श्रीविष्णुपुराणम्
अथ द्वितीयोऽध्यायः
मैत्रेयः-
प्रोक्तान्येतानि भवता सप्त मन्वन्तराणि वै । भविष्याण्यपि विप्रर्षे ममाख्यातुं त्वमर्हसि ॥१॥
श्रीपराशरैः-
सूर्यस्य पत्नी संज्ञाऽभूत्तनया विश्वकर्मणः । मनुर्यमो यमी चैव तदपत्यानि वै मुने ॥२॥
सूर्यस्येति ॥ अष्टममनोः प्रसङ्गाद् यमादीनां जन्मेतिहासः ॥ १,२ ॥
असहन्ती तु सा भर्तुस्तेजश्छायां युयोज वै । भर्तुःशुश्रूषणेsरण्यं स्वयं च तपसे ययौ ॥३॥
संज्ञेयमित्यथार्कश्च छायायामात्मजत्रयम् । शनैश्चरं मनुं चान्यं तपतीं चाप्यजीजनत् ॥४॥
असहन्तीति ॥ छायां–प्रतिकृतिं, तद्वदत्यन्तात्मसदृशीं काञ्चिस्त्रियं कृत्वा, शुश्रूषणे युयोजन्ययुङ्क्त ॥ ३, ४ ॥
छायासंज्ञा ददौ शापं यमाय कुपिता यदा । तदाऽन्येयमसौ बुद्धिरित्यासीद्यमसूर्ययोः ॥ ५ ॥
ततो विवस्वानाख्यातां तयैवारण्यसंस्थिताम् । समाधिदृष्ट्या ददृशे तामश्वां तपसि स्थिताम् ॥ ६ ॥
छायेति ॥ छायारूपा संज्ञा स्वपुत्रपक्षपातिनी कुपिताय आत्मानं यदा जिघांसते यमाय तव पादः पतत्विति यदा शापं ददौ तदा जनन्याः शापो न संभवतीति अन्येयमित्यसौ बुद्धिरासीत् ॥ ५, ६ ॥
वाजिरूपधरस्सोऽथ तस्यां देवावथाश्विनौ । जनयामास रेवन्तं रेतसोऽन्ते च भास्करः ॥ ७ ॥
आनिन्ये च पुनः संज्ञां स्वस्थानं भगवान्रविः । तेजसश्शमनं चास्य विश्वकर्मा चकार ह ॥८॥
वाजिरूपधर इति ॥ रेतसोऽन्त इति रेवन्तत्वनिरुक्तिः ॥ ७,८॥
भ्रममारोप्य सूर्यं तु तस्य तेजोवशातनम् । कृतवानष्टमं भागं स व्यशातयदव्ययम् ॥ ९ ॥
यत्तस्माद्वैष्णवं तेजश्शातितं विश्वकर्मणा । जाज्वल्यमानमपतत्तद्भूमौ मुनिसत्तम ॥ १० ॥
भ्रममिति ॥ भ्रमः-खड्गादीनां नैशित्यकरणं कषणशाणचक्रम् ॥ ९,१०॥
त्वष्टैव तेजसा तेन विष्णोश्चक्रमकल्पयत् । त्रिशूलं चैव शर्वस्य शिबिकां धनदस्य च ॥ ११ ॥
त्वष्टैवेति ॥ शिबिकां–पुष्पकाख्याम् * विमानयोधी धनदो व्यनदत्पुष्पके स्थितः, इति हरिवंशोक्तेः । आयुधविशेषो वा ॥ ११ ॥
शक्तिं गुहस्य देवानामन्येषां च यदायुधम् । तत्सर्वं तेजसा तेन विश्वकर्मा व्यवर्धयत् ॥१२॥
छायासंज्ञासुतो योऽसौ द्वितीयः कथितो मनुः । पूर्वजस्य सवर्णोऽसौ सावर्णिस्तेन कथ्यते ॥१३॥
तस्य मन्वन्तरं ह्येतत्सावर्णिकमथाष्टमम् । तच्छृणुष्व महाभाग भविष्यत्कथयामि ते ॥ १४ ॥
शक्तिमिति ॥ व्यवर्धयत्-व्यरचयत् । व्यकल्पयदिति च पाठः ॥ १२-१४ ॥
सावर्णिस्तु मनुर्योऽसौ मैत्रेय भविता ततः । सुतपाश्चामिताभाश्च मुख्याश्चापि तथा सुराः ॥१५॥
तेषां गणाश्च देवानामेकैको विंशकः स्मृतः । सप्तर्षीनपि वक्ष्यामि भविष्यान्मुनिसत्तम ॥१६॥
सावर्णिरिति ॥ ततः-तस्मिन्मनौ ॥ १५, १६ ॥
दीप्तिमान् गालवो रामः कृपो द्रौणिस्तथा परः। मत्पुत्रश्च तथा व्यास ऋष्यशृङ्गश्च सप्तमः ॥१७॥
विष्णुप्रसादादनधः पातालान्तरगोचरः। विरोचनसुतस्तेषां बलिरिन्द्रो भविष्यति ॥१८॥
विराजश्चोर्वरीवांश्च निमोकाद्यास्तथाऽपरे । सावर्णेस्तु मनोः पुत्रा भविष्यन्ति नरेश्वराः ॥१९॥
नवमो दक्षसावर्णिर्भविष्यति मुने मनुः ॥ २० ॥
पारा मरीचिगर्भाश्च सुधर्माणश्च ते त्रिधा । भविष्यन्ति तथा देवा ह्येकैको द्वादशो गणः॥२१॥
तेषामिन्द्रो महावीर्यो भविष्यत्यद्भुतो द्विज ॥ २२ ॥
सवनो द्युतिमान् भव्यो वसुर्मेधातिथिस्तथा । ज्योतिष्मान् सप्तमः सत्यस्तत्रैते च महर्षयः ॥२३॥
धृतकेतुर्दीप्तिकेतुः पञ्चहस्तनिरामयौ । पृथुश्रवाद्याश्च तथा दक्षसावर्णिकात्मजाः ॥ २४ ॥
दशमो ब्रह्मसावर्णिर्भविष्यति मुने मनुः । सुधामानो विशुद्धाश्च शतसंख्यास्तथा सुराः ॥ २५ ॥
तेषामिन्द्रश्च भविता शान्तिर्नाम महाबलः । सप्तर्षयो भविष्यन्ति ये तदा ताञ्छृणुष्व ह ॥ २६ ॥
हविष्मान्सुकृतस्सत्यस्तपोमूर्तिस्तथाऽपरः । नाभागोऽप्रतिमौजाश्च सत्यकेतुस्तथैव च ॥ २७ ॥
दीप्तिमानिति ॥ व्यासादीनां ब्रह्मापरोक्ष्ये सत्यपि आधिकारिककर्मक्षयावधि स्थातव्यत्वात्, पुनस्सप्तर्षित्वेऽप्यविरोधः, * यावदधिकारमवस्थितिराधिकारिकाणामिति न्यायात् ॥ १७-२७ ॥
सुक्षेत्रश्चोत्तमौजाश्च भूरिपेणादयो दश । ब्रह्मसावर्णिपुत्रास्तु रक्षिष्यन्ति वसुन्धराम् ॥ २८ ॥
एकादशश्च भविता धर्मसावर्णिको मनुः ॥ २९ ॥
विहङ्गमाः कामगमा निर्वाणा रुचयस्तथा । गणास्त्वेते तदा मुख्या देवानां च भविष्यताम् ।
एकैकस्त्रिंशकस्तेषां गणश्चेन्द्रश्च वै पृषा ॥ ३० ॥
निस्वरश्चाग्नितेजाश्च वपुष्मान्घृणिरारुणिः । हविष्माननघश्चैव भाव्याः सप्तर्षयस्तथा ॥३१॥
सर्वत्रगस्सुधर्मा च देवानीकादयस्तथा । भविष्यन्ति मनोस्तस्य तनयाः पृथिवीश्वराः ॥३२॥
रुद्रपुत्रस्तु सावर्णिर्भविता द्वादशो मनुः । ऋतुधामा च तत्रेन्द्रो भविता शृणु मे सुरान् ॥३३॥
हरिता रोहिता देवास्तथा सुमनसो द्विज । सुकर्माणस्सुरापाश्च दशकाः पञ्च वै गणाः ॥३४॥
तपस्वी सुतपाश्चैव तपोमूर्तिस्तपोरतिः । तपोधृतिर्द्युतिश्चान्यः सप्तमस्तु तपोधनः।
सप्तर्षयस्त्विमे तस्य पुत्रानपि निबोध मे ॥ ३५ ॥
देववानुपदेवश्च देवश्रेष्ठादयस्तथा । मनोस्तस्य महावीर्या भविष्यन्ति सुता नृपाः ॥ ३६ ॥
त्रयोदशो रुचिर्नामा भविष्यति मुने मनुः ॥ ३७ ॥
सुत्रामाणस्सुकर्माणः सुधर्माणस्तथामराः । त्रयस्त्रिंशद्विभेदास्ते देवानां यत्र वै गणाः ॥३८॥
दिवस्पतिर्महावीर्यस्तेषामिन्द्रो भविष्यति ॥ ३९ ॥
निर्मोहस्तत्त्वदर्शी च निष्प्रकम्प्यो निरुत्सुकः । धृतिमानव्ययश्चान्यस्सप्तमस्सुतपा मुनिः ।
सप्तर्षयस्त्विमे तस्य पुत्रानपि निबोध मे ॥ ४ ॥
चित्रसेनविचित्राद्या भविष्यन्ति महीक्षितः ॥ ४ ॥
भौमश्चतुर्दशश्चात्र मैत्रेय भविता मनुः । शुचिरिन्द्रस्सुरगणास्तत्र पञ्च शृणुष्व तान् ॥ ४२॥
सुक्षेत्रेति ॥ सुक्षेत्रादयो मनुपुत्राः ॥ २८–४२ ॥
चाक्षुषाश्च पवित्राश्च कनिष्ठा भ्राजिकास्तथा । वाचावृद्धाश्च वै देवास्सप्तर्षीनपि मे शृणु ॥४३॥
अग्निबाहुश्शुचिश्शुक्रो मागधोऽग्नीध्र एव च । युक्तस्तथाजितश्चान्यो मनुपुत्रानतः शृणु ॥ ४४ ॥
ऊरुगंभीरबुद्ध्याद्या मनोस्तस्य सुता नृपाः । कथिता मुनिशार्ददूल पालयिष्यन्ति ये महीम् ॥४५॥
चाक्षुषा इति ॥ चाक्षुषाद्या गणास्सप्तकाः ॥ ४३-४५॥
चतुर्युगान्ते वेदानां जायते किल विप्लवः । प्रवर्तयन्ति तानेत्य भुवं सप्तर्षयो दिवः ॥ ४६ ॥
चतुर्युगान्त इति ॥ चतुर्युगान्त इत्यादिना मन्वन्तराधिकारिकृत्योक्तिः । तान् कलियुगान्ते अनध्ययनादुत्सन्नसम्प्रदायान् वेदान् कृतारम्भे भुव्यंशेनावतीर्य प्रवर्तयन्ति ॥१६॥
कृतेकृते स्मृतेर्विप्र प्रणेता जायते मनुः । देवा यज्ञभुजस्ते तु यावन्मन्वन्तरं तु तत् ॥ ४७ ॥
भवन्ति ये मनोः पुत्रा यावन्मन्वन्तरं तु तैः । तदन्वयोद्भवैश्चैव तावद्भूः परिपाल्यते ॥ ४८ ॥
मनुस्सप्तर्षयो देवा भूपालाश्च मनोस्सुताः । मन्वन्तरे भवन्त्येते शक्रश्चैवाधिकारिणः ॥ ४९ ॥
चतुर्दशभिरेतैस्तु गतैर्मन्वन्तरैर्द्विज । सहस्रयुगपर्यन्तः कल्पो निश्शेष उच्यते ॥ ५० ॥
कृतेकृत इति ॥ मनुस्तु प्राचीनाः स्मृती: स्वायंभुवदक्षादिकृताः प्रवर्तयति ॥ १७-५० ॥
तावत्प्रमाणा च निशा ततो भवति सत्तम । ब्रह्मरूपधरश्शेते शेषाहावम्बुसंप्लवे ॥ ५१ ॥
तावत्प्रमाणेति ॥ ब्रह्मरूपधर:-ब्रह्मशरीरमधिष्ठाय ॥ ५१ ॥
त्रैलोक्यमखिलं ग्रस्त्वा भगवानादिकृद्विभुः । स्वमायासंस्थितो विप्र सर्वभूतो जनार्दनः ॥ ५२ ॥
ततः प्रबुद्धो भगवान् यथा पूर्वं तथा पुनः । सृष्टिं करोत्यव्ययात्मा कल्पेकल्पे रजोगुणः ॥५३॥
त्रैलोक्यमिति ॥ स्वमायासंस्थित:-* आत्ममायामयीं दिव्यां योगनिद्रां समास्थितः* सङ्कल्पज्ञानं वा माया ॥ ५२, ५३ ॥
मनवो भूभुजस्सेन्द्रा देवास्सप्तर्षयस्तथा । सात्त्विकोंsशः स्थितिकरो जगतो द्विजसत्तम ॥ ५४ ॥
मनव इति ॥ सात्विकोंऽश:-भगवतस्सात्विकतनुः ॥ ५४ ॥
चतुर्युगेऽप्यसौ विष्णुः स्थितिव्यापारलक्षणः । युगव्यवस्थां कुरुते यथा मैत्रेय तच्छृणु ॥ ५५ ॥
कृते युगे परं ज्ञानं कपिलादिस्वरूपधृक् । ददाति सर्वभूतात्मा सर्वभूतहिते रतः ॥ ५६ ॥
चक्रवर्तिस्वरूपेण त्रेतायामपि स प्रभुः। दुष्टानां निग्रहं कुर्वन्परिपाति जगत्त्रयम् ॥ ५७ ॥
चतुर्युगेऽपि, न केवळं मन्वन्तरे ॥ ५५-५७ ॥
वेदमेकं चतुर्भेदं कृत्वा शाखाशतैर्विभुः । करोति बहुलं भूयो वेदव्यासस्वरूपधृक् ॥ ५८ ॥
वेदांस्तु द्वापरे व्यस्य कलेरन्ते पुनर्हरिः । कल्किस्वरूपी दुर्वृत्तान्मार्गे स्थापयति प्रभुः ॥ ५९॥
एवमेतज्जगत्सर्वं शश्वत्पाति करोति च । इन्ति चान्तेऽप्यनन्तात्मा नास्त्यस्माद्व्यतिरेकि यत् ॥६०॥
वेदमिति ॥ चतुर्भेदम्-ऋगादिरूपेण शाखाशतैबहुलमित्यन्वयः ॥ ५८-६०॥
भूतं भव्यं भविष्यं च सर्वभूतान्महात्मनः । तदत्रान्यत्र वा विप्र सद्भावः कथितस्तव ॥ ६१ ॥ मन्वन्तराण्यशेषाणि कथितानि मया तव । मन्वन्तराधिपाश्चैव किमन्यत्कथयामि ते ॥ ६२ ॥
भूतमिति ॥ उपसंहरति–तदत्रेति । सर्वभूताद्भगवतो व्यतिरिक्तं नास्तीत्येष सद्भवोऽत्र प्रकरणान्तरे च कथितः ॥ ६१, ६२ ॥
इति श्रीपराशरमुनिविरचिते श्रीविष्णुपरत्वनिर्णायके श्रीमति विष्णुमहापुराणे तृतीयेऽशे द्वितीयोऽध्यायः ॥ २ ॥
इति श्रीभगवद्रामानुजपदान्तरंगश्रीविष्णुचित्तविरचिते विष्णुपुराणव्याख्याने श्रीविष्णुचित्तीये तृतीयेऽशे द्वितीयोऽध्यायः ॥ २ ॥