रहस्यत्रयकारिकावली

श्री:

श्रीमते रामानुजाय नमः


श्रीवादिकेसरिसुन्दरजामातृमुनिविरचिता
रहस्यत्रयकारिकावली।।

सुन्दरजामात्मने प्रपद्ये चरणाम्बुजम्
संसारार्णवसंमग्नजन्तुसन्तारपोतकम्।।

अस्मद्गुरूंस्तदाचार्यान् परमानखिलानपि
रामानुजार्य करुणावात्सल्यवरुणालयम्।। ।।
श्रीशांघ्रिहेमसम्मोहतृणीकृततदन्यकम्
शठकोपपदद्वन्द्वदृढविन्यस्तमानसम्।। ।।
पूर्णयामुनरामाब्जदृङ्नाथशठवैरिणः
सतां यदप्ंघ्रियुगळं मातृतातसुताङ्गनाः।। ।।
सेनेशश्रीतदीशांश्च नत्वा तेषां प्रसादतः
रहस्यत्रितयार्थोऽयं चिन्त्यते दृढताप्तये।। ।।
रहस्यत्रितयं ज्ञेयं चेतनेन मुमुक्षुणा
ज्ञातव्यमखिलं तस्य यस्मादत्राभिधीयते।। ।।
रहस्यत्रितयं प्रोक्तं महानष्टाक्षरो मनुः
द्वयाभिधमन्त्ररत्नं चरमश्लोक इत्यमी।। ।।
तत्राद्यस्त्रिपदो मन्त्रः तत्राद्यं प्रणवः पदम्
एकाक्षरं द्वितीयं तु नम इत्यक्षरद्वयम् ।। ।।
नारायणायेति तृतीयं पञ्चवर्णकम्
समस्तस्त्वेकवर्णोऽपि व्यस्तस्तारस्त्रिवर्णकः।। ।।
अकारः प्रथमो वर्ण उकारस्तदनन्तरः
मकारस्तु स्वरस्यास्य तृतीयो वर्ण इष्यते।। ।।
पदवर्णक्रमश्चायं ओमित्यग्र इति श्रुतिः
प्रत्यगानन्दमित्येतच्छ्रुतेरपि विनिश्चितः।। १० ।।
प्रणवाद्यं नमोमध्यं नारायणपदान्तिमम्
मन्त्रमष्टाक्षरं विद्यात्सर्वसिद्धिकरं त्विति।। ११ ।।
तत्र विष्णुरकारार्थः सृष्टिस्थित्यन्तकारणम्
अक्षराणामकारोऽस्मीत्यकारो विष्णुवाचकः।। १२ ।।
निषेधे पुमान् विष्णाविति स्मृतिनिघण्टुतः
अष्टाक्षरशरीराङ्गप्रणवाद्यक्षरेण तु।। १३ ।।
अकारेणाखिलाधारः परमात्माभिधीयते
समस्तशब्दमूलत्वादकारस्य स्वभावतः।। १४ ।।
समस्तवाच्यमूलत्वाद्ब्रहाणोऽपि स्वभावतः
वाच्यवाचकसम्बन्धस्तयोरर्थात् प्रतीयते।। १५ ।।
इत्यकारस्य जगतां कारणेश्वरवाचिता
जगत्कारणताक्षिप्तं ज्ञेयं सर्वज्ञतादिकम्।। १६ ।।
अवरक्षण इत्यस्माद्धातोर्व्युत्पत्तिमानयम्
अकारः प्राह सर्वेषां रक्षकं पुरुषोत्तमम्।। १७ ।।
अत्र रक्षकताक्षिप्तं भाव्यं वत्सलतादिकम्
लक्ष्म्या सह हृषीकेशो देव्या कारुण्यरूपया।। १८ ।।
रक्षकश्चेति शास्त्रेण चिन्तनीयो रमान्वयः
श्रीवादिकेसरिसोम्यजामातृमुनिलपुकृतयः
तत्र लुप्ता चतुर्थी तु जीवतादर्थ्यवाचिका।। १९ ।।
सामानाधिकरण्ये तु ब्रह्मजीवैकता भवेत्
तथा चेच्छ्रुतयो बह्व्य: प्रकुप्येयुरतो तत्।। २० ।।
अनन्वयान्न कर्तृत्वं हेतुत्वं तृतीयया
पञ्चम्या तद्ग्राह्यं प्रकृत्यैवाभिधानतः।। २१ ।।
आधारत्वं तु सप्तम्यां नारायणपदोदितम्
नापि सम्बन्धसामान्ये षष्ठी चाप्यनपेक्षया।। २२ ।।
अपेक्षितत्वात् तादर्थ्यचतुर्थी त्वत्र युज्यते
शेषत्वाश्रयजीवात्मवाचकस्यात्र सम्भवात्।। २३ ।।
पतिं विश्वस्यवाक्येन जीवशेषत्वमीरितम्
ब्रह्मणे त्वे ति वाक्येन ब्रह्मण्यात्मसमर्पणम्।। २४
वदता विहितं तारमन्त्रत्वं तत्तथा भवेत्
यद्वानुष्ठीयमाणार्थप्रकाशकपरो भवेत्।। २५ ।।
एवमेव ह्यनुष्ठानं ब्रह्मणेऽहं मे त्विति
उकारस्त्वेवकारार्थः स्थानमानबलादिह।। २६ ।।
तदेवाग्निस्तद्वायुस्तत्सूर्यस्तदिति श्रुतेः
अयोगस्यान्ययोगस्य व्यवच्छेदं करोत्ययम्।। २७ ।।
श्रीपत्यशेषश्च नान्यशेष इतीरितः
यद्वोकारश्श्रियो वाची तदेवं योजना भवेत्।। २८ ।।
लक्ष्मीतदीशयोः शेषः प्रत्यगात्मेति कीर्तितः
लक्ष्मीशेतरशेषत्वव्यवच्छेदोऽर्थतो भवेत्।। २९ ।।
सर्वं वाक्यमिति न्यायादवधारणसंयुतम्
शब्दादेव हि कर्तव्यमन्यशेषत्ववारणम्।। ३० ।।
तस्मादुकार एवार्थस्तदर्थश्श्रीसमन्वयः
चतुर्थीप्रतिपन्नस्य शेषत्वस्य आश्रयः।। ३१ ।।
इत्याशंक्य प्रयुक्तोऽत्र मकारस्तदनन्तरः
मकारवाच्यो जीवात्मा पञ्चविंश इति श्रुतेः ।। ३२ ।।
भूतानि कवर्गेण चवर्गणेन्द्रियाणि
टवर्गेण तवर्गेण ज्ञानगन्धादयस्तथा।। ३३ ।।
मनः पकारेणैवोक्तः फकारेण त्वहङ्कृतिः
बकारेण भकारेण महान् प्रकृतिरुच्यते।। ३४ ।।
आत्मा तु मकारेण पञ्चविंशः प्रकीर्तितः
मकारं जीवभूतं तु शरीरे व्यापकं न्यसेत्।। ३५ ।।
मनज्ञानेऽपि मनअवबोधन इत्यतः
धातोर्मकारो निष्पनो ज्ञानज्ञात्रात्मवाचकः।। ३६ ।।
मसिपरिणाम इति धातोरण्वात्मवाचकः
विज्ञानमिति वाक्येन जीवस्य ज्ञानरूपता।। ३७ ।।
ज्ञानानन्दमयस्त्वात्मा शेषो हीति स्मृतेरपि
विज्ञातुश्च विज्ञातेर्जानात्येवेति श्रुतेः।। ३८ ।।
ज्ञातृत्वं तेन कर्तृत्वं भोक्तृत्वं चात्मनः श्रुतम्
प्रकृतेरेव कर्तृत्वं साङ्ख्याः प्राहुर्न चात्मनः।। ३९ ।।
भोक्तृत्वकर्मवश्यत्वाभावापत्तेरसाधु तत्
ज्ञातृत्वस्याभिधानेन नात्मनो ज्ञातता भवेत्।। ४० ।।
ज्ञानस्वरूपतोक्त्या जडवादो निराकृतः
एषोऽणुरिति श्रुत्या ह्यणुत्वं प्रतिपादितम्।। ४१ ।।
तेनात्मविभुतापक्षः तार्किकाणां निराकृतः
एवं मकारे ज्ञानत्वज्ञातृत्वाणुत्वयोगतः।। ४२ ।।
स्थूलाज्जरादबोधाच्च देहाव्यावृत्तिरीरिता
तथा हेतुत्वगोप्तृत्वश्रीशत्वानन्वयाद्विभोः।। ४३ ।।
मकारस्यैकवचनं जात्येकवचनं भवेत्
नात्मा श्रुतेरित्यत्रेव ह्येको व्रीहिरितीव ।। ४४ ।।
तस्मान्मकारे जीवात्मबहुत्वं विवक्षितम्
श्रीशैकशेषजीवार्हपुमर्थोचितसाधनम्।। ४५ ।।
भगवन्तं प्रपदनं तद्वशीकारकारणम्।।
प्रतिपादयितुं प्रोक्तं तारस्यानन्तरं नमः ।। ४६ ।।
तारेण स्वेन चान्त्येन त्रिभिरेतैस्समन्वितम्
स्वरूपोपायगम्यानि सम्यक् शोधयति क्रमात्।। ४७ ।।
तारान्वितेन नमसा ममेत्यर्थवादिना
श्रीशैकशेषभूतोऽहं ममेत्यर्थ ईरितः।। ४८ ।।
परेशानैकशेषस्य मदीयं ममेति वा
परानन्यार्हशेषस्य स्वातन्त्र्यं ममेति वा।। ४९ ।।
तस्माच्चितः स्वशेषत्वं स्वकीयान् प्रति शेषता
स्वातन्त्र्यं चापि नास्तीति तारयुङ्नमसोदितम्।। ५० ।।
तस्माच्छ्रीशैकशेषात्मस्वरूपं तेन शोधितम्
त्वदेकपरतन्त्रस्य मे कर्मादिसाधनम्।। ५१ ।।
अज्ञानादप्यशक्तेश्च स्वरूपस्य विरोधतः
सूक्ष्मार्थोऽयं समुद्दिष्टो नमसा द्विपदेन हि।। ५२ ।।
मे नेत्येवं समीचीनबुध्या सात्र निवर्त्यते
इति ते सूक्ष्म उद्दिष्ट इत्यस्यात्र प्रमाणता।। ५३ ।।
अतः प्रधानोपायो मे त्वमेव परमेश्वर
नमसा त्रिपदेनायं परोऽर्थ इति निश्चितः।। ५४ ।।
पन्था नकार उद्दिष्टो : प्रधान उदीरितः
विसर्ग: परमेशो यस्तत्रार्थोऽयं निरूप्यते।। ५५ ।।
अनादिः परमेशोऽयं शक्तिमान् पुरुषोत्तमः
तत्प्राप्तये प्रधानोऽयं पन्था नमननामवान्।। ५६ ।।
इति श्लोकद्वयं तत्र प्रमाणत्वेन भाव्यताम्
त्वमेवोपायभूतो मे भवेति प्रार्थना मतिः।। ५७ ।।
शरणागतिरित्युक्ता नमसैकपदेन हि
स्थूलार्थोऽयं समुद्दिष्टस्तत्र मानं विद्यते।। ५८ ।।
नामयत्यपि वा देवं प्रह्वीभावयति स्वयम्
प्रह्वीभवति नीचो हि परे नैच्यविलोकनात्।। ५९ ।।
अतो वा नम उद्दिष्टं यत्तन्नामयति स्वयम्
वाचा नम इति प्रोच्य मनसा वपुषा यत्।। ६० ।।
तन्नमः पूर्णमुद्दिष्टमतोऽन्यन्न्यूनमुच्यते
गच्छध्वमेवं शरणं पुरुषं पुरुषर्षभाः।। ६१ ।।
इत्युक्तास्ते त्रयः पार्थ यमौ भरतर्षभौ
द्रौपद्या सहितास्सर्वे नमश्चक्रुर्जनार्दनम्।। ६२ ।।
समित्साधनतादीनां यज्ञानां न्यासमात्मनः
नमसा योऽकरोद्देव स्वध्वर उदीरितः।। ६३ ।।
इत्यादीनि प्रमाणानि भाव्यान्यत्र बहूनि
त्वदेकोपायतादित्वात् पारतन्त्र्योचितत्वतः।। ६४ ।।
त्वदुपायान्तरस्थाननिवेशो परतत्त्वतः
नोपायश्च प्रपत्तिर्मे तद्वशीकारकारणम्।। ६५ ।।
नमो नम इति स्वेन युक्तेन नमसा ततः
अन्यानपेक्षो भगवान् सिद्धोपायविशोधितः।। ६६ ।।
ननु कर्माद्युपायोऽपि विहितत्वेन शास्त्रतः
स्वरूपस्य विरोधीति जीवस्येशस्य वा कथम्।। ६७ ।।
इति चेदुच्यते तत्र ह्यत्यन्तपरतन्त्रता
जीवस्यातो विरोधीति साधनान्तरमुच्यते।। ६८ ।।
स्वयं मृत्पिण्डभूतस्य परतन्त्रस्य देहिनः
स्वरक्षणेऽप्यशक्तस्य को हेतुः पररक्षणे।। ६९ ।।
अत एव हि वैदेह्याप्युक्तं रामायणे पुरा
शरैस्तु सङ्कुलां कृत्वा लङ्कां परबलार्दनः।। ७० ।।
मां नयेद्यदि काकुत्स्थः तत्तस्य सदृशं भवेत्
असन्देशात्तु रामस्य तपसश्चानुपालनात्।। ७१ ।।
त्वा कुर्मि दशग्रीव भस्म भस्मार्हतेजसा
इष्टस्य प्रापणं तस्मादनिष्टस्य निवर्तितम्।। ७२ ।।
परतन्त्रस्य कुर्वीत स्वतन्त्रः पुरवान्न तु
उपासकस्तु नात्यन्तपरतन्त्रो यतो भरम्।। ७३ ।।
नार्पयत्यखिलेशाने स्वफलं निक्षिपन्नपि
यदुक्तं विहितत्वेन विरोधीति तन्न सत्।। ७४ ।।
निषिद्धकाम्ययोश्चैवं प्रसज्येताविरोधिता
यथानन्यार्हशेषत्वं स्वरूपं प्रत्यगात्मनः।। ७५ ।।
यथानन्यपुमर्थत्वमनन्योपायता तथा
तस्माद्यथान्यशेषत्वं विरुद्धं प्रत्यगात्मनः।। ७६ ।।
यथा प्रयोजनञ्चान्यत्तथैवेतरसाधनम्
कृतापराधस्य हि ते नान्यत्पश्याम्यहं क्षमम्।। ७७ ।।
अनन्तरेणाञ्जंलि बध्वा लक्ष्मणस्य प्रसादनात्
प्रपत्तेरनुपायत्वेऽनुष्ठानं नेति चेन्न तत्।। ७८ ।।
ईशोपायान्तरस्थानविवेशायैव तत्कृतेः
साधनत्वे प्रपत्तेश्च साधनद्वयमापतेत्।। ७९ ।।
प्रपत्तिर्भगवांश्चेति नैवं भक्तौ तु साधने
साधनं भक्तिरेवैका केवलं फलदो हरिः।। ८० ।।
भक्तस्येव प्रपन्नस्य फलदोऽस्तु श्रियःपतिः
नोपायस्तेन नोपायद्वित्वमत्र प्रसज्यते ।। ८१ ।।
इति चेत्तन्न मानेन फलदत्वातिरेकतः
अकिञ्चने जने तस्योपायत्वप्रतिपादनात्।। ८२ ।।
उपाये गृहरक्षित्रोश्शब्दश्शरणमित्ययम्
वर्तते साम्प्रतञ्चैष उपायार्थैकवाचकः।। ८३ ।।
प्रपत्तेरनुपायत्वं प्रमाणे प्रदर्शितम्
चितः परमचिल्लाभे प्रपत्तिरपि नोपधिः।। ८४ ।।
विपर्यये तु नेवास्य प्रतिषेधाय पातकम्
शाश्वती मम संसिद्धिरियं प्रह्वीभवामि यत्।। ८५ ।।
पुरुषं परमुद्दिश्य मे सिद्धिरतोऽन्यथा
प्रपत्तेरनुपायत्वं पारतान्त्र्यार्हतामपि८६ ।।
ईशोपायान्तरस्थाननिवेशोपायतामपि
एवकारव्यवच्छिन्नोपायताकत्वमेव ।। ८७ ।।
विरुद्धत्वञ्च भक्त्यादेः प्राहुर्वेदान्तदेशिकाः
आर्तेष्वाशुफला तदन्यविषयेऽप्युच्छिन्नदेहान्तरा 
वह्न्यादेरनपेक्षणात्तनुभृतां सत्यादिवद्व्यापिनी
श्रीरङ्गेश्वर यावदात्मनियतत्वत्पारतन्त्र्योचिता
त्वय्येव त्वदुपायधीरविहितस्वोपायभावास्तु मे ।।
(
न्यासतिलकम्)
इयं केवललक्ष्मीशोपायत्वप्रत्ययात्मिका
स्वहेतुत्वधियं रुन्धे किं पुनः सहकारिणाम्।।
(
न्यायसिद्धाञ्जनम्)
भरन्यासबलादेव स्वयत्नविनिवृत्तये
अत्रोपायान्तरस्थाने रक्षको विनिवेशितः।।
(
रहस्यत्रयसारः)
अन्त्यान्वितेन नमसा कैंकर्यजनितं फलम् ।। ९१ ।।
ममेत्युच्यते तस्मात्फलं सम्यक् विशोधितम्
यत्प्रयोजनमुद्दिश्य साधनं प्रतिपादितम्।। ९२ ।।
नारायणायेति पदं स्पष्टमाचष्ट तत्फलम्
रिङ्क्षये त्विति यो धातुस्तज्जः क्षय्यार्थको हि रः।। ९३ ।।
नञ्समासे कृते तत्र नरो नित्यस्य वाचकः
नित्यञ्च द्विगुणं लोके स्वरूपेण प्रवाहतः।। ९४ ।।
जीवो प्रकृतिः कालश्चत्वारस्ते स्वरूपतः
अन्यत्सर्वं प्रवाहेण नारास्तेषां चयास्स्मृताः।। ९५ ।।
ज्ञानानन्दामलत्वादिदयाशीलक्षमादयः
दिव्यमङ्गळदेहश्च सौन्दर्ययुवतादयः।। ९६ ।।
किरीटादिविभूषाश्च चक्रादीन्यायुधानि
श्रीभूनीळादिदेव्यश्च शेषशेषाशनादयः।। ९७ ।।
अन्ये नित्यमुक्ताश्च तेषां स्थानं परं पदम्
कालश्च प्रकृतिस्तस्या विकाराः महदादायः।। ९८ ।।
यत्कार्यमण्डजातं तत्रत्या देवदानवाः
ब्रह्मादिस्तम्बपर्यन्ताः स्थावराश्चापि जङ्गमाः।। ९९ ।।
चेतनाचेतनं सर्वं विष्णोर्यद्व्यतिरिच्यते
तत्सर्वं नरशब्दोक्तं नारास्तेषां चयस्स्मृतः।। १०० ।।
नारो नराणां सङ्घातः इत्यस्यात्र प्रमाणता
नरा यस्यायनं वासस्तेषां योऽयनमेव वा।। १०१ ।।
नाराणामयनं वासः ते यस्यायनं त्विति
प्रमाणमेतद्विज्ञेयं पक्षयोरुभयोरपि।। १०२ ।।
बहुव्रीहित्वपक्षे तु विष्ण्वन्तर्यामितोदिता
यदीयते तदयनमिति व्युत्पत्तिसंश्रये।। १०३ ।।
नाराणां व्याप्यतोक्तातो विष्णोर्व्यापकतापि
व्यापकत्वानुगुण्येन सूक्ष्मादपि सूक्ष्मता।। १०४ ।।
व्यापकत्वे प्रमाणं तु व्याप्य नारायणस्स्थितः
अणोरणीयानित्यादेः सूक्ष्मतायां प्रमाणता।। १०५ ।।
अन्तर्यामितयात्मत्वं प्रमाणं तत्र वै श्रुतिः
अन्तःप्रविष्टः शास्ता आत्मेवमादिका।। १०६ ।।
बहुत्वं चापि नाराणां भिन्नत्वं परस्परम्
एको बहूनामित्यादिश्रुतेरत्र प्रमाणता १०७ ।।
देहात्मभावप्रमुखैर्भेदसिद्धिश्चिदीशयोः
पक्षे तत्पुरुषस्यास्य नाराणामयनन्त्विति।। १०८ ।।
सर्वाधारत्वमादिष्टमीयते येन योऽथ वा
उपायत्वमुपेयत्वं ब्रह्मणः प्रतिपादितम्।। १०९ ।।
एष सेतुर्विधरणो‘, ‘विश्वात्मानं परायणम्
यस्यायुतायुतैकांशे विश्वमेतद्व्यवस्थितम् ।। ११० ।।
अथ वा नारशब्दस्य जह्नुर्नारायणो नरः
इति मानानुसारेण विष्णुरेवार्थ उच्यते।। १११ ।।
नयत्यखिलविज्ञानं नाशयत्यखिलं तमः
नरिष्यति सर्वत्र नरस्स पुरुषोत्तमः ।। ११२ ।।
एतत्प्रमाणादीशस्य ज्ञानदत्वमुदीरितम्
अज्ञाननाशकत्वं निर्विकारत्वमेव ।। ११३ ।।
नराज्जाताश्च नाराः स्यात्तत्र मानमुदीर्यते
नाराज्जातानि तत्त्वानि नाराणीति ततो विदुः ।। ११४ ।।
नारायणायेति या तु चतुर्थी वरिवस्यनम्
शेषत्वद्वारतो वक्ति तन्मे स्यादिति पूरणम्।। ११५ ।।
जगत्कारणभूताय ज्ञानशक्त्यादिशालिने
रक्षकाय सर्वेषां वात्सल्यादिगुणाब्धये।। ११६ ।।
श्रिया नित्यं समेताय शेषिणे निस्समाय
तुभ्यमेव हि शेषोऽहं त्वदीयेभ्यस्तथैव ।। ११७ ।।
ज्ञानानन्दस्वरूपश्च ज्ञानानन्दगुणान्वितः
अणुर्नित्यो मे शेषः स्वकीयान् प्रति शेषता ।। ११८ ।।
स्वातन्त्र्यमपि नो तस्मात् मद्रक्षासाधनानि
अतो मेऽकिञ्चनस्य त्वमेवोपायो भवाच्युत।। ११९ ।।
स्वरूपेण प्रवाहेण नित्यानामुचितं चिताम्
नाराणां समूहानामाधारायान्तरात्मने ।। १२० ।।
नारायणाय ते नित्यं सर्वञ्च वरिवस्यनम्
सर्वावस्थासु मे भूयात् त्वत्प्रियैकप्रयोजनम्।। १२१ ।।
इत्येवं मूलमन्त्रार्थश्चिन्तितोऽयं यथाश्रुतः
दीपदीपप्रकाशादौ द्रष्टव्यं विस्तरोदितम्।। १२२ ।।
श्रीशोऽयं निस्समः शेषी शरणं शरणार्थिनाम्
सर्वाधारश्च सर्वात्मा सेव्य इत्यत्र संग्रहः ।। १२३ ।।
श्रीशैकशेषी जीवात्मा तदेकोपायवानपि
तदेकभोग्य इत्यत्र संग्रहो जीवगोचरः ।। १२४ ।।

इति रहस्यत्रयकारिकावळ्यां मूलमन्त्रप्रकरणं संपूर्णम्

 

अथ रहस्यत्रयकारिकावळ्यां द्वयप्रकरणम् ।।

अष्टाक्षरे मूलमन्त्रे जीवयाथात्म्यबोधके
मूलमन्त्राद्यतारोक्ता चिच्छेषत्वोचितन्तराम्।। ।।
द्वितीयेन तृतीयेन पदेन प्रतिपादितम्
उपायमप्युपेयञ्च विशिनष्टि द्वयं क्रमात् ।। ।।
षट् पदं दशसंख्यार्थं पञ्चविंशतिवर्णकम्
वाक्यद्वयसमायुक्तं तत्राद्यं प्राह साधनम्।। ।।
उपेयमुत्तरं वाक्यं श्रियः पुरुषकारता
तन्नित्ययोगश्चेशेन गुणाश्चाश्रयणोचिताः।। ।।
हरेर्देहान्वयश्चापि तस्यैवोपायतापि
तत्स्वीकारप्रपदनं प्राप्यत्वं मिथुनस्य ।। ।।
स्वामित्वं प्रार्थना चापि विनिर्वृत्तिविरोधिनः
इमे दशार्था भट्टार्यैरष्टश्लोक्यां प्रदर्शिताः ।। ।।
ननु लक्ष्मीविशिष्टस्योपायत्वं द्वयदर्शितम्
अमृतं साधनं साध्यं कृष्णं धर्मं सनातनम् ।। ।।
इत्यादिना विशेष्यस्य हरेस्साधनता यथा
कामवत्सामृतमिति संसारार्णवतारिणीम्।। ।।
वाचः परं प्रार्थयिता प्रपद्येन्नियतः श्रियम्
आत्मविद्या देवि त्वं विमुक्तिफलदायिनी ।। ।।
वेरिमारातपूर्वमेलिप्पाळ विनै तीर्कु में
इत्यादिभिः प्रमाणैस्तु श्रियश्चोपायता तथा।। १० ।।
अतः पद्मेति घटका कथमभ्युपगम्यते
इति चेदुच्यते लक्ष्मीर्घटका मानवैभवात्।। ११ ।।
अहं मत्प्राप्त्युपायो वै साक्षाल्लक्ष्मीपतिस्स्वयम्
लक्ष्मीः पुरुषकारत्वे निर्दिष्टा परमर्षिभिः।। १२ ।।
चैव श्रीरुपायश्च घटका भवत्विति
वाच्यं यदन्यथासिद्धिसम्भावनविवर्जितम्।। १३ ।।
तदेव साधकं मानं साध्यस्येति विनिश्चितम्
इह साक्षादुपायत्वेनात्र तन्मानसम्भवः ।। १४ ।।
अन्यानपेक्षोपायत्वाध्दरेर्लक्ष्म्यनुपायता
यद्युपायो भवेल्लक्ष्मीस्तत्सापेक्षतया हरेः।। १५ ।।
अन्यसापेक्षता तस्माच्छ्रियः पुरुषकारता
अन्यानपेक्षता नाम ह्यन्यहेत्वनपेक्षता।। १६ ।।
चैवमन्यथासिद्धिर्घटकावलम्बिनी
चितश्च सापराधत्वाध्दरेर्दण्डधरत्वतः ।। १७ ।।
वात्सल्येन जीवेषु वाल्लभ्येन नायके
अवश्यघटका सेति जीवेशाभ्यामपेक्ष्यते।। १८ ।।
तस्माद्विना घटकामीशः पात्यपराधिनः
विनास्यास्साधनं शक्तं स्वतन्त्रः पाति वै हरिः।। १९ ।।
एतत्सर्वमभिप्रेत्य वेदान्तार्यैरुदीरितम्
अर्थस्वभावानुष्ठानलोकदृष्टिगुरूक्तिभिः।। २० ।।
श्रुत्या स्मृत्या संसिद्धं घटकार्थावलम्बनम्
अर्थस्वभावः पूर्वोक्तोऽनुष्ठानं लक्ष्मणस्य ।। २१ ।।
लोकदृष्टिस्तु सागस्कं नरं शुद्धान्तसेविनम्
अचिन्तयित्वा चागांसि सम्मानयति भूपतिः।। २२ ।।
गुरूक्तिरकलेत्यादिः पूर्वोक्ता श्रुतिः स्मृतिः
विशिष्टस्य हेतुत्वे क्वचिदेव विशेषणम्।। २३ ।।
हेतुः क्वचिदहेतुश्च तत्तन्मानानुसारतः
बहिर्द्रव्यापरोक्षस्य महदद्भुतरूपिणः ।। २४ ।।
कारणत्वं विशिष्टस्य हेतुरत्र विशेषणम्
दण्डस्य घटहेतुत्वे दण्डत्वस्य हेतुता।। २५ ।।
अतश्श्रिया विशिष्टस्योपायत्वे यादृशी श्रियः
उपायता मानसिद्धा ग्राह्या घटकतैव सा।। २६ ।।
लक्ष्म्यास्तु मोक्षोपायत्वे जगत्कारणता भवेत्
अङ्गीकारे तु तस्याश्च ब्रह्मतापि प्रसज्यते।। २७ ।।
तदभ्युपगमे तावद्गुणतश्च स्वरूपतः
निस्सीमातिशयं तत्र बहुत्वं प्रसज्यते।। २८ ।।
सम्भवति तत्तत्र सर्वेशत्वाद्यभावतः
सर्वेश्वरत्वे लक्ष्म्याश्च व्याप्तिमीश्वरलक्षणम्।। २९ ।।
स्वाधीनत्वं देशिकोक्तं तदुक्तं जीवलक्षणम्
अतिव्याप्तं चेतनत्वं पारतन्त्र्येण संयुतम्।। ३० ।।
निखिलराश्रिता नित्यमधीशं समाश्रिता
तेषामार्तध्वनीं श्रावयन्तीमधीशितुः ।। ३१ ।।
मत्पादद्वन्द्वमेकं ये प्रपद्यन्ते परायणम्
उद्धरिष्याम्यहं देवि संसारात् स्वयमेव तान्।। ३२ ।।
इत्याद्युक्तप्रकारेण श्रुत्वोपायस्य वैभवम्
विदितस्स हि धर्मज्ञः शरणागतवत्सलः।। ३३ ।।
तेन मैत्री भवतु ते यदि जीवितुमिच्छसि
एवमाद्युक्तरीत्या तद्वात्सल्यादिगुणोत्तमान्।। ३४ ।।
श्रावयन्तीं परेषां स्वेशाश्रयविरोधि
नाशयन्ती क्रियाजातं स्वाश्रितानां दयादिभिः।। ३५ ।।
समाश्रयणसौकर्यरुचिपाकं कुर्वतीम्
घटकत्वोचितैरेवमादिभिर्भूषितां गुणैः।। ३६ ।।
पतिना नित्यसंयुक्तां भास्करेण प्रभामिव
श्रियं घटकभावेन संश्रित्य प्रथमं ततः।। ३७ ।।
वत्सलत्वेशताशीलसौलभ्यज्ञानशक्तिभिः
समाश्रयणयोग्यैश्च समेतस्याच्युतस्य ।। ३८ ।।
नारायणस्य चरणौ शरणत्वेन संश्रये
किमुद्दिश्येत्यपेक्षायां वर्तते वाक्यमुत्तरम्।। ३९ ।।
श्रिया नित्यं समेताय भोग्याय स्वामिने सदा
सर्वत्र सर्वकैङ्कर्यं भवेत् स्वार्थत्ववर्जितम्।। ४० ।।
ननु श्रीनित्ययोगोऽयं सर्वसाधारणो हि सः
श्रियः कथं विशिष्योक्ता इति चेदुच्यतेऽत्र ।। ४१ ।।
सर्वेषामपि भूतानां स्वरूपेण सदान्वयः
विग्रहेणापि लक्ष्म्यास्तु प्रोक्तोऽर्थोऽयं पराशरैः।। ४२ ।।
देवत्वे देवदेहेयं मनुष्यत्वे मानुषी
राघवत्वेऽभवत्सीता रुक्मिणी कृष्णजन्मनि।। ४३ ।।
अन्येषु चावतारेषु विष्णोरेषाऽनपायिनी
विष्णोर्देहानुरूपां वै करोत्येषात्मनस्तनुम् ।। ४४ ।।
ननु श्रियो विभुत्वेन श्रीशस्य तथात्वतः
सर्वप्रदेशसम्बन्धो नित्ययोग इतीष्यते।। ४५ ।।
यथा सर्वगतो विष्णुस्तथैवेयं द्विजोत्तम
सर्वभूतस्थिते त्यादिश्श्रीविभुत्वे प्रमाणता।। ४६ ।।
इति चेत्तन्न तद्वाक्यादविभुत्वेन श्रियः
शक्त्या सर्वत्र सान्निध्यात् सर्वगत्वमुदीरितम्।। ४७ ।।
इति श्रीविष्णुचित्तार्यैर्व्याख्यानात्तु साधनम्
अन्यथा सर्वगत्वस्य जीवेऽपि प्रतिपादनात्।। ४८ ।।
नित्यस्सर्वगतस्स्थाणुरित्यादेस्तत्र तद्भवेत्
नेष्टापत्तिश्च राद्धान्तविरोधोऽणुत्वमानतः।। ४९ ।।
वालाग्रशतभागस्य शतधा कल्पितस्य
भागो जीव:‘, ‘ वैषोऽणुरुत्क्रान्तीत्येवमादितः।। ५० ।।
चेयमीश्वरी तस्मात् सर्वभूतेति सार्थवत्
नान्यथा तत्परा चेतीश्वरद्वित्वप्रसङ्गतः।। ५१ ।।
अन्याधीनात्मतारूपचिल्लक्ष्म्यातिक्रमादपि
लक्ष्मीरियं विभ्वी तत्त्वत्रयाविलक्षणा।। ५२ ।।
विभुताचित्त्वशेषत्वैरिति वाच्यममानतः
सर्वभूतस्थितिश्चैतन्मानं चेत्तच्च तत्समम्।। ५३ ।।
भाष्याद्यध्यात्मशास्त्रेषु भाष्यकारादिदेशिकैः
तत्त्वत्रयातिरिक्तात्मसद्भावस्यानिरूपणात्।। ५४ ।।
यथा मया जगद्व्याप्तं स्वरूपेण स्वभावतः
तथा व्याप्तमिदं सर्वं नियन्त्री तथेश्वरी ।। ५५ ।।
इति स्वरूपतो व्याप्तिश्श्रीविभुत्वप्रयोजिका
इति चेन्न स्वरूपं किं स्वात्मा वा किं स्वविग्रहः।। ५६ ।।
यदि स्वात्मा तदा तेन व्याप्या स्याद्विभुता श्रियः
विभुत्वं जीवतेशत्वविकल्पेन पराहतम्।। ५७ ।।
विग्रहाद्यैस्तथा विष्णुः पूरयत्यखिलं जगत्
देवतिर्यङ्मनुष्यादिदिव्यमङ्गळविग्रहः ।। ५८ ।।
तथैवानुजनिर्लक्ष्मीरित्यत्रार्थस्तथोदितः
अयं चानुगृहीतोऽर्थो गिरा प्रकरणस्थया।। ५९ ।।
देवत्वे देवदेहेयं मनुष्यत्वे मानुषी
सौम्यासौम्यैर्जगद्रूपैस्त्वयैतद्देवि पूरितम्।। ६० ।।
एवमादि कथं तस्माद्देहयोगः श्रिया हरेः
श्रीतदीशानयोरेव प्रीत्या स्वार्थत्ववर्जितम्।। ६१ ।।
कैङ्कर्यमखिलं कर्तुमादावखिलमातरम्
श्रियं घटकभावेन संश्रित्य तदनन्तरम्।। ६२ ।।
तत्समेतस्य सततं वात्सल्यादिगुणाम्बुधेः
नारायणस्य चरणै शरणत्वेन संश्रये।। ६३ ।।
इति श्रीमन्त्ररत्नार्थसंग्रहोऽयं विनिश्चितः
दीपदीपप्रकाशादौ द्रष्टव्यं विस्तरोदितम्।। ६४ ।।

इति रहस्यत्रयकारिकावळ्यां द्वयप्रकरणम् ।।

 

 

अथ रहस्यत्रयकारिकावळ्यां चरमश्लोकप्रकरणम्।।

श्रीमदष्टाक्षरप्रोक्तस्वात्मयाथात्म्यवेदिने
मन्त्ररत्नेन कर्तव्यं साङ्गप्रपदनं सकृत्।। ।।
विधत्ते चरमश्लोकः षट्पदाभ्यां समन्वितः
पूर्वोत्तराभ्यामर्धाभ्यामुपायोपेयतत्परः।। ।।
अपारकरुणाम्बोधिर्भगवान् पार्थसारथिः
व्याजीकृत्य पृथापुत्रं जगदुज्जीवनेच्छया।। ।।
परिनिश्श्रेयसोपायन् निगूढान् श्रुतिसागरे
धर्मान् क्रियाधीभक्त्याख्यान् गीतायामुपदिष्टवान्।। ।।
श्रुत्वार्जुनस्तानालोच्य दुर्विज्ञेयांश्च दुश्शकान्
ईशैकोपायताकत्वस्वस्वरूपविरोधिनः।। ।।
विलम्बितफलांश्चेति शोकाविष्टमवेक्ष्य सः
सुबोधं सुशकं शीघ्रफलञ्चोचितमात्मनः।। ।।
तदेकोपायभूतस्य रहः प्रपदनं जगौ
नित्यं नैमित्तिकं कर्म कर्मधीभक्तिसंज्ञकान्।। ।।
नामोक्तिं देशवासं पुरुषोत्तमवेदनम्
अवताररहस्यस्य ज्ञानं दीपादिकल्पनम्।। ।।
धर्मानशेषानेतांस्तु प्रीत्या कुर्वन् यथाबलम्
शरणत्वेन सन्त्यज्य सुलभं भक्तवत्सलम्।। ।।
मामेव शरणं गच्छ ज्ञानशक्तिदयाम्बुधिम्
प्राप्तश्शेषी स्वतन्त्रोऽहं ज्ञानशक्तिविवर्जितम्।। १० ।।
अप्राप्तमस्वतन्त्रं त्वां मदेकोपायताधियम्
पूर्वोत्तरेभ्यः पापेभ्यो दुर्मोचेभ्योऽन्यतस्स्वतः।। ११ ।।
अङ्गीकृतप्रारब्धाघव्यतिरिक्तेभ्य एव
सर्वेभ्यो मोक्षयिष्यामि क्लेशांस्त्वं मा कृथा इति ।। १२ ।।
ननु नाखिलधर्माणां परित्यागो विधीयते
एषा सा वैदिकी निष्ठा ह्युपायापायमध्यमा।। १३ ।।
अस्यां स्थितो जगन्नाथं प्रपद्येत जनार्दनम्
क्रियमाणं कस्मैचिद्यदर्थाय प्रकल्पते।। १४ ।।
अक्रियावदनाय तत्तु कर्म समाचरेत्
इत्यादिभिश्च सच्छास्त्रैर्भाव्यनर्थविरोधिनाम्।। १५ ।।
नित्यनैमित्तिकादीनां कर्तव्यत्वोपपादनात्
उपवीतशिखापुण्ड्रगुरुत्यागप्रसङ्गतः।। १६ ।।
निषिद्धवर्जनादेरप्यनुष्ठानप्रसङ्गतः
तस्माद्धर्मस्वरूपस्य परित्यागो शक्यते।। १७ ।।
धर्माणामपरित्यागे चाकिञ्चन्यं सिध्यति
तत्त्यागपूर्वशरणवरणञ्च सिध्यति।। १८ ।।
चाशक्त्यादिना प्राप्तो धर्मत्यागस्त्वनूद्यते
दुश्शकानामपि त्यागे शक्यधर्मान्वयादपि।। १९ ।।
नाकिञ्चन्यं प्रपत्तुस्स्यात् तत्त्यागोऽपि सुदुर्लभः
इति चेदुच्यते तत्र त्यागस्साधनताधियः।। २० ।।
सर्वेष्वपि धर्मेषु सम्मतो दोषवर्जितः
अनुष्ठितेषु धर्मेषूपायत्वत्यागमात्रतः।। २१ ।।
स्वरूपपरित्यागो नाकिञ्चन्यविहीनता
चोपायत्वधीत्यागे धर्मानुष्ठानमापतेत्।। २२ ।।
कृतेष्वेव स्वधर्मेषु त्याज्या साधनतामतिः
अतोऽनुष्ठाननियमाद्धर्मे न्यासाङ्गता भवेत्।। २३ ।।
अतस्सर्वाधिकारत्वभङ्गो न्यासस्य सम्भवेत्
किञ्चाकिञ्चनता स्यात् प्रपत्तुश्चेति चोद्यताम्।। २४ ।।
यच्छक्यं यदशक्यं शास्त्रीयं मुक्तिसाधनम्
कृतं करिष्यमाणं वा तत्सर्वं मे साधनम्।। २५ ।।
तदेकोपायताबुद्धिरित्ययं त्याग उच्यते
एतादृशस्य त्यागस्यानुष्ठानेऽपि सम्भवात्।। २६ ।।
न्यासाङ्गत्वं धर्माणामाकिञ्चन्यं युज्यते
अन्यथा कर्ममत्यङ्गभावत्यागो सिध्यति।। २७ ।।
एतत्सर्वमभिप्रेत्य यामुनार्यैरुदीरितम्
निजकर्मादिभक्त्यन्तं कुर्यात् प्रीत्यैव कारितः ।।२८ ।।
उपायतां परित्यज्य न्यसेदेवे तु तामभीः।।
(
गीतार्थसंग्रहः)
सदृशोपायवैधुर्यं साक्षाद्भगवतो विदन्
सर्वज्ञं शरणं याति योगमार्गपराङ्मुखः।।
(
प्रपन्नपारिजातम्)
अज्ञसर्वज्ञभक्तानां प्रपत्ताविति स्मृतिः
नाथयोगी सन्त्यज्य क्रियादिभजनादिषु
उपायत्वं परे न्यस्य प्रपन्न इति कीर्तितः ।। ३१ ।।
विलम्बक्षमत्वेन नाथादेस्त्यागसंश्रयः
अवताररहस्यादिज्ञानेन तदसम्भवात्।। ३२ ।।
एकशब्दः स्थानमानादेवकारार्थवाचकः
तेनोपायत्ववरणोपायत्वं विनिवर्तितम्।। ३३ ।।
रक्ष्यतानेन जीवस्यानन्यसाधनता हरौ
अन्योपायानपेक्षैवं मोक्षसाधनतापि ।। ३४ ।।
अन्यथा साधनद्वित्वं प्रपत्तिर्भगवानिति
भक्तेऽप्ययं दोषो भक्तिरेव हि साधनम्।। ३५ ।।
फलप्रदस्तु भगवान्नैवं प्रपदने भवेत्
त्यक्तोपायान्तरस्थाने प्रपत्तिर्निवेशिता।। ३६ ।।
निविष्टो भगवानेव मानेन तथोदितम्
उपाये गृहरक्षित्रोश्शब्दः शरणमित्ययम्।। ३७ ।।
वर्तते साम्प्रतञ्चैष उपायार्थैकवाचकः
तस्मात् फलप्रदातृत्वव्यतिरिक्ता ह्युपायता।। ३८ ।।
साधारणी चिदचितोश्चेतनस्यैव चेतरत्
प्रपत्तेरनुपायत्वं वेदान्तार्यैरुदीरितम्।। ३९ ।।
मूलमन्त्रप्रकरणे तत्स्पष्टमुपपादितम्
प्रपत्तिरनुपायश्चेत् नानुष्ठेयेति चेन्न तत्।। ४० ।।
त्यक्तोपायान्तरस्थाननिवेशोपायभावतः
तदुक्तं वेदचूडार्यै रहस्यत्रयसारके।। ४१ ।।
भरन्यासबलादेव स्वयत्नविनिवृत्तये
अत्रोपायान्तरस्थाने रक्षको विनिवेशितः।। ४२ ।।
(
द्वयाधिकारः)
चितः परमचिल्लाभे प्रपत्तिरपि नोपधिः
विपर्यये तु नैवास्य प्रतिषेधाय पातकम्।। ४३ ।।
इत्यादिमानादाचार्यसूक्तेहेतुद्वयान्वयात्
ईशोपायान्तरस्थाननिवेशो परतत्त्वतः।। ४४ ।।
स्वानन्योपायताभङ्गात् प्रपत्तेरनुपायता
रक्षितृत्वातिरेकेणोपायत्वप्रतिपादनात्।। ४५ ।।
त्यक्तोपायान्तरस्थाननिवेशाद्धेतुता हरेः
ननु भक्त्या प्रपत्त्या वा प्राप्योऽहमिति वाक्यतः।। ४६ ।।
भक्तितुल्यमुपायत्वं प्रपत्तेरिति चेन्न तत्
प्रपत्तेरनुपायत्वे सिद्धे पूर्वोक्तहेतुभिः।। ४७ ।।
प्रपत्त्येति तृतीयात्र प्रयोजकविवक्षया
यद्वा प्रपत्तिशब्दोऽयं प्रपत्तव्येश्वरार्थकः।। ४८ ।।
अत्र न्यास इति ब्रह्म प्राहुर्न्यास इतीति
श्रुतिवाक्यं मानतया ग्राह्यं श्रुत्यर्थवेदिभिः।। ४९ ।।
अकर्तरीत्यधिकृतो स्त्रियां क्तिन्निति सूत्रतः
कर्मणि क्तिन्विधानेन प्रपत्तव्यार्थता क्षमा।। ५० ।।
जीवैः प्रपद्यत इति प्रपत्तिस्स प्रकीर्तितः
गत्यादिशब्दो दृष्टान्तकोटिमाटीकतेऽत्र ।। ५१ ।।
ईदृशार्थाविवक्षायां कुप्येयुर्देशिकोक्तयः
अथाखिलांहसां मोक्षे स्याद्ब्रह्मप्राप्तिरेव वा।। ५२ ।।
स्वात्मलाभः परब्रह्मलाभो वेति विचिन्त्यते
तत्राहुः केचिदाचार्याः सर्वकर्मविमोचने।। ५३ ।।
ब्रह्माप्तिरेव भवति कैवल्यं प्रजायते
सर्वकर्मविनिर्मोके मुक्तिभेदः कथं भवेत्।। ५४ ।।
कर्मैकदेशशेषे तु मुक्तिर्मुक्तिभेदवत्
अमुक्तित्वादनित्यत्वप्रमाणञ्चात्र विद्यते।। ५५ ।।
चतुर्विधा मम जना भक्ता एव हि ते श्रुताः
तेषामेकान्तिनः श्रेष्ठास्ते चैवानन्यदेवताः।। ५६ ।।
अहमेव गतिस्तेषां निराशी: कर्मकांक्षिणाम्
ये तु शिष्टास्त्रयो भक्ताः फलकामा हि ते मताः।। ५७ ।।
सर्वे च्यवनधर्माणः प्रतिबुद्धस्तु मोक्षभाक्
तस्मादनित्यं कैवल्यं बहिर्भूतं विमुक्तितः ।। ५८ ।।
अपरे तावदाचार्याः कैवल्यं मोक्षमूचिरे
स्वात्मानुभूतिरिति या किल मुक्तिरुदीरिता।। ५९ ।।
इति कैवल्यमुक्तित्वं श्रीवत्सांकैरुदीरितम्
अर्चिरादिगतिस्तावत् कैवल्यस्यापि वर्णिता।। ६० ।।
गीताभाष्ये भाष्यकारैः ना मुक्तेरस्ति सा गतिः
सञ्जीविनीति व्याख्याने व्याख्यातं व्याससूरिभिः।। ६१ ।।
उज्जीवनं जीवनं यत् संसारोन्मोचकं हि तत्
तत्केवलस्याप्यन्यस्य सम्मतत्वात् समित्यतः।। ६२ ।।
तद्व्यावृत्तिं वदद्भिश्च केवलो मुक्त ईरितः
बहून्यपि प्रमाणानि ज्ञापयन्त्यस्य नित्यताम्।। ६३ ।।
ऐश्वर्याक्षरयाथात्म्येऽप्युक्तं यामुनयोगिभिः
ऐश्वर्यमक्षरगतिं परमं पदमित्यपि।। ६४ ।।
श्रीपराशरभट्टार्यै: वेदाचार्यैश्च कीर्तितम्
अत्रामुत्र भोगञ्च सुखमक्षयमेव ।। ६५ ।।
मोक्षं चेति शठारातिश्रीवागुक्त्याप्युदैर्यत
कुरुकानीळाविरूतिकूडावित्यादिवाक्यतः।। ६६ ।।
प्राप्तानामथ कैवल्यं पुनरावृत्तिशून्यता
अपरिच्छिनधीकत्वमचिन्मुक्ततया स्थितिः।। ६७ ।।
यत् प्राप्य निवर्तन्ते तद्धाम परमं त्विति
एतदर्थत्रयं गीतमिति भाष्ये निरूपितम्।। ६८ ।।
श्रीवागुक्तिप्रबन्धस्य कुरुकेशादिदेशिकैः
व्याख्यातृभिश्च कैवल्यं नित्यमित्येव वर्णितम्।। ६९ ।।
विरजापरमव्योम्नोरन्तरा केवलन्त्विति
पाद्मेन नित्यभूतिस्थं कैवल्यमिति दर्शितम्।। ७० ।।
स्तुतिर्यदि हि मुक्त्युक्तिरक्षरत्वादिवच्ची
चिरकालस्थायितार्थतात्परेति तदा कथम्।। ७१ ।।
ब्रूयुः श्रीभाष्यकारश्च कैवल्यस्याचिरादिकाम्
पुनरावृत्तिराहित्यमपरिच्छिन्नबुद्धिताम्।। ७२ ।।
तृतीयनियतिस्थानं तावच्चाचिद्विमुक्तिजम्
चतुर्विधा मम जनाइत्येतदपि सङ्गतम्।। ७३ ।।
देवतापितृभूतानां मम भक्ताश्च ये जनाः
तेषां मद्याजिनः श्रेष्टाः त्रयोऽप्यन्येऽन्यदेवताः।। ७४ ।।
अतश्च्यवनधर्माण इति तस्यार्थवर्णनम्
केवलस्यापि सर्वेषां कर्मणामपि संक्षये।। ७५ ।।
ब्रह्मानुभवराहित्यं तत्क्रतुन्यायसम्भवम्
ये यथोपासते वस्तु प्राप्नुवन्ति तथैव तत्।। ७६ ।।
प्रधानत्वेन जिज्ञासुरुपास्ते स्वकमेव तत्
स्वमेवानुभवन्नास्ते प्रधानत्वेन नेश्वरम्।। ७७ ।।
इति पक्षद्वयं सम्यक् समदर्शि यथाश्रुतम्
मत्प्राप्त्यर्थतयोक्तेषु त्यक्त्वा साधनताधियम्।। ७८ ।।
निवेशयाहं निष्प्रापं कुर्यां त्वां मा कृथाश्शुचम्
इति श्रीचरमश्लोकसंग्रहार्थो विचिन्तितः।। ७९ ।।
सन्तश्श्रीमूलमन्त्रोक्तस्वाकारत्रयवेदिनः
गीतान्त्यार्थद्वयोक्तार्थमहाविश्वासशालिनः।। ८० ।।
श्रीशानेकेष्टकैङ्कर्यसिद्ध्यै त्यक्तान्यसाधनाः
मन्त्ररत्नाश्रितश्रीशपदपद्मैकसाधनाः।। ८१ ।।
उत्तमाङ्गं स्वपादाब्जमालाभिर्भूषयन्ति मे

इति रहस्यत्रयकारिकावळ्यां चरमश्लोकप्रकरणं सम्पूर्णम्
इति श्रीमद्वादिकेसरिसुन्दरजामातृमुनिविरचिता
रहस्यत्रयकारिकावली समाप्ता

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.