श्रीविष्णुपुराणम्
अथ पञ्चमोऽध्यायः
विस्तार एष कथितः पृथिव्या भवतो मया । सप्ततिस्तु सहस्राणि द्विजोच्छायोऽपि कथ्यते ॥१॥
विस्तार इति ॥ सप्ततिसहस्रोंच्छ्रायत्वं सप्तभूमिकप्रासादन्यायेन ॥ १ ॥
दशसाहस्रमेकैकं पातालं मुनिसत्तम । अतलं वितलं चैव नितलं च गभस्तिमत् । महाख्यं सुतलं चाग्र्यं पातालं चापि सप्तमम् ॥ २ ॥
शुक्लकृष्णारुणाः पीताः शर्कराश्शैलकाञ्चनाः । भूमयो यत्र मैत्रेय वरप्रासादमण्डिताः ॥३॥
तेषु दानवदैतेयजातयश्शतशस्तथा । निवसन्ति महानागजातवश्च महामुने ॥ ४ ॥
स्वर्लोकादपि रम्याणि पातालानीति नारदः। प्राह स्वर्गसदां मध्ये पातालाभ्यागतो दिवि ॥ ५॥
दशसाहस्रमिति ॥ दशसहस्रेण भूमितद्विवरमानविभाग: शिवरहस्योंक्तः * तदन्तरपुटाः सप्त नागा: सुरसमाश्रयाः । योजनानां चायुतानि सप्त तत्त्वार्थचिन्तकैः ॥ सहस्रयोजनान्येषां दलान्यन्तरनेमयः । प्रत्येकशोऽन्तराण्येषां सहस्राणि नवाध्वनाम् ॥ इति । अध्वनां-योजनानामित्यर्थः । अत्र विशेषो वायूक्तः * पृथिव्यामुदकं सा च पृथ्व्यपामुपरि स्थिता। आकाशञ्चापरमधः पुनर्भूमिः पुनर्जलम् ॥ इति । महाख्यम्. महातलम् । तञ्च वालुकामयम् ॥२-५॥
आह्लादकारिणः शुभ्रा मणयो यत्र सुप्रभाः । नागाभरणभूषासु पातालं केन तत्समम् ॥ ६ ॥
आह्लादकारिण इति ॥ नागाभरणेति । आभ्रियत इत्याभरणं, नागैर्भ्रियमाणासु भूषासु । यद्वा
भूषाश्चूडाद्यलङ्काराः नित्याः फणामणिप्रभृतयो वा। नागाभरणभूषास्विति च पाठः ॥ ६ ॥
दैत्यदानवकन्याभिरितश्चेतश्च शोभिते । पाताले कस्य न प्रीतिर्विमुक्तस्यापि जायते ॥ ७॥
दैत्यदानवकन्याभिरिति ॥ विमुक्तस्य-विषयरागविमुक्तस्य ॥ ७ ॥
दिवाऽर्करश्मयो यत्र प्रभां तन्वन्ति नातपम् । शशिरश्मिर्न शीताय निशि द्योताय केवलम् ॥ ८॥ भक्ष्यभोज्यमहापानमुदितैरपि भोगिभिः । यत्र न ज्ञायते कालो गतोऽपि दनुजादिभिः ॥९॥
वनानि नद्यो रम्याणि सरांसि कमलाकराः । पुंस्कोकिलाभिलापाश्च मनोज्ञान्यम्बराणि च ॥१०॥ भूषणान्यतिशुभ्राणि गन्धाढ्यं चानुलेपनम् । वीणावेणुमृदङ्गानां स्वनैरापूरितानि च ॥ ११ ॥
एतान्यन्यानि चोदारभाग्यभोग्यानि दानवैः । दैत्योरगैश्च भुज्यन्ते पातालान्तरगोचरैः ॥ १२॥
दिवेत्यादि || रश्मिप्रवेशवचनाद्द्वारसद्भावोऽनुमेयः ॥ ८-१२ ॥
पातालानामधश्चास्ते विष्णोर्या तामसी तनुः । शेपाख्या यद्गुणान्वक्तुं न शक्ता दैत्यदानवाः॥१३॥
पातालानामिति ॥ * तस्य मूलदेशे त्रिंशद्योजनसहस्रान्तर आस्ते या वै कला भगवतस्तामसी समाख्यातानन्ते * इति भागवतोक्तिः । तामसी- संहारहेतुभूततमोधिष्ठात्री । अत एवास्य वदनात् कालाग्निरुद्रनिष्क्रमणमुत्तरत्रोच्यते ॥ १३ ॥
योऽनन्तः पठ्यते सिद्धैर्देवो देवर्षिपूजितः । यस्सहस्रशिरा व्यक्तस्वस्तिकामलभूषणः ॥ १४ ॥
फणामणिसहस्रेण यः स विद्योतयन्दिशः । सर्वान्करोति निर्वीर्यान् हिताय जगतोऽसुरान् ॥ १५ ॥
मदाधूर्णितनेत्रोऽसौ यः सदैवैककुण्डलः। किरीटी स्रग्धरो भाति साग्निः श्वेत इवाचलः ॥१६॥
नीलवासा मदोद्रिक्तः श्वेतहारोपशोभितः । साभ्रगङ्गाप्रवाहोऽसौ कैलसाद्रिरिवापरः ॥ १७॥
लाङ्गलासक्तहस्ताग्रो विभ्रन्मुसलमुत्तमम् । उपास्यते स्वयं कान्त्या यो वारुण्या च मूर्त्तया ॥ १८ ॥
य इति । स्वस्तिकं-फणस्थरेखाचिह्नविशेषः ॥ १४ – १८ ॥
कल्पान्ते यस्य वक्त्रेभ्यो विषानलशिखोज्ज्वलः । संकर्षणात्मको रुद्रो निष्क्रम्यात्ति जगत्त्रयम् ॥१९॥
स बिभ्रच्छेखरीभूतमशेषं क्षितिमण्डलम् । आस्ते पातालमूलस्थः शेषोऽशेषसुरार्चितः॥२०॥
कल्पान्त इति ॥ संकर्षणात्मकः-सङ्कर्षणाधिष्ठितः ॥ १९, २० ॥
तस्य वीर्यं प्रभावश्च स्वरूपं रूपमेव च । न हि वर्णयितुं शक्यं ज्ञातुं वा त्रिदशैरपि ॥ २१ ॥
यस्यैषा सकला पृथ्वी फणामणिशिखारुणा । आस्ते कुसुममालेव कस्तद्वीर्यं वदिष्यति ॥ २२ ॥
यदा विजृम्भतेऽनन्तो मदाधूर्णितलोचनः । तदा चलति भूरेषा साद्रितोया सकानना ॥ २३ ॥
गन्धर्वाप्सरसः सिद्धाः किन्नरोरगचारणाः । नान्तं गुणानां गच्छन्ति तेनानन्तोऽयमव्ययः ॥ २४ ॥
तस्येति ॥ वीर्यम्-उत्साहः, प्रभाव:-शक्तिः, स्वरूपं- तत्त्वम् , रूपम्-आकारः ॥ २१ – २४ ॥
यस्य नागवधूहस्तैर्गालितं हरिचन्दनम् । मुहुः श्वासानिलापास्तं याति दिक्क्षोदवासताम् ॥ २५ ॥
यस्येति ॥ गालितम्-वस्त्रशोधितम्। लम्भितं हरिचन्दनमिति पाठे लम्भित समालम्बनीकृतम्, अङ्गरागीकृतमित्यर्थः । दिक्क्षोदवासतां-दिशां क्षोदवासताम, अधिवासचूर्णत्वम् । दिक्षूदवासतामिति पाठे दिक्षु जलाधिवासनचूर्णत्वमिति ॥ २५ ॥
यमाराध्य पुराणर्षिगर्गो ज्योतींषि तत्त्वतः । ज्ञातवान्सकलं चैव निमित्तपठितं फलम् ॥ २६ ॥
तेनेयं नागवर्येण शिरसा विधृता मही। विभर्ति मालां लोकानां सदेवासुरमानुषाम् ॥ २७ ॥
यमिति ॥ निमित्ते-ग्रहचारोत्गतशकुनादौ शुभाशुभसूचके, पठितम् । निमित्तफलितमिति च पाठः॥ ॥२६, २७ ॥
इति श्रीविष्णुपुराणव्याख्याने विष्णुचित्तीये द्वितीयेंऽशे पञ्चमोऽध्यायः ॥ ५ ॥
इति श्रीभगवद्रामानुजपदान्तरंगश्रीविष्णुचित्तविरचिते श्रीविष्णुपुराणव्याख्याने श्रीविष्णुचित्तीये द्वितीयेंऽशे पञ्चमोऽध्यायः ॥ ५ ॥