श्रीविष्णुपुराणम्
अथ पञ्चमांशे एकादशोऽध्यायः
श्रीपराशर उवाच
मखे प्रतिहते शक्रो मैत्रेयातिरुषाऽन्वितः ।
संवर्तकं नाम गणं तोयदानामथाब्रवीत् ॥ १ ॥
भोभो मेधा निशम्यैतद्वचनं गदतो मम ।
आज्ञानन्तरमेवाशु क्रियतामविचारितम् ॥ २ ॥
॥ १,२ ॥
नन्दगोपस्सुदुर्बुद्धिर्गोपैरन्यैः सहायवान् ।
कृष्णाश्रयबलाध्मातो मखभङ्गमचीकरत् ॥ ३ ॥
नन्दगोप इति ॥ आध्मातः – उपबृंहितः ॥ ३ ॥
आजीवो याः परस्तेषां गावस्तस्य च कारणम् ।
ता गावो वृष्टिपातेन पीड्यन्तां वचनान्मम ॥ ४ ॥
आजीव इति ॥ आजीव: – जीवनोपायः, गोपत्वस्य च कारणं यास्ता गावः ॥ ४ ॥
अहमप्यद्रिशृङ्गाभं तुङ्गमारुह्य वारणम् ।
साहाय्यं वः करिष्यामि वाय्वम्बूत्सर्गयोजितम् ॥ ५ ॥
श्रीपराशर उवाच
इत्याज्ञप्तास्ततस्तेन मुमुचुस्ते बलाहकाः ।
वातवर्षं महाभीममभावाय गवां द्विज ॥ ६ ॥
अहमिति ।। वाय्बम्बुनोरुत्सर्गेण संबद्धम् ॥ ५, ६ ॥
ततः क्षणेन पृथिवी ककुभोंऽबरमेव च ।
एकं धारामहासारपूरेणनाभवन्मुने ॥ ७ ॥
तत इत्यादि । धाराणाम् वेगवद्वर्षपूरणेन धरण्यादिकमेकमभवत् ॥ ७ ॥
विद्युल्लताकशाघातत्रस्तैरिव घनैर्घनम् ।
नादापूरितदिक्चक्रैर्धारासारमपात्यत ॥ ८ ॥
विद्युल्लतेति ॥ धनं – निरंतरम् । धारासारमपात्यत । आर्षत्वालिंगव्यत्ययः ॥ ८ ॥
अन्धकारीकृते लोके वर्षद्भिरनिशं घनैः ।
अधश्चोर्ध्वं च तिर्यक्च जगदाप्यमिवाभवत् ॥ ९ ॥
अंधकारीकृत इति ॥ आप्यम् – अम्मयम् ॥ ९ ॥
गावस्तु तेन पतता वर्षवातेन वागिना ।
धूताः प्राणाञ्जहुस्सन्नत्रिकसक्थिसिरोधराः ॥ १० ॥
गावस्त्विति ॥ धूताः – कंपिताः । त्रिकं पृष्ठवंशाधरेत्रिकम् इत्यमरः । सक्थि – ऊरुः ॥ १० ॥
क्रोडेन वत्सानाक्रम्य तस्थुरन्या महामुने ।
गावो विवत्साश्च कृता वारिपूरेण चापराः ॥ ११ ॥
वत्साश्च दीनवदना वातकंपितकन्धराः ।
त्राहित्राहीत्यल्पशब्दाः कृष्णमूचुरिवातुराः ॥ १२ ॥
ततस्तद्गोकुलं सर्वं गोगोपीगोपसंकुलम् ।
अतीवार्तं हरिर्दृष्ट्वा मैत्रेयाचिन्तयत्तदा ॥ १३ ॥
एतत्कृतं महेन्द्रेण मखभङ्गविरोधिना ।
तदेतदखिलं गोष्ठं त्रातव्यमधुना मया ॥ १४ ॥
इममद्रिमहं धैर्यादुत्पाट्योरुशिलाघनम् ।
धारयिष्यामि गोष्ठस्य पृथुच्छत्रमिवोपरि ॥ १५ ॥
श्रीपराशर उवाच
इति कृत्वामतिं कृष्णो गोवर्धनमहीधरम् ।
उत्पाट्यैककरेणैव धारयामास लीलया ॥ १६ ॥
गोपांश्चह हसञ्छौरिस्मुत्पाटितभूधरः ।
विशध्वमत्र त्वरिताः कृतं वर्षनिवारणम् ॥ १७ ॥
क्रोडेनेति ॥ क्रोडः कुक्षिः ॥ १२ – १७ ॥
सुनिवातेषु देशेषु यथा जोषमिहास्यताम् ।
प्रविश्यतां न भेतव्यं गिरीपाताच्च निर्भयैः ॥ १८ ॥
इत्युक्तास्तेन ते गोपा विविशुर्गोधनैः सह ।
शकटारोपितैर्भांडैर्गोप्यश्चासारपीडिताः ॥ १९ ॥
सुनिवातेष्विति ।। निर्मयैः प्रविश्यतां गिरिपानान्न भेतव्यमित्यन्वयः ॥ १८, १९ ॥
कृष्णोऽपि तं दधारैव शैलमत्यन्तनिश्चलम् ।
व्रजौकवासिभिर्हर्षविस्मिताक्षैर्निरिक्षितः ॥ २० ॥
गोपगोपीजनैर्हृष्टैः प्रीतिविस्तारितेक्षणैः ।
संस्तूयमानचरितः कृष्णः शैलमधारयत् ॥ २१ ॥
सप्तरात्रं महामेधा ववर्षुर्नन्दगोकुले ।
इन्द्रेण चोदिता विप्र गोपानां नाशकारिणा ॥ २२ ॥
कृष्ण इति ॥ व्रजौकेत्यदन्तत्वमार्षम् । व्रजैकवासिभिरिति वा पाठः ॥ २० – २२ ॥
ततो धृते महाशैले परित्राते च गोकुले ।
मिथ्याप्रतिज्ञो बलभिद्वारयामास तान्घनान् ॥ २३ ॥
व्यभ्रे नभसि देवेन्द्रे वितथात्मवचस्यथ ।
निष्क्रम्य गोकुलं हृष्टं स्वस्थानं पुनरागमत् ॥ २४ ॥
तत इति । मिथ्याप्रतिज्ञः – व्यर्थप्रतिज्ञः ॥ २३, २४ ॥
मुमोच कृष्णोऽपि तदा गोवर्धनमहाचलम् ।
स्वस्थाने विस्मितमुखैर्दृष्टस्तैस्तु व्रजौकसैः ॥ २५ ॥
मुमोचेति ॥ व्रजौकसैरित्यदन्तत्वमार्षम् ॥ २५ ॥
इति श्रीविष्णुमहापुराणे पञ्चमांश एकादशोऽध्यायः ।। ११ ।।
अथ पञ्चमांशे द्वादशोऽध्यायः
श्रीपराशर उवाच
धृते गोवर्धने शैले परित्राते च गोकुले ।
रोचयामास कृष्णस्य दर्शनं पाकशासनः ॥ १ ॥
सोऽधिरुह्य महानागमैरावतममित्रजित् ।
गोवर्धनगिरौ कृष्णं ददर्श त्रिदशेश्वरः ॥ २ ॥
चारयन्तं महावीर्यं गास्तु गोपवपुर्धरम् ।
कृत्स्नस्य जगतो गोपं वृतं गोपकुमारकैः ॥ ३ ॥
गरुडं च ददर्शोच्चैरन्तर्धानगतं द्विज ।
कृतच्छायं हरेर्मूर्ध्नि पक्षाभ्यां पक्षिपुङ्गवम् ॥ ४ ॥
अवरुह्य स नागेन्द्रादेकान्ते मधुसूदनम् ।
शक्रःसस्मितमाद्देदं प्रीतिविस्तारितेक्षणः ॥ ५ ॥
।। १ – ५॥
इन्द्र उवाच
कृष्णकृष्ण शृणुष्वेदं यदर्थ महमागतः ।
त्वत्समीपं महाबाहो नैतच्चिन्त्यं त्वयाऽन्यथा ॥ ६ ॥
भारावतारणार्थाय पृथिव्याः पृथिवीतले ।
अवतीर्णोऽखिलाधार त्वमेव परमेश्वर ॥ ७ ॥
कृष्णकृष्णेति ॥ नेतदिति । एतत् – आगमनम् । अन्यथा – विरोधघिया ॥ ६, ७ ॥
मखभङ्गविरोधेन मया गोकुलानाशकाः ।
समादिष्टा महामेघास्तैश्चेदं कदनं कृतम् ॥ ८ ॥
त्रातास्ताश्च त्वाया गावःसमुत्पाट्य महीधरम् ।
तेनाहं तोषितो वीर कर्मणाऽत्यद्भुतेन ते ॥ ९ ॥
साधितं कृष्ण देवानामहं मन्ये प्रयोजनम् ।
त्वयाऽयमद्रिप्रवरः करेणैकेनयद्धृतः ॥ १० ॥
मस्वभङ्गेति ॥ कदनं संकुलवधः ।। ८ – १० ।।
गोभिश्च चोदितः कृष्ण त्वत्सकाशमिहागतः ।
त्वया त्राताभिरत्यर्थं युष्मत्सत्कारकारणात् ॥ ११ ॥
गोभिश्चेति ॥ गोभिः गोलोकस्थाभिः । इह त्राताभिगोभिरेककुलत्वात् त्रातामिरित्युक्तम् ॥ ११ ॥
स त्वां कृष्णाभिषेक्ष्यामि गावं वाक्यप्रचोदितः ।
उपेन्द्रत्वे गवामिद्रो गोविन्दस्त्वं भविष्यसि ॥ १२ ॥
श्रीपराशर उवाच
अथोपवाह्यदादाय घण्टामैरावताद्गजात् ।
अभिषेकं तया चक्रे पवित्रजलपीर्णया ।। १३ ।।
क्रियमाणेऽभिषेके तु गावः कृष्णस्य तत्क्षणात् ।
प्रस्नवोद्भूतदृग्धार्द्रां सद्यश्चक्रुर्वसुन्धरम् ।। १४ ।।
अभिषिच्च गवां वाक्यादुपेन्द्रं वै जनार्दनात् ।
प्रीत्या सप्रश्रयं वाक्यं पुनराह शचीपतिः ।। १५ ।।
गवामेतत्कृतं वाक्यं तथाऽन्यदपि मे श्रुणु ।
यद्ब्रवीमि महाभाग भारावतरणेच्छया ।। १६ ।।
ममांशः पुरुषव्याघ्र पृथिव्यां पृथिवीधर ।
अवतीर्णोऽर्जुनो नाम संरक्ष्यो भवता सदा ।। १७ ।।
भारावतरणो साह्यं स ते वीरः करिष्यति ।
संरक्षणीयो भवता यथाऽऽत्मा मधुसूदन ।। १८ ।।
श्रीभगवानुवाच
जानामि भारते वंशे जातं पार्थं तवांशतः ।
तमहं पालयिष्यामि यावत्स्थास्यमि भूतले ॥ १९ ॥
यावन्महीतले शक्र स्थास्याम्यहमरिन्दम ।
न तावदर्जुनं कश्चिद्देवेन्द्र युधि जेष्यति ॥ २० ॥
कंसो नाम महाबाहुर्दैत्योऽरिष्टस्तथाऽसुरः ।
केशी कुवलयापीडो नरकाद्यास्तथा परे ॥ २१ ॥
हतेषु तेषु देवेन्द्र भविष्यति महाहवः ।
तत्र विद्धि सहस्राक्ष भारावतरणं कृतम् ॥ २२ ॥
स त्वं गच्छ न संतापं पुत्रार्थे कर्तुमर्हसि ।
नार्जुनस्य रिपुः कश्चिन्ममाग्रे प्रभविष्यति ॥ २३ ॥
अर्जुनार्थे त्वहं सर्वान्युधिष्ठिरपुरोगमान् ।
निवृत्ते भारते युद्धे कुन्त्यै दास्याम्यविक्षताम् ॥ २४ ॥
श्रीपराशर उवाच
इत्युक्तः संपरिष्वज्य देवाराजो जनार्दनम् ।
आरुह्यौरावतं नागं पुनरेव दिवं ययौ ॥ २५ ॥
कृष्णो हि सहितो गोभिर्गोपालैश्च पुनर्व्रजम् ।
आजगामाथ गोपीनां दृष्टिपूतेन वर्त्मना ॥ २६ ॥
स त्वामिति ॥ सोऽहं त्वामुपेन्द्रत्वे उप – उपरि सत्यलोको परिभाग स्थगोलोके श्वरत्वे अभिरषेक्ष्यामि । यथोक्तं हरिवंशे ममोपरि यथेन्द्रस्त्वं स्थापितो गोभिरीश्वरः । उपेन्द्र इति लोके त्वां गायन्ति दिवि देवताः ॥ इति । अतो गवामिन्द्रो गोविन्दो भविष्यसि । १२ – २६
इति श्रीविष्णुमहापुराणे पञ्चमांशे द्वादशोऽध्यायः ।। १२ ।।
अथ पञ्चमांशे त्रयोदशोऽध्यायः
श्रीपराशर उवाच
गते शक्रे तु गोपालाः कृष्णमक्लिष्टकारिणम् ।
ऊचुः प्रीत्या धृतं दृष्ट्वा तेन गोवर्धनाचलम् ॥ १ ॥
वयमस्मान्महाभाग भगवन्महतो भयात् ।
गावश्च भवता त्राता गिरिधारणकर्मणा ॥ २ ॥
॥ १,२ ॥
बालक्रीडेयमतुला गोपालत्वं जुगुप्सितम् ।
दिव्यं च भवतः कर्म किमेतत्तात कथ्यताम् ॥ ३ ॥
कालीयो दमितस्तोये धेनुको विनिपातितः ।
धृतो गोवर्धनश्चायं शङ्कितानि मनांसि नः ॥ ४ ॥
बालक्रीडेति ॥ बालक्रीडा – पूतनावधादि । कर्म – अद्रिधारणादि ॥ ३, ४ ॥
सत्यं सत्यं हरेः पादौ शपामोऽमितविक्रम ।
यथावद्वीर्यमालोक्य न त्वां मन्यामहे नरम् ॥ ५ ॥
सत्यंसत्यमिति ॥ पादौ – पादाभ्याम् ॥ ५ ॥
प्रीतिःसस्त्रीकुमारस्य व्रजस्य त्वयि केशव ।
कर्म चेदमशक्यं यत्समस्तैस्त्रिदशैरपि ॥ ६ ॥
प्रीतिरिति ॥ एकस्मिन् सर्वेषां प्रीतिश्चामानुषत्वशङ्काहेतुः ॥ ६ ॥
बालत्वं चातिवीर्यत्वं जन्म चास्मास्वशोभनम् ।
चिन्त्यमानममेयात्मञ्छङ्कां कृष्ण प्रयच्छति ॥ ७ ॥
बालत्वमिति ॥ अतिवीर्यत्वमिति बालत्वविशेषणम् । अशोभनमिति जन्मविशेषणम् ॥ ७ ॥
देवो वा दानवो वा त्वं यक्षो गन्धर्व एव वा ।
किमस्माकं विचारेण बान्धवोऽसि नमोस्तु ते ॥ ८ ॥
श्रीपराशर उवाच
क्षणं भूत्वा त्वसौ तूष्णीं किञ्चित्प्रणयकोपवान् ।
इत्येवमुक्तस्तैर्गोपैः कृष्णोऽप्याह महामतिः ॥ ९ ॥
श्रीभगवानुवाच
मत्संबन्धेन वो गोपा यदि लज्जा न जायते ।
श्लाघ्यो वाऽहं ततः किं वो विचारेण प्रयोजनम् ॥ १० ॥
यदि वोऽस्ति मयि प्रीतिः श्लाघ्योऽहं भवतां यदि ।
तदात्मबन्धुसदृशी बुद्धिर्वः क्रियातां मयि ॥ ११ ॥
देवो वेति ॥ सर्वथा देवादिष्वन्यतम एवास्माकं बान्धवोऽसि, न गोपालमात्रम् । किं विचारेण नात्र संशयः ॥ ८ – ११ ।।
नाहं देवो न गन्धर्वो न यक्षो न च दानवः ।
अहं वो बान्धवो जातो नैतच्चिन्त्यमितोऽन्यथा ॥ १२ ॥
श्रीपराशर उवाच
इति श्रुत्वा हरेर्वाक्यं बद्धमौनास्ततो वनम् ।
ययुर्गोपा महाभाग तस्मन्प्रणयकोपिनि ॥ १३ ॥
कृष्णस्तु विमलं व्योम शरच्चन्द्रस्य चन्द्रिकाम् ।
तदा कुमुदिनीं फुल्लामामोदितदिगन्तराम् ॥ १४ ॥
वनराजीं तथा कूजन्द्भृङ्गमालामनोहराम् ।
विलोक्य सह गोपीभिर्मनश्चक्रे रतिं प्रति ॥ १५ ॥
नाहमिति ॥ अहं वो बान्धवः केवलं गोपः ।। १२ – १५ ।।
विना रामेण मधुरमतीव वनिताप्रियम् ।
जगौ कलपदं शौरिस्तारमन्द्रकृतक्रमम् ॥ १६ ॥
रम्यं गीतध्वनिं श्रुत्वा संत्यज्यावसथांस्तदा ।
आजग्मुस्त्वरिता गोप्यो यत्रास्ते मधुसूदनः ॥ १७ ॥
विनेति ॥ कलपदम् – अव्यक्तमधुराक्षरं गेयम । तारमन्द्रकृतक्रमम् । तारमन्द्रौ उच्चोपांशुध्वनि – धर्मो । नानामात्रकृतक्रममिति पाठे द्रुतमध्यविलंबिताख्यत्रिमात्र लयकृतस्यरक्रमम् । नानातन्त्रीकृतक्रममिति पाठे वीणाङ्गध्वनिवन्नियतनिबद्धस्वरक्रमम् ॥ १६, १७ ।।
शनैः शनैर्जगौ गोपी काचित्तस्य लयानुगम् ।
दत्तावधाना काचिच्च तमेव मनसाऽस्मरत् ॥ १८ ॥
काचित्कृष्णेति कृष्णेति प्रोक्त्वा लज्जामुपाययौ ।
ययौ च काचित्प्रेमान्धा तत्पार्श्वमविलंबितम् ॥ १९ ॥
शनैश्शनैरिति ॥ तस्य लयानुगं द्रुतमध्यविलंबिताख्यत्रिलयात्मकताल विश्रान्तिकालानुगुणम् । तालान्तराळवर्ती यः कालोऽसौ लयनाल्लयः इति वचनात् । दत्तावधाना – कृतावधाना ॥ १८, १९ ॥
काचिच्चावसथस्यान्ते स्थित्वा दृष्ट्वा बहिर्गुरुम् ।
तन्मयत्वेन गोविन्दं दध्यौ मीलितलोचना ॥ २० ॥
काचिदिति ॥ काचिदावसथस्येत्यनेन गोप्याः कामद्वारा भगवति लय उच्यते । तन्मयत्वेन आत्म – नस्तत्तादात्म्येन ॥ २० ॥
तच्चित्तविमलाह्लादक्षीणपुण्यचया तथा ।
तदप्राप्तिमहादुःखविलीनाशेषपातका ॥ २१ ॥
तच्चित्तेति ॥ तच्चित्तेन—तच्चित्तेन चितेन जातविमलाह्रादेन क्षीणपुण्यचया । वैमल्यं दुःखासंभेदः । अनेन पूर्वसंचितप्रारम्बनिश्शेषकर्मक्षयो मोगादुक्तः ॥ २१ ॥
चिन्तयती जगत्सूतिं परब्रह्मस्वरूपिणम् ।
निरुच्छूवासतया मुक्तिं गताऽन्या गोपकन्यका ॥ २२ ॥
चिंतयन्तीति । परब्रह्म स्वरूपिणि – स्वरूपि परब्रह्मणि । परब्रह्मस्वरूपिणमिति पाठे परब्रह्मभूतमिति । छ्वासतया—पियानुभवरूपध्यानादन्तमग्ने मनसि तद्विनाभूतप्राण देरप्यन्तर्गतत्वान्निरुच्छासत्वम् । दशम्या – प्रियमिति कामशास्त्रे बल्लभसायुज्यमुक्तम् । द्वेषाच्चैद्यादेरिव कामाद्गोपीनां सायुज्यमुपपन्नम् ॥ २२ ॥
गोपीपरिवृतो रात्रिं शरच्चन्द्रमनोरमाम् ।
मानयामास गोविन्दो रासारंभरसोत्सुकः ॥ २३ ॥
गोपीपरिवृत इति ॥ रासारंभेति । रासो नाम अन्योन्यव्यतिषक्तहस्तं गायती स्त्रीपुंसां मण्डलीभूय चानृत्तं रासः । उक्तं च – अनेकनर्तकीयोज्यं चित्रताललयान्वितम् । आचतुष्षष्ठियुगलादासकं मसुणोद्धतम् ॥ २३ ॥
गोप्यश्च वृन्दशः कृष्णचेष्टास्वायत्तमूर्तयः ।
अन्यदेशं गते कृष्णे चेरुर्वृन्दावनान्तरम् ॥ २४ ॥
कृष्णे निबद्धहृदया इदमूचुः परस्परम् ॥ २५ ॥
गोप्यश्चेति । अन्यदेशं गत इति विप्रलंभशृंगारोक्तिः संभोगपोषार्था । कृष्णचेष्टास्वायत्तमूर्तयः इति नोक्तिः । यदाह भरतः प्रियानुकरणं लीला मधुराङ्गविचेष्टितैः इति ॥ २४, २५ ॥
कृष्णोऽहमेष ललितं व्रजाम्यालोक्यतां गतिः ।
अन्या ब्रवीति कृष्णस्य मम गीतिर्निशम्यताम् ॥ २६ ॥
दुष्टकालिय तिष्ठात्र कृष्णोऽहमिति चापरा ।
बाहुमास्फोट्य कृष्णस्य लीलया सर्पमाददे ॥ २७ ॥
अन्या ब्रवीति भो गोपा निःशङ्कैः स्थीयतामिति ।
अलं वृष्टिभयेनात्र धृतो गोवर्धनो मया ॥ २८ ॥
धेनुकोऽयं मयाक्षिप्तो विचरन्तु यथेच्छया ।
गावो ब्रवीति चैवान्या कृष्णलीलानुसारिणी ॥ २९ ॥
कृष्णोऽहमिति ॥ ललितं व्रजामीति । सुकुमारोऽङ्गविन्यासो मसृणो ललितं भवेत् इति ॥ २६ – २९ ॥
एवं नानाप्रकारासु कृष्णचेष्टासु तास्तदा ।
गोप्यो व्यग्रास्समं चेरू रम्यं वृन्दावनान्तरम् ॥ ३० ॥
विलोक्यैका भुवं प्राह गोपी गोपवराङ्गना ।
पुलकाञ्चितसर्वाङ्गी विकासिनयनोत्पला ॥ ३१ ॥
एवमिति ॥ व्यग्राः उत्सुकाः ॥ ३०, ३१ ॥
ध्वजबज्राङ्कुशाब्जाङ्करेखावन्त्यालि पश्यत ।
पदान्येतानि कृष्णस्य लीलाललितगामिनः ॥ ३२ ॥
ध्वजवज्रेति ॥ ध्वजवज्राङ्कशब्जरूपरेखावन्ति । आलि— हे सख्यः । आर्षो वचनव्यत्ययः ॥ ३२ ॥
काऽपि तेन समायाता कृतपुण्या मदालसा ।
पदानि तस्याश्चैतानि घनान्यल्पतनूनि च ॥ ३३ ॥
कापीति ॥ घनानि–मद मंथरत्वादल्पान्तराणि, अल्पतनूनि – स्त्रीत्वात् ह्रस्वान्यपृथूनि च ॥ ३३ ॥
पुष्पापचयमत्रोच्चैश्चक्रे दामोदरे ध्रुवम् ।
येनाग्राक्रान्तमात्राणि पदान्यत्र महात्मनः ॥ ३४ ॥
पुष्पापचयमिति ॥ अग्राकान्तमात्राणि – प्रपदमात्राकान्तानि ॥ ३४ ॥
अत्रोपविश्य वै तेन काचित्पुष्पैरलङ्कृता ।
अन्यजन्मनि सर्वात्मा विष्णुरभ्यर्चितस्तया ॥ ३५ ॥
अत्रेति ॥ मृदितस्थलनिपतितपुष्पादिलिङ्गदर्शनेन अनुमानम् ॥ ३५ ॥
पुष्पबन्धनसंमानकृतमानामपास्य ताम् ।
नन्दगोपसुतो यातो मार्गेणानेन पश्यत ॥ ३६ ॥
पुष्पबन्धनेति ॥ मानो गर्वः ॥ ३६ ॥
अनुयातैनमत्रान्या नितंबभरमन्थरा ।
या गन्तव्ये द्रुतं याति निम्नपादाग्रसंस्थितिः ॥ ३७ ॥
हस्तन्यस्ताग्रहस्तेयं तेन याति तथा सखी ।
अनायत्तपदन्यासा लक्ष्यते पदपद्धतिः ॥ ३८ ॥
अनुयातेति ।। पुरतो याति – गच्छति कृष्णे, ते प्राप्तुं द्रुतं गन्तव्ये सति निम्नपादामसंस्थितिया अनुयाता इयमन्येत्यन्वयः ॥ २७, ३८ ॥
हस्तसंस्पर्शमात्रेण धूर्तेनैषा विमानिता ।
नैराश्यान्मन्दगामिन्या निवृत्तं लक्ष्यते पदम् ॥ ३९ ॥
हस्तसंस्पर्शेति ॥ एषा – अन्या, हस्तसंस्पर्शमात्रेण – मत्कारान्तररहितेन विभानिता । अत्र हेतुः नैराश्यादित्यादि ॥ ३९ ॥
नूनमुक्ता त्वरामीति पुनरेष्यामि तेऽन्तिकम् ।
तेन कृष्णेन येनैषा त्वरिता पदपद्धतिः ॥ ४० ॥
प्रविष्टो गहनं कृष्णः पदमत्र न लक्ष्यते ।
निवर्तध्वं शशाङ्कस्य नैतद्दीधितिगोचरे ॥ ४१ ॥
नूनमिति ॥ त्वरामि – रतोचित स्थानमन्वेष्टुं वरे, अन्विष्य पुनस्तेऽन्तिकमेष्यागीति नूनं कृष्णेन काचिदुक्ता । अत्र लिङ्गं येनेत्यादि ॥ ४०, ४१ ॥
निवृत्तास्तास्तदा गोप्यो निराशाः कृष्णदर्शने ।
यमुनातीरमासाद्य जगुस्तच्चरितं तथा ॥ ४२ ॥
ततो ददृशुरायान्तं विकासिमुखपङ्कजम् ।
गोप्यस्त्रैलोक्यगोप्तारं कृष्णमक्लिष्टचेष्टितम् ॥ ४३ ॥
काचिदालोक्य गोविन्दमायान्तमतिहर्षिता ।
कृष्णाकृष्णेति कृष्णेति प्राह नान्यदुदीरयत् ॥ ४४ ॥
काचिद्भ्रूभङ्गुरं कृत्वा ललाटफलकं हरिम् ।
विलोक्य नेत्रभृङ्गाभ्यां पपौ तन्मुखपङ्कजम् ॥ ४५ ॥
काचिदालोक्य गोविन्दं निमीलितविलोचना ।
तस्यैव रूपं ध्यायन्ती योगारूढेव सा बभौ ॥ ४६ ॥
ततः काञ्चित्प्रियालापैः काञ्चिद्भ्रूभङ्गवीक्षितैः ।
निन्येऽनुनयमन्यां च करस्पर्शेन माधवः ॥ ४७ ॥
ताभिः प्रसन्नचित्ताभिर्गोपीभिः सह सादरम् ।
ररास रासगोष्ठीभिरुदारचरितो हरिः ॥ ४८ ॥
निवृत्ता इति ॥ जगुः । तद्द्वानं हि तदपरोक्षदं सर्वेषाम् ॥ ४२ – ४८ ॥
रासमण्डलबन्धोपि कृष्णपार्श्वमनुज्झता ।
गोपीजनेन नैवाभूदेकस्थानस्थिरात्मना ॥ ४९ ॥
रासेति ॥ एकस्थानस्थिरात्मना – कृष्णपार्श्व एकैकस्मिन् स्थाने स्थिरचित्तेन, अत एव कृष्णपार्श्व – मनुज्झता गोपीजनेन रासार्थमण्डलीभावेन बन्धोऽपि नाभूत् । रासमण्डलबद्धोऽपि कृष्ण इति पाठे स्वयममितो मण्डलीभूय स्थितेन गोपीजनेन कृष्णो नैकस्थानोऽभूत् । गोपीमण्डलान्तः शीघ्रसंचारात्तत्तत्पार्श्वस्थ इवाभव – दिव्यर्थः ॥ ४९ ॥
हस्तेन गृह्य चैकैकां गोपीनां रासमण्डले ।
चकार तत्करस्पर्शनिमीलितदृशं हरिः ॥ ५० ॥
हस्तेनेति ॥ हरिरेकां हस्तेन गृह्णाति, सा तस्य करस्पर्शसुखनिमीलिताक्षी भवति । तामन्यस्याः स्वकरस्पर्शपरवशायाः हस्तेन हस्तं योजयति । एवं चापरस्याः तादृश्या हस्तेनेति । हरिहस्तस्पर्शसुखवशात्कृष्णेन गृहीत हस्ताऽइमेवेति सर्वासां बुद्धिमुत्पादयन्नेकमूर्तिरेव हरिरगृहीतहस्त एन रासमण्डले चकार । हरिरेवमेताभिः रासमण्डलं बबन्धेति रामवित्संप्रदायः । अन्ये तु द्वयोर्द्वयोर्मध्ये हरिरेकैकमूर्तिरातस्थावित्याहः ॥ ५० ॥
ततः प्रववृते रासश्चलद्वलयनिस्वनः ।
अनुयातशरत्काव्यगोयगीतिरनुक्रमात् ॥ ५१ ॥
कृष्णः शरच्चन्द्रमसं कौमुदीं कुमुदाकरम् ।
जगौ गोपीजनस्त्वेक कृष्णनाम पुनःपुनः ॥ ५२ ॥
परिवृत्तिश्रमेणैका चलद्वलयलापिनीम् ।
ददौ बाहुलतां स्कन्धे गोपी मधुनिघातिनः ॥ ५३ ॥
काचित्प्रविलसद्बाहुं परिरभ्य चुचुंब तम् ।
गोपीगीतस्तुतिव्याजान्निपुणा मधुसूदनम् ॥ ५४ ॥
तत इति ॥ अनुयातेति । शरद्वर्णनादिरूपं कविकृतं गेयं यत् तस्य या गीतिः सा अनुयाता येन रासेन ।। ५१ – ५४ ।।
गोपीकपोलसंश्लेषमभिगम्य हरेर्भुजौ ।
पुलकोद्गमसस्याय स्वेदांबुघनतां गतौ ॥ ५५ ॥
रासगेयं जगौ कृष्णो यावत्तारतरध्वनिः ।
साधु कृष्णेति कृष्णेति तावत्ता द्विगुणं जगुः ॥ ५६ ॥
गोपीति ॥ गोपीकपोलपुलकोद्गमसस्याय स्त्रेदाम्बुमद्धरिभुजद्वयं घनतां ययौ । अनेनेतरेतरानुराग उक्तः ॥ ५५, ५६ ।।
गतेऽनुगमनं चक्रुर्वलनं संमुखं ययुः ।
प्रतिलोमानुलोमाभ्यां भेजुर्गौपाङ्गना हरिम् ॥ ५७ ॥
स तथा सह गोपीभी ररास मधुरूदनः ।
यथाऽब्दकोटिप्रतिमः क्षणस्तेन विनाऽभवत् ॥ ५८ ॥
ता वार्यमाणाः पतिभिः पितृभिर्भ्रातृभिस्तथा ।
कृष्णं गोपाङ्गना रात्रौ रमयन्ति रतिप्रियाः ॥ ५९ ॥
गत इति ॥ वलने — आवृत्तौ । प्रतिलोमानुलोमाभ्यां – गतिप्रवृत्तिनिवृत्तिभ्याम् ।। ५७ – ५९ ।।
सोऽपि कैशोरकवयो मानयन्मधुसूदनः ।
रेमे ताभिरमेयात्मा क्षपासुक्षपिताहितः ॥ ६० ॥
स इति ॥ कैशोरकं कौमारकम् । मानयन् – संभावयन् ॥ ६० ॥
तद्भर्तृषु तथा तासु सर्वभूतेषु चेश्वरः ।
आत्मस्वरूपरूपोऽसौ व्यापी वायुरिव स्थितः ॥ ६१ ॥
यथा समस्तभूतेषु नभोऽग्निः पृथिवी जलम् ।
वायुश्चात्मा तथैवासौ व्याप्य सर्वमवस्थितः ॥ ६२ ॥
अथ कृष्णस्य सर्वव्यापनादीश्वरत्वेनापहतपाप्मत्वात् गोपीसंभोगेऽपि जीववन्न लेप इत्याह – तद्भर्तु – ष्वितिद्वयेनं । आत्मस्वरूपरूप: – जीवस्वरूप शरीरः । अत्र पूर्वश्लोकेनास्य सर्वचेतनशरीरत्वमुक्तम् । उत्तरेण सर्वा – चेतनशरीरत्वम् ॥ ६१ – ६२ ।।
इति श्रीविष्णुमहापुराणे पञ्चमांशे त्रयोदशोध्यायः ।। १३ ।।
अथ पञ्चमांशेचतुर्दशोऽध्यायः
श्रीपराशर वाच
प्रदोषाग्रो कदाचित्तु रासासक्ते जनार्दने ।
त्रासयन्समदो गौष्ठमरिष्टसमुपागमत् ॥ १ ॥
स तोयतोयदच्छायस्तीक्ष्णशृङ्गोऽर्कलोचनः ।
खुराग्रपातैरत्यर्थं दारयन्धरणीतलम् ॥ २ ॥
॥ १, २ ॥
लेलिहानःसनिष्पेषं जिह्वयोष्ठौ पुनःपुनः ।
संरंभाविद्धलाङ्गूलः कठिनस्कन्धबन्धनः ॥ ३ ॥
लेलिहान इति ॥ सनिष्पेषं – सशब्दम् । आविद्धं – वक्रितम् ॥ ३ ॥
उदग्रककुदाभोगप्रमाण दुरतिक्रमः ।
विण्मूत्रलिप्तपृष्ठाङ्गो गवमुद्वेगकारकः ॥ ४ ॥
प्रलंबकण्ठोऽतिमुखस्तरुखाताङ्किताननः ।
पातयन्स गावं गर्भान्दैत्यो वृषभरूपधृक् ॥ ५ ॥
सूदयंस्तापसानुग्रो वनान्यटति यःसदा ॥ ६ ॥
ततस्तमतिघोराक्षमवेक्ष्यातिभयातुराः ।
गोपा गोपस्त्रियश्चैव कृष्णकृष्णेति चुक्रुशुः ॥ ७ ॥
सिंहनादं ततश्चक्रे तलशब्दं च केशवः ।
तच्छब्द श्रवणाच्चासौ दामोदरमुपाययौ ॥ ८ ॥
अग्रन्यस्तविषाणाग्रः कृष्णकुक्षिकृतेक्षणः ।
अभ्यधावत दुष्टात्मा कृष्णं वृषभदानवः ॥ ९ ॥
आयान्तं दैत्यवृषभं दृष्ट्वा कृष्णो महाबलः ।
न चचाल तदा स्थानादवज्ञास्मितलीलया ॥ १० ॥
उदग्रेति ॥ उदग्रः – अतिशायितः, ककुदाभोगः – प्रमाणं च यस्य । उदग्रककुदाभोगः प्रमाणादिति च पाठ: ।। ४ – १०॥
आसन्नं चैव जग्राह ग्राहवन्मधुसूदनः ।
जघान जानुना कुक्षौ विषाणग्रहणाचलम् ॥ ११ ॥
तस्य दर्पबलं भङ्क्त्वा गृहीतस्य विषाणयोः ।
अपींडयदरिष्टस्य कण्ठं क्लिन्नमिवांबरम् ॥ १२ ॥
उत्पाट्य शृङ्गमेकं तु तेनैवाताडयत्ततः ।
ममार स महादैत्यौ मुखाच्छोणितमुद्वमन् ॥ १३ ॥
तुष्टुवुर्निहते तस्मिन् दैत्ये गोपा जनार्दनम् ।
जंभे हते सहस्राक्षं पुरा देवगणा यथा ॥ १४ ॥
आसन्नमिति ॥ ग्राहवत् – प्राह इव ॥ ११ – १४ ॥
इति श्रीविष्णुमहापुराणे पञ्चमांशे चतुर्दशोध्यायः ।। १४ ।।
अथ पञ्चमांशेपञ्चदशोऽध्यायः
श्रीपराशर उवाच
ककुद्मति हतेऽरिष्टे धेनुके विनिपातिते ।
प्रलंबे निधनं नीते धृते गोवर्धनाचले ॥ १ ॥
दमिते कालिये नागे भग्नेतुङ्गद्रुमद्वये ।
हतायां पूतनायां च शकटे परिवर्तिते ॥ २ ॥
ककुद्मतीति । ककुद्मति – वृषभे ॥ १, २ ॥
कंसाय नारदः प्राह यथावृत्तमनुक्रमात् ।
यशोदादेवकीगर्भपरिवृत्ताद्यशेषतः ॥ ३ ॥
कंसायेति ॥ गर्भपरिवर्त: – – अपत्यव्यत्ययः ॥ ३ ॥
श्रुत्वा तत्सकलं कंसो नारदाद्देवदर्शनात् ।
वसुदेवं प्रति तदा कोपं चक्रे सुदुर्मतिः ॥ ४ ॥
श्रुत्वेति ॥ देवदर्शनात् – देवानामिव दर्शनं यस्य तस्मात् ॥ ४ ॥
सोऽतिकोपादुपालभ्य सर्वयादवसंसदि ।
जगर्ह यादवांश्चैव कार्यं चैतदचिन्तयत् ॥ ५ ॥
यावन्न बलमारूढौ रामकृष्णौ सुबालकौ ।
तावदेव मया वध्यावसाध्यौ रूढयौवनौ ॥ ६ ॥
चाणूरोऽत्र महावीर्यो मुष्टिकश्च महाबलः ।
एताभ्यां मल्लयुद्धेन मारयिष्याम दुर्मती ॥ ७ ॥
धनुर्महमहायोगव्याजेनानीय तौ व्रजात् ।
तथा तथा यतिष्यामि यास्येते संक्षयं यथा ॥ ८ ॥
श्वफल्कतनयं शूरमक्रूरं यदुपुङ्गवम् ।
तयोरानयनार्थाय प्रेषयिष्यामि गोकुलम् ॥ ९ ॥
वृन्दा वनचरं घोरमादेक्ष्यामि च केशिनम् ।
तत्रैवासावतिबलस्तावुभौ घातयिष्यति ॥ १० ॥
गजः कुवलायापीडो मत्सकाशमिहागतौ ।
घातयिष्यति वा गोपौ वसुदेवसुतावुभौ ॥ ११ ॥
श्रीपराशर उवाच
इत्यालोच्य स दुष्टात्मा कंसो रामजनार्दनौ ।
हन्तुं कृतमतिवीरावक्रूरं वाक्यमब्रवीत् ॥ १२ ॥
कंस उवाच
भो भो दानपते वाक्यं क्रियतां प्रीतये मम ।
इतः स्यन्दनमारुह्य गम्यतां नन्दगोकुलम् ॥ १३ ॥
वसुदेवसुतौ तत्र विष्णोरंशसमुद्भवौ ।
नाशाय किल संभूतौ मम दुष्टौ प्रवर्धतः ॥ १४ ॥
धनुर्महो ममाप्यत्र चतुर्दश्यां भविष्यति ।
आनेयौ भवता गत्वा मल्लयुद्धाय तत्र तौ ॥ १५ ॥
चाणूरमुष्टिकौ मल्लौ नियुद्धकुशलौ मम ।
ताभ्यां सहानयोर्युद्धं सर्वलोकोऽत्र पश्यतु ॥ १६ ॥
गजः कुवलयापीडो महामात्रप्रचोदितः ।
स वा हनिष्यते पापौ वसुदेवात्मजौ शिशु ॥ १७ ॥
तौ हत्वा वसुदेवं च नन्दगोपं च दुर्मतिम् ।
हनिष्ये पितरं चैनमुग्रसेनं सुदुर्मतिम् ॥ १८ ॥
ततःसमस्तगोपानां गोधनान्यखिलान्यहम् ।
वित्तं चापहरिष्यामि दुष्टानां मद्वधैषिणाम् ॥ १९ ॥
त्वामृते यादवाश्चैते द्विषो दानपते मम ।
एतेषां च वधायाहं यतिष्येऽनुक्रमात्ततः ॥ २० ॥
तदा निष्कण्टकं सर्वं राज्यमेतदयादवम् ।
प्रसाधिष्ये त्वया तस्मान्मत्प्रीत्यै वीर गम्यताम् ॥ २१ ॥
स इति ॥ उपालभ्य – विगर्ह्य ॥ ५ – २१॥
यथा च माहिषं सर्पिर्दधि क्षीरं तथा बहु ।
गोपाःसमानयन्त्वाशु तथा वाच्यास्त्वया च ते ॥ २२ ॥
श्रीपराशर उवाच
इत्याज्ञप्तस्तदाऽक्रूरो महाभागवतो द्वज ।
प्रीतिमानभवत्कृष्णं श्वोद्रक्ष्यामीति सत्वरः ॥ २३ ॥
तथेत्यक्त्वा च राजानं रथमारुह्य शोभनम् ।
निश्चक्राम ततः पुर्या मथुराया मधुप्रियः ॥ २४ ।।
यथा चेति ॥ उपहार्य – उपायनीकृत्य । समानयन्त्वाशु चोपहार्य तथातथेति च पाठः ।। २२ – २४ ।।
इति श्रीविष्णुमहापुराणे पञ्चमांशे पञ्चदशोऽध्यायः ।। १५ ।।
अथ पञ्चमांशेषोडशोऽध्यायः
श्रीपराशर उवाच
केशी चापि बलोदग्रः कंसदूतप्रचोदितः ।
कृष्णस्य निधनाकाङ्क्षी वृन्दावनमुपागमत् ॥ १ ॥
केशीति । बृन्दावनम् –कृष्णासन्नभागम् ॥ १ ॥
स खुरक्षतभूपृष्ठःसटाक्षेपधुतांबुदः ।
द्रुतविक्रान्तचन्द्रार्कमार्गो गोपानुपाद्रवत् ॥ २ ॥
स इति ॥ द्रुतैः–उत्प्लुतिर्भिविक्रान्तौ – आक्रान्तौ चंद्रार्कमार्गी येन ॥ २ ॥
तस्य देषितशब्देन गोपाला दैत्यवाजिनः ।
गोप्यश्च भयसंविग्ना गोविन्दं शरणं ययुः ॥ ३ ॥
त्राहित्राहीति गोविन्दःश्रुत्वा तेषां ततो वचः ।
सतोयजलदध्वानगंभीरमिदमुक्तवान् ॥ ४ ॥
तस्येति ॥ भयसंविग्नाः – भयेन चलिताः ॥ ३, ४ ॥
अलं त्रासेन गोपालाः केशिनः किं भयातुरैः ।
भविद्भिर्गोपजाती यैर्वीरवीर्यं विलोप्यते ॥ ५ ॥
अलमिति ॥ केशिनस्रासेनालम। गोपजातीयैर्भवद्भिर्वीगणां वीयं किं विलोप्यते ? गोपजातीयत्व – विशेषणमेषां वीर्यहेतुः ॥ ५ ॥
किमनेनाल्पसारेण हषिताटोपकारिणा ।
दैतेयबलवाह्येन वल्गता दुष्टवाजिना ॥ ६ ॥
एह्येहि दुष्ट कृष्णोऽहं पूष्णस्त्विव पिनाकधृत् ।
पातयिष्यामि दशनान्वदनादखिलांस्तव ॥ ७ ॥
इत्युक्त्वास्फोट्य गोविन्दः केशिनःसंमुखं ययौ ।
विवृतास्यश्च सोऽप्येनं दैतेयाश्व उपाद्रवत् ॥ ८ ॥
किमनेनेति ॥ आटोपः – संभ्रमः । दैतेयश्चासौ बलवाह्यश्च । बटवाल: – बलहीनः । बल्गता – नृत्यता ।। ६ – ८॥
बाहुमाभोगितं कृत्वा मखे तस्य जनार्दनः ।
प्रवेशयामास तदा केशिनो दुष्टवाजिनः ॥ ९ ॥
केशिनो वदनं तेन विशता कृष्णबाहुना ।
शातिता दशनाः पेतुः सिताभ्रावयवा इव ॥ १० ॥
बाहुमिति ॥ आयोगिनम् – परिणाहिनम् ॥ ९ – १० ॥
कृष्णस्य ववृधे बाहुः केशिदेहगतो द्विज ।
विनाशाय यथा व्याधिरासंभूतेरुपेक्षितः ॥ ११ ॥
विपाटितोष्ठो बहुलं सफेनं रुधिरं वमन् ।
सोक्षिणी विवृते चक्रे विशिष्टे मुक्तबन्धने ॥ १२ ॥
जधान धरणीं पादैः शकृन्मूत्रं समुत्सृजन् ।
स्वेदार्द्रगात्रस्शान्तश्च निर्यत्नस्सोऽभवत्तदा ॥ १३ ॥
व्यादितास्यमहांरन्ध्रःसोऽसुरः कृष्णबाहुना ।
निपातितो द्विधा भूमौ वैद्युतेन यथा द्रुमः ॥ १४ ॥
कृष्णस्येति ॥ आसंभूते: – आवृद्धेः ॥ ११ – १४ ॥
द्विपादे पृष्ठपुच्छार्धे श्रवणेकाक्षिनासिके ।
केशिनस्ते द्विधा भूते शकले द्वे विरेजतुः ॥ १५ ॥
हत्वा तु केशिनं कृष्णो गोपालैर्मुदितैर्वृतः ।
अनायस्ततनुःस्वस्थो हसंस्तत्रैव तस्थिवान् ॥ १६ ॥
द्विपादे इति ॥ द्वो पादौ ययोः अर्धरूपे पृष्ठे पृच्छे च ययोस्ते। द्विपादपृष्ठपुच्छार्ध इत्यैकपद्यपाठश्च । श्रवणेति । एकशब्दः श्रवणपदात्प्राग्योज्य: । एका श्रवणाक्षिनासिका ययोस्ते – श्रवणैकाशिनासिके ॥ १५,१६ ॥
ततो गोप्यश्च गोपाश्च हते केशिनि विस्मिताः ।
तुष्टुवुः पुण्डरीकाक्षमनुरागमनोरमम् ॥ १७ ॥
अथाहान्तर्हितो विप्र नारदो जलदे स्थितः ।
केशिनं निहतं दृष्ट्वा हर्षनिर्भरमानसः ॥ १८ ॥
साधुसाधु जगन्नाथ लीलयैव यदच्युत ।
निहतोऽयं त्वया केशी क्लेशदस्त्रिदिवौकसाम् ॥ १९ ॥
तत इति ॥ अनुरागेण मनोरमं यथा भवति तथा ।। १७ – १९ ।।
युद्धोत्सुकोऽहमत्यर्थं नरवाजिमहाहवम् ।
अभूतपूर्वमन्यत्र द्रष्टुं स्वर्गादिहागतः ॥ २० ॥
कर्माण्यऽत्रावतारे ते कृतानि मधुसूदन ।
यानि तैर्विस्मितं चेतस्तोषमेतेन मे गतम् ॥ २१ ॥
तुरङ्गस्यास्य शक्रोऽपि कृष्ण देवाश्च बिभ्यति ।
धुतकेसरजालस्य ह्रेषतोऽभ्रावलोकिनः ॥ २२ ॥
यस्मात्त्वयैष दुष्टात्मा हतः केशी जनार्दन ।
तस्मात्केशवनाम्ना त्वं लोके ख्यातो भविष्यसि ॥ २३ ॥
युद्धोत्सुक इति ॥ युद्धोत्सुकः – युद्धदर्शनोत्सुकः ॥ २० – २३ ।।
स्वस्त्यस्तु ते गमिष्यामि कंसयुद्धेऽधुना पुनः ।
परश्वोऽह समेष्यामि त्वया केशिनिषूदन ॥ २४ ॥
स्वस्त्यस्त्विति ॥ अधुना गमिष्यामीत्यन्वयः ॥ २४ ॥
उग्रसेनसुते कंसे सानुगे विनिपातिते ।
भारावतारकर्ता त्वं पृथिव्या पृथिवीधर ॥ २५ ॥
उग्रसेनेति ॥ कर्ता – भविष्यसि ॥ २५ ॥
तत्रानेक प्रकाराणि युद्धानि पृथिवीक्षिताम् ।
द्रष्टव्यानि मया युष्मत्प्रणीतानि जनार्दन ॥ २६ ॥
सोऽहं यास्यामि गोविन्द देवकार्यं महत्कृतम् ।
त्वयैव विदितं सर्वं स्वस्ति तेऽस्तु व्रजाम्यहम् ॥ २७ ॥
तत्रेति ॥ तत्र – भारावतरणे। आयुष्मप्रणीतानीति पदच्छेदः । यामोषधीमिवा – युष्मन्नितिवन्मङ्गला आसनोक्तिः ॥२६, २७ ॥
नारदे तु गते कृष्णः सह गोपैः सभाजितः ।
विवेश गोकुलं गोपीनेत्रपानैकभाजनम् ॥ २८ ॥
नारद इति ॥ नेत्रेति । नेत्रैः पानक्रियाणामेको विषयः ॥ २८ ॥
इति श्रीविष्णुमाहपुराणे पञ्चमांशे षोटशोऽध्यायः ।। १६ ।।
अथ पञ्चमांशेसप्तदशोऽध्यायः
श्रीपराशर उवाच
अक्रूरोऽपि विनिष्क्रम्य स्यन्दनेनाशुगामिना ।
कृष्णसंदर्शनाकाङ्क्षी प्रययौ नन्दगोकुलम् ॥ १ ॥
॥ १ ॥
चिन्तयामास चाक्रूरो नास्ति धन्यतरो मया ।
योऽहमंशावतीर्णस्य मुखं द्रक्ष्यामि चक्रिणः ॥ २ ॥
अद्य मे सफलं जन्म सुप्रभाताऽभवन्निशा ।
यदुन्निद्राब्जपत्राक्षं विष्णोर्द्रक्ष्याम्यहं मुखम् ॥ ३ ॥
चिन्तयामासेति ॥ मया – मत्तः ॥ २,३ ॥
पापं हरति यत्पुंसां स्मृतं संकल्पनामयम् ।
तत्पुण्डरीकनयनं विष्णोर्द्रक्ष्याम्यहं मुखम् ॥ ४ ॥
पापमिति ॥ संकल्पनामयम् – अदितिदेवक्याचाराधनसंकल्पानुरूपं हि भगवतो देवमनुष्यादिसजा – तीयम् इदं रूपम् । इदं विभवार्चावतारसाधारणम् । यथाह ये यथा मां प्रपद्यन्ते इति । हृदयोपासनेऽपि उपासक संकल्पाधीनाङ्गप्रत्यङ्गरूपादिमत्त्वमुक्तं हृदि संकल्प्य यद्रूपमित्यादिना । अथवा संकल्पनामयमिति – स्वसंकल्पकृतमिति; इच्छागृहीतेत्यादि । यथोक्तम् हृयोगे बहिराराधनार्थं तु या मूर्तिरवतिष्ठते । तदाकारं
विचिन्त्याथ यजेत्सर्वेश्वरं हरिम् ॥ इति ॥ ४ ॥
विनिर्जग्मुर्यतो वेदा वेदाङ्गान्यखिलानि च ।
द्रक्ष्यामि तत्परं धाम धाम्रां भगवतो मुखम् ॥ ५ ॥
यज्ञेषु यज्ञपुरुषः पुरुषैः पुरुषोत्तमः ।
इज्यते योऽखिलाधारस्तं द्रक्ष्यामि जगत्पतिम् ॥ ६ ॥
विनिर्जग्मुरिति ॥ धाम – धाम्नां तेजसां स्थान, तेजो वा ॥ ५ – ६ ॥
इष्ट्वा यमिन्द्रो यज्ञानां शतेनामरराजताम् ।
अवाप तमनन्तादिमहं द्रक्ष्यामि केशवम् ॥ ७ ॥
न ब्रह्म नेन्द्ररुद्राश्विवस्वादित्यमरुद्गणाः ।
यस्य स्वरूपं जानन्ति प्रत्यक्षं याति मे हरिः ॥ ८ ॥
दृष्टेति ॥ अनन्तादिम्—आद्यन्तरहितम् ॥ ७, ८ ॥
सर्वात्मा सर्ववित्सर्वः सर्वभूतेष्ववस्थितः ।
योह्यऽचिन्त्योऽव्ययो व्यापी स वक्ष्यति मया सह ॥ ९ ॥
मत्स्य कूर्मवराहाश्वसिंहरूपादिभिः स्थितिम् ।
चकार जगतो योऽजः सोऽद्य मामालपिष्यति ॥ १० ॥
सांप्रतं च जगत्स्वामी कार्यमात्महृदि स्थितम् ।
कर्तुं मनुष्यतां प्राप्तःस्वेच्छादेहधृदव्ययः ॥ ११ ॥
सर्वात्मेति ॥ सर्वस्यात्मा सर्वभूतेष्ववस्थितः व्योमवद्वितत्य व्यापी, नाग्निवाय्वादिषद्विच्छिद्यते ॥ ११ ।।
योऽनन्तः पृथिवीं धत्ते शेखरस्थितिसंस्थिताम् ।
सोऽवतीर्णो जगत्यर्थे माम क्रूरेति वक्ष्यति ॥ १२ ॥
योऽनन्त इति ॥ शेखरेति – शेखरसंनिवेशेन स्थिताम । सः – रामः ॥ १२ ॥
पितृपुत्रसुहृद्भ्रातृमातृबन्धुमयीमिमाम् ।
यन्मायां नालमुत्तर्तुं जगत्तस्मै नमोनमः ॥ १३ ॥
पितृपुत्रेति ॥ अत्र पित्रादिरूपेण परिणता गुणमयी विचित्रकार्य करत्वेन मायेत्युच्यते ॥ १३ ॥
तरत्यविद्यां विततां हृदि यस्मिन्निवेशिते ।
योगमायाममेयाय तस्मै विद्यात्मने नमः ॥ १४ ॥
तरतीति ।। सैत्र भगवत्स्वरूपतिरोधायकत्वादन्यथाज्ञा नजनकत्वाच्चविद्येत्युच्यते ॥ १४ ॥
यज्वभिर्यज्ञपुरुषो वासुदेवश्च सात्त्वतैः ।
वेदान्तवेदिभिर्विष्णुः प्रोच्यते यो नतोऽस्मि तम् ॥ १५ ॥
यथा यत्र जगद्धाम्नि धातर्येतत्प्रतिष्ठितम् ।
सदसत्तेन सत्येन मय्यसौ यातु सौम्याताम् ॥ १६ ॥
स्मृते सकलकल्याणभाजनं यत्र जायते ।
पुरुषस्तमजं नित्यं व्रजामि शरणं हरिम् ॥ १७ ॥
यज्वभिरिति ।। सात्वतैः – भगवच्छास्त्रनिष्ठैः ॥ १५ – १७ ॥
श्रीपराशर उवाच
इत्थं संचिन्तयन्विष्णुं भक्तिनम्रात्ममानसः ।
अक्रूरो गोकुलं प्राप्तः किञ्चित्सूर्ये विराजति ॥ १८ ॥
इत्थमिति ॥ भक्तिनम्रात्ममानसः – भक्तिपह्रशरीरान्तः करणः । किंचित्सूर्ये विराजति – अस्तासन्ने ॥ १८ ॥
स ददर्श तदा कृष्णमादावादोहने गवाम् ।
वत्समध्यागतं फुल्लनीलोत्पलदलच्छविम् ॥ १९ ॥
स इति ॥ आदोहने – दोहस्थाने ॥ १९ ॥
प्रफुल्लपद्मपत्राक्षं श्रीवत्सांकितवक्षसम् ।
प्रलंबबाहुमायामतुङ्गोरस्थलमुन्नसम् ॥ २० ॥
सविलासस्मिताधारं बिभ्राणं मुखपङ्कजम् ।
तुङ्गरक्तनखं पद्य्भां धरण्यां सुप्रतिष्ठितम् ॥ २१ ॥
प्रफुल्लेति ॥ आयामतुङ्गो रस्स्थलं – विशालपीनोरस्कमित्यर्थः ॥ २०, २१ ॥
बिभ्राणं वाससी पीते वन्यपुष्पविभूषितम् ।
सेंदुनीलाचलाभं तं सितांभोजावतंसकम् ॥ २२ ॥
हंसकुन्देन्दुधवलं नीलांबरधरं द्विज ।
तस्यानु बलभद्रं च ददर्श यदुनन्दनम् ॥ २३ ॥
बिभ्राणमिति ॥ सेन्दुनीलाचलाभं – सिताम्भोजावतं सवत्वात् ॥ २२, २३ ॥
प्रांशुमुत्तुङ्गबाह्वंसं विकासि मुखपङ्कजम् ।
मेघमालापरिवृतं कैलासाद्रिमिवापरम् ॥ २४ ॥
तौ दृष्ट्वा विकसद्वक्त्रसरोजः स महामतिः ।
पुलकाञ्चितसर्वाङ्गस्तदाऽक्रूरोऽभवन्मुने ॥ २५ ॥
प्रांशुमिति ॥ उत्तुङ्गबाहंसं—पीनबाह्वंसम् ॥ २४,२५ ॥
तदेतत्परमं धाम तदेतत्परमं पदम् ।
भगवद्वासुदेवांशो द्विधा योऽयं व्यवस्थितः ॥ २६ ॥
तदेतदिति ॥ धाम—तेजः । परमं पदं परमं प्राप्यम् । पद्यते इति पदं, भगवद्वासुदेवांशत्वात् ॥ २६ ॥
साफल्यमक्ष्णोर्युगमेतदत्र दृष्टे जगद्धातरि यातमुच्चैः ।
अप्यङ्गमेतद्भगवत्प्रसादात्तदङ्गसंगे फलवन्मम स्यात् ॥ २७ ॥
साफल्यमिति ॥ अङ्गं फलवदपि स्यादित्याशंसा ॥ २७ ॥
अप्येष पृष्ठे मम हस्तपद्मं करिष्यति श्रीमदनन्तमूर्तिः ।
यस्याङ्गुलिस्पर्शहताखिलाघैरवाप्यते सिद्धिरपास्तदोषा ॥ २८ ॥
भगवत्पाणिपद्मस्य शुद्धिशौर्यौदार्याण्याह – अप्येष इत्यादिश्लोकत्रणयेण ॥ अप्येष इति ॥ श्रीमदिति हस्तपद्मविशेषणम् । यस्येति च तस्यैव निर्देशः । अनाशदोषा – नाशदोषाभ्यां हीना। अपास्तदोषेति च पाठः ।। २८ ॥
येनाग्निविद्युद्रविरश्मिमालाकरालमत्युग्रमपेत चक्रम् ।
चक्रं घ्नता दैत्यपतेर्हृतानि दैत्याङ्गनानां नयनाञ्जनानि ॥ २९ ॥
यत्रांबु विन्यस्य बलिर्मनोज्ञानवाप भोगान्वसुधातवलस्थः ।
तथाऽमरत्वं त्रिदशाधिपत्वं मन्वन्तरं पूर्णमपेतशत्रुः ॥ ३० ॥
येनेति ॥ चक्रं–बलम् । अपेतचक्रमिति क्रियाविशेषणम् । अपास्य चक्रमिति च पाठः ॥ २९,३० ॥
अप्येष मां कंसपरिग्रहेण दोषास्पदीभूतमदोषदुष्टम् ।
कर्ताऽवमानोपहतं धिगस्तु तज्जन्म यत्साधुबहिष्कृतस्य ॥ ३१ ॥
अप्येष इति ।। अदोषदुष्टं मां कंसपरिग्रहेण दोषास्पदीभूतमपि । कर्ता करिष्यतीत्यन्वयः । अपमानेत्यादि वाक्यान्तरम् ॥ ३१ ॥
ज्ञानात्मकस्यामलसत्त्वराशेरपेतदोषस्य सदा स्फुटस्य ।
किं वा जगत्यत्र समस्तपुंसामज्ञातमस्यास्ति हृदि स्थितस्य ॥ ३२ ॥
तस्मादहं भक्तिविनम्रचेता व्रजामि सर्वेश्वमीश्वराणाम् ।
अंशावतारं पुरुषोत्तमस्य ह्यनादिमध्यान्तमजस्य विष्णोः ॥ ३३ ॥
भगवान् सर्वज्ञत्वान्मां निरागसं ज्ञात्वा स्वीकरिष्यतीत्याह – ज्ञानात्मकस्येति ॥ जीवस्य ज्ञानात्मकत्वेऽपि रजस्तमोमूलरागादिदोषतिरोहितस्वरूपत्वात, ततो भगवन्तं व्यावर्तयति – अमलसत्वेत्यादिना । सदा स्फुटस्य–अतिरोहितस्वरूपस्य ॥ ३२, ३३ ॥
इति श्रीविष्णुमहापुराणे पञ्चमांशे सप्तदशोऽध्यायः ।। १७ ।।
अथ पञ्चमांशे अष्टादशोऽध्यायः
श्रीपराशर उवाच
चिन्तयन्निति गोविन्दमुपगम्य स यादवः ।
अक्रुरोस्मीति चरणौ ननाम शिरसा हरेः ॥ १ ॥
सोऽप्येनं ध्वजवज्राब्जकृतचिह्नेन पाणिना ।
संस्पृश्याकृष्य च प्रीत्या सुगाढं परिषस्वजे ॥ २ ॥
कृतसंवन्दनौ तेन यथावद्बलकेशवौ ।
ततः प्रवीष्टौ संहृष्टौ तमादायात्ममन्दिरम् ॥ ३ ॥
।। १ – ३ ।।
सह ताभ्यां तदाऽक्रूरः कृतसंवन्दनादिकः ।
भुक्तभोज्यो यथान्याय्यमाचचक्षे ततस्तयोः ॥ ४ ॥
यथा निर्भत्सितस्तेन कंसेनानकदुन्दुभिः ।
यथा च देवकी देवी दानवेन दुरात्मना ॥ ५ ॥
उग्रसेने यथा कंसःस दुरात्मा च वर्तते ।
यं चैवार्थं समुद्दिश्य कंसेन तु विसर्जितः ॥ ६ ॥
तत्सर्वं विस्तराच्छ्रुत्वा भगवान्देवकीसुतः ।
उवाचाखिलमप्येतज्ज्ञातं दानपते मया ॥ ७ ॥
सहेति ॥ कृतसंवादनादिकः ( कृतसंवादादिकः) सुसत्कृतः ॥ ४ – ७॥
करिष्ये तन्माहभाग यदत्रौपयिकं मतम् ।
विचिन्त्यं नान्यथैतत्ते विद्धि कंसं हतं मया ॥ ८ ॥
अहं रामश्च मथुरां श्वो यास्यावःसह त्वया ।
गोपवृद्धाश्च यास्यन्ति ह्यादायोपायनं बहु ॥ ९ ॥
निशेयं नीयतां वीर न चिन्तां कर्तुमर्हसि ।
त्रिरात्राभ्यन्तरे कंसं निहनिष्यामि सानुगम् ॥ १० ॥
श्रीपराशर उवाच
समादिश्य ततो गोपानक्रूरोऽपि च केशवः ।
सुष्वाप बलभद्रश्च नन्दगोपगृहे ततः ॥ ११ ॥
ततः प्रभाते विमले कृष्णरामौ महाद्युती ।
अक्रूरेण समं गन्तुमुद्यतौ मथुरां पुरीम् ॥ १२ ॥
करिष्य इति । औपयिकं — युक्तम् ॥ ८ – १२ ॥
दृष्ट्वा गोपीजनःसास्रः श्लथद्वलयबाहुकः ।
निशश्वासातिदुःखार्तः प्राह चेदं परस्परम् ॥ १३ ॥
मथुरां प्राप्य गोविन्दः कथं गोकुलमेष्यति ।
नगरस्त्रीकलालापमधु श्रोत्रेण पास्यति ॥ १४ ॥
दृष्टेति ॥ श्लथद्वलयत्वं विरहकार्यात् ॥ १३,१४ ॥
विलासिवाक्यपानेषु नागरीणां कृतास्पदम् ।
चित्तमस्य कथं भूयो ग्राम्यगोपीषु यास्यति ॥ १५ ॥
सारं समस्तगोष्ठस्य विधिना हरता हरिम् ।
प्रहृतं गोपयोषित्सु निर्घृणेन दुरात्मना ॥ १६ ॥
विलासेति ॥ विलासवाक्यपानेषु ग्राम्यगोपीषु – अविदग्धगोपीषु ॥ १५ – १६।।
भावगर्भस्मितं वाक्यं विलासललिता गतिः ।
नागरीणामतीवैतत्कटाक्षेक्षितमेव च ॥ १७ ॥
भावगर्भेति ॥ भावगर्भस्मितमिति वाक्यविशेषणम् । नागरीणामेतद्वाक्यादिकम् अतीव – पूजितम् । भूतमस्मदीयं वाक्यादिकम् । अतिक्रान्तमिति वा ।। १७ ।
ग्राम्यो हरिरयं तासां विलासनिगडैर्युतः ।
भवतीनांपुनः पार्श्वं कया युक्त्या समेष्यति ॥ १८ ॥
ग्राम्य इति ॥ ग्राम्यः – ग्रामे भवः, यतः – यन्त्रितः । अग्राम्यत्वादपूर्वत्वेन नागरीणां बिळासादि भनीयं भवति ।। १८ ।।
एषैष रथमारुह्य मथुरां याति केशवः ।
क्रूरेणाक्रूरकेणात्र निर्घृणेन प्रतारितः ॥ १९ ॥
एषैष इति ॥ अक्रूरकेणेति कुत्सायो कप्रत्ययः । अत्र – व्रजे । निराशेन – निरनुरागेण ॥ १९ ॥
किं न वेत्ति नृशंसोऽयमनुरागपरं जनम् ।
येनैवमक्ष्णोराह्लादं नयत्यन्यत्र नो हरिम् ॥ २० ॥
एष रामेण सहितः प्रयात्यत्यन्तनिर्घृणः ।
रथमारुह्य गोविन्दस्त्वर्यतामस्य वारणे ॥ २१ ॥
किमित्यादि । अयं स्वयं निरनुरागोऽस्तु; अनुरागपरमपि जनं किं न वेत्ति येनानुरक्तानामस्माकम – गोराह्लादकर हरिमन्यत्र नयति ॥ २०, २१ ॥
गुरूणामग्रतो वक्तुं किं ब्रवीथ न नः क्षमम् ।
गुरवःकिं करिष्यन्ति दग्धानां विरहाग्निना ॥ २२ ॥
नदङ्गोपमुखा गोपा गन्तुमेते समुद्यताः ।
नोद्यमं कुरुते कश्चिद्गोविन्दविनिवर्तने ॥ २३ ॥
गुरूणामित्यादि ॥ त्वर्यतामस्य वारणे इति नो गुरूणामग्रतो वक्तुं न क्षममिति किं ब्रवीथ किं – किमर्थम् । बिरहाग्निना दग्धानां गुरवः किं करिष्यन्ति ॥ २२,२३ ॥
सुप्रभाताऽद्य रजनी मथुरावासयोषिताम् ।
पास्यन्त्यच्युतवक्त्राब्जं यासां नेत्रालिपङ्क्तयः ॥ २४ ॥
सुप्रभातेति ॥ मथुरा आवासो यासां ताः मथुरावासाः ॥ २४ ॥
धन्यास्ते पथि ये कृष्णमितो यान्त्यनिवारिताः ।
उद्वहिष्यन्ति पश्यन्तः स्वदेहं पुलकाञ्चितम् ॥ २५ ॥
मथुरानगरीपौरनयनानां महोत्सवः ।
गोविन्दावयवैर्दृष्टैरतीवाद्य भविष्यति ॥ २६ ॥
को नु स्वप्नस्सभाग्याभिर्दृष्टस्ताभिरधोक्षजम् ।
विस्तारिकांतिनयना या द्रक्ष्यन्त्यनिवारिताः ॥ २७ ॥
अहो गोपीजनस्यास्य दर्शयित्वा महानिधिम् ।
उत्कृत्तान्यद्य नेत्राणि विधिनाऽकरुणात्मना ॥ २८ ॥
धन्या इति ॥ ये अनिवारिता इतो यान्ति, या अनिवारिता इतो यान्ति ते धन्याः ताः धन्याः । ते दि पथि कृष्णं पश्यन्तः, ता हि पथि कृष्णं पश्यन्त्यः, पुलकाश्चितं स्वदेहमुद्वहिष्यन्ति ॥ २५ – २८ ।।
अनुरागेण शैथिल्यमस्मासु व्रजिते हरौः ।
शैथिल्यमुपयान्त्याशु करेषु बलयान्यपि ॥ २९ ॥
अक्रूरः क्रूरहृदयश्शीघ्रं प्रेरयते हयान् ।
एवमार्तासु योषित्सु कृपा कस्य न जायते ॥ ३० ॥
एष कृष्णरथस्योच्चैश्चक्ररेणुर्निरीक्ष्यताम् ।
दूरीभूतो हरिर्येन सोऽपि रेणुर्नलक्ष्यते ॥ ३१ ॥
श्रीपराशर उवाच
इत्येवमतिहार्देन गोपीजननिरीक्षितः ।
तत्याज व्रजभूभागं सह रामेण केशवः ॥ ३२ ॥
गच्छन्तो जवनाश्वेन रथेन यमुनातटम् ।
प्रप्तमध्याह्नसमये रामाक्रूरजनार्दनाः ॥ ३३ ॥
अनुरागेणेति ।। हरौ अस्मासु शैथिल्यं व्रजति सति अस्माकं करेषु वलयान्यपि शैथिल्यमुपयान्ति ॥ २९ – ३३ ॥
अथाह कृष्णमक्रूरो भवद्भ्यां तावदास्यताम् ।
यावत्करोमि कालिन्द्या आह्निकार्हणमंभसि ॥ ३४ ॥
श्रीपराशर उवाच
तथेत्युक्तस्ततस्नातःस्वाचान्तःस महामतिः ।
दध्यौ ब्रह्म परं विप्र प्रविष्टो यमुनाजले ॥ ३५ ॥
फणासहस्रमालाढ्यं बलभद्रं ददर्श सः ।
कुन्दमालाङ्गमुन्निद्रपद्मपत्रायतेक्षणम् ॥ ३६ ॥
वृतं वासुकिरंभाद्यैर्महद्भिः पवनाशिभिः ।
संस्तूयमानमुद्गन्धिवनमालाविभूषितम् ॥ ३७ ॥
दधानमसिते वस्त्रे चारुरूपावतंसकम् ।
चारुकुण्डलिनं भान्तमन्तर्जलतले स्थितम् ॥ ३८ ॥
तस्योत्संगे घनश्याममाताम्रायतलोचनम् ।
चतुर्बाहुमुदाराङ्गं चक्राद्यायुधभूषणम् ॥ ३९ ॥
पीते वसानं वसने चित्रमाल्योपशोभितम् ।
शक्रचापतडिन्मालाविचित्रमिव तोयदम् ॥ ४० ॥
श्रीवत्सवक्षसं चारु स्फुरन्मकरकुण्डलम् ।
ददर्श कृष्णमक्लिष्टं पुण्डरीकावतंसकम् ॥ ४१ ॥
सनन्दनाद्यैर्मुनिभिः सिद्धयोगैरकल्मषैः ।
संचिन्त्यमानं तत्रस्थैर्नासाग्रन्यस्तलोचनैः ॥ ४२ ॥
बलकृष्णौ तथाऽक्रूरः प्रत्यभिज्ञाय विस्मितः ।
अचिन्तयद्रथाच्छीघ्रं कथमत्रागताविति ॥ ४३ ॥
विवक्षोस्तंभयामास वाचं तस्य जनार्दनः ।
ततो निष्क्रम्य सलिलाद्रथमभ्यागतः पुनः ॥ ४४ ॥
ददर्श तत्र चैवोभौ रथस्योपरि निष्ठितौ ।
रामकृष्णौ यथापूर्वं मनुष्यवपुषाऽन्वितौ ॥ ४५ ॥
निमग्नश्च पुनस्तोये ददर्श च तथैव तौ ।
संस्तूयमानौ गन्धर्वैर्मुनिसिद्धमहोरगैः ॥ ४६ ॥
अथेति ॥ आह्निकार्हणं – नित्यं माध्यान्हिकाराधनम् ॥ ३४ – ४६ ॥
ततो विज्ञातसद्भावःस तु दानपतिस्तदा ।
तुष्टाव सर्वविज्ञानमयमच्युतमीश्वरम् ॥ ४७ ॥
तत इति ॥ सर्वविज्ञानमयं – सर्वस्य विज्ञान प्रचुरं, सर्वज्ञमित्यर्थः ॥ ४७ ।।
अक्रूर उवाच
सन्मात्ररूपिणोऽचिन्त्यमहिम्ने परमात्मने ।
व्यापिने नैकरूपैकस्वरूपाय नमो नमः ॥ ४८ ॥
सन्मात्ररूपिण इति ॥ सन्मात्ररूपिणे । मात्रचा सत्ताविरोध्यपक्षयादीनां व्यावृत्तिः, न त्वविरोधिन यत्वादीनाम् । नैकरूपैकस्वरूपाय कार्पावस्थायामनेकरूपाय कारणावस्थायामेकरूपाय ॥ ४८ ॥
सर्वरूपाय तेऽचिन्त्यहविर्भूताय ते नमः ।
नमो विज्ञानपाराय पराय प्रकृतेः प्रभोः ॥ ४९ ॥
सर्वरूपायेति ।। विज्ञानपाराध – विज्ञानस्य पाराय, विज्ञानपर्यवसानाय । अस्मात्परं ज्ञेयं नास्तीत्यर्थः । अविज्ञातपारायेति वा पाठः ॥ ४९ ॥
भूतात्मा चेन्द्रियात्मा च प्रधानात्मा तथा भवान् ।
आत्मा च परमात्मा च त्वमेकः पञ्चधा स्थितः ॥ ५० ॥
भूतात्मेति ॥ भूतात्मा – शब्दादिसहितपञ्च भूतशरीरकः । पञ्चभूतानामात्मेति वा । एवमेकादशे – यात्मा । एष्वेव बुद्ध्यहंकारयोरन्तर्भावः । प्रधानात्मा – अव्यक्तात्मा । आत्मा – समष्टिव्यष्टिमुक्तरूपः । परमात्मा – आनन्दमयः । पञ्चघेति । त्रिविधं ब्रह्ममेतदितिवत् ॥ ५० ॥
प्रसीद सर्व सर्वात्म्न क्षराक्षरमयेश्वर ।
ब्रह्मविष्णुशिवाख्याभिः कल्पनाभिरुदीरितः ॥ ५१ ॥
प्रसीदेति ॥ उक्तप्रकारेण क्षराक्षरमयब्रह्मेति आख्या – संज्ञा, सैव कल्पना ॥ ५१ ॥
अनाख्येयस्वरूपात्मन्ननाख्येयप्रयोजन ।
अनाख्येयाभिधानं त्वां नतोस्मि परमेश्वर ॥ ५२ ॥
अनाख्येयेति ॥ अनाख्येयस्वरूपात्मन्– अनन्ततया सामस्त्येनाभिधातुमशक्यं स्वरूपं निरूपकगुण – येस्यात्मनः सोऽनाख्येयस्वरूपात्मा, तत्संबुद्धिः । अनाख्येयप्रयोजन – उभयविभूत्यानन्दात्मकं प्रयोजनमान – दाख्यातुमशक्यं यस्य सः, तथाभूत । अनाख्येयाभिधानम् – अनन्तनामधेयत्वात्परमकारणत्वाच्च ॥ ५२ ॥
न यत्र नाथ विद्यन्ते नामजात्यादिकल्पनाः ।
तद्ब्रह्म परमं नित्यमविकारि भवानजः ॥ ५३ ॥
कर्मोपाधिकनामरूपव्याकरणाविषयत्वेन जीववत्सुरपशुमनुनादिकल्पना नेत्याह – न यत्रेति ।। शब्द – जातिगुणक्रिया द्रव्यैर्वस्तुनो विशेषणं कल्पना । आकाशो ह वै नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म इति श्रुतिः । ते – नामरूपे । अन्तरा – नामरूपास्पृष्टं यत् तद्ब्रह्मेति ॥ ५३ ॥
न कल्पनामृतेऽर्थस्य सर्वस्याधिगमो यतः ।
ततः कृष्णाच्युतानन्तविष्णुसंज्ञाभिरिड्यते ॥ ५४ ॥
तथापि जगदुपकारायोपासकानुग्रहाय च स्वेच्छा गृहीत देवादिविविधरूपनामा ब्रह्मादिभिस्ततन्नामभिः स्तूयस इत्याह – न कल्पनामिति ॥ कृष्णादिनामग्रहणं भगवदवतार । दिष्वन्येषामपि नाम्नामुपलक्षणम् । मोक्षधर्मे चतुर्मुखस्यानिरुद्धोपासनमुक्तम् यस्यावताररूपाणि समर्चन्ति दिवौकसः इति चास्मिन् पुराणे ॥ ५४ ॥
सर्वार्थास्त्वमज विकल्पनाभिरेतैर्दैवाद्यैर्भवति हि यैरनन्तविश्वम् ।
विश्वात्मा त्वमिति विकारहीनमेतत्सर्वस्मिन्न हि भवतोऽस्ति किञ्चिदन्यत् ॥ ५५ ॥
सर्वार्था इति ॥ यैरेतैर्देवाद्यैर्विकल्पनाभूतैरर्थैर्विश्व भवति ते सर्वार्थास्त्वं विकारहीन मेतदात्मवस्तु च त्वम् । अतो विश्वात्मा त्वमिति सर्वस्मिन् भत्रतोऽन्यन्न किंचिदस्तीति योजना ॥ ५५ ॥
त्वं ब्रह्मा पशुपतिर्यमा विधाता धाता त्वं त्रिदशपतिःसमीरणोऽग्निः ।
तोयेशो धनपतिंरतकस्त्वमेको भिन्नार्थैर्जगदभिपासि शक्तिभेदैः ॥ ५६ ॥
त्वं ब्रह्मेति ॥ भिनार्थै – भिन्नकार्यैः । शक्तिभेदैः – ब्रह्मादिरूपभेदैः ॥ ५६ ॥
विश्वं भवान्सृजति सूर्यगभस्तिरूपो विश्वेश ते गुणमयोऽयमतः प्रपञ्चः ।
रूपं परं सदिति वाचकमक्षरं यज्ज्ञानात्मने सदसते प्रणतोऽस्मि तस्मै ॥ ५७ ॥
विश्वमिति ॥ सूर्यगभस्तिरूपो भूत्वा वृष्टिद्वारा विश्वं सृजति । प्रपञ्चश्च ते शेषभूतः । सदिति पदं यस्य वाचकं तत्सदिति वाचकम् । अक्षरं यत्परं रूपम् – ॐ तत्सदिति हि गीतम् । ज्ञानात्मने – ज्ञानस्व – रूपाय । सदसते – चिदचिदधिष्ठात्रे । तस्मै रूपाय नम इत्यन्वयः ॥ ५७ ।।
ओं नमो वासुदेवाय नमःसंकर्षणाय च ।
प्रद्युम्नाय नमस्तुभ्यमनिरुद्धाय ते नमः ॥ ५८ ॥
ओमिति ॥ ॐ नमो वासुदेवायेत्यादिः चतुर्व्यूहमन्त्रः ॥ ५८ ॥
इति श्रीविष्णुमहापुराणे पञ्चमांशेऽष्टाशोऽध्यायः ।। १८ ।।
अथपञ्चमांशे एकोनविंशोऽध्यायः
श्रीपराशर उवाच
एवमन्तर्जले विष्णुमभिष्टूय स यादवः ।
अर्चयामास सर्वेशं धूपपुष्पैर्मनोमयैः ॥ १ ॥
परित्यक्तान्यविषयो मनस्तत्र निवेश्य सः ।
ब्रह्मभूते चिरं स्थित्वा विरराम समाधितः ॥ २ ॥
कृतकृत्यमिवात्मानं मन्यमानो महामतिः ।
आजगाम रथं भूयो निर्गम्य यमुनांभसः ॥ ३ ॥
ददर्श रामकृष्णौ च यथापुर्वमवस्थितौ ।
विस्मिताक्षस्तदाऽक्रूरस्तं च कृष्णोऽभ्यभाषत ॥ ४ ॥
श्रीकृष्ण उवाच
नूनं ते दृष्टमाश्चर्यमक्रूर यमुनाजले ।
विस्मयोत्फुल्लनयनो भवान्संलक्ष्यते यतः ॥ ५ ॥
अक्रूर उवाच
अन्तर्जले यदाश्चर्यं दृष्टं तत्र मयाच्युत ।
तदत्रापि हि पश्यामि मूर्तिमत्पुरतः स्थितम् ॥ ६ ॥
जगदेतन्महाश्चर्यरूपं यस्य महात्मनः ।
तेनाश्चर्यपरेणाहं भवता कृष्ण संगतः ॥ ७ ॥
॥ १ – ७ ॥
तत्किमेतेन मथुरां यास्यामो मधुसूदन ।
बिभेमि कंसाद्धिग्जन्म परपिण्डोपजीविनाम् ॥ ८ ॥
इत्युक्त्वा चोदयामास स हयान् वातरंहसः ।
संप्राप्तश्चापि सायाह्ने सोऽक्रूरो मथुरां पुरीम् ॥ ९ ॥
विलोक्य मथुरां कृष्णं रामं चाह स यादवः ।
पद्य्भां यातं महावीरौ रथेनैको विशाम्यहम् ॥ १० ॥
गन्तव्यं वसुदेवस्य नो भवद्भ्यां तथा गृहम् ।
युवयोर्हि कृते वृद्धस्स कंसेन निरस्यते ॥ ११ ॥
श्रीपराशर उवाच
इत्युक्त्वा प्रविवेशाथ सोऽक्रूरो मथुरां पुरीम् ।
प्रविष्टौ रामकृष्णौ च राजमार्गमुपागतौ ॥ १२ ॥
स्त्रीभिर्नरैश्च सानन्दं लोतनैरभिवीक्षितौ ।
जग्मतुर्लीलया वीरौ मत्तौ बालगजाविव ॥ १३ ॥
तत्किमिति ॥ तत्किमेतेन – अस्थाने तत्ववादेन किम् ? मे – परसेवकस्य । बिभेमि–विलम्बे कंसः कुप्येदिति । परपिण्डोपजीविनां जन्म धिक् यस्साक्षात्कृतेऽपि भगवति न संभाषितुं लभ्यते ॥ ८ – १३ ॥
भ्रममाणौ ततो दृष्ट्वा रजकं रङ्गकारकम् ।
अयोचेतां सूरूपाणि वासांसि रुचिराणि तौ ॥ १४ ॥
भ्रममाणाविति ॥ रङ्गकारकम् । कुसुंभादिना वस्त्राणां रञ्जनं रङ्गः । राग इति केनचिदनवहितेन व्याख्यातम् । रनेरुपघालोपस्मरणात् । तस्मादार्पत्वात्साधुस्वमिति ॥ १४ ॥
कंसस्य रजकस्सोऽथ प्रसादारूढविस्मयः ।
बहून्याक्षेपवाक्यानि प्राहोच्चै रामकेशवौ ॥ १५ ॥
ततस्तलप्रहारेण कृष्णस्तस्य दुरात्मनः ।
पातयामास रोषेण रजकस्य शिरो भुवि ॥ १६ ॥
हत्वाऽदाय च वस्त्राणि पीतनीलांबरौ ततः ।
कृष्णरामौ मुदा युक्तौ मालाकारगृहं गतौ ॥ १७ ॥
विकासिनेत्रयुगलो मालाकारोऽतिविस्मितः ।
एतौ कस्य सुतौ यातौ मैत्रेयाचिन्तयत्तदा ॥ १८ ॥
पीतनीलांबरधरौ तौ दृष्ट्वाऽतिमनोहरौ ।
स तर्कयामास तदा भुवं देवावुपागतौ ॥ १९ ॥
विकासिमुखपद्माभ्यां ताभ्यां पुष्पाणि याचितः ।
भुवं विष्टभ्य हस्ताभ्यां पस्पर्श शिरसा महीम् ॥ २० ॥
प्रसादपरमौ नाथौ मम गेहमुपागतौ ।
धन्योऽहमर्चयिष्यामीत्याह तौ माल्यजीवनः ॥ २१ ॥
कंसस्येति ॥ विस्मयः– विशिष्ट स्मयः दर्पः ॥ १५ – २१ ॥
ततः प्रहृष्टवदनस्तयोः पुष्पणि कामतः ।
चारूण्येतान्यथैतानि प्रददौ स प्रलोभयन् ॥ २२ ॥
पुनःपुनः प्रणम्योभौ मालाकारो नरोत्तमौ ।
ददौ पुष्पाणि चारूणि गन्धवन्त्यमलानि च ॥ २३ ॥
तत इति ॥ एतानि चारूणीति कतिचित्पूर्वं दत्त्वा पुनरेतान्यतिचारूणीति विलोभयन् ददौ ॥ २२ – २३ ॥
मालाकाराय कृष्णोऽपि प्रसन्नः प्रददौ वरान् ।
श्रीस्त्वां मत्संश्रया भद्र न कदाचित्त्यजिष्यति ॥ २४ ॥
मालाकारायेति ॥ श्रीः मत्संश्रयेति स्वस्य लक्ष्मीपतित्वं भक्तस्य प्रकटयति ॥ २४ ॥
बलहानिर्न ते सौम्य धनहानिरथापि वा ।
यावद्दिनानि तावच्च न नशिष्यति संततिः ॥ २५ ॥
भुक्त्वा च विपुलान्भोगांस्त्वमन्ते मत्प्रसादतः ।
ममानुस्मरणं प्राप्य दिव्यं लोकमवाप्स्यसि ॥ २६ ॥
बलहानिरिति ॥ यावद्दिनानि – यावत्सूर्यः ॥ २५, २६ ॥
धर्मे मनश्च ते भद्र सार्वकालं भविष्यति ।
युष्मत्संततिजातानां धीर्घमायुर्भविष्यति ॥ २७ ॥
नोपसर्गादिकं दोषं युष्मत्संततिसंभवः ।
अवाप्स्यति महाभागा यावत्सूर्यो भविष्यति ॥ २८ ॥
श्रीपराशर उवाच
इत्युक्त्वा तद्गृहात्कृष्णो बलदेवसहायवान् ।
निर्जगाम मुनिश्रेष्ठ मालाकारेण पूजितः ॥ २९ ॥
धर्म इति ॥ सार्वकालं— सर्वकालसंबंधि । युष्मदिति बहुत्वं तद्द्वन्धुबहुस्वविवक्षया ॥ २७ – २९ ॥
इति श्रीविष्णुमहापुराणे पञ्चमांशे एकोनविशोध्यायः ।। १९ ।।
अथ पञ्चमांशेविंशोऽध्यायः
श्रीपराशर उवाच
राजमार्गे ततः कृष्णःसानुलेपनभाजनाम् ।
ददर्श कुब्जामायान्तीं नवयौवनगोचराम् ॥ १ ॥
॥ १ ॥
तामाह ललितं कृष्णः कस्येदमनुलेपनम् ।
भवत्या नीयते सत्यं वदेन्दीवरलोचने ॥ २ ॥
तामिति ॥ ललितं – सविलासम् ॥ २ ॥
सकामेनेव सा प्रोक्ता सानुरागा हरिं प्रति ।
प्राह सा ललितं कुब्जा तद्दर्शनबलात्कृता ॥ ३ ॥
बलात्कृता – वशीकृता ॥ ३ ॥
कान्त कस्मान्न जानासि कंसेन विनियोजिताम् ।
नैकवक्रेति विख्यातामनुलेपनकर्मणि ॥ ४ ॥
नान्यपिष्टं हि कंसस्य प्रीतये ह्यनुलेपनम् ।
भवाम्यहमतीवास्य प्रसादधनभाजनम् ॥ ५ ॥
श्रीकृष्ण उवाच
सुगन्धमेतद्राजार्हं रुचिरं रुचिरानने ।
आवयोर्गात्र सदृशं दीयतामनुलेपनम् ॥ ६ ॥
श्रीपराशर उवाच
श्रुत्वैतदाह सा कुब्जा गृह्यतामिति सादरम् ।
अनुलेपनं च प्रददौ गात्रयोग्यमथोभयोः ॥ ७ ॥
कान्तेति ॥ अनुलेपनकर्मणि – गन्धवस्तुसाधने, नियुक्ताम् ॥ ४ – ७ ।।
भक्तिच्छेदानुलिप्ताङ्गौ ततस्तौ पुरुषर्षभौ ।
सेंद्रचापो व्यराजेतां सितकृष्णाविवांबुदौ ॥ ८ ॥
भक्तिच्छेदेति ॥ भक्तिच्छेदेन–पत्रमंगिरचनया ॥ ८ ॥
ततस्तां चुबुके शौरिरुल्लाधनविधानवित् ।
उत्पाट्य तोलयामास व्द्यङ्गुलेनाग्रपाणिना ॥ ९ ॥
तत इति ॥ उल्लाघनम् ऋजूकरणम् । उत्पाठ्य – उन्नमय्य, ग्रंथिभेदं कृत्वा तोलयामास तोलनं कंपनम् ॥ ९ ॥
चकर्ष पद्भ्यां च तदा ऋजुत्वं केशवोऽनयत् ।
ततःसा ऋजुतां प्राप्ता योषितामभवद्वरा ॥ १० ॥
चकर्षेति ॥ पद्भ्यां चकर्ष – पादयोः पद्भ्यामाकान्तवान् ॥ १० ।।
विलासलिलितं प्राह प्रेमगर्भभरालसम् ।
वस्त्रे प्रगृह्य गोविन्दं मम गेहं व्रजेति वै ॥ ११ ॥
एवमुक्तस्तया शौरी रामस्यालोक्य चाननम् ।
प्रहस्य कुब्जां तामाह नैकवक्रामनिन्दिताम् ॥ १२ ॥
विलासेति ।। प्रेमगर्भमरालसम् – अन्तर्गर्मितप्रेमातिशयमंथरम् ॥ ११,१२ ॥
आयास्ये भवतीगेहमिति तां प्रहसन्हरिः ।
विससर्ज जहासोच्चै रामस्यालोक्य चाननम् ॥ १३ ॥
भक्तिभेदानुलिप्ताङ्गौ नीलपीतांबरौ तु तौ ।
धनुःशालां ततो यातौ चित्रमाल्योपशोभितौ ॥ १४ ॥
आयास्य इति ।। प्रहसन् –प्रसादेन हासं कुर्वन् । अस्मदनुग्रहमनुरागं मत्वा इयं मुह्यतीति रामं प्रत्युच्चैर्जहास ॥ १३,१४ ॥
आयागं तद्धनूरत्नं ताभ्यां पृष्टैस्तु रक्षिभिः ।
आख्याते सहसा कृष्णो गृहीत्वाऽपूरयद्धनुः ॥ १५ ॥
ततः पूरयता तेन भज्यमानं बलाद्धनुः ।
चकार सुमहच्छब्दं मथुरा येन पूरिता ॥ १६ ॥
आयागमिति ॥ आयागम् – आभिमुख्येन यागोद्देश्यम् ॥ १५,१६ ॥
अनुयुक्तौ ततस्तौ तु भग्रे धनुषि रक्षिभिः ।
रक्षिसैन्यं निहत्योभौ निष्क्रान्तौ कार्मुकालयात् ॥ १७ ॥
अक्रूरागमवृत्तान्तमुपलभ्य महद्धनुः ।
भग्नं श्रुत्वा च कंसोऽपि प्राह चाणूरमुष्टिकौ ॥ १८ ॥
कंस उवाच
गोपालदारकौ प्राप्तौ भवद्भ्यां तौ ममाग्रतः ।
मल्लयुद्धेन हन्तव्यौ मम प्राणहरौ हि तौ ॥ १९ ॥
अनुयुक्ताविति ॥ अनुयुक्तो – अभियुक्तो ॥ १७ – १९ ॥
नियुद्धे तद्विनाशेन भवद्भ्यां तोषितो ह्यहम् ।
दास्याम्यभिमतान्कामान्नान्यथैतौ महाबलौ ॥ २० ॥
न्यायतोऽन्यायतो वाऽपि भवद्भ्यां तौ ममाहितौ ।
हन्ताव्यौ तद्वधाद्राज्यं सामान्यं वां भविष्यति ॥ २१ ॥
इत्यादिश्य स तौ मल्लौ ततश्चाहूय हस्तिपम् ।
प्रोवाचोच्चैस्त्वया मल्लसमाजद्वारि कुञ्जरः ॥ २२ ॥
स्थाप्यः कुवलयापीडस्तेन तौ गोपदारकौ ।
घातनीयौ नियुद्धाय रङ्गद्वारमुपागतौ ॥ २३ ॥
नियुद्ध इति ॥ नान्यथा – अन्यथा तु न दास्यामि ।। २० – २३ ।।
तमप्याज्ञाप्य दृष्ट्वा च सर्वान्मञ्चानुपाकृतान् ।
आसन्नमरणः कंसः सूर्योदयमुदैक्षत ॥ २४ ॥
ततः समस्तमञ्चेषु नागरस्स तदा जनः ।
राजमञ्चेषु चारूढाःसह भृत्यैर्नराधिपाः ॥ २५ ॥
तमिति ॥ उपाकृतान् – कल्पितान् ॥ २४,२५ ॥
मल्लप्राश्निकवर्गश्च रङ्गमध्यसमीपगः ।
कृतः कंसेन कंसोऽपि तुङ्गमञ्चे व्यवस्थितः ॥ २६ ॥
अन्तःपुराणां मञ्चाश्च तथाऽन्ये परिकल्पिताः ।
अन्ये च वारमुख्यानामन्ये नागरयोषिताम् ॥ २७ ॥
मल्लप्राश्निकेति ॥ प्राश्निकाः – परीक्षकाः ॥ २६, २७ ॥
नन्दगोपादयो गोपा मञ्चेष्वन्येष्ववस्थिताः ।
अक्रूरवसुदेवौ च मञ्चप्रान्ते व्यवस्थितौ ॥ २८ ॥
नन्दगोपेति ।। राजमञ्चप्रान्ते व्यवस्थितौ रहसि स्वैरालापार्थम ॥ २८ ॥
नागरीयोषितां मध्ये देवकी पुत्रगर्धिनी ।
अन्तकालेऽपि पुत्रस्य द्रक्ष्यामीति मुखं स्थिता ॥ २९ ॥
वाद्यमानेषु तुर्येषु चाणूरे चातिवल्गति ।
हाहाकारपरे लोके ह्यास्फोटयति मुष्टिके ॥ ३० ॥
ईषद्धसंतौ तौ वीरौ बलभद्रजनार्दनौ ।
गोपवेषधरौ बालौ रङ्गद्वारमुपागतौ ॥ ३१ ॥
ततः कुवलयापीडो महामात्रप्रचोदितः ।
अभ्यधावत्सुवेगेन हन्तुं गोपकुमारकौ ॥ ३२ ॥
हाहाकारो महाञ्जज्ञे रङ्गमध्ये द्विजोत्तम ।
बलदेवोऽनुजं दृष्ट्वा वचनं चेदमब्रवीत् ॥ ३३ ॥
हन्तव्यो हि महाभाग नागोऽयं शत्रुचोदितः ॥ ३४ ॥
इत्युक्तःसोऽग्रजेनाथ बलदेवेन वै द्विज ।
सिंहनादं ततश्चक्रे माधवः परवीरहा ॥ ३५ ॥
करेण करमाकृष्य तस्य केशिनिषूदनः ।
भ्रमयामास तं शैरिरैरावतसमं बले ॥ ३६ ॥
ईशोऽपि सर्वजगतां बाललीलानुसारतः ।
क्रीडित्वा सुचिरं कृष्णः करिदन्तपदान्तरे ॥ ३७ ॥
उत्पाट्य वामदन्तं तु दक्षिणेनैव पाणिना ।
ताडयामास यन्तारं तस्यासीच्छतधा शिरः ॥ ३८ ॥
दक्षिणं दन्तमुत्पाट्य बलभद्रोऽपि तत्क्षणात् ।
स रोषस्तेन पार्श्वस्थान् गजपालानपोथयत् ॥ ३९ ॥
ततस्तूत्प्लुत्य वेगेन रौहिणेयो महाबलः ।
जघान वामपादेन मस्तके हस्तिनं रुषा ॥ ४० ॥
स पपात हतस्तेन बलभद्रेण लीलया ।
सहस्राक्षेण वज्रेण ताडितः पर्वतो यथा ॥ ४१ ॥
हत्वा कुवलयापीडं हस्त्यारोहप्रचोदितम् ।
मदासृगनुलिप्ताङ्गौ हस्तिदन्तवरायुधौ ॥ ४२ ॥
मृगमध्ये यथा सिंहौ गर्वलीलावलोकिनौ ।
प्रविष्टौ सुमहारङ्गं बलभद्रजनार्दनौ ॥ ४३ ॥
हाहाकारो महाञ्जज्ञे महारङ्गे त्वनन्तरम् ।
कृष्णोऽयं बलभद्रोऽयमिति लोकस्य विस्मयः ॥ ४४ ॥
सोऽयं येन हता घोरा पूतना बालघातिनी ।
क्षिप्तं तु शकटं येन भग्नौ तु यमलार्जुनौ ॥ ४५ ॥
सोयं यः कालियं नागं ममर्दारुह्य बालकः ।
धृतो गोवर्धनो येन सप्तरात्रं महागिरिः ॥ ४६ ॥
अरिष्टो धेनुकः केशी लीलयैव महात्मना ।
निहता येन दुर्वृत्ता दृश्यतामेष सोऽच्युतः ॥ ४७ ॥
अयं चास्य महाबाहुर्बलभद्रोऽग्रतोऽग्रजः ।
प्रयाति लीलया योषिन्मनोनयननन्दनः ॥ ४८ ॥
अयं स कथ्यते प्राज्ञैः पुराणार्थविशारदैः ।
गोपालो यादवं वंशं मग्नमभ्यद्धरिष्यति ॥ ४९ ॥
नागरीयोषितामिति ॥ पुत्रगर्धिनी – गृधु अभिकांक्षायामित्यस्माद्धातोर्णिनिः, पुत्रवत्सा ॥ २९ – ४९॥
अयं हि सर्वलोकस्य विष्णोरखिलजन्मनः ।
अवतीर्णो महीमंशो नूनं भारहरो भुवः ॥ ५० ॥
अयं हीति ॥ अखिलजन्मनः – अखिलस्य जन्म यस्मिन्निति विग्रहः ॥ ५० ॥
इत्येवं वर्णिते पौरै रामे कृष्णे च तत्क्षणात् ।
उरस्तताप देवक्याः स्नेहस्नुतपयोधरम् ॥ ५१ ॥
महोत्सवमिवासाद्य पुत्राननविलोकनात् ।
युवेव वसुदेवोऽभूद्विहायाभ्यागतां जराम् ॥ ५२ ॥
इतीति ॥ तताप – तप्तम् ॥ ५१, ५२ ।।
विस्तारिताक्षियुगलो राजान्तःपुरयोषिताम् ।
नागारस्त्रीसमूहश्च द्रष्टुं न विरराम तम् ॥ ५३ ॥
सख्यः पश्यत कृष्णस्य मुखमत्यरुणेक्षणम् ।
गजयुद्धकृतायासस्वेदांबुकणिकचितम् ॥ ५४ ॥
विकासिशरदंभोजमपश्यामजलोक्षितम् ।
परिभूयं स्थितं जन्म सफलं क्रियतां दृशः ॥ ५५ ॥
विस्तारितेति ।। राजान्तः पुरयोषितां समूह इति शेषः ॥ ५३ – ५५ ॥
श्रीवत्सांकं महद्धाम बालस्यैतद्विलोक्यताम् ।
विपक्षक्षपणं वक्षो भुजयुग्यं च भामीनि ॥ ५६ ॥
किं न पश्यसि दुग्धेन्दुमृणालधवलाकृतिम् ।
बलभद्रमिमं नीलपरिधानमुपगतम् ॥ ५७ ॥
श्रीवत्साङ्कमिति ॥ महद्धाम – महतो लक्ष्म्यादेर्धाम ॥ ५६, ५७ ॥
वल्गता मुष्टिकेनैव चाणूरेण तथा सखि ।
क्रीडतो बलभद्रस्य हरेर्हास्यं विलोक्यताम् ॥ ५८ ॥
सख्यः पश्यत चाणूरं नियुद्धार्थमयं हरिः ।
समुपैति न संत्यत्र किं वृद्धा मुक्तकारिमः ॥ ५९ ॥
क्व यौवनोन्मुखीभूतमुकुमारतनुर्हरिः ।
क्व वज्रकठिनाभोगशरीरोऽयं महासुरः ॥ ६० ॥
इमौ सुललितैरङ्गैर्वर्तेते नवयौवनौ ।
दैतेयमल्लाश्चाणूरप्रमुखास्त्वतिदारुणाः ॥ ६१ ॥
नियुद्धप्राश्निकानां तु महानेष व्यतिक्रमः ।
यद्बालबलिनोर्युद्धं मध्यस्थैः समुपेक्ष्यते ॥ ६२ ॥
वल्गतेति ॥ वल्गतेत्यादि हेतो तृतीया । हास्यमनादरकृतम् ॥ ५८ – ६२ ।।
श्रीपारशर उवाच
इत्थं पुरस्त्रीलोकस्य वदतश्चालयन्भुवम् ।
ववल्ग बद्धकक्ष्योऽन्तर्जनस्य भगवान्हरिः ॥ ६३ ॥
बलभद्रोऽपि चास्फोट्य ववल्ग ललितं तथा ।
पदेपदे तथा भूमिर्यन्न शीर्णा तदद्भुतम् ॥ ६४ ॥
चाणूरेण ततः कृष्णो ययुधेऽमितविक्रमः ।
नियुद्धकुशलो दैत्यौ बलभद्रेण मुष्टिकः ॥ ६५ ॥
इत्यमिति ॥ बद्धकक्ष्यः – दृढीकृतपरिकरः ॥ ६३ – ६५ ।।
सन्निपातावधूतैस्तु चाणूरेण समं हरिः ।
प्रक्षेपणैर्मुष्टिभिश्च कीलवज्रनिपातनैः ॥ ६६ ॥
सन्निपातेति ।। सन्निपातै: – आदावन्योन्यं हस्तसंन्नट्टैः । अवधूतैः – अपहस्ताख्येन बहिर्हस्तेन संश्लिष्टाङ्गमोचनैः । प्रक्षेपणैः – आकृष्य निरसनैः । कीलपात: कूर्परेण घातः । वज्रपात: – अरत्रिद्वयस्वस्तिकान्त – रेतान्यगात्रघातः, मध्यमानामिकान्तर्गताङ्गुष्ठमुष्टि विशेषघातो वा ॥ ६६ ॥
पादोद्धूतैः प्रमृष्टैश्च तयोर्युद्धमभून्महत् ॥ ६७ ॥
पादोद्धूतैरिति ।। पादेन परस्योधूतैः । प्रमृष्टै: – सर्वाङ्गग्रहणान्निपात्य निष्पेषणैः। प्रसृष्टैरिति पाठे उत्पाव्य निरसनैः ॥ ६७ ॥
अशस्त्रमतिघोरं तत्तयोर्युद्धं सुदारुणम् ।
बलप्राणविनिष्पाद्यं समाजोत्सवसन्निधौ ॥ ६८ ॥
यावद्यावच्च चाणूरो युयुधे हरिणा सह ।
प्रामहानिमवापाग्र्यां तावत्तावल्लवाल्लवम् ॥ ६९ ॥
कृष्णोऽपि युयुधे तेन लीलयैव जगन्मयः ।
खेदाच्चालयता कोपान्निजकेसरशेखरम् ॥ ७० ॥
बलक्षयं विवृद्धिं च दृष्ट्वा चाणूरकृष्णयोः ।
वारयामास तूर्याणि कंसः कोपपरायणः ॥ ७१ ॥
मृदङ्गादिषु तूर्येषु प्रतिषिद्धेषु तत्क्षणात् ।
खे संगतान्यवाद्यन्त देवतूर्याण्यनेकशः ॥ ७२ ॥
अशस्त्रमिति बलप्राणौ – मनस्तनुशक्ती । समाजोत्सव सन्निधौ – सोत्सवसमाजसन्निधौ ।। ६८ – ७२ ॥
जय गोविन्द चाणूरं जहि केशव दानवम् ।
अन्तर्धानगता देवास्तमूचुरतिहर्षिताः ॥ ७३ ॥
चाणूरेण चिरं कालं पीडित्वा मधुसूदनः ।
उत्पाट्य भ्रमयामास तद्वधाय कृतोद्यमः ॥ ७४ ॥
जयेति ॥ जय, न तावतालम् जहि च ॥ ७३, ७४ ॥
भ्रामयित्वा शतगुणं दैत्यमल्लममित्रजित् ।
भूभावात्फोटयामास गगने गतजीवितम् ॥ ७५ ॥
भूमावास्फोटितस्तेनचाणूरः शतधाभवत् ।
रक्तस्रावमहापङ्कां चकार च तदा भवम् ॥ ७६ ॥
बलदेवोऽपि तत्कालं मुष्टिकेन महाबलः ।
युयुधे दैत्यमल्लेन चाणूरेण यथा हरिः ॥ ७७ ॥
सोऽप्येनं मुष्टिना मूर्ध्नि वक्षस्याहत्य जानुना ।
पातयित्वा धरापृष्ठे निष्पिपेष गतायुषम् ॥ ७८ ॥
कृष्णस्तोशलकं भूयो मल्लराजं महाबलम् ।
वाममुष्टिप्रहारेण पातयामास भूतले ॥ ७९ ॥
चाणूरे नहते मल्ले मुष्टिके विनिपातिते ।
नीते क्षयं तोशलके सर्वे मल्लाः प्रदुद्रुवुः ॥ ८० ॥
ववल्गतुस्ततो रङ्गे कृष्णसंकर्षणावुभौ ।
समानवयसो गोपान्बलादाकृष्य हर्षितौ ॥ ८१ ॥
भ्रामयित्वेति ॥ शतगुणं – शतकृत्वः ॥ ७५ – ८१ ॥
कंसोऽपि कोपरक्ताक्षः प्राहोच्चैर्व्यायतान्नरान् ।
गोपावेतौ समाजौघान्निष्क्राम्येतां बलादितः ॥ ८२ ॥
नन्दोऽपि गृह्यतां पापो निर्गलैरायसैरिह ।
अवृद्धार्हैण दण्डेन वसुदेवोऽपि बध्यताम् ॥ ८३ ॥
कंस इति ॥ व्यायतान्– कृतश्रमान् ॥ ८२, ८३ ॥
वल्गन्ति गोपाः कृष्णेन ये चेमे सहिताः पुरः ।
गावो निगृह्यतामेषां यच्चास्ति वसु किञ्चन ॥ ८४ ॥
एवमाज्ञापयानं तु प्रहस्य मधुसूदनः ।
उत्प्लुत्यारुह्य तं मञ्चं कंसं जग्राह वेगतः ॥ ८५ ॥
केशेष्वाकृष्य विगलत्किरीटमवनीतले ।
स कंसं पातयामास तस्योपरि पपात च ॥ ८६ ॥
अशेषजगदाधारगुरुणा पततोपरि ।
कृष्णेन त्याजितः प्राणानुग्रसेनात्मजो नृपः ॥ ८७ ॥
मृतस्य केशेषु तदा गृहीत्वा मधुसूदनः ।
चकर्ष देहं कंसस्य रङ्गमध्ये महाबलः ॥ ८८ ॥
वल्गन्तीति ॥ गाव: यत्किंचन अस्ति वसु तत्सर्वं निगृह्यताम् ॥ ८४ – ८८ ।।
गौरवेणातिपतता परिघा तेन कृष्यता ।
कृता कंसस्य देहेन वेगेनेव महांभसः ॥ ८९ ॥
कंसे गृहीते कृष्णेन तद्भ्राताऽभ्यागतो रुषा ।
सुनामा बलभद्रेण लीलयैव निपातितः ॥ ९० ॥
ततो हाहाकृतं सर्वमासीत्तद्रङ्गमण्डलम् ।
अवज्ञया हतं दृष्ट्वा कृष्णेन मथुरेश्वरम् ॥ ९१ ॥
कृष्णेऽपि वसुदेवस्य पादौ जग्राह सत्वरः ।
देवक्याश्च महाबाहुर्बलदेवसहायवान् ॥ ९२ ॥
उत्थाप्य वसुदेवस्तं देवकी च जनार्दनम् ।
स्मृतजन्मोक्तवचनौ तावेव प्रणतौ स्थितौ ॥ ९३ ॥
गौरवेणेति ॥ कृष्यमाणेन देहेन परिघा कृता ॥ ८९ – ९३ ॥
श्रीवसुदेव उवाच
प्रसीद सीदतां दत्तो देवानां यो वरः प्रभो ।
तथाऽऽवयोः प्रसादेन कृतोद्धारःस केशव ॥ ९४ ॥
आराधितो यद्भगवानवतीर्णो गृहे मम ।
दुर्वृत्तनिधनार्थाय तेन नः पावितं कुलम् ॥ ९५ ॥
प्रसीदेत्यादि । सीदतां देवानां यो वरो दत्तः सः आवयोः प्रसादेन जननरूपेण कृतोद्धारः – निर्व्यूढः ॥ ९४, ९५ ॥
त्वमन्तः सर्वभूतानां सर्वभूतमयस्थितः ।
प्रवर्तेते समस्तात्मंस्त्वत्तो भूतभविष्यति ॥ ९६ ॥
यज्ञैस्त्वमिज्यसेऽचिन्त्य सर्वदेवमयाच्युत ।
त्वमेव यज्ञो यष्टा च यज्वनां परमेश्वरः ॥ ९७ ॥
समुद्भवःसमस्तस्य जगतस्त्वं जनार्दन ॥ ९८ ॥
त्वमिति ॥ अन्तः – अवसानं प्रवर्तते । अत्र लड्विवक्षितः ॥ ९६ – ९८ ॥
सापह्नवं मम मनो यदेतत्त्वयि जायते ।
देवक्याश्चात्मजप्रीत्या तदत्यन्तविडंबना ॥ ९९ ॥
सापह्नवमिति ।। त्वयि– ईश्वरे पुत्रप्रीत्या सापह्ववं – सस्नेहं मनो जायते इति यत् मम तत् अत्यन्तबिडम्बना अत्यन्तहास्यत्वावहम् ॥ ९९ ॥
त्वं कर्ता सर्वभूतानामनादिनिधनो भवान् ।
त्वं मनुष्यस्य कस्यैषा जिह्वा पुत्रेति वक्ष्यति ॥ १०० ॥
त्वमिति ॥ त्वां के मानुषकस्येति पाठे, मानुषकस्य कुत्सायां कः पुत्रेति वक्ष्यती – वदन्ती जिह्वा क्व – कुत्र ॥ १०० ॥
जगदेतज्जगन्नाथ संभूतमखिलं यतः ।
कया युक्त्या विना मायां सोऽस्मत्तः संभविष्यति ॥ १०१ ॥
जगदिति ॥ माया––मोहिनी भगवच्छक्तिः ॥ १०१ ॥
यस्मिन्प्रतिष्ठितं सर्वं जगत्स्थावरजङ्गमम् ।
स कोष्ठोत्संगशयने मानुषो जायते कथम् ॥ १०२ ॥
स त्वं प्रसीद परमेश्वर पाहि विश्वमंशावतारकरणैर्न ममासि पुत्रः ।
आब्रह्यपादपमिदं जगदेतदीश त्वत्तो विमोहयसि किं पुरुषोत्तमास्मान् ॥ १०३ ॥
मायाविमोहितदृशा तनयो ममेति कंसाद्भायं कृतमपास्तभयोऽतितीव्रम् ।
नीतोऽसि गोकुलमरातिभयाकुलेन वृद्धिं गतोऽसि मम नास्ति ममत्वमीश ॥ १०४ ॥
यस्मिन्निति ॥ कोष्ठोत्सङ्गशयनः – गर्भावस्थायां कोष्ठे शेते, बाल्ये तत्सङ्गे ॥ १०२ – १०४ ।।
कर्माणि रुद्रमरुदश्विशतक्रतूनां साध्यानि यस्य न भवन्ति निरीक्षितानि ।
त्वं विष्णुरीश जगतामुपकारहेतोः प्राप्तोऽसि नः परिगतो विगतो हि मोहः ॥ १०५ ॥
कर्माणीति ॥ यस्य कर्माणि रुद्रादीनामप्यसाध्यानि प्रत्यक्षितानि स त्वं जगदर्थं पुत्रतयाऽस्मान् प्राप्तोऽसीति इदं परिगतं – ज्ञानम् । हि हेतौ । हि – यस्मान्मोहो विगतः । यानीति पाठे तानीति च तस्मादित्य – ध्याहृत्य योज्यम् ॥ १०५ ।।
इति श्रीविष्णुमहापुराणे पञ्चमांशे विंशोध्यायः ।।२० ।।