्टः; नच कल्प्यः, कल्पकासिद्धेरिति भावः । नैगमिकाभीष्टं हेतुमाह – निर्विकारेति ॥ वृद्धिह्रासौ देहस्थावेवोच्येते; आत्मनि तु न क्वचित्, प्रत्युतान्यथा । ननु स्थूलोऽहं कृशोऽहमिति सामानाधिकरण्यात्, मूर्ध्नि मे सुखमित्यादिना सर्वावयवेष्वहमर्थवृत्तिदर्शनाच्च परिमितिभेदः कल्प्य इत्यत्राह – स्थूल इति ॥ सामानाधिकरण्यं तावद्गौरोऽहमित्यादिष्वप्यस्तीत्यनेकान्तम् । देहद्वारैवात्मनि गौरत्वादिवादः, भ्रमाद्वा; तथेहापि । देहावयवेषु सुखाद्युत्पत्तिधियश्च देहात्मभ्रमेण । सर्वत्र सन्निधानारोपात् सत्सन्निधानेऽपि भ्रमाङ्गीकारः । ननु ‘एकां शाखां जीवो जहातीत्यादिना छान्दोग्ये जीवस्य वृद्धिसङ्कोचौ श्रूयेते; तन्न, क्षेत्रादिष्विवाभिमानत्यागेनापि तदुपपत्तेः । तत्रतत्राभिमानसदसद्भावौ च कर्मनियतौ । खण्डितारोपितशाखाप्ररोहस्तु तादात्विकजीवान्तराभिमानात् । छिन्नजन्त्ववयवविकम्पः प्राणांशक्षोभमात्रात्, न हि तत्र वेदनायां प्रमाणमस्ति । बाधान्तरमाह – नानादेह इति ॥ एकस्मिन्नेव काले योगिनां विरुद्धधर्माध्यासेन स्वरूपभेदः प्रसज्येत । प्रसङ्गान्तरमाह – मुक्ताविति ॥ देहप्रयुक्ते पुंसः परिमाणे मुक्तिदशायां देहाभावादात्मनः परिमाणविरहः स्यात्, तथा च गुणवद्द्रव्यत्वमेव हीयेत । अपरिमितस्यापि द्रव्यत्वं केचिदिच्छन्तीति चेन्न; विभुत्वप्रसङ्गादिति ॥ २३ ॥
2.94 निर्मुक्तस्त्वन्मते स्यात्कथमपरिमितो नित्यमूर्ध्वं प्रधावन्
देहः कश्चित्तदानीमपि यदि नियतस्स्यात्तु तन्निघ्नताऽस्य ।
इच्छातो देहमेकं विशति स परिमित्यर्थमेवेति हास्यं
तस्मादास्माकनीत्या परिमितिरिह सा स्थायिनी या विमुक्तौ ॥ २४ ॥
भवतु विभुर्भुक्तः, को दोष इत्यत्राह – निर्मुक्त इति ॥ मुक्तस्य हि पृथिव्या नित्यपतनवन्नित्योर्ध्वगमनं युष्माभिरुच्यते, आलोकाकाशावधि वा? उभयधाऽप्यपरिमितस्य गमनं न सिध्येत् । देहविशेषपरिमित एवोत्पततीति शङ्कते – देह इति । नियतः – अवश्यंभावी, स्वकर्मनियत इति वा । तत्र बाधकमाह – स्यादिति । कर्मनियतदेहत्वे परतन्त्रस्य कथं मुक्तत्वमिति भावः । अस्तु घातिकर्मचतुष्टयरहितस्याघातिकर्मचतुष्टयप्रभावात् गत्यर्थो देहः, तत्परित्यागक्षणे
झटिति परिमाणसिद्ध्यर्थं सकललोकमस्तकस्थायिनं कंचिद्दिगम्बरं देहं सर्वे मुक्ताः प्रविशन्ति, पृथग्वा शरीराणि परिगृह्णत इति वदन्तमुपालभते – इच्छात इति । न हि मुक्तस्येच्छाभोगौ युष्माभिरिष्येते, न च स्वच्छन्दव्यापाराः । अतः परिमाणमात्रसिद्ध्यर्थं देहं परिगृह्णातीति निर्मूलकल्पनं निपुणैर्हास्यम् । तर्हि का गतिरित्यत्राह – तस्मादिति । मुक्तौ काचित्स्वाभाविकी स्वीकार्या; सैव बद्धदशायामपि स्थिरेति नित्याणुर्जीवः । तथा च सूत्रम् ‘अन्त्यावस्थितेश्चोभयनित्यत्वादविशेषः इति । उभयमिह जीवस्वरूपं परिमाणं च ॥ २४ ॥ इत्यात्मनो देहपरिमाणत्वभङ्गः ॥
2.95 कर्माविद्यादिचक्रे प्रतिपुरुषमिहानादिचित्रप्रवाहे
तत्तत्काले विपक्तिर्भवति हि विविधा सर्वसिद्धान्तसिद्धा ।
तल्लब्धस्वावकाशप्रथमगुरुकृपागृह्यमाणः कदाचित्
मुक्तैश्वर्यान्तसम्पन्निधिरपि भविता कश्चिदित्थं विपश्चित् ॥ २५ ॥
यदि यथाकर्म फलप्रद ईश्वरः, कर्माणि चानन्तान्यपरिमितकालभोग्यानि, तदा प्रागिव पश्चादपि कथं मोक्षोपायादिसिद्धिरित्यत्राह – कर्मेति ॥ चित्रप्रवाहत्वानूक्तिः परिहारकाकुगर्भा । तत्तदित्यादिना कस्यचित्कर्मिणः प्रागलब्धप्रजापतिप्रभृतिपदनिदर्शनम् । विपक्तिः – कर्मणां सहकारिलाभः, फलविशेषोद्गतिर्वा । तथा च पातञ्जलम् – ‘जात्यायुर्भोगा विपाका इति । चार्वाकव्यतिरिक्तास्सर्वे सामग्रीप्रवाहवैचित्र्यात्संसरतां मुक्तिहेतूपनिपातमिच्छन्ति । अतो नात्रानादिसंसारवादिना केनापि विमन्तव्यमित्यभिप्रायेण सर्वसिद्धान्तसिद्धत्वोक्तिः । तच्छब्देनानुकूलविपक्तिविशेषः परामृश्यते । स्वशब्दः कृपाविषयः । सम्पदिह विवेकवैराग्यादिरूपा । अपिस्संभावनार्थस्समुच्चयार्थो वा । इत्थमिति – प्रकृतिपुरुषादि – तत्त्वचिन्ताप्रकारेण । यद्वा हिरण्यगर्भादिविपाकवदित्यर्थः । ननु हिरण्यगर्भादिपदविपक्तिः स्वस्य प्रागसिद्धाऽपि पुरुषान्तरसिद्धजातीयेति चेत्; तत्त्वज्ञानवैराग्यादिसम्पदपि तथैव । दृष्टं चैतद् गुरुशिष्यक्रमे । आद्यमुक्तस्य ततः पूर्वमदृष्टजातीयेति चेन्न; आद्यमुक्तानिरुक्तेः । यद्यसौ पूर्वमुक्त एव, उक्तोत्तरमेतत् । अथ मुक्तेष्वादिः, स कथं त्वया विदितः? ततः पूर्वं मुक्ताभावादिति चेत्, तमपि कथं वेत्थ? अनादिमुक्तौ व्याघातादिति चेन्न; मुक्तप्रवाहे व्याघाताभावात् । न ह्यनादिमुक्तः कश्चिद्बध्यते, साध्यमोक्षो वा भवेत्, येन व्याघातस्स्यात्; किंतु, अनादिबद्धास्सर्वेऽपि लब्धोपायाः क्रमेण मुच्यन्ते । तत एव मोक्षशास्त्रप्रामाण्यं निर्बाधमिति ॥ २५ ॥ इति संसरतां प्रत्यापत्तिहेतुविशेषः ॥
2.96 कृच्छ्रात्संवर्तकष्टाद्यपगमजनितस्थूलदेहस्य जन्तो-
र्जाग्रत्स्वप्नस्तुषुप्तिर्भरणमथ भृतेरर्धसंपद्दशास्स्युः ।
सर्वं दुःखान्धकारस्थगितमिह सुखं त्वत्र खद्योतकल्पं
त्यक्त्वा शुद्धाशयास्तन्निरवधिकसुखां निर्विविक्षन्ति मुक्तिम् ॥ २६ ॥
निर्वेदं सन्धुक्षयन् मुमुक्षोत्पत्तिप्रकारमाह – कृच्छ्रादिति ॥ मृतेरर्धसंपत् – मूर्च्छा । तथा च सूत्रं ‘मुग्धेऽर्धसंपत्तिः परिशेषादिति । सर्वम् – अनुकूलतया भाव्यमानमपि । ननु स्वर्गस्वाराज्यादिप्रभूतसुखमप्यस्तीत्यत्राह – सुखं त्विति । अल्पास्थिरत्वव्यक्त्यै खद्योतदृष्टान्तः । तत् – विषमधुकल्पं, वैषयिकसुखम् । निरवधिकत्वोक्त्या निर्दुःखत्वमपि लक्ष्यते । निर्विविक्षन्ति – भोक्तुमिच्छन्ति ॥ २६ ॥ इति मुमुक्षोत्पत्तिप्रकारः ॥
2.97 कश्चिच्चेन्नित्यबद्धः किमयमहमिति स्यान्मुमुक्षोरुपेक्षा
मैवं युक्तस्य मुक्तिर्भवति दृढमिति प्रत्ययात्तत्प्रवृत्तेः ।
नो चेत्स्यामन्त्यमुक्तः किमहमिति न केऽप्यद्य मुक्तौ यतेरन्
सर्गस्थित्यादिसन्तत्यविरतिरत इत्येवमेकेऽन्यथाऽन्ये ॥ २७ ॥
इह सयूथ्याः परे च केचिदाहुः – इतः पूर्वमिव कारणाभावात् केचित्पश्चादपि न मोक्ष्यन्ते । ‘एकं पादं नोद्धरति स्वलीलाद्यर्थं समुद्धरंस्तं चेत्’, ‘सततं च मृत्युजन्मनाऽमृतं भवेत्’, ‘क्षिपाम्यजस्रमशुभान्…मामप्राप्यैव’ इत्यादिभिरेतत्सिद्धम् । तस्मिन्पक्षे बाधकं शङ्कते – कश्चिदिति ॥ सन्देहेऽपि प्रवृत्तिस्संभवतीत्यभिप्रायेण प्रतिवक्ति – मैवमिति । अयं भावः – स्वरूपे योग्यभावेऽपि सहकार्यव्यवस्थितेः । विमुक्तिर्मम सिध्येद्वा न वेति विचिकित्सते ॥
अनिर्धार्यापि यः कश्चित्तथ्यमात्ममनोरथः । पाक्षिके फलभूयस्त्वे सांयात्रिकवदीहते ॥ यथाकथंचिदारब्धेऽप्यापवर्गिकवर्त्मनि । प्रसीदन्नीश्वरो बुद्धिं प्रयच्छेन्निश्चलामिति ॥ उपायविधानशास्त्रार्थनिश्चयात्स्वस्य च तदानुगुण्यदर्शनान्निस्संशयोऽपि कश्चित्यवर्तेतेत्याह – युक्तस्येति । अन्यथा कथंचिन्निष्फलप्रयत्नोऽप्यस्तीति निश्चयात्स किमहमिति कृष्यादावपि न प्रवर्तेतेति भावः । नोचेदित्यादिनाऽपि प्रतिबन्द्यन्तरोक्तिः । स्वात्मन्यमुक्तत्वशङ्कायामपि कृतांशः फलिष्यत्येवेति शास्त्रतोऽवगमात्प्रवर्तेतेति चेत्; एवं नित्यबद्धसद्भावनिश्चयेऽपि स्वयं निवृत्तिधर्मयोग्यतया दृष्टः कृतमपि फलिष्यतीति किं न प्रवर्तेत? एवं नित्यबद्धे संभवति ‘अव्युच्छिन्नास्ततस्त्वेते सर्गस्थित्यन्तसंयमा’ इत्यादिशास्त्रस्यार्थवत्त्वसिद्धिरित्याह – सर्गेति । अयमेव सिद्धान्त इति निश्चयव्युदासायाह – इत्येवमेक इति । पक्षान्तरमाह – अन्यथाऽन्य इति । स्वरूपयोग्यानां शुकादिवत्कदाचित्सहकार्यागमान्मुक्तिस्स्यादेव, ‘तदा संसारपान्थस्य याति मोहश्रमः शममित्यादेस्सङ्कोचकाभावादिति भावः ॥ २७ ॥ इति नित्यसंसारिसदसद्भावपक्षौ ॥
2.98 निःशेषात्मापवर्गे विरतविहरणो विश्वकर्ता तदा स्यात्
नित्यं चेत्कोऽपि दुःख्येन्निरुपधिकदयाहानिरस्येति चेन्न ।
पक्षः पूर्वो यदि स्याद्विहरणविरतिः स्वेच्छया नैव दोषः
शिष्टे पक्षे निरुद्धा निरुपधिकदया कुत्रचिन्नित्यमस्तु ॥ २८ ॥
द्वयोरपि पक्षयोर्दोषमाशङ्क्य प्रत्याह – निश्शेषेति ॥ उत्तरार्धं पक्षद्वयदोषपरिहारार्थम् । पुरुषान्तरप्रतिरोधादिना लीलाविरतौ हि दोषः, नतु स्वेच्छया, प्रवृत्तिवन्निवृत्तेररप्यैच्छत्वात् । क्वचिन्नित्यं दयारोधोऽपि, तत्तज्जीवकर्मवशात् । अतः प्रतिबन्धरहितेषु सावकाशा कृपा, अल्पव्याजेनानन्तापराधसहनाच्च ॥ २८ ॥ इति पक्षद्वयोक्तप्रसङ्गपरिहारः ॥
2.99 भक्तिर्मुक्तेरुपायः श्रुतिशतविहितस्सा च धीः प्रीतिरूपा
तभिष्पत्त्यै फलेच्छाद्युपधिविरहितं कर्म वर्णाश्रमादेः ।
ज्ञानध्यानादिवाचां समफलविषया सैव युक्ता प्रतिष्ठा
सामान्योक्तिस्समानप्रकरणपठिता पर्यवस्येद्विशेषे ॥ २९ ॥
धर्मस्य तत्त्वं निहितं गुहायाम्; किंपुनर्निवृत्तिधर्मस्य? अतः कथं कश्चिदपि मोक्ष्यत इत्यत्र मोक्षोपायस्वरूपं निष्कर्षति – भक्तिरिति ॥ श्रुतिशतविहितो मुक्तेरुपायो भक्तिरित्यन्वयः । ननु ब्रह्मविद्ययैव मुक्तिरिति सिद्धान्तः । भक्तिशब्दस्त्वष्टविधत्वादिवचनैरन्यार्थः । ‘भज सेवाया’मिति च सामान्यतः पठ्यते । क्वचित्तु रूढिकॢप्तौ गौरवमित्यत्राह – सा चेति । धीरित्यनेन ब्रह्मविद्यात्वाविरोधस्थापनम् । प्रोतिरूपेति रूढिनिमित्तसूचनम् । महनीयविषये प्रीतिर्भक्तिः; प्रीत्यादयश्च ज्ञानविशेषा इति वक्ष्यते । ‘स्नेहपूर्वमनुध्यानं भक्तिः’ इति चोपायो विशेष्यते । ‘अपाम सोमममृता अभूम’ इत्यादिदर्शनात्कर्मभिरेव मुक्तिः किं न स्यादित्यत्राह – तदिति । केवलधर्माणां क्षयिफलत्वनिश्चयात्तत्रामृतत्वादिवचनमन्यपरम् । विद्याङ्गेषु तु मुक्तिसाधनत्वश्रुतिः स्तुत्यर्था । अतः ‘तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति’ इत्यादिभिरभिप्रेतं संनिपत्योपकारकत्वमिह युक्तमिति भावः । फलशब्दोऽत्र स्वर्गादिविषयः । फलसङ्गकर्तृत्वाभिमानत्यागे हि स्वरूपानुरूपफलसाधनाङ्गत्वमित्यभिप्रायेणोपाधिरहितत्वोक्तिः । उत्तरेणादिशब्देन गुणनिमित्तादिसंग्रहः । ननु वेदनध्यानोपासनादिशब्दैर्मुक्त्युपायोक्तौ यथार्हं विकल्पः स्यादित्यत्राह – ज्ञानेति । समफलविषयेति एकत्र विश्रमौचित्यप्रदर्शनम् । संभवति गत्यन्तरेऽष्टदोषविकल्पो न न्याय्यः । न चैकस्मिन्नधिकारिणि गुरुलघुविधिः स्यात् । नापि ज्योतिष्टोमाग्निहोत्रादिवदिह फलतारतम्यसंभव इति भावः । प्रतिष्ठा तत्तत्सामान्याकारैः प्रतिपाद्येत्यर्थः ।
ननु – ‘यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः’ ॥
इति कठवल्लीवाक्याद्भक्तेर्ज्ञानहेतुताऽवगम्यते । गीयते च ‘भक्त्या मामभिजानाति’ इत्यादि । संजयश्चाह ‘शुद्धभावं गतो भक्त्या शास्त्राद्वेद्मि जनार्दनम्’ इति । अतो भक्तिसाध्यज्ञानविशेषान्मुक्तिः स्यादित्यत्राह – सामान्येति । अयं भावः – भक्तेर्ज्ञानसाधनत्वश्रुतिः पर्वभेदेनानेकफलतया स्यात् । अत एव हि ‘भक्त्या त्वनन्यया शक्यः’ इत्यादिना ज्ञानदर्शनप्राप्तिसाधनत्वोक्तिः । ‘भक्त्या लभ्यस्त्वनन्यया’ इति च नियम्यते । भक्तिसाध्यं प्रापकज्ञानमपि भक्तिलक्षणोपेतम् । अतो वेदनादिसामान्यशब्दानामिह पश्वादिन्यायात् संनिहितविशेषपर्यवसानं सिद्धम् ॥ २९ ॥
2.100 ध्यानाद्युक्त्या ध्रुवानुस्मृतिरिह विहिता ग्रन्थिमोक्षाय सैव
स्पष्टा दृष्टिस्तथैव श्रुतफलविषया सेवनत्वादुपास्तिः ।
क्वाऽप्यैक्यं विद्युपास्त्योर्व्यतिकरितगिरा भक्तिमेवाह गीता
सर्वं तद्वित्तिमात्रे फलवति विफलं तेन सैवं विशिष्टा ॥ ३० ॥
ये तु मन्यन्ते ‘तमेवं विद्वान्’, ‘ब्रह्मविदाप्नोति परम्’ इत्यादिषु यथाश्रुति वित्तिमात्रस्य मुक्तिसाधनत्वविधिः कल्प्यः; सकृत्कृतश्च शास्त्रार्थः; अतो न विशेषपर्यवसानं युक्तमिति । तान्प्रति सफलत्वाद्युक्त्या सूचितं व्यनक्ति – ध्यानादीति ॥ अत्र हि मुक्तिसाधनवित्तेः प्रत्ययावृत्तिरूपचिन्तावाचिध्यानशब्दशक्त्याऽनावृत्तिरूपत्वं निरस्तम् । न्यायस्तु न वचनविरोधे । आदिशब्देन ज्ञानवेदनादिशब्दसंग्रहः । ध्रुवानुस्मृतिशब्दस्तु चिन्ताया निरन्तरस्मृतिरूपत्वमाह । ग्रन्थिमोक्षायेति फलैक्यव्यञ्जनम् । तत्फलार्थे वाक्ये दृष्टिशब्दस्तु स्मृतिमेव वैशद्येन विशिनष्टि । ननु चाक्षुषज्ञानं प्रत्यक्षमात्रं वा ब्रूयादित्यत्राह – तथैवेति । विशदध्रुवानुस्मृतौ उपास्तिशब्दनिमित्तमाह – सेवनत्वादिति । ‘यस्तद्वेद’ इत्यादिषु केषुचिद्वाक्येषु एकस्मिन्नेव विषये वेदनोपासनशब्दयोर्व्यतिकरेणोपक्रमोपसंहारदर्शनाच्च वेदनमेवोपासनतया विशेष्यत इत्याह – क्वापीति । एतेषु क्वचिदपि वाक्ये भक्तिशब्दो न मोक्षोपायविषयः श्रूयत इत्यत्र ‘यमेवैष वृणुते तेन लभ्य’ इति श्रुत्यभिप्रेतं गीयत इत्याह – भक्तिमेवेति । फलितमनिष्टप्रसङ्गमाह – सर्वं तदिति । निगमयति – तेनेति । सा मुक्तिसाधनतयोक्ता हि वित्तिः भक्तिरूपत्वपर्यन्तविशेषणविशिष्टेत्यर्थः ॥ ३० ॥ इति भक्तिस्वरूपमोक्षोपायण्वे ॥
2.101 विद्याः पञ्चाग्निवैश्वानरदहरमधुन्याससत्पूर्वसंज्ञाः
नाना शब्दादिभेदात्तुलितफलतया तद्विकल्पश्च शिष्टः ।
कर्मज्ञानाख्ययोगौ त्विह परभजनाधिक्रियार्थौ स्वदृष्ट्या
धर्मैवर्णाश्रमाणां त्रयमिदमवदन् सेतिकर्मव्यताकम् ॥ ३१ ॥
यदि भक्तिरेका मुक्त्युपायः, कथं परविद्याभेदकॢप्तिरित्यत्राह – विद्या इति ॥ नाना – मिथो भिन्ना इत्यर्थः । शब्दादिभेदात् – द्वैतीयाद्भेदकवर्गात् । किमेतासां ज्योतिष्टोमाग्निहोत्रादिवत्फलभूयस्त्वार्थमेकस्मिन्नधिकारिणि संभव इत्यत्राह – तुलितेति । परिच्छिन्नेषु स्वर्गादिफलेषु तारतम्यवत्सु तद्भूयस्त्वापेक्षयोपायसमुच्चयसंभवः । इह तु न तथा, अविशिष्टफलत्वात् । स्वात्मप्राप्तौ सालोक्यादिमात्रे च मुक्तिशव्दो भाक्तः । मुक्तितारतम्यं वदद्भिस्तु मुक्तिरेव शिक्षणीया । सर्वकर्मनिवृत्तौ स्वतःप्राप्तब्रह्मानुभवतारतभ्यायोगात्, कतिपयकर्मनिवृत्तेः स्वर्गादावपि समत्वात् । शिष्टः – विकल्पोऽविशिष्टफलत्वात् इति सूत्रे । ननु कर्मज्ञानयोगयोरपि मुक्तिसाधनत्वं शिष्यते; गरिष्ठस्य च भक्तियोगस्य । अतो मुक्तितारतम्यं युज्यत इत्यत्राह – कर्मेति । स्वदृष्ट्या – स्वात्मावलोकनद्वारेणेत्यर्थः । तदुक्तमात्मसिद्धौ ‘उभयपरिकर्मितस्वान्तस्यैकान्तिकात्यन्तिकभक्तियोगलभ्यः इति । यदि कर्मयोगोऽधिकारार्थः, तर्हि लब्धाधिकारस्य कर्मनैरपेक्ष्य स्यादित्यत्राह – धर्भैरिति । अयं भावः – कर्मयोगो नाम नियमयुक्तः कर्मविशेषः । तन्निवृत्तिदशायामपि न वर्णाश्रमधर्मनिवृत्तिः । कर्मनिषेधोऽप्यन्यविषयः । अतस्त्रयोऽपि योगा वर्णाश्रमधर्माङ्गका इति । तथा च संगृहीतम् – ‘त्रयाणामपि योगानां मात्रयाऽन्योन्यसङ्गमः । नित्यनैमित्तिकानां च पराराधनरूपिणाम् ॥ इति ॥ ३१ ॥ इति विद्याभेदतद्विकल्पादिः ॥
2.102 विश्वान्तर्यामि तत्त्वं स्वयमिह चिदचिद्विग्रहैर्वा विशिष्टं
यस्यामालम्बनं सा भवभयशमनी वीतरागस्य विद्या ।
यस्तूपास्ते यथोक्तं तदितरदखिलं ब्रह्मदृष्ट्या स्वतो वा
नैतस्य ब्रह्मनाड्योद्गतिरपि न पदव्यर्चिरादिर्न मोक्षः ॥ ३२ ॥
ननु मुमुक्षुमधिकृत्योपनिषदामुत्थानम्; अतस्तत्रत्यानां सर्वासां विद्यानां विकल्पः स्यादित्यत्र मुक्तिसाधिकास्तदन्याश्च विषयतोऽधिकारतश्च विभजते – विश्वेति ॥ स्वयं -स्वरूपनिरूपकैर्निरूपितस्वरूपविशेषकैश्च धर्मैर्विशिष्टम्; स्वासाधारणदिव्यविग्रहैर्वा, चिदचिद्विग्रहैः – इन्द्रप्राणादिचिदचिद्रूपैः शरीरैः । वीतरागस्येति विशेषणात् परभजनमपि रागिणः परिमितफलसाधनमिति सूच्यते । संजगृहे च ‘भक्तियोगस्तदर्थी चेत्समग्रैश्वर्यसाधनम्’ इति । यथोक्तं – चिदचिद्रूपेण विभक्तम्; यद्वा तत्तद्विद्याविहितप्रकारेणेत्यर्थः । स्वतः – ब्रह्मपर्यन्ततां ब्रह्मदृष्टिं च विहाय । नैतस्येत्यादि । नाडीभेदो हि ‘तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्ह्या उत्क्रमणे भवन्ति’ इति विभज्यते । स्मर्यते च ‘ऊर्ध्वमेकः स्थितस्तेषाम्’ इत्यादिना । अर्चिकादगतिश्च ब्रह्मविद एवाधिकृत्य तत्रतत्र श्रूयते । तथा च सूत्रम् ‘अप्रतीकालम्बनान्नयति’ इत्यादि । मोक्षश्च ‘तमेव विदित्वाऽतिमृत्युमेति’ इत्यवधारितः ॥ ३२ ॥ इति त्रिवर्गापवर्गार्थविद्याविभागः ॥
2.103 स्वान्तध्वान्तप्रसूतं दुरितमपनुदन् योगिनस्तत्त्वशुद्ध्यै
सर्वो वर्णादिधर्मश्शमदममुखवत्सन्निपत्योपकारी ।
विद्यां चेत्यादिवाक्येऽप्यनुकथितमिदं नैकवाक्यानुरोधात्
कर्मापेक्षाभिसन्धिं क्वचन विवृणुते तत्समुच्चित्यवादः ॥ ३३ ॥
अथ कर्मणां ‘सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् इति सूत्रसिद्धं विद्यार्थत्वं द्वारप्रदर्शनेन प्रापयन् समुच्चयवादं च निरस्यति – स्वान्तेति ॥ ध्वान्तशब्द इह तमोगुणे भाक्तः । सत्त्वस्य शुद्धिः गुणान्तरसंभेदाभावः, शमदमादीनां चित्तैकाग्र्यहेतुत्वस्य दुरपह्नवत्वात्तन्निदर्शनम् । सन्निपत्योपकारी – करणशरीरनिष्पादक इत्यर्थः । वाद्ययरयोजनाव्यावृत्त्यै श्रुत्यन्तरस्याप्युक्तार्थपरत्वमाह – विद्यां चेति । ‘अविद्यया मृत्युं तीर्त्वा’ इति सत्कर्मणा विद्योत्पत्तिविरोधिकर्मतरणं विवक्षितम्; ‘धर्मेण पापमपनुदति’, ‘कषायपक्तिः कर्माणि’ इत्याद्यनेकवाक्यानुरोधात् । मृत्युं प्राप्य स्थित इति तु क्लिष्टगतिः, मृत्युतरणममृतप्राप्तिरिति साध्यद्विवाभावात् । अत्र साधनद्वित्वादिश्चायुक्तः । ‘ब्रह्मविद्यामधिष्ठाय तर्तुं मृत्युमविद्यया’ इत्युपबृंहणेन चैतत्सर्वं व्यक्तम् । ‘हतं ज्ञानं क्रियाहीनं हता चाज्ञानिनां क्रिया’ इत्यादिषु द्वयोस्समुच्चितवद्वादः कुदृष्टिमतनिवृत्त्यै कर्मसापेक्षत्वाभिसन्धिं व्यनक्ति । निषिद्धकाम्यत्यागेन नित्यनैमित्तिकग्रहः । अधिकाराङ्गताज्ञासु – यथार्हमवतिष्ठते ॥ ३३ ॥ इति कर्मणां विद्योपकारकत्वप्रकारः ॥
2.104 संस्कारः कर्मकर्तुर्न भवति विहितं मुक्तये ज्ञानमन्य-
न्नाप्येतत्कर्मणोऽङ्गं न च सकृदसकृत्त्वाप्रयाणानुवृत्तम् ।
अङ्गं तस्यासनाद्यं प्रणिधिसमुचितौ देशकालप्रभेदा-
वित्याद्यं साङ्गयोगप्रकरणविततं सूत्रभाष्यादिषूक्तम् ॥ ३४ ॥
एवं केचिदूचुः – कर्मानुष्ठाता जीवः स्वाध्यायसाध्येन स्वविषयज्ञानेन संस्क्रियते; त एव ज्ञानज्ञेये वेदान्तेषु प्रशस्येते इति तन्निरस्यति – संस्कार इति । विहितं मुक्तयेऽन्यदिति हेतुत्रयपरम्; नहि वाक्यजन्यं ज्ञानं विधीयते; तस्य विधानमन्तरेण रागप्राप्तविचारसिद्धत्वात् । न च वाक्यजन्यज्ञानान्मोक्षेः निरसिष्यमाणत्वात् । अन्यदेव हि वाक्यार्थज्ञानाद्विहितमुपासनाद्यात्मकं ज्ञानम्; जीवातिरिक्तविषयतया चान्यत्वं भाव्यमिति । तथाऽपि ‘तत्प्राप्तिहेतुर्ज्ञानं च कर्म च’ इति सहपाठाविशेषे कर्म चेत् ज्ञानाङ्गं विपरीतं किं न स्यादित्यत्राह – नापीति । न हि सहोक्तिमात्रात्तादर्थ्यं शिष्मः; किं तु अनन्यथासिद्धैर्विनियोजकैरिति भावः । कर्तृसंस्कारत्वविरोधव्यक्त्यर्थमन्यविध्यर्थं च पूर्वोक्तमेवाह – न च सकृदिति । असकृदावृत्तमपि ज्ञानमेकदिनेऽशक्यमित्यत्राह -असकृदिति । ‘प्रायणान्तमोङ्कारमभिध्यायीत’, ‘स खल्वेवं वर्तयन् यावदायुषम्’ इत्यादिश्रुतिसिद्धमाप्रयाणत्वम् । सदा चिन्तनविधानाद्गमनादावपि स्यादित्यत्राह – अङ्गमिति । निरन्तरस्मृतिरासीनस्यैव स्यात्, गमनादौ तु तद्विधिस्सान्तरविषयः । आदिशब्देन समकायशिरोग्रीवत्वादिसंग्रहः । प्रणिधिः – चित्तैकाग्र्यम् । आद्यशब्देन प्रशान्तात्मकत्वविगतभीतित्वादि गृह्यते । सूत्राण्यत्र ‘आवृत्तिरसकृदुपदेशादित्यादीनि’ ॥ ३४ ॥ इति विद्यायाः कर्मकर्तृसंस्कारत्वभङ्गः ॥
2.105 ब्रह्मण्यैकान्त्यभाजां मुहुरनुकथितो मोक्षधर्मेऽपवर्ग-
स्तस्मान्नानाऽमरेज्या न भवति परभक्त्यङ्गमित्यप्ययुक्तम् ।
ऐन्द्रीप्रातर्दनादिप्रथितनयविदामन्तरात्मैकलक्ष्ये-
ष्वग्नीन्द्रादिप्रयोगेष्वखिलमपि विभुः कर्म भुङ्क्ते स एकः ॥ ३५ ॥
वर्णाश्रमधर्माणामङ्गित्वाभिमतविद्याविरुद्धत्वमाशङ्क्य परिहरति – ब्रह्मणीति ॥ ऐकान्त्यभाजाम् – अनन्यदेवताकानामित्यर्थः । ‘तेषामेकान्तिनः श्रेष्ठास्ते चैवानन्यदेवताः’ इति स्थापनात् । तत्रैव च ‘प्रतिबुद्धस्तु मोक्षभाक्’ इति नियम्यते । ‘ब्रह्माणम्’ इत्यारभ्य, ‘प्रतिबुद्धा न सेवन्ते’ इत्यन्तेन चैतत्सिद्धम् । यागादयस्त्वग्नीन्द्रादिनानादेवताकाः । अङ्गाङ्गिविरोधे च न्याय्योऽङ्गत्याग इति, एतदपि न युक्तम्, कुत इत्यत्राग्न्यादिशब्दानां ब्रह्मणि वृत्तिद्वयेन विरोधं परिहरति – ऐन्द्रीति । यथा ‘ऐन्द्या गार्हपत्यमुपतिष्ठते’ इति विनियोगादिन्द्रशब्दः कयाचिद्वृत्त्या गार्हपत्यार्थः । एवं ‘स्वकर्मणा तमभ्यर्च्य’ इत्यादिभिस्तत्तद्देवताशब्दानां क्वचिदवयवशक्त्या ब्रह्मणि वृत्तिः, क्वचित्तु प्रतर्दनविद्योक्तन्यायेन प्रसिद्धचिदचिल्लिङ्गानन्यथासिद्धौ तत्तद्विशिष्टविश्रान्तिरिति अग्न्यादिशब्दानामन्तरात्मविषयतया प्रतिबुद्धैः प्रयोगादेक एव सर्वकर्मसमाराध्यः । ऐकान्त्यं च तेषामक्षतम् । अव्यवहितार्चने लभ्ये किं व्यवहितेनेति चेन्न -अधिकारव्यवस्थितेरक्षोभ्यत्वादिति ॥ ३५ ॥ इति वर्णाश्रमधर्माणामैकान्त्यविरोधपरिहारः ॥
2.106 त्यागत्रैविध्यमुक्त्वा स्वमतमिह जगौ सात्त्विकं त्यागमीश-
स्तस्माद्वर्णाश्रमादित्यजनमपदृशां तामसं मोहमूलम् ।
योगारूढस्य कर्भच्यवनमपि तदा सह्यमङ्ग्यर्थवाक्यै-
र्योगं त्वत्याश्रमिभ्यः परममिति वचो वक्ति मोक्षाश्रमेण ॥ ३६ ॥
परेष्टभङ्गाय त्यागविशेषं निष्कर्षति – त्यागत्रैविध्यमिति ॥ स्वमतम् – ‘एतान्यपि च कर्माणि इति श्लोकोक्तम् । ‘कार्यमेव इति श्लोकोऽपि तदर्थः । तत्फलितमाह – तस्मादिति । ‘मोहात्तस्य परित्यागस्तामस इत्यस्यार्थोऽपदृशामित्यादिना दर्शितः । ननु योगदशायां कालादिकमजानतः कर्तव्यलोपः स्यादेव, अतः कर्मत्यागोऽत्र न तामस इति; तत्राह – योगारूढस्येति । योगदशायां बहिरप्रवृत्तमनसो न धीपूर्वकर्मत्यागः । अबुद्धिपूर्वकं तूत्थानकालेऽपि न लिम्पतीति नियमितम्, किमुत समाधौ । अङ्ग्यर्थवाक्यैः – कर्मणा समाधिरूपाङ्गिशेषत्ववाक्यैरित्यर्थः । ततश्चाङ्गप्रधानविरोधोऽङ्गिनाऽङ्गोपमदो न दोषाय । ‘अत्याश्रमिभ्यः परमं पवित्रं प्रोवाच इत्यत्रातिशयिताश्रमियोगो विवक्षित इत्यत्राह – योगं त्विति । अन्यथा मत्वर्थीयवैयर्थ्यादिति भावः ॥ ३६ ॥ इति वर्णाश्रमादिधर्भस्वरूपत्यागभङ्गः ॥
2.107 तुर्यो निष्कृष्य मोक्षाश्रम इति कथितस्तेन नान्येषु विद्या
शान्त्यादिव्याहतेश्चेत्यसदिह गुणिनां सर्वतो मुक्त्यधीतेः ।
यावज्जीवं द्वितीयाश्रमवति पुनरावृत्त्यभावोऽप्यधीतः
स्मृत्याद्यैश्चैवमुक्तं भवति तु चरमे योग्यताधिक्यमात्रम् ॥ ३७ ॥
प्रव्राजिनप्तेव मुक्तिस्तत्साधनी विद्या चेति पक्षमनूद्य प्रतिक्षिपति – तुर्य इति ॥ विशेषविधौ परिसङ्ख्यया शेषनिषेधः सिध्येदिति भावः । अतस्तदन्येषु त्रिषु तत्साधनी विद्या नेत्याह – तेनेति । अधिकारिविरोधादप्याह – शान्त्यादीति । प्रवृत्तिरूपा वेदानुवचनयज्ञादयः, शमादयस्तु निवृत्तिरूपाः, ते कथमेकत्र स्युरिति भावः । अत्र बाधकमाह – गुणिनामिति । ‘दया सर्वभूतेषु क्षान्तिरि’त्याद्युक्तगुणवतामित्यर्थः । ‘त्रयो धर्मस्कन्धाः’ इत्यत्र बह्वाश्रमप्रस्तावे ‘ब्रह्मसंस्थोऽमृतत्वमेति’ इत्युच्यते । संभवति चाधीतवेदेषु सर्वेषु ब्रह्मनिष्ठा; सा च गृहस्थानामेवोषस्तियाज्ञवल्क्यप्रभृतीनामुपनिषत्सु प्राचुर्येण दृश्यते । न च प्रवृत्तिनिवृत्त्योर्विरोधः, भिन्नविषयत्वात्, नित्यनैमित्तिकेपु प्रवृत्तिः निषिद्धकाम्यनिरर्थकेषु निवृत्तिरिति । अन्यथा प्रव्राजिनां स्वाश्रमधर्मेणापि विरोधः स्यात् । अपि च छान्दोग्यान्ते ‘कुटुम्बौ शुचौ देशे इत्यादिना गृहस्थं प्रक्रम्य’, ‘स खल्वेवं वर्तयन्यावदायुषं ब्रह्मलोकमभिसंपद्यत’ इत्युक्त्वा ‘न च पुनरावर्तते’ इति चोक्तम् । तदाह – यावज्जीवमिति । अत्रोपबृंहणभूयस्त्वमाह – स्मृत्याद्यैरिति । ‘गृहस्थोऽपि हि मुच्यते’ इति स्मर्यते । जनकदिलीपादयश्च गृहस्था एव मुक्ता इतीतिहासादिषूक्ताः । अत एव न सोपानवत्क्रमनिर्बन्धः । कस्यचिन्मोक्षाश्रमत्वोक्तिः किंनिमित्तेत्यत्राह -भवतीति ॥ ३७ ॥ इति सर्वाश्रमिणां ब्रह्मविद्याधिकारः ॥
2.108 यन्नित्यं तन्न कार्यं तदपि न तदिति स्थापिते कर्मभेदे-
ऽप्येकं विद्याश्रमाङ्गं भवति हि विनियुक्त्यन्तरेणोपपत्तेः ।
तत्रानुष्ठानतन्त्रं विदुषि तु घटते कर्तृकालाद्यभेदात्
प्राजापत्यादिलोकार्थिनि च तदितरोऽनर्थरोदाय तद्वान् ॥ ३८ ॥
कथं नित्यकर्मणां विद्याङ्गत्वम्? नित्यत्वे ह्यकरणे दोषः, काम्याङ्गत्वेऽसौ न स्यात् । अतो नित्यकाम्ययोरभेदायोगात्प्रकृतं विरुद्धमित्येतदनूद्य परिहरति – यन्नित्यमिति ॥ हिशब्दः संभवप्रसिद्धिपरः । श्लो. ज्योतिष्टोमाग्निहोत्रादौ विनियोगपृथक्त्वतः । नित्यकाम्यस्वरूपत्वं दृष्टं तद्वदिहास्तु नः ॥ विध्यैक्येऽपि क्वचिद्दृष्टा काम्यनैमित्तिकात्मता । विधिभेदे तु किं न स्यादत्र कैमुतिकी गतिः ॥ एवं त्रिरूपत्वमपि क्वचित् ग्राह्यम् । तर्हि विद्यार्थमाश्रमार्थं च द्विरनुष्ठानं प्रसज्यत इत्यत्राह – तत्रेति । तन्त्रम् – उभयार्थं सकृत्करणम्, तच्चैकादशे स्थापितम् । नित्यस्य विद्यानङ्गतयाऽपि काम्यत्वे तन्त्रमुदाहरति – प्राजापत्यादीति । उक्तव्यतिरिक्तेषु निष्फलतया नित्यकर्मनिवृत्तिप्रक्षङ्ग इत्यत्राह – तदितर इति ॥ ३८ ॥ इति नित्यकर्मणां विद्याङ्गत्वाश्रमाङ्गत्वादि ॥
2.109 मन्दस्यापि प्रवृत्तिः किमपि फलमनुद्दिश्य कस्यापि न स्यात्
नित्येऽनर्थोपरोधप्रभृति फलमतः काम्यतैवेति चेन्न ।
नित्येष्टोऽनर्थरोधस्तदितरदतथा किंच शिष्टो विधीना-
माज्ञानुज्ञाविभागस्सुगम इह निरुक्त्यैव नैमित्तिकांशः ॥ ३९ ॥
सर्वचेतनप्रवृत्तीनां यत्किंचित्प्रयोजनान्वयान्नित्यादिविभागो न स्यादित्याशङ्क्य परिहरति -मन्दस्येति ॥ प्रभृतिशब्देन ‘पापेभ्यो रक्षन्ताम्’ इत्यादिप्राप्तदुरितक्षयसंग्रहः । अतः -कर्त्रभीष्टफलत्वादित्यर्थः । काम्यतैव, नित्यनैमित्तिकयोरिति शेषः । सफलत्वाविशेषेऽपि नित्ये तावत्फलविशेषापेक्षया विभागाभिप्रायमाह – नित्येष्ट इति । अनर्थपरिहारस्य सर्वेषां सर्वदाऽभीष्टत्वात्तदर्थे कर्मणि अकरणानर्हतया नित्यत्वेन विभागः । तदितरत् -सुखम् । अतथा – सर्वदाऽभीष्टं न भवति १ सुखरहितायास्सुषुप्तेराकाङ्गणात् । अतस्सुखार्थे काम्यतोक्तिः । उक्तमेव विभागं मुखभेदेन द्रढयति – किं चेति । राजादिनयादीश्वराज्ञानुज्ञारूपविधिभेदाद्विधेयविभागस्सिद्ध इत्यर्थः । ननु द्विविधं नैमित्तिकम्; तत्र प्रायश्चित्तमुपात्तानर्थहेतुनिरासार्थम्; अन्यदप्यकरणनिमित्तानर्थपरिहाराय; अतस्तयोरपि नित्यराशिप्रवेशप्रसङ्ग इत्यत्राह -सुगम इति ॥ ३९ ॥ इति नित्यकाम्यादिविभागः ॥
2.110 कर्तव्यं यन्निमित्ते सति तदुभयधा पापशान्त्यर्थमेकं
तत्स्यात्काम्येन तुल्यं परमकरणतो दोषकृन्नित्यतुल्यम् ।
सत्यां कामश्रुतौ संवलितमपि भवेत्तद्बलादेतदेव
त्यागं च प्रत्यवायस्त्वनधिकृतिमुखस्तत्रतत्रावसेयः ॥ ४० ॥
काऽत्र निरुक्तिः कीदृशश्च नैमित्तिकांश इत्यत्राह – कर्तव्यमिति ॥ एकं – प्रायश्चित्तरूपम्, तस्याकरणनिमित्तप्रत्यंवायाभावात्काम्यतुल्यत्वम् । परं -केवलनैमित्तिकम्, तस्याकरणे दोषोन्नित्यतुल्यत्वम् । जातेष्टेर्नैमित्तिकत्वेऽपि पुत्रगतपूतत्वादिसाधनतया संवलिताधिकारत्वमुक्तम् । तदाह – सत्यामिति । नित्ये केवलनैमित्तिके चाकरणे दोषोऽधिकारभ्रंशादिरूपस्तत्तत्प्रकरणेषु ग्राह्य इत्याह – त्यागे चेति ॥ ४० ॥ डति नैमित्तिकावान्तरविभागः ॥
2.111 निष्कामं चेन्निवृत्तं तदिह न घटते मुक्तिकामाधिकारात्
स्वप्रीतिस्पर्शहीना न च भवति परप्रीतिरिष्टेति चेन्न ।
युक्ता यस्मान्निवृत्तिर्बहुभयशबलात्तन्निवृत्तं निवृत्तं
सूते यत्र प्रवृत्तिस्त्वभिमतमहितं तत्प्रवृत्तं प्रवृत्तम् ॥ ४१ ॥
यस्तु मन्वादिभिरुक्तो विभागः – इह वाऽमुत्र वा काम्यं प्रवृत्तम्, निष्कामस्य ज्ञानपूर्वं तु निवृत्तमिति, स कथं घटते? (सर्वेषामपि धर्माणां यत्किंचित्फलकाममधिकृत्यैव विधेः । यद्यपि निराशीःकर्मकारिणां परमात्मप्रीतिरेवाद्देश्या, तथाऽपि तत्कामत्वं सिद्धम् । परप्रीतेरुद्देश्यत्वं च तस्याः स्वप्रीतिपर्यन्तत्वमभिसन्धातॄणामेव । अतस्तेषामपि स्वप्रीतिकामत्वं दुस्त्यजमित्याक्षेपमनूद्य प्रत्याचष्टे – निष्काममिति ॥ नात्र निष्कामशब्दः इच्छामात्रनिवृत्त्यर्थ इति निषेधाभिप्रायः । कुतस्तर्हि विभाग इत्यत्राह – युक्तेति । अनर्थाविनाभूतसुखकामनातो निवृत्तं कर्म निष्कामं निवृत्तमिति चाहुः, अनेवंविधं तु काम्यं प्रवृत्तमिति च इति भावः ॥ ४१ ॥ इति प्रवृत्तिनिवृत्तिविभागः ॥
2.112 पुंभिः सिद्धाधिकारैः क्रतव इव निराकाङ्क्षभावं भजन्त्यः
प्रोक्तास्त्रैवर्णिकार्हाश्श्रुतिनयवशतो यद्यपि ब्रह्मविद्याः ।
अस्तेयाद्यैः प्रपत्त्या परिचरणमुखैरप्यधीतैः स्वजातेः
सर्वेऽपि प्राप्नुयुस्तां परगतिमिति तु ब्राह्मगीतादिसिद्धम् ॥ ४२ ॥
यदि यज्ञादिभिरेव विद्योपकारः, तर्ह्याश्रमान्तराणां सा न स्यात् । अथ यथार्हं स्ववर्णादिधर्मैः, तदा शूद्रस्यापि स्यात्; ततश्च काण्डद्वयोक्तापशूद्रनयविरोधः; तत एवानधिकारे ‘मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः । स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम्’ ॥ इति शरण्योक्तिविरोध इत्यत्राह – पुंभिरिति ॥ सिद्धाधिकारैः – अधीतवेदतयाऽनुष्ठानोप्युक्तज्ञानवद्भिरपेक्षितमन्त्रविद्भिश्चेत्यर्थः । श्रुतिनयवशतः – अध्ययनविधिसिद्धन्यायसामर्थ्यात् । तथा हि – अग्निविद्यासापेक्षाः क्रतुविधयो यथाधीतवेदैरग्न्याधानार्हैर्निराकाङ्क्षाः स्वसिद्ध्यै नान्येष्वन्यतोऽधिकारं प्रयुञ्जते । एवं विद्याविधयोऽपि ‘शुगस्य’ इत्यधिकरणे यद्यपि प्रोक्ताः, तथाऽपि ‘शरणं त्वां प्रपन्ना ये ध्यानयोगविवर्जिताः । तेऽपि मृत्युमतिक्रम्य यान्ति तद्वैष्णवं पदम्’ ॥ इति ब्राह्मवचनात् । ‘स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः’ इति चातुर्वर्ण्यविषयभगवदुक्त्या च शूद्रस्यापि शास्त्रसिद्धैः फलसङ्गत्यागवद्भिर्निवृत्तिधमैर्योगो न विरुद्धः । स च मुक्तिपर्यन्त एव स्यादिति भावः ॥ ४२ ॥ इति त्रैवर्णिकाधिकारसर्वाधिकारविभागः ॥
2.113 ध्यानादृष्टेन साक्षात्कृतिरुपजनिता बाधते चेत्प्रपञ्चं
तत्तुल्यार्थैव शाब्दी प्रमितिरपि न किं बाधते पूर्वमेव ।
ज्वालैक्यादौ परोक्षादपि हि निजगदुर्बाधमध्यक्षबुद्धे-
र्नाप्यत्रादृष्टरूपामहितविमथनीं शक्तिमङ्गीकरोषि ॥ ४३ ॥
अद्वैतिनः केचिदाहुः – ‘तत्त्वमस्याद्युपदेशलब्धब्रह्मात्मभावावबोधस्य तदेकध्यानसाध्यादृष्टजन्यसाक्षात्कारेण विश्वभ्रमबाध इति; तदनूद्य दूषयति – ध्यानेति ॥ अयं भावः – ध्यानजनकं वाक्यजन्यं ज्ञानं ध्यानादृष्टजन्यं च समानविषयं न वा? आद्ये किमन्येन, वाक्यजन्यज्ञानादेव मुक्तिस्स्यात्? उत्तरत्र ब्रह्मणि सविशेषत्वं स्यात्, वेद्याकारवैषम्यात् । आकारभेदः कल्पित इति चेन्न; तयोर्भ्रान्तित्वप्रसङ्गात्, ‘तत्त्वज्ञानान्मोक्ष इति चाङ्गीकारात्, अन्यथा त्रय्यन्तवैयर्थ्यात् । अस्तु प्रागेव वाधः, बाधितानुवृत्तिपरिहाराय तु साक्षात्कार इति चेन्न; साक्षात्क्रियमाणेऽपि तत्त्वे दोषानुवृत्तौ बाधितानुवृत्तेर्लोके बहुलमुपलम्भात् । दोषनिवृत्तौ तु बाधितानुवृत्तेरेवाभावात् । सदेहानां च यावज्जीवं सा दुर्वारा । देहनिवृत्तौ चक्रभ्रमन्यायात्स्वयमेव निवर्त्स्यतीति किं तद्बाधकेन? ननु प्रत्यक्षभ्रमस्य परोक्षं कथं बाधकमित्यत्राह – ज्वालैक्यादाविति । अनुमातोऽप्यत्र ज्वालैक्यप्रत्यक्षं बाध्यते, देहात्मभ्रमश्चानुमानतश्शास्त्रतो वा, तथेहापि स्यात्; अन्यथा कथमद्वैतवाक्यार्थविस्रम्भपूर्वकध्यानादिसिद्धिः? ध्याननियोगजन्यज्ञानस्य गरुडादिदृष्टिन्यायादनिष्टनिवर्तकत्वमिति चेत्, तत्राह – नापीति । विरुद्धविषयावगाहनशक्त्या बाधितस्य हि मिथ्यात्वसिद्धिः, विषहरणधीन्याये तु विषादिवदेव निवर्त्यसत्यत्वप्रसङ्गादिति भावः ॥ ४३ ॥ इति ध्वाननियोगवादभङ्गः ॥
2.114 निर्दिष्टो निष्प्रपञ्चीकरणविधिरसौ गौडमीमांसकाप्तै-
र्दृष्टो न क्वापि दुर्निर्वहमपि करणाद्यत्र साध्याविशेषात् ।
मुक्तिर्नैयोगिकी चेज्जगदपि न मृषा नश्वरी सापि ते स्यात्
ध्वंसात्मत्वेऽपि तस्या न च वदसि भिदां ब्रह्मणस्तच्च नित्यम् ॥ ४४ ॥
अन्ये तु वर्णयन्ति – नित्यशुद्धमप्यद्वितीयं ब्रह्म गगनमिव गन्धर्वनगरवत्तया सप्रपञ्चतया प्रतीयमानं निष्प्रपञ्ची – कुर्यादिति विधिविषयानुष्ठानजनितनियोगविशेषेण विश्वाविद्यानिवृत्तिरिति; तान्प्रत्याचष्टे – निर्दिष्ट इति ॥ अनधीतभधीतविरुद्धं च कल्पयन्तीति व्यक्त्यै गौडमीमांसकाप्तत्वोक्तिः । क्वापि – श्रुतिषु स्मृतिषु चेत्यर्थः । न क्वापि दृष्ट इत्ययुक्तं ‘न दृष्टेर्द्रष्टारं पश्ये’ इत्यादिदर्शनादिति चेत्, न ह्यत्र वाक्ये द्रष्टादिप्रध्वंसं कुर्वीतेति विधीयते, किंतु जीवस्यौपाधिकं रूपं नानुसन्धत्स्वेति वा, करणायत्तज्ञानं जीवं परत्वेनापश्यन् स्वतस्सर्वज्ञं पश्येरिति वा, प्रकारान्तरेण वा नेतुं शक्यत्वात् । निषेधश्रुतयश्चान्यपराः न च विधिप्रसङ्गवत्यः । दूषणान्तरमाह -दुर्निर्वहमिति । नियोगस्य हि करणेतिकर्तव्यतादि वक्तव्यम् । यदि प्रपञ्चध्वंसेन नियोगं भावयेदिति करणकॢप्तिः, तदा नियोगसाध्यसाधनयोरविशेष इत्यन्योन्याश्रयः । अथ नियोगमजागलस्तनीकृत्य निष्प्रपञ्चभावनयैव निष्पपञ्चीकरणं, तदाऽऽत्माश्रयः । इतिकर्तव्यता च करणानुपपत्त्यैव निरस्ता । प्रयोक्ता चासौ द्रष्टा न स्वावसानाय नियोगकृत्यामुत्पादयेत्, तदा च ‘शास्त्रफलं प्रयोक्तरीति न स्यात् । अथ शुद्धस्य ब्रह्मणः फलम् । तन्न, तस्य भ्रमाध्यासशून्यत्वाङ्गीकारात्, तदर्थित्वाभावाच्छास्त्रार्थप्रयोक्तृवायोगाच्च । अस्मिन्पक्षेऽपसिद्धान्तापत्तिमाह – मुक्तिरिति । यस्यादृष्टसाध्यो नाशस्तस्य ज्ञानबाध्यत्वाभावात् प्रपञ्चमृषात्वं न स्यात् । नियोगसाध्यं च सर्वं काल्पनिकत्वादनित्यमिति मन्यसे, अतो मुक्तिरपि नश्वरीति बन्धोन्मज्जनप्रसङ्गः; अभावाभावस्य भावत्वात् । ध्वंसस्य च ध्वंसप्रवाहापत्तिः । न च ते तत्कॢप्तौ हेतुरस्ति । ननु ध्वंसो ह्युतरावधिरहितः, प्रायश्चित्तनियोगात्पापवसवत् मुक्तेरनश्वरत्वं स्यादित्यत्राह-धवंसात्मत्वेऽपीति । ध्वंसरूपा मुक्तिर्ब्रह्मणोऽन्याऽनन्या वा? नाद्यः, कार्यस्य सर्वस्य घटतद्ध्वंसादेः स्वप्नप्रपञ्चतद्ध्वंसादेरिव बाध्यत्वाभ्युपगमात् । अबाधे च मुक्तावपि भेदसिद्धिप्रसङ्गात् । भावाद्वैतपक्षश्च न युक्तः, क्वचिन्निर्बाधितभेदसद्भावेऽन्यत्रापि तदविरोधात् । तत्र चोक्तानां बाधकानां त्वदिष्टेऽपि संचारयितुं शक्यत्वात्; न द्वितीयः, ध्वंसस्य साध्यत्वात् ब्रह्मणस्तु नित्यत्वात् तयोस्तादात्म्यायोगात्; तदिदमभिप्रेत्याह – तच्च नित्यमिति ॥ ४४ ॥ इति निष्प्रपञ्चीकरणनियोगवादभङ्गः ॥
2.115 वाक्यार्थज्ञानमात्राद मृतमिति वदन्मुच्यते किं श्रुतेऽस्मिन् वार्ड चेन्मानबाधस्स यदनुभवति प्रागिवाद्यापि दुःस्वम् । ध्यानादीनां विधान भवति च वितर्थ तन्न युक्तं न चेष्ट ध्यानाद्यङ्गाढचशब्दोदितचरममतेर्नाधिकं वः प्रकाश्यम् ॥ ४५ ॥
यस्त्वाह किं ध्याननियोगेन नियोगान्तेरण वा, तत्त्वावेदकवाक्यजन्यज्ञानादेव कल्लितबाधोपपत्तेः; दृष्टश्च दृढप्रतीतस्यापि वाक्यतो बाधः । ज्ञानमात्रादेव च मुक्तिश्श्रूयते, भवति च वाक्यादद्वैतधीः अतस्तैव द्वैतनिवर्तिकेति, सोऽयमनुयोक्तव्यः किं श्रवणजन्यज्ञानमात्रात्प्रतिष्ठापितान्मुक्तिः ? उता द्वैतज्ञानजनितविकल्लवैमुख्यस्य तेनैव वाक्येन जनिताद्विशदज्ञानादिति । तत्राद्यं निरस्यति वाक्यार्थेति ।। बाधकज्ञाने सति बाधः कथं न स्यादिति शङ्कते बाढ चेदिति । अत्र प्रमाणत्रयविरोधमाह मानवाध इति । स्वात्मनि प्रत्यक्षेण स्वस्मिन् परत्रानुमानागमाभ्याम् । ब्रह्मविदो- ऽप्यमुक्ताश्चिरजीविनः श्रुतिस्मृतिसिद्धाः । बुद्धे क्षेमप्रापणं तच्छास्त्रैर्विप्रतिषिद्धम् बुद्धे चेत् क्षेमप्रापणमिहैव न दुःख- सुपलभेत इत्यापस्तम्वोक्तं प्रसङ्गमभिप्रेत्याह स इति । प्रसङ्गान्तरमाह ध्यानादीनामिति । बहुवचनम् उपासनात्मकत्व- दर्शनरूपत्वादिविशेषणभेदात् । अत्र वेदोदितत्वान्न वैतथ्यं मोक्षार्थविद्यानां नान्यार्थत्वमित्यभिप्रायेणाह तन्न युक्तमिति । अपसिद्धान्तत्वमप्याह-न चेष्टमिति । ध्यानस्य भेद्वासनानिरासार्थत्वं हि ब्रूथ । द्वितीयं दूषयति ध्यानेति । अयं भावः पश्चात्तनं वाक्यार्थज्ञानं पूर्वाविशिष्टविषयम् ? अधिकविषयं वा? उभयत्र प्रागेव दूषणमुक्तमिति ॥ ४५ ॥ इति वाक्यार्थज्ञानस्य मोक्षोपायत्वभङ्गः ।।
2.116 उद्देश्यांशं त्वमाद्यं स्फुटमनुभवतां सम्पगध्यक्षवित्त्या
प्रत्यक्षत्वभ्रमोऽयं त्वमसि दशम इत्यादिवाक्यार्थबोधे ।
शब्दात्प्रत्यक्षबोधे प्रसजति शिथिला तद्व्यवस्था ततोऽर्थे
साक्षात्कारं न शब्दो जनयति विमतस्सिद्धवच्छब्दभावात् ॥ ४६ ॥
प्रत्यक्षभ्रमस्य प्रत्यक्ष एव बाधक इति निर्बन्धो नेत्युक्तं, तत्सद्भावेऽपि शब्दः प्रत्यक्षरूपबाधकधोजनक इति न शक्यं कल्पयितुम्; अन्यथा क्वचिदनुमानेऽपि तत्कॢप्तिः । न च कोद्रवबीजस्य स्वाभीष्टकलमाङ्कुरजनकत्वकॢप्त्या तत्सिद्धिः । ननु दग्धवेत्रबीजस्य रम्भाङ्कुरारम्भकत्वं दृश्यते । यदि दृश्यते कस्तन्निषेधेत्? अथ नेदं निदर्शनं, वाक्येष्वपि दशमस्त्वमसि, संवित् स्वप्रकाशा इत्यादिषु प्रत्यक्षधीजनकत्वं दृष्टमिति चेत् कथमेतत्? दशमोऽहमस्मि, मम संवित् स्वप्रकाशा इति श्रोतुरपरोक्षा धीरिति चेन्न; सेयं वाक्यश्रवणानन्तरजन्या? तन्मूलस्वयंपरीक्षणजन्या वा? आद्ये धर्मिप्रत्यक्षत्वेऽपि दशमत्वविशिष्टवेषो न प्रत्यक्षः, अन्यथा धर्मवांस्त्वमसीति केनचिद्दैवज्ञेनोक्ते तादृशोऽहमिति बुद्धेरप्यापरोक्ष्यं स्यात्; धर्मस्यातीन्द्रियत्वान्न तथेति चेन्न; अयं पर्वतः परभागे वह्निमानित्याद्युपदेशे प्रसङ्गात् । स्वतोऽपरोक्षार्थविषयतयाऽत्र तादृशो विशेष इति चेन्न, नियामकाभावात् दशमत्वादिविशिष्टाकारेण स्वतोऽपरोक्षत्वासिद्धेश्च । तदिह वाक्यतो दशमत्वादिबोधे त्वमर्थस्य स्फुटप्रत्यक्षगृह्यमाणतया केषांचिद्दशमत्वादिविशिष्टाकारग्रहेऽपि प्रत्यक्षत्वभ्रान्तिमात्रमित्याह – उद्देश्यांशमिति ॥ एतेन विगीतं वाक्यं स्वार्थापरोक्षधीजनकं स्वतोऽपरोक्षार्थविषयत्वात् दशमस्त्वमसीत्यादिवाक्यवदित्यनुमानमपि निरस्तम्, दृष्टान्ताद्ययोगात् । ननु घटं पश्यतोऽयं घट इति वाक्यप्रयोगेऽपि प्रत्यक्षधीर्जायत इति चेन्न, युगपत्प्रमाणद्वयेन प्रमितिद्वयोत्पत्त्ययोगात्; संभूयैकप्रमाणीभावस्यातिप्रसङ्गित्वादनभ्युपगमाच्च । क्रमे तु प्रत्यक्षज्ञानसमनन्तरभाविनि शाब्दज्ञाने प्रत्यक्षशिरस्के माषराशिप्रविष्टमषीन्यायेन तज्जातीयताभ्रमः । दशमस्त्वमित्यादावपि कदाचिदेवमेव । प्रतिकूलतर्कमप्याह -शब्दादिति । ज्ञातकरणानां हि परोक्षधीजनकत्वव्यवस्था शब्दप्रमणस्याप्यन्यत्र व्याप्ताऽङ्गीकृता; तस्याः शैथिल्यं स्यात् । इष्टप्रसङ्गोऽयमिति चेन्न, तुल्यन्यायतयाऽन्यत्रापि तत्तन्नियतिविरुद्धकार्यानुमानप्रसङ्गस्यानिष्टत्वात् । विपक्षे बाधकाद्विशेष इति चेन्न, शब्दजन्यप्रत्यक्षाभावेऽपि विरोधप्रसङ्गाभावात् । ‘तस्मै मृदितकषायाय तमसः पारं दर्शयति भगवान्सनत्कुमारः इति उपदेशादपरोक्षधीः श्रूयत’ इति चेन्न, दृशेः प्रत्यक्षविशेषरूढत्वात् । अनुपपत्त्या साक्षात्कारसामान्यपरत्वं कल्प्यमिति चेत्, तर्हि विरुद्धकॢप्तित्यागेन वशैद्यार्थत्वकॢप्तिर्युक्ता । प्रतिप्रयोगमप्याह – तत इति । व्याप्तिबलादित्यर्थः । अर्थे – स्वप्रतिपाद्ये । एतेन स्वविषयसाक्षात्कारजनकतया बाधप्रसङ्गोऽपास्तः । अत्र तु विपक्षे बाधकः प्रदर्शित एवातिप्रसङ्गः । श्लो. प्रत्यक्षज्ञानहेतुत्वं यत्त्वयाऽत्र प्रसाध्यते । निषेध्यमिदमस्माकं न नस्तच्छोधनं भरः ॥ ४६ ॥ इति शाब्दप्रत्यक्षभङ्गः ॥
2.117 शिष्यो जीवस्त्वसिद्धः किमु तव यदि वा भ्रान्तिसिद्धो मितो वा
नासिद्धायोपदेशो भ्रमविषयमितौ नोपदेशार्हताऽस्य ।
भेदेनैक्येन वाऽन्त्यः कथमुपदिशतु ज्ञातभेदोऽप्यभेदं
तादात्म्ये जागरूके सति किमुपदिशेत्स्वात्मने तद्विदे सः ॥ ४७ ॥
उपदेशो न प्रत्यक्षधीजनक इत्युक्तम्, स एव परस्य न घटत इति वक्तुं विकल्पयति -शिष्य इति ॥ त्वन्मते वक्तुः श्रोता किमप्रतीतः, प्रतीतो वा भ्रान्तिसिद्धः, प्रमितिसिद्धो वेति विकल्पः । अत्राद्यं निरस्यति – नासिद्धायेति । अप्रतीत्य शिष्यं कस्मै उपदिशेत्? द्वितीयं दूषयति – भ्रमेति । यदि शिष्यं भ्रान्तिसिद्वत्वेन न जानाति, स्वयमतत्त्ववित्कथं तत्त्वोपदेष्टा? अथ तथा प्रमिणोति, तथाऽपि तस्मै कथमुपदिशेत्? न ह्यसावुपदेशग्रहणर्हः, स्वयमपि नोपदेष्टृत्वार्हः । अस्येत्युभयार्थम् । एतेन प्रतिबिम्बवद्बाधितानुवृत्त्या प्रतीयमानेभ्य उपदेश इत्यपि निरस्तम्; तद्वदेवोपदेशानर्हत्वात् । न चानुन्मत्तः प्रतिबिम्बाय प्रब्रूते । तृतीयं विकल्पयति – भेदेनेति । आद्ये विरोधमाह – कथमिति । भेदप्रमितावभेदमुपदिशन् कुहकः स्यात् । द्वितोयेऽपि प्राग्वदसंभवमाह -तादात्म्य इति । अद्वैतप्रमितिदशायां स्वभ्रान्तिसिद्धशिष्यो हि बाधितः, स्वतादात्म्येन वा भातः; तस्मै चेदुपदिशेत् स्वात्मानं प्रति नित्यमुपदिशेत्; शिष्यस्य हि स्वतादात्म्यं पश्यन् तस्यापि तत्त्ववित्त्वं पश्यति; तथा च तस्य किमुपदिशेदिति भावः ॥ ४७ ॥ इत्यात्माद्वैतिन उपदेशानुपपत्तिः ॥
2.118 नैवालं भ्रान्तिबाधे परमपि तदिदं तत्त्वमस्यादिवाक्यं
भ्रान्तोक्तिर्यद्वदादौ श्रुतिकृतनिखिलभ्रान्तिमूलत्वबोधात् ।
रञ्जौ सर्पभ्रमे किं जनयति विदितभ्रान्तवाक्सर्पबाधं
स्वप्नेऽहिः स्वप्नबुद्ध्या किमु गलति यदा तत्र च स्वाप्नताधीः ॥ ४८ ॥
यदपि वर्ण्यते – अद्वैतवाक्यजन्यधीरेवाविद्यातत्कार्यकृत्स्नाध्यासबाधिका, प्रत्यक्षादेर्भेदवासनामूलतया भेदस्वरूपमात्रबोधकत्वात्; तत्त्वमस्यादीनां तु तत्त्वावेदकत्वात् । पूर्वा च भेदबुद्धिः, परा त्वद्वैतबुद्धिः, अतः अपच्छेदनयात्पूर्वबाधः; आहुश्च ‘पूर्वाबाधेन नोत्पत्तिरुत्तरस्य हि सेत्स्यति’ इति । एवं ‘तत्त्वज्ञानादज्ञानबाध एव मुक्तिः’ इति । तन्निरस्यति – नैवेति ॥ तदिदमित्यविद्यामूलत्वाभिप्रायम् । न हि भवति पौर्वापर्यमात्रात् बाध्यबाधकभावः; अतिप्रसङ्गात्, उपक्रमनये च वैपरीत्यात्, अद्वैतवाक्यानामपि माध्यमिकवाक्येन बाधप्रसङ्गात् । करणदोषतदभावाभ्यां विशेष इति चेन्न, प्रत्यक्षादिष्वपि तदभावात् । प्राचुर्येण दोषमूलत्वदर्शनादन्येष्वप्यनाश्वास इति चेन्न, वाक्येऽपि समत्वात्, अविद्याभेदवासनामूलत्वस्य चाविशेषात् । समानदोषेष्वपि भ्रमेषु परं बाधकं दृष्टमिति चेन्न; तथात्ववेदने तदयोगात्तत्र सन्देह एव स्यात् । नित्ये वेदवाक्ये कारणदोष एव नेति चेन्न; वक्तृदोषाभावेऽप्यविद्यादोषमूलत्वस्य त्वयैवोक्तेः । अत्र प्रसङ्गे दृष्टान्तमाह – भ्रान्तेति । भ्रान्तोक्तेरबाधकत्वं भ्रान्तिमूलत्वेन ज्ञातत्वादिति चेन्न, अविशेषात् । तदाह – आदाविति । प्रथममेव प्रयोजकशिक्षया ब्रह्मव्यतिरिक्तं कृत्सं मिथ्येति श्रवणात् । ततश्च प्रत्यक्षधीजननार्थः प्रयासः; तज्जनने कुहकशक्तिजनितप्रत्यक्षबुद्धाविव विश्वासश्च न स्यात् । भ्रान्तिसिद्धवाक्यादपि पूर्वभ्रान्तिनिवृत्तिस्तत्फलनिवृत्तिश्च दृष्टेत्यत्र तदुभयमिह न सभवतीत्याह – रञ्जावित्यादिना पादद्वयेन । भ्रान्तोऽयमिति विदितेन नायं सर्प इत्युक्तेऽपि न विस्रम्भः; स्वप्नसर्पभ्रमजनितं साध्वसं नायं सर्प इति स्वप्नभ्रमेण न शाम्यति, यदा स्वप्नसर्पनिषेधेऽपि स्वाप्न(त्व?)बुद्धिर्जायेत, अतो न वाक्याद् भ्रमनिवृत्तिः; तत्फलनिवृत्तिश्चात्र वक्तुं न(?) शक्यत इति । श्लो. भ्रान्तिसिद्धं च धूमादि स्वरूपासिद्धिदोषतः । यदृच्छयाऽर्थसद्भावेऽप्यमानमनुमन्यसे ॥ ४८ ॥ इति तत्तमस्यादेः प्रपञ्चबाधभङ्गः ॥
2.119 छायादिर्न त्वसत्यस्सदवगतिकरस्तत्र हेतुर्हि तद्धी-
स्स्याध्यज्ञप्त्यादिवत्सा स्वयमिह न मृषा नास्ति धीरित्यबाधात् ।
सत्येनैव प्रसूता घट इव विमता शेमुषी कार्यभावा-
द्धेतुत्वालीकभावौ कथमिव विहतावेकमेवाश्रयेताम् ॥ ४९ ॥
ननु व्यावहारिकमर्यादातिक्रमाल्लिङ्गविभ्रमे प्रामाण्यानादरः, इह तु न तथा; प्रागद्वैतबोधाच्छास्त्रे सत्यस्वाध्यवसायात् । असत्याच्च सत्यधीर्दृष्टा यथा दर्पणादिस्थया छायया मुखादेस्सिद्धिः, भूतलस्थया च गृध्रादेः । सन्ति चैव बहून्युदाहरणानि । असत्यादपि भयविस्मयादि सत्यं कार्यं दृश्यते । अतो मिथ्याभूतादपि ‘तत्त्वमस्यादिवाक्यात्तत्त्वप्रतीतिर्मुक्तिश्च युज्यत इति । तत्राह – छायादिरिति ॥ न हि मिथ्याभूतं प्रतिबिम्बादि मुखादिधीजनकम्, दर्पणे मुखप्रतीतेर्दोषमूलत्वात् । परमार्थमुखप्रतीतेस्तु मुकुरविहितमिहिरकिरणन्यायेन प्रतिफलितनायनकिरणजन्यत्वात् । स्वरूपच्छायया गृध्राद्यनुमानेऽपि नासत्यात्सत्यधीः । छायास्वरूपस्य सादृश्यस्य च निर्बाधत्वात् । मिथ्याभूतस्य च छायागृध्रस्य कार्यकरत्वे शुक्तिरूप्यादेरपि रजतादिकार्यं किं न स्यात्? युष्मद्दृष्ट्या च विमृशामः – किं प्रतिबिम्बादिस्वरूपमेव सत्यधीहेतुः? उत तद्धीः? नाद्यः, प्रातिभासिकसतोऽर्थक्रियाहेतुत्वानभ्युपगमात् । न द्वितीयः, तद्बुद्धेस्सत्यत्वेन सत्यादेव सत्यसिद्धेः । तदिदमभिप्रेत्याह – तत्रेति । एतेनासत्यात्सत्योत्पत्तिरपि निरस्ता । कस्तर्हि भयादिहेतुरिति? तत्राप्येतदेवोत्तरम् –तत्रेति – यत्रासत्यात्सत्योत्पत्तिं वदसि तत्रेत्यर्थः । ननु यदि धीः स्वरूपमात्रेण कार्यविशेषहेतुस्स्यात् बुद्ध्यन्तरेऽपि तत्प्रसङ्गः, अविशेषात् । अथ विषयविशिष्टो हेतुस्तदा विषयस्यापि हेतुत्वं दुस्त्यजम्; तत्राह – साध्येति । यथा साध्यघटादिबुद्ध्या तन्निर्माणे बुद्धेरेव कारणत्वं न तद्विषयस्य, सिद्धत्वे साध्यत्वस्य असिद्धत्वे हेतुत्वस्यायोगात्, अन्यथाऽऽत्माश्रयोच्छेदप्रसङ्गात्, तद्वदिहापि विषयस्यासिद्धत्वान्न हेतुत्वम् । आदिशब्देनातीतज्ञप्तिः कामना च गृह्यते । नष्टधीरपि यथार्हं तत्तत्कारणम्, न तु नष्टम्; पूर्वत्वेऽप्यनन्तरपूर्वत्वाभावात् । स्वर्गादिकामनाऽपि तदुपायनिष्पत्तिहेतुः न तु काम्यम्, चक्रकापत्तेः । तद्वदिह भ्रान्तिसिद्धस्याहेतुत्वेऽपि तद्धियस्तदुत्पत्तिः । अथ स्यात् सविषया हि बुद्धिरध्यस्यते; अतः कथं विषयस्य मिथ्यात्वे विषयिणस्सत्यत्वमिति? तदेतत्स्वाभीष्टं विश्वसाक्षिणं पृच्छ । अथ सोऽपि मिथ्याभूतः; तन्न, स्वतस्सिद्धौ तदयोगात्; अन्यथा तत्साक्ष्यन्तरापेक्षणेऽनवस्थादिप्रसङ्गात् । विषयमिथ्यात्वे च व्यवहारसत्यत्ववद्धीसत्यत्वं चाविरुद्धम् । एतदभिप्रेत्याह – सेति । इह – अन्यस्मिन्नन्यथा बुध्यमाने । सा – धीः स्वयं न मृषा – विषयतस्तु कदाचित्तथात्वोपचारः । तदेतद्बाधकवृत्तान्तेन व्यनक्ति – नास्तीति । धीर्नास्तीत्येवंरूपस्य बाधस्याभावादित्यर्थः । आरोपितं हि नञाऽन्वेति, न त्वारोपः । नास्तिधीविषयत्वाभावे ह्यसद्व्यवच्छित्तिस्स्यात्, न त्वनिर्वचनीयत्वहानिरिति चेन्न; ब्रह्मण्येवं प्रसङ्गात् । अथास्तिधिया तत्सत्त्वं, प्रकृतेऽपि समम् । माभूदसत्यात्सत्यसिद्धेः साधनम्, त्वदिष्टस्य किं साधकमित्यत्राह – सत्येनेति । अन्तःकरणादिभिस्सिद्धसाधनत्वमवधारणेन व्युदस्यते । अत्र व्यवच्छेद्यसिद्ध्यसिद्ध्योर्विरोध इति चेन्न; स्वोत्पादकतयाऽवधृतसामर्थ्यसंप्रतिपन्नसत्यवर्गातिरिक्तजन्यत्वनिषेधे प्रतियोगिसिद्धेः । तथाऽप्यस्मदिष्टं शृङ्गग्राहिकया न निषिद्धमिति चेत्, त्वयाऽपि वा किं तथा विहितम्? तथा हि – असत्यात्सत्यसिद्धिं वदद्भिरप्यसत्यमिथ्यालीकादिशब्दाः किं क्वचिद्व्युत्पन्नाः प्रयुज्यन्ते? अव्युत्पन्ना वा? पूर्वत्र स्वदेशादिषु सतामेवान्यत्रारोप्यमाणतया बाध्यमानतया चासत्यादिशब्दवाच्यत्वमिति नासत्यात्सत्यसिद्धिः । उत्तरत्र परानभीष्टं न किंचित्कारणमुक्तं स्यात् । यद्वा प्रतीतप्रतियोगिकनिषेधस्य त्वदिष्टत्वात् त्वद्वाक्यप्रतीतं व्यवच्छेद्यं त्वया चैवमनुमातुं शक्यमिति प्रसङ्गे तात्पर्यम्; यक्षानुरूपो बलिः, पिशाचीनां पिशाचभाषयैवोत्तरं देयमिति न्यायाच्च । प्रातिभासिकसतश्च हेतुत्वाभ्युपगमे कथमसतोऽपि न हेतुत्वम्? तदपि कुतश्चित्प्रतिभासते । न ह्यस्ति खपुष्पं दर्पणमुखमित्यनयोर्विशेषः । अत्र व्याघातं च विपक्षे बाधकमाह – हेतुत्वेति । अनर्थक्रियाकारित्वात् प्रातिभासिकानामसत्यत्वम् । तानि चेद्धीरूपामर्थक्रियां कुर्युः, कथं तेषामलीकत्वम्? ननु सर्वस्यापि सत्यानृतमिथुनादुत्पत्तौ साध्यविकलो दृष्टान्तः । मैवम्, घटाद्युत्पादकमृदादेर्व्यावहारिकसत्यत्वाभ्युपगमात् । तदपेक्षया च ‘मृत्तिकेत्येव सत्यम् इत्यादिश्रुतिनिर्वाहाच्च । अनुमानमप्यत्र तावता निष्प्रतिघमिति । श्लो. सत्यधीर्मम सत्येन तवासत्यादसत्यधीः । सत्यादसत्यधीर्वेति क्वासत्यात्सत्यधीर्भवेत् ॥ ४९ ॥ इत्यसत्यात्सत्यसिद्धिभङ्गः ॥
2.120 ज्ञानस्याशेषभेदोदयविहतिकृतो न स्वनाश्यत्वयुक्ति-
र्वाताद्यैरेव सद्यश्शममधिकुरुते दग्धदाह्योऽपि वह्निः ।
तस्मात्तस्यान्यदेव प्रशमकमपरं तस्य चेत्यव्यवस्था
तच्चेच्छान्तिं न गच्छेत्कथमिव भविता सर्वभेदोपमर्दः ॥ ५० ॥
विश्वबाधकमद्वैतज्ञानं कारणानुपपत्त्या दूषितम् । अथ स्वप्रध्वंसकारणाभावाच्च दूष्यते । यत्तदविद्याध्वंसकमन्तिमं ज्ञानम्, तत्केन विनाश्यम्? न तावत्तद्विषयेण ब्रह्मणा, शुद्धस्य तस्य किंचित्प्रति हेतुत्वानभ्युपगमात्, अशुद्धेश्च निश्शेषध्वंसात् । अत एव नानिर्वचनीयान्तरेण । एवं तत्प्रध्वंसेनेत्यपि दुःस्थम्, तस्य सदन्यत्वानन्यत्वसत्यमिथ्यात्वादिविकल्पक्षोभात् । ज्ञानध्वंसस्याहेतुकत्वे च कादाचित्कत्वव्याघातः । अनादित्वापाताच्च कथं प्रतियोगिसंभवः? परिशेषात्स्वेनैव स्वस्य नाश इत्यायातम् । तच्चायुक्तम्, न हि प्रतियोगिमात्रात्प्रध्वंसः क्वचिदपि दृष्टः । एतत्सर्वमभिप्रेत्याह – ज्ञानस्येति ॥ वह्नेर्दाह्यं विनाश्यानुविनाशवत्तद्विनाश इति चेन्न, तत्रापि ह्येवन्तरादेव विनाशदृष्टेः । निर्वाप्यते हि कदाचिद्वातेन दीपः, कदाचिच्छलभादिभिः । यदाऽस्य स्वयं विनाश इति मन्यसे, तदाऽप्यदृष्टप्रेरितवेगवदवयवकर्मणा मिथोविभागात्सङ्घातशैथिल्यमात्रम् । न तु क्वचिदपि द्रव्यनाशः । अवस्थान्तरापत्त्या चादर्शनम् । कतकरजोनिदर्शनं च बालप्रलोभनम् । न हि पयसि पङ्कः कतकरजसा नाश्यते, विश्लेषमात्रदृष्टेः । न च स्वयं तन्नश्यति, असंश्लेषमात्रसिद्धेः । अस्तु तर्हि ज्ञानान्तरेण तन्निवृत्तिरित्यत्राह – तस्मादिति । ज्ञाननिवर्तकस्यापि ज्ञानस्य तुल्यतया ज्ञानान्तरेण निवृत्तावुपर्युपरि तथेत्यनवस्था । उक्तदोषपरिहाराय निवर्तकज्ञानस्य स्वतोऽन्यतश्च नाश्यत्वं नेति शङ्कते – तच्चेदिति । परिहरति – कथमिवेति । ज्ञानं तावत्तिष्ठति, तदनुबन्धादहङ्कारदेहानुबन्धश्च दुर्वार इति भावः ॥ ५० ॥ इति निवर्तकज्ञाननिवर्तकानुपपत्तिः ॥
2.121 बोधस्यान्त्यस्य वेद्यं किमु तव विशदं ब्रह्म मायान्वितं वा
किं वा भेदप्रपञ्चः किमु तदनृतता किन्नु वेद्यं न किञ्चित् ।
आद्ये स्याद्ब्रह्म दृश्यं तदुपरि युगले मोहसत्ताऽथ तुर्ये
सूते द्वैतं सती सा स्वविहतिमनृता पञ्चमे स्यान्न धीत्वम् ॥ ५१ ॥
अथ निवर्तकज्ञानं सविषयं निर्विषयं वा? सविषयत्वे ब्रह्मविषयं तदन्यविषयं वा? ब्रह्मविषयत्वेऽपि शुद्धब्रह्मविषयं वा मायान्वितब्रह्मविषयं वा? अन्यविषयत्वे प्रपञ्चविषयं तन्मिथ्यात्वविषयं वेति विकल्पयति – बोधेस्येति ॥ आद्यं दूषयति – आद्य इति । ब्रह्म दृश्यं स्यात् । शुद्धस्य दृग्विषयत्वेऽपसिद्धान्तः; त्वदुक्ता च दृग्दृश्यसंबन्धानुपपत्तिः; दृश्यत्वानुमानस्यानैकान्त्यम्, ब्रह्मणोऽपि वा मिथ्यात्वाभ्युपगमप्रसङ्गश्चेति भावः । द्वितीयतृतीयौ दूषयति – तदुपरीति । मायान्वितब्रह्मप्रतिभासः प्रपञ्चप्रतिभासश्च मोह एवेति भावः । चतुर्थे प्रपञ्चस्यानृतता सत्याऽसत्या वेति विकल्पे पूर्वत्राद्वैतभङ्गप्रसङ्गमाह – सूत इति । उत्तरत्र स्वव्याघातमाह – स्वविहतिमिति । श्लो. मिथ्यात्वस्य हि मिथ्यात्वे मिथ्यात्वं बाधितं भवेत् । सत्यत्वस्य तु सत्यत्वे सत्यत्वं साधितं भवेत् ॥ निर्विषयत्वे दोषमाह – पञ्चम इति । वृत्तिज्ञानं सर्वं सविषयमित्यभ्युपगच्छतां कथमस्य निर्विषयत्वम्? तथात्वे वा कथं वृत्तिधीत्वमिति भावः ॥ ५१ ॥ इति निवर्तकज्ञानवेद्यानुपपत्तिः ॥
2.122 साध्या वस्सर्वमायाविरतिरपि परं ब्रह्म तस्मात्परा वा
पूर्वत्र प्रागपि स्यात्परमपि न भवेदुत्तरत्राभ्युपेते ।
साऽपि स्याच्चेन्निवर्त्या पुनरपि विलगेत्पूर्व एव प्रपञ्चो
नो चेत्सत्यैव सा स्यात्प्रसजति च ततो ब्रह्म तत्सद्वितीयम् ॥ ५२ ॥
बाधकज्ञानसाध्यं विकल्पयति – साध्येति ॥ ब्रह्मस्वरूपत्वेऽनादित्वान्न साध्यत्वमित्याह -पूर्वत्रेति । स्वरूपादन्यत्वे सर्वभेदनिवृत्त्यसंभवमाह – परमपीति । निवृत्तिरपि निवर्त्येत्यविरोधं शङ्कते – साऽपीति । परिहरति – पुनरिति । लब्धस्वरूपस्य भावस्य ध्वंसो यदि न स्यात्, स्वरूपं तदवस्थमेव स्यात् । प्रागभावस्य तु प्रध्वंसः भावश्च तत्प्रध्वंसश्च, उत्तरत्वे सति विरोधित्वाविशेषात् । प्रध्वंसस्य च प्रागभावः भावश्च तत्प्रागभावश्च, पूर्वत्वे सति विरोधित्वाविशेषात् । इहापि प्रध्वंसस्तन्निवृत्तिश्च भावस्य प्रध्वंसः स्यातामिति चेत्, तर्ह्यनवस्थितप्रध्वंसपरम्पराकॢप्तिप्रसङ्गः तत्प्रध्वंसकज्ञानकॢप्तिश्च । अस्मन्मते त्ववस्थापरम्परा प्रमाणसिद्धाऽङ्गीक्रियत इति न विरोधः । निवृत्तेरनिवृत्तौ सत्यत्वप्रसङ्गः; ततश्चाद्वैतभङ्गमाह – नो चेदिति । सत्याभावसाहित्यमदोष इत्येतच्च दूषितमेव ॥ ५२ ॥ इति प्रपञ्चनिवृत्त्यनुपपत्तिः ॥
2.123 अन्त्यज्ञानस्य जीवः स्थितिपदमथवा केवलं ब्रह्म ते स्या-
दाद्ये तेनैव बाध्यो न तदुपजनयेद्धीस्थितौ किं ततोऽस्य ।
अन्त्ये सत्याऽनृता वा तदधिकरणता नाद्य इष्टः परस्मिं-
स्तत्कॢप्त्यादेरयोगस्तदिह विमृशतां किं न दुष्टं त्वदिष्टम् ॥ ५३ ॥
विश्वबाधकबुद्धेराधारं विकल्पयति – अन्त्यज्ञानस्येति ॥ न हि बाह्यवद्देहेन्द्रियमनसां ज्ञातृत्वं युष्माभिरिष्यते । तुल्यन्यायतयाऽहङ्कारस्य महतो वा ज्ञातृत्वं निरस्तमेव । परिशेषादहङ्कारोपहितो जीव एव ज्ञातेति कोटिः प्रथममिहोद्धाटिता । केवलं -सर्वोपाधिरहितमित्यर्थः । बाधकज्ञानस्य बाध्यजीवाधिकरणत्वे बाधकमाह – आद्य इति । अयं भावः – बाधकेन जीवो नश्यति न वा? आद्ये स्वनाशकधीसिद्ध्यै भेदवासनानिरासादौ न प्रयस्येदिति, न ह्यात्मनाशः परमः पुमर्थ इत्यौपनिषदपक्षः । उत्तरत्राहमर्थविनाशे कथं जीवस्थितिः? स्थापितं चाहमर्थस्यैवात्मत्वम् । जीवत्वे नष्टेऽपि ज्ञप्त्यात्मा तिष्ठेदित्यत्राह – धीति । न हि अहं विनङ्क्ष्यामि मदन्या धीर्मद्विधुरा तिष्ठत्विति मत्वा मुमुक्षुः प्रवर्तते । तथा च भाषितं – मयि नष्टेऽपि मत्तोऽन्या काचिज्ज्ञप्तिरवस्थिता । इति तत्प्राप्तये यत्नः कस्यापि न भविष्यति ॥ इति । शुद्धस्य निवर्तकज्ञानाधारता सत्याऽसत्या वेति विकल्पयति – इति । सत्यत्वेऽपसिद्धान्तमाह -नाद्य इति । मिथ्यात्वेऽनुपपत्तिमाह – परस्मिन्निति । असत्यस्य ज्ञानाधिकरणत्वस्य कॢप्तिर्हि कल्पकाविद्याहङ्कारादिसापेक्षा । अतो निवर्तकज्ञानतदाधारत्वतत्प्रतिभासा यावत्स्युः, तावदविद्याऽनुवृत्तेति न ततस्तन्निवृत्तिः । अविद्यायाः तत्कल्पितस्य ज्ञानस्य च सुन्दोपसुन्दविषनाशकविपन्यायेन युगपद्ध्वंसादविरोध इति चेत्, तदिदमन्योन्यध्वंसकत्वं दृष्टं कल्प्यं वा? नाद्यः, असिद्धेः । न द्वितीयः, कल्पकाभावात् । गतिशून्यत्वं कल्पकमिति चेत्, अस्ति सतां गतिः, तामेवानुवर्तस्व । एवं परपक्षे दूष्यान्तराणि दूषणान्तराणि च सूचयन्निगमयति – तदिति । बहुश्लोकोक्तबहुविधदोषप्रस्थानादित्यर्थः ॥ ५३ ॥ इति निवर्तकज्ञानाधारानुपपत्तिः ॥
2.124 नाभुक्तं कल्पकोट्याऽप्युपशमनमियात्कर्म निष्कृत्यभावे
विद्यातस्तद्विनाशश्रुतिरिह तदसौ तत्प्रशंसेति चेन्न ।
तादृग्विद्यैव तन्निष्कृतिरिति हि विदांचक्रुराम्नायवृद्धा
नान्यद्ब्रह्मानुभूतिप्रतिभटदुरितध्वंसतस्साध्यमत्र ॥ ५४ ॥
श्लो. यथा मृषावादिमते न बोधान्मुक्तिसंभवः ॥ त्वन्मतेऽपि तथेत्येवमपन्यायेन शङ्कते ॥ नाभुक्तमिति । स्मर्यते हि ‘अवश्यमनुभोक्तव्यं कृतं कर्म शुभाशुभम् । नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि’ ॥ इति । तर्हि प्रायश्चित्तशास्त्रवैयर्थ्यं स्यादित्यत्रोक्तम् -निष्कृत्यभाव इति । ननु ‘तद्यथेषीकतूलमग्नौ प्रोतं प्रदूयेतैवं हास्य सर्वे पाप्मानः प्रदूयन्ते इति श्रूयते । ‘तदा विद्वान्पुण्यपापे विधूय’ ‘तत्सुकृतदुष्कृते धूनुते’ इत्यादि च । ‘न कर्मणां क्षयो भूप जन्मनामयुतैरपि । ऋते योगात्कर्मकक्षं योगाग्निः क्षपयेत्परम्’ ॥ ‘यथाऽग्निरुद्धतशिखः’ इत्यादि च स्मर्यते । अतः फलभोगाभावेऽपि ज्ञानात्कर्मनिवृत्तिः स्यादित्यत्राह – विद्यात इति । न च ‘तत्त्वज्ञानान्निःश्रेयसाधिगम इत्याद्यसूत्रविरोधः, ‘दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुतरोत्तरापाये तदनन्तरापायात् इति द्वितीयसूत्रे ज्ञानस्य मिथ्याज्ञाननिवृत्तिद्वारा कर्मानारम्भार्थत्वस्य स्थापितत्वात् । कृतं तु कर्म स्वफलत एव नश्यतीत्यविरोधः । अत्र कर्मणामवश्यभोक्तव्यत्ववचनमकृतप्रायश्चित्तविषयमित्यभिप्रायेण प्रत्याह – नेति । अत्रापि तर्ह्यकृतप्रायश्चित्तत्वाद्भोक्तव्यत्वमित्यत्राह – तादृगिति । त्रय्यन्तविहितपरब्रह्मध्यानरूपेत्यर्थः । आम्नायवृद्धाः – स्मर्तारः; ते चेश्वरदर्शनं सर्वप्रायश्चित्तमित्याहुः । ‘इज्याचारदमाहिंसाः’, ‘प्रायश्चित्तान्यशेषाणि’, ‘प्रायश्चित्तं तु तस्यैकम्’ इत्यादि च । ब्रह्मप्राप्तिहेतुतया विहितस्य योगस्य कथं नैमित्तिकत्वमित्यत्राह – नान्यदिति । स्वतःप्राप्ता हि संसरतामपि ब्रह्मानुभूतिस्सूरिवत्, तत्प्रतिबन्धकनिवृत्त्यै योग इति निष्कृतिरूपत्वं तस्य युज्यत इति भावः । अत्र दुरितशब्देन बन्धकं पुण्यमपि संगृहीतम्, प्रतिबुद्धं प्रत्यनिष्टफलप्रदत्वाविशेषात् । ‘एते वै निरयास्तात स्थानस्य परमात्मन इति स्वर्गादीनां निरयत्वस्मृत्या तत्साधनस्य पापत्वोपपत्तेः । ‘न सुकृतम्’ इत्यारभ्य, ‘सर्वे पाप्मानोऽतो निवर्तन्ते’ इति सुकृतस्यापि पापत्वेन सङ्कलय्याम्नानाच्च । तदेवं धीसङ्कोचककर्मध्वंसे धीविकास एव ब्रह्मानुभूतिरिति तत्कामनाव्यपदेशोऽपि न विरुद्धः । अन्यत्र च प्रतिबन्धकनिरासवृत्तान्ते एवं प्रतिसन्धेयम् ॥ ५४ ॥ इति विद्यायाः पापनाशकत्वोपपत्तिः ॥
2.125 प्रायश्चित्तं न पुण्ये न च सुकृतमनुश्रूयते धर्मबाध्यं
नाधर्मत्वं विधानान्न यदि सुचरितं त्वङ्गमस्याश्च न स्यात् ।
मैवं धर्मोऽप्यधर्मो भवति हि बहुधाऽधिक्रियादेर्विशेषात्
धर्मं त्रैवर्गिकं तु स्वयमिह निगमः पाप्मकोटौ पपाठ ॥ ५५ ॥
ननु पुण्यस्य दुरितशब्देन संग्रहो न युक्तः, विरुद्धत्वात्; क्वचित्प्रयोगच्छत्रिन्यायादित्यभिप्रायेण शङ्कते – प्रायश्चित्तमिति ॥ न हि पुण्योद्देशेन क्वचिन्निष्कृतिविधिः, ‘धर्मेण पापमपनुदति’ इति च श्रूयते, न तु धर्ममिति । काम्यमपि अधर्मत्वाद्धर्मेणापनुद्यत इति चेन्न, फलोद्देशेन विहितत्वात् । न चात्र श्येनादिनयः, स्वरूपतः फलतो वा निषेधानाघ्रातत्वात् । धर्मेष्वपि च यद्यधर्मत्वं तदा तदङ्गत्वं विद्याया न घटते । एषां चतुर्णां हेतूनामन्यथासिद्धिमभिप्रेत्य प्रत्याचष्टे – मैवमिति । अधिकारिभेदेन पापत्वापत्तौ तं प्रति निष्कृतिविधिर्युक्तः, ‘धर्मेण पापम्’ इत्यत्र च यथार्हं पापशब्द उभयग्राही । विहितत्वं च कंचित्प्रति धर्मत्वं साधयेत्, नान्यं प्रत्यधर्मत्वं निरुन्ध्यात् । तेषामेव च कर्मणां फलसङ्गादित्यागवतां निवृत्तिधर्मतापत्त्या विद्याङ्गत्वोपपत्तिः । एतत्सर्वं व्यनक्ति – धर्मोऽपीति । स्मर्यते हि – ‘स एव धर्मस्सोऽधर्मस्तंतं प्रति नरं भवेत् । पात्रकर्मविशेषेण देशकालावपेक्ष्य च’ ॥ इति ॥ एवं सति, ‘न सुकृतम्’ इत्यादौ सुकृते पाप्मशब्दो न भाक्त इत्यभिप्रायेणाह – धर्ममिति । अत एव हि ‘त्रैवर्गिकांस्त्यजेद्धर्मानि’ति मुमुक्षुं प्रत्यनुशिष्यते ॥ ५५ ॥ इति त्रैवर्गिकसुकृतस्यापि विद्यानाश्यत्वम् ॥
2.126 अश्लेषः पाप्मभिश्चेत्प्रसजति वितथा दुश्चरित्रान्निवृत्ति-
स्तेषु प्रामादिकेष्वप्यमतिकनिपतद्बीजवत्स्यात्प्ररोहः ।
मैवं शास्त्रैकवेद्ये फलफलिविषये युक्तयो ह्यस्वतन्त्राः
शास्त्राद्बाधस्तु तिष्ठेन्मतिकृतविषये शब्दशक्त्यादिभिर्नः ॥ ५६ ॥
अस्तु विद्याऽपि प्रायश्चित्तान्तरवदुपात्तदुरितनाशिका; उत्पत्स्यमाननिष्कृतिर्न स्यात्, निमित्तानुदयेऽपि नैमित्तिकप्रवृत्तावतिप्रसङ्गात् । उदितत्वशङ्कयाऽपि क्वचिन्निष्कृतिः, पाक्षिकोऽपि दोषः परिहार्य इति न्यायात् । न तूत्पत्स्यमानत्वशङ्कया, तदवस्थस्य निमित्तत्वेन प्रायश्चित्तशास्त्रैरनुद्देशात् । ‘एवंविदि पापं कर्म न श्लिष्यते’ ‘तस्यैवात्मा पदवित्तं विदित्वा, न कर्मणा लिप्यते पापकेन’ इत्यादयस्तु विद्यां प्रशंसन्ति; अर्थायोगात् । ब्रह्मविदाम्, ‘बाल्येन तिष्ठासेत्’ इति विधौ कृत्स्नबालकृत्योपादाने कामचारप्रसङ्गाच्च । अस्त्विति धार्ष्ट्यं ‘नाविरतो दुश्चरितात्’ इति श्रुतिरूपरून्धे । ‘सर्वान्नानुमतिश्च प्राणात्यये हि तद्दर्शनात् इति च सूत्रम्; जडवद्भावयतामपि योगिनां ‘सतां वर्त्म न दूषयन्’ इति प्रवृत्ति – नियम उक्त इति; एतत्सर्वमभिसन्धायाह – अश्लेष इति ॥ प्रामादिकैरश्लेषे श्रुत्यादिविरोधो नेत्यत्राह – तेष्विति । प्ररोहः – यथार्हकार्यारम्भः; अन्यथा कथमकामकृतेषु प्रायश्चित्तविधिरिति? अत्र श्रुतस्याश्लेषस्य किं, न्यायतो बाध उत वचनत इति विकल्पमभिप्रयन्प्रत्याह – मैवमिति । आद्यं दूषयति – शास्त्रैकवेद्य इति । फलफलिविषये – साध्यसाधनभावेन मिथस्संबध्यमानेऽर्थे इति यावत् । अस्वतन्त्राः – न हि वचनविरोधे न्यायः प्रभवति, तथा सत्यतिप्रसङ्गादिति भावः । द्वितीये विषयभेदाद्विरोधं परिहरति – शास्त्रादिति । शब्दशक्त्यादिभिः ‘नाविरतो दुश्चरितात्’ इत्यत्र ह्यविरतिः बुद्धिपूर्वचर्यानुवर्तनम्; तत्प्रसक्तस्य प्रतिषेधः । उषस्तिश्च प्राणधारणार्थमिभ्योच्छिष्टं चखाद । अनुपानप्रतिग्रहमिभ्येनाभ्यर्थितस्सन्नाह – ‘न वा अजीविष्यमिमानखादन् कामो म उपादानम् इति । ब्रह्मविदोऽपि मे कामतो निषिद्धकरणं परिहार्यमित्यर्थः । ‘अपि चेत्पातकं किंचिद्योगी कुर्यात्प्रमादतः । योगमेव निषेवेत नान्यं यज्ञं समाचरेत्’ ॥ इति च स्मर्यते । अश्लिष्टस्य पातकस्य किं योगरूपेणापि प्रायश्चित्तेनेति चेन्न; तत्र तद्विधौ तात्पर्याभावात् । अन्यप्रायश्चित्तप्रसक्त्या योगं न विच्छिन्द्यात् इत्येव हि तात्पर्यम् । यद्यपि ‘जीवितात्ययमापन्नः’, ‘प्राणसंशयमापन्नः’ इत्यादि वचनानि विद्वदविद्वत्साधारणानि, तथाऽप्यत्रानापद्दशायां प्रामादिकेष्वपि विद्यामाहात्म्यादश्लेष उच्यत’ इति सार्थत्वम् । अतः पापानां विनाशवदश्लेषोऽपि विद्यासाध्यं फलमिति ॥ ५६ ॥ इति प्रामादिकोत्तराघाश्लेषोपपत्तिः ॥
2.127 श्लिष्टं विद्याङ्गपुण्यं स्वफलवितरणान्नेतराथं विरागे
रागादारभ्यमाणं फलवदमतिकं संभवेन्नैव पुण्यम् ।
पुष्पाश्लेषस्ततोऽस्मिन्न घटत इति चेन्नोपयुक्तातिरिक्तै-
र्विद्याङ्गैस्तस्य योगादमतिकृतमपि ह्यामनन्त्येव पुण्यम् ॥ ५७ ॥
यद्यपि पापस्याश्लेषः, तथाऽपि कथम् ‘इतरस्याप्येवमसंश्लेषः पाते तु’ इति सूत्रोक्तः पुण्याश्लेष इति विकल्पानुपपत्त्या शङ्कते – श्लिष्टमिति ॥ अत्र हि पुण्यस्याश्लेषः किं बुद्धिपूर्वस्य, तदन्यस्य वा? आद्ये विद्याङ्गस्य तदनङ्गस्य वा? अनङ्गत्वे विरक्तकृतस्य अन्यकृतस्य वेति विकल्पः । तत्र विद्याङ्गस्याश्लेषो न संभवति, स्वफलभूतविद्याप्रदानात् । वीतरागस्य न फलान्तरार्थप्रवृत्तिः, यतस्तदश्लेषोक्तिः स्यात् । सरागकृतं तु स्वफलं दद्यादेव धीपूर्वस्याश्लेषायोगात् । अधीपूर्वं तु सुकृतं न संभवत्येव, चोदितानुष्ठानरूपत्वात्; निषिद्धे त्वधीपूर्वत्वसंभवः; चोदनानपेक्षानुष्ठानत्वात् । अतो ब्रह्मविदि पुण्याश्लेष उक्तो न संभवतीत्याक्षेपः । एवमाक्षिप्तेषु कंचिदंशं विशेषयिष्यन्नाह -नेति । हेतुमाह – उपयुक्तेति । उपायविरोधिशमनेषु कर्मसु कानिचिदधिकानि संभवन्ति, अन्यैर्विद्यापूर्तेः; न च निष्फलत्वं युक्तम्; अतस्स्वानुगुणं फलान्तरं दातुमर्हन्तीति शङ्कायामश्लेषस्सूत्र्यते । निष्कामानुष्ठितानां ह्येतेषां न फलान्तरसंभव इति । यच्चाधीपूर्वकाम्यं न संभवतीति तदपि न, विष्ण्वायतनदीपाद्युपाख्याने तद्दृष्टेः । स्वप्ने च विद्वानपि वासनाविशेषान्निषिद्धमिव काम्यमप्यनुतिष्ठेत् । पित्रादयश्च निरपेक्षं प्रति हितबुद्ध्या काम्यमाचरेयुः, तच्च प्रामादिकप्रायं सर्वं विदुषि न संश्लिष्यत इत्यभिप्रायेणाह – अमतिकृतमिति ॥ ५७ ॥ इति पुण्याश्लेषः ॥
2.128 कर्माश्लेषप्रणाशौ तदुपधिभगवन्निग्रहादेर्निवृत्ति-
र्नष्टाश्लिष्टातिरिक्तं न च किमपि ततः संक्रमः कस्य मैवम् ।
तत्तत्कर्मप्रसूतौ स्वभजनशमितौ निग्रहानुग्रहौ यौ
तत्तुल्यावेव देवः प्रयति विदुषि तच्छत्रुमित्रेषु धत्ते ॥ ५८ ॥
अत्र कश्चिच्चोदयति – कर्मेति ॥ द्विविधं हि कर्म बन्धकं, विद्योत्पत्तिः पूर्वमुत्तरं च । पूर्वं च द्विविधम् आरब्धकार्यमन्यच्च । तत्राद्यं चरमदेहावधिभोगनाश्यम्, ‘भोगेन त्वितरे क्षपयित्वाऽथ संपद्यते’ इति सूत्रोक्तेः । द्वितीयं विद्यया नाशितम् । उत्तरं च द्वेधा -प्रामादिकराशिप्रविष्टमन्यच्च । प्रथममिहाश्लिष्टम् । अन्यच्च निष्कृत्या भोगेन वा निश्शेषितम् । अत्र मुक्तिविलम्बमनिच्छतां निश्शेषकर्मनिर्वेशार्थं युगपद्बहुदेहसंग्रहोपयोगः । एवं स्थिते विदुषश्चरमदेहादुत्क्रान्तिकाले, ‘तस्य पुत्रा दायमुपयन्ति सुहृदस्साधुकृत्यां द्विषन्तः पापकृत्याम्’ ‘अस्य प्रिया ज्ञातयः सुकृतमुपयन्ति अप्रिया दुष्कृतं तत्सुकृतदुष्कृते धूनुते ‘प्रियेषु स्वेषु सुकृतमप्रियेषु च दुष्कृतम्’ । विसृज्य ध्यानयोगेन ब्रह्माप्येति सनातनम् ॥ इत्यादेः को विषय इति? तदेतत्संक्रमश्रुतितात्पर्यानभिज्ञतामूलमित्यभिप्रायेण प्रतिवक्ति – मैवमिति । श्रुतितात्पर्यं विवृणोति – तत्तदिति । अयं भावः – न ह्यत्र मुख्यकर्मणां संक्रान्तिः, असंभवात् । अतः – ‘आदाय सुकृतं सर्वं तस्य गच्छेदरक्षितः । शपता यत्कृतं पुष्पं शप्यमानमुपैति तत्’ ॥ शप्यमानस्य यत्पापं शपन्तमधिगच्छति ॥ इत्यादिन्यायात् अक्षिरोगादिसंक्रमणवादवच्छत्रावपि तादृशफलोत्पादने तात्पर्यमिति ॥ ५८ ॥ इति प्रियाप्रियसंक्रमः ॥
2.129 अन्यश्चेदन्यकर्मप्रजनितफलभुक् शास्त्रवैयाकुली स्या-
द्ब्रह्मज्ञैरुज्झितानां क्वचिदपि न ततः कर्मणां संक्रमः स्यात् ।
उद्वेलस्स्याच्च धातेत्यसदविषमताद्यन्वितेनैव धात्रा
विद्यानिष्ठोपकाराद्युचितफलमिदं दीयते वर्गयुग्मे ॥ ५९ ॥
पुनरनिर्धारितश्रुतितात्पर्यश्चोदयति – अन्य इति ॥ अन्यस्यान्यकृतकर्मफलभोगे ‘शास्त्रफलं प्रयोक्तरीति व्यवस्थाभङ्गाच्छास्त्रस्य व्याकुलता स्यात्; ऋत्विक्कृतं हितैषिकृतं चान्यार्थमेव करणात्परत्र फलतीति युक्तम्; अभिचारकर्म च भ्रातृव्यस्य पूर्वदुषकृतोत्थापितत्वात्तत्पीडाहेतुः । अभिचरिता च स्वकृतफलं भ्रातृव्यमरणं स्वयं भुङ्क्ते । इह तु नैवं संभवः । अतः परवित्कर्मणामश्लेषविनाशसंभवेऽपि नान्यत्र स्वरूपत इव फलतोऽपि संक्रमस्सभंवतीति ईश्वरस्य च स्वमर्यादातिक्रमः स्यादित्याह – उद्वेल इति । उक्तं चोद्यद्वयं स्वकर्मफलभोगव्यवस्थयैव परिहृतमित्यभिप्रायेण प्रत्याह – इत्यसदिति । हार्दं विवृणोति – अविषमतेति । एतेन ब्रह्मविदुपकारापकारयोरपरिमितफलत्वं च सिद्धं भवति ॥ ५९ ॥ इति प्रियाप्रिययोर्विद्वत्कर्मफलसमानसृष्टेः स्वकर्मफलत्वम् ॥
2.130 अर्चिर्घस्रोऽथ पक्षस्सित उदगयनं वत्सरो मातरिश्वा
मार्तण्डस्तारकेशस्तडिदपि वरुणामर्त्यनाथप्रजेशैः ।
आदिष्टो विश्वनेत्रा स्वयमतिवहने देवयानाध्वगानां
यः प्रोक्तोऽमानवाख्यस्स तटिदधिपतिर्विश्रुतो मानसोऽपि ॥ ६० ॥
अथ विधूतपुण्यपापस्य विदुषः स्थूलशरीरान्मूर्धन्यनाड्या निष्क्रान्तस्यार्चिरादिपादोक्तमातिवाहिकक्रममाह – अर्चिरिति ॥ ‘तत्पुरुषोऽमानवः, स एनान्ब्रह्म गमयति इत्यव्यवहितब्रह्मगमयितृत्वेन निर्दिष्टस्य प्राधान्यसूचनार्थं वरुणादिषु तृतीया । अमानवः किमिह नोक्त इत्यत्राह – य इति । वैद्युतपुरुष इह तटित्पतित्वात्तटिच्छब्दोक्त इति भावः । तथाऽपि ‘वैद्युतात्पुरुषो मानस एत्य ब्रह्मलोकान्गमयति इत्युक्तस्येह नोपादानमित्यत्राह – विश्रुत इति । शेषं भाष्यादौ । अत्रैवं तत्त्वसारे संगृहीतम् – अर्चिरहस्सितपक्षानुदगयनाब्दमरुदर्केन्दून् । अपि वैद्युतवरुणेन्द्रप्रजापतीनातिवाहिकानाहुः ॥ इति । अन्ये त्वाहुः – ‘अर्चिर्वासरशुक्लपक्षषडुदङ्मासांश्च संवत्सरं वायुं भास्करचन्द्रविद्युदुदपान् सेन्द्रं प्रजानां पतिम् । गत्वाऽथो विरजां विमुच्य च तनुं सूक्ष्मां ततोऽमानवस्पर्शात्क्षालितवासनास्सुकृतिनो गच्छन्ति विष्णोः पदम् ॥’ इति ॥ अत्र वासनाशब्देन फलप्रदानरहितनष्टाक्लिष्टकर्मराशेरनुप्रवृत्तौ धीसङ्कोचकश्शक्त्यंशस्तन्नियतसूक्ष्मप्रकृत्यंशो वा विवक्षितः । अपरे तु ब्रुवते – ‘भूलोकेशाग्नयोऽष्टौ प्रथममहरतः पूर्वपक्षस्सितात्मा मासाष्षड्वत्सरोऽथो दशतनुपवनस्सैक आदित्यवर्गः । चन्द्रो विद्युज्जलेशस्समरुदधिपतिस्सप्रजानामधीशस्ते मार्गस्यार्चिरादेरतिवहनविधौ विश्वनेत्रा नियुक्ताः ॥ इति ॥ अत्र सैक इति पवनविशेषणम्, ‘अथ वायोरेकादश पुरुषस्य’ इत्यादिश्रुतेः ॥ ६० ॥ इत्यातिवाहिकक्रमकॢप्तिः ॥
2.131 बुद्धेर्योऽसौ विकासः कबलितनिखिलोपस्कृतब्रह्मतत्त्वः
स प्राक्चेन्नित्यमुक्तिर्न यदि कथमसौ नश्वरत्वं न गच्छेत् ।
मैवं प्रध्वंसवत्ते स खलु मम तथा शौनकाद्युक्तनीत्या
शान्ताशेषापराधे न च भवति पुनस्तत्र सङ्कोचहेतुः ॥ ६१ ॥
एवं देवयानेन गतस्य यस्सर्वविशिष्टब्रह्मानुभवलक्षणो धीविकासः, तत्र विकल्पतः पराभीष्टमाक्षेपमनुवक्ति – बुद्धेरिति ॥ स प्राक् चेत् – स धीविकासः प्रागप्यस्ति चेत्, अनादिश्चेदित्यर्थः । तत्र बाधकमाह – नित्यमुक्तिरिति । बद्ध एव न स्यादित्यर्थः । आगन्तुकत्वकोटिमनुभाषते – न यदीति । तत्रापि जातानां विनाशध्रौव्यात् बाधक इत्याह – कथमिति । स्वपरसिद्धान्तविवेकविक्लबोऽसीत्यभिप्रायेण प्रत्याह – मैवमिति । तद्विवृणोति – प्रध्वंसवदिति । पूर्वावधिमानपि प्रध्वंस उत्तरावधिरहित इति मन्यसे । एवं भावोऽपि कश्चित्तथा स्यात् । अनुपपत्त्या तत्र तथात्वमिति चेत्, अत्राप्यस्ति श्रुतिभङ्गानुपपत्तिः । भावान्तरमेव च वयमभावं ब्रूमः । निश्शेषविरोधिनिवृत्तौ हि ज्ञानस्य परसङ्कल्पसिद्धसर्वगोचरविकासवत्तया सदाऽभिव्यक्तिः स्मर्यत इत्याह -शौनकादीति । मुक्तविषयश्रुतिषु च ‘परात्परं पुरुषमीक्षते’, ‘सर्वं हि पश्यः पश्यती’त्यादिनिर्देशस्य सङ्कोचकादर्शनात् । ईक्षणस्य सदानुवृत्तिर्हि स्वतः प्राप्तेति भावः । ननु यदि मुक्तोऽपि चेतयते, पुनरपि सङ्कोचकमारभेतेत्यत्राह – शान्तेति । सङ्कोचहेतुकरणमपि हि कर्ममूलं, निश्शेषितकर्मणः कथं तत्स्यादिति ॥ ६१ ॥ इति मुत्तधीविकासस्य नित्यत्वम् ।
2.132 मुक्तौ देहाद्यभावे मुकुलितविषयो जक्षदादिप्रवाद-
स्तत्सत्त्वे चाशरीरश्रुतिविहतिरतः का चिकित्सेति चेन्न ।
इच्छातस्स्यादवस्थाद्वयमुभयविधश्रुत्यबाधाद्विमुक्तौ
कर्मायत्तैर्वियोगः परमिह कथितस्तस्य देवोपमस्य ॥ ६२ ॥
मुक्तस्य ज्ञानं चिन्तितम् । अथ तस्य चिकीर्षाप्रयत्नशक्तिविषया चिन्ता । तत्र मुक्तो देहप्राणतद्व्यापारैर्मुक्तो न वेति विकल्पं भावयन् क्रमादाक्षिपति – मुक्ताविति ॥ आद्ये मुक्तमधिरूय प्रवृत्तः ‘जक्षत्कीडन्’ इत्यादिप्रवादो निर्विषयः स्यात् । द्वितीये ‘धूत्वा शरीरम्’ ‘अशरीरं वाव सन्तम्’ इत्यादिश्रुतिविरोधः स्यादिति । अत्र ‘द्वादशाहवदुभयविधं बादरायणोऽतः’ इति सूत्रोक्तप्रकारेण स्वेच्छाकर्मकृतदेहादियोगायोगाभ्यामवस्थाद्वयवानिति मन्वानः प्रत्याह – नेति । प्रथमचोद्यपरिहारतयाऽभिप्रेतं प्रथयति – इच्छात इति । श्रुतिविरोधं तु विषयव्यवस्थातश्शमयति – कर्मायत्तैरिति । यत्र विषयभेदसंभवः, तत्र क्वचिद्बाधेऽतिप्रसङ्ग इति भावः । देवोपमस्य – ईश्वरेण साम्यं प्राप्तस्येत्यर्थः । एतेन परविषयशरीरविधिनिषेधश्रुत्योरिवात्रापि व्यवस्थोपपत्तिर्व्यज्यते ॥ ६२ ॥ इति मुक्तस्यैच्छिकशरीरयोगानियमः ॥
2.133 स्यान्मुक्तो विश्वदेही यदि भवति जगद्व्यापृतौ तस्य शक्तिः
स्वातन्त्र्यं क्वाप्यशक्तौ विगलति स च नः स स्वराडित्यधीतः ।
धत्तेऽनुच्छेद्यसारा तदियमुभयतःपाशतां तर्करज्जु-
र्मैवं देवस्तदिच्छां क्वचिदपि न विहन्त्येवमस्तु स्वराट् सः ॥ ६३ ॥
इच्छागृहीतदेहत्वं देवोपमत्वं च मुक्तस्य प्रसक्तम्, तस्य च शारीरकान्ते जगद्व्यापारवर्जमैश्वर्यं साधितम् । स किं शक्तोऽप्यनिच्छया जगत्सृष्ट्यादौ न व्याप्रियते, उताशक्त एवेति विकल्पे पूर्वं यदीत्यादिनाऽनूद्य तत्र बाधकमाह – स्यान्मुक्त इति ॥ विश्वदेही स्यात् अन्यथा कथं ‘बहु स्यामि’ति सङ्कल्पार्हत्वम्? विश्वदेहत्वं चानेकेषां निष्प्रमाणकं प्रमाणतर्कप्रत्यूढं च । अत एव शक्तोऽपि प्राप्त्यभावान्न व्याप्रियत इति पक्षोऽपि श्यादिष्टः । उत्तरस्योत्तरमाह – स्वातन्त्र्यमिति । क्वचिदशक्तौ ‘पारतन्त्र्यं परे पुंसि प्राप्य निर्गतबन्धनः । स्वातन्त्र्यमतुलं प्राप्य तेनैव सह मोदते ॥ इत्यादि प्रसिद्धं निस्सीमस्वातन्त्र्यं विगलेत् । श्रुतिविरोधमप्याह – स चेति । ‘स स्वराड्भवति’ इति ह्याम्नायते । द्वयोरपि दुरतिक्रमतया संशयडोलाकेलिसान्तत्यमित्यभिप्रायेणाह – धत्त इति । उत्तरकोटिपरिग्रहाभिप्रायेण प्रत्याह – मैवमिति । श्रुतिविरोधमुपशमयति – देव इति । अकर्मवश्यस्याप्रतिहतेच्छत्वमिह स्वातन्त्र्यम् । ईश्वरो हि बद्धानां यथाकर्म क्वचित्क्वचिदिच्छां विहन्ति, मुक्तस्य तु न क्वचिदपि परिमिते पराधीनस्वदेहसृष्ट्यादावित्यर्थः ॥ ६३ ॥ इति पराधीनस्यापि मुक्तस्येच्छाविहतिराहित्यम् ॥
2.134 आविर्भूतस्वरूपा निरवधिकसुखब्रह्मभुक्तिस्तु मुक्तिः
सेवात्वाद्दुःखकृत्या भवति यदि न तद्धर्मिमानेन बाधात् ।
पाप्मा चास्मिन्नुऽपाधिस्स च न खलु तदा पुण्यपापव्यपाया-
दात्मानो विष्णुशेषा इति च सुखमयी सा स्वरूपानुरूप्यात् ॥ ६४ ॥
अत्र कश्चित्सिद्धान्त्यभिमतायां मुक्तौ दोषं विवक्षुस्तामनुभाषते – आविर्भूतेति ॥ परशेषतैकरसस्वरूपाविर्भावयुक्तेत्यर्थः । बाढमित्यत्र बाधकं शङ्कते – सेवात्वादिति । अयमाशयः; स्वामिभृत्यभावबुद्ध्यनुवृत्तिस्सेवात्मा प्रसिद्धा । सा च दुःखात्मतया तद्धेतुतया वा व्याप्ता । तदत्राऽपि तथा स्यादिति । अत्र धर्मिण्यप्रसिद्धे हेतोराश्रयासिद्धिमभिप्रेत्याह – न तदिति । प्रमिते तद्ग्राहकेण बाधमाह – धर्मीति । श्रूयते हि ‘रसो वै सः, रसं ह्येवायं लब्ध्वाऽऽनन्दीभवति’ इति । आनन्दं ब्रह्मणो रूपं तच्च मोक्षेऽभिव्यज्यते इति । स्मर्यते च ‘तदस्य त्रिविधस्यापि’ इत्यारभ्य ‘निरस्तातिशयाह्लादसुखभावैकलक्षणा । भेषजं भगवत्प्राप्तिरेकान्तात्यन्तिकी मता ॥ इति । सोपाधिकत्वमप्याह – पाप्मेति । नित्यानामनित्यानां वा दुःखकृत्त्वं हि सहकारिणि पापे सत्येव; अनित्यानां तु पापजन्यतयाऽपि । एवं साध्यव्यापकत्वं सिद्धम् । साधनाव्यापकत्वमप्याह – स चेति । पुण्यपापव्यपायादित्यनेन श्रुतिस्मृतिसूचनम् । अस्तु तर्हि सुखरूपत्वाभावे सेवात्वं हेतुः इत्यत्रापि धर्मिसिद्ध्यसिद्धिविकल्पदौःस्थ्यस्य तदवस्थत्वादव्यक्तमप्रयोजकत्वं व्यनक्ति – आत्मानं इति । अयं भावः – कर्मोपाधिकसेवा हि कर्मवैचित्र्यात्प्रतिकूला उदासीना किञ्चिदनुकूला च स्यात् । इयं तु निरुपाधिकस्वामिसेवा यथागमं निरवधिकसुखरूपेति । एतेन प्रसङ्गोत्थानमपि निरस्तम् । श्रुतिविरोधे व्याप्तिशैथिल्ये च तस्याप्ययोगात् । ये च मुक्ते ज्ञानचिकीर्षाप्रयत्नसुखदेहादियोगा दुःखादिसाधकाः प्रयोगाः, तेऽपि यथोक्तप्रकारेण प्रतिषेध्याः, ब्रह्मणा चानैकान्ता इति । अथापि यदि मुक्तौ सुखम्, तदा सुखरागान्मुमुक्षुः प्रवर्तत इति कथं वीतरागाधिकारः । रागाच्च प्रवृत्तः प्रागिव बध्येत । हन्त यदि रागस्सर्वो बन्धहेतुरिति मन्यसे? तद्विशेषो वा? आद्ये सर्वाभीष्टस्संसारनिवृत्तिरागोऽपि तथा स्यात् । द्वितीये कोऽसौ विशेषः? सुखविषयत्वमेवेति चेन्न; तादृशस्यापि पापानारब्धत्वादेव दुःखहेतुत्वायोगात् । अथ तदप्यत्र शङ्क्येत, तदा आगमबाध इति । एवं मुक्तस्य स्वदेहसृष्ट्यादिरागोऽपि व्याख्यात इति ॥ ६४ ॥
2.135 सर्वस्याप्यानुकूल्यं स्वत इह जगतो वासुदेवात्मकस्य
व्यक्तिं तन्मुक्तिकाले भजति भवकृतज्ञानसङ्कोचहानेः ।
प्राचीनप्रातिकूल्यक्रमविषयधिया नैष दुःख्येत्तदानीं
प्रागप्येतत्स्वकर्मोपधिकृतभगवन्निग्रहैकप्रयुक्तम् ॥ ६५ ॥
ननु यदि मुक्तस्सर्वज्ञः, स कथं न दुःख्येत्? विषयविशेषसंदर्शनं हि बद्धस्यापि दुःखहेतुः, अबुद्धिपूर्वकदुःखोत्पत्त्यसंभवात् । न चानुकूलमात्रविषया मुक्तधीः, ‘सर्वं ह पश्यः पश्यति’ इति श्रुतेस्सङ्कोचानभ्युपगमात् । ‘न पश्यो मृत्युं पश्यति न रोगं नोत दुःखताम्’ इति पूर्वोक्त्या सोढव्यस्सङ्कोच इति चेन्न; सङ्कोचकानां निश्शेषक्षीणत्वात् । न चात्र, ‘काणतां जनयेद्दीपो निम्बबृन्दाकरेणुमान्’ इतिवत्किञ्चिन्निमित्तमन्तरेण स्वतःप्राप्तप्रकाशैकदेशभङ्गः स्यात्; ‘मण्डूकवसयाऽक्ताक्षा वंशानुरगबुद्धिभिः’ इतिवद्वा केनचिद्धेतुना प्रागनुकूलेषु प्रतिकूलबुद्धिर्युक्ता । इदानीं तु प्रतिकूलेष्वनुकूलधीर्यदि तादृशोपाधितस्स्यात्, तथा सति भ्रान्त्यनुवृत्त्या कर्माद्यनुवृत्तिरपि दुर्वारा । एतेन नित्यानां मुक्तानां च क्वचिदस्थानभयशङ्कावादोऽप्यन्यपरतया नेतव्यः । एवं मुक्तबुद्धेस्सङ्कोचासङ्कोचविकल्पासहतयाऽत्र पाषाणकल्पपक्ष एव ज्यायानिति । तत्राह – सर्वस्येति । यदि स्वतोऽनुकूलस्वामिभूतितया दृश्यमानं हि सर्वमपि स्वतोऽनुकूलमेव भायात्, तर्हि बद्धदशायामपि तथा भासेतेत्यत्राह – व्यक्तिमिति । तादृक्त्वं प्रतिबन्धकविगमे हि प्रकाशेत; अनुकूलस्वभावं ब्रह्मवत्तदात्मकं सर्वं कथमिदानीं कैश्चित्प्रतिकूलतया गृह्यत इति चेत्, इत्थं – कर्मसंवृतधियां यथाकर्म भानभेदोपपत्तेः । यथाऽऽहुः – ‘वस्त्वेकमेव दुःखाय सुखायेर्ष्यागमाय च । कोपाय च यतस्तस्माद्वस्तु वस्त्वात्मकं कुतः ॥’ इति । ‘तदेव प्रीतये भूत्वा पुनर्दुःखाय जायते । तदेव कोपाय यतः प्रसादाय च जायते ॥’ इति च । अत उपाधिविगमे स्वतःप्राप्ताभिव्यक्तिर्युक्ता । ननु संसृत्यवस्थासिद्धं निरयाणां प्रातिकूल्यं स्वानुभूतं च दुःखं मुक्तः पश्यति वा? न वा? आद्ये, ‘गन्धाश्मरजसा स्पृष्टो नष्टो दीपः पुनर्ज्वलेत्’ इति न्यायेन पुनरपि दुःखसन्ततिरुदियात् । उत्तरत्र धीसङ्कोचाभ्युपगमप्रसङ्गः, तथाऽपि दुःखित्वं स्यात्तस्य तद्व्याप्त्यङ्गीकारादित्यत्राह – प्राचीनेति । क्रमशब्दः तदातनसन्तानसूचनार्थः, कर्मानन्तर्यपरो वा । तदानीं – मुक्तिकाले । न हि प्राप्ताभिषेकं प्राचीनकारागृहवासधीर्दुःखाकरोति । स्वाधारवर्तमानसुखादिसाक्षात्कारं च भोगमाहुः । प्रसिद्धं च – ‘प्राप्तानि दुःखान्यपि दण्डकेषु संचिन्त्यमानानि सुखीबभूवु’रिति । पूर्वमपि प्रातिकूल्यं यत्प्रयुक्तम्, तन्निवृत्तौ कथं तत्स्यादित्यभिप्रायेणाह – प्रागपीति ॥ ६५ ॥ इति निरुपाधिकब्रह्मानुभवस्य दुःखरहितनिरतिशयानन्दत्वम् ॥
2.136 अन्ये चानादिशुद्धाः श्रुतिसमधिगतास्सूरयस्सन्त्यसङ्ख्याः
कर्माभावादनादेर्न तु भवति कदाऽप्येषु संसारबन्धः ।
शेषाणां शेषिणश्च स्फुरति सुखतया सर्वदा सर्वतत्त्वे
नित्यानां मुक्तिभाजामपि भुवनकृता भोगमात्रं’ समानम् ॥ ६६ ॥
यत्तु तन्त्रान्तररस्थैरुच्यते – ‘मुक्तात्मानोऽपि शिवाः किं त्वेते यत्प्रसादतो मुक्ताः । सोऽनादिमुक्त एको विज्ञेयः पञ्चमन्त्रतनुः ॥’ इति, तत्र श्रुतिविरोधमभिप्रेत्याह – अन्य इति ॥ श्रुतिसमधिगताः – ‘सदा पश्यन्ति’ इति श्रुत्या निर्बाधमधिगता इत्यर्थः । नह्यसौ श्रुतिर्मुक्तविषया, मुक्तानामेकैकशस्सदा दर्शनाभावात् । इयं हि दर्शनं सदेति विशिंषत्यपि सदा – दर्शनविशिष्टान् सर्वान् स्वरसतोऽवगमयति । न त्वादिमद्दर्शनप्रवाहसातत्यम्, तत्र बहुवचनस्य सङ्कोचकादृष्टेः । उपबृंहणतश्च कपिञ्जलन्यायानवतारादसंख्या इत्युक्तम् । ननु परतन्त्रचेतनानामस्मदादिवत्संसृतिरवर्जनीया । अथ कथमनादिसिद्धत्वमित्यत्राह – कर्माभावादिति । उक्तहेतुना कर्माप्यवर्जनीयमिति चेन्न, सदादर्शनश्रुत्यैव मिथ्याज्ञानादिपूर्वकस्य कर्मणः प्रत्यासेधात् । अन्यथा कथमीश्वरोऽप्यङ्गीक्रियते? मा भूदिति चेत्, श्रुतिबाध इति शेवं पठ । सर्वप्रशासितुश्शास्त्रवश्यत्वाभावान्न कर्मवश्यत्वमिति चेन्न, पारतन्त्र्येऽप्यनादिसर्वज्ञानामपि तदभावं पश्य । अथापि कर्माभावो न तावदन्योन्याभावः, संसृत्यभावं प्रत्यप्रयोजकत्वात् । न प्रागभावः, तस्य भावशिरस्कत्वात् । न प्रध्वंसः, भावपूर्वकत्वात् । न संसर्गाभावः तस्यापि प्रागभावादिविकल्पदौःस्थ्यादिति चेत्; तन्न, कर्मात्यन्ताभावस्य विवक्षितत्वात्, अन्यथा ईश्वरेऽप्येवं विकल्पप्रसङ्गात् । नित्येषु च नाशकारणाभावान्नाशाभाव इत्यभ्युपगमस्य भङ्गप्रसङ्गात् । कस्य चिदनादिसिद्धत्वे को हेतुरिति पृच्छन्तस्त्वहेतुविद्भिरनुग्राह्याः । अत एव कथमीश्वरस्य क्वचिदिच्छा नित्या क्वचिदनित्येति वैषम्यानुयोगश्च विधूतः । न चाधिकारवैचित्र्यादनन्तादिष्वक्षेत्रिष्विन्द्रादिवत् क्षेत्रित्वानुमितिश्शक्या, स्वच्छन्देशावतारवत् । यदपि मुक्तानां शिवत्वमुक्तम्, तत्किमीश्वरतादात्म्यं तज्जातीयत्वं वा तद्गुणसाम्यं वा? नाद्यः, हेतुभुक्तस्यानादिमुक्ततादात्म्यसंभवात् । न द्वितीयः, ‘न त्वत्समोश्चाभ्यधिकश्च’, ‘न त्वत्समोऽस्तीत्यादिविरोधात्’ । न तृतीयः, पारतन्त्र्येऽपि शुद्धिमाङ्गल्यसार्वज्ञ्यादिमात्रेण तत्सिद्धेः । अथ नित्यानां मुक्तानामनीश्वरत्वे तद्भोगसाम्यं न स्यादिति मन्वीथाः, तत्र ब्रूमः – शेषाणामिति । स्वतन्त्रपरतन्त्रयोर्यथादृष्टि भोग्यसाम्याद्भोगसाम्यं युज्यते । सूत्रितं चैतत् – ‘भोगमात्रसाम्यलिङ्गाच्चेति ॥ ६६ ॥ इति नित्यसूरिसिद्धिः, नित्यमुक्तेश्वराणामपि भोगसाम्यं च ॥
2.137 सालोक्याद्याः प्रभेदा ननु परिपठिताः क्वापि मोक्षस्य मैवं
सायुज्यस्यैव तत्त्वात्तदितरविषये मुक्तिशब्दस्तु भाक्तः ।
तस्मिंस्ते च त्रयस्स्युस्तदपि च सयुजोर्भाव इत्यैकरस्यं
युक्साम्यं [लोक]योगसाम्यादिवदपदुधियां तावतैवैक्यमोहः ॥ ६७ ॥
नन्वग्निहोत्रदर्शपूर्णमासादिसाधनविशेषत्तत्साध्यस्वर्गे तारतम्यमङ्गीकुर्मः, तथा मोक्षेऽपि स्यात्; अन्यथा कथमाप्तशास्त्रे क्वचित्सालोक्यादिमुक्तिभेदकथनमिति शङ्कते – सालोक्येति ॥ तेषु मुक्तिशब्दो न मुख्य इत्यभिप्रायेणाह – मैवमिति । मुख्यं मुक्तिशब्दविषयमाह – सायुज्यस्येति । अन्यत्र प्रयोगः कथमित्यत्राह – तदितरेति । तथा च नियम्यते – ‘लोकेषु विष्णोर्निवसन्ति केचित्समीपमिच्छन्ति च केचिदन्ये । अन्ये तु रूपं सदृशं भजन्ते सायुज्यमन्ये स तु मोक्ष उक्तः ॥’ इति । तर्हि सायुज्ये सालोक्यादिभोगाभावत् भोगसाम्यसूत्रं परिमितविषयं स्यादित्यत्राह – तस्मिन्निति । सायुज्ये हि सहस्रे शतादिकमिव सालोक्यादित्रिकमन्तर्भवतीति एकस्मिन्वाक्ये ब्रह्मसायुज्यसालोक्ययोस्सहपाठोऽप्येवमन्तर्भावविवक्षया मुख्यगौणमुक्त्यपेक्षिपुरुषभेदानुरोधाद्वा यथार्हं निर्वाह्यः । ननु यदि सायुज्यमेव मोक्षः, तदा पूर्वोक्तं भोगसाम्यं न स्यात् । ऐक्यापत्तिरेव हि सायुज्यम् । अतः कस्य केन भोगसाम्यमित्यत्राह – तदपीति । नन्वेकीभूतयोर्भावो हि सयुजोर्भावः । तत्र परं प्राचीनब्रह्मानन्दानुवृत्तिमात्रमेव स्यात् । ‘अन्यूश्चाप्यवृद्धिश्चेति स्थापनात् । अतो भोक्तृद्वित्वाभावाच्चोद्यं तदवस्थमित्यत्राह – युक्साम्यमिति । अत्र सालोक्यादिनयाद्भुज्यमानं युक्छब्दार्थः । तेन भोगसाम्यमाक्षिप्यते । सायुज्यसार्ष्टिसहपाठे तु कण्ठोक्तम् । न हि सयुक्छब्द एकशब्दपर्यायः; तथा क्वचिदपि प्रयोगाभावात् । ‘द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते’ इति द्वयोरेव प्रयोगाच्च । ‘तयोरन्यः इत्युत्तरवाक्ये च स्पष्टमेतत् ।’ ‘एतासामेव देवतानां सायुज्यम्’ इत्यत्र बहुदेवतासायुज्यं युगपत्? क्रमेण वा? नाद्यः, भिन्नैरेकस्य युगपदेकतापत्त्ययोगात् । न द्वितीयः, विभागाविभागविकल्पदौःस्थ्यात् । विभागयोग्यत्वे हि संयोगविशेषमात्रं स्यात् । तदभावे तु क्रमेणोत्तरोत्तरतादात्म्यादेकपरिशेषः स्यात्; न चैतत्क्वचिद्दृष्टमिष्टं वा । यदि कश्चिन्नैवण्टुकः ऐक्यं सायुज्यमिति पठेत् तत्तस्य स्वपक्षाभिनिवेशेन शब्दशक्तिग्रहणापरिबुद्धतया वा प्रयुक्तमित्युपेक्षणीयम् । द्वित्वे स्थितेऽपि सरित्समुद्रसलिलयोरिव संभेदविशेषकृतमेकराशित्वं वा विवक्षितम् ॥ ६७ ॥ इति मुक्तानुभवस्य समानभोगत्वलक्षणसायुज्यैकरूपत्वम् ॥
2.138 विश्वाधारस्य लक्ष्मेत्यभिहितमखिलं संभवेन्नापवृत्ते
तन्निष्ठत्वादि सर्वं न हि विलयमियात्तच्छरीरस्य तस्य ।
तन्निघ्नत्वेऽपि मुक्तो न भवति पुनरावृत्तिशङ्काकलङ्की
तादृक्सौहार्ददृष्टेर्वयमिह तदनावृत्तिशास्त्रेण विद्मः ॥ ६८ ॥
यदि मुक्तोऽपि परतन्त्रः, तर्हि स्वच्छन्दप्रवृत्तपरबुद्ध्या पुनरपि बन्धः किं भवेदिति नित्यं शङ्काकलङ्कितः स्यात् । अतः पारतन्त्र्यादिपरिहारेण परब्रह्मसाम्यसिद्धिरवधार्या । अन्यथा ‘निरञ्जनः परमं साम्यमुपैति’ इति परमत्वविशेषणं व्यर्थं स्यादित्यत्राह -विश्वाधारस्येति ॥ अयं भावः – ईश्वरस्य यल्लक्षणत्वेनोक्तं तत्सर्वं मुक्ते न स्यात्, लक्ष्येतरगामित्वे लक्षणत्वायोगात् । ‘एकस्सर्वशरीरीति च शास्त्रसिद्धम् । अतो मुक्तस्याप्याधेयत्वादिनियमो न निवर्तेत । परमत्वविशेषणं तु तुलाधृतसुवर्णपाषाणयोरिव न सर्वाकारसाम्यं साधयितुमर्हतीति अतिशङ्कामपाकरोति – तन्निघ्नत्वेऽपीति । मुक्तस्य शङ्कानिवृत्तिहेतुमाह – तादृगिति । स्वतन्त्रेऽपि स्वाभाविकसौहार्ददर्शनादित्यर्थः । मुमुक्षूणां मुक्तावर्तनशङ्का केन निवर्त्येत्यत्राह – वयमिति । श्रुतिस्मृतिचक्षुषो वयं त्रैविद्याः, तस्मादस्माकमपि परसौहार्ददर्शनं सिद्धमिति भावः । ‘सर्वेषु लोकेषु कामचारो भवति’, ‘इमान् लोकान् कामान्नी कामरूप्यनुसञ्चरन्’, ‘स यदि पितृलोककामो भवति सङ्कल्पादेवास्य पितरस्समुत्तिष्ठन्ति’ इत्यादिशास्त्रदृष्ट्या च पुनरावृत्तिं वयं शङ्केमहीति चेन्न; ईदृशवाक्यानां विधूतपुण्यपापस्य स्वच्छन्दवृत्तौ तात्पर्यात् । अन्यथा महावाक्यविरोधात् । ननु ‘एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्ते इति सविशेषणश्रवणादावर्तान्तरेष्वावृतिश्शङ्कयेतेति चेन्न; अहेतुकावृत्त्ययोगाद्बहुश्रुतिविरोधात् विशेषकोक्तेश्च घोरत्वानुवादपरत्वेन सफलतयाऽन्यत्रावृतावौदासीन्यात्; अन्यथा उपबृंहणशतं च प्रकुप्येत् । गीयते च – ‘आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन । मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ॥’ इति । ‘इदं ज्ञानमुपाश्रिय मम साधर्म्यमागताः । सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥’ इति ॥ एतत्सर्वमभिप्रेत्य सूत्रम् ‘अनावृत्तिश्शब्दादिति ॥ ६८ ॥ इति पुनरावृत्तिप्रसङ्गपरिहारः ॥
2.139 विश्वैर्वैशेषिकैस्तैर्भवति विरहितो नाशितादृग्गुणत्वा-
ज्जीवात्मा जन्मकाले घटवदिति यदि स्यादिहाम्नायबाधः ।
दृष्टान्तस्साध्यहीनः क इव निगमविल्लिप्सते मुक्तिमेतां
धीर्नित्येच्छादयस्तत्परिणतय इति स्याच्च हेतोरसिद्धिः ॥ ६९ ॥
अथ वैशेषिकादिपठितं प्रस्तरप्रायमोक्षं पराचिकीर्षुस्तदुक्तं प्रयोगमनुवदति – विश्वैरिति ॥ जीवाः पार्थिवपरमाणव आकाशश्च कदाचिदशेषविशेषगुणशून्याः, अनित्यविशेषगुणवत्त्वात्, उत्पत्तिक्षणे घटवत् । न चात्र दृष्टान्तस्साध्यविकलः; कार्यद्रव्यगुणानां तद्धर्म्युत्पत्त्यनन्तरभावित्वनियमात्, सहोत्पत्तावुपादानोपादेयभावायोगात् । न च भावस्समवायिकारणेन विना कश्चिदुत्पद्यते । ननु जीवः सर्वदा विशेषगुणवान् आत्मत्वात् ईश्वरवत् इति प्रतिप्रयोगः स्यात् । तन्न; निरीश्वरवादिनां दृष्टान्तासिद्धेः । भूषणस्य तु मुक्तिदशायां ज्ञानं कार्यमकार्यं वा? आद्ये करणसापेक्षत्वान्नश्वरत्वादिप्रसङ्गः । उत्तरत्र इदानीमप्युपलभ्येत । एकदा चैकस्य ज्ञानद्वयमयुक्तम् । किंच नित्यज्ञानं मुक्तौ भासते न वा? आद्ये स्वतो भानेऽपसिद्धान्तः; परतो भाने ज्ञानान्तरकॢप्तिगौरवं, तदपि कार्यमकार्यं वेति विकल्पदौःस्थ्यं च । उत्तरत्र निर्विषयं सविषयं वा? नाद्यः तादृशख्यात्यनभ्युपगमात् । द्वितीये तु सर्वविषयं नियतविषये वा? आद्येऽनेकानादिसर्वज्ञवादप्रसङ्गः । मुक्तिदशायां सर्वज्ञत्वं भवत्विति चेन्न, तथाऽपि तादृशत्रय्यन्तवादानङ्गीकारात् । नियतविषयत्वं त्वीश्वरज्ञानस्येव मुक्तज्ञानस्यापि नित्यस्य दुस्साधम् । सामग्रीभेदतो हि सर्वत्र धियां विषयनियमः । विषयश्च तस्य कः? आनन्द इति चेत् स किं कार्योऽकार्यो वा? नाद्यः, अनभ्युपगतेः, हेतुनिरूपणायोगाच्च । न द्वितीयः, अद्याप्युपलब्धिप्रसङ्गात् । विषयविषयित्वानुपपत्त्याऽनुपलब्धिरिति चेत्; तन्न, किं तयोः स्वरूपमतिरिक्तं वा? आद्येऽनाद्युपलब्धिप्रसङ्गः । उत्तरत्र भावस्योत्पन्नस्य ध्वंसित्वं स्यात् । उत्पन्नोऽपि कश्चिद्भावो न नश्यतीति चेन्न, अदर्शनात् कल्पकाभावात् । ‘आनन्दं ब्रह्मणो रूपं तच्च मोक्षेऽभिव्यज्यते’ इति श्रुत्या तथाऽङ्गीकुर्म इति चेन्न, अयमानन्दशब्दो जीवविषयः परविषयो वेत्यनिर्धारणात् । स्वानन्दश्च साक्षात्क्रियमाणस्साधारो निराधारो वा भाति? पूर्वत्रानन्दमात्रविषयत्वव्याघातः । परत्र अहं सुखीति भानाभावादानन्दाभिव्यक्त्याऽपि न पुरुषार्थभोक्तृत्वसिद्धिः । सुखादेस्स्वसमवेततयाऽनुभवो हि भोग इत्यास्तामेतत् । यदि कश्चित्कौमारिल एवं प्रयुञ्जीत – देवदत्तमुक्तिकालः एतज्ज्ञानवान्कालत्वादिति, तस्य देवदत्तसुषुप्त्यादिकालैरनैकान्त्यम् । तेषामपि पक्षीकरणे तदातनज्ञानस्य निर्विषयत्वसविषयत्वादिविकल्पक्षोभः । अत एव – ‘निजं यत्त्वात्मचैतन्यमानन्दोऽध्यक्ष्यते च यः । यच्च नित्यविभुत्वादि तेनात्मा नैव मुच्यते ॥ मनःकरणकेनात्मा प्रत्यक्षेण प्रतीयते । इत्युपदेशोऽप्यश्रद्धेयः । यच्च कैश्चिच्चिन्मात्ररूप आत्मा चेतयितृत्वादिरहितः प्रकाशत इत्यनुशिष्यते, तदपि निष्प्रमाणकम् । अतस्समस्तविशेषगुणशून्यात्मानुमानं निष्कम्पमिति । तत्राह – स्यादिति । यद्यत्र कदाचिज्जीवः स्वधर्मभूतज्ञानरहित इति साध्यं, तदा तन्नित्यत्वश्रुतिविरोधः । अथ तद्विकारविशेषरहित इति, तत्राव्यवहिताधारत्वनिषेधे सिद्धसाधनम् । व्यवहिताधारत्वनिषेधे तु शास्त्रबाधः, स्वमतेन साध्याप्रसिद्धिश्च । उत्पत्त्यवस्थघटदृष्टान्तश्च साध्यविकल इत्याह – दृष्टान्त इति । प्रागसद्द्रव्योत्पत्तेर्निरस्तत्वेनाश्रयहान्या तन्निदर्शनायोगात् । नित्यस्य तु त्रिगुणस्य द्रव्यस्य नित्यं यत्किंचिद्विशेषगुणवत्त्वादिति शेषः । अनुमानस्य बाधकतर्कमाह – क इवेति । अत्रेदमाकूतम् – केवलं दुःखनिवृत्त्यर्था न क्वचिदपि कस्यचिदपि प्रवृत्तिर्दृश्यते । उत्तरसुखमभिसन्धायैव सर्वेषां दुःखनिरासप्रवृत्तिरिति लोकवादविदः । अन्यथाऽपि ब्रूमः – सुषुप्त्यवस्थजीवमुपदिष्टवति प्रजापताविन्द्रः प्राह – ‘न ह खल्वयमेवं संप्रत्यात्मानं जानात्ययमहमस्मीति नो एवेमानि भूतानि विनाशमेवापीतो भवति नाहमत्र भोग्यं पश्यामि इति । ततः प्रजापतिरपहतपाप्मत्वादिसत्यसङ्कल्पत्वपर्यन्तगुणकं ब्रह्मसमं मुक्तमुपदिदेश, अतः केवलं दुःखनिवृत्तिर्न मुक्तिरिति जानन् कथं त्वदुक्तमुक्तिकामः प्रवर्त्स्यतीति । हेतावपि विकल्पाक्षमत्वं मत्वाऽऽह – धीरिति । अनित्यविशेषगुणवत्त्वादिति वदता किं धीस्वरूपं तत्परिणतयो वा आत्मगुणत्वेन कथ्यन्ते? स्वसिद्धान्तदृष्ट्या पुरुषगुणभूतागन्तुकचैतन्यादयो वा? तत्राद्यस्य दूषणम् -धीर्नित्येति । अनित्यविशेषगुणवत्त्वमसिद्धमित्यर्थः । द्वितीये त्वात्मनस्तद्वत्त्वं नेति । मतद्वयेऽपि स्वरूपासिद्धिमाह – इच्छादय इति । तृतीयेऽपि त्रय्यन्तविद्भिरनङ्गीकारादसिद्धिस्सुगमेति तस्य पृथगनुद्धारः । एवं दुःखसन्ततिरत्यन्तमुच्छिद्यते सन्ततित्वात् प्रदीपसन्ततिवत् इत्यनुमानमपि निरस्तम्; आगमसिद्धाभिर्नित्यसन्ततिभिरनैकान्त्यात्, प्रदीपावयविसन्ततेश्चास्मान्प्रति निदर्शनायोगात्, अवस्थासन्ततेश्चोच्छेदाभावात्, दीपत्वावस्थासन्ततिवदिति त्वया निदर्शयितुमयुक्तत्वादिति ॥ ६९ ॥ इति पाषाणवन्मोक्षभङ्गः ॥
2.140 आत्मा चिन्मात्ररूपो विकृतिमति जडे बिम्बितो बुद्धितत्त्वे
तच्चास्मिँस्तद्विवेकाग्रहणविरचितः पुंसि संसारमोहः ।
अन्त्या विज्ञानवृत्तिः प्रकृतिपुरुषयोरन्यतां गाहमाना
तादृक्संसारभेत्त्री पुरुष इह सदा मुक्त एवेति साङ्ख्याः ॥ ७० ॥
अथ सांख्योक्तं चिदचिद्विवेकं संसारं तन्निवृत्तिप्रकारं च संगृह्णाति – आत्मेति ॥ चिन्मात्ररूप इति पुरुषस्वरूपशोधनम्, नासावचित्स्वभावः, नच ज्ञातेत्यर्थः । विकृतिमति जड इत्यचेतनधर्माणामुपलक्षणम् । एवं हि विविञ्चते -‘मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयस्सप्त । षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः ॥’ ‘त्रिगुणमविवेकि विषयः सामान्यमचेतनं प्रसवधर्मि । व्यक्तं तथा प्रधानं तद्विपरीतस्तथा च पुमान् ॥’ इति । बिम्बित इत्यादिना प्रकृतिपुरुषयोरितरेतरधर्माध्यासे हेतुविशेष उच्यते । अप्रकाशमाने कथं तद्धर्माध्यास इत्यत्रोक्तम् – तच्चास्मिन्निति । स चाध्यास एवं कथ्यते – ‘तस्मात्तत्संयोगादचेतनं चेतनावदिव लिङ्गम् । गुणकर्तृत्वे च तथा कर्तेव भवत्युदासीनः ॥’ इति । फलितमाह – तदिति । विवेकः – भेदः । तदग्रहणशब्देन सामग्र्येकदेशोपादानम् ॥ ‘ज्ञानेन चापवर्गो विपर्ययात्तद्विपर्यासः । वैराग्यात्प्रकृतिलयः संसारो भवति राजसाद्रागात् ॥’ इति कारणान्तरमपि हि संगृह्यते । कृपाणप्रतिफलितमुखमलिनतान्यायसूचनाय मोहशब्दः । अस्य किं निवर्तकमित्यत्राह – अन्त्येति । विज्ञानवृत्तिः – विज्ञानरूपान्तःकरणवृत्तिः, विज्ञानस्य वा बुद्धितत्त्वस्य विवेकख्यातिरूपा परिणतिः । ‘विवेकख्यातिपर्यन्तमज्ञानं चितचेष्टितम् । ‘एवं तत्त्वाभ्यासान्नास्मि न मे नाहमित्यपरिशेषम् । अविपर्ययाद्विशुद्धं केवलमुत्पद्यते ज्ञानम् ॥’ तेन निवृत्तप्रसवामर्थवशात्सप्तरूपविनिवृत्ताम् । प्रकृतिं पश्यति पुरुषः प्रेक्षकवदवस्थितस्सुस्थः ॥ प्रकृतेस्सुकुमारतरं न किंचिदस्तीति मे मतिर्भवति ॥ या दृष्टाऽस्मीति पुनर्न दर्शनमुपैति पुरुषस्य ॥ इति । स्फटिकरागनिवृत्तिन्यायसूचनाय तादृक्छब्दः । यद्यपि संसारः पुरुषस्यारोपितः, तथाऽपि तद्भ्रमो दुस्त्यज इत्यत्राह -पुरुष इति । इह – संसारे वर्तमानेऽपि, पुरुषस्तु भ्रान्त्याऽप्यनाघ्रातस्सर्वदा पुष्करपलाशवन्निर्लेप इत्यर्थः । तथा चाहुः – ‘तस्मान्न बध्यतेऽद्वा न मुच्यते नापि संसरति कश्चित् । संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः ॥’ इति ॥ ७० ॥ इति समीक्षोक्तसंसारानुवादः ॥
2.141 नीरूपे बिम्बितत्वं क्वनु भवति कथं रूपशून्यस्य तत्स्या-
न्निर्लेपे संसृतिः का कथमतिविशदो निष्क्रियश्चैव मुह्येत् ।
नित्यं वा किं न मुह्येदुपधिभिरितरैर्वेत्तु भेदं कथं वा
को वा मोक्षोऽद्य पुंसः प्रथममपि न खल्वस्य दुःखादिगन्धः ॥ ७१ ॥
एवमनूदितेष्वर्थेषु चिन्मात्ररूपत्वस्य प्रागेव ज्ञातृत्वसाधनेन निरस्तत्वात्तदनन्तरोक्तं बिम्बितत्वं दुदूषयिषुस्तन्मुख्यममुख्यं वेति विकल्पं भावयन्मुख्यं दूषयति – नीरूप इति ॥ मुकुरादीनां मुखादीनां च रूपवत्त्वनियमादात्मान्तःकरणयोस्तदुभयस्थानीयत्वं न घटत इति वाक्यद्वयाभिप्रायः । दृक्छक्तिरूपः संसरन् [आत्मा] पुरुषस्स्वभोगार्थं स्वनिष्ठां बुद्धिं व्यनक्ति, तेनाबोद्धाऽपि सन् बोद्धेव भवति, बुद्धिरपि सलिलादिवत्स्वच्छस्वभावतया स्वनिष्ठां चिच्छक्तिं व्यनक्ति, तेन स्वयमबोद्द्री सती बोद्ध्री भवति । एतावतैव बिम्बितत्ववाचोयुक्तिरित्यमुख्यपक्षेऽपि संसरन्नात्मेति विशेषितम् । न तावदिदं निरर्थकम्, वाक्येऽनन्वयापत्तेः । मुक्तबुद्ध्योरपि परस्पराभिव्यञ्जकत्वप्रसङ्गाच्च । सार्थकत्वे निर्लेपत्वसमर्थनविरोध इत्यभिप्रायेणाह – निर्लेप इति । एतेन शास्त्रारम्भहेतुभूता मुमुक्षा दुःखत्रयाभिघातकजिज्ञासा च न संभवतीत्यपि सूच्यते । संसृतिहेतुं भेदाग्रहं तन्मूलं भ्रममपि निरस्यते – कथमिति । चिद्रूपस्यात्मनो भेदः स्वरूपं धर्मो वा? आद्ये चिद्रूपतयैवातिविशदो भातीति कथं भेदस्याग्रहः, तस्य तत्त्वात्? द्वितीये ज्ञातृत्वकर्तृत्वभोक्तृत्वादिधर्मस्त्वयैवात्मन्यपोढ इति न तादृशधर्माग्रहः । प्रकृतिपुरुषसाधारणयोस्तु नित्यत्वविभुत्वयोरग्रहो न ते भेदाग्रहः । कार्यप्रकृतौ तयोरभावाद्वैधर्म्यरूपत्वमिति चेन्न, कार्यकारणप्रकृत्योस्तादात्म्याभ्युपगमात्, कार्येऽपि तयोरङ्गीकर्तव्यत्वात् । अन्यथा कथं नासत्कार्यवाद? धर्मधर्मितादात्म्यवादे च धर्मिभाने धर्मोऽपि भायादेवेति कथंचिदपि न भेदाग्रहसंभवः । अत एवात्मा न मुह्येत् । निष्क्रियत्वाच्च ज्ञानमेव क्रियेति भीत्या जहतः कथं तद्विशेषग्रहः? अमुह्यन्नप्यन्यमोहं स्वस्मिन्नव्यवस्यतीति चेत्, तदिदं शतमदित्सतश्शतार्द्धद्वयदानमिति । ननु विकृतिविशेषवदुपाधिसंनिधानमेवास्य मोहोऽस्त्वित्यत्राह – नित्यमिति । ईदृशोपाधिसन्निधानस्य कालान्तरेऽपि सुलभत्वात् कदा मुक्तिः? निरधिकारप्रकृतिदशायामिति चेन्न, सर्वनित्यत्ववादिभिरधिकारस्यापि ध्वंसपरिग्रहायोगात् । अनभिव्यक्तिश्च तस्य दुर्वचा, अभिव्यक्तेरपि निवृत्त्यसंभवादेवेति मोहनिवृत्त्यर्थो भेदग्रहश्च न सादित्याह – वेत्त्विति । प्रकृतिधर्माध्यासश्च प्रत्यूढ इति भावः । क्रियावती प्रकृतिरेव चिच्छायापत्तिमती वेत्त्री भवतीति चेन्न, छायापत्तेर्निरस्तत्वात् । पुरुषस्य भेदग्रहाभावे च स्ववाक्यविरोधः; यदात्थ ‘प्रकृतिं पश्यति पुरुषः, ‘दृष्टा मयेत्युपेक्षते एक’ इत्यादि । भाक्तमिदं दृष्टत्वमिति चेत्तर्हि प्रागिव भेदाग्रह एव । अस्तु वा प्रकृतिरनुपकारिणः पुंस उपकारिणी, तदर्थं भेदग्राहिणी; तथाऽप्यनया तस्य न किंचिदुपकर्तव्यमित्याह – को वेति । संसारनिवृत्तिरिति चेत्तत्राह – प्रथममिति । पूर्वमित्यर्थः । मा भूदुपकर्तव्यम्, का हानिरिति चेत्तस्यार्थमपार्थकं चरति । ‘पुरुषविमोक्षनिमित्तं तथा प्रवृत्तिः प्रधानस्य’ ‘कृत्स्नं पुरुषस्यार्थं प्रकाश्य बुद्धौ प्रयच्छन्ति’ इति स्वोक्तहानिः । ‘रूपैस्सप्तभिरेवं बघ्नात्यात्मानमात्मना प्रकृतिः । सैव च पुरुषार्थं प्रति विमोचयत्येकरूपेण ॥ इत्यप्युक्तमिति चेत्, तथाऽपि स्वोक्तहानिरेव । पुरुषार्थं प्रतीत्यपि व्यर्थं वचः । सृष्टिप्रलयबन्धमोक्षादयश्च त्वन्मते कथं पौर्वापर्यं भजेरन्? सर्वनित्यत्ववादिनस्तत्तद्धेतुभूतगुणवैषम्यादेरपि क्रमभावित्वायोगादिति ॥ ७१ ॥
2.142 व्यापिन्येकाऽपि सांख्यैः प्रकृतिरभिहिता सर्वसाधारणी सा
व्याप्ता जीवाश्च सर्वे प्रकृतिपरिणतिर्भोग एषामभीष्टः ।
सर्वे सर्वस्य भोगाः स्युरिह तत इमे संनिधानादिसाम्यात्
बुद्धीच्छाद्यं च सर्वं प्रकृतिगतमतो न व्यवस्था ततोऽपि ॥ ७२ ॥
अत्र ‘नित्यं वेति वाक्ये बद्धमुक्तव्यस्था न स्यादित्युक्तम् । अथ ‘जननमरणकरणानां प्रतिनियमादयुगपत्प्रवृत्तेश्च । पुरुषबहुत्वं सिद्धं त्रैगुण्यविपर्ययाच्चैव ॥ इति पुरुषबहुत्वसाधकतयोक्ता च व्यवस्था न सिध्यतीत्याह – व्यापिनीति ॥ एकत्वं सत्त्वरजस्तमोरूपद्रव्यसङ्घातात्मकतया । शेषं तु पूर्वार्धं सूहम् । ततः किमित्यत्राह – सर्व इति । इमे – प्रत्यक्षानुमानागमैस्सर्वेषामात्मसाक्षिकं प्रतिनियततया प्रख्याता इत्यर्थः । व्यवस्थापकानुपपत्तिमात्रे हेतुमाह – संनिधानेति । स्वरूपपसंनिधिस्तावत् सर्वत्र सर्वेषां समः । तद्विशेषो दुर्वचः । विशेषवतां संनिधिरेव संनिधिविशेष इति चेन्न, औलूक्यपठितविशेषस्यानादरात्; अङ्गीकारेऽपि तस्य भोगहेतुत्वाभावेन व्यवस्थापकत्वायोगात् । विहतनिषिद्धजनितादृष्टभेदैरेवं हि भोगव्यवस्था, अन्यथा निर्निमित्तभोगवादप्रसङ्गात् । अस्तु तर्हि तादृशनिमित्तोपश्लेषाद्व्यवस्था । मैवम्, निष्क्रियस्य ज्ञानचिकीर्षाप्रयत्नानभ्युपगमेन कर्तृत्वाभाव्यवस्थापनात् । अकर्तुश्च न क्रियाजन्यादृष्टाश्रयत्वं तत्फशभोक्तृत्वं वा समस्ति ।’ श्लो. अस्वधर्मसमानीतैरन्यनिष्ठैरुपाधिभिः । यदि लिप्येत यः कश्चिन्न लिप्येरन् कथं परे ॥ प्रकृत्यंशगतैर्धर्मैर्यदि तादृग्व्यवस्थितिः । अजागलस्तनप्रायः पुमान् किमिति कल्प्यते ॥ तप्तायःपिण्डनीक्त्यि नोदाहर्तुमिह क्षमा । तत्र संसर्गिसंसर्गभेदात् सर्वोपपत्तितः ॥ न सत् प्रच्यवते यस्य नासदात्मानमृच्छति । तस्य बन्धश्च मोक्षश्च कथं न सह तिष्ठतः ॥ तदेतत् सर्वमभिप्रेत्याह – बुद्धीति । प्रकृतिगतमित्यनेन बाह्यगतत्वं मूलप्रकृतौ नित्यस्थितत्वं चाभिसंहितम् ॥ ७२ ॥ इति सांख्यसंसारमोक्षादिनिरासः ॥
2.143 मुक्तिः प्राणाक्षदेहादिभिरुपधिभिरत्यन्तविश्लेषरूपा
जीवद्भावोऽपि तैस्सङ्गम इति विहतेर्जीवतस्सा कथं स्यात् ।
आपस्तम्बादयश्च श्रुतिगतिभिरिमां युक्तिभिश्च व्युदासु-
र्जीवन्मुक्तादिशब्दः क्वचिदुपचरितस्तत्समावस्थयैव ॥ ७३ ॥
अथ मुख्यामुख्यप्रयोगानभिज्ञकल्पितां जीवन्मुक्तिं दूषयति – मुक्तिरिति ॥ यदि कतिपयनिवृत्तिमात्रे मुक्तिशब्दः, तदाऽतिप्रसङ्ग इति भावः । नित्यसिद्धस्य पुरुषस्य जीवनमपि ह्युपाधिविशेषसंबन्ध इत्याह – जीवद्भाव इति । फलितमाह – विहतेरिति । अत्र महर्षिवाक्यविरोधमप्याह – आपस्तम्बादय इति । प्रागेवैतत् प्रदर्शितम् । ‘अमृत इह भवति, ‘जीवन्मुक्ता भवन्तीत्यादेः का गतिरित्यत्राह – जीवन्मुक्तादिशब्द इति । श्रुत्यादिष्वप्यगत्यामुपचारः स्वीकृत इति भावः ॥ ७३ ॥ इति जीवन्मुक्तिभङ्गः ॥
2.144 चन्द्रैकत्वादिबुद्ध्या न हि विलयमियाच्चक्षुरर्थादिदोषः
स्याद्बाधेऽपि द्विचन्द्रप्रभृतिषु हि ततो भ्रान्तिमात्रानुवृत्तिः ।
विस्रम्भाभावतः स्यात् फलमपि न तु ते जाघटीति द्वयं तद्
ब्रह्मान्याशेषबाधादनतिबलतया बाध्यतो बाधकस्य ॥ ७४ ॥
अद्वैतिनस्त्वाहुः – श्रवणमननाभ्यां भेदसत्यत्वविस्रम्भे निरस्तेऽप्यविद्याबाधकमद्वैतज्ञानं नोदेति, ध्यानेन तु निरस्तस्मस्तभेदवासनस्याद्वैतवाक्यादविद्यानिवर्तकधीसंभवः; निवृत्ताविद्यस्यापि द्विचन्द्रादिदर्शनन्यायेन यावच्छरीरं बाधितानुवृत्तिः स्यात्, तादृश्यां दशायां ब्रह्मविज्ज्जीवति च मुक्तश्चेत्यव्याहतिरिति । एतदपि दूषयति – चन्द्रैकत्वेति ॥ तत्र तावल्लोके बाधितानुवृत्तिर्युज्यते, बाधकज्ञानेन भ्रमानुवृत्तिहेतोर्दोषेस्याबाधितत्वात् । न हि चक्षुर्गतास्तिमिरादयः शुक्त्यादिगता वा दूरत्वसादृश्यादयो बाधकज्ञानेनापह्रियन्ते, सत्यत्वात्; तत्प्रकाश्याकारविरोधित्वाभावान्न बाध्यन्त इति भावः । मात्रचाऽभिप्रेतं व्यनक्तिं – विस्रम्भाभावत इति । एवं बाधितानुवृत्तिर्बाधकधीसाफल्यं च त्वन्मते न संभवतीत्याह – न त्विति । प्रथमस्यासंभवं विवृणोति – ब्रह्मान्येति । ब्रह्मव्यतिरिक्तं कूलं मिथ्येति हि बाधकप्रत्ययः । तत्र यदि महीयसी वलयसी च मूलाविद्या विलीयेत, कथं तदा तूलकल्पः तदेकदेशे, विलयं न गच्छेत्? यदि चास्य ज्ञानादन्यद् बाधकम्, तदाऽपसिद्धान्तः सत्यत्वप्रसङ्गश्च स्यात् । अविद्याबाधकेनाबाधितं च कथमन्यदपि ज्ञानं बाधेत? अहेतुकनिवृत्तिश्च प्रागेव दूषित । अन्त्यशब्दचरमसंस्कारादीनामपि हेतुविशेषत एव निवृत्तेरत्र बाधकफलस्याप्यसंभवमाह – अनतिबलतयेति । अयं भावः -श्रवणमननदशायामेव हि निषेध्यप्रपञ्चज्ञानं निषेधकज्ञानं चाविद्यामूलमित्यध्यवस्यति, तथा सत्येकदोषप्रसूतत्वे परत्वस्याकिंचित्करत्वात्, अन्यथा माध्यमिकविजयप्रसङ्गाच्च नोत्तरे बाधकत्वविस्रम्भः स्यात् । अत एव न तदर्थध्याने प्रवर्तेत, न च रागद्वेषादिभिरुज्झितः स्यादिति ॥ ७४ ॥ इति परोक्तबाधितानुवृत्तिभङ्गः ॥
2.145 स्वातन्त्र्यं ब्रह्मणैक्यं पशुपतिसमतां वासनोच्छेदमात्रं
धीसन्तानप्रणाशं निजमतिसुखयोर्नित्ययोस्सन्निकर्षम् ।
चित्तेन स्वात्मसौख्यानुभवमुपलवद्भावमूर्ध्वप्रयाणं
शून्याद्वैतं च मुक्तौ श्रुतिरुपकृतये कल्पतां जल्पतां वः ॥ ७५ ॥
अथ मुक्तिविषये वादिनां प्रलापान् संक्षेपेणोद्गृह्णन् प्रत्येकदोषः श्रोतृभिः स्वयमूह्य इति मत्वा साधारणं श्रुतिविरोधं तावत् सूचयति – स्वातन्त्र्यमिति ॥ सिद्धिवासनासितासितमनोभिरेतदिष्यते, न च तद्युक्तम्; सर्वेषां सर्वनियन्तृत्वायोगात् । ब्रह्मणैक्यं तु त्रय्यन्तैकदेशिनस्संगिरन्ते । तत्र साम्यसाधर्म्यसहशब्दादिभिर्बाधः । भेदसहं केवलं वा नित्यतादात्म्यमिच्छतां किमिदानीमैक्यं साध्यम्? एकत्वनानात्वविभागाविभागशक्तिमत्त्वपक्षश्च न प्रामाणिकैः श्रद्धेयः । कल्पादावुत्पन्नाः कल्पान्ते ब्रह्मणैक्यं लभन्त इति पक्षे त्वकृताभ्यागमकृतविप्रणाशप्रसङ्गोऽप्यधिकः । पशुपतिसमतां तन्मतस्थाः प्राहुः । तत्रावान्तरभेदेषु विशेषश्च द्रष्टव्यः । प्रत्युक्तं तन्मतम् ‘पत्युरसामञ्जस्यादि’ति । वासनोच्छेदमात्रं तु बौद्धैकदेशिनः । तत्र सर्वज्ञानसन्तानैकतापत्तिः स्यान्न वेति विभागः । तत्र तत्प्रक्रियाप्रतिषेध एवोत्तरम् । धीसन्तानप्रणाशं तु प्रज्ञाकरमतस्थाः । तत्रान्तिमस्यार्थक्रियाविरहादसत्त्वे तत्पूर्वेषामपि तथेति शून्य[ता]वादावतारः । निजमतिसुखयोर्नित्ययोः सन्निकर्षं तु न्यायैकदेशिनः । इदं च मतं प्रागेवापास्तम् । चित्तेन स्वात्मसौख्यानुभावं भाट्टाः । उपलवद्भावं त्वौलूक्याः, न्यायमीमांसैकदेशिनश्च । अनयोरपि साधकासंभव उक्तः । ऊर्ध्वप्रयाणं तु जैनाः । तत्र भूम्यां नित्यपतनवन्नित्योर्ध्वगमनमेके । अन्ये तु लोकाकाशमतिक्रम्य सकललोकमस्तकस्थायिन्यलोकाकाशे देहमेकमनेकं वा परिगृह्य वसन्त इति । इदं तु तत्कथामात्रसिद्धम् । शून्याद्वैतं तु माध्यमिकाः । तत्र सर्वतोमुखी व्याहतिरूह्या । तथा च तत्प्रतिक्षेपसूत्रम् – सर्वथाऽनुपपत्तेश्चेति । चकारोऽनुक्तान्मुक्तितारतम्यचिन्मात्रस्फुरणादिपक्षान् संगृह्णाति । एतत् सर्वं जल्पतां श्रुतिरुपकृतये कल्पतामित्युपालम्भकाक्वा बाधकत्वपरम्; सर्वभूतदयालुत्वस्मरणादिदं सानुग्रहवाक्यं वा । आयुर्वेदविद्भिरप्यन्वाख्यायते – ‘आत्मद्रुहममर्यादं मूढमुन्मुक्तसत्पथम् । सुतरामनुकम्पेत नरकार्चिष्मदिन्धनम् ॥’ इति । तदिह ‘परात्परं पुरुषमुपैति दिव्यमित्युपनिषत्सिद्ध एव मोक्ष इति भावः ॥ ७५ ॥ इति परमते विरुद्वानामर्थानां मोक्षविरुद्धत्वप्रतिपादनम् ॥
॥ इति श्रीसर्वार्थसिद्धिसमेते तत्त्वमुक्ताकलापे जीवसरः द्वितीयः ॥ २ ॥
[जडद्रव्यसरे श्लोकाः ७०, जीवसरे श्लोकाः ७५, आहत्य श्लोकाः १४५ ।