श्रीविष्णुपुराणम्
अथ द्वादशोऽध्यायः1
श्रीपराशरः –
रथस्त्रिचक्रः सोमस्य कुन्दाभास्तस्य वाजिनः । वामदक्षिणतो युक्ता दश तेन चरत्यसौ ॥१॥
वीथ्याश्रयाणि ऋक्षाणि ध्रुवाधारेण वेगिना । हासवृद्धिक्रमस्तस्य रश्मीना सवितुर्यथा ॥२॥
अर्कस्येव हि तस्याश्वाः सकृद्युक्ता वहन्ति ते । कल्पमेकं मुनिश्रेष्ठ वारिगर्भसमुद्भवाः ॥३॥
अर्कस्यैवेति । वारिगर्भसमुद्भवाः-जलमयाः, * वारिगर्भसमुद्भूतो रथस्साश्वस्ससारथि– –रित्यादित्यपुराणे ॥१-३॥
क्षीणं पीतं सुरैस्सोममाप्याययति दीप्तिमान् । मैत्रेयैककलं सन्तं रश्मिनैकेन भास्करः ॥४॥
क्षीणमिति ॥ क्षीणम्-अल्पीभूत शुक्लकलम् । तदुक्तं–*देवैस्संपीयमानस्य शुक्ला वर्धन्ति वै कलाः ॥ सोमस्य कृष्णपक्षादौ भास्कराभिमुखस्य तु ॥ प्रक्षीयन्तेऽपरे भागे पीयमानाः कलाः क्रमात्॥ इत्यादि । आप्याययति शुक्लकला वर्धयति *सुषुम्नाप्यायमानस्य शुक्ले वर्धन्ति वै कला इति ॥४॥
क्रमेण येन पीतोऽसौ देवैस्तेन निशाकरम् । आप्पाययत्यनुदिनं भास्करो वारितस्करः ॥५॥
क्रमेणेति ॥ येन क्रमेणेति । कृष्णपक्षे यत्तिथौ बिम्बस्य यद्भागे यावान् ह्रासः शुक्ले तद्भागे तावत्येव वृद्धिरिति । तस्करः-अलक्षितं हर्ता ॥ ५ ॥
संभृतं चार्धमासेन तत्सोमस्थं सुधामृतम् । पिबन्ति देवा मैत्रेय सुधाहारा यतोऽमराः ॥ ६ ॥
प्रयस्त्रिंशत्सहस्राणि त्रयस्त्रिंशच्छतानि च । प्रयस्त्रिंशत्तथा देवाः पिबन्ति क्षणदाकरम् ॥ ७ ॥
संभृतमिति ॥ सुधामृतम्-सुष्ठु धीयते पीयत इति सुधा, सैवामृतम् ॥६,७॥
कलाद्वयावशिष्टस्तु प्रविष्टस्सूर्यमण्डलम् । अमाख्यरश्मौ वसति अमावास्या ततस्स्मृता ॥ ८ ॥
अप्सु तस्मिन्नहोरात्रे पूर्वं विशति चन्द्रमाः । ततो वीरुत्सु वसति प्रयात्यर्कं ततः क्रमात् ॥ ९ ॥
छिनत्ति वीरुधो यस्तु वीरुत्संस्थे निशाकरे । पत्रं वा पातयत्येकं ब्रह्महत्यां स विन्दति ॥ १० ॥
कलाद्वयावशिष्ट इति ॥ प्रविष्ट इति । तद्रश्म्यभिभवात्प्रविष्ट इव ॥ ८-१० ॥
सोमं पश्चदशे भागे किञ्चिच्छिष्टे कलात्मके । अपराह्णे पितगणा जघन्यं पर्युपासते ॥ ११ ॥
सोममिति ॥ कलात्मके पञ्चदशेंशे किञ्चिच्छिष्टे दर्शापराह्णे, जघन्यं–पश्चाद्द्विकलं सोमं पितृगणाः पर्युपासते ॥ ११ ॥
पिबन्ति द्विकलाकारं शिष्टा तस्य कला तु या । सुधामृतमयी पुण्या तामिन्दोः पितरो मुने ॥१२॥
पिबन्तीति ॥ किञ्चिच्छिष्टा या पञ्चदशी कला तां कलां पितरः पिबन्ति न षोडशीमित्यर्थः ॥१२॥
निस्सृतं तदमावास्यां गभस्तिभ्यस्सुधामृतम् । मासं तृप्तिमवाप्याग्र्यां पितरस्सन्ति निर्वृताः ।
सौम्या बर्हिषदश्चैव अग्निष्वात्ताश्च ते त्रिधा ॥ १३ ॥
निस्सृतमिति ॥ आदित्यरश्मिद्वारा निस्सृतं तत्सुधामृतं पीत्वेति शेषः ॥ १३ ॥
एवं देवान् सिते पक्षे कृष्णपक्षे तथा पितॄन् । वीरुधश्चामृतमयैः शीतैरप्परमाणुभिः ॥ १४ ॥
किञ्च, * तस्मादापूर्यमाणपक्षे यजन्त इति श्रुतेः, * अपरपक्षे पितृणामिति स्मृतेश्च शुक्लकृष्णयो. र्देवान्पितृंश्च यागद्वारेणाप्याययतीत्याह-एवमिति ॥ १४ ॥
वीरुधौषधिनिष्पत्त्या मनुष्यपशुकीटकान् । आप्याययति शीतांशुः प्राकाश्याह्लादनेन च ॥१५॥
वाय्वग्निद्रव्यसंभूतो रथश्चन्द्रसुतस्य च । पिशंगैस्तुरगैर्युक्तः सोऽष्टाभिर्वायुवेगिभिः ॥ १६ ॥
वीरुदिति ॥ प्रकाशस्य भावः प्राकाश्यं, प्राकाश्यमाह्लादनं चेति द्वन्द्वैकवद्भावः। प्रकाशाह्लादनेन चेति पाठः ॥ १५, १६ ॥
सवरूथस्सानुकर्षो युक्तो भूसंभवैर्हयैः । सोपासङ्गपताकस्तु शुक्रस्यापि रथो महान् ॥ १७ ॥
अष्टाभिः काञ्चनः श्रीमान्भौमस्यापि रथो महान् । पद्मरागारुणैरश्वैः संयुक्तो वह्निसम्भवैः ॥१८॥
सवरूथ इति ॥ *वरूथो रथगुप्तिर्या तिरोधत्ते रथस्थितम् ॥ रथस्याध:स्थितं काष्ठमनुकर्षो निगद्यते ॥ उपासङ्गो रथोपस्थः, इति ॥ १७, १८ ॥
अष्टाभिः पाण्डुरैर्युक्तो वाजिभिः काञ्चनो रथः । तस्मिंस्तिष्ठति वर्षं वै राशौराशौ बृहस्पतिः ॥ १९ ॥ आकाशसंभवैरश्वैः शवलैः स्यन्दनं युतम् । समारुह्य शनैर्याति मन्दगामी शनैश्चरः ॥ २० ॥
अष्टाभिरिति ॥ राशौ वर्षं तिष्ठतीति तत्तद्ग्रहराशिवारोपलक्षणम् ॥ १९,२० ॥
स्वर्भानोस्तुरगा ह्यष्टौ भृङ्गाभा धूसरं रथम् । सकृद्युक्तास्तु मैत्रेय वहन्त्यविरतं सदा ॥ २१ ॥
स्वर्भानोरिति ॥ स्तोकपाण्डुस्तु धूसरः । अविरतम्-अविच्छेदम् । सदा–यावत्कल्पम् ॥२१॥
आदित्यानिस्सृतो राहुः सोमं गच्छति पर्वसु । आदित्यमेति सोमाच्च पुनः सौरेषु पर्वसु ॥ २२ ॥
तथा केतुरथस्याश्वा अप्यष्टौ वातरंहसः । पलालधूमवर्णाभा लाक्षारसनिभारुणाः ॥ २३ ॥
एते मया ग्रहाणां वै तवाख्याता रथा नव । सर्वे ध्रुवे महाभाग प्रबद्धा वायुरश्मिभिः ॥ २४ ॥
आदित्यादिति ॥ अर्केन्द्वोरुपरि तृतीयद्युस्स्थाने चरन्नपि. राहुश्चन्द्रस्यार्कस्य वा ग्रहणकालेऽधो गत्वा भूच्छायात्मकं तमोमयं बिम्बं गृहीत्वा तेन तौ (राहुः)मे घवच्छादयन् तत्काल एव दृश्यत्वमेति । यथा कौर्मादिषु *स्वर्भानोस्तु गृहस्थानं तृतीयं यत्तमोमयम्। तुल्यस्तयोस्तु स्वर्भानुर्भूत्वाऽधस्तात्प्रसर्पति॥ इत्यादि ॥ २२-२४ ॥
ग्रहर्क्षताराधिष्ण्यानि ध्रुवे बद्धान्यशेषतः । भ्रमन्त्युचितचारेण मैत्रेयानिलरश्मिभिः ॥ २५ ॥
यावन्त्यश्चैव तारास्ता तावन्तो वातरश्मयः । सर्वे ध्रुवे निबद्धास्ते भ्रमन्तो भ्रामयन्ति तम् ॥२६॥
तैलपीडा यथा चक्रं भ्रमन्तो भ्रामयन्ति वै । तथा भ्रमन्ति ज्योतींषि वातविद्धानि सर्वशः ॥ २७ ॥
अलातचक्रवद्यान्ति वातचक्रेरितानि तु । यस्माज्ज्योतींषि वहति प्रवहस्तेन स स्मृतः ॥ २८ ॥
ग्रहेति ॥ धिष्ण्यानि-विमानानि । उचितचारेण- *सौरोऽङ्गिराश्च शुक्रश्च ज्ञेया मन्दप्रचारिणः।
सूर्यसोमौ बुधश्चैव शीघ्रगाः* इत्यादिकूर्मोक्तस्वस्वगत्या सह प्रत्यङ्मुखं भ्रमन्ति ॥ २५-२८॥
शिंशुमारस्तु यः प्रोक्तः स ध्रुवो यत्र तिष्ठति । सन्निवेशं च तस्यापि शृणुष्व मुनिसत्तम ॥ २९ ॥
शिंशुमार इति ॥ यः प्रोक्त:-* तारामयं भगवतः इत्यत्र, * तस्य पुच्छे ध्रुवः स्थित इति लक्षण यस्योक्तं, तस्य सन्निवेशं शृणु ॥ २९ ॥
यदह्ना कुरुते पापं तं दृष्ट्वा निशि मुच्यते । यावत्यश्चैव तारास्ताः शिंशुमाराश्रिता दिवि ।
तावन्त्येव तु वर्षाणि जीवन्त्यभ्यधिकानि च ॥३०॥
उत्तानपादस्तस्याधो विज्ञेयो ह्युत्तरो हनुः । यज्ञोऽधरश्च विज्ञेयो धर्मो मूर्धानमाश्रितः ॥ ३१ ॥
यदह्नेति ॥ यदह्नेति नित्यद्रष्टव्यतोक्तिः ॥३०,३१॥
हृदि नारायणश्चास्ते आश्विनौ पूर्वपादयोः । वरुणश्चार्यमा चैव पश्चिमे तस्य सक्थिनी ॥ ३२ ।।
शिश्नः संवत्सरस्तस्य मित्रोऽपानं समाश्रितः ॥३३॥
हृदीति ॥ सक्थिनी—ऊरू ॥ ३२, ३३ ।।
पुच्छेऽग्निश्च महेन्द्रश्च काश्यपोऽथ ततो ध्रुवः । तारका शिंशुमारस्य नास्तमेति चतुष्टयम् ॥ ३४॥
पुच्छ इति ॥ अग्न्यादिदेवतारूपं ताराचतुष्कं पुच्छस्थं ध्रुववन्नित्यं दृश्यते, न तु शिंशुमारगात्रान्तर्गतर्क्षवदस्तमेति ध्रुवसहयायित्वात् ॥ ३४ ॥
इत्येष सन्निवेशो यः पृथिव्यां ज्योतिषां तथा । द्वीपानामुदधीनां च पर्वतानां च कीर्तितः ॥ ३५ ॥
इत्येष इति ॥ उक्तस्य भुवनकोशस्य अनुक्तं भगवदात्मकत्वं वक्तुमनुवादः-इत्येष इति ॥३५॥
वर्षाणां च नदीनां च ये च तेषु वसन्ति वै । तेषां स्वरूपमाख्यातं संक्षेपः श्रूयतां पुनः ॥३६॥
वर्षाणां चेति ॥ अथ चिदचिन्मिश्रे जगति चिदंशः स्वसंवेद्यस्वरूपभेदो ज्ञानैकाकारः अविनाशित्वेन अस्तिशब्दवाच्यः, अचिदंशस्तु चिदंशकर्मनिमित्तपरिणामभेदो विनाशीति नास्तिशब्दवाच्यः । उभयमपि परब्रह्मभूतवासुदेवशरीरतया तदात्मकमित्येतद्रूपं संक्षेपेणोच्यते इत्याह–संक्षेपः श्रूयतामिति ॥ ३६ ॥
यदम्बु वैष्णवः कायस्ततो विप्र वसुन्धरा । पद्माकारा समुद्भूता पर्वताब्ध्यादिसंयुता ॥ ३७ ॥
यदिति ॥ तत्र यदम्ब्वित्यनेन श्लोकेनाम्बुनो विष्णोः कायत्वेन तत्परिणामभूतं ब्रह्माण्डमपि तस्य कायः, तस्य च विष्णुरात्मेति, सकलश्रुतिगततादात्म्योपदेशोपबृंहणरूपस्य * ज्योतींषीत्यादिना वक्ष्यमाणस्य सामानाधिकरण्यस्य शरीरात्मभाव एव निबन्धनमित्याह । तत:–अम्बुनः ॥३७॥
ज्योतींषि विष्णुर्भुवनानि विष्णुर्वनानि विष्णुर्गिरयो दिशश्च । नद्यस्समुद्राश्च एव सर्वं यदस्ति यन्नास्ति च विप्रवर्य ॥३८॥
तदेतत्तादात्म्यं सामानाधिकरण्येन व्यपदिशति-ज्योतींषीति। अत्र अस्त्यात्मकं नास्त्यात्मकं च जगदन्तर्गतं वस्तु विष्णोः कायतया विष्ण्वात्मकमित्युक्तम् ॥ ३८ ॥
ज्ञानस्वरूपो भगवान्यतोऽसावशेषमूर्तिर्न तु वस्तुभूतः । ततो हि शैलाब्धिधरादिमेदाञ्जानीहि विज्ञानविजृम्भितानि ॥३९॥
इदमस्त्यात्मकम्, इदं नास्त्यात्मकम् , (इत्यत्र) अस्य च नास्त्यात्मकत्वे हेतुरयमित्याह–ज्ञानस्वरूप इति । अयमर्थः–अशेषक्षेत्रज्ञात्मनाऽवस्थितस्य भगवतो ज्ञानमेव स्वाभाविकं रूपं न देवमनुष्यादिवस्तुरूपम् । यत एवम् अत एवाचिद्रूपदेवमनुष्यशैलाब्धिधरादयस्तद्विज्ञानविजृम्भिता:-तस्य ज्ञानैकाकारस्य सतो देवाद्याकारेण स्वात्मवैविध्यानुसन्धानमूलाः, देवाद्याकारानुसन्धानमूलकर्म (मूलाः) कल्पिता इत्यर्थः । यतश्चाचिद्वस्तु क्षेत्रज्ञकर्मानुगुण परिणामास्पदं ततस्तन्नास्तिशब्दाभिधेयम् , इतरदस्तिशब्दाभिधेयमित्यर्थादुक्तं भवति ॥ ३९ ॥
यदा तु शुद्धं निजरूपि सर्व कर्मक्षये ज्ञानमपास्तदोषम् । तदा हि संकल्पतरोः फलानि भवन्ति नो वस्तुषु वस्तुभेदाः ॥४०॥
तदेतदेव विवृणोति-यदा तु शुद्धमिति॥ यदैतज्ज्ञानैकाकारमात्मवस्तु देवाद्याकारेण स्वात्मनि वैविध्यानुसन्धानमूलसर्वकर्मक्षयान्निर्दोषं परिशुद्धं निजरूपि भवति, तदा देवाद्याकारेणैकीकृत्यात्मकल्पनामूलकर्मफलभूतास्तद्भोगार्था वस्तुषु वस्तुभेदा न भवन्ति–ये देवादिषु वस्तुष्वात्मतयाऽभिमतेषु भोग्यभूता देवमनुष्यशैलाब्धिधरादिवस्तुभेदाः ते मूलभूतकर्मसु विनष्टेषु न भवन्तीति, अचिद्वस्तुनः कदाचित्कावस्थाविशेषयोगितया नास्तिशब्दाभिधेयत्वमितरस्य सर्वदा निजसिद्धज्ञानैकरूपत्वेनास्तिशब्दाभिधेयत्वमित्यर्थः ॥ ४० ॥
वस्त्वस्ति किं कुत्रचिदादिमध्यपर्यन्तहीनं (च सदैक) सततैकरूपम् । यच्चान्यथात्वं द्विज याति भूयो न तत्तथा तत्र कुतो हि तत्त्वम् ॥४१॥
प्रतिक्षणमन्यथाभूततया कादाचित्कावस्थायोगिनोऽचिद्वस्तुनो नास्तिशब्दाभिधेयत्वमेवेत्याह–वस्त्वस्तीति ॥ अस्तिशब्दामिधेयो ह्यादिमध्यपर्यन्तहीनः सततैकरूप: पदार्थ , तत्य कदाचिदपि नास्तिबुद्ध्यनर्हत्वात् । अचिद्वस्तु किञ्चित् क्वचिदपि तथाभूतं न दृष्टवरम् । ततः किमित्यत्राह–यच्चान्यथात्वमिति । यद्वस्तु प्रतिक्षणमन्यथात्वं याति तदुत्तरोत्तरावस्थाप्राप्त्या पूर्वपूर्वावस्थां जहातीति तस्य पूर्वावस्थस्योत्तरावस्थायां न प्रतिसंधानामस्ति, अतः सर्वदा तस्य नास्तिशब्दाभिधेयत्वमेव ॥४१॥
मही घटत्वं घटतः कपालिका कपालिकाचूर्णरजस्ततोऽणुः । जनैः स्वकर्मस्तिमितात्मनिश्चयैरालक्ष्यते ब्रूहि किमत्र वस्तु ॥४२॥
तथा ह्युपलभ्यत इत्याह-महीं घटत्वमिति ॥ चूर्णं सूक्ष्मम्, रजः सूक्ष्मतरम्, अणुः सूक्ष्मतमः; स्वकर्मणा देवमनुष्यादिभावेन स्तिमितात्मनिश्चयैः स्वभोग्यभूतमचिद्वस्तु प्रतिक्षणमन्यथाभूतमालक्ष्यते –अनुभ्यते । एवं सति किमप्यचिद्वस्तु अस्तिशब्दार्हमादिमध्यपर्यन्तहीनं सततैकरूपमालक्षितमस्ति किम् ? न ह्यस्तीत्यभिप्रायः ॥ ४२ ॥
तस्मान्न विज्ञानमृतेऽस्ति किञ्चित्क्वचित्कदाचिद्द्विज वस्तुजातम् ।विज्ञानमेकं निजकर्मभेदविभिन्नचित्तैर्बहुधाऽभ्युपेतम् ॥ ४३ ॥
यस्मादेवं तस्मात् ज्ञानम्वरूपात्मव्यतिरिक्तमचिद्वस्तु कदाचित्कचित्केवलास्तिशब्दवाच्यं न भवतीत्याह तस्मान्न विज्ञानमिति ॥ आत्मा तु सर्वदा ज्ञानैकाकारतया देवादिभेदप्रत्यनीकस्वरूपोऽपि देवादिशरीरप्रवेशहेतुभूत प्रकृतविविधकर्ममूलदेवादिभेदभिन्नात्मबुद्धिभिस्तेन तेन रूपेण बहुधाऽनुसंहित इति, तद्भेदानुसन्धानं नात्मस्वरूपप्रयुक्तमित्याह-विज्ञानमेकमिति ॥ ४३ ॥
ज्ञानं विशुद्धं विमलं (च नित्य)विशोकमशेषलोभादिनिरस्तसङ्गम् । एकं सदैकं परमः परेशस्सः वासुदेवो न यतोऽन्यदस्ति ॥ ४४ ॥
आत्मस्वरूपं तु विशुद्धं–कर्मरहितं, तत एव विमलं-मलरूपप्रकृतिस्पर्शरहितं, ततश्च तत्प्रयुक्तशोक मोहलोभावशेषहेयगुणासङ्गि, एकम्-उपचयापचयानहर्तयैकं, तत एव सदैकरूपम् ; तच्च वासुदेवशरीरमिति तदात्मकम् , अतदात्मकस्य कस्यचिदप्यभावादित्याह-ज्ञानं विशुद्धमिति ॥ ४४ ॥
सद्भाव एवं भवतो मयोक्तो ज्ञानं यथा सत्यमसत्यमन्यत् ।
एतत्तु यत्संव्यवहारभूतं तत्रापि चोक्तं भुवनाश्रितं ते ॥ ४५ ॥
चिदंश: सदैकरूपतया सर्वदाऽस्तिशब्दवाच्यः । अचिदंशस्तु क्षणपरिणामित्वेन सर्वदा नाशगर्भमिति सर्वदा नास्तिशब्दाभिधेयः । एवंरूपं चिदचिदात्मकं जगत् वासुदेवशरीरं तदात्मकमिति जगद्याथात्म्यं सम्यगुक्तमित्याह—सद्भाव एवमिति ॥ ” एषो भवतः” इति पाठे तु आर्षत्वात्सुपो लोपाभावः । अत्र सत्यमसत्यमिति यदस्ति यन्नास्तीति प्रक्रान्तस्योपसंहारः। एतत्-ज्ञानैकाकारतया समम्, अशब्दगोचरस्वरूपमेदमेवाचिन्मिश्रं, भुवनाश्रितं-देवमनुष्यादिरूपेण सम्यग्व्यवहारार्हभेदं यद्वर्तते तत्र हेतुः कर्मैवेत्युक्तमित्याह-एतत्तु यदिति ॥४५॥
यज्ञः पशुर्वह्निरशेषाऋत्विक्सोमस्सुराः स्वर्गमयश्च कामः । इत्यादि कर्माश्रितमार्गदृष्टं भूरादिभोगाश्च फलानि तेषाम् ॥४६॥
तदेव विवृणोति-यज्ञः पशुरिति । कर्माश्रितमार्गदृष्टं यज्ञपश्वादिरूप कर्मैवाश्रितो मार्गः, तत्र दृष्टं देव मनुष्यादिरूपं तेषां कर्मणां भूरादिभोगाश्च फलानि ॥ ४६ ॥
यच्चैतद्भुवनगतं मया तवोक्तं सर्वत्र व्रजति हि तत्र कर्मवश्यः । ज्ञात्वै(तत्)वं ध्रुवमचलं सदैकरूपं तत्कुर्याद्विशति हि येन वासुदेवम् ॥४७॥
जगद्याथात्म्यज्ञानप्रयोजनं मोक्षोपाये यतनमित्याह-यञ्चैतदिति ॥ ज्ञात्वैतदिति । कर्मफलस्यास्थिरत्वं झावा, वमित्यादि वासुदेवविशेषणं, तत्-उपासनादि ॥ ४७ ॥
इति श्रीपराशरमुनिविरचिते श्रीविष्णुपरत्वनिर्णायके श्रीमति विष्णुमहापुराणे द्वितीयेऽशे द्वादशोऽध्यायः॥१२॥
इति श्रीभगवद्रामानुजपदान्तरंगश्रीविष्णुचित्तविरचिते श्रीविष्णुपुराणव्याख्याने श्रीविष्णुचित्तीचे द्वितीयेशे द्वादशोऽध्यायः ॥ १२ ॥