श्रीविष्णुपुराणम् Amsa 06 Ady 01-05

श्रीविष्णुपुराणम्

श्रीमते रामानुजाय नमः

अथ षष्ठांशे प्रथमोऽध्यायः

मैत्रेय उवाच

व्याख्याता भवता सर्गवंशमन्वन्तरस्थितिः ।

वंशानुचरितं चैव विस्तरेण महामुने ॥ १ ॥

व्याख्यातेति ॥ प्रथमांशे सर्ग उक्तः । द्वितीयादिषु वंशमन्वन्तरवंशानुचरितरूपा स्थितिरुक्ता ॥ १ ॥

श्रोतुमिच्छाम्यहं त्वत्तो यथावदुपसंहृतिम् ।

महाप्रलयसंज्ञां च कल्पान्ते च महामुने ॥ २ ॥

श्रोतुमिति ॥ अथ कल्पान्ते उपसंहृति-महाप्रलयसंज्ञामुपसंहृतिं च श्रोतुमिच्छामि ॥ २ ॥

श्रीपराशर उवाच

मैत्रेय श्रूयतां मत्तो यथावदुपसंहृतिः ।

कल्पान्ते प्राकृते चैव प्रलयो जायते यथा ॥ ३ ॥

मैत्रेयेति ॥ प्राकृते, प्रलय इति शेषः । द्विपरार्धक इति वक्ष्यमाणे यथोपसंहृतिर्जायते तथा यथावत्-परमार्थतः श्रयताम् ॥ ३ ॥

अहोरात्रं पितॄणां तु मासोऽब्दस्त्रिदिवौकसाम् ।

चतुर्युगसहस्रे तु ब्रह्मणो वै द्विजोत्तम ॥ ४ ॥

कृतं त्रेता द्वापरं च कलिश्चेति चतुर्युगम् ।

दिव्यैर्वर्षसहस्रैस्तु तद्द्वादशभिरुच्यते ॥ ५ ॥

अहोरात्रमिति ॥ मानुषो मासः पितृणामहोरात्रम्, अब्दो देवानाम, दिव्ये चतुर्युगसहस्रे द्वे ब्रह्मणोऽहोरात्रम् ॥ ४, ५ ॥

चतुर्युगाण्यशेषाणि सदृशानि स्वरूपतः ।

आद्यं कृतयुगं मुक्त्वा मैत्रेयान्त्यं तथा कलिम् ॥ ६ ॥

चतुर्युगानीति ।। स्वरूपतः – परिमाणधर्माधर्मादिभिः । यथोक्तं हरिवंशे- कृते धर्मश्चतुष्पात्स्याद-धर्मः पादभागथा । द्वाभ्यामधर्मः पादाभ्यां त्रिभिर्धर्मस्ततः स्थितः ॥ द्वाभ्यां धर्मः स्थितः पद्भ्यामधर्मस्त्रिभिरुछ्रितः । कलावधर्मश्चतुष्पात्स्याद्धर्मः पादशेषगः ॥ इति । अयमर्थ:- कृते-कृतयुगे आदौ पादभाक् । अथ कृतान्ते क्रमेणाधर्मः पादभाग्भवति ततस्त्रेतायाम् ॥ ६ ॥

आद्ये कृतयुगे सर्गो ब्रह्मणा क्रियते यथा ।

क्रियते चोपसंहारस्तथांऽते च कलौ युगे ॥ ७ ॥

मैत्रेय उवाच

कलेःस्वरूपं भगवन्विस्तराद्वक्तुमर्हसि ।

धर्मश्चतुष्पाद्भगवान् यस्मिन् विप्लवमृच्छति ॥ ८ ॥

श्रीपराशर उवाच

कलेःस्वरूपं मैत्रेय यद्भवाञ्छ्रोतु मिच्छति ।

तन्निबोध समासेन वर्तते यन्महामुने ॥ ९ ॥

आद्य इति ॥ ब्रह्मणा -चतुर्मुखशरीरकेण भगवता, भोगिशय्यागतः शेते त्रैलोक्यग्रासबृंहितः  इति वचनात् । आद्यन्तयोर्युगयोः सृष्टिसंहारादेव विशेषः ॥ ७-९ ॥

वर्णाश्रमाचारवती प्रवृत्तिर्न कलौ नृणाम् ।

न सामऋग्यजुर्धर्मविनिष्पादनहैतुकी ॥ १० ॥

वर्णाश्रमेति ॥ वर्णाश्रमेत्यादिस्मार्तप्रवृत्तिविषयं सामर्ग्यजुरिति श्रोतप्रवृत्तिविषय- त्रयीप्रतिपाद्याग्निहोत्रादि-धर्मविनिष्पादनं यस्याः प्रवृत्ते: हेतु:-प्रयोजनं सा तथोक्ता । सा च नेत्यर्थः ॥ १० ॥

विवाहा न कलौ धर्म्या न शिष्यगुरुसंस्थितिः ।

न दांपत्यक्रमो नैव वह्निदेवात्मकः क्रमः ॥ ११ ॥

विवाहा इति ॥ दांपत्यक्रमः- दंपत्योधर्मः, दंपती एव दांपत्यम् । वह्निदेवात्मकः-वह्नौ देवयज्ञ-क्रियात्मकः । क्रमः-अनुष्ठानम् ॥ ११ ॥

यत्र कुत्र कुले जातो बली सर्वेश्वरः कलौ ।

सर्वेभ्य एव वर्णेभ्यो योग्यः कन्यावरोधने ॥ १२ ॥

यत्र कुत्रेति ॥ वर्णेभ्यः-वर्णानां धनी योग्यः, न तु वृत्तविद्यादिमान् ॥ १२ ॥

येन केन च योगेन द्विजातिर्दीक्षितः कलौ ।

यैव सैव च मैत्रेय प्रायश्चित्तं कलौ क्रिया ॥ १३ ॥

येनेति ॥ येन केन च श्रुतिस्मृतिभ्यामनुकल्पतयोक्तेन, योगेन-प्रकारेण दीक्षितो भवति ॥ १३॥

सर्वमेव कलौ शास्त्रं यस्य यद्वचनं द्विज ।

देवता च कलौ सर्वा सर्वःसर्वस्य चाश्रमः ॥ १४ ॥

सर्वमेवेति ॥ देवता च सर्वा – अवैदिकी काल्यादिः । सर्वः सर्वस्य चाश्रमः- ब्रह्मचर्यवैराग्यादि-रहितस्यापि ॥ १४ ॥

उपवासस्तथाऽयासौ वित्तोत्सर्गस्तपः कलौ ।

धर्मो यथाभिरुचितैरनुष्ठनैरनुष्ठितः ॥ १५ ॥

वित्तेन भविता पुंसां स्वल्पेनाढ्यमदः कलौ ।

स्त्रीणां रूपमदश्चैवं केशैरेव भविष्यति ॥ १६ ॥

उपवास इति ।। आयासः – तीर्थयात्रादिकायक्लेशः । उपवासादिस्स्वाभिरुचिता- नुष्ठानानुष्ठितो धर्मों भवति ॥ १५,१६ ॥

सुवर्णमणिरत्नादौ वस्त्रे चोपक्षयं गते ।

कलौ स्त्रियो भविष्यन्ति तदा केशैरलङ्कृताः ॥ १७ ॥

परित्यक्ष्यन्ति भर्तारं वित्तहीनं तथा स्त्रियः ।

भर्ता भविष्यति कलौ वित्तवानेव योषिताम् ॥ १८ ॥

सुवर्णमणीति । केशैः-प्रशस्तैः सुवर्णादिभूषण सहपाठात् ॥ १७,१८ ॥

यो वै ददाति बहुलं स्वं स स्वामी सदा नृणाम् ।

स्वामित्वहेतुःसंबन्धो न चाभिजनता तथा ॥ १९ ॥

य इति ।। स्वामित्वहेतुरिति । बह्वर्थदानादिना संबन्ध एव स्वामित्वहेतुः भावी, न त्वभिजन: स्वामित्वहेतुसंबन्धो भविता अभिजन इति पाठे स्वामित्वहेतुर्वसुदानादि सम्बन्धः स एवाभिजन: न तु महा-कुलीनत्वम् । हीनवर्णोऽप्यर्थदो महाकुलीन वत्सेव्य इत्यर्थः ॥ १९ ॥

गृहान्ता द्रव्य्संघाता द्रव्यान्ता च तथा मतिः ।

अर्थाश्चात्मोपभोग्यान्ता भविष्यन्ति कलौ युगे ॥ २० ॥

गृहान्ता इति ।। बुद्धेस्साध्यं धनार्जनम्, न त्वात्मज्ञानादि । तच धनं गृहनिर्माणार्थम्, न तु यागाधानाद्यर्थम् । ते चार्था गृहरूपाः स्वदेहभोगार्थाः, न त्वतिथ्यादिभोगार्थाः ॥ २० ॥

स्त्रियः कलौ भविष्यन्ति स्वैरिण्यो ललितस्पृहाः ।

अन्यायादाप्तवित्तेषु पुरुषाः स्पृहयालवः ॥ २१ ॥

स्त्रिय इति ॥ ललितेषु पुरुषेषु स्पृहा यासां तास्तयोक्ताः ॥ २१ ॥

अभ्यर्थितापि सुहृदा स्वार्थमेव निरीक्ष्यते ।

पणार्धार्धाद्धमात्रेऽपि करिष्यन्ति तथा स्पृहाम् ॥ २२ ॥

अभ्यर्थितापीति ॥ अभ्यर्थितापि-अभ्यर्थिता अपि । अत्र आर्षस्संधिः । देवापि यं न पश्यन्तीति-यत् । पणः कपर्दिकाशीतिः, पञ्चगुञ्जातुलितं स्वर्णं वा ॥ २२ ॥

समानपौरुषं चेतो भुवि विप्रेषु वै कलौ ।

क्षीरप्रधानसंबन्धि भावि गोषु च गौरवम् ॥ २३ ॥

अनावृष्टिभयप्रायाः प्रजाः क्षुद्भयकातराः ।

भविष्यन्ति तदा सर्वे गगनासक्तदृष्टयः ॥ २४ ॥

समानपौरुषमिति ॥ समानपौरुषमित्यवरवर्णाश्शूद्रादयः विप्रान् स्वसमानतेजस्कान् मन्यन्त इत्यर्थः । समानपरुषम् इति पाठे सगर्वनिष्ठुरं च चेत इति ॥ २३,२४ ॥

कन्दमूलफलाहारास्तापसा इव मानवाः ।

आत्मानं घातयिष्यन्ति ह्यनावृष्ट्यादिदुःखिताः ॥ २५ ॥

कन्दमूलेति ॥ घातयिष्यन्ति-क्लेशयिष्यन्ति ॥ २५ ॥

दुर्भिक्षमेव सततं तथा क्लेशमनीश्वराः ।

प्राप्स्यन्ति व्याहतसुखप्रमोदा मानवाः कलौ ॥ २६ ॥

अस्नानभोजिनो नाग्निदेवतातिथिपूजनम् ।

करिष्यन्ति कलौ प्राप्ते न च पिण्डोदकक्रियाम् ॥ २७ ॥

लोलुपा ह्रस्वदेहाश्च बह्वन्नादनतत्पराः ।

बहुप्रजाल्पभाग्याश्च भविष्यन्ति कलौ स्त्रियः ॥ २८ ॥

उभाभ्यामपि पाणिभ्यां शिरःकण्डूयनं स्त्रियः ।

कुर्वन्त्यो गुरुभर्तॄणामाज्ञां भर्त्स्यन्त्यनादराः ॥ २९ ॥

स्वपोषणपराः क्षुद्रा देहसंस्कारवर्जिताः ।

परुषानृतभाषिण्यो भविष्यन्ति कलौ स्त्रियः ॥ ३० ॥

दुःशीला दुष्टशीलेषु कुर्वन्त्यःसततं स्पृहाम् ।

असद्वृत्ता भविष्यन्ति पुरुषेषु कुलाङ्गनाः ॥ ३१ ॥

दुर्भिक्षमिति ॥ प्रमोदः – उल्लासः ॥ २६-३१ ॥

वेदादानं करिष्यन्ति वटवश्चाकृतव्रताः ।

गृहस्थाश्च न होष्यन्ति न दास्यन्त्युचितान्यपि ॥ ३२ ॥

वेदादानमिति ॥ अकृतव्रता:- वेदव्रतरहिताः ॥ ३२ ॥

वानप्रस्था भविष्यन्ति ग्राम्याहारपरिग्रहाः ।

भिक्षवश्चापि मित्रादिस्नेहसंबन्धयन्त्रणाः ॥ ३३ ॥

वानप्रस्था इति ॥ वनवासिनः वानप्रस्थाः ॥ ३३ ॥

अरक्षितारो हर्तारः शुल्कव्याजेन पार्थिवाः ।

हारिणो जनवित्तानां संप्राप्ते तु कलौ युगे ॥ ३४ ॥

योयोऽश्वरथनागाढ्यःस स राजा भविष्यति ।

यश्च यश्चाबलः सर्वः स स भृत्यः कलौ युगे ॥ ३५ ॥

वैश्याः कृषिवणिज्यादि संत्यज्य निजकर्म यत् ।

शूद्रवृत्त्या प्रवर्त्स्यन्ति कारुकर्मोपजीविनः ॥ ३६ ॥

भैक्षव्रतपराः शूद्रा प्रव्रज्यालिङ्गिनोऽधमाः ।

पाषण्डसंश्रयां वृत्तिमाश्रयिष्यन्ति सत्कृताः ॥ ३७ ॥

दुर्भिक्षकरपीडाभिरतीवोपद्रुता जनाः ।

गोधूमान्नयवान्नाढ्यान्देशान्यास्यन्ति दुःखिताः ॥ ३८ ॥

वेदमार्गे प्रलीने च पाषण्डाढ्ये ततो जने ।

अधर्मवृद्ध्या लोकानामल्पमायुर्भविष्यति ॥ ३९ ॥

अशास्त्रविहितं घोरं तप्यमानेषु वै तपः ।

नरेषु नृपदोषेण बाल्ये मृत्युर्भविष्यति ॥ ४० ॥

भविता योषितां सूतिः पञ्चषट्सप्तवार्षिकी ।

नवाष्टदशवर्षाणां मनुष्याणां तथा कलौ ॥ ४१ ॥

अरक्षितार इति ॥ शुल्कव्याजेन–शुल्कमिति व्यपदिश्य शुल्कव्यतिरिक्तैर्दण्डैश्च ॥ ३४-४१ ।।

पलितोद्भवश्च भविता तथा द्वादशवार्षिकः ।

नातिजीवति वै कश्चित्कलौ वर्षाणि विंशतिः ॥ ४२ ॥

अल्पप्रज्ञा वृथालिङ्गा दुष्टान्तःकरणाः कलौ ।

यतस्ततो विनङ्क्ष्यन्ति कालेनाल्पेन मानवाः ॥ ४३ ॥

यदायदा हि मैत्रेय हानिर्धर्मस्य लक्ष्यते ।

तदातदा कलेर्वृद्धिरनुमेया विचक्षणैः ॥ ४४ ॥

यदायदा हि पांषडवृद्धिर्मैत्रेय लक्ष्यते ।

तदातदा कलेर्वृद्धिरनुमेया महात्मभिः ॥ ४५ ॥

यदायदा सतां हीनिर्वेदमार्गानुसारिणाम् ।

तदातदा कलेर्वृद्धिरनुमेया विचक्षणैः ॥ ४६ ॥

प्रारंभाश्चावसीदन्ति यदा धर्मभृतां नृणाम् ।

तदाऽनुमेयं प्राधान्यं कलेर्मैत्रेय पण्डितैः ॥ ४७ ॥

यदायाद न यज्ञानामीश्वरः पुरुषोत्तमः ।

इज्यते पुरुषैर्यज्ञैस्तदा ज्ञेयं कलेर्बलम् ॥ ४८ ॥

न प्रीतिर्वेदवादेषु पाषण्डेषु यदा रतिः ।

कलेर्वृद्धिस्तदा प्राज्ञैरनुमेया विचक्षणैः ॥ ४९ ॥

कलौ जगत्पतिं विष्णुं सर्वस्रष्टारमीश्वरम् ।

नार्चयिष्यन्ति मैत्रेय पाषण्डोपहता जनाः ॥ ५० ॥

किं देवैः किं द्विजैर्वेदैः किं शौचे नांबुजन्मना ।

इत्येवं विप्रवक्ष्यन्ति पाषण्डोपहता जनाः ॥ ५१ ॥

स्वल्पांबुवृष्टिः पर्जन्यः सस्यं स्वल्पफलं तथा ।

फलं तथाऽल्पसारं च विप्र प्राप्ते कलौ युगे ॥ ५२ ॥

पलितेति ॥ विंशति नातिजीवन्ति कलेरन्ते त्रयोविंशतिमिति चतुर्थोक्त जीवनमितः पूर्वम् ॥ ४२-५२ ॥

शाणीप्रायाणि वस्त्राणि शमीप्राया महीरुहाः ।

शूद्रप्रायास्तथा वर्णा भविष्यन्ति कलौ युगे ॥ ५३ ॥

अणुप्रायाणि धान्यानि चाज्यप्रायं तथा पयः ।

भविष्यति कलौ प्राप्ते ह्यौशीरं चानुलेपनम् ॥ ५४ ॥

शाणीप्रायाणीति ॥ शाणश्शाणी वा शणविकारः । शाटीति पाठे ह्रस्वस्थूलम् ॥ ५३-५४ ॥

श्वश्रूश्वशुरभूयिष्ठा गुरवश्च नृणां कलौ ।

श्यालाद्य हारिभार्याश्च सृहृदो मुनिसत्तम ॥ ५५ ॥

कस्य माता पिता कस्य यथा कर्मानुगः पुमान् ।

इति चोदाहरिष्यन्ति श्वशुरानुगता नराः ॥ ५६ ॥

वाङ्मनःकायगैर्दोषैरभिभूताः पुनः पुनः ।

नराः पापान्यनुदिनं करिष्यन्त्यल्पमेधसः ॥ ५७ ॥

निस्सत्त्वानामशौचानां निर्ह्रीकाणां तथा नृणाम् ।

यद्यद्दुःखाय तत्सर्वं कलिकाले भविष्यति ॥ ५८ ॥

श्वश्रूश्वशुरेति ॥ हारिभार्या:- हारिण्यः हृया भार्याः । बहुव्रीहिर्वा हारिण्यो भार्या येषां ते ते सुहृदः । भर्तॄणां जाराणां च रम्यभार्या हि सुहृदः ॥ ५५-५८ ।।

निःस्वाध्यायवषट्कारे स्वधास्वाहाविवर्जिते ।

तदा प्रविरलो धर्मः क्वचिल्लोके निवत्स्यति ॥ ५९ ॥

निस्वाध्यायेति ॥ क्वत् – कीकटादौ ॥ ५९ ।।

तत्राल्पेनैव यत्नेन पुण्यस्कन्धमनुत्तमम् ।

करोति यः कृतयुगे क्रियते तपसा हि सः ॥ ६० ॥

तत्रेति ।। तत्र–कलौ अल्पेनैव यत्नेन- हरिसंकीर्तनादिना । अनुत्तमं पुण्यस्कन्धं-पुण्यराशि करोति पुरुषः । य: – पुण्यस्कन्धः क्रियते स कृतयुगे तपसा हि कियते ॥ ६० ॥

इति श्रीविष्णुमहापुराणे षष्ठांशे प्रथमोऽध्यायः ।। १ ।।

अथ षष्ठांशे द्वितीयोऽध्यायः

श्रीपराशर उवाच

व्यासश्चाह महाबुद्धिर्यदत्रैव हि वस्तुनि ।

तच्छ्रूयतां महाभाग गदतो मम तत्त्वतः ॥ १ ॥

व्यासश्चेति ॥ अत्र वस्तुनि अल्पयत्नेन पुण्यस्कन्धप्राप्तौ ॥ १ ॥

कस्मिन्कालेऽल्पको धर्मो ददानि सुमहत्फलम् ।

मुनीनां पुण्यवादोऽभूत्कैश्चासौ क्रियते सुखम् ॥ २ ॥

कस्मिन्निति ॥ पुण्यवादः पुण्यविषयविचारः ॥ २ ॥

संदेहनिर्णयार्थाय वेदव्यासं महामुनिम् ।

ययुस्ते संशयं प्रष्टुं मैत्रेय मुनिपुङ्गवाः ॥ ३ ॥

दृदृशुस्ते मुनिं तत्र जाह्नवीसलिले द्विज ।

वेदव्यासं महाभागमर्धस्नातं सुतं मम ॥ ४ ॥

स्नानावसानं ते तस्य प्रतीक्षन्तो महर्षयः ।

तस्थुस्तीरे महानद्यास्तरुषण्डमुपाश्रिताः ॥ ५ ॥

संदेहनिर्णयार्थायेति ॥ संशयं संशयितमर्थं प्रष्टुम् ॥ ३५॥

मग्नोऽथ जाह्नवीतोयादुत्थायाह सुतो मम ।

शुद्रःसाधुः कलिःसाधुरित्येवं शृण्वतां वचः ।

तेषां मुनीनां भूयश्च ममज्ज स नदीजले ॥ ६ ॥

मग्न इति ॥ शूद्रस्साधुः कलिः साधुरिति वचनम् ॥ ६ ॥

साधुसाध्विति चोत्थाय शूद्र धन्योसि चाब्रवीत् ॥ ७ ॥

साधुसाध्विति ।। साधुसाधु शुद्र धन्योऽसीत्युक्तिः हृदयसन्निधेः प्रत्यक्षोक्तिरिव भातीति ॥ ७ ॥

निमग्नश्च समुत्थाय पुनः प्राह महामुनिः ।

योषितः साधु धन्यास्तास्ताभ्यो धन्यतरोऽस्तिकः ॥ ८ ॥

ततः स्नात्वा यथान्यायमाचान्तं च कृतक्रियम् ।

उपतस्थुर्महाभागं मुनयस्ते सुतं मम ॥ ९ ॥

कृतसंवन्दनांश्चाह कृतासनपरिग्रहान् ।

किमर्थ मागता यूयमिति सत्यवतीसुतः ॥ १० ॥

निमग्नश्चेति ॥ ताभ्यः – योषिद्भ्यः । कलौ साधुत्वं शूद्रे धन्यत्वं योषितां धन्यतरत्वं चेति तद्गुण-रतम्याद्विरग्य त्रिधोक्ति: ।। ८-१० ।।

श्रीपराशर उवाच

तमूचुःसंशयं प्रष्टं भवन्तं वयमागताः ।

अलं तेनास्तु तावन्नः कथ्यतामपरं त्वया ॥ ११ ॥

कलिःसाध्विति यत्प्रोक्तं शूद्रः साध्विति योषितः ।

यदाह भगवान्त्साधु धन्याश्चेति पुनः पुनः ॥ १२ ॥

तत्सर्वं श्रोतुमिच्छामो न चेद्गुह्यं महामुने ।

तत्कथ्यतां ततो हृत्स्थं पृच्छामस्त्वां प्रयोजनम् ॥ १३ ॥

तमिति ॥ तेन–प्राग्विवक्षितेनार्थेन, अलमस्तु-तन्निवृत्तिरस्तु ॥ ११-१३ ॥

श्रीपराश उवाच

इत्युक्तो मुनिभिर्व्यासः प्रहस्येदमथाब्रवीत् ।

श्रूयतां भो मुनिश्रेष्ठा यदुक्तं साधुसाध्विति ॥ १४ ॥

व्यास उवाच

यत्कृते दशभिर्वर्षैस्त्रेतायां हायनेन तत् ।

द्वापरे तच्च मासेन ह्यहोरात्रेण तत्कलौ ॥ १५ ॥

तपसो ब्रह्मचर्यस्य जपादेश्च फलं द्विजाः ।

प्राप्नोति पुरषस्तेन कलिःसाध्विति भाषितम् ॥ १६ ॥

इत्युक्त इति ॥ प्रहस्येति – घिगस्त्वितिवत् । स्वप्रश्नोत्तरं दत्तमप्यबुद्ध्वा पुनः पृच्छतो मुनीन् प्रति हासः ॥ १४-१६ ॥

ध्यायन्कृते यजन्यज्ञैस्त्रेतायां द्वापरेऽर्चयन् ।

यदाप्नोति तदाप्नोति कलौ संकीर्त्य केशवम् ॥ १७ ॥

ध्यायन्निति ॥ कृते चित्तशुद्धिसंभवाद्ध्यानेन फलप्राप्ति: । त्रेतायां तदभावेऽपि चित्तशुद्ध्या यज्ञैः फलसिद्धिः । द्वापरे तयोरभावेऽपि आचारशुद्ध्याऽर्चनेन सिद्धिः, सन्ध्याहीनोऽशुचिर्नित्यम् इत्यादिवच-नात् । कलौ तु तेषामभावेऽपि भगवन्नामसंकीर्तनेनैव फलसिद्धिरिति कलेस्साधुत्वम् ॥ १७ ॥

धर्मोत्कर्षमतीवात्र प्राप्नोति पुरुषः कलौ ।

अल्पायासेन धर्मज्ञास्तेन तुष्टोऽस्म्यहं कलेः ॥ १८ ॥

एतदेव विवृणोति । धर्मेति ॥ खल्पायासेन-संकीर्तनादिना ॥ १८ ॥

व्रतचर्यापरैर्ग्राह्या वेदाः पूर्वं द्विजातिभिः ।

ततःस धर्मसंप्राप्तैर्यष्टव्यं विधिवद्धनैः ॥ १९ ॥

वृथा कथा वृथा भोज्यं वृथेज्या च द्विजन्मनाम् ।

पतनाय ततो भाव्यं तैस्तु संयमिभिः सदा ॥ २० ॥

व्रतचर्येति । व्रतचर्येत्यादि शूद्रसाधुत्वस्य उपोद्धातः ॥ १९,२० ॥

असम्यक्करणे दोषस्तेषां सर्वेषु वस्तुषु ।

भोज्यपेयादिकं चैषां नेच्छाप्राप्तिकरं द्विजाः ॥ २१ ॥

असम्यक्करण इति ॥ इच्छैव प्राप्तिकरी यस्य तदिच्छाप्राप्तिकरम्, इच्छया प्राप्यं न ॥ २१ ॥

पारतन्त्र्यं समस्तेषु तेषां कार्येषु वै यतः ।

जयन्ति ते निजांल्लोकान्क्लेशेन महताद्विजाः ॥ २२ ॥

अत्र हेतुः –पारतन्त्र्यमिति ॥ पारतन्त्र्य – विधिपारतन्त्र्यम् ॥ २२ ॥

द्विजशुश्रूषयैवैष पाकयज्ञाधिकारवान् ।

निजाञ्जयति वै लोकाञ्छूद्रो धन्यतरस्ततः ॥ २३ ॥

भक्ष्याभक्ष्येषु नास्यास्ति पेयापेयेषु वै यतः ।

नियमो मुनिशार्दूलास्तेनासौ साध्वितीरितः ॥ २४ ॥

द्विजशुश्रूशयैवेति ।। पाकयज्ञाधिकारवान्–शूदस्याप्यमन्त्र कपक्कहोमादिष्वधिकारः । अस्मै साधु-चरितमिति शेषः ॥ २३,२४ ॥

स्वधर्मस्याविरोधेन नरैर्लब्धं धनं सदा ।

प्रतिपादनीयं पात्रेषु यष्टव्यं च यथाविधि ॥ २५ ॥

स्वधर्मस्येति ॥ स्वधर्मस्येति स्त्रीसाधुत्वस्य प्रस्तावः । नरैः-पुंभिः ॥ २५ ॥

तस्यार्जने महाक्लेशः पालने च द्विजोत्तमाः ।

तथा सद्विनियोगेन विज्ञातं गहनं नृणाम् ॥ २६ ॥

एवमन्यैस्तथा क्लेशैः पुरुषा द्विजसत्तमाः ।

निजाञ्जयन्ति वै लोकान्प्राजापत्यादिकान्क्रमात् ॥ २७ ॥

योषिच्छुश्रूषणाद्भर्तुः कर्मणा मनसा गिरा ।

तद्धिता शुभमाप्नोति तत्सालोक्यं यतो द्विजाः ॥ २८ ॥

तस्येति ॥ गहनं–क्लेशः ॥ २६-२८ ॥

नातिक्लेशेन महता तानेव पुरुषो यथा ।

तृतीयं व्याहृतं तेन मया साध्विति योषितः ॥ २९ ॥

एतद्वः कथितं विप्रा यन्निमित्तमिहागताः ।

तत्पृच्छत यथाकामं सव वक्ष्यामि वः स्फुटम् ॥ ३० ॥

ऋषयस्ते ततः प्रोचुर्यत्प्रष्टव्यं महामुने ।

अस्मिन्नेव च तत्प्रश्ने यथावत्कथितं त्वया ॥ ३१ ॥

श्रीपराशर उवाच

ततः प्रहस्य तानाह कृष्णद्वैपायनो मुनिः ।

विस्मयोत्फुल्लनयनांस्तापसांस्तानुपागतान् ॥ ३२ ॥

मयैष भवतां प्रश्रो ज्ञातो दिव्येन चक्षुषा ।

ततो हि वः प्रसंगेन साधुसाध्विति भाषितम् ॥ ३३ ॥

स्वल्पेन हि प्रत्यनेन धर्मःसिध्यति वै कलौ ।

नरैरात्मगुणांभोभिः क्षलिताखिलकिल्बिषैः ॥ ३४ ॥

शुद्रैश्च द्विजशुश्रूषातत्परैर्द्विजसत्तमाः ।

तथा स्त्रीभिरनाया सात्पतिशुश्रूषयैव हि ॥ ३५ ॥

ततस्त्रितयमप्येतन्मम धन्यतरं मतम् ।

धर्मसंपादने क्लेशो द्विजातीनां कृतादिषु ॥ ३६ ॥

भवद्भिर्यदभिप्रेतं तदेतत्कथितं मया ।

अपृष्टेनापि धर्मज्ञाः किमन्यत्क्रियतां द्विजाः ॥ ३७ ॥

श्रीपराशर उवाच

ततःसंपूज्य ते व्यासं प्रशशंसुः पुनः पुनः ।

यथागतन्द्विजा जग्मुर्व्यासोक्तिकृतनिश्चयाः ॥ ३८ ॥

भवतोऽपि महाभाग रहस्यं कथितं मया ।

अत्यन्तदुष्टस्य कलेरयमेको महान्गुणः ॥ ३९ ॥

यच्चाहं भवता पृष्टो जगतामुपसंहृतिम् ।

प्राकृतामन्तरालां च तामप्येष वदामि ते ॥ ४० ॥

नेति ॥ तानेवेति पुरुषो यथा प्राजापत्यादिकान् प्राप्नोति तथा योषितानेव प्राप्नोतीत्यर्थः ।। २९-४० ॥

इति श्रीविष्णुमाहपुराणे षष्ठांशे द्वितीयोऽध्यायः ।। २ ।।

अथ षष्ठांशे तृतीयोऽध्यायः

श्रीपराशर उवाच

सर्वेषामेव भूतानां त्रिविधः प्रतिसंचरः ।

नैमित्तिकः प्राकृतिकः तथैवात्यन्तिको लयः ॥ १ ॥

॥ १ ॥

ब्राह्मो नैमित्तिकस्तेषां कल्पान्ते प्रतिसंचरः ।

आत्यन्तिकस्तु मोक्षाख्यः प्राकृतो द्विपरार्धकः ॥ २ ॥

मैत्रेय उवाच

परार्धसंख्यां भगवन्ममाचक्ष्व यया तु सः ।

द्विगुणीकृतया ज्ञेयः प्राकृतः प्रतिसंचरः ॥ ३ ॥

ब्राह्म इति ॥ प्राकृतो द्विपरार्धक इति जल्पनात् परार्थद्वयात्मके ब्रह्मायुषि पूर्णे प्रकृतौ तत्कार्यस्य लय: प्राकृतः ॥ २,३ ॥

श्रीपराशर उवाच

स्थानात्स्थानं दशगुणमेकस्माद्रण्यते द्विज ।

ततोऽष्टादशमे भागे परार्धमभिधीयते ॥ ४ ॥

परार्धद्विगुणं यत्तु प्राकृतःस लयो द्विज ।

तदाऽव्यक्तेऽखिलं व्यक्तं स्वहेतौ लयमेति वै ॥ ५ ॥

स्थानात् स्थानमिति ॥ एकं दश शतमस्मात्सहस्रमयुतं ततः परं लक्षम् । प्रयुतं कोटिमथार्बुद मब्जं खर्वं ततो निखर्वं च ॥ तस्मान्महासरोजं शङ्कुम् सरितां पतिं ततो मध्यम् अन्त्यं परार्धमाहुर्यथोत्तरं दशगुणं हि वे तज्ज्ञाः ॥ एवं द्विपरार्धमानुषवत्सरे तु महासंहारः ॥ ४,५ ॥

निमेषो मानुषो योऽसौ मात्रामात्राप्रमाणतः ।

तैः पञ्चदशभिः काष्ठा त्रिंशत्काष्ठ कला स्मृता ॥ ६ ॥

नाडिका तु प्रमाणेन सा कला दश पञ्च च ॥ ७ ॥

निमेष इत्यादि ।। यः प्रागुक्तो निमेष: असौ मात्रेत्युच्यते, मात्राप्रमाणत्वात्। एकमात्रलध्ववक्षरो-च्चारणकालसंमितो ह्यसौ ॥ ६,७ ॥

उन्मानेनांभसःसा तु पलान्यर्धत्रयोदश ।

मागधेन तु मानेन जलप्रस्थस्तु स स्मृतः ।

हेममाषैः कृतच्छिद्रचतुर्भिश्चतुरङ्गुलैः ॥ ८ ॥

नाडिकाभ्यामथ द्वाभ्यां मुहूर्तो द्विजसत्तम ।

अहोरात्रं मुहुर्तास्तु त्रिंशन्मासो दिनैस्तथा ॥ ९ ॥

मासैर्द्वादशभिर्वर्षमहोरात्रं तु तद्दिवि ।

त्रिभिर्वर्षशतैर्वर्षं षष्ट्या चैवासुरद्विषाम् ॥ १० ॥

तैस्तु द्वादशसाहस्त्रैश्चतुर्युगमुदाहृतम् ।

चतुर्युगसहस्रं तु कथ्यते ब्रह्मणो दिनम् ॥ ११ ॥

स कल्पस्तत्र मनवश्चतुर्दश महामुने ।

तदन्ते चैव मैत्रेय ब्राह्मो नेमित्तिको लयः ॥ १२ ॥

तस्य स्वरूपमत्युग्रं मैत्रेय गदतो मम ।

शृणुष्व प्राकृतं भूयस्तव वक्ष्याम्यहं लयम् ॥ १३ ॥

चतुर्युगसहस्रान्ते क्षीणप्राये महीतले ।

अनावृष्टिरतीवोग्रा जायते शतवार्षिकी ॥ १४ ॥

ततो यान्यल्पसाराणि तानि सत्त्वान्यशेषतः ।

क्षयं यान्ति मुनिश्रेष्ठ पार्थिवान्यनुपीडनात् ॥ १५ ॥

उन्मानेनेति ॥ तुलया मितस्याम्भसः पलानि, अर्धत्रयोदश–अर्ध त्रयोदशं येषां तानि अर्ध त्रयोदश सार्थद्वादशेत्यर्थः । सा नाडिका-उपचारात्तैर्नाडिका ज्ञातव्येत्यर्थः । कथमित्याह-हेमेति । हेममाषैः-माष: पञ्चगुञ्जा-मानम् । जलस्यैतत्सार्द्धं पलद्वादशकं मगधदेश्यं प्रस्थं पूरयति । स च प्रस्थश्चतुर्गुणस्सन्नाडीज्ञापक इति शेषः । यथा ह वायुः – उन्मानेनाम्भसश्चापि पलान्यर्धत्रयोदश मागधेन तु मानेन जलप्रस्थो विधीयते । एवं

चाप्युदकप्रस्थाश्चत्वारो नाडिका घट: । हेममाषैः कृतच्छिद्र श्चतुर्भिश्चतुरङ्गुलैः ॥ इति । एवं चतुर्माषसुवर्णरचित-चतुरङ्गुलसूचीकृताधश्छिद्रादाढकजलपूर्णात् पंचाशत् पलपरिमाणाद्धटात्तच्छिद्रेण पश्चाशत्पलं जलं यावता कालेन निस्सरति तावत्कालो नाडित्युक्तं भवति । अथवा अहोरात्रे जलस्य पूरणं निस्सरणं वा षष्ठिवारं यथा स्यात्

तथा तत्पात्रमानं कार्यम् । अन्ये तु चतुर्माषनिर्मितया चतुरङ्गलया सूच्या कृतच्छिद्रे सार्धद्वादशपले ताम्रपात्रे तत्प्रमाणं जलं तच्छिद्रेण यावता कालेन प्रविशति स काल एका नाडिका, तानि पलानि मागधमानेन जलप्रस्थ इति वर्णयन्ति । कृतच्छिद्रैरिति च पठन्ति । तत्रायमन्यय:- सा नाडिका चतुर्भिर्हेममाषैः कृतच्छिद्रै र्निष्पन्नान्यम्भसोऽर्धत्रयोदश पलानीति ॥ ८-१५ ॥

ततः सभगवान्विष्णु रुद्ररूपधरोऽव्ययः ।

क्षयाय यतते कर्तुमात्मस्थाःसकलाः प्रजाः ॥ १६ ॥

तत इति ॥ क्षयाय रुद्ररूपधरो भूत्वा ॥ १६ ॥

ततः स भगवान् विष्णुर्भानोः सप्तसु रश्मिषु ।

स्थितः पिबत्यशेषाणि जलानि मुनिसप्तम ॥ १७ ॥

पीत्वांऽभांसि समस्तानि प्राणिभूमिगतान्यपि ।

शोषं नयति मैत्रेय समस्तं पृथिवीतलम् ॥ १८ ॥

समुद्रान्सरितः शैलनदीप्रस्रवणानि च ।

पातालेषु च यत्तोयं तत्सर्वं नयति क्षयम् ॥ १९ ॥

तत इति ॥ सप्त रश्मयः- सुषुम्णो हरिकेशश्च विश्वकर्मा तथैव च । विश्वव्यचा स्वधा संयद्वसुर-र्वाग्वसुस्तथा” इत्युक्ताः ।। १७-१९ ।।

ततस्तस्यानुभावेन तोयाहारोपबृंहिताः ।

त एव रश्मयःसप्त जायन्ते सप्त भास्कराः ॥ २० ॥

अधश्चोर्ध्वं च ते दीप्ता स्ततःसप्त दिवाकराः ।

दहन्त्यशेषं त्रैलोक्यं सपातालतलं द्विज ॥ २१ ॥

दह्यमानं तु तैर्दीप्तैस्त्रैलोक्यं द्विज भास्करैः ।

साद्रिनद्यर्णवाभोगं निस्नेहमभिजायते ॥ २२ ॥

ततो निर्दग्धवृक्षांबुत्रैलोक्यमाखितं द्विज ।

भवत्येषा च वसुधा कूर्मपृष्ठोपमाकृतिः ॥ २३ ॥

ततः कालाग्निरुद्रोऽसौ भूत्वा सर्वहरोऽनलः ।

शेषाहिश्वाससंभूतः पातालानि दहत्यधः ॥ २४ ॥

तत इति ॥ भास्करा:- आरोगो भ्राज इत्यादयः ॥ २०-२४ ॥

पातालानि समस्तानि स दग्ध्वा ज्वलनो महान् ।

भूमिमभ्येत्य सकलं बभस्ति वसुधातलम् ॥ २५ ॥

भुवर्लोकं ततःसर्वं स्वर्लोकं च सुदारुणः ।

ज्वालामालामहावर्तस्तत्रैव परिवर्तते ॥ २६ ॥

पातालानीति ॥ बभस्ति-भक्षयति । भस-भक्षणदीप्त्योः ॥ २५,२६ ॥

अंबरीषमिवाभाति त्रैलोक्यमखिलं तदा ।

ज्वालावर्तपरिवारमुपक्षीणचराचरम् ॥ २७ ॥

अम्बरीषमिवेति ॥ अम्बरीषं-भर्जनभाण्डम् ॥ २७ ॥

ततस्तापपरीतास्तु लोकद्वयनिवासिनः ।

कृताधिकारागच्छन्ति महर्लोकं महामुने ॥ २८ ॥

तस्मादपि महातापतप्ता लोकात्ततः परम् ।

गच्छन्ति जनलोकं ते दशावृत्त्या परैषिणः ॥ २९ ॥

ततो दग्ध्वा जगत्सर्वं रुद्ररूपी जनार्दनः ।

मुखनिश्वासजान्मेघान्करोति मुनिसत्तम ॥ ३० ॥

ततो गजकुलप्रख्यास्तटित्वन्तोऽतिनादिनः ।

उत्तिष्ठन्ति तथा व्योम्नि घोराःसंवर्तका घनाः ॥ ३१ ॥

केचिन्नीलोत्पलश्यामाः केचित्कुमुदसन्निभाः ।

धूम्रवर्णा घनाः केचित्केचित्पीताः पयो धराः ॥ ३२ ॥

केचिद्रासभवर्णाभा लाक्षारसनिभास्तथा ।

केचिद्वैडूर्यसंकाशा इन्द्रनीलनिभाः क्वचित् ॥ ३३ ॥

शङ्खकुन्दनिभाश्चान्ये जात्यं जननिभाः परे ।

इन्द्रगोपनिभाः केचित्ततश्शिखिनिभास्तथा ॥ ३४ ॥

मनःशिलाभाः केचिद्वै हरितालनिभाः परे ।

चाषपत्रनिभाः केचिदुत्तिष्ठन्ते महाघनाः ॥ ३५ ॥

केचित्पुरवराकाराः केचित्पर्वतसन्निभाः ।

कूटागारनिभाश्चान्ये केचित्स्थलनिभा घनाः ॥ ३६ ॥

महारावा महाकायाः पूरयन्ति नभःस्थलम् ।

वर्षन्तस्ते महासारास्तमग्निमतिभैरवम् ।

शमयन्त्यखिलं विप्र त्रैलोक्यान्तरधिष्ठितम् ॥ ३७ ॥

नष्टे चाग्नौ च सततं वर्षमाणा ह्यहर्निशम् ।

प्लावयन्ति जगत्सर्वमंभोभिर्मुनिसत्तम ॥ ३८ ॥

धाराभिरतिमात्राभिः प्लावयित्वाऽखिलां भुवम् ।

भुवर्लोकं तथैवोर्ध्वं प्लावयन्ति हि ते द्विज ॥ ३९ ॥

अन्धकारीकृते लोके नष्टे स्थावरजङ्गमे ।

वर्षन्ति ते महामेघा वर्षाणामधिकं शतम् ॥ ४० ॥

एवं भवति कल्पान्ते समस्तं मुनिसत्तम ।

वासुदेवस्य माहात्म्यान्नित्यस्य परमात्मनः ॥ ४१ ॥

तत इति ॥ कृताधिकाराः- मन्वादयः । दशावृत्या – सप्त पातालानि त्रयो लोका इति दश, तेष्व-वृत्त्या–वृत्त्यभावेन । यद्वा, तावद्दशाया आवृत्या । परैषिणः- परस्थानैषिणः । अथवा त्रैलोक्ये ये कृताधिकारा मन्वाद्या: ते हृताधिकाराःभोगात्प्रक्षीणतद्देशभोग्यक्रर्माणः सन्तो महर्लोकं प्राप्य तस्मादपि तप्तात्तल्लोक-वासिभिस्सह सशरीराः जनलोकं यान्ति । तेषां मध्ये ये परैषिणः- परं प्राप्तुमिच्छवस्ते दशवारावृत्यैव क्रमात्त-पस्सत्यप्राप्तिद्वारा ततः परमीश्वरं विशन्ति । अन्ये त्रैलोक्यस्था जीवाः स्वात्मनि संलीयन्ते । यथाह वायु:-

पितृमभिर्मनुभिश्चैव साध्यैस्सप्तर्षिभिस्तथा । यज्वानश्चैव येऽप्यन्ये तद्भकाश्चैव तैस्सह । महर्लोकं गमिष्यन्ति त्यक्त्वा त्रैलोक्यमीश्वराः। महर्लोकं परित्यज्य गणास्तेऽपि चतुर्दश । सशरीराश्च यान्त्यन्ये जनलोकं सहानुगैः । एवं देवास्सपितर ऋषयो मानवाश्च ये । मित्रैस्सहोर्ध्वं गच्छन्ति व्यावर्त्तन्ते च तैस्सह । जनलोकात्सुरास्सर्वे दश- कल्पान्पुनः पुनः । पर्यायकाले संप्राप्ते संभूतानि धनेष्विह । अवश्यभाविनाऽर्थेन संबध्यन्ते तथा तु ते । निवर्त्तन्ते तथा वृत्या तेषां सद्यो न निस्तरः। महर्जन चापि जनात्तपं च ढोकान्ततस्तानि भवन्ति सत्ये । मन्वन्तराणां परिवर्तनानि मुश्चन्ति सत्येन तपोऽवराणि । तपोभियोगाद्विषय- प्रहाणाद्विशन्ति तेऽपीश्वरमेव देवम् ॥ इति । अथात्मनि महातेजास्सर्वमाधाय सर्वकृत् । ततस्स रात्रिं स्वपिति तमस्येकार्णवे जले ॥ इति । हृताधिकारा गच्छन्तीति च पाठः ॥ २८-४१ ॥

इति श्रीविष्णुमहापुराणे षष्ठांशे तृतीयोऽध्यायः ।। ३ ।।

अथ षष्ठांशे चतुर्थोऽध्यायः

श्रीपराशर उवाच

सप्तर्षिस्थानमाक्रम्य स्थितेंऽभसि महामुने ।

एकार्णवं भवत्येतत्त्रैलोक्यमखिलं ततः ॥ १ ॥

मुखनिश्वासजो विष्णोर्वायुस्ताञ्जलदांस्ततः ।

नाशयन्वाति मैत्रेय वर्षाणामपरं शतम् ॥ २ ॥

सर्वभूतमयोऽचिन्त्यो भगवान्भूतभावनः ।

अनादिरादिर्विश्वस्य पीत्वा वायुमशेषतः ॥ ३ ॥

॥ १-३ ॥

एकार्णवे ततस्तस्मिञ्छेषशय्यागतः प्रभुः ।

ब्रह्मरूपधरः शेते भगवानादिकृद्धरिः ॥ ४ ॥

जनलोकगतैः सिद्धैः समकाद्यैरभिष्टुतः ।

ब्रह्मलोकगतैश्चैव चिन्त्यमानो मुमुक्षुभिः ॥ ५ ॥

एकार्णव इति ॥ ब्रह्मरूपधरः इति प्रथमांशे व्याख्यातम् । ननूतरत्र ब्रह्मादीनां

शुभाश्रयत्वं निषिध्यते । तत्कथमत्र ब्रह्मरूपधरस्य मुमुक्षुभिश्चित्यमानत्वम् । उच्यते-धारणासिध्यर्थं तत्र शुभाश्रय उक्तः । निष्पन्नसमाधीनां तु जगद्रूपतया भगवदनुसन्धानमविरुद्धम् । यथा मत्तस्सर्वमहं सर्वम्, अहं मनुरभवम् इत्यादि । किं च परशुरामकल्क्यादिवदनुप्रवेशावतारत्वाच्च न विरोधः ॥ ४, ५ ॥

आत्ममायामयीं दिव्यां योगनिद्रां समास्थितः ।

आत्मानं वासुदेवाख्यं चिन्तयन्मधुसूदनः ॥ ६ ॥

आत्मेति आत्ममायामयीं–मूलप्रकृत्यमिमानिदेवताम् । योगनिद्रां- योगरूपां निद्राम् । एतद्विवृणोति आत्मानं चिंतयन्निति ॥ ६ ॥

एष नैमित्तिको नाम मैत्रेयः प्रतिसंचरः ।

निमित्तं तत्र यच्छेते ब्रह्मरूपधरो हरिः ॥ ७ ॥

यदा जागर्ति सर्वात्मा स तदा चेष्टते जगत् ।

निमीलत्येतदखिलं मायाशय्यां गतेऽच्युते ॥ ८ ॥

पद्मयोनेर्दिनं यत्तु चतुर्युगसहस्रवत् ।

एकार्णवीकृते लोके तावती रात्रिरिष्यते ॥ ९ ॥

ततः प्रबुद्धो रात्र्यन्ते पुनःसृष्टिं करोत्यजः ।

ब्रह्मस्वरूपधृग्विष्णुर्यथा ते कथितं पुरा ॥ १० ॥

इत्येष कल्पसंहारोऽवान्तरप्रलयो द्विज ।

नैमित्तिकस्ते कथितः प्राकृतः शृण्वतः परम् ॥ ११ ॥

एष इति ॥ यत् निमित्तं तत्रेति । तत्र-ब्रह्मणो दिनान्ते ॥ ७-११ ॥

अनावृष्ट्यादिसंपर्कात्कृते संक्षालने मुने ।

समस्तेष्वेव लोकेषु पातालेष्वखिलेषु च ॥ १२ ॥

अनावृष्टीत्यादि ॥ समस्तेषु लोकेषु पातालेषु च संक्षालने-नाशे कृते ॥ १२ ॥

महदादेर्विकारस्य विशेषान्तस्य संक्षये ।

कृष्णेच्छाकारिते तस्मिन्प्रवृत्ते प्रतिसंचरे ॥ १३ ॥

महदादेरिति ॥ तस्मिन्-प्राकृते प्रतिसंचरे महदादेर्विशेषान्तस्य विकारस्य संक्षये च प्रवृत्ते-प्रस्तुते ॥ १३ ॥

आपो ग्रसंति वै पूर्वं भूमेर्गन्धात्मकं गुणम् ।

आत्तगन्धा ततो भूमिः प्रलयत्वाय कल्पते ॥ १४ ॥

आप इत्यादि ।। प्रलयत्वाय-प्रकृष्टो लयो यस्याः सा प्रलया, तद्भावाय ॥ १४ ॥

प्रणष्टे गन्धतन्मात्रे भवत्युर्वी जलात्मिका ।

आपस्तदा प्रवृद्धास्तु वेगवत्यो महास्वनाः ॥ १५ ॥

प्रणष्ट इति ॥ गन्धतन्मात्रे-अत्र तन्मात्रग्रहणं विशेषस्याप्युपलक्षणम् ॥ १५ ॥

सर्वमापूरयन्तीदं तिष्ठन्ति विचरन्ति च ।

सलिलेनोर्मिमालेन आलोकान्तात्समन्ततः ॥ १६ ॥

अपामपि गुणो यस्तु ज्योतिषा पीयते तु सः ।

नश्यन्त्यापस्ततस्ताश्च रसतन्मात्रसंक्षयात् ॥ १७ ॥

ततश्चापो हृतरसाज्योतिष्ट्वं प्राप्नुवन्ति वै ।

अग्न्यवस्थे तु सलिले तेजसा सर्वतो वृते ॥ १८ ॥

स चाग्निः सर्वतो व्याप्य चादत्ते तज्जलं तथा ।

सर्वमापूर्यतेऽर्चिर्भिस्तदा जगदिदं शनैः ॥ १९ ॥

अर्चिर्भिः संवृते तस्मिंस्तिर्यगूर्ध्वमधस्तदा ।

ज्योतिषोऽपि परं रूपं वायुरत्ति प्रभाकरम् ॥ २० ॥

प्रलीने च ततस्तस्मिन्वायुभूतेऽखिलात्मनि  ।

प्रनष्टे रूपतन्मात्रे हृतरूपो विभावसुः ॥ २१ ॥

सर्वमिति ।। सलिलेन-ओघेन, आलोकान्तात्-लोकान्तं यावत् । आलेकस्तेजो वा ॥ १६-२१॥

प्रशाम्यति तदाज्योतिर्वायुर्दोधूयते महान् ।

निरालोके तथा लोके वाय्ववस्थे च तेजसि ॥ २२ ॥

प्रशाम्यतीति ।। अज्योतिरिति पदच्छेदः । तच्च वायुविशेषणम् । ज्योतिर्विरोधी ॥ २२ ॥

ततस्तु मूलमासाद्य वायुःसंभवमात्मनः ।

ऊर्ध्वं चाधश्च तिर्यक्च दोधवीति दिशो दश ॥ २३ ॥

वायोरपि गुणं स्पर्शमाकाशो ग्रसते ततः ।

प्रशाम्यति ततो वायुः खं तु तिष्ठत्यनावृतम् ॥ २४ ॥

तत इति ॥ तुमुले-सशब्दम् । आत्मनः संभवं-स्वम् ॥ २३, २४ ॥

अरूपरसमस्पर्शमगन्धं न च मूर्तिमत् ।

सर्वमापूरयच्चैव सुमहत्तत्प्रकाशते ॥ २५ ॥

परिमण्डलं च सुषिरमाकाशं शब्दलक्षणम् ।

शब्दमात्रं तदाकाशं सर्वमावृत्य तिष्ठति ।। २६ ॥

अरूपमिति ॥ न च मूर्त्तिमत्-निरवयवम्, अहंकारावच्छिन्नतया परिमाणनिषेधायोगात् ॥ २५,२६॥

ततश्शब्दगुणं तस्य भूतादिर्ग्रसते पुनः ।

भूतेन्द्रियेषु युगपद्भूतादौ संस्थितेषु वै ॥ २७ ॥

अभिमानात्मको ह्येष भूतादिस्तामसःस्मृतः ।

भूतादिं ग्रसते चापि महान्वै बुद्धिलक्षणः ॥ २८ ॥

तत इति ॥ भूतादिशब्देन त्रिविधाहंकारस्य ग्रहणम् ॥ २७, २८ ॥

उर्वी महंश्च जगतः प्रतिन्तर्बाह्यतस्तथा ॥ २९ ॥

उर्वोत्यादि ॥ उर्वी महांश्च अन्तः- अण्डस्यान्तः स्थितस्य जगतः प्रान्ते-चरमकोट्यां प्रथमकोटयां च, तथा बाह्यतः अण्डाद्बहिरपि, तथा-पृथिव्येकप्रान्ते महानितरप्रान्ते ॥ २९ ॥

एवं सप्त महाबुद्धे क्रमात्प्रकृतयःस्मृताः ।

प्रत्याहारे तु ताःसर्वाः प्रविशन्ति परस्परम् ॥ ३० ॥

एवमिति ॥ अयमावरणलयविषयः श्लोकः । महदादयः सप्त क्रमादहंकारादीनां प्रकृतयः स्मृताः । ताः प्रत्याहारे तु परस्परं स्वंस्वं कारणम् एवं-पूर्वोक्तलयक्रमेण प्रविशन्ति ॥ ३० ॥

येनेदमावृतं सर्वमण्डमप्सु प्रलीयते ।

सप्तद्वीपसमुद्रान्तं सप्तलोकं सपर्वतम् ॥ ३१ ॥

उदकावरणं यत्तु ज्योतिषा पीयते तु तम् ।

ज्योतिर्वायौ लयं याति यात्याकाशे समीरणः ॥ ३२ ॥

आकाशं चैव भूतादिर्ग्रसते तं तथा महान् ।

महान्तमेभिः सहितं प्रकृतिर्ग्रसते द्विज ॥ ३३ ॥

गुमसाम्यमनुद्रिक्तमन्यूनं च महामुने ।

प्रोच्यते प्रकतिर्हेतुः प्रधानङ्कारणं परम् ॥ ३४ ॥

एतदेव प्रपञ्चयति-येनेति ॥ एवंभूतमिदमण्डं येनावृतं तत्पृथिव्यावरणमप्सु लीयते ॥ ३१, ३४ ॥

इत्येषा प्रकृतिःसर्वा व्यक्ताव्यक्तस्वरूपिणी ।

व्यक्तस्वरूपमव्यक्ते तस्मान्मैत्रेय लीयते ॥ ३५ ॥

इत्येषा प्रकृतिरिति ॥ व्यक्तावस्थमपि प्रकृतिद्रव्यमेव न द्रव्यान्तरम् । तस्माद्व्यक्तमव्यक्ते लीयते । तस्या इति पाठे स्वरूपमित्यनुषङ्गः ॥ ३५ ॥

एकः शुद्धोऽक्षरो नित्यःसर्वव्यापी तथा पुमान् ।

सोऽप्यंशःसर्वभूतस्य मैत्रेय परमात्मनः ॥ ३६ ॥

एक इति । एकः शुद्ध:-प्रकृतिवदनेकत्वानर्हः वैचित्र्यानर्हश्च, अनेकत्वबोधक वैचित्र्यार्ह सत्यादि-गुणमयत्वाभावात् । अत एकाक्षरो नित्यश्च । तत्र हेतुमाह-पूर्वव्यापीति सूक्ष्मत्वात्प्रकृतेरपि व्यापन स्वभावः । सोऽसि पुमान् परमात्मनोंऽशः, यथा प्रकृतिः । अत्र लयस्थानत्वेन प्रकृतेः प्रकृतत्वात् प्रसङ्गात् पुरुषपरमात्मनोः प्रस्तावः ।। ३६ ॥

न संति यत्र सर्वेशे नामजात्यादिकल्पनाः ।

सत्तामात्रत्मके ज्ञेये ज्ञानात्मन्यात्मनः परे ॥ ३७ ॥

तद्ब्रह्म परमं धाम परमात्मा स चेश्वरः ।

स विष्णुःसर्वमेवेदं यतो नावर्तते यतिः ॥ ३८ ॥

परमाह-न सन्तीति ॥ नन्वंशत्ववचनात् पुरुषस्य परमात्मैकद्रव्यत्वं स्यात् । नैवम् समस्त यरहितम् स सर्वभूतप्रकृति विकारान् विष्णुस्समस्तेन्द्रिय देहदेही, क्षेत्रज्ञशक्ति: सा वेष्टिता, नित्यो नेत्यानाम् पृथगात्मानं प्रेरितारं च मला उत्तमः पुरुषस्त्वन्य: इत्यादिभिस्त पोरत्यन्त वै लक्षण्यस्योक्तत्वात् । कथमंशत्वमित्याशंक्य प्रकाशादि वन्नैवं परः इत्यादिना सूत्रकारः प्रकाश जातिगुणदेहवदात्मनोऽपि शरीर- भूतस्य तिष्ठतः परमात्मै कदेहत्वात् अंशत्वमुपयादितवान् । सत्तामात्रात्मक इति विकारनिषेधः । ज्ञेये- नारायण महाज्ञेयम् इत्यादिना । आत्मनः परे-यस्यात्मा शरीरमिति शरीरत्वेनोक्तत्वात् बद्धान्मुक्ताच्चात्मनो- ऽत्यन्त- विलक्षणे । प्रकाशतद्वतोरिव जगद्ब्रह्मणोश्शरीशरीरिभावस्वाभाविक न जीववत्कर्मकृतः। तत्पुरुषस्य विश्व- माजानमग्रे वेदात्मशक्तिं स्वाच्छरीरात् इत्यादेः ।। ३७, ३८ ॥

प्रकृतिर्या मयाऽऽख्याता व्यक्ताव्यक्तस्वरूपिणी ।

पुरुषश्चाप्युभावेतौ लीयेते परमात्मनि ॥ ३९ ॥

प्रकृतिरित्यादि ॥ प्रकृतेः परमात्मनि लयः पुरुषे लयद्वारा, अव्यकमक्षरे लीयते अक्षरं तमसि लीयते तमः परे देव एकीभवति इति श्रुतेः ॥ ३९ ।।

परमात्मा च सर्वेषामाधारः परमेश्वरः ।

विष्णुनामा स वेदेषु वेदान्तेषु च गीयते ॥ ४० ॥

परमात्मेति ॥ विष्णुनामा स वेदेषु वेदान्तेषु च गीयते-विष्णुनामा स एव परमेश्वरो वेदेषु वेदान्तेषु च सब्रह्मादिशब्दैर्गीयते ॥ ४० ।।

प्रवृत्तं च निवृत्तं च द्विविधङ्कर्म वैदिकम् ।

ताभ्यामुभाभ्यां पुरुषैः सर्वमूर्तिःस इज्यते ॥ ४१ ॥

ऋग्यजुःसामभिर्मार्गैः प्रवृत्तैरिज्यते ह्यसौ ।

यज्ञेश्वरो यज्ञपुमान्पुरुषैः पुरुषोत्तमः ॥ ४२ ॥

प्रवृत्तमिति ॥ कथमिन्द्रादियागैरस्येज्यत्व मित्यत्राह सर्वमूर्तिरिति ॥ ४१, ४२ ॥

ज्ञानात्मा ज्ञानयोगेन ज्ञानमूर्तिः स चेज्यते ।

निवृत्ते योगिभिर्मार्गे विष्णुर्मुक्तिफलप्रदः ॥ ४३ ॥

ज्ञानात्मेति ॥ ज्ञानात्मा-ज्ञानस्वरूपः । ज्ञानमूर्ति:- ज्ञानात्मिका मूर्तिर्विग्रहो यस्य । निवृत्ते मार्गे ज्ञानयोगेन-ज्ञानयोगप्रधानेन कर्मणा इज्यते । मुक्तिफलप्रदः – निवृत्तिमार्गेणेष्ट एव ॥ ४३ ॥

ह्रस्वदीर्घप्लुतैर्यत्तु किञ्चिद्वस्त्वभिधीयते ।

यच्च वाचामविषयं तत्सर्वं विष्णुरव्ययः ॥ ४४ ॥

ह्रस्वेति ॥ ह्रस्वादिशब्दैरभिधेगमचिद्वस्तु । वाचामविपये चिद्वस्तु । तत्सर्वं विष्णुः- तदात्मकम् ॥ ४४ ॥

व्यक्तःस एव चाव्यक्तःस एव पुरुषोत्तमः ।

परमात्मा च विश्वात्मा विश्वरूपधरोहरिः ॥ ४५ ॥

व्यक्तमिति ॥ व्यक्तादिसामानाधिकरण्य हेतुर्विश्वात्मा विश्वरूपधर इति । पुरुष: कार्यकारणरूपोभ- ग्रावस्थः । परमात्मा मुक्तः । व्यक्तं स एव चाव्यक्तमिति च पाठः ॥ ४५ ॥

व्यक्ताव्यक्तात्मिका तस्मिन्प्रकृतिःसंप्रलीयते ।

पुरुषश्चापि मैत्रेय व्यापिन्यव्याहतात्मनि ॥ ४६ ॥

द्विपरार्धात्मकः कालः कथितो यो मया तव ।

तदहस्तस्य मैत्रेय विष्णोरीशस्य कथ्यते ॥ ४७ ॥

व्यक्तेत्यादि ॥ उक्तस्यैवानुवादो गुणान्तरविध्यर्थः । अव्याहतात्मनि- अविकृत स्वरूपे ॥ ४६, ४७ ॥

व्यक्ते च प्रकृतौ लीने प्रकृत्यां पुरुषे तथा ।

तत्र स्थिते निशा चास्य तत्प्रमाणा महामुने ॥ ४८ ॥

व्यक्त इति ॥ प्रकृत्यां पुरुषे लीनायामिति शेषः । तथा-तत्र स्थिते, तथाभूते पुरुषे तत्र परमात्मनि स्थिते । द्वयोर्युगपल्लयपक्षे ग्रंथस्सुगमः । व्यक्त इति पुनर्लयानुवादः परमात्मनो रात्र्यादिकल्पनाविध्यर्थः ॥ ४८ ॥

नैवाहस्तस्य न निशा नित्यस्य परमात्मनः ।

उपचारस्तथाऽप्येष तस्येशस्य द्विजोच्यते ॥ ४९ ॥

इत्येष तव मैत्रेय कथितः प्राकृतो लयः ।

आत्यन्तिकमथो ब्रह्मन्निबोध प्रतिसंचरम् ॥ ५० ॥

नैवेति ॥ नित्यस्य परमात्मनः इति । अत्र स्वरूपनित्यत्वस्य ब्रह्मादीनामपि साधारण्याद्विग्रहवत्वस्य नित्यत्वमभिप्रेतम्, सदैकरूपरूपाय इत्यादिभिर्विग्रहनित्यत्वस्य प्रतिपादनात् ॥ ४९, ५० ॥

इति श्रीविष्णुमहापुराणे षष्ठांशे चतुर्थोऽध्यायः ।। ४ ।।

अथ षष्ठांशे पञ्चमोऽध्यायः

श्रीपराशर उवाच

आध्यात्मिकादि मैत्रेय ज्ञात्वा तापत्रयं बुधः ।

उत्पन्नज्ञानवैराग्यः प्राप्नोत्यात्यन्तिकं लयम् ॥ १ ॥

आध्यात्मिकोऽपि द्विविधश्शारीरो मानसस्तथा ।

शारीरो बहुभिर्भेदैर्भिद्यते श्रुयतां च सः ॥ २ ॥

॥ १,२ ॥

शिरोरोगप्रतिश्यायज्वरशूलभगन्दरैः ।

गुल्मार्शः श्वययुश्वासच्छर्द्यादिभिरनेकधा ॥ ३ ॥

तथाक्षिरोगातीसारकुष्ठाङ्गामयसंज्ञितैः ।

भिद्यते देहजस्तापो मानसं श्रोतुमर्हसि ॥ ४ ॥

शिरोरोगेति ॥ प्रतिश्यायः-पीनसः । श्वयथुः-शोफः ॥ ३, ४ ॥

कामक्रोधभयद्वेषलोभमोहविषादजः ।

शोकासूयावमानेर्ष्यामात्सर्यादिमयस्तथा ॥ ५ ॥

मानसोऽपि द्विजश्रेष्ठ तापो भवति नैकधा ।

इत्येवमादिभिर्भेदैस्तापो ह्याध्यात्मिकः स्मृतः ॥ ६ ॥

मृगपक्षिमनुष्याद्यैः पिशाचोरगराक्षसैः ।

सरीसृपाद्यैश्च नृणां जायते चाधिभौतिकः ॥ ७ ॥

शीतवा तोष्णवार्षांबुवैद्युतादिसमुद्भवः ।

तापो द्विजवरश्रेष्ठैः कथ्यते चाधिदैविकः ॥ ८ ॥

कामकोधेति ॥ द्वेष:- अप्रीतिः । मोहो मूर्च्छा । विषाद:-सत्वसंक्षयः । शोक:- प्रियविरहजः ईर्ष्या-परसंपदक्षमा ॥ ५-८ ॥

गर्भजन्मजराज्ञानमृत्युनारकजं तथा ।

दुःखं सहस्रशो भेदैर्भिद्यते मुनिसत्तम ॥ ९ ॥

गर्भेति ॥ नारकजं-नरकजम् । स्यान्नारकस्तु नरक: इत्यमरः ॥ ९ ॥

सुकुमारतनुर्गर्भे जन्तुर्बहुमलावृते ।

उल्बसंवेष्टितो भुग्नपृष्ठग्रीवास्थिसंहतिः ॥ १० ॥

अत्यम्लकटुतीक्ष्णोष्णलवणैर्मातृभोजनैः ।

अत्यन्ततापैरत्यर्थं वर्धमानातिवेदनः ॥ ११ ॥

प्रसारणाकुञ्चनादौ नाङ्गानां प्रभुरात्मनः ।

शकृन्मूत्रमहापङ्कशायी सर्वत्र पीडितः ॥ १२ ॥

निरुच्छ्वासः सचैतन्यः स्मरञ्जन्मशतान्यधः ।

आस्ते गर्भेऽतिदुःखेन निजकर्मनिबन्धनः ॥ १३ ॥

सुकुमारेति ॥ उल्बम्-गर्भवेष्टनचर्म ।। १०-१३ ।।

जायमानः पुरीषासृङ्मूत्रशुक्लाविलाननः ।

प्राजापत्येन वातेन पीड्यमानास्थिबन्धनः ॥ १४ ॥

जायमान इति ॥ प्राजापत्येन-ब्रह्मणा नियुक्तेन गात्रसंकोचकेन, तस्माज्यायान् सगर्भः कनीयांसं सूतियोनिमजानानो हिनस्ति ब्रह्मणा हि स कृतः इति श्रुतेः ॥ १४ ॥

अधोमुखो वै क्रियते प्रबलैः सूतिमारुतैः ।

क्लेशान्निष्क्रान्तिमाप्नोति जठरान्मातुरातुरः ॥ १५ ॥

मुर्छामवाप्य महतीं संस्पृष्टो बाह्यवायुना ।

विज्ञानभ्रंशमाप्नोति जातश्च मुनिसत्तम ॥ १६ ॥

अधोमुख इति ॥ सूतिमारुतैः-सूत्यर्थं गर्भप्रेरकैः ॥ १५, १६ ॥

कण्टकैरिव तुन्नाङ्गः क्रकचैरिव दारितः ।

पूतिव्रणान्निपतितो धरण्यां क्रिमिको यथा ॥ १७ ॥

कण्डूयनेऽपि चाशक्तः परिवर्तेप्यनीश्वरः ।

स्नानपानादिकाहारमप्याप्नोति परेच्छया ॥ १८ ॥

अशुचिप्रस्तरे सुप्तः कीटद्रंशादिभिस्तथा ।

भक्ष्यमाणोऽपि नैवैषां समर्थो विनिवारणे ॥ १९ ॥

कंटकैरिति ॥ तुन्नाङ्गः–व्यथितदेहः । पूतिव्रणात्-दुर्गन्धव्रणात; योरित्यर्थः ॥ १७-१९ ॥

जन्मदुःखान्यनेकानि जन्मनोऽनन्तराणी च ।

बालभावे यदाप्नोति ह्याधिभौतादिकानि च ॥२० ॥

जन्मेति ॥ कण्डूयनेत्यादिनोक्तानि जन्मनोऽनन्तराणि । कीटदंशादिभिः बालभावे यदाप्नोति तदप्य-नेकमिति शेषः ॥ २० ॥

अज्ञानतमसाच्छन्नो मूढान्तःकरणो नरः ।

न जानाति कुतः कोहं क्वाहं गन्ता किमात्मनः ॥ २१ ॥

कामान्धत्वादाघिक्याद्यौवने अज्ञानजं दुःखं विशिष्याह – अज्ञानेत्यादिना ॥ २१ ॥

केन बन्धेन बद्धोहं कारणं किमकारणम् ।

किं कार्यं किमकार्यं वा किं वाच्यं किं च नोच्यते ॥ २२ ॥

केनेति ॥ कार्य-कारणजन्यम् ॥ २२ ॥

को धर्मः कश्च वाऽधर्मः कस्मिन्वर्तेऽथ वा कथम् ।

किं कर्तव्यमकर्तव्यं किं वा किङ्गुणदोषवत् ॥ २३ ॥

एवं पशुसमैर्मुढैरज्ञानप्रभवं महत् ।

अवाप्यते नरैर्दुःखं शिश्नोदरपरायणैः ॥ २४ ॥

को धर्म इति ॥ क वा-कस्मिन्वा वर्ते तत्सर्वं च कथमिति न जानातीति पूर्वेणान्वयः ॥ २३,२४ ।।

अज्ञानं तामसो भावः कार्यारंभप्रवृत्तयः ।

अज्ञानिनां प्रवर्तन्ते कर्मलोपास्ततो द्विज ॥ २५ ॥

नरकं कर्मणां लोपात्फलमाहुर्मनीषिणः ।

तस्मादज्ञानिनां दुःखमिह चामुत्र चोत्तमम् ॥ २६ ॥

अज्ञानमिति ।। अज्ञानं तामसो भावः तमसो विकारः । तेनाज्ञानिनां तदनुगुणकार्यारम्भेषु प्रवृत्तयो भवन्ति । अतः कर्मलोपाः-वैदिककर्मलोपाः प्रवर्तन्ते ॥ २५, २६ ॥

जराजर्जरदेहश्च शिथिलावयवः पुमान् ।

विचलच्छीर्णदशनो वलिस्नायुशिरावृतः ॥ २७ ॥

जरेति ॥ बलिस्नायुशिरावृत इति । बलिस्त्वक्तरंग: । रक्तवहा नाडी सिरा । सैव बन्धनी स्नायुः ॥ २७ ॥

दूरप्रनष्टनयनो व्योमान्तर्गततारकः ।

नासाविवरनिर्यातलोमपुञ्जश्चलद्वपुः ॥ २८ ॥

प्रकटीभूतसर्वास्थिर्नतपृष्ठास्थिसंहतिः ।

उत्सन्नजठराग्नित्वादल्पाहारोऽप्लचेष्टितः ॥ २९ ॥

कृच्छ्राच्चङ्क्रमणोत्थानशयनासनचेष्टितः ।

मन्दीभवच्छ्रोत्रनेत्रःस्रवल्लालाविलाननः ॥ ३० ॥

दूरेति ॥ दूरप्रनष्टनयन:-अघिकप्रनष्टनयनशक्तिः । व्योमान्तर्गततारकः- दृग्गोलकाकाश निमग्नकनीनकः ॥ २८-३० ॥

अनायत्तैः समस्तैश्च करणेर्मरणोन्मुखः ।

तत्क्षणेऽप्यनुभूतानामस्मर्ताऽखिलवस्तुनाम् ॥ ३१ ॥

अनायत्तैरिति ॥ अनायत्तैः-प्रवृत्यक्षमैः ॥ ३१ ॥

सकृदुच्चारिते वाक्ये समुद्भूत महाश्रमः ।

श्वासकाशसमुद्भूतमहायासप्रजागरः ॥ ३२ ॥

अन्येनोत्थाप्यतेऽन्येन तथा संवेश्यते जरी ।

भृत्यात्मपुत्रदाराणामवामानास्पदी कृतः ॥ ३३ ॥

प्रक्षीणाखिलशौचश्च विहाराहारसस्पृहः ।

हास्यः परिजनस्यापि निर्विण्णाशेषबान्धवः ॥ ३४ ॥

अनुभूतमिवान्यस्मिञ्जन्मन्यात्मविचेष्टितम् ।

संस्मरन्यौवने दीर्घं निश्वसत्यतितापितः ॥ ३५ ॥

एवमादीनि दुःखानि जरायामनुभूय वै ।

मरणे यानि दुःखानि प्राप्नोति शृणु तान्यपि ॥ ३६ ॥

श्लथद्ग्रीवाङ्घ्रिहस्तोऽथ व्याप्तो वेपथुना भृशम् ।

मुहुर्ग्लानिः परवशो मुहुर्ज्ञानलवान्वितः ॥ ३७ ॥

हिरण्यधान्यतनयभार्याभृत्यगृहादिषु ।

एते कथं भविष्यन्तीत्यतीव ममताकुलः ॥ ३८ ॥

मर्मभिद्भिर्भहारोगैः क्रकचैरिव दारुणैः ।

शरैरिवान्तकस्योग्रैश्छद्यमानासुबन्धनः ॥ ३९ ॥

परिवर्तितताराक्षो हस्तपादं मुहुः क्षिपन् ।

संशुष्यमाणताल्वोष्ठपुटो घुरघुरायते ॥ ४० ॥

सकृदिति ॥ कासः- श्लेष्मा ॥ ३२-४० ॥

निरुद्धकण्ठो दोषौघैरुदानश्वासपीडितः ।

तापेन महता व्याप्तस्तृषा चार्त्तस्तथा क्षुधा ॥ ४१ ॥

क्लेशादुत्क्रान्तिमाप्नोति यमकिङ्करपीडितः ।

ततश्च यातनादेहं क्लेशेन प्रतिपद्यते ॥ ४२ ॥

एतान्यन्यानि चोग्राणि दुःखानि मरणे नृणाम् ।

शृणुष्व नरके यानि प्राप्यन्ते पुरुषैर्मृतैः ॥ ४३ ॥

याम्यकिङ्करपाशादिग्रहणं दण्डताडनम् ।

यमस्य दर्शनं चोग्रमुग्रमार्गविलोकनम् ॥ ४४ ॥

निरुद्धे ते ॥ दोष: वातादिः । उदानेति । उदानः कण्ठस्थवायुः, उर: स्थानमुदानस्य नासा-नोभिगलांश्चरेत् । वाक् प्रवृत्तिप्रयत्नोर्जाबलवर्णस्मृतिक्रियः ॥ अस्य गलसंचारित्वात् । उदानः कण्ठदेशस्थ: इत्यमरः ॥ ४१-४४ ।।

करंभवालुकावह्नियन्त्रशस्त्रासिभीषणे ।

प्रत्येकं नरके याश्च यातना द्विज दुःसहाः ॥ ४५ ॥

क्रकचैः पाठ्यमानानां मूषायां चापि दह्यताम् ।

कुठारैः कृत्यमानानां भूमौ चापि निखन्यताम् ॥ ४६ ॥

शूलेष्वारोप्यमाणानां व्याघ्रवक्त्रे प्रवेश्यताम् ।

गृध्रैः संभक्ष्यमाणानां द्वीपिभिश्चोपभूज्यताम् ॥ ४७ ॥

क्वाथ्यतां तैलमध्ये च क्लिद्यतां क्षारकर्दमे ।

उच्चान्निपात्यमानानां क्षिप्यतां क्षेपयन्त्रकैः ॥ ४८ ॥

नरके यानि दुःखानि पापहेतूद्भवानि वै ।

प्राप्यन्ते नारकैर्विप्र तेषां संख्या न विद्यते ॥ ४९ ॥

न केवलं द्विजश्रेष्ठ नरके दुःखपद्धतिः ।

स्वर्गेऽपि पातभीतस्य क्षयिष्णोर्नास्ति निर्वृतिः ॥ ५० ॥

पुनश्च गर्भे भवति जायते च पुनः पुनः ।

गर्भे विलीयते भूयो जायमानोऽस्तमेति वै ॥ ५१ ॥

जातमात्रश्च म्रियते बालभावेऽथ यौवने ।

मध्यमं वा वयः प्राप्य वार्धके वाऽथ वा मृतिः ॥ ५२ ॥

करंभेति ॥ भज्यमानकरंभसमवालुका: करंभादिभीषणवस्तुभिर्युता यातनाः दुःसहाः ॥ ४५-५२ ॥

यावज्जीवति तावच्च दुःखैर्नानाविधैः प्लुतः ।

तं तु कारणपक्ष्मौघैरास्ते कार्पासबीजवत् ॥ ५३ ॥

द्रव्यनाशे तथोत्पत्तौ पालने च सदा नृणाम् ।

भवन्त्यनेकदुःखानि तथैवेष्टविपत्तिषु ॥ ५४ ॥

यद्यत्प्रीतिकरं पुंसां वस्तु मैत्रेय जायते ।

तदेव दुःखवृक्षस्य बीजत्वमुपगच्छति ॥ ५५ ॥

यावदिति ॥ तन्तुकारणेति । पक्ष्माणि-अंशवः ॥ ५३-५५ ।।

कलत्रपुत्रमित्रार्थगृहक्षेत्रधनादिकैः ।

क्रियते न तथा भूरि सुखं पुंसां यथा सुखम् ॥ ५६ ॥

इति संसारदुःखार्कतापतापितचेतसाम् ।

विमुक्तिपादपच्छायामृते कुत्र सुखं नृणाम् ॥ ५७ ॥

तदस्य त्रिविधस्याऽपि दुःखजातस्य वै मम ।

गर्भजन्मजराद्येषु स्थानेषु प्रभविष्यतः ॥ ५८ ॥

कलत्रेति ॥ असुखं-दुःखम् ॥ ५६-५८ ॥

निरस्तातिशयाह्लादसुखभावैकलक्षणा ।

भेषजं भगवत्प्राप्तिरेकान्तात्यन्तिकी मता ॥ ५९ ॥

निरस्तेति ॥ निरस्तातियशाह्लादसुखभावैकलक्षणा- सुखान्तरस्यातिशयो निरस्तो येन तन्निरस्तातिशयम् । आह्लादरूपं सुखम् आह्लादसुखम् । आह्लादो मोहसंभेदः । सुखान्तरा- नुभवाक्षमत्वांपादकोत्कर्षवत्सुखम्। भाव-शब्देन सुखस्य दु:खनिवृत्तिरूपता व्यावर्त्यते । एवं निरतिशयाह्लादरूपसुखत्वमेव भगवत्प्राप्तिस्वरूपमित्युक्तम् । एकान्ता दुःखासंभिन्ना आत्यन्तिकी अन्तमतीत्य वर्तमाना नित्या । अत्र भगवच्छन्देन प्राप्यस्य हेयप्रत्यनीकांशेष-

कल्याणगुणात्मकत्वं वक्ष्यमाणं सूचयता तत्प्राप्तेर्निरस्तातिशयेत्याद्युच्यमानं वैशिष्ट्यं प्रतिपादितम् ॥ ५९ ॥

तस्मात्तत्प्राप्तये यत्नः कर्तव्यः पण्डितैर्नरैः ।

तत्प्राप्तिहेतुर्ज्ञानं च कर्म चोक्तं महामुने ॥ ६० ॥

तस्मादिति ॥ यस्माद्भगवत्प्राप्तिरेव तापत्रयनिवृत्तिहेतुः तस्मात्तत्प्राप्तये यत्नः कर्तव्यः इति, बुद्धे क्षेमप्रापणमिति मोक्षोपायज्ञानमविधेयमिति वदतो निरस्यति ; प्राप्त्युपायं च दर्शयति-ज्ञानं च कर्म चेति । अत्र ज्ञानमेव साक्षात् प्राप्त्युपायः, कर्म तु तदङ्गत्वेन । न तु विपर्ययः, समुच्चयो वा ब्रह्मविद्यामधिष्ठाय, इयाज सोऽपि सुबहून् इति हि वक्ष्यति ॥ ६० ॥

आगमोत्थं विवेकाच्च द्विधा ज्ञानं तदुच्यते ।

शब्दब्रह्मागममयं परं ब्रह्म विवेकजम् ॥ ६१ ॥

आचारे कर्मस्वरूपमुक्तम् । ज्ञानं द्विधा विभज्य दर्शयति — आगमोत्थमिति ॥ विवेकजं–विवेकाद्यो-गाज्जन्यम्। तत्रागमोत्थं ज्ञानं शब्दब्रह्मेति, विवेकजं परब्रह्मेति च मन्वादिभिरुच्यत इत्याह – शब्दब्रह्मेति ॥ ६१ ॥

अन्धं तम इवाज्ञानं दीपवच्चेन्द्रियोद्भवम् ।

यथा सूर्यस्तथा ज्ञानं यद्विप्रर्षे विवेकजम् ॥ ६२ ॥

अथ ब्रह्मविषयमिदं ज्ञानद्वयं प्रशंसति, कुदृष्टिनिरसनाय तस्य ज्ञानद्वयस्य वैषम्यं च दर्शयति-अन्धंतम इति ॥ अज्ञानम् आगमश्रवणात्पूर्वम् । आत्मनामविद्याख्यकर्मतिरोहित स्वरूपत्वादात्मपरमात्मयाथात्म्यस्याप-रिज्ञानम् । अन्यथाज्ञानं वा । तच्च ज्ञानविरोघित्वा -दन्धं तम इव । आगमजन्यं ज्ञानं श्रोत्रेन्द्रियगृहीतागमजन्य-त्वादिन्द्रियोद्भवमित्युच्यते । तच्चाज्ञानतमोविरोधित्वाद्दीपवदिति । अतः आगयोत्थं ज्ञानं तमसि दीपवदन्यथाज्ञानसंव-

लितमल्पं च । अथ अज्ञानतन्मूला विद्यारूपसर्वतमोनिरसनत्वात् आगमोत्यादपि विशदतमप्रत्यक्षरूपत्वाच्च विवेकजं ज्ञानं सूर्यवदित्युच्यते ॥ ६२ ॥

मनुरप्याह वेदार्थं स्मृत्वा यन्मुनिसत्तम ।

तदेतच्छ्रूयतामत्र संबन्धे गदतो मम ॥ ६३ ॥

उक्तेऽर्थे मनुवचनं प्रमाणयति । मनुरपीति ॥ अत्र संबन्धे-मोक्षतत्साधनसंबन्धे ॥ ६३ ॥

द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत् ।

शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ॥ ६४ ॥

विद्यात: पुरुषार्थो न कर्मणा इति मनुवचनमेवोदाहरति-द्वे इति ॥ परं च यत्, ब्रह्मेति शेषः । शब्दब्रह्मणि-शास्त्रजन्यज्ञाने । निष्णातः- निपुणः । परं ब्रह्म-प्रत्यक्षरूपं विवेकजं ज्ञानं लभते ॥ ६४ ॥

द्वे वै विद्ये वेदितव्ये इति चाथर्वणी श्रुतिः ।

परया त्वक्षरप्राप्तिर्ऋग्वेदादिमयाऽपरा ॥ ६५ ॥

मनुवचनमूलश्रुतिमुदाहरति-द्वे विधे इति ॥ विद्ये-आगमविवेकोत्थे । परया-विवेकोत्थया। अक्षरस्य–परब्रह्मणः प्राप्तिः यया तदक्षरमधिगम्यते इति श्रुतेः । अनेन वाक्यार्थज्ञानात्कर्मणो वा मोक्षं वदन्तो निरस्ताः । वाक्यार्थज्ञानान्मोक्षं वदतः तच्छास्त्रैर्वि -प्रतिषिद्धं बुद्धे चेत् क्षेमप्रापणमिहैव न दुःखमुपलभेत इति सूत्रविरोधः, प्रत्यक्षविरोधश्च । अत्र प्रकरणे स्वोक्तस्यार्थस्य वेदविदग्रेसरमनुवचनप्रामाणिकादागमविवेकजपदयो-

रेकायानाद्युक्तोऽर्थो न विवक्षित इति वेदितव्यम् ॥ ६५ ॥

यत्तदव्यक्तमजरमचिन्त्यमजमव्ययम् ।

अनिर्देश्यमरूपं च पाणिपादाद्यसंयुतम् ॥ ६६ ॥

अथ परविद्योपास्यस्य प्राप्यभूतस्य ब्रह्मणस्वरूपमाह – यत्तदिति ॥ यथाह श्रुतिः यत्तदद्वेश्यम् इत्यादिना । श्रुतिव्यतिरिक्तैः प्रमाणैः न व्यज्यत इति अव्यक्तम्, वेदाहमेतम् नावेदविन्मनुते तं बृहन्तम् इति । अजरमजमित्यादिना षड्भावविकारराहित्यमुक्तम् । अचिन्त्यमनिर्देश्यमिति वाङ्मानसागोचरत्वम् । अरूपं – देवमनुष्यादिरूपरहितम् ; अन्यथा रूपवत्त्वश्रुत्यादिविरोधात् ॥ ६६ ॥

विभु सर्वगतं नित्यं भूतयोनिरकारणम् ।

व्याप्य व्याप्तं यतः सर्वं यद्वै पश्यन्ति सूरयः ॥ ६७ ॥

विभ्विति ॥ विभु-सर्वगतं वितत्य व्यापि । विभुत्वं नियन्तृत्वं वा । अकारणं- स्वयं कारणरहितम् । व्याप्यव्यापकरूपेणावस्थितम् सर्वं जगद्यतः । भूतयोनिरिति जीवामिप्रायम् । अत्र परविद्या विषयस्याक्षरस्य भूतयो-नित्वविभुत्वादिविशेषणैः परविद्या निर्गुणब्रह्म -निषयेत्येतन्निरस्तं, यद्वै पश्यन्ति सदा पश्यन्ति इति श्रुतेः ॥ ६७ ॥

तद्ब्रह्म तत्परं धाम तद्ध्येयं मोक्षकांक्षिभिः ।

श्रुतिवाक्योदितं सूक्ष्मं तद्विष्णोः परमं पदम् ॥ ६८ ॥

तद्ब्रह्मेति ॥ धाम-तेजोमयं तद्विष्णोः परमं पदम् इति श्रुतिवाक्योदितं सूक्ष्मं तत्परं ब्रह्म मोक्ष-कांक्षिमिर्द्ध्येयम् ॥ ६८ ॥

तदेव भगवद्वाच्यं स्वरूपं परमात्मनः ।

वाचको भगवच्छब्दस्तस्याद्यस्याक्षयात्मनः ॥ ६९ ॥

उक्तगुणविशिष्टं तदेव ब्रह्म भगवच्छब्दवाच्यमित्याह-तदेवेति ॥ इदं च वचनं ध्यानक्रियाभ्य । भगवान् सर्वव्यापी च भगवान् नारायणो भगवान् प्रजापति, वासुदेवाय धीमहि ओमित्यात्मानं युञ्जीत नमो रुचाय ब्राह्मये इत्यादिवेदान्तसारोद्धाररूपं द्वादशाक्षर -चिन्तका इति पूर्वमुक्तं मंत्रविशेषमभिप्रेत्यामि- हितम् । सकलहेयप्रत्यनीक कल्याण -गुणात्मकं जगत्कारणं परविद्याधिगम्पमुक्तं परब्रह्मैव भगवच्छब्दवाच्यं नान्य दित्यवधारयति तदेवेति । मनुरपि ततस्त्वयंभूर्भगवान् इत्यादिना जगत्कारणमेव भगवच्छब्द -वाच्यमित्याह । अथ ब्रह्मणस्वरूपगुणविभवैरनन्तस्य याथात्म्यवचनसमर्थोऽयं शब्द इत्याह-वाचक इति ॥ ६९ ॥

एवं निगदितार्थस्य तत्तत्त्वं तस्य तत्त्वतः ।

ज्ञायते येन तज्ज्ञानं परमन्यत्त्रयीमयम् ॥ ७० ॥

एवमिति ।। एवं भगवच्छब्देनाभिहित निगदित भूतयोनित्वाद्यर्थस्य तस्य- ब्रह्मणः तत्वं-स्वरूपं येन-विवेक जज्ञानेन तत्त्वतो यद् ज्ञायते-दृश्यते, तत्पुष्कलसाक्षात्काररूपं परम् । अन्यदुदेशतः शास्त्रजं परोक्षरूपम परमित्युपसंहरति ॥ ७० ॥

अशब्दगोचरस्यापि तस्य वै ब्रह्मणो द्विज ।

पूजायां भगवच्छब्दः क्रियते ह्युपचारतः ॥ ७१ ॥

सर्वकारणे परे ब्रह्मणि भगवच्छन्दो मुख्यः, अन्यत्रोपचारत इति वक्ष्यन् मुक्ते तावदुपवारत इत्याह-अशब्देति ।। मुक्तो ह्यशब्दगोचरः, नामरूपाद्विमुक्त: न शब्दगोचरे यस्य, यच्च वाचामविषये, अगोचरं वचसाम् (इत्यादिभ्यः) उपनिषत्प्रसिद्धया । तस्येति मुक्तस्य परामर्शः । ब्रह्मत्वं च ब्रह्मसाग्यात् । पूजायां निमित्तभूतायां तस्योपचारतो भगवच्छब्दः क्रियते । अस्य श्लोकस्य भगवद्विषयत्वे व्याहृतिस्यात् । तत्र शब्दोऽयं नोपचारेण त्वन्यत्र खुपचारतः इत्यनन्तरं वक्ष्यमाणत्वात्, तदेव भगवद्वाच्यमित्या देरुक्तत्वाच्च ॥ ७१ ॥

शुद्धे महाविभूत्वाख्ये परे ब्रह्मणि शब्दते ।

मैत्रेय भगवच्छब्दःसर्वकारणकारणे ॥ ७२ ॥

परमकारणे परे ब्रह्मणि शब्दोऽयमनुपचारतः शब्द्यत इत्याह-शुद्ध इति ॥ शुद्धिः-मलप्रत्यनीकत्वम् । महाविभूत्याख्ये-महाविभूतिसंज्ञे । महाविभूतिर्हि ब्रह्मणः ॥ ७२ ॥

संभर्तेति तथा भर्ता भकारोऽर्थद्वयान्वितः ।

नेता गमयता स्रष्टा गकारार्थस्तथा मुने ॥ ७३ ॥

अन्यत्र मुख्यत्वासंभवज्ञापनाय भगवच्छब्दं निर्षति संभर्तेति ॥ संभरणं-प्रकृतेः कार्ययोग्यताकरणम् । मर्ता- स्वामी, पोषकश्च । नेता गोप्ता । गमयिता – आत्मानं रामयिता, संहर्तेत्यर्थः । स्रष्टा-आत्मान-मुद्गमयिता । एवं गुपे: गुप्त्यर्थत्वात् गत्यर्थत्वात् गमेश्च गकारो निरुक्तः । ज्ञानार्थत्वाद्वा गमेर्गकारः । तदैक्षतेति संकल्परूपेक्षणस्य कर्तेत्यर्थः । गमयिता ज्ञापयितेति वा गकारः । तथा ह्येकायननिरुक्तं भ इत्ये-तस्माद्भकाराद्भर्ता संभर्तेति द्वो धात्वर्थौ गम्येते । ग इति पुनरस्माद्गशब्दाद्गमयिता नेता स्रष्टा परत्र गमने वा ।

पुनरव्यय इत्यतो गः । सोऽसौ भर्तृसंभर्तृनेतृगमनवानेतद्वान् भगवानित्येव भवतीति । तथाऽथर्वशिरसि – यस्सर्वान्भगवानी क्षत्यात्मज्ञानान्निरीक्षायति योगं गमयति तस्मादुच्यते स भगवान् इति ॥ ७३ ॥

ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः ।

ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा ॥ ७४ ॥

अथ समुदायनिरुक्तिः– ऐश्वर्यस्येति ॥ समग्रपदं सर्वत्र संबध्यते । भगः षाड्गुण्यं, तद्वान् भगवा-नित्यभिप्रायः ॥ ७४ ॥

वसंति तत्र भूतानि भूतात्मन्यखिलात्मनि ।

स च भूतेष्वशेषेषु वकारार्थस्ततोऽव्ययः ॥ ७५ ॥

वकारार्थमाह-वसन्तीति ॥ भूतात्मनि- भूतशरीरे, अखिलात्मनि-अखिलत्यामभूते भूतानि वसन्ति तत्रेति जगदाधारत्वमुक्तम्, सदायतनाः इत्यादि श्रुतेः । स च भूतेष्वित्यन्तरात्मत्वम् ऐतदात्म्पमिदं सर्षम् – इति श्रुतेः । अतो वः । मतुपो वसतेश्च तन्त्रेणायं वकारः ॥ ७५ ॥

एवमेष महाञ्छब्दो मैत्रेय भगवानिति ।

परमब्रह्मभूतस्य वासुदेवस्य नान्यगः ॥ ७६ ॥

एवमिति ॥ एवमुक्तप्रकारेणावयवार्थयोगादयं शब्दो वासुदेवस्यैव ॥ ७६ ॥

तत्र पूज्यपदार्थोक्तिपरिभाषासमन्वितः ।

शब्दोऽयं नोपचारेण त्वन्यत्र ह्युपचारतः ॥ ७७ ॥

रूढिशक्त्याऽपि तस्यैवेत्याह – तत्रेति ॥ तत्र भगवान् इति शब्दो वृद्धैः प्रयुज्यते पूज्ये इति नैघण्टुकप्रसिद्धया अयं शब्दो लोके पूज्यपदार्थस्योक्तौ या परिभाषा तथा समन्वितोऽपि विष्णौ नियतः नारायणविष्ण्वादिशब्दवत् । नोपचारेण-तस्य सर्वकारणतया सर्वगुणपरिपूर्णतया परमपूज्यतया चायं शब्दो नौपचारिकः । अन्यत्र – जीवविशेषे त्वापेक्षिकपूज्यत्वादमुख्यः ॥ ७७ ॥

उत्पत्तिं प्रलयं चैव भूतानामागतिं गतिम् ।

वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति ॥ ७८ ॥

अन्यत्रोपचारतः प्रवृत्तौ ज्ञान विशेषो निमित्तमित्याह-उत्पत्तिमिति ॥ ७८ ॥

ज्ञानशक्तिबलैश्वयवीर्यतेजांस्यशेषतः ।

भगवच्छब्दवाच्यानि विना हेयैर्गुणादिभिः ॥ ७९ ॥

अथ भगवतोऽन्वयविशेषणभूतानां सत्यकामत्वादीनां गुणान्तराणामुक्तेषु गुणेष्वन्तर्भावं व्यतिरेक-विशेषणानां सत्त्वादिगुणानां भगवानित्यत्र नकारवाच्यत्वं चाह-ज्ञानशक्तीति ॥ अशेषत:-अशेषैः स्वविस्तारभूतै- र्गुणान्तरैस्सह । नकारस्यार्थमाह विना हेयैरिति । गुणादिमि:-त्रिगुणतत्कार्यक्लेशादिभिः । निखिल हेयप्रत्यनीकत्वं

समस्त कल्याणगुणात्मकत्वं च उभयलिंग कृत्स्नं भगवच्छब्दवाच्यमित्य नुसंधेयमिति । एवं भगवत्प्राप्तिसाधनपर विद्यां-गत्वेनोक्त श्रीमद्वादशाक्षरमन्त्रे भगवच्छन्दो निरुक्तः । वेदशाखाभेदप्रकरणे प्रणवार्थ उक्तः ॥ ७९ ॥

सर्वाणि तत्र भूतानि वसन्ति परमात्मनि ।

भूतेषु च स सर्वात्मा वासुदेवस्ततः स्मृतः ॥ ८० ॥

अथ वासुदेवशब्दार्थमाह – सर्वाणीति ॥ भूतानि – जीवा: वसनात्सर्वभूतानां वसुत्याद्देवयोनितः । वासुदेवस्ततो ज्ञेयः इत्युद्योगपर्वणि वसनाद्देवनाच्चैव वासुदेवं ततो विदुः इति मोक्षधर्मे । देवनाद्योत-नाद्वेति वा देवः । वासुश्चासौ देवश्च वासुदेवः । वसन्त्यस्मिन् देवे भूतानीत्येकायननिरुक्तम् ॥ ८० ॥

खाण्डिक्यजनकायाह पृष्टः केशिध्वजः पुरा ।

नामव्याख्यामनन्तस्य वासुदेवस्य तत्त्वतः ॥ ८१ ॥

उक्तमेव वासुदेवशब्दनिर्वचनं ज्ञाननिष्ठैर्जनकादिभिरपि परिगृहीतमित्याह-खाण्डिक्येति ॥ ८१ ॥

भूतेषु वसते सोंऽतर्वसंत्यत्र च तानि यत् ।

धाता विधाता जगतां वासुदेवस्ततः प्रभुः ॥ ८२ ॥

भूतेष्विति । नैरुक्तं देवशब्दनिर्वचनं दर्शयति-धातेति । दधातेर्वकारः । निरुक्तस्यांशद्वयस्या नुवादः वासुदेवस्तत इति ॥ ८२ ॥

स सर्वभूतप्रकृतिं विकारान्गुणादिदोशांश्च मुने व्यतीतः ।

अतीतसर्वावरणोऽखिलात्मा तेनास्तृतं यद्भुवनान्तराले ॥ ८३ ॥

अथ विद्याद्वयविषयभूतद्वादशाक्षरप्रतिपाद्यतया दर्शितमर्थं बुद्धिस्थेम्ने प्रपञ्चयति-स सर्वेत्यादिचतुर्भिः ॥ स सर्वेति ॥ सर्वभूतप्रकृतिः – अव्यक्तम् । विकाराः – महदाद्याः । गुणा:- सत्त्वाद्याः । अदिशब्देन तत्कार्यदुःखा-ज्ञानादय उक्ताः । व्यतीत:-तेभ्यो ‘विलक्षणः, कर्मकृततत्संबन्धरहितश्च । अनेनाचितस्तत्संसृष्टाच्चेतनाच्च व्यावृत्तिः ॥ अतीतसर्वावरण इति मुक्तात् । मुक्तो हि संसारदशायाम विद्यायावृतः । अखिलात्मेति नियात् व्यावृत्तिः । अखिलात्मत्वमुपपादयति-तेनास्तृतमिति । यत्सदसद्वस्तुजातम् अस्तृतम्-अन्तर्बहिश्च व्याप्तम् ॥ ८३॥

समस्तकल्याणगुणात्मकोऽसौ स्वशक्तिलेशावृतभूतवर्गः ।

इच्छागृहीताभिमतोरुदेहःसंसाधिताशेषजगद्धितो यः ॥ ८४ ॥

समस्तेति ॥ अत्रात्मशब्दः स्वभाववचनः । निजेच्छया गृहीताभिमतपूज्यदेहः । यद्वा, जगद्धितायाव-तारकालेष्विच्छया गृहीततत्तत्कार्योचितानेकदेहः ॥ ८४ ॥

तेजोबलैश्वर्यमहावबोध सुवीर्यशक्त्यादिगुणैकराशिः ।

परः पराणां सकला न यत्र क्लेशादयःसंति परावरेशे ॥ ८५ ॥

तेजोबलेति ॥ भगवानितिशब्दस्थन कारस्यार्थमपि विस्तरेणाह-न यत्रेति । क्लेशा:- अविद्यास्मितादयः । आदिशब्देन कर्मविपाकाशया उक्ताः । आशयो वासना ॥ ८५ ॥

स ईश्वरो व्यष्टिसमष्टिरूपो व्यक्तस्वरूपः प्रकटस्वरूपः ।

सर्वेश्वरःसर्वदृक्सर्वविच्च समस्तशक्तिः परमेश्वराख्यः ॥ ८६ ॥

स इति ॥ व्यूहविभवादिरूपेण च व्यष्टिसमष्टिरूपः । पररूपेणाव्यक्तरूपः । व्यूहादिरूपेण व्यक्त-रूपः। एवं सर्वावस्थचिदचित्स्वरूपत्वेऽपि सर्वेश्वरः न तु परवशः । सर्वदक्-तच्चक्षुर्देवहितम् चक्षुर्देवा-नामुत, त्रैलोक्यस्यैकचक्षुष: इतिवत् । यद्वा यस्सर्वज्ञस्सर्वविदितिवत्, सर्वं वेत्ति, तच्च सर्वप्रकारेण वेत्तीति । अथवा कारणमन्तरेण करणैश्च जानातीति ।  विदऌ लाभे इत्यतो वेत्तीति वा। समस्तशक्तिः- स परस्सर्वशक्तीनाम् समस्ताः शक्तयश्चैता इति ॥ ८६ ॥

संज्ञायते येन तदस्तदोषं शुद्धं परं निर्मलमेकरूपम् ।

संदृश्यते वाप्यवगम्यते वा तज्ज्ञानमज्ञानमतोन्यदुक्तम् ॥ ८७ ॥

अथ परविद्यां प्रशंसन्नुपसंहरति-संज्ञायत इति ॥ स ज्ञायते येनेति च पाठः । स इत्युक्तलक्षणः पुरुषोत्तमः परामृश्यते । तदिति हेतौ । यस्माद्भगवत्प्राप्तिरेव तापत्रयस्य भेषजं तस्मात्स येन-आगमोत्थेन ज्ञानेन । ज्ञायते-येन विवेकजेन संदृश्यते, येन च दर्शनसमाना -कारेण भक्तिरूपापन्नेन गम्यते; तदेव ज्ञानम् । अज्ञान-मतोऽन्यत् भगवद्व्यतिरिक्तविषय -मज्ञानम् -अविद्यारूपं बन्धकमित्यर्थः । अस्तदोषमिति विकारास्पदाचिद्विषयाद्वया- वृत्तिः। शुद्धमिति तत्संसृष्टचेतनविषयात् । परं निर्मलमिति हेयार्हमुक्तविषयात्, एकरूपमिति सूरिविषयात्, तेषामनेकरूपत्वात् । तमेव विद्वान्, तमेवं विदित्वा नान्यः पंथा इत्यादिश्रुतिभिरित्थमुक्तमिति ॥ ८७ ॥

इति श्रीविष्णुमहापुराणे षष्ठांशे पञ्चमोऽध्यायः ।। ५ ।।

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.