।। श्रीमते रामानुजाय नमः ।।
श्रीविष्णुपुराणम्
अथ पञ्चमांशे प्रथमोऽध्यायः
मैत्रेय उवाच
नृपाणां कथितःसर्वो भवता वंशविस्तरः ।
वंशानुचरितं चैव यथावदनुवर्णितम् ।। १ ।।
नृपाणामिति ॥ उक्तश्चतुथेंशे लोकज्ञापकधर्मप्रवर्तकः क्षत्रवंशः ॥ १ ॥
अंशावतारो ब्रह्मर्षे योऽयं यदुकुलोद्भवः ।
विष्णोस्तं विस्तरेणाहं श्रोतुमिच्छामि तत्त्वतः ॥ २ ॥
अंशावतार इति ॥ विष्णोः – व्यापकस्य नारायणस्य, अन्तर्वहिश्च तत्सर्वं व्याप्य नारायणः स्थितः इति श्रुतेः ॥ २ ॥
चकार यानि कर्माणि भगवान् पुरुषोत्तमः ।
अंशांशेनावतीर्योर्व्यां तत्र तानि मुने वद ॥ ३ ॥
चकारेति ॥ भगवान् पुरुषोत्तमः परव्यूह विभवादिषु सर्वत्र स्वरूपरूपगुणादिभिः परिपूर्ण एव सन् इच्छा गृहीत परिच्छिन्न देवमनुष्यादिदेहतया अंश इति अंशांश इति च व्यदिश्यते; कृष्णाद्यवतारेष्वपि विश्वरूप – दर्शनाद्यतिमानुषप्रवृत्तौ सर्वेश्वर्यस्य व्यक्तत्वात् ॥ ३ ॥
श्रीपारशर उवाच
मैत्रेय श्रूयतामेतद्यत्पृष्टोऽहमिह त्वया ।
विष्णोरंशांशसंभूतिचरितं जगतो हितम् ॥ ४ ॥
देवकस्य सुतां पूर्वं वसुदेवो महामुने ।
उपयेमे महाभागां देवकीं देवतोपमाम् ॥ ५ ॥
मैत्रेयेति ॥ संभूतिश्वरितं च संभूतिचरितम् ॥ ४,५ ॥
कंसस्तयोर्वररथं चोदयामास सारथिः ।
वसुदेवस्य देवक्या संयोगे भोजनन्दनः ॥ ६ ॥
कंस इति ॥ वररथं कल्याणरथम् वधूश्च वरश्च वरौ, तयो रथम् इति वा ॥ ६ ॥
आथान्तरिक्षे वागुच्चैः कंसमाभाष्यसादरम् ।
मेघगंभीरनिर्घोषं समाभाष्येदमब्रवीत् ॥ ७ ॥
यामेतां वहसे मूढ सह भर्त्रा रथे स्थिताम् ।
अस्यास्तवाष्टमो गर्भः प्राणानपहरिष्यति ॥ ८ ॥
श्रीपराशर उवाच
इत्याकर्ण्य समुत्पाट्य खड्गं कंसो महाबलः ।
देवकीं हन्तुमारब्धो वसुदेवोऽब्रवीदिदम् ॥ ९ ॥
अथेत्यादि । अत्र वाक्च्छन्देनाशरीरी वक्ता लक्ष्यते । आभाष्यसादरमिति समासपदम्। आभाष्यार्थे यथा सादर: स्यात्तया तं समाभाष्य – आमंत्र्य ॥ ७९ ॥
न हन्तव्या महाभाग देवकी भवताऽनघ ।
समर्पयिष्ये सकलान्गर्भानस्योदरोद्भवान् ॥ १० ॥
न हन्तव्येति ॥ अस्वोदरोद्भवानित्यार्षस्सन्धिः । यदा अस्य तवेत्यन्वयः । अथवा अस्य मम उदरोद्भवान् इति था । अङ्गादङ्गात् इति श्रुतः पुमान् पुंसोऽधिके शुके इत्यादिस्मृतिवचनाच ॥ १०
श्रीपराशर उवाच
तथेत्याह ततः कंसो वसुदेवं द्विजोत्तम ।
न घातयामास च तां देवकीं तस्य गौरवात् ॥ ११ ॥
एतस्मिन्नेवकाले तु भूरिभारावपीडिता ।
जगाम धरणी मेरौ समाजं त्रिदिवौकसाम् ॥ १२ ॥
स ब्रह्मकान्सुरान्सर्वान्प्रणिपत्याथ मेदिनि ।
कथयामास तत्सर्वं खेदात्करुणभाषिणी ॥ १३ ॥
तथेति ॥ तथेत्यङ्गीकृत्य कंस: देवकी न घातयामास । स्वार्थे णिच् ॥ ११ – १३ ।।
भूमिरुवाच
अग्निःसुवर्णस्य गुरुर्गवां सूर्यः परो गुरुः ।
ममाप्यखिल लोकानां कुरुर्नारायणोगरुः ॥ १४ ॥
प्रजापतिपतिर्ब्रह्म पूर्वेषामपि पूर्वजः ।
कलाकाष्ठानिमेषात्मा कालश्चाव्यक्तमूर्तिमान् ॥ १५ ॥
अग्निरित्यादि ।। नारायणोगुरुरिति ॥ अगुरु: – गुरुरहितः । अत्र गुरुशब्दः कारणवाची, अग्नेरपत्यं प्रथमं हिरण्यं भूर्तेष्णवी सूर्यसुताश्च गावः । लोकास्रयस्तन भवन्ति दत्ता यः कांचनं गां च महींच दद्यात् ॥ इति संवर्त्तस्मृतेः ॥ १४,१५ ।।
तदंशभूतःसर्वैषां समूहो वःसुरोत्तमाः ॥ १६ ॥
आदित्या सरुतःसाध्या रुद्रा वस्वश्विवह्नयः ।
पितरो ये च लोकानां स्रष्टारोऽत्रिपुरोगमाः ॥ १७ ॥
एते तस्याप्रमेयस्य विष्णो रूपं महात्मनः ॥ १८ ॥
यक्षराक्षसदैतेय पिशाचोरगदानवाः ।
गन्धर्वाप्सरसश्चैव रूपं विष्णोर्महात्मनः ॥ १९ ॥
तदंशभूत इति ॥ तदंशभूतः – तच्छरीरभूतः । उत्तरत्र रूपं विष्णोर्महात्मनः, सर्वं विष्णुमयं जगत् इत्यादेदर्शनात् ॥ १६ – १९ ।।
ग्रहर्क्षतारकाचित्रगगनाग्निजलानिलाः ।
अहं च विषयाश्चैव सर्व विष्णुमयं जगत् ॥ २० ॥
तथा चानेकरूपस्य यस्य रूपाण्यहर्निशम् ।
बाध्यबाधकतां यान्ति कल्लोला इव सागरे ॥ २१ ॥
तत्सांप्रतममी दैत्याः कालनेमिपुरोगमाः ।
मर्त्यलोकं समाक्रम्य बाधन्तेऽहर्निशं प्रजाः ॥ २२ ॥
कालनेमिर्हतो योऽसौ विष्णुना प्रभविष्णुना ।
उग्रसेनसुतः कंसः संभूतः स महासुरः ॥ २३ ॥
अरिष्टो धेनुकः केशी प्रलंबो नरकस्तथा ।
सुंदोऽसुरस्तथात्युग्रो बाणश्चापि बलेः सुतः ॥ २४ ॥
तथान्ये च महावीर्या नृपाणां भवनेषु ये ।
समुत्पन्ना दुरात्मानस्तान्न संख्यातुमुत्सहे ॥ २५ ॥
ग्रहर्क्षेति ॥ ऋक्षाणि – नक्षत्राणि । तारका: – अश्विन्यादयः ॥ २० – २५ ॥
अक्षौहिण्योऽत्र बहुला दिव्यमूर्तिधराःसुराः ।
महाबलानां दृप्तानां दैत्येन्द्रणां ममोपरि ॥ २६ ॥
तद्भूरिभारपीडार्ता न शक्नोम्यमरेश्वराः ।
बिभर्तुमात्मानमहमिति विज्ञापयामि वः ॥ २७ ॥
क्रियतां तन्महाभागा मम भारावतारणम् ।
यथा रसातलं नाहं गच्छेयमतिविह्वला ॥ २८ ॥
इत्याकर्ण्य धरावाक्यमशेषैस्त्रिदशेश्वरैः ।
भुवो भारावतारार्थं ब्रह्मा प्राह प्रचोदितः ॥ २९ ॥
ब्रह्मोवाच
यथाह वसुधा सर्वं सत्यमेव दिवौकसः ।
अहं भवो भवन्तश्च सर्वे नारायणात्मकाः ॥ ३० ॥
अक्षौहिण्य इति ॥ अक्षौहिण्याः सप्ततिरष्टशतान्येक विंशतिसहस्रम् द्विरदास्तथा रथास्तत्तिपश्चगुणकास्तुरङ्ग कनराः ॥ २६ – ३० ।।
विभूतयश्च यास्तस्य तासामेव परस्परम् ।
आधिक्यन्यूनताबाध्यबाधकत्वेन वर्तते ॥ ३१ ॥
तदागच्छत गच्छामः क्षीराब्धेस्तटमुत्तमम् ।
तत्राराध्य हरिं तस्मै सर्वं विज्ञापयाम वै ॥ ३२ ॥
सर्वथैव जगत्यर्थे स सर्वात्मा जगन्मयः ।
सत्त्वांशेनावतीर्योर्व्यां धर्मस्य कुरुते स्थितिम् ॥ ३३ ॥
श्रीपराशर उवाच
इत्युक्त्वा प्रययो तत्र सह देवैः पितामहः ।
समाहितमनाश्चैवं तुष्टाव गरुडध्वजम् ॥ ३४ ॥
विभूतय इत्यादि ॥ तासामेवाधिक्यन्यूनता परस्परं बाध्यबाधकत्वेन वर्तते – बाध्यबाधकत्वे हेतुरिव्यर्थः ॥ ३१ – ३४ ॥
ब्रह्मोवाच
द्वे विद्ये त्वमनाम्नाय परा चैवापरा तथा ।
त एव भवतो रूपे मूर्तामूर्तात्मिके प्रभो ॥ ३५ ॥
द्वे ब्रह्मणी त्वणीयोतिस्थूलात्मन्सर्व सर्ववित् ।
शब्दब्रह्मपरं चैव ब्रह्म ब्रह्ममयस्य यत् ॥ ३६ ॥
द्वे विदे इत्यादिश्लोकद्वयमेकं वाक्यम् ॥ द्वे विद्ये इति ॥ अनाम्नाय आम्नायापरिच्छेद्य । द्वे विद्ये इति – शब्दजन्यं विवेकजन्यं च ज्ञानमुच्यते ॥ आगमोत्थं विवेकाच्च द्विधा । ज्ञानं तथोच्यते । शब्दब्रह्मागममयं परं ब्रह्म विवेकजम् इति हि वक्ष्यति। ब्रह्मपरम् – ब्रह्मविषयम्, शब्दब्रह्म – आगमोत्थं ज्ञानम्। परं चैव – ब्रह्मविवेकजं ज्ञानम् । ब्रह्मविषये विवेकजशब्द ब्रह्मविषयागमजज्ञानात्मिके परापरे द्वे विधे इत्यन्वयः। त्वद्रूपे इत्यर्थः। ते – उपनिषठप्रसिद्धे मूर्तामूर्तात्मिके, द्वे ब्रह्मणी – प्रकृतिपुरुषौ, भवत एव रूपे । अणीयोतिस्थूलात्मन् – वणीय सामतिस्थूलानां चात्मभूत । अथवा अनाम्नाय इत्यनादिरक्रतुरितिवध्ययनादिविधेरवश्यं भवतो रूपे – निरूपके, मूर्तामूर्तात्मिके–मूर्तामूर्तब्रह्मविषयतया तदात्मिके शब्द ब्रह्मपर ब्रह्मरूपे द्वे ब्रह्मशब्दवाच्ये मूर्तामूर्तात्मिके – परावररूपे द्वे विद्ये त्वम्, ते एव भवतो रूपे इत्यन्वयः ॥ ३५,३६ ॥
ऋग्वेदस्त्वं यजुर्वेदःसामवेदस्त्वथर्वणः ।
शिक्षा कल्पो निरुक्तं च च्छन्दो ज्योतिषमेव च ॥ ३७ ॥
इतिहासपुराणे च तथा व्याकरणं प्रभो ।
मीमांसा न्यायशास्त्रं च धर्मशास्त्राण्यधोक्षज ॥ ३८ ॥
कर्मप्रतिपादकऋग्वेदाद्यागमोऽपि त्वद्रूपमित्याह – ऋग्वेद इत्यादिना ॥ ३७,३८ ॥
आत्माऽत्मदेहगुणवद्विचाराचारि यद्वचः ।
तदप्याद्यपते नान्यदध्यात्मात्मस्वरूपवत् ॥ ३९ ॥
ब्रह्मप्रतिपादकोपनिषद्भागोऽपि त्वद्रूपमित्याह – आत्मात्मेति ॥ अत्र प्रथमेनात्मशब्देन जीवपरावुच्येते । द्वितीयेन सूक्ष्मशरीरम् । देहः स्थूलशरीरम् । गुणवदव्यक्तम् । एवमुभयात्मोभयदेहान्यक्तविषयं विचारमाचरद्यदुप – निषद्वाक्यं तच्च त्वत्तो नान्यत् ॥ ३९ ॥
त्वमव्यक्तमनिर्देश्यम् अचिन्त्यानामवर्मवत् ।
अपाणिपादरूपं च शुद्धं नित्यं परात्परम् ॥ ४० ॥
यथात्मानं – देहमधिकृत्य वर्तमानतया अध्यात्मनो जीवस्य स्वरूपं त्वत्तो नान्यत् । तद्वन्मुकोऽपि त्वद्रूपमित्याह—त्वमव्यक्तमिति ॥ अव्यक्तम् – बाह्येन्द्रियागोचरम् । अनिर्देश्यम् इतरसजातीयतया । अचिन्त्यं मनसा । अनाम – देवमनुष्यादिनामरहितम् । अवर्ण – पीतशुक्लादि वर्णहीनम् । शुद्धं – क्लेशकर्मादिनिर्मुक्तम् । परं पदं – मुक्तस्वरूपं गुणप्रवृत्त्या परं पदम् । तस्यागुणं महदित्युक्तम् । परविषयो वा अयं श्लोकः । शुद्धं नित्यं परं पदं चेति च पाठः ॥ ४० ॥
शृणोष्यकर्णः परिपश्यसि त्वमचक्षुरूपो बहुरूपरूपः ।
अपादहस्तो जवनो ग्रहीता त्वं वेत्सि सर्वं न च सर्ववेद्यः ॥ ४१ ॥
अथ परमेवाह – शृणोषीत्यादिना ॥ अचक्षुरूपः –अचक्षुररूपश्च, चक्षुस्वरूपरहितो वा । बहुरूप – रूपः–स्वेच्छागृहीतबहूविधरूपः। अनेन करणनिरपेक्ष सर्वकार्य सामर्थ्यमुक्तम्, अपाणिरादः इत्यादिश्रुतेः ॥४१॥
अणोरणीयांसमसत्स्वरूपं त्वां पश्यतो ज्ञाननिवृत्तिरग्र्या ।
धीरस्य धीरस्य बिभर्ति नान्यद्वरेण्यरूपात्परतः परात्मन् ॥ ४२ ॥
अणोरिति ॥ अणोः— जीवादणीयांसम् । असत्स्वरूपम् – दृश्यरूपरहितम् । घी: अस्य यस्योपासकस्य घी: वरेण्यरूपा स्वत्तोऽन्यन्न बिभर्ति – न विषयीकरोति, तस्य त्वां पश्यतः, अग्र्या – आत्यन्तिकी, अज्ञाननिवृत्तिः – कर्मनिवृत्तिः । यद्वा पूर्वार्धमेकं वाक्यम् । तस्य स्पष्टोऽर्थः । वीर्यस्य – यस्य धी: – संकल्पः, सर्वं बिभर्ति, तस्मात् त्वत्तोऽन्यन्नास्तीति ॥ ४२ ॥
त्वं विश्वनाभिर्भुवनस्य गोप्ता सर्वाणि भूतानि तवान्तराणि ।
यद्भूतभव्यं यदणोरणीयः पुमांस्त्वमेकः प्रकृतेः परस्तात् ॥ ४३ ॥
त्वमिति ।। नामिराधारः आन्तराणि – अन्तस्थानि, यदणोरणीयः यद्भूतं भव्यम्, प्रकृतेः परस्तात् पुमान् यः, तत्सर्वं त्वमेक एव ॥ ४३ ॥
एकश्चतुर्धा भगवान्हुताशो वर्चोविभूतं जगतो ददाति ।
त्वं विश्वतश्चक्षुरनन्तमूर्ते त्रेधा पदं त्वं निदधासि धातः ॥ ४४ ॥
यथाऽग्निरेको बहुधा समिध्यते विकारभेदैरविकाररूपः ।
तथा भवान्सर्वगतैकरूपी रूपाण्यशेषाण्यनुपुष्यतीश ॥ ४५ ॥
एक इत्यादि ।। चतुर्धा–त्रेतौपासनात्मना, वैद्युत जाठरनिर्मन्थ्यवाडवात्मना वा, यो हुताशो जगतो वर्च: – तेजः, विभूतिम् – अणिमादिं ददाति, सोऽपि त्वम्, त्रेधा पदं – त्रिविक्रमत्वे त्रिषु लोकेषु पदं निदधासि । यद्वा स इमान् लोकान् विचक्रमेधो देवानधोवाचम् इति श्रुत्युक्तप्रकारेण । अथवा उपासनार्थ गिरित्रये सन्निधत्ते समारोहणे विष्णुपदे गयशिरसीति हि नेरुकाः ॥ ४४,४५ ॥
एकं तवाग्र्यं परमं पदं यत्पश्यन्ति त्वां सूरयो ज्ञानदृश्यम् ।
त्वत्तो नान्यत्किञ्चिदस्ति स्वरूपं यद्वा भूतं यच्च भव्यं परात्मन् ॥ ४६ ॥
एकमिति । अग्र्यम् – अप्राकृतम् एकम् – अद्वयं तत्र परमं पदं यत्तदपि त्वमेवेति । यद्वा तव परमं पदं यत्तदेकं केवलमग्र्यम् – अप्राकृतम् ॥ ४६ ॥
व्यक्ताव्यक्तस्वरूपस्त्वं समष्टिव्यष्टिरूपवान् ।
सर्वज्ञःसर्ववित्सर्वशक्तिज्ञानबलर्धिमान् ॥ ४७ ॥
अन्यूनश्चाप्यवृद्धिश्च स्वाधीनो नादिमान्वशी ।
क्लमतन्द्रीभयक्रोधकामादिभिरसंयुतः ॥ ४८ ॥
चेतनाचेतनयोः कार्यकारणभावावस्थाद्यमपि त्वमेवेत्याह – व्यक्तेति ॥ यद्वा समष्टि विदुरव्यक्तं व्यष्टिव्यक्तमिहोच्यते इति वा । अथवा समष्टिर्वासुदेवः, व्यष्टिस्संकर्षणादिः । सर्वज्ञस्सर्वदृगिति च पाठः । सर्वज्ञस्सर्व दृगिति । सर्वश्वासौ ज्ञश्च सर्वदृक् – सर्वद्रष्टा । यद्वा करणैः सर्वतश्च ज्ञाता । सर्वशक्तिज्ञानबलर्द्धिमान् सामान्यविषयं ज्ञानं सर्वज्ञानम् ॥ ४७ – ४८ ॥
निरवद्यः परः प्राप्तेर्निरधिष्ठोऽक्षरः क्रमः ।
सर्वेश्वरः पराधारो धाम्नां धामात्मकोऽक्षयः ॥ ४९ ॥
निरवद्य इति । परः प्राप्ते: – प्राप्तेः परः, दुष्प्राप इत्यर्थः । निरधिष्ठ: – निराधारः, कम: – अप्रति – बंधमहोत्साहः । वृत्तिसर्गतायनेषु क्रमः इति सूत्रे वृत्तिरप्रतिबंनः सर्ग उत्साहः, तायनं स्थि (र) ततेति दर्शनात् । क्रम इति कर्तरि द्वयोरर्थयोयुत्पत्तिः । सर्वेश्वर पराधार – सर्वेषामीश्वर परेषामाधार । सर्वेषामीश्वराणां पराधारेति वा । धान्नां धामात्मक – ज्योतिषां ज्योतिः । पाठान्तरे सर्वेश्वरेत्यादि संबुद्धिः ॥ ४९ ॥
सकलावरणातीतनिरालंबनभावन ।
महाविभूतिसंस्थान नमस्ते पुरुषोत्तम ॥ ५० ॥
सकलेत्यादि । आवरणानि –प्रकृत्यादीनि, कर्माणि वा । निरालंबनभावन – अशरण्यभावन । महाविभूतिसंस्थान – त्रिपाद्विभूतौ संस्थान स्थितिर्यस्य तथोक्त ॥ ५० ॥
नाकारणात्कारणाद्वा कारणाकारणान्न च ।
शरीरग्रहणं वापिन् धर्मत्राणाय केवलम् ॥ ५१ ॥
श्रीपराशर उवाच
इत्येवं संस्तवं श्रुत्वा मनसा भगवानजः ।
ब्रह्माणमाह प्रीतेन विश्वरूपं प्रकाशयन् ॥ ५२ ॥
श्रीभगवानुवाच
भोभो ब्रह्मंस्त्वया मत्तःसह देवैर्यदिष्यते ।
तदुच्यतामशेषं च सिद्धमेवावधार्यताम् ॥ ५३ ॥
श्रीपराशर उवाच
ततो ब्रह्मा हरेर्दिव्य विश्वरूपमवेक्ष्य तत् ।
तुष्टाव भूयो देवेषु साध्वसावनतात्मसु ॥ ५४ ॥
ब्रह्मोवाच
नमो नमस्तेस्तु सहस्रकृत्वःसहस्रबाहो बहुवक्त्रपाद ।
नमोनमस्ते जगतः प्रवृत्तिविनाशसंस्थानकराप्रमेय ॥ ५५ ॥
नाकारणादित्यादि ॥ कारण – प्रयोजन सुखम। अकारणम् – अप्रयोजनं दुःखम् । कारणाकारण – मिश्रम् । एतदुक्तं भवति – न नारकिवदधर्म कलानुभवाय तव शरीरग्रहणम् । न च स्वर्गिवत् धर्मफलानुभवार्थम् । नापि मनुष्यादिव दुभयफलानुभवार्थम्। किं तु केवलं धर्मत्राणायेति । यद्वा कस्य – मुखस्य आरणत्वात् प्रापक – त्वात् कारणं धर्मः, तद्विरुद्धमकारणमधर्मः, तदुभयं कारणाकारणम् । एभ्यः कमात् तिर्यग्देवनराणां जन्म ।
तुम तु नैवम् अकर्मवश्यत्वात् । किंतु केवलमिच्छया धर्मत्राणायेति । इच्छागृहीताभिमतोरुदेह न सा कर्मनिमित्तजा इति च वक्ष्यति ॥ ५१ – ५५ ।।
सूक्ष्मातिसूक्ष्मातिबृहत्प्रमाण गरीयसामप्यतिगौरवात्मन् ।
प्रधानबुद्धीन्द्रियवत्प्रधान मूलात्परात्मन् भगवन्प्रसीद ॥ ५६ ॥
एषा मही देव महीप्रसूतैर्महासुरैः पीडितशैलबन्धा ।
परायणं त्वां जगतामुपैति भारावतारार्थमपारसार ॥ ५७ ॥
एते वयं वृत्ररिपुस्तथाऽयं नासत्यदस्त्रौ वरुणस्तथैव ।
इमे च रुद्रा वसवस्ससूर्यास्समीरणाग्निप्रसुखास्तथाऽन्ये ॥ ५८ ॥
सुरास्समस्तास्सुरनाथ कार्यमेभिर्मया यच्च तदीश सर्वाम् ।
आज्ञापयाज्ञां परिपालयन्तस्तवैव तिष्ठाम सदास्तदोषाः ॥ ५९ ॥
सूक्ष्मेते ।। प्रधानस्य–प्रकृतेः बुद्धीन्द्रियवाः पुंसश्च प्रधान – शेषिभूत । तेन मूलभूनादव्यक्तात् परात्मन् । तत्प्रधानेति पाठे, अव्यक्तभ्य बुद्ध्याद्यन्तःकरणस्य चक्षुगदेवणादेव प्रधान – मूलभूत जीवादुत्कृष्ट । प्रधानमूलमिति पाठे, प्रधानमूलभूतस्त्वमित्यर्थः ॥ ५६ – ५९
श्रीपराशर उवाच
एवं संस्तूयमानस्तु भगवान्परमेश्वरः ।
उज्जहारात्मनः केशौ सितकृष्णौ महामुने ॥ ६० ॥
उवाच च सुरानेतौ मत्केशौ वसुधातले ।
अवतीर्य भुवो भारक्लेशहानिं करिष्यतः ॥ ६१ ॥
सुराश्च सकलाःस्वांशैरवतीर्य महीतले ।
कुर्वन्तु युद्धमुन्मत्तैः पूर्वोत्पन्नैर्महासुरैः ॥ ६२ ॥
ततः क्षयमशेषास्ते दैतेया धरमीतले ।
प्रयास्यन्ति न संदेहो मद्दृक्पातविचूर्णिताः ॥ ६३ ॥
एवमिति ॥ केशौ तेजसी । क: – आत्मा तस्मिन् शेत इति केशः । मोक्षधर्मे केशवनामनिर्वचने सूर्यस्य तपतो लोकानग्नेस्सोमस्य चैव हि । अंशवों ये प्रकाशंते मम ते केशसंज्ञिताः ॥ इति ॥ ६० – ६३ ॥
वसुदेवस्य या पत्नी देवकी देवतोपमा ।
तत्रायमष्टमो गर्भो मत्केशो भविता सुराः ॥ ६४ ॥
अवतीर्य च तत्रायं कंसं घातयिता भुवि ।
कालनेमिं समुद्भूतमित्युक्त्वाऽन्तर्दधे हरिः ॥ ६५ ॥
अदृश्याय ततस्तस्मै प्रणिपत्य महामुने ।
मेरुपृष्ठं सुरा जग्मुरवतेरुश्च भूतले ॥ ६६ ॥
कंसाय चाष्टमो गर्भो देवक्या धरणीधरः ।
भविष्यतीत्याचचक्षे भगवान्नारदो मुनिः ॥ ६७ ॥
कंसोऽपि तदुपश्रुत्य नारदात्कुपितस्ततः ।
देवकीं वसुदेवं च गृहे गुप्तावधारयत् ॥ ६८ ॥
वसुदेवेन कंसाय तेनैवोक्तं यथा पुरा ।
तथैव वसुदेवोऽपि पुत्रमर्पितवान् द्विज ॥ ६९ ॥
वसुदेवस्येति ॥ तस्यायमिति पाठे तस्यायमित्यार्षस्सन्धिः ॥ ६४ – ६९ ॥
हिरण्यकशिपोः पुत्राःषड्गर्भा इति विश्रुताः ।
विष्णुप्रयुक्ता स्तान्निद्रा क्रमाद्गर्भानयोजयत् ॥ ७० ॥
हिरण्यकशिपोरिति ॥ षङ्गर्भाः – प्राग्जन्मनाम्ना कीर्तिमत्सुषेणाद्याः । ते हि पूर्वं हिरण्यकशिपोर्भ्रातुः लालनेम्यसुरस्य पुत्रास्तं हिरण्यकशिपुमनादृत्य ब्रह्मार्चनात्कुपितेन तेन भाविजन्मनि पितैव वो निहनिष्यतीति समुद्रे शायिता इति श्रीहरिवंशे । तेन हिरण्यकशिपोः पुत्रा इत्युपचारः । गर्भानयोजयत् – देवकी जठरे मैत्वेनायोजयत् ॥ ७० ॥
योगनिद्रा महामाया वैष्णवी मोहितं यया ।
अविद्यया जगत्सर्वं तामाह भगवान्हरिः ॥ ७१ ॥
श्रीभगवानुवाच
निद्रे गच्छ ममादेशात्पातालतलसंश्रयान् ।
एकैकत्वेन षड्गर्भान्देवकीजठरं नय ॥ ७२ ॥
हतेषु तेषु कंसेन शेषाख्योंऽशस्ततो मम ।
अंशांशेनादरे तस्यास्सप्तमः संभविष्यति ॥ ७३ ॥
योगनिद्रेति ॥ योगनिद्रा – योग एव निद्रा । भगवतः समाधिविशेषो योगः । अयं निद्रायत
इत्यन्येषां व्यामोहकत्वादस्य निद्रात्वम् । सेव विचित्र कार्यकारित्वान्महामाया, ज्ञानविरोधित्वाद्विद्या ॥ ७१ – ७३ ॥
गोकुले वसुदेवस्य भार्याऽन्या रोहिणी स्थिता ।
तस्यास्स संभूतिसमं देवि नेयस्त्वयोदरम् ॥ ७४ ॥
गोकुल इति ॥ तस्याः संभूतिसममिति क्रियाविशेषणम् । गर्भाधान प्रसवकालाविरोधेन नेय इत्यर्थः । प्रागेव हि वसुदेवनिषिक्तगर्भायाः पश्चाद्गोकुलं गताया रोहिण्या जहरे सप्तमासावस्थितं वायुरूपं गर्भमपसार्य तत्र देवकीगर्भं साप्तमासिकं संक्रामयेति हरिवंशे उक्तम् । तस्या उदरं नेय इत्यन्वयः ॥ ७४ ॥
सप्तमो भोजराजस्य भयाद्रोधोपरोधतः ।
देवक्याः पतितो गर्भ इति लोको वदिष्यति ॥ ७५ ॥
गर्भसंकर्षणात्सोऽथ लोके संकर्षणेति वै ।
संज्ञामवाप्स्यते वीरः श्वेताद्रिशिखरोपमः ॥ ७६ ॥
ततोऽहं संभविष्यामि देवकीजठरे शुभे ।
भर्गं त्वया यशोदाया गन्तव्यमविलंबितम् ॥ ७७ ॥
सप्तम इति ॥ रोधोवरोधतः —रुध्यतेऽस्मिन्निति रोधो निरोधस्थानम् ॥ ७५ – ७७ ॥
प्रावृट्काले च नभसि कृष्णाष्टम्यामहं निशि ।
उत्पत्स्यामि नवम्यां तु प्रसूतिं त्वमवाप्स्यसि ॥ ७८ ॥
यशोदाशयने मां तु देवक्यास्त्वामनिन्दिते ।
मच्छक्तिप्रेरितमतिर्वसुदेवो नयिष्यति ॥ ७९ ॥
कंसश्च त्वामुपादाय देवि शैलशिलातले ।
प्रक्षेप्स्यत्यन्तारिक्षे च संस्थानं त्वमवाप्स्यसि ॥ ८० ॥
प्रावृट्काल इति ॥ नभसि — श्रावणे मासि । नवम्याम् – कृष्णाष्टम्या निशाशेषे नैवम्यप्यस्तीति भावः ॥ ७८ – ८० ।।
ततस्त्वां शतदृक्छक्रः प्रणम्य मम गौरवात् ।
प्रणिपातानतशिरा भगिनीत्वे ग्रहीष्यति ॥ ८१ ॥
तत इति ॥ शतदृक् – सहस्रदृक् । शतसहस्रादिशब्दा बह्वर्थवाचिनोऽपि दृश्यन्ते ॥ ८१ ॥
त्वं च शुंभनिशुंभादीन्हत्वा दैत्यान्सहस्रशः ।
स्थानैरनेकैः पृथिवीमशेषां मण्डयिष्यसि ॥ ८२ ॥
त्वं भूतिः सन्नतिः क्षान्तिः कान्तिर्द्यौः पृथिवी धृतिः ।
लज्जापुष्टी रुषा या तु काचिदन्या त्वमेव सा ॥ ८३ ॥
त्वं चेति ॥ स्थानैः योगपीठाख्यायतनैर्विन्ध्य जालंधराद्यैः ॥ ८२, ८३ ॥
ये त्वामार्येति दुर्गेति वेदगर्भांबिकेति च ।
भद्रेति भद्रकालीति क्षेमदा भग्यदेति च ॥ ८४ ॥
य इति ॥ आर्यादिनामाष्टकं दुर्गामन्त्रविशेषोद्धारार्थम् ॥ ८४ ॥
प्रातश्चैवापराह्ने च स्तोष्यन्त्यानम्रमूर्तयः ।
तेषां हि प्रार्थितं सर्वं मत्प्रसादाद्भविष्यति ॥ ८५ ॥
प्रातरिति ॥ मप्रसादादिति । न हि शक्ते: शक्तिमन्तमन्तरेण सामर्थ्यमिति भावः ॥ ८५ ॥
सुरामांसोपहरैश्च भक्ष्यभोज्यैश्च पूजिता ।
नॄणामशेषकामांस्त्वं प्रसन्ना संप्रदास्यसि ॥ ८६ ॥
सुरेति ॥ सुरामांसाद्युपहारस्तु तत्तदधिकारविशेषशूद्रादेः, न सर्वेषाम् ॥ ८६ ॥
ते सर्वे सर्वदा भद्रे मत्प्रसादादसंशयम् ।
असंदिग्धा भविष्यन्ति गच्छ देवि यथोदितम् ।। ८७ ।।
ते सर्व इति ।। ते सर्वे कामाः असंदिग्धाः – अव्यभिचरितावाप्तयः स्युः । अत्र संशयो नास्ति ॥८७॥
इति विष्णुमहापुराणे पञ्चमांशे प्रथमोऽध्यायः ।। १ ।।
पञ्चमांशेद्वितीयोऽध्यायः
श्रीपराशर उवाच
यथोक्तं सा जगद्धात्रा देवदेवेन वै तथा ।
षड्गर्भगर्भविन्यासं चक्रे चान्यस्य कर्षणम् ॥ १ ॥
यथोक्तमिति ॥ षङ्गर्भाख्यानां गर्भे– देवक्या उदरे निक्षेपम्, अन्यस्य – शेषाख्यस्य सप्तमगर्भस्य तज्जठरात् कर्षणम् ॥ १ ॥
सप्तमे रोहिणीं गर्भे प्राप्ते गर्भं ततो हरिः ।
लोकत्रयोपकाराय देवक्याः प्रविवेश ह ॥ २ ॥
योगनिद्रा यशोदायास्तस्मिन्नेव तथा दिने ।
संभूता जठरे तद्वद्यथोक्तं परमेष्ठिना ॥ ३ ॥
ततो ग्रहगणःसम्यक्प्रचचार दिवि द्विज ।
विष्णोरंशे भुवं याते ऋतवश्चाबभुश्शुभाः ॥ ४ ॥
न सेहे देवकीं द्रष्टं कश्तिदप्यतितेजसा ।
जाज्वल्यमानां तां दृष्ट्वा मनांसि क्षोभमाययुः ॥ ५ ॥
अदृष्टाः पुरुषैः स्त्रीभिर्देवकीं देवतागणाः ।
बिभ्राणां वपुषा विष्णुं तुष्टुवुस्तामहर्निशम् ॥ ६ ॥
सप्तम इति ॥ गर्भ इतो रोहिणीं प्राप्ते देवक्या गर्भं हरिः प्रविवेश ॥ २ – ६ ।।
देवता ऊचुः
प्रकृतिस्त्वं परा सूक्ष्मा ब्रह्मगर्भाऽभवत्पुरा ।
ततो वाणी जगद्धातुर्वेदगर्भाऽसि शोभने ॥ ७ ॥
सृज्यस्वरूपगर्भाऽसि सृष्टिभूता सनातने ।
बीजभूता तु सर्वस्य यज्ञभूता भवस्त्रयी ॥ ८ ॥
फलगर्भा त्वमेवेज्या वह्निगर्भा तथारणिः ।
अदितिर्देवगर्भा त्वं दैत्यगर्भा तथा दितिः ॥ ९ ॥
प्रकृतिरिति ॥ ब्रह्मगर्भा आत्मगर्भा । यद्वा ब्रह्मशब्दों महद्वाची या पुराऽभवत् सा त्वमित्यन्वयः । जगद्धातुः संबन्धिनी । वेदगर्भा वाणी – प्रणवः ।। ७ – ९ ।।
ज्योत्स्ना वासरगर्भा त्वं ज्ञानगर्भाऽसि सन्नतिः ।
नयगर्भा परा नीतिर्लज्जा त्वं प्रश्रयोद्वहा ॥ १० ॥
ज्योत्स्नेति ॥ ज्योत्स्ना—प्रासंध्या । सत्सु नतिः सन्नतिः, शुश्रूषा । नीते: – नीतिशास्त्रं, तत्साध्यो न्यायो नयः ॥ १० ॥
कामगर्भा तथेच्छा त्वं तुष्टिः संतोषगर्भिणी ।
मेधा च बोधगर्भाऽसि धैर्यगर्भोद्वहा धृतिः ॥ ११ ॥
कामगर्भेति ॥ कामः – काम्योऽर्थः । तुष्टिस्तृप्तिः, तज्जन्यो हर्षस्संतोषः । मेधा – धारणाशक्तिः । धृतिः—धीप्रतिष्ठा । धैर्यम् – अलौल्यम् ॥ ११ ॥
ग्रहर्क्षतारकागर्भा द्यौरस्यखिलहैतुकी ।
एता विभूतयो देवि तथाऽन्याश्च सहस्रशः ॥ १२ ॥
प्रहर्क्षेति ॥ हेतुरेव हेतुकी। एता इति । एताः प्रकृत्यादयो विभूतयः, अन्याश्च ॥ १२ ॥
तथा संख्या जगद्धात्री सांप्रतं जठरे तव ।
समुद्राद्रिनदीद्वीपवनपत्तनभूषणा ।
ग्रामखर्वटखेटाढ्या समस्ता पृथिवी शुभे ॥ १३ ॥
समस्तवह्नयोंऽभांसि सकलाश्च समीरणाः ।
महोरगास्तथा यक्षा राक्षसाः प्रेतगुद्यकाः ॥ १४ ॥
ग्रहर्क्षतारकाचित्रविमानशतसंकुतम् ।
अवकाशमशेषस्य यद्ददाति नभस्थलम् ॥ १५ ॥
भूलोकश्च भुवर्लोकःस्वर्लोकोऽथ महर्जनः ।
तपश्च ब्रह्मलोकश्च ब्रह्माण्डमखिलं शुभे ॥ १६ ॥
तदन्तरे स्थिता देवा दैत्यगन्धर्वचारणाः ।
महोरगास्तथा यक्षा राक्षसाः प्रेतगुह्यकाः ॥ १७ ॥
मनुष्याः पशवश्चान्ये ये च जीवा यशस्विनि ।
तैरन्तस्थैरनन्तोऽसौ सर्वगः सर्वभावनः ॥ १८ ॥
तथेति ॥ असंख्या जगद्धात्री च तव जठरे ! इदं प्रकृत्यादिभिः तत्सामानाधिकरण्य निबंधनम् ।। १३ – १८॥
(रूप) नामकर्मस्वरूपाणि न परिच्छेदगोचरे ।
यस्याखिलप्रमाणानां स विष्णुर्गर्भगस्तव ॥ १९ ॥
नामकर्मेति ॥ नामादेः प्रमाणानां परिच्छेदागोचरत्वमनवधित्वम् । प्रमाणानीति पाठे, यस्य विभूत्यादेः ज्ञापकानीत्यर्थः ॥ १९ ॥
त्वं स्वाहा त्वं स्वधा विद्या स्वधा त्वं ज्योतिरंबरे ।
त्वं सर्वलोकरक्षार्थमवतीर्णा महीतले ॥ २० ॥
त्वमिति ॥ ज्योतिरम्बर इति । अत्र ज्योतिश्शब्देन अदितिर्द्योरदितिरन्तरिक्षम् इति मन्त्रोक्ता – दितिरुच्यते । सुरम्यदितिभ्यां प्रलोमितः काश्यपो वरुणस्य गां जहार । ततः कुपितेन ब्रह्मणा गोपो भवेति शप्तोऽसौ वसुदेवत्वं गतो गवाध्यक्षोऽभूत् । अदितिर्देवकी सुरभिः रोहेणीति हि हरिवंशे कथा ॥ २० ॥
प्रसीद देवि सर्वस्य जगतश्शं शुभे कुरु ।
प्रीत्या तं धारयेशानं धृतं येनाखिलं जगत् ॥ २१ ॥
प्रसीदेति ॥ प्रीत्या धारय – मातुः प्रीत्या हि गर्भस्य गुणपोषः ॥ २१ ॥
इति श्रीविष्णुमहापुराणे पञ्चमांशे द्वितीयोऽध्यायः ।। २ ।।
अथ पञ्चमांशे तृतीयोऽध्यायः
श्रीपराशर उवाच
एवं संस्तूयमाना सा देवैर्देवमधारयत् ।
गर्भेण पुण्डरीकाक्षं जगतस्त्राणकारणम् ॥ १ ॥
ततोऽखिलजगत्पद्मबोधायाच्युतभानुना ।
देवकीपूर्वसंध्यायाम् आविर्भूतं महात्मना ॥ २ ॥
॥ १,२ ॥
तज्जन्मदिनमत्यर्थमाह्लाद्यमलदिङ्मुखम् ।
बभूव सर्वलोकस्य कौमुदी शशिनो यथा ॥ ३ ॥
संतःसंतोषमधकं प्रशमं चण्डमारुताः ।
प्रसादं निम्नगा याता जायमाने जनार्दने ॥ ४ ॥
सिंधवो निजशब्देन वाद्यं चक्रुर्मनोहरम् ।
जगुर्गन्धर्वपतयो ननृतुश्चाप्सरोगणाः ॥ ५ ॥
ससृजुः पुष्पवर्षाणि देवा भुव्यन्तरिक्षगाः ।
जज्वलुश्चाग्नयः शान्ता जायमाने जनार्दने ॥ ६ ॥
मदं जगर्जुर्जलदाः पुष्पवृष्टिमुचो द्विज ।
अर्धरात्रेऽखिलाधारे जायमाने जनार्दने ॥ ७ ॥
फुल्लेन्दीवरपत्राभं चतुर्बाहुमुदीक्ष्य तम् ।
श्रीवत्सवक्षसं जातं तुष्टावानकदुन्दुभिः ॥ ८ ॥
अभिष्टूय च तं वाग्भिः प्रसन्नाभिर्महामतिः ।
विज्ञापयामास तदा कंसाद्भीतो द्विजोत्तम ॥ ९ ॥
वसुदेव उवाच
जातोऽसि देवदेवेश शङ्खचक्रगदाधरम् ।
दिव्यरूपमिदं देव प्रसादेनोपसंहर ॥ १० ॥
अद्यैव देव कंसोऽयं कुरुते मम घातनम् ।
अवतीर्ण इति ज्ञात्वा त्वमस्मिन्मममन्दिरे ॥ ११ ॥
तज्जन्मेति ॥ आह्लादि – आह्लादकम् ॥ ३ – ११ ॥
देवक्युवाच
योऽनन्तरूपोऽखिलविश्वरूपो गर्भेऽपि लोकान्वपुषा बिभर्ति ।
प्रसीतदामेष स देवदेवो यो माययाऽविष्कृतबालरूपः ॥ १२ ॥
य इति ॥ अखिलविश्वरूपः – अखिलजगद्रूपः । गर्भेऽपि – गर्भस्थितोऽपि । मायया – आश्चर्यरूपया शतया ॥ १२ ॥
उपसंहर सर्वात्मन् रूपमेतच्चतुर्भुजम् ।
जानातु माऽवतारं ते कंसोऽयं दितिजन्मजः ॥ १३ ॥
उपसंहरेति ॥ दितिजन्मजः – दितिजन्मा दैत्यः, तस्माज्जातः । द्रमिडाख्येन दैत्येनोप्रसेनस्य वेष – वरेण तद्भार्यायां चौर्येणोत्पादितः कंस इति हरिवंशोक्तेः ॥ १३ ॥
श्रीभगवानुवाच
स्तुतोऽहं यत्त्वया पूर्वं पुत्रार्थिन्या तदद्य ते ।
सफलं देवि संजातं जातोऽहं यत्तवोदरात् ॥ १४ ॥
श्रीपराशर उवाच
इत्युक्त्वा भगवांस्तूष्णीं बभूव मुनिसत्तम ।
वसुदेवोऽपि तं रात्रावादाय प्रययौ बहिः ॥ १५ ॥
मोहिताश्चाभवंस्तत्र रक्षिणो योगनिद्रया ।
मथुराद्वारपालाश्च व्रजत्यानकदुन्दुभौ ॥ १६ ॥
स्तुत इति । पूर्वं–स्वायंभुवे मन्वन्तरे । युवयोः पृश्निसुतपस्त्वे पृश्निगर्भः स एवादितिकाश्यप – रोर्वामनः, देवकीवसुदेवत्वे कृष्ण इति जातोऽहम् । इत्थं भागवतोक्तम् । कृष्णस्य चतुर्भुजरूपोपसंहारोक्त्या कवसबधान्तं द्विभुजत्वोपलब्धिः। परमार्थतस्तु चतुर्भुजत्वमेव, नरकशिशुपालपौण्ड्क बधादिषु प्रसिद्धेः॥ १४ – १६
वर्षतां जलदानां च तोयमात्युल्बणं निशि ।
संवृत्यानुययौ शेषः फणैरानकदुन्दुभिम् ॥ १७ ॥
वर्षतामिति ॥ अत्युल्बणम् – अतिशब्दम् ॥ १७ ॥
यमुनां चातिगंभीरां नानावर्तशताकुलाम् ।
वसुदेवो वहन्विष्णुं जानुमात्रवहां ययौ ॥ १८ ॥
यमुनामिति ॥ जानुमात्रवहामित्यत्र हेतुः – – वहन् विष्णुमिति ॥ १८ ॥
कंसस्य करदानाय तत्रैवाभ्यागतांस्तटे ।
नन्दादीन्गोपवुद्धांश्च यमुनाया ददर्श सः ॥ १९ ॥
तस्मिन्काले यशोदाऽपि मोहिता योगनिद्रया ।
तामेव कन्यां मैत्रेय प्रसूता मोहिते जने ॥ २० ॥
वसुदेवोऽपि विन्यस्य बालमादाय दारिकाम् ।
यशोदाशयनात्तूर्णमाजगामामितद्युतिः ॥ २१ ॥
ददृशे च प्रबुद्धा सा यशोदा जातमात्मजम् ।
नीलोत्पलदलश्यामं ततोऽत्यर्थं मुदं ययौ ॥ २२ ॥
आदाय वसुदेवोऽपि दारिकां निजमन्दिरे ।
देवकीशयने न्यस्य यथापूर्वमतिष्ठत ॥ २३ ॥
ततो बालध्वनिं श्रुत्वा रक्षिणः सहसोत्थिताः ।
कंसायावेदयामासुर्देवकीप्रसवन् द्विज ॥ २४ ॥
कंसस्तूर्णमुपेत्यैनां ततो जग्राह बालिकाम् ।
मुञ्चमुञ्चेति देवक्या सन्नकण्ठ्या निवारितः ॥ २५ ॥
चिक्षेप च शिलापृष्ठे सा क्षिप्ता वियति स्थिता ।
अवाप रूपं सुमहत्सायुधाष्टमहाभुजम् ॥ २६ ॥
कंसस्येति ॥ नन्दादीन् ददर्श, स्वयं तैरदृष्टः ॥ १९ – २६ ॥
प्रजहास तथैवोच्चैः कंसं च रुषिताऽब्रवीत् ।
किं मया क्षिप्तया कंस जातो यस्त्वां वधिष्यति ॥ २७ ॥
प्रजहासेति ॥ यस्त्वां वषिष्यति स जात इत्यन्वयः ॥ २७ ॥
सर्वस्वभूतो देवानामासीन्मृत्युः पुरा स ते ।
तदेतत्संप्रधार्याशु क्रियतां हितमात्मनः ॥ २८ ॥
इत्युक्त्वा प्रययौ देवी दिव्यस्रग्गन्धभूषणा ।
पश्यतो भोजराजस्य स्तुता सिद्धैर्विहायसा ॥ २९ ॥
सर्वस्वभूत इति ॥ पुरा– कालनेमित्वे ॥ २८,२९ ॥
इति श्रीविष्णुमहापुराणे पञ्चमांशे तृतीयोऽध्यायः ।। ३ ।।
अथ पञ्चमांशेचतुर्थोऽध्यायः
श्रीपराशर उवाच
कंसस्ततोद्विग्नमनाः प्राह सर्वान्महासुरान् ।
प्रलंबकेशिप्रमुखानाहूयासुरपुङ्गवान् ॥ १ ॥
कंस इति ॥ ततोद्विग्नेत्यार्ष: संधिः ॥ १ ॥
कंस उवाच
हे प्रलंब महाबाहो केशिन् धेनुक पूतने ।
अरिष्टाद्यास्तथैवान्ये श्रूयतां वचनं मम ॥ २ ॥
मां हन्तुममरैर्यत्नः कृतः किल दुरात्मभिः ।
मद्वीर्यतापितान्वीरो न त्वेतान्गणयाम्यहम् ॥ ३ ॥
किमिन्द्रेणाल्पवीर्येण किं हरेणैकचारिणा ।
हरिणा वापि किं साध्यं छिद्रेष्वसुरघातिना ॥ ४ ॥
किमादित्यैः किं वसुभिरल्पवीर्यैः किमग्निभिः ।
किंवाऽन्यैरमरैः सर्वैर्मद्बाहुबलनिर्जितैः ॥ ५ ॥
किं न दृष्टोऽमरपतिर्मया संयुगमेत्य सः ।
पृष्ठेनैव वहन्बाणानपगच्छन्नवक्षसा ॥ ६ ॥
हे प्रलंबेति ॥ हे प्रलंबेत्यादि युष्माभिरन्यैश्च श्रूयताम् इत्यन्वयः ॥ २ – ६ ॥
मद्राष्ट्रे वारिता वृष्टिर्यदा शक्रेण किं तदा ।
मद्बाणभिन्नैर्जलदैरापोऽमुक्ता यथेप्सिताः ॥ ७ ॥
मद्रष्ट्र इति ॥ आपोमुक्ताः – : – अनुक्ता इति च्छेदः ॥ ७ ॥
किमुर्व्यामवनीपाला मद्बाहुबलभीरवः ।
ते सर्वेऽसन्नतिं याता जरासंधमृते गुरम् ॥ ८ ॥
अमरेषु ममावज्ञा जायते दैत्यपुङ्गवाः ।
हास्यं मे जायते वीरास्तेषु यत्नपरेष्वपि ॥ ९ ॥
तथाऽपि खलु दुष्टानां तेषामप्यधिकं मया ।
अपकाराय दैत्येन्द्रा यतनीयं दुरात्मनाम् ॥ १० ॥
किमुर्व्यामिति ॥ ते सर्वे सन्नतिमित्यत्र असन्नतिमिति पदच्छेदः । न सर्व इति वा पाठः । गुरूं – शुरम् ।। ८ – १० ।।
तद्ये यशस्विनः केचित्पृथिव्यां ये च यज्वनः ।
कार्यो देवापकाराय तेषां सर्वात्मना वधः ॥ ११ ॥
उत्पन्नश्चापि मे मृत्युर्भूतपूर्वःस वै किल ।
इत्येतद्दारिका प्राह देवकीगर्भसंभवा ॥ १२ ॥
तस्माद्बालेषु च परो यत्नः कार्यो महीतले ।
यत्रोद्रिक्तं बलं बाले स हन्तव्यः प्रयत्नतः ॥ १३ ॥
इत्याज्ञाप्यासुरान्कसः प्रविश्याशु गृहं ततः ।
मुमोच वसुदेवं च देवकीं च निरोधतः ॥ १४ ॥
कंस उवाच
युवयोर्घातिता गर्भा वृथैवैते मयाऽधुना ।
कोऽप्यन्य एव नाशाय मम गर्भःसमुद्यतः ॥ १५ ॥
तदिति ॥ यज्वनः –यज्वान: ; दीर्घाभाव आर्ष: । बधान्निरन्ना देवा नक्ष्यन्तीति देवापकारः ॥
२ – १५॥
तदलं परितापेन नुनं तद्भाविनो हि ते ।
अर्भका युवयोर्दोषाच्चायुषो यद्वियोजिताः ॥ १६ ॥
श्रीपराशर उवाच
इत्याश्वास्य विमुक्त्वा च कंसस्तौ परिशङ्कितः ।
अन्तर्गृहं द्विजश्रेष्ठ प्रविवेश ततः स्वकम् ॥ १७ ॥
तदलमिति ॥ तद्भाविनः – भवितव्यतादृशमरणाः ॥ १६,१७ ॥
इति श्रीविष्णुमहापुराणे पञ्चमांशे चतुर्थोऽध्यायः ।। ४ ।।
अथ पञ्चमांशे पञ्चमोऽध्यायः
श्रीपराशर उवाच
विमुक्तो वसुदेवोऽपि नन्दस्य शकटं गतः ।
प्रहृष्टं दृष्टवान्नन्दं पुत्रो जातो ममेति वै ॥ १ ॥
वसुदेवोपि तं प्राह दिष्ट्यादिष्ट्येति सादरम् ।
वार्धकेऽपि समुत्पन्नस्तनयोऽयं तवाधुना ॥ २ ॥
॥ १,२ ॥
दत्तो हि वार्षिकःसर्वो भवद्भिर्नृपतेः करः ।
यदर्थमागतास्तस्मान्नात्र स्थेयं महाधनैः ॥ ३ ॥
यदर्थमागताः कार्यं तन्निष्पन्नं किमास्यते ।
भवद्भिर्गम्यतां नन्द तच्छीघ्रं निजगोकुलम् ॥ ४ ॥
ममापि बालकस्तत्र रोहिणीप्रभवो हि यः ।
स रक्षणीयो भवता यथाऽयं तनयो निजः ॥ ५ ॥
इत्युक्ताः प्रययुर्गोपा नन्दगोपपुरोगमाः ।
शकटारोपितैर्भाडैः करं दत्त्वा महाबलाः ॥ ६ ॥
वसतां गोकुले तेषां पूतना बालघातिनी ।
सुप्तं कृष्णमुपादाय रात्रौ तस्मै स्तनं ददौ ॥ ७ ॥
यस्मै यस्मै स्तनं रात्रौ पूतना संप्रयच्छति ।
तस्यतस्य क्षणेनाङ्गं बालकस्योपहन्यते ॥ ८ ॥
कृष्णस्तु तत्स्तनं गाढं कराभ्यामतिपीडितम् ।
गृहीत्वा प्राणसहितं पपौक्रोधसमन्वितः ॥ ९ ॥
साऽतिमुक्तमहारावा विच्छिन्नस्त्रायुबन्धना ।
पपात पूतना भूमौ म्रियमाणातिभीषणा ॥ १० ॥
तन्नादश्रुतिसंत्रस्ताः प्रवुद्धास्ते व्रजौकसः ।
ददृशुः पूतनोत्संगे कृष्णं तां च निपातिताम् ॥ ११ ॥
आदाय कृष्णं संत्रस्ता यशोदाऽपि द्विजोत्तम ।
गोपुच्छभ्रामणेनाथ बालदोषमपाकरोत् ॥ १२ ॥
गोकरीषमुपादाय नन्दगोपोऽपि मस्तके ।
कृष्णस्य प्रददो रक्षां कुर्वश्चैतदुदीरयन् ॥ १३ ॥
नन्दगोप उवाच
रक्षतु त्वामशेषाणां भूतानां प्रभवो हरिः ।
यस्य नाभिसमुद्भूतपङ्कजादभवज्जगत् ॥ १४ ॥
येन दंष्ट्राग्रविधृता धारयत्यवनिर्जगत् ।
वराहरूपधृग्देवःस त्वां रक्षतु केशवः ॥ १५ ॥
नखाङ्कुरविनिर्भिन्नवैरिवक्षस्थलो विभुः ।
नृसिंहरूपी सर्वत्र रक्षतु त्वां जनार्दनः ॥ १६ ॥
दत्तो हीति ॥ वार्षिक: – सांवत्सरिकः । नात्र स्थेयमित्यादिना महाधनानां दुष्टनृप –
समीपस्थितिर्दोषाय तद्गम्यतामिति स्वसुतरक्षणामिप्रायेणोक्तिः सूचिता ॥ ३ – १६ ॥
वामनो रक्षतु सदा भवन्तं यः क्षणादभूत् ।
त्रिविक्रमक्रमाक्रान्तत्रैलोक्यः स्फुरदायुधः ॥ १७ ॥
शिरस्ते पातु गोविन्दः कण्ठं रक्षतु केशवः ।
गुह्यं च जठरं विष्णुर्जंघे पादौ जनार्दनः ॥ १८ ॥
वामन इति ॥ त्रिभिर्विक्रमैः – पदन्यासैः, क्रमेणाक्रान्तत्रैलोक्यः ॥ १७ – १८ ॥
मुखं बाहू प्रबाहू च मनः सर्वेद्रियाणि च ।
रक्षत्वव्याहतैश्वर्यस्तव नारायणोऽव्ययः ॥ १९ ॥
शार्ङ्गचक्रगदापाणेः शङ्खनादहताः क्षयम् ।
गच्छन्तु प्रेतकूष्माण्डराक्षसा ये तवाहिताः ॥ २० ॥
त्वां पातु दिक्षु वैकुण्ठो विदिक्षु मधुसूदनः ।
हृषीकेशोंऽबरे भूमौ रक्षतु त्वां महीधरः ॥ २१ ॥
मुखमिति ।। प्रबाहू – कूर्परादधोभागौ ॥ १९–२१ ॥
श्रीपराशर उवाच
एवं कृतस्वस्त्ययनो नन्दगोपेन बालकः ।
शायितः शकटस्याधो बालपर्यङ्किकातले ॥ २२ ॥
ते च गोपा महद्दृष्ट्वा पूतनायाः कलेवरम् ।
मृतायाः परमं त्रासं विस्मयं च तदा ययुः ॥ २३ ॥
एवमिति ।। स्वस्त्ययनं – क्षेमप्रापणं कर्म । बालपर्यंकिका – बालार्थोऽल्पपर्यङ्कः । तलम् – उपरिभागः ।। २३ ॥
इति श्रीविष्णुमहापुराणे पञ्चमांशे पञ्चमोऽध्यायः ।। ५ ।।
अथ पञ्चमांशे षष्ठोऽध्यायः
श्रीपराशर उवाच
कदाचिच्छकटस्याधः शयानो मधुसूदनः ।
चिक्षेप चरणावूर्ध्वं स्तन्यार्थी प्ररुरोद ह ॥ १ ॥
॥ १ ॥
तस्य पादप्रहारेण शकटं परिवर्तितम् ।
विध्वस्तकुंभभाण्डं तद्विपरीतं पपात वै ॥ २ ॥
ततो हाहाकृतः सर्वो गोपरोपीजनो द्विज ।
आजगामाथ ददृशे बालमुत्तानशायिनम् ॥ ३ ॥
तस्येति ॥ विध्वस्तकुंभभाण्डं – कुंभाः – घटाः, भाण्डानि – गर्गर्याद्युपकरणानि । कुप्यभाण्ड – पाठे स्वर्णरजतेतरद्रव्यमयभाण्डमित्यर्थः । शकटं मुराविष्टम् । तदा शकटरूपेण दैत्यस्तामाश्रितो मुरः हरिवंशे ॥ २, ३ ॥
गोपाः केनेति केनेदं शकटं परिवर्तितम् ।
तत्रैव बालकाः प्रोचुर्बालेनानेन पातितम् ॥ ४ ॥
रुदता दृष्टमस्माभिः पादविक्षेपपातितम् ।
शकटं परिवृत्तं वै नैतदन्यस्य चेष्टितम् ॥ ५ ॥
ततः पुनरतीवासन्गोपा विस्मयचेतसः ।
नन्दगोपोऽपि जग्राह बालमत्यन्तविस्मितः ॥ ६ ॥
गोपा इति । केनकेनेत्यत्रापि प्रोचुरित्यन्वयः । विस्मयाद्वीप्सा ॥ ४ – ६॥
यशोदा शकटारूढभग्नभाण्डकपालिकाः ।
शकटं चार्चयामास दधिपुष्पफलाक्षतैः ॥ ७ ॥
यशोदेत्यादि । अर्चनार्थं शकटे आरोपिता: भग्नभाण्डकपालिकाः यथा सा ॥ ७ ॥
गर्गश्च गोकुले तत्र वसुदेवप्रचोदितः ।
प्रच्छन्न एव गोपानां संस्कारानकरोत्तयोः ॥ ८ ॥
गर्गश्चेति ॥ गर्गः– यदुपुरोहितः । गोपानां संछन्न: – तैरज्ञातः ॥ ८ ॥
ज्येष्ठं च राममित्याह कृष्णं चैव तथाऽवरम् ।
गर्गो मतिमतां श्रेष्ठो नाम कुर्वन्महामतिः ॥ ९ ॥
ज्येष्ठमिति ॥ मतिमतां – मुनीनाम् ॥ ९ ॥
स्वल्पेनैव तु कालेन रङ्गिणौ तौ तदा व्रजे ।
घृष्टजानुकरौ विप्र बभूवतुरुभावपि ॥ १० ॥
करीषभस्मदिग्धाङ्गौ भ्रममाणावितस्ततः ।
न निवारयितुं सेहे यशोदा तौ न रोहिणी ॥ ११ ॥
स्वल्पेनेति ॥ रंगिणौ–संचारिणौ ॥ १०, ११ ॥
गोवाटमध्ये क्रीडन्तौ वत्सवाटं गतौ पुनः ।
तदहर्जातगोवत्सपुच्छाकर्षणतत्परौ ॥ १२ ॥
यदा यशोदा तौ बालावेकस्थानचरावुभौ ।
शशाक नो वारयितुं क्रीडन्तावतिचञ्चलौ ॥ १३ ॥
दाम्ना मध्ये ततो बद्ध्वा बबन्ध तमुलूखले ।
कृष्णमक्लिष्टकर्माणमाह चेदममर्षिता ॥ १४ ॥
यदि शक्नोषि गच्छ त्वमतिचञ्चलचेष्टित ।
इत्युक्त्वाऽथ निजं कर्म सा चकार कुटुंबिनी ॥ १५ ॥
व्याग्रायामथ तस्यां स कर्षमाण उलूखलम् ।
यमलार्जुनमध्येन जगाम कमलेक्षणः ॥ १६ ॥
कर्षता वृक्षयोर्मध्ये तिर्यग्गतमुलूखलम् ।
भग्नावुत्तुङ्गशाखाग्रौ तेन तौ यमलार्जुनौ ॥ १७ ॥
ततः कटकटाशब्दसमाकर्णनतत्परः ।
आजगाम व्रजजनो ददर्श च महाद्रुमौ ॥ १८ ॥
नवोद्गताल्पदन्तांशुसितहासं च बालकम् ।
तयोर्मध्यगतं दाम्ना बद्धं गाढं तथोदरे ॥ १९ ॥
ततश्च तामोदरतां स ययौ दामबन्धनात् ॥ २० ॥
गोपवृद्धास्ततः सर्वे नन्दगोपपुरोगमाः ।
मन्त्रयामासुरुद्विग्ना महोत्पातातिभीरवः ॥ २१ ॥
गोवाटमध्य इति ॥ गोवाटं— गोक्षेत्रम् ।। १२ – २१ ॥
स्थाने नेह न नः कार्यं व्रजामोऽन्यन्महावनम् ।
उत्पाता बहवो ह्यत्र दृश्यन्ते नाशहेतवः ॥ २२ ॥
पूतनाया विनाशश्च शकटस्य विपर्ययः ।
विना वातादिदोषेण द्रुमयोः पतनन्तथा ॥ २३ ॥
स्थानेनेति ॥ स्थानेन — स्थित्या ॥ २२ – २३ ॥
वृन्दावनमितःस्थानात्तस्माद्गच्छाम मा चिरम् ।
यावद्भौममहोत्पातदोषो नाभिभवेद्व्रजम् ॥ २४ ॥
वृन्दावनमिति ॥ इतः—बृहद्वनाख्यात्, भौममहोत्पात: – चरस्थिरेषु विकृतिः । स सप्तरात्रपाकः । तत्पाककालात्प्राक् तद्भूमित्यागिनां न दोष इति श्रूयते ॥ २४ ॥
इति कृत्वा मतिं सर्वे गमने ते व्रजौकसः ।
ऊचुस्स्वं स्वं कुलं शीघ्रं गम्यतां मा विलंबथ ॥ २५ ॥
इतीति ॥ कुलं कुटुंबम् ॥ २५ ॥
ततः क्षणेन प्रययुः शकटैर्गोधनैस्तथा ।
यूथशो वत्सपालाश्च कालयन्तो व्रजौकसः ॥ २६ ॥
तत इति ॥ कालयन्तः – चारयन्तः । गोधनमिति शेषः ॥ २६ ॥
द्रव्यावयवनिर्धूतं क्षणमात्रेण तत्तथा ।
काकभाससमाकीर्णं व्रजस्थानमभूद्विज ॥ २७ ॥
वृन्दावनं भगवता कृष्णेनाक्लिष्टकर्मणा ।
शुभेन मनसा ध्यातं गवं सिद्धिमभीप्सता ॥ २८ ॥
ततस्तत्रातिरूक्षेऽपि घर्मकाले द्विजोत्तम ।
प्रावृट्काल इवोद्भूतं नवशष्पं समन्ततः ॥ २९ ॥
द्रव्यावयवेति ॥ द्रव्यावयवनिर्धूतं – वीह्यन्नदध्यादिद्रव्यावयवाः निर्धूना: – आकीर्णा यत्र । क्तोऽधि – करणे च इति सूत्रम् ।। २७ – २९ ।।
स समावासितः सर्वो व्रजो वृन्दावने ततः ।
शकटावाटपर्यन्तश्चन्द्रार्धाकारसंस्थितः ॥ ३० ॥
स इति ॥ शकटीवाट: – अल्पशकटीश्रेणी प्रान्ते यस्य सः । व्रततिवावी वा वाटशब्दः । चंद्रार्द्धाकारत्वं यमुनानुरोधात् । शकटीवाटपर्यन्त इति च पाठः ॥ ३० ॥
वत्सपालौ च संवृत्तौ रामदामोदरौ ततः ।
एकस्थानस्थितौ गोष्ठे चेरतुर्बाललीलया ॥ ३१ ॥
वत्सपालाविति ॥ एकस्थान स्थितौ — लीलास्थान स्थितौ ॥ ३१ ॥
बर्हिपत्रकृतापीडौ वन्यपुष्पावतंसकौ ।
गोपवेणुकृतातोद्यपत्रवाद्यकृतस्वनौ ॥ ३२ ॥
बर्होति ॥ आपीड: — शेखरः । गोपवेणुकृतातोद्यपत्रवाद्यकृत स्वनौ – गोपोचितवेणुभिरेव रचित – मुरजादिकृत्यौ, पर्णमयत्राद्यैः कृतस्वनौ च ॥ ३२ ॥
काकपक्षधरौ बालौ कुमाराविव पावकी ।
हसंतौ च रमन्तौ च चेरतुः स्म महावनम् ॥ ३३ ॥
क्वचिद्वहन्तावन्योन्यं क्रीडमानौ तथा परैः ।
गोपपुत्रैः समं वत्सांश्चारयन्तौ विचेरतुः ॥ ३४ ॥
कालेन गच्छता तौ तु सप्तवर्षौ महाव्रजे ।
सर्वस्य जगतः पालौ वत्सपालौ बभूवतुः ॥ ३५ ॥
प्रावृट्कालस्ततोऽतीव मेघौघस्थगितांबरः ।
बभूव वारिधाराभिरैक्यं कुर्वन्दिशामिव ॥ ३६ ॥
काकपक्षधराविति ॥ काकपक्षः – शिखा । पात्रकी – शाख विशाखाख्यौ स्कन्दांशौ ॥ ३३ – ३६ ।।
प्ररूढनवशष्पाढ्या शक्रगोपाचिता मही ।
तथा मारकतीवासीत्पद्मरागविभूषिता ॥ ३७ ॥
प्ररूढेति ॥ शक्रगोपः – अरुणः कीट विशेषः । मारकती – मरकतमयी ॥ ३७ ॥
ऊहुरुन्मार्गवाहीनि निम्नगांभांसि सर्वतः ।
मनांसि दुर्विनीतानां प्राप्य लक्ष्मीं नवामिव ॥ ३८ ॥
ऊहुरितिः ॥ ऊहुः – जग्मुः । वहतिरत्र प्रापणे ॥ ३८ ॥
न रेजेऽन्तरितश्चन्द्रो निर्मलो मलिनैर्घनैः ।
सद्वादिवादो मूर्खाणां प्रगल्भाभिरिवोक्तिभिः ॥ ३९ ॥
नेति ॥ सद्वादिवादः – वैदिकवादः । मूर्खा: – वेदबाह्यकुदृष्टयः ॥ ३९ ॥
निर्गुणेनापि चापेन शक्रस्य गगने पदम् ।
अवाप्यताविवेकस्य नृपस्येव परिग्रहे ॥ ४० ॥
निर्गुणेनेति ॥ अविवेकनृपतिपरिग्रहे निर्गुणेन पुरुषेणेव ॥ ४० ॥
मेघपृष्ठे बलाकानां रराज विमला ततिः ।
दुर्वत्ते वृत्तचेष्टेव कुलीनस्यातिशौभना ॥ ४१ ॥
न बबन्धांबरे स्थैर्यं विद्युदत्यन्तचञ्चला ।
मैत्रीव प्रवरे पुंसि दुर्जनेन प्रयोजिता ॥ ४२ ॥
मेघपृष्ठ इति ॥ दुर्वृत्ते–अपकारिणि, कुलीनस्य – अभिजातस्य, वृत्तचेष्टा – सच्चरितमुपकारादिकं लब्धपरभागमौज्ज्वल्यं याति । यद्वा दुर्वृत्तलक्षणं दृष्ट्वा सज्जनचेष्टेव ॥ ४१,४२ ॥
मार्गा बभूवुरस्पष्टास्तृणशष्पचयावृताः ।
अर्थान्तरमनुप्राप्ताः प्रजडानामिवोक्तयः ॥ ४३ ॥
मार्गा इति ॥ अर्थान्तरं – स्वविवक्षितादन्यमर्थम् ॥ ४३ ॥
उन्मत्तशिखिसारङ्गे तस्मिन्काले महावने ।
कृष्णरामौ मुदायुक्तौ गोपालैश्चेरतुः सह ॥ ४४ ॥
उन्मत्तेति ।। सारंग:– चातकः ऋष्यो वा ॥ ४४ ॥
क्वचिद्गोभिः समं रम्यं गेयतानरतावुभौ ।
चेरतुः क्वचिदत्यर्थं शीतवृक्षतलाश्रितौ ॥ ४५ ॥
क्वचित्कदंबस्रक्चित्रौ मयूरस्रग्विराजितौ ।
विलिप्तौ क्वचिदासातां विविधैर्गिरिधातुभिः ॥ ४६ ॥
कचिदिति ॥ गेयतानरतौ – तानो नाम गायतोऽन्यस्यान्येन वेण्वादिकृत्य श्रुत्याद्यनुग्रहः ॥ ४५ – ४६ ॥
पर्णशय्यासु संसुप्तौ क्वचिन्निद्रान्तरैषिणौ ।
क्वचिद्गर्जति जीमूते हाहाकाररवाकुलौ ॥ ४७ ॥
पर्णशय्यास्वति ॥ निद्रान्तरैषिणौ – निद्रार्थमवकाशार्थिनौ ॥ ४७ ॥
गायतामन्य गोपानां प्रशंसापरमौ क्वचित् ।
मयूरकेकानुगतौ गोपवेणुप्रवादकौ ॥ ४८ ॥
इति नानाविधैर्भावैरुत्तमप्रीतिसंयुतौ ।
क्रीडन्तौ तौ वने तस्मिञ्चेरतुस्तुष्टमानसौ ॥ ४९ ॥
गायतामिति ॥ केकानुगतौ – तारध्वन्यनुगतौ । तदुक्तम् तारं तु विद्यात्सवनं तृतीयं शिरोगतं तच्च सदा प्रयोग्यम् । मयूरहंसान्यभृतस्वराणां तुल्येन नादेन शिरः स्थितेन इति ॥ ४८, ४९ ॥
विकाले च समं गोभिर्गोपवृन्दसमन्वितौ ।
विहृत्याथ यथायोगं व्रजमेत्य महाबलौ ॥ ५० ॥
गोपैः समानैः सहितौ क्रीडन्तावमराविव ।
एवं तावूषतुस्तत्र रामकृष्णौ महाद्युती ॥ ५१ ॥
विकाले चेति ॥ विकाले – रात्रावपि ॥ ५०, ५१ ॥
इति श्रीविष्णुमहापुराणे पञ्चमांशे षष्ठोध्यायः ।। ६ ।।
अथ पञ्चमांशे सप्तमोऽध्यायः
श्रीपराशर उवाच
एकदा तु विना रामं कृष्णो वृन्दावनं ययौ ।
विचचार वृतो गोपैर्वन्यपुष्पस्रगुज्ज्वलः ॥ १ ॥
एकदा त्विति ॥ विना रामम् – स हि तस्य नागह्रदप्रवेशं नानुमन्येत ॥ १ ॥
स जगामाथ कालिन्दीं लोल कल्लोलशालिनीम् ।
तीरसंलग्नफेनौघैर्हसन्तीमिव सर्वतः ॥ २ ॥
स इति ॥ फेनस्य शौक्ल्याद्धसन्ती मिवेत्युत्प्रेक्ष! । हसन्तीम् – अङ्गारशकटिका मिवेत्युपमा वा । अत्र ज्वालावत्कल्लोलः, भस्मवत्फेनः ॥ २ ॥
तस्याश्चतिमहाभीमं विषाग्निश्रितवारिणम् ।
ह्रदं कालीयनागस्य ददर्शातिविभीषणम् ॥ ३ ॥
विषाग्निना प्रसरता दग्धतीरमहीरुहम् ।
वाताहतांबुविक्षेपस्पर्शदग्धविहङ्गमम् ॥ ४ ॥
तमतीव महा रौद्रं मृत्युवक्रमिवापरम् ।
विलोक्य चिन्तयामास भगवान्मधुसूदनः ॥ ५ ॥
तस्या इति ॥ श्रितं – तप्तम् ॥ ३ – ५ ॥
अस्मिन्वसति दुष्टात्मा कालीयोऽसौ विषायुधः ।
यो मया निर्जितस्त्यक्त्वा दुष्टो गच्छेत्पयोनिधिम् ॥ ६ ॥
तेनेयं दूषिता सर्वा यमुना सागरङ्गमा ।
न नरैगोधनैश्चापि तृषार्तैरुपभुज्यते ॥ ७ ॥
तदस्य नागराजस्य कर्तव्यो निग्रहो मया ।
निस्त्रासास्तु सुखं येन चरेयुर्व्रजवासिनः ॥ ८ ॥
एतदर्थं तु लोकेस्मिन्नवतारः कृतो मया ।
यदेषामुत्पथस्थानां कार्या शान्तिर्दुरात्मनाम् ॥ ९ ॥
अस्मिन्निति ॥ यो मयेत्यादि । मया – मद्विभूतिभूतेन तार्क्ष्येत्यर्थः । नष्ट: – न दृष्टः । सोऽस्मिन् मत्स्यानुजिवृक्षु सौभरिशापभीततार्क्ष्यदुष्प्रवेशे वसति । अयमर्थो भागवते द्रष्टव्यः ॥ ६ – ९ ॥
तदेतं नातिदूरस्थं कदंबमुरुशाखिनम् ।
अदिरुद्य पतिष्यामि ह्रदेऽस्मिन्ननिलाशिनः ॥ १० ॥
तदिति ॥ कदंबोऽसावमृतमानयता तार्क्ष्येणक्रान्ततत्वान्न दग्ध इति पुराणान्तरसिद्धम् ॥ १० ॥
श्रीपराशर उवाच
इत्थं विचिन्त्य बद्धा च गाढं परिकरं ततः ।
निपपात ह्रदे तत्र नागराजस्य वेगतः ॥ ११ ॥
तेनातिपतता तत्र क्षोभितःस महाह्रदः ।
अत्यर्थं दूरजातांस्तु समसिंचन्महीरुहान् ॥ १२ ॥
ते हि दुष्टविषज्वालातप्तांबुपवनोक्षिताः ।
जज्वलुः पादपाःसद्यो ज्वालाव्याप्तदिगन्तराः ॥ १३ ॥
आस्फोटयामास तदा कृष्णो नागह्रने भुजम् ।
तच्छब्दश्रवणाच्चाशु नागराजोऽभ्युपागमत् ॥ १४ ॥
आताम्रनयनः कोपाद्विषज्वालाकुलैर्मुखैः ।
वृतो महाविषैश्चान्यैरुरगैरनिलाशनैः ॥ १५ ॥
इत्थमिति ॥ परितः क्रियत इति परिकरो वस्त्रम् । ११ – १५ ।।
नागपत्न्यश्च शतशो हारिहारोपशोभिताः ।
प्रकंपिततनुक्षेपचलत्कुन्तलकान्तयः ॥ १६ ॥
ततः प्रवेष्टितःसर्पैः स कृष्णो भोगबन्धनैः ।
ददंशुस्तेऽपि तं कृष्णं विषज्वालाकुलैर्मुखैः ॥ १७ ॥
नागपत्न्यश्चेति । हारिहारेत्यादिना हारादिभूषितत्वोक्तेः, व्यक्तवाक्योक्तेश्च तासां मनुष्यसमपूर्व – कायत्वं विज्ञेयम् ।। १६–१७ ।।
तं तत्र पतितं दृष्ट्वा सर्पभोगौर्निपीडितम् ।
गोपा व्रजमुपागम्य चुक्रुशुः शोकलालसाः ॥ १८ ॥
गोपा ऊचुः
एष मोहं गतः कृष्णो मग्नौ वै कालियह्रदे ।
भक्ष्यते नागराजेन तमागच्छत पश्यत ॥ १९ ॥
तच्छुत्वा तत्र ते गोपा वज्रपा तोपमं वचः ।
गोप्यश्च त्वरीता जग्मुर्यशोदाप्रमुखा ह्रदम् ॥ २० ॥
तमिति ॥ लालसाः – व्याकुलाः । पश्यतेति चुक्रुशुः ॥ १८ – २० ॥
हाहा क्वासाविति जनो गोपीनामतिविह्वलः ।
यशोदया समं भ्रान्तो द्रुतप्रस्खलितं ययौ ॥ २१ ॥
हाहेति ॥ विह्वलः –परवशः ।’ २१ ॥
नन्दगोपश्च गोपाश्च रामश्चाद्भुतविक्रमः ।
त्वरितं यमुनां जग्मुः कृष्णदर्शनलालासाः ॥ २२ ॥
ददृशुश्चापि ते तत्र सर्पराजवशङ्गतम् ।
निष्प्रयत्नीकृतं कृष्णं सर्पभोगविवेष्टितम् ॥ २३ ॥
नन्दगोपोऽपि निश्चेष्टो न्यस्य पुत्रमुखे दृशम् ।
यशोदा च महाभागा बभूव मुनिसत्तम ॥ २४ ॥
नन्दगोप इति ॥ कृष्णदर्शनलालसाः । अत्र लालसपदमौत्सुक्यपरम् ॥ २२ – २४ ॥
गोप्यस्त्वन्या रुदन्त्यश्च ददृशुः शोककातराः ।
प्रोचुश्च केशवं प्रीत्या भयकातर्यगद्गदम् ॥ २५ ॥
गोप्य ऊचुः
सर्वा यशोदया सार्धं विशामोऽत्र महाह्रदम् ।
सर्पराजस्य नो गन्तुमस्माभिर्युज्यते व्रजम् ॥ २६ ॥
दिवसः सो विना सूर्यं विना चन्द्रेण का निशा ।
विना वृषेण का गावो विना कृष्णेन को व्रजः ॥ २७ ॥
विनाकृता न यास्यामः कृष्णेनानेन गोकुलम् ।
अरम्यं नातिसेव्यं च वारिहीनं यथा सरः ॥ २८ ॥
गोप्य इति ॥ कातराः – अधीराः ॥ २५ – २८॥
यत्र नेन्दीवरश्यामकायकान्तिरयं हरिः ।
तेनापि पातुर्वासेन रतिरस्तीति विस्मयः ॥ २९ ॥
यत्रेति ॥ यत्र न हरिः तेनापि मातुर्वासेन – जननीगृहेणापि रतिरस्ति चेद्विस्मयः । कृष्णरहित मातृगृहेऽपि प्रीतिर्नास्तीत्यर्थः ॥ २९ ॥
उत्फुल्लपङ्कजदलस्पष्टकान्तिविलोचनम् ।
अपश्यन्तो हरिं दीनाः कथं गोष्ठे भविष्यथ ॥ ३० ॥
उत्फुल्लेति ॥ कथं भविष्यथ – कथमपि भवितुं न शक्ष्यथेत्यर्थः ॥ ३० ॥
अत्यन्त मधुरालापहृताशेषमनोरथम् ।
न विना पुण्डरीकाक्षं यास्यामो नन्दगोकुलम् ॥ ३१ ॥
अत्यर्थेति ॥ अत्यर्थम् –अत्यन्तम् ॥ ३१ ॥
भोगेनाविष्टितस्यापि सर्पराजस्य पश्यत ।
स्मितशोभिमुखं गोप्यः कृष्णस्यास्मद्विलोकने ॥ ३२ ॥
भोगेनेति ॥ अस्मद्विलोकने सतीति शेषः ॥ ३२ ॥
श्रीपराशर उवाच
इति गोपीवचः श्रुत्वा रौहिणेयो महाबलः ।
गोपांश्च त्रासविधुरान्विलोक्य स्तिमितेक्षणान् ॥ ३३ ॥
इतीति ॥ त्रासविधुरान् – त्रासनिश्चेष्टान् ॥ ३३ ॥
नन्दं च दीनमत्यर्थं न्यस्तदृष्टिं सुतानने ।
मूर्छाकुलां यशोदां च कृष्णमाहात्मसंज्ञया ॥ ३४ ॥
नन्दं चेति ॥ आत्मसंज्ञया— अनन्यवेद्येन संकेतेन ॥ ५७ ॥
किमिदं देवदेवेश भावोऽयं मानुषस्त्वया ।
व्यज्यतेऽत्यन्तमात्मानं किमनन्तं न वेत्सि यत् ॥ ३५ ॥
किमिदमिति ॥ किं त्वमात्मानमनन्तम् – ईश्वरं यन्न वेत्सि, तेन सर्पदष्टत्वमूर्च्छादिरयं मानुषो भावः अत्यन्तं व्यज्यते, किमिदमित्मन्वयः ॥ ३५ ॥
त्वमेव जगतो नाभिरराणामिव संश्रयः ।
कर्ताऽपहर्ता पाता च त्रौलोक्यं त्वं त्रयीमयः ॥ ३६ ॥
सेन्द्रै रुद्राग्निवसुभिरादित्यैर्मरुदश्विभिः ।
चिन्त्यसे त्वमचिन्त्यात्मन् समस्तैश्चैव योगिभिः ॥ ३७ ॥
त्वमेवेति ॥ अराणां नाभिरिव त्वमस्य जगतः संश्रयः ॥ ३६,३७ ॥
जगत्यर्थं जगन्नाथ भारावतरणेच्छया ।
अवतीर्णोऽसि मर्त्येषु तवांशश्चाहमग्रजः ॥ ३८ ॥
जगत्यर्थमिति ॥ तवांश: – तव विभूतिः ॥ ३८ ॥
मनुष्यलीलां भगवन् भजता भवता सुराः ।
विडम्बयन्तस्त्वल्लीलां सर्व एव सहासते ॥ ३९ ॥
अवतार्य भवान्पूर्वं गोकुले तु सुराङ्गनाः ।
क्रीडार्थमात्मनः पश्चादवर्तीर्णोऽसि शाश्वत ॥ ४० ॥
अत्रावतीर्णयोः कृष्ण गोपा एव हि बान्धवाः ।
गोप्यश्च सीदतः कस्मादेतान्बन्धूनुपेक्षसे ॥ ४१ ॥
दर्शितो मानुषो भावो दर्शितं बालचापलम् ।
तदयं दम्यतां कृष्ण दुष्टत्मा दशनायुधः ॥ ४२ ॥
मनुष्येत्यादि । मनुष्यदेहग्रहणात्मिका लीलां भजता त्वया हेतुभूतेन सुराश्च गोपेषु जातास्त्वल्लीलां विडंबयन्तः–अनुकुर्वन्त आसते ॥ ३९ – ४२ ॥
श्रीपराशर उवाच
इति संस्मारितः कृष्णः स्मितभिन्नोष्ठसंपुटः ।
आस्फोट्य मोचयामास स्वदेहं भोगिबन्धनात् ॥ ४३ ॥
आनम्य चापि हस्ताभ्यामुभाभ्यां मध्यमं शिरः ।
आरुह्याभुग्नशिरसः प्रणनर्तोरुविक्रमः ॥ ४४ ॥
इतीति ॥ स्मितभिन्नेति । मायोद्घाटनात् स्मितोदयः ॥ ४३ – ४४ ॥
प्राणाः फणेऽभवंश्चास्य कृष्णस्याङ्घ्रिनिकुट्टनैः ।
यत्रोन्नतिं च कुरुते ननामास्य ततः शिरः ॥ ४५ ॥
प्राणा इति ॥ निकुट्टनै— प्रहारैः ॥ ४५ ॥
मूर्छामुपाययौ भ्रान्त्या नागः कृष्णस्य रेचकैः ।
दण्डपातनिपातेन ववाम रुधिरं बहु ॥ ४६ ॥
तं विभुग्रशिरोग्रीवमास्येभ्यस्स्रुतशोणितम् ।
विलोक्य करुणं जग्मुस्तत्पत्न्यो मधुसूदनम् ॥ ४७ ॥
नागपत्न्य ऊचुः
ज्ञातोऽसि देवदेवेश सर्वज्ञस्त्वमनुत्तमः ।
परं ज्योतिरचिन्त्यं यत्तदंशः परमेश्वरः ॥ ४८ ॥
न समर्थाः सुराःस्तोतुं यमनन्यभवं विभुम् ।
स्वरूपवर्णनं तस्य कथं योषित्करिष्यति ॥ ४९ ॥
यस्याखिलमहीव्योमजलाग्निपवनात्मकम् ।
ब्रह्माण्डमल्पकाल्पांशः स्तोष्यामस्तं कथं वयम् ॥ ५० ॥
यमतो न विदुर्नित्यं यत्स्वरूपं हि योगिनः ।
परमार्थमणोरल्पं स्थूलात्स्थूलं नताः स्म तम् ॥ ५१ ॥
न यस्य जन्मने धाता यस्य चान्ताय नान्तकः ।
स्थितिकर्ता न चान्योऽस्ति यस्य तस्मै नमःसदा ॥ ५२ ॥
मूर्च्छामिति ॥ भ्रान्तिरेचकदण्डपाताः नृत्तोक्ताः पादन्यासविशेषाः । यथाह भरतः अन्तर्भ्रम – रिका ज्ञेया भ्रमरी बाह्यपूर्विका । अलग्नभ्रमरी च स्यादुचितभ्रमरी तथा ॥ चित्रभ्रमरिका चैव चक्रभ्रमरिका तथा । तिर्यग्म्रमरिका चेति भ्रमासप्त प्रकीर्तिताः ॥ पार्श्वातपार्श्वं तु गमनं स्खलितेश्वलितैः पदैः । विविधैश्चैव पादैश्च पादरेचक उच्यते ।। पार्ष्णी यस्य स्थितौ भूमावूर्ध्वमग्रतलं तथा । अङ्गुल्यश्वाञ्चितास्सर्वास्सपादस्वञ्चित – सुस्मृतः ॥ पृष्ठतो ह्यश्चितं कृत्वा पादमग्रतलेन तु । द्रुतं निपातयेद्भूमौ चादिनू पुरपादिका ॥ चरणं नू पुरं कृत्वा पुरतः संप्रसारयेत् । क्षिप्रमाविद्धकरणं दण्डपाता तु सा स्मृता ॥ इति ॥ ४६ – ५२ ॥
कोपः स्वल्पोऽपि ते नास्ति स्थितिपालनमेव ते ।
कारणं कालियस्यास्य दमने श्रुयतां वचः ॥ ५३ ॥
स्त्रियोऽनुकंप्याःसाधूनां मूढा दीनाश्च जन्तवः ।
यतस्ततोऽस्य दीनस्य क्षम्यतां क्षमतां वर ॥ ५४ ॥
समस्तजगदाधारो भवानल्पबलः फणी ।
त्वत्पादपीडितो जह्यान्मुहूर्तार्धेन जीवितम् ॥ ५५ ॥
कोप इति ।। स्थितिपालनं– लोकमर्यादास्थापनम् । श्रूयतामय – अथ अस्मद्वचनं श्रूयताम ॥ ५३ – ५५ ॥
क्व पन्नगोऽल्पवीर्योऽयं क्व भवान्भुवनाश्रयः ।
प्रीतिद्वेषौ समोत्कृष्टगोचरौ भवतोऽव्यय ॥ ५६ ॥
ततः कुरु जगत्स्वामिन्प्रसादमवसीदतः ।
प्राणांस्त्यजति नागोऽयं भर्तृभिक्षा प्रदीयताम् ॥ ५७ ॥
भुवनेश जगन्नाथ महापुरुषपूर्वज ।
प्राणांस्त्यजति नागोऽयं भर्तृभिक्षां प्रयच्छ नः ॥ ५८ ॥
वेदान्तवेद्य देवेश दुष्टदैत्यनिबर्हम ।
प्राणांस्त्यजति नागोऽयं भर्तृभिक्षा प्रदीयताम् ॥ ५९ ॥
श्रीपराशर उवाच
इत्युक्ते ताभिराश्वस्य क्लान्तदेहोपि पन्नगः ।
प्रसीद देवदेवेति प्राह वाक्यं शनैः शनैः ॥ ६० ॥
क्वेति ।। समोत्कृष्टयोः प्रीतिर्द्वेषो वा कार्यः । न स्वीदृशे निकृष्ट इति भावः ॥ ५६ – ६० ।।
कालिय उवाच
तवाष्टगुणमैश्वर्यं नाथ स्वाभाविकं परम् ।
निरस्तातिशयं यस्य तस्य स्तोष्यामि किन्वहम् ॥ ६१ ॥
तवेत्यादि ॥ किन्नु स्तोष्यामीति भावः । अष्टौ गुणा यस्य तदष्टगुणमैश्वर्यम् । ते चाणिमादयः । स्वाभाविकत्वादि विशेषणैस्सनकादिव्यावृत्तिः ॥ ६१ ॥
त्वं परस्त्वं परस्याद्यः परं त्वत्तः परात्मकम् ।
परस्मात्परमो यस्त्वं तस्य स्तोष्यामि किन्वहम् ॥ ६२ ॥
यस्माद्बह्मा च रुद्रश्च चन्द्रेन्द्रमरुदश्विनः ।
वसवश्च सहादित्यैस्तस्य स्तोष्यामि किन्वहम् ॥ ६३ ॥
स्वं पर इत्यादि ॥ प्रकृतेः परः पुमांस्त्वम् । परस्माद्यः परः मुक्तः स त्वम् । परं त्वत्तः परात्मकम् – इन्द्रियादेरुत्कृष्टं प्रधानमपि त्वत्तो भवति । परस्मात्परमो यस्त्वम् – उक्ताद्बद्धमुक्तप्रधानरूपात्परस्मात् परमो यः सः त्वम् ; तस्य तब किं स्तोष्यामीति । परं त्वत्तः परात्मकेति पाठे, हे परात्मक – उत्कृष्टस्वरूप ! त्वत्तः परं प्रधानं प्रवर्तते । परस्माद्यः मुक्तः स त्वमिति शेषः । त्वं परस्त्वं परस्माद्यः परं त्वत्तः परात्मकम् इति च पाठः ॥ ६२, ६३ ॥
एकावयवसूक्ष्मांशो यस्यैतदखिलं जगत् ।
कल्पनावयवस्यांशस्तस्य स्तोष्यामि किन्वहम् ॥ ६४ ॥
एकावयवेति ॥ कल्पनावयवात्मा—संकल्पसिद्धावयवात्मा । इच्छागृहीता भिमतोरुदेह इति यावत् ॥ ६४ ॥
सदसद्रूपिणो यस्य ब्रह्माद्यास्त्रिदशेश्वराः ।
परमार्थं न जानन्ति तस्य स्तोष्यामि किन्वहम् ॥ ६५ ॥
ब्रह्माद्येरर्चिते यस्तु गन्धपुष्पानुलेपनैः ।
नन्दनादिसमुद्भूतैः सोऽर्च्यते वा कथं मया ॥ ६६ ॥
यस्यावताररूपाणि देवराजःसदाऽर्चति ।
न वेत्ति परमं रूपं सोऽर्च्यते वा कथं मया ॥ ६७ ॥
विषयेभ्यः समावृत्त्य सर्वाक्षाणि च योगिनः ।
यमर्चयन्ति ध्यानेन सोऽर्च्यते वा कथं मया ॥ ६८ ॥
सदसद्रूपिण इति ॥ सदसदूपिणः– मूर्तामूर्तरूपवतः ।। ६५ – ६८ ॥
हृदि संकल्प्य यद्रूपं ध्यानेनार्चन्ति योगिनः ।
भावपुष्पादिना नाथः सोऽर्च्यते वा कथं मया ॥ ६९ ॥
सोऽहं ते देवदेवेश नार्चनादौ स्तुतौ न च ।
सामर्थ्यवान् कृपामात्रमनोवृत्तिः प्रसीद मे ॥ ७० ॥
सर्पजातिरियं क्रुरा यस्यां जातोऽस्मि केशव ।
तत्स्वभावोऽयमत्रास्ति नापराधो ममाच्युत ॥ ७१ ॥
सृज्यते भवता सर्वं तथा संह्रीयते जगत् ।
जातिरूपस्वभावाश्च सृज्यन्ते सृजता त्वया ॥ ७२ ॥
यथाहं भवता सृष्टो जात्या रूपेण चेश्वर ।
स्वभावेन च साधुत्वं तथेदं चेष्टितं मया ॥ ७३ ॥
यद्यन्यथा प्रवर्तेयं देवदेव ततो मयि ।
न्याय्यो दण्डनिपातो वै तवैव वचनं यथा ॥ ७४ ॥
हृदीत्यादि ।। यद्रूपं ध्यानेन संकल्प्य । भावमयानि पुष्पाणि – अहिंसादीनि, अहिंसा प्रथमं पुष्पं पुष्पमिन्द्रियनिग्रहः । सर्वभूतदया पुष्पं क्षमा पुष्पं विशिष्यते ॥ शमः पुष्पं दमः पुष्पं ध्यानपुष्पं च सप्तमम् । सत्यं चैवाष्टमं पुष्पमेभिस्तुष्यति केशवः ॥ इति वचनात् ।। ६९ – ७४ ।।
तथाप्यज्ञे जगत्स्वामिन्दण्डं पातितवान्मयि ।
स सोढव्यो मया दण्डस्त्वत्तो मे मामेत्ययं वरः ॥ ७५ ॥
हतवीर्यो हतविषो दमितोऽहं त्वयाऽच्युत ।
जीवितं दीयतामेकमाज्ञापय करोमि किम् ॥ ७६ ॥
श्रीभगवानुवाच
नात्र स्थेयन्त्वया सर्प कदाचिद्यमुनाजले ।
सपुत्रपरिवारस्त्वं समुद्रसलिलं व्रज ॥ ७७ ॥
मत्पदानि च ते सर्प दृष्ट्वा मूर्धनि सागर ।
गरुडः पन्नगरिपुस्त्वयि न प्रहरिष्यति ॥ ७८ ॥
श्रीपराशर उवाच
इत्युक्त्वा सर्पराजं तं मुमोच भगवान्हरिः ।
प्रणम्य सोऽपि कृष्णाय जगाम पयसां निधिम् ॥ ७९ ॥
पश्यतां सर्वभूतानां सभृत्यसुतबान्धवः ।
समस्तभार्यासहितः परित्यज्य स्वकं ह्रदम् ॥ ८० ॥
तथेति ॥ स सोढव्य इति । अयं दण्डरूपो वरस्वत्तो मामेति, मया सोढव्यः । स श्लाघ्योऽयं वरो दण्डस्त्वत्तो मे नान्यतो वरः, इति च पाठः ॥ ७५ – ८० ।।
गते सर्पे परिष्वज्य मृतं पुनरिवागतम् ।
गोपा मूर्धनि हार्देन सिषिचुर्नेत्रजैर्जलैः ॥ ८१ ॥
गत इति ॥ गोपाः नन्दाद्या वृद्धाः ॥ ८१ ॥
कृष्णामाक्लिष्टकर्माणमन्ये विस्मितचेतसः ।
तुष्टुवुर्मुदिता गोपा दृष्ट्वा शिवजलां नदीम् ॥ ८२ ॥
कृष्णमिति ॥ अन्ये – श्रीदामादिसवयसः ॥ ८२ ॥
गीयमानः स गोपीभिश्चारितैः साधुचेष्टितैः ।
संस्तूयमानो गोपैश्च कृष्णो व्रजमुपागमत् ॥ ८३ ॥
गीयमान इति ॥ चरितैः हेतुभिः ॥ ८३ ॥
इति श्रीविष्णुमहापुराणे पञ्चमांशे सप्तमोऽध्यायः ।। ७ ।।
अथ पञ्चमांशेऽष्टमोऽध्यायः
श्रीपराशर उवाच
गाः पालयन्तौ च पुनः सहितौ बलकेशवौ ।
भ्रममाणौ वने तस्मिन् रम्यं तालवनं गतौ ॥ १ ॥
तत्तु तालवनं दिव्यं धेनुको नाम दानवः ।
मृगमांसकृताहारः सदाऽध्यास्ते खराकृतिः ॥ २ ॥
तत्तु तालवनं पक्वफलसंपत्समन्वितम् ।
दृष्ट्वा स्पृहान्विता गोपाः फलादानेऽब्रुवन्वचः ॥ ३ ॥
गोपा ऊचुः
हे राम हे कृष्ण सदा धेनुकेनैष रक्ष्यते ।
भूप्रदेशो यतस्तस्मात्पक्वानीमानि संति वै ॥ ४ ॥
फलानि पश्य तालानां गन्धामोदितदिंशि वै ।
वयमेतान्यभीप्सामः पात्यन्तां यदि रोचते ॥ ५ ॥
श्रीपराशर उवाच
इति गोपकुमाराणां श्रुत्वा संकर्षणो वचः ।
एतत्कर्तव्यमित्युक्त्वा पातयामास तानि वै ।
कृष्णश्च पातयामास भुवितानि फलानि वै ॥ ६ ॥
फलानां पततां शब्दमाकर्ण्य सुदुरासदः ।
आजगाम स दुष्टात्मा कोपाद्दैतेयगर्दभः ॥ ७ ॥
॥ १ – ७॥
पद्भ्यामुभाभ्यां स तदा पश्चिमाभ्यां बलं बली ।
जघानोरसि ताभ्यां च स च तेनाभ्यगृह्यत ॥ ८ ॥
पद्भ्यामिति ॥ ताभ्यां । —तयोरित्यर्थः ॥ ८ ॥
गृहीत्वा भ्रामयामास सोंऽबरे गतजीवितम् ।
तस्मिन्नेव स चिक्षेप वेगेन तृणराजनि ॥ ९ ॥
ततः फलान्यनेकानि तालाग्रान्निपतन्खरः ।
पृथिव्यां पातयामास महावातो घनानिव ॥ १० ॥
अन्यानथ सजातीयानागतान्दैत्यगर्दभान् ।
कृष्णश्चिक्षेप तालाग्रे बलभद्रश्च लीलया ॥ ११ ॥
क्षणेनालङ्कृता पृथ्वी पक्वैस्तालफलैस्तदा ।
दैत्य गर्दभदेहैश्च मैत्रेय शुशुभेऽधिकम् ॥ १२ ॥
गृहीत्वेति ।। तं गृहीत्वा तृणराजनि – ताले ।। ९ – १२ ।।
ततो गावो निराबाधास्तस्मिंस्तालवने द्विज ।
नवशष्पं सुखं चेरुर्यन्न भुक्तमभूत्पुरा ॥ १३ ॥
इति श्रीविष्णुमहापुराणे पञ्चमांशेऽष्टमोऽध्यायः ।। ८ ।।
अथ पञ्चमांशेनवमोऽध्यायः
श्रीपराशर उवाच
तस्मिन्रासभदैतेये सानुगे विनिपातिते ।
सौम्यं तद्गोपगोपीनां रम्यं तालवनं बभौ ॥ १ ॥
ततस्तौ जातहर्षौ तु वसुदेवसुतावुभौ ।
हत्वा धेनुकदैतेयं भाण्डीरं वटमागतौ ॥ २ ॥
॥ १,२ ॥
क्ष्वेलमानौ प्रगायन्तौ विचिन्वन्तौ च पादपान् ।
चारयन्तौ च गा दूरे व्याहरन्तौ च नामभिः ॥ ३ ॥
क्ष्वेलमानाविति ॥ क्ष्वेलन्तो— सिंहवन्नादं कुर्वन्तौ । विचिन्वन्तौ – वासयोग्यान् देशा –
नन्विच्छन्तौ ॥ ३ ॥
निर्योगपाशस्कन्धौ तौ वनमालाविभूषितौ ।
शुशुभाते महात्मानौ बलाशृङ्गाविवर्षभौ ॥ ४ ॥
निर्योगपाश इति ॥ निर्योगपाशः – नियमनरज्जुः ॥ ४ ॥
सुवर्णाञ्जनचूर्णाभ्यां तौ तदा रूषितांबरौ ।
महेन्द्रायुधसंयुक्तौ श्वेतकृष्णाविवांबुदौ ॥ ५ ॥
चेरतुर्लौकसिद्धाभिः क्रीडाभिरितरेतरम् ।
समस्तलोकनाथानां नाथभूतौ भुवं गतौ ॥ ६ ॥
मनुष्यधर्माभिरतौ मानयन्तौ मनुष्यताम् ।
तज्जातिगुणयुक्ताभिः क्रिडाभिश्चेरतुर्वनम् ॥ ७ ॥
सुवर्णेति ॥ रूषिताम्बरो – रञ्जितवस्त्रौ । महेन्द्रायुधसंकाशावित्यम्बुदविशेषणम् । महेंद्रायुधेन प्रकाशमानावित्यर्थः ॥ ५ – ७ ॥
ततस्त्वान्दोलिकाभिश्च नियुद्धैश्च महाबलौ ।
व्यायामं चक्रतुस्तत्र क्षेपणीयैस्तथाऽश्मभिः ॥ ८ ॥
तत इति ॥ आन्दोलिकाभिः – द्वयोर्गोपयोहस्तद्वयमयान्दोलिकाभिः । नियुद्धैः – बाहुयुद्धैः । व्यायामं श्रमम् ॥ ८॥
तल्लिप्सुरसुरस्तत्र ह्युभयो रममाणयोः ।
आजगाम प्रलंबाख्यो गोपवेषतिरोहितः ॥ ९ ॥
सोऽवगाहत निःशङ्कस्तेषां मध्यममानुषः ।
मानुषं वपुरास्थाय प्रलंबो दानवोत्तमः ॥ १० ॥
तल्लिप्सुरिति । तल्लिप्सुः तौ जिघृक्षुः ॥ ९,१० ॥
तयोशिछ्द्रान्तरप्रेप्सुरविषह्यममन्यत ।
कृष्णं ततो रौहिणेयं हन्तुं चक्रे मनोरथम् ॥ ११ ॥
तयोरिति ॥ छिद्रान्तरप्रेप्सुः प्रमादावसरं प्रतीक्षमाणः ॥ ११ ॥
हरिणाक्रीडनं नाम बालक्रीडनकं ततः ।
प्रकुर्वन्तो हि ते सर्वे द्वौद्वौ युगपदुत्थितौ ॥ १२ ॥
हरिणेति ॥ हरिणाक्रीडनम्–हरिणवदाक्रीडनम्, उत्प्लुतिः । द्वयोर्युगपदुत्प्लुतयोरलसः जितः, स्टुर्जेता । तत्र जितो जेतारं वहन् भाण्डीरं गत्वा पुनरुत्प्लुतिस्थानं नयेदिति पणबन्धः ॥ १२ ॥
श्रीदाम्ना सह गोविन्दः प्रलंबेन तथा बलः ।
गोपालौरपरैश्चान्ये गोपालाः पुप्लुवुस्ततः ॥ १३ ॥
श्रीदामानं ततः कृष्णः प्रलंबं रोहिणीसुतः ।
जितवान्कृष्णपक्षीयैर्गोपैरन्ये पराजिताः ॥ १४ ॥
ते वाहयन्तस्त्वन्योन्यं भाण्डीरं वटमेत्य वै ।
पुनर्निववृतुःसर्वे येये तत्र परिजिताः ॥ १५ ॥
संकर्षणं तु स्कन्धेन शीघ्रमुत्क्षिप्य दानवः ।
नभःस्थलं जगामाशु सचन्द्र इव वारिदः ॥ १६ ॥
असहन्रौहिणेयस्य स भारं दानवोत्तमः ।
ववृधे स महाकायः प्रावृषीव बलाहकः ॥ १७ ॥
संकर्षणस्तु तं दृष्ट्वा दग्धशैलोपमाकृतिम् ।
स्रग्दामलंबाभरणं मकुटाटोपमस्तकम् ॥ १८ ॥
रौद्रं शकटचक्राक्षं पादन्यासचलत्क्षितिम् ।
अभीतमनसा तेन रक्षसा रोहिणीसुतः ।
ह्रियमामस्ततः कृष्णमिदं वचनमब्रवीत् ॥ १९ ॥
श्रीदाम्नेति ॥ तत्र प्रलंबः श्रीदामपक्षीयः ॥ १३ – १९ ॥
कृष्णा कृष्ण ह्रियाम्येष पर्वतोदग्रमूर्तिना ।
केनापि पश्य दैत्येन गोपालच्छद्मरूपिणा ॥ २० ॥
कृष्णकृष्णेति ॥ ह्रियामि–ह्रिये । गोपालच्छद्मरूपिणा – कृत्रिमगोपालरूपिणा ॥ २० ॥
यदत्र सांप्रतं कार्यं मया मधुनिषूदन ।
तत्कथ्यतां प्रयात्येष दुरात्माऽतित्वरान्वितः ॥ २१ ॥
श्रीपराशर उवाच
तमाह रामं गोविन्दःस्मितभिन्नोष्ठसंपुटः ।
महात्मा रौहिणेयस्य बलवीर्यप्रमाणवित् ॥ २२ ॥
श्रीकृष्ण उवाच
किमयं मानुषो भावो व्यक्तमेवावलंब्यते ।
सर्वात्मन् सर्वगुह्यानां गुह्यगुह्यात्मना त्वया ॥ २३ ॥
यदत्रेति ॥ अत्र—– दानवे ॥ २१ – २३ ॥
स्मराशेषजगद्बीज कारणं कारणाग्रज ।
आत्मानमेकं तद्वच्च जगत्येकार्णवे च यत् ॥ २४ ॥
किं न वेत्सि यथाहं च त्वं चैकं कारणं भुवः ।
भारावतारणार्थाय मर्त्यलोकमुपागतौ ॥ २५ ॥
नभश्शिरस्तेंऽबुवहाश्च केशाः पादौ क्षितिर्वक्त्रमनन्तवह्नि ।
सोमो मनस्ते श्वसितं समीरणो दिशश्चतस्रोऽव्यय बाहवस्ते ॥ २६ ॥
सहस्रबक्त्रो भगवान्महात्मा सहस्रहस्ताङ्घ्रिशरीरभेदः ।
सहस्रपद्मोद्भवयोनिराद्यःसहस्रशस्त्वां मुनयो गृणन्ति ॥ २७ ॥
दिव्यं हि रूपं तव वेत्ति नान्यो देवैरशेषैरवताररूपम् ।
तदर्च्यते वेत्सि न किं यदन्ते त्वय्येव विश्वं लयमभ्युपैति ॥ २८ ॥
त्वया धृतेयं धरणी बिभर्ति चराचरं विश्वमनन्तमूर्ते ।
कृतादिभेदैरज कालरूपो निमेषपूर्वो जगदेतदत्सि ॥ २९ ॥
स्मरेत्यादि ॥ जगद्वीज – कारणानामप्या दिभूत। जगति – जगदवस्थायाम, तद्वदेकार्णेवे च – एकार्णवावस्थायां च यत्तदेकं कारणमात्मानं किं न वेत्सि ।। २४ – २९ ।।
अत्तं यथा बाडबवह्निनांऽबु हिमस्वरूपं परिगृह्य कास्तम् ।
हिमाचले भानुमतोंऽशुसंगाज्जलत्वमभ्येति पुनस्तदेव ॥ ३० ॥
अत्तमिति ॥ अत्तं – चर्वितम् । कास्तं – छर्दितम् । यद्वा, केन वायुना, अस्तं वडवाग्निगतत्वे – नार्करश्मिनाडीमयेन क्षिप्तम् । अयमर्थ: – सवायुना बडबाग्निना पीतं समुदाम्बु घनीभूय हिमतां गतं तेन वायु – नाडीमयार्करश्मिना सोमद्वारा हिमतौ हिमाद्रौ क्षिप्तं ग्रीष्मे पुनगदिव्यांशुसंयोगाद्विलीनं सत् यथा जलतां यातीति । अयमेवार्थः सरित्समुद्रेत्यादिना पूर्वमुक्तः ॥ ३० ॥
एवं त्वया संहरणेऽत्तमेतज्जगत्समस्तं त्वदधीनकं पुनः ।
तवैव सर्गाय समुद्यतस्य जगत्त्वमभ्येत्यसुकल्पमीश ॥ ३१ ॥
भवानहं च विश्वात्मन्नेकमेव च कारणम् ।
जगतोऽस्य जगत्यर्थे भेदेनावां व्यवस्थितौ ॥ ३२ ॥
एवमित्यादि ।। संहरणात्तम् – संहरणकाले अत्तम् । तवैव सर्गाय समुद्यतस्य त्वप्येव सर्गाय समुद्यते सति ॥ ३१,३२ ॥
तत्स्मर्यताममेयात्मंस्त्वयाऽऽत्मा जहि दानवम् ।
मानुष्यमेवावलंब्य बन्धूनां क्रियतां हितम् ॥ ३३ ॥
तदिति ॥ मानुष्यमेवेति । स्तुत्युद्बोधितदिव्यशक्तिरपि मानुष्यमवलम्ब्यैव – मनुष्यमूर्त्यैव दानवे जहि ॥ ३३ ॥
श्री पराशर उवाच
इति संस्मारितो विप्र कृष्णेन सुमहात्मना ।
विहस्य पीडयामास प्रलंबं बलवान्बलः ॥ ३४ ॥
मुष्टिना सोऽहनन्मूर्ध्नि कोपसंरक्तलोचनः ।
तेन चास्य प्रहारेण बहिर्याते विलोचने ॥ ३५ ॥
इतीति । विहस्येति उद्बोधितस्वरूपानुसंधानचिह्नम् ॥ ३४,३५ ॥
स निष्कासितमस्तिष्को मुखाच्छोणितमुद्वमन् ।
निपपात महीपृष्ठे दैत्यवर्यो ममार च ॥ ३६ ॥
प्रलंबं निहतं दृष्ट्वा बलेनाद्भुतकर्मणा ।
प्रहृष्टास्तुष्टुवुर्गौपाःसाधुसाध्विति चाब्रुवन् ॥ ३७ ॥
संस्तूयमानो गोपैस्तु रामो दैत्ये निपातिते ।
प्रलंबे सह कृष्णेन पुनर्गोकुलमाययौ ॥ ३८ ॥
स इति ॥ निष्कासितमस्तिष्कः निर्गमितमस्तकस्नेहः ।। ३६ – ३८ ।।
इति श्रीविष्णुमहापुराणे पञ्चमांशे नवमोऽध्यायः ।। ९ ।।
अथ पञ्चमांशेदशमोऽध्यायः
श्रीपराशर उवाच
तयोर्विहरतोरेवं रामकेशवयोर्व्रजे ।
प्रावृड्व्यतीता विकसत्सरोजा चाभवच्छरत् ॥ १ ॥
॥ १ ॥
अवापुस्तापमत्यर्थं शफर्यः पल्वलोदके ।
पुत्रक्षेत्रादिसक्तेन ममत्वेन यथा गृही ॥ २ ॥
अथ वर्ण्यमानशरद् दृष्टान्तव्या जेनात्मविद्यामाह – अवापुरित्यादिना ॥ अवापुरिति । शफर्य : – दमत्स्याः ॥ २ ॥
मयुरा मौनमातस्थुः परित्यक्तमदा वने ।
असारतां परिज्ञाय संसारस्येव योगिनः ॥ ३ ॥
मयूरा इति ॥ मौनम्——–अनुक्तिर्मुनिवृत्तिश्च ॥ ३ ॥
उत्सृज्य जलसर्वस्वं विमलाःसितमूर्तयः ।
तत्यजुश्चांबरं मेघा गृहं विज्ञानिनो यथा ॥ ४ ॥
शरत्सूर्यांशुतप्तानि ययुः शोषं सरांसि च ।
बह्वालंबममत्वेन हृदयानीव देहिनाम् ॥ ५ ॥
उत्सृज्येति ॥ जलसर्वस्वं कृत्स्नं जलम, अहंमानादि जडभावं च । मलं – कार्ष्ण्यं, रागादि ॥ तं – शुभ्रे शुद्धं च । विग्रहं – विरोधम् । गृहं विज्ञानिनो यथा इति च पाठः ॥ ४, ५ ॥
कुमुदैः शरदंभांसि योग्यतालक्षणं ययुः ।
अवबोधैर्मनांसीव समत्वममलात्मनाम् ॥ ६ ॥
कुमुदैरिति ॥ योग्यतालक्षणम् –योग्यतात्मकं संबन्धं ययुः । योग्यो हि निर्मलजलस्य सितकुमुदानों संबन्ध: । अमलात्मनाम् – अमलमनसाम् ॥ ६ ॥
अन्तर्धानमिति ॥ ततः – गोवर्धनात् ॥ ४९ ॥
तारकाविमले व्योम्नि रराजाखण्डमण्डलः ।
चन्द्रश्चरमदेहात्मा योगी साधुकुले यथा ॥ ७ ॥
शनकैः शनकैस्तीरं तत्यजुश्च जलाशयाः ।
ममत्वं क्षेत्रपुत्रादिरूढमुच्चैर्यथा बुधाः ॥ ८ ॥
तारकेति ॥ तारकाविमले तारकाभिर्विमले । अखण्डमण्डलः पौर्णमास्याम् । चरमदेहात्मा – चरम – दृश्य आत्मा ॥ ७,८ ॥
पूर्वं त्यक्तैः सरोंभोभिर्हंसा योगं पुनर्ययुः ।
क्लेशैः कुयोगिनो शेषैरन्तरायहता इव ॥ ९ ॥
पूर्वमिति ॥ अन्तरायाः – विघ्नाः ॥ ९ ॥
निभृतोऽभवदत्यर्थं समुद्रःस्तिमितोदकः ।
क्रमावाप्तमहायोगो विश्चलात्मा यथा यतिः ॥ १० ॥
निमृत इति ॥ कमावाप्तमहायोगः क्रमेण मन्त्रस्पर्श भावाभावाख्य योग चतुष्कानन्तरं लम्भ महायोगः ।। १० ।।
सर्वत्रातिप्रसन्नानि सलिलानि तथाऽभवन् ।
ज्ञाते सर्वगते विष्णौ मनांसीव सुमेधसाम् ॥ ११ ॥
बभूव निर्मलं व्योम शरदा ध्वस्ततोयदम् ।
योगाग्निदग्धक्लेशौघं योगिनामिव मानसम् ॥ १२ ॥
सूर्यांशुजनितं तापं निन्ये तारापतिः शमम् ।
अहंमानोद्भवं दुःखं विवेकस्सुमहानिव ॥ १३ ॥
नभसोऽब्दं भुवः पङ्कं कालुष्यं चांभसः शरत् ।
इन्द्रियाणीन्द्रियार्थेभ्यः प्रत्याहार इवाहरत् ॥ १४ ॥
सर्वत्रेति ॥ सर्वत्र – देशे शत्रुमित्रादिषु च ।। ११ – १४ ।।
प्राणायाम इवांभोभिः सरसां कृतपूरकैः ।
अभ्यस्यतेऽनुदिवसं रेचकाकुंभकादिभिः ॥ १५ ॥
प्राणायाम इत्यादि ॥ प्राणयामो हि कृतपूरकेर्योगिभि: आकुंभकरेचकप्रधानाभिर्वायु – नयन क्रियामि रम्यस्यते, पूरकः पूरणं वायो: कुंभकस्स्थापनं क्वचित् । बहिर्निस्सरणं तस्य रेचकः परिकीर्तितः ।। इति वचनात् । अयमर्थः सरसां योगिस्थानीयानां प्राणायामः सस्यार्थं कुल्यादिभिः पूर्व कृतपूरकैः श्वासस्थानीयैरंभोभिः कारणैः पश्चात्स्थापनरेचकादिक्रियाभि – रभ्यस्यते ॥ १५ ॥
विमलांबरनक्षत्रे काले चाभ्यागते व्रजे ।
ददर्शेन्द्रमहारंभायोद्यतांस्तान्व्रजौकसः ॥ १६ ॥
विमलेति ॥ महः उत्सवः ॥ १६ ॥
कृष्णस्तानुत्सुकान्दृष्ट्वा गोपानुत्सवलालसान् ।
कौतूहलादिदं वाक्यं प्राह वृद्धान्महामतिः ॥ १७ ॥
कोऽयं शक्रमहो नाम येन वो हर्ष आगतः ।
प्राह तं नन्दगोपश्च पृच्छन्तमतिसादरम् ॥ १८ ॥
नन्दगोप उवाच
मेघानां पयसां चेशो देवराजः शतक्रतुः ।
तेन संचोदिता मेघा वर्षत्यंबुमयं रसम् ॥ १९ ॥
तद्वृष्टिजनितं सस्यं वयमन्ये च देहिनः ।
वर्तयामोपयुञ्जानास्तर्पयामश्च देवताः ॥ २० ॥
क्षीरवत्य इमा गावो वत्सवत्यश्च निर्वृताः ।
तेन संवर्धितैस्सस्यैस्तुष्टाः पुष्टाः भवन्ति वै ॥ २१ ॥
नासस्या नातृणा भूमिर्न बुभुक्षार्दितो जनः ।
दृश्यते यत्र दृस्यन्ते वृष्टिमन्तो बलाहकाः ॥ २२ ॥
कृष्ण इति ॥ उत्सुकान्– उद्युक्तान् । उत्सवलालसान् – उत्सवकामान् ॥ १७ – २२ ।।
भौममेतत्पयो दुग्धं गोभिः सूर्यस्य वारिदैः ।
पर्जन्यःसर्वलोकस्योद्भवाय भुवि वर्षति ॥ २३ ॥
भोममित्यादि ॥ पर्जन्यो हि भूगतं जलं सूर्यरश्मिभिरात्तं ततो मेघेषु दुग्धं तैर्जगद्भूत्यै वर्षति ॥ २३ ॥
तस्मात्प्रावृषि राजानःसर्वे शक्रं मुदा युताः ।
मखैस्सुरेशमर्चन्ति वयमन्ये च मानवाः ॥ २४ ॥
श्रीपराशर उवाच
नन्दगोपस्य वचनं श्रुत्वेत्थं शक्रपूजने ।
रोषाय त्रिदशेन्द्रस्य प्राहदामोदरस्तदा ॥ २५ ॥
न वयं कृषिकर्तारो वाणिज्याजीविनो न च ।
गावोऽस्मद्दैवतं तात वयं वनचरा यतः ॥ २६ ॥
आन्वीक्षिकी त्रयी वार्ता दण्डनितिस्तथा परा ।
विद्या चतुष्टयं चैतद्वार्तमात्रं शृणुष्व मे ॥ २७ ॥
कृषिर्वणिज्या तद्वच्च तृतीयं पशुपालनम् ।
विद्या ह्येका महाभाग वार्ता वृत्तित्रयाश्रया ॥ २८ ॥
तस्मादिति ॥ प्रावृषि गताया मिति शेषः, शरदः प्रस्तुतत्वात् । यत्तु नभसि नभस्ये वा द्वादश्या – मिन्द्रिमहारंभ इति गर्गादिनोक्तं, तनु गोवर्धनोद्धारोत्तरकालविषयं कल्यम् । एतद्वरिवंशे कृष्ण प्रतीन्द्रोक्तिः ये चेमे वार्षिका मासाश्चत्वारो विहिता मम । एषां तेऽर्धं प्रदास्यामि शरत्कालं हि पश्चिमम् ॥ अद्यप्रभृति मासौ द्वौ ज्ञास्यन्ति मम मानवाः । वर्षार्धे च ध्वजे नित्यं ततः पूजामवाप्स्यसि ॥ इति । यत्तु हरिवंश एव ततः प्रवर्तते पुण्या शरत्सुप्तोत्थिते त्वयि इत्यादीन्द्रवाक्यं, तद्भगवत्प्रबोधानन्तरशरच्छेषप्रसङ्गार्थम् २४ – २८॥
कर्षकाणां कृषिर्वृत्तिः पण्यं विपणीजीविनाम् ।
अस्माकं गौः परा वृत्तिर्वार्ताभेदैरियं त्रिभिः ॥ २९ ॥
कर्षकाणामिति ॥ अस्माकमित्यादि । गौरिति जात्यभिप्रायमेकवचनम् । सा परावृत्तिरिति पाठे परा वृत्तिर्या पाशुपाल्यवृत्तिः । त्रिमिर्मेदैरुपलक्षितेय वार्ता ॥ २९ ।।
विद्यया यो यया युक्तस्तस्य सा दैवतं महत् ।
सैव पूज्याऽर्चनीया च सैव तस्योपकारिका ॥ ३० ॥
यो यस्य फलमश्नन्वै पूजयत्यपरं नरः ।
इह च प्रेत्य चैवासौ न तदाप्नोति शोभनम् ॥ ३१ ॥
विद्ययेति ॥ पूज्या मान्या ॥ ३०, ३१ ॥
कृष्यान्ता प्रथिता सीमा मीमान्तं च पुनर्वनम् ।
वनान्ता गिरयस्सर्वे ते चास्माकं परा गतिः ॥ ३२ ॥
कृष्यान्ता इति ॥ देशस्थितिरियम् । सेति गिरयः परामृश्यन्ते ।गतिशब्दसमभिव्याहारात् स्त्रीत्वमे – च । कृष्यन्ताः प्रथितास्सीमाः ते चारमाकं परा गतिरिति च पाठः ॥ ३२ ॥
न द्वारबन्धावरणा न गृहक्षेत्रिणस्तथा ।
सुखिनस्त्वखिले लोके यथा वै चक्रचारिणः ॥ ३३ ॥
श्रूयन्ते गिरयश्चैव वनेऽस्मिन्कामरूपिणः ।
तत्तद्रूपं समास्थाय रमन्ते स्वेषु सानुषु ॥ ३४ ॥
यदा चैते प्रबाध्यन्ते तेषां ये काननौकसः ।
तदा सिंहादिरूपैस्तान्घातयन्ति महीधराः ॥ ३५ ॥
गिरीयज्ञस्त्वयं तस्माद्गोयज्ञश्च प्रवर्त्यताम् ।
किमस्माकं महेन्द्रेण गावश्शैलाश्च देवताः ॥ ३६ ॥
न द्वारेति ॥ द्वारबंधैः – गृहैरावरणं येषां ते तथोक्ताः प्रामस्थाः । यदा, आवरणगृहैकवासाजः। गृहक्षेत्रिण इति गृहकेदारादिक्षेत्रसंवारनियताः कर्षकाः । अयमन्वयः – यथा गिरेर्बलेन तृणजबादि – देशेषु खैरं चक्रवता शकटेन चरन्तो वयं सुखिनः, न तथा द्वारबंधावरणा: – न तथा गृहक्षेत्रिण इति ॥ ३३ – ३६ ॥
मन्त्रयज्ञपरा विप्रास्सीरयज्ञाश्च कर्षकाः ।
गिरिगोयज्ञशीलाश्च वयमद्रिवनाश्रयाः ॥ ३७ ॥
तस्माद्गोवर्धनः शैलो भवद्भिर्विविधार्हणैः ।
अर्च्यतां पूज्यतां मेध्यान्पशुन्हत्वा विधानतः ॥ ३८ ॥
मन्त्रयज्ञेति ॥ मन्त्रयज्ञपराः –मन्त्रप्रकाशितदेवतायज्ञपराः ॥ ३७, ३८ ॥
सर्वघोषस्य संदोहो गृह्यतां मा विचार्यताम् ।
भोज्यन्तां तेन वै विप्रास्तथा ये चाभिवाञ्छकाः ॥ ३९ ॥
तत्रार्चिते कृते होमे भोजितेषु द्विजातिषु ।
शरत्पुष्पकृतापीडाः परिगच्छन्तु गोगणाः ॥ ४० ॥
एतन्मम मतं गोपाःसंप्रीत्या क्रियते यदि ।
ततः कृता भवेत्प्रीतिर्गवामद्रेस्तथा मम ॥ ४१ ॥
श्रीपराशर उवाच
इति तस्य वचः श्रुत्वा वन्दाद्यास्ते व्रजौकसः ।
प्रीत्युत्फुल्लमुखा गोपाःसाधुसाध्वित्यथाब्रुवन् ॥ ४२ ॥
शोभनं ते मतं वत्स यदेतद्भवतोदितम् ।
तत्करिष्यामहे सर्वं गिरियज्ञः प्रवर्त्यताम् ॥ ४३ ॥
तथा च कृतवन्तस्ते गिरियज्ञं व्रजौकसः ।
दधिपायसमांसाद्यैर्ददुः शैलबलिं ततः ॥ ४४ ॥
द्विजांश्च भोजयामासुस्शतशोऽथ सहस्रशः ॥ ४५ ॥
गावश्शैलं ततश्चकुरर्चितास्ताः प्रदक्षिणम् ।
वृषभाश्चातिनर्दन्तःसतोया जलदा इव ॥ ४६ ॥
गिरिमूर्धनि कृष्णोऽपि शैलोऽहमिति मूर्तिमान् ।
बुभुजेऽन्नं बहुतरं गोपवर्याहृतं द्विज ॥ ४७ ॥
स्वेनैव कृष्णो रूपेण गोपैस्सह गिरेश्शिरः ।
अधिरुह्यार्चयामास द्वितीयामात्मनस्तनुम् ॥ ४८ ॥
सर्वघोषस्येति ॥ सदोहः – सम्यग्दुग्धम् ॥ ३९ – ४८ ॥
अन्तर्धानं गते तस्मिन्गोपा लब्ध्वा ततो वरान् ।
कृत्वा गिरीमखं गोष्ठं निजमभ्याययुः पुनः ॥ ४९ ॥
अन्तर्धानमिति ॥ ततः – गोवर्धनात् ॥ ४९ ॥
इति श्रीविष्णुमहापुराणे पञ्चमांशे दशमोऽध्यायः ।। १० ।।