श्रीविष्णुपुराणम्
अथ चतुर्थोऽध्यायः
श्रीपराशर:-
आद्यो वेदश्चतुष्पादः शतसाहस्रसम्मितः । ततो दशगुणः कृत्स्नो यज्ञोऽयं सर्वकामधुक् ॥१॥
आद्य इति ॥ आद्य: सर्गादौ चतुर्मुखेनाविभक्तः पठितः । चतुष्पादः ऋगादिरूपेण। शतसाहस्रेति अनन्तशाखासमुदायरूपः । ततः–तस्माद्दशगुणो यज्ञः प्रावर्तत । दशगुणो-दशविधः, स एष यज्ञः पञ्चविधोऽग्निहोत्रं दर्शपूर्णमासौ चातुर्मास्यानि पशुबन्धः सोम इति। तथा *पञ्च वा एते महायज्ञाः, इत्युपक्रम्य * देवयज्ञः पितृयज्ञो भूतयज्ञो मनुष्ययज्ञो ब्रह्मयज्ञः इति श्रुतौ वैतानिका गार्ह्याश्च दश यज्ञाः । द्रव्यं देशः फलं कालो ज्ञानं कर्म च कारकम् । श्रद्धाऽवस्थाकृतिर्निष्ठास्त्रैगुण्यास्सर्व एव हि इति भागवतोक्तगुणदशकवान् वा, अत्र पक्षे गुणशब्दोऽङ्गवचनः ॥१॥
ततोsत्र मत्सुतो व्यासो अष्टाविंशतिमेऽन्तरे । वेदमेकं चतुष्पादं चतुर्द्धा व्यभजत्प्रभुः ॥२॥
तत इति ॥ चतुर्द्धा–ऋगादिरूपेण ॥२॥
यथा च तेन ते व्यस्ता वेदव्यासेन धीमता । वेदास्तथा समस्तैस्तैर्व्यस्ता व्यासेस्तथा मया ॥३॥
यथेति ॥ तथा मया षड्विंशे व्यस्ताः ॥३॥
तदनेनैव वेदानां शाखाभेदान्द्विजोत्तम । चतुर्युगेषु रचितान्समस्तेष्ववधारय ॥ ४॥
कृष्णद्वैपायनं व्यासं विद्धि नारायणं प्रभुम् । को ह्यन्यो भुवि मैत्रेय महाभारतकृद्भवेत् ॥ ५ ॥
तेन व्यस्ता यथा वेदा मत्पुत्रेण महात्मना । द्वापरे ह्यत्र मैत्रेय तन्मे शृणु यथातथम् ॥ ६ ॥
ब्रह्मणा चोदितो व्यासो वेदान्व्यस्तुं प्रचक्रमे । अथ शिष्यान्स जग्राह चतुरो वेदपारगान् ॥ ७ ॥
ऋग्वेदपाठकं पैलं जग्राह स महामुनिः । वैशंपायननामानं यजुर्वेदस्य चाग्रहीत् ॥ ८ ॥
जैमिनं सामवेदस्य तथैवाथर्ववेदवित् । सुमंतुस्तस्य शिष्योऽभूद्वेदव्यासस्य धीमतः ॥९॥
तदिति ॥ अनेन वर्तमानेन नारायणांशेन द्वैपायनेन निदर्शनभूतेन समस्तेषु चतुर्युगेषु वेदपारगैरेव शाखाभेदान् रचितानवधारयेत्यर्थः ॥ १-९॥
रोमहर्षणनामानं महाबुद्धिं महामुनिः । सूतं जग्राह शिष्यं स इतिहासपुराणयोः ॥१०॥
रोमहर्षणेति ॥ आर्षं बहुविधाख्यानं देवर्षिचरिताश्रयम् ॥ इतिहास इति प्रोक्तं भविष्यद्भूतकर्मगम् ॥ १० ॥
एक आसीद्यजुर्वेदस्तं चतुर्द्धा व्यकल्पयत् । चातुर्होत्रमभूत्तस्मिंस्तेन यज्ञमथाकरोत् ॥११॥
एक इति ॥ यजुदे ह्यध्वर्युक्रियाबाहुल्याद्यजनसाधनत्वाच्च यजुःप्राचुर्यात्सर्वोऽपि वेदो यजुरित्युक्तम् । * यच्छिष्टं तु यजुर्वेदे तेन यज्ञमयुञ्जत ॥ यजनाद्धि यजुर्वेद इति शास्त्रस्य निश्चयः इति वायूक्तेः ॥ अध्वर्यूद्गातृहोतृब्रह्माख्यचतुर्होतृकर्तृकं कर्म चातुर्होत्रं तच्चतुर्धा कृते वेदेऽभूत् । तेन कर्मणा यज्ञमकरोत्-प्रावर्तयत् ॥११॥
आध्वर्यवं यजुर्भिस्तं ऋग्भिर्होत्रं तथा मुनिः । औद्गात्रं सामभिश्चके ब्रह्मत्वं चाप्यथर्वभिः ॥१२॥
एतदेव प्रपञ्चयति-आध्वर्यमिति ॥ ब्रह्मत्वं चाप्यथर्वभिरिति । अत्रापिशब्देन त्रयी समुच्चीयते, ब्रह्मत्वशब्देन ब्रह्मार्त्विज्यं पुरोहितकृत्यं चोच्यते * नमो ब्रह्मण इति त्रिष्कृत्वो ब्रह्मणे नमस्करोति * इति श्रुतेः पुरोहितस्य ब्रह्मशब्दवाच्यत्वात् । अयमर्थः, *अथ केन ब्रह्मत्वं क्रियत इति त्रय्या विद्यया* इति ब्राह्मणात् * यज्ञं व्याख्यास्यामस्स त्रिभिर्वेदैर्विधीयते * इति सूत्राच्च ब्रह्मकृत्यं त्रिभिर्वेदैश्चक्रे । तथाऽथर्वणोक्तं राज्ञां शान्तिकपौष्टिकाभिचारिकादिपुरोहितकृत्यमथर्वभिश्चक्र इति तं चतुर्द्धेत्युक्तम् ॥ १२ ॥
ततस्स ऋच उद्धृत्य ऋग्वेदं कृतवान्मुनिः। यजूंषि च यजुर्वेदं सामवेदं च सामभिः ॥ १३ ॥
चातुर्विध्यं प्रपञ्चयति-ततस्स इति ॥ ततः-वेदसमुदायात् ॥ १३ ॥
राज्ञां चाथर्ववेदेन सर्वकर्माणि च प्रभुः । कारयामास मैत्रेय ब्रह्मत्वं च यथास्थिति ॥ १४ ॥
राज्ञामिति ॥ यथास्थिति-शास्त्रमर्यादानतिक्रमेण ॥ १४ ॥
सोऽयमेको महावेदतरुस्तेन पृथक्कृतः । चतुर्धाऽथ ततो जातं वेदपादपकाननम् ॥ १५ ॥
विभेद प्रथमं विप्र पैलो ऋग्वेदपादपम् । इन्द्रप्रमितये प्रादाद्बाष्कलाय च संहिते ॥ १६ ॥
चतुर्धा स विभेदाथ बाष्कलोऽपि च संहिताम् । बोधादिभ्यो ददौ ताश्च शिष्येभ्यस्स महामुनिः ॥१७॥
सोऽयमिति ॥ तत:-पृथक्कृतेभ्यः, अनन्तशाखात्मकवेदपादपकाननं जातम् ॥१५-१७॥
बोध्याग्निमाढकौ तद्वद्याज्ञवल्क्यपराशरौ । प्रतिशाखास्तु शाखायास्तस्यास्ते जगृहुर्मुने ॥ १८ ॥
इन्द्रप्रमितिरेकां तु संहितां स्वसुतं ततः । माण्डुकेयं महात्मानं मैत्रेयाध्यापयत्तदा ॥ १९ ॥
तस्य शिष्यप्रशिष्येभ्यः पुत्रशिष्यक्रमाद्ययौ ॥२०॥
बोध्याग्निमाढकौ तद्वदिति ॥ तस्याः-बाष्कलसंहितायाः ॥ १८-२०॥
वेदमित्रस्तु शाकल्यः संहितां तामधीतवान् । चकार संहिताः पञ्च शिष्येभ्यः प्रददौ च ताः ॥२१॥
तस्य शिष्यास्तु ये पञ्च तेषां नामानि मे शृणु । मुद्गलो गोमुखश्चैव वात्स्यश्शालीय एव च ।
शैशिरः पञ्चमश्चासीन्मैत्रेय सुमहामतिः ॥२२॥
वेदमित्र इति ॥ ताम्-इन्द्रप्रमितिसंहितां शाकल्यः पंचधा कृत्वा मुद्गलादिन्योऽदात् ॥२१,२२॥
संहितात्रितयं चक्रे शाकपूर्णस्तथेतरः । निरुक्तमकरोत्तद्वच्चतुर्थं मुनिसत्तम ॥२३॥
क्रौंचो वैतालिकस्तद्वद्बलाकश्च महामुनिः । निरुक्तश्च चतुर्थोऽभूद्वेदवेदाङ्गपारगः ॥२४॥
संहितेति ॥ तामेवान्यश्शाकल्यसब्रह्मचारी शाकपूर्णस्त्रिधा कृत्वा क्रौंचादिभ्योऽदात्। वेदशब्दनिर्वचनरूपं निरुक्ताख्यं वेदाङ्गं च कृत्वा निरुक्ताख्यायादात् ॥२३,२४॥
इत्येताः प्रतिशाखाभ्यो ह्यनुशाखा द्विजोत्तम । बाष्कलिश्चापरास्तिस्रस्संहिताः कृतवान्द्विज ॥२५॥
इत्येते बह्वृचाः प्रोक्ताः संहिता यैः प्रवर्त्तिताः ॥२६॥
इतीति ॥ तामेवान्यश्शाकल्यसब्रह्मचारी बाकलिस्तिस्रस्संहिताः कृतवान् । तस्य शिष्याः कालायन्यादयस्तेभ्योऽदादित्यर्थः ॥२५,२६॥
इति श्रीपराशरमुनिविरचिते श्रीविष्णुपरत्वनिर्णायके श्रीमति विष्णुमहापुराणे तृतीयेऽशे चतुर्थोऽध्यायः ॥ ४॥
इति श्रीभगवद्रामानुजपदान्तरंगश्रीविष्णुचित्तविरचिते श्रीविष्णुपुराणव्याख्याने श्रीविष्णुचित्तीये तृतीयांशे चतुर्थोऽध्यायः ॥ ४॥