नित्यग्रन्थ:
श्रीमते रामानुजाय नम:
तस्मै रामानुजार्याय नमः परमयोगिने |
यः श्रुतिस्मृतिसूत्राणां अन्तर्ज्वरमशीशमत् ||
श्रीभगवद्रामानुजविरचित:
नित्यग्रन्थ:
(भगवदाराधनप्रयोगात्मकः)
- अथ परमैकान्तिनो भगवदाराधनं वक्ष्ये ॥ 1 ||
- भगवत्कैङ्कर्यैकरति: परमैकान्ती भूत्वा,
- भगवानेव, स्वशेषभूतेन मया, स्वकीयैरेव कल्याणतमैरौपचारिकसांस्पर्शिकाभ्यवहारिकैः भोगैः, अखिलपरिजनपरिच्छदान्वितं स्वात्मानं प्रीतं कारयितुमुपक्रमते – इत्यनुसन्धाय,
(स्नानादि)
- तीर्थं गत्वा,
- शुचौ देशे पादौ प्रक्षाल्य,
- आचम्य,
- तीरं संशोध्य,
- शुचौ देशे मूलमन्त्रेण मृदमादाय, द्विधा कृत्वा शोधिततीरे निधाय,
- एकेन अधिकमृद्भागेन देहमलप्रक्षालनं कृत्वा,
- निमज्ज्य, आचम्य, प्राणायामत्रयम् कृत्वा,
- आसीनः भगवन्तं ध्यायन्,
- अन्य मृद्भागमादाय, वामपाणितले त्रिधाकृत्वा,
- पृथक्पृथक् संप्रोक्ष्य, अभिमन्त्र्य,
- एकेन दिग्बन्धनमस्त्रमन्त्रेण कुर्यात् || 2 ||
- अन्येन तीर्थस्य पीठम् ॥ 3 ||
- इतरेण गात्रानुलेपनम् ॥ 4 ||
- तत: पाणी प्रक्षाल्य,
- उदकाञ्जलिमादाय,
- तीर्थस्यार्घ्यमुत्क्षिप्य,
- भगवद्वामपादाङ्गुष्ठ-विनिस्सृतगङ्गाजलं संकल्पितपीठे आवाह्य,
- अर्घ्यं दत्वा,
- मूलमन्त्रेणोदकमभिमन्त्र्य, उदकाञ्जलिमादाय,
- सप्तकृत्वः अभिमन्त्र्य स्वमूर्ध्नि सिञ्चेत् ॥ 5 ||
- एवं त्रि:, पञ्चकृत्व:, सप्तकृत्वो वा ॥ 6 ||
- दक्षिणेन पाणिना जलमादाय, अभिमन्त्र्य पीत्वा आचम्य,
- स्वात्मानं प्रोक्ष्य, परिषिच्य
- तीर्थे निमज्ञः भगवत्पादारविन्दविन्यस्तशिरस्कः,
- यावच्छक्ति मूलमन्त्रं जपित्वा,
- उत्तीर्य, शुक्लवस्त्रधरः, धृतोत्तरीयः, आचम्य,
- ऊर्ध्वपुण्ड्रांस्तत्तन्मन्त्रेण धारयित्वा,
- भगवन्तमनुस्मृत्य,
- तत्तन्मन्त्रेण भगवत्पर्यन्ताभिधायिना, मूलमन्त्रेण च जलं पीत्वा,
- आचम्य, प्रोक्ष्य, परिषिच्य, उदकाञ्जलिं भगवत्पादयोर्निक्षिप्य,
- प्राणानायम्य, भगवन्तं ध्यात्वा,
- अष्टोत्तरशतं मूलमन्त्रमावर्त्य,
- परिक्रम्य, नमस्कृत्य, आधारशक्त्यादिपृथिव्यन्तं तर्पयित्वा,
- श्रीवैकुण्ठादि पारिषदान्तं तर्पयित्वा,
- देवानृषीन् पितृन् भगवदात्मकान् ध्यात्वा संतर्प्य,
- शुचौ देशे वस्त्रं संपीड्य, आचम्य,
- आवाहिततीर्थं मूलमन्त्रेणात्मनि समाहृत्य,
- Fयागभूमिं गच्छेत् ॥ 7 ||
(यागभूमाौ शरणवरणं)
- सुप्रक्षालितपाणिपाद:, स्वाचान्त:,
- शुचौ देशेऽतिमनोहरे निश्शब्दे भुवं संगृह्य, तां शोषणादिभिर्विशोध्य,
- गुरुपरंपरया परमगुरुं भगवन्तमुपगम्य,
- तमेव प्राप्यत्वेन प्रापकत्वेनानिष्टनिवारकत्वेनेष्टप्रापकत्वेन च यथावस्थितस्वरूपरूपगुणविभूतिलीलोपकरणविस्तारं अनुसन्धाय,
- तमेव शरणमुपूगच्छेत् ‘अखिले’ त्यादिना ॥ 8 ||
- एवं शरणमुपगम्य, तत्प्रसादोपबृंहितमनोवृत्ति:,
- तमेव भगवन्तं सर्वेश्वरेश्वरमात्मनस्स्वामित्वेन अनुसन्धाय,
- अत्यर्थप्रिय अविरत विशदतम प्रत्यक्षरूप अनुध्यानेन ध्यायन्नासीत ॥ 9 ||
- ततस्तदनुभवजनितातिमात्रप्रीतिकारितपरिपूर्ण-कैङ्कर्यरूपपूजां आरभेत ॥ 10 ||
- ‘ भगवानेव स्वनियाम्यस्वरूपस्थितिप्रवृत्तिस्वशेषतैकरसेनानेनात्मना स्वकीयैश्च देहेन्द्रियान्त: करणै: स्वकीयकल्याणतमद्रव्यमयानौपचारिकसांस्पर्शिकाभ्यवहारिकादिसमस्तभोगान् अतिप्रभूतान् अतिसमग्रानतिप्रियतमान् अत्यन्तभक्तिकृतान् अखिलपरिजनपरिच्छदान्विताय स्वस्मै स्वप्रीतये स्वयमेव प्रतिपादयितुमुपक्रमते ’ इत्यनुसन्धाय |
- स्वदेहे पञ्चोपनिषन्मन्त्रान् संहारक्रमेण न्यस्य,
- प्राणायामेनैकेन, दक्षिणेन पाणिना नाभिदेशे मूलमन्त्रं न्यस्य,
- मन्त्रोद्भूतचण्डवाय्वाप्यायितनाभिदेशस्थवायुना शरीरमन्तर्बहिश्च सर्वतत्त्वमयं तत्त्वक्रमेण विशोष्य,
- पुनः प्राणायामेनैकेन हृद्देशे मूलमन्त्रं न्यस्य,
- मन्त्रोद्भूत चक्राग्निज्वालोपबृंहितजाठराग्निना दग्धवा तत्तत्समष्टिप्रलीनसर्वतत्त्वसर्वकिल्बिषसर्वाज्ञानतद्वासनो भूत्वा,
- भगवद्दक्षिणपादाङ्गुष्ठे मूलमन्त्रेण स्वात्मानं प्रवेशयेत् ॥ 11 ||
- अपरेण प्राणायामेन भगवत्प्रसादेन भगवत्किङ्करत्वयोम्यतामापाद्य,
- तस्मादादाय, तद्वामपादाङ्गुष्ठादधस्तात् मूलमन्त्रेणात्मानं विन्यस्य,
- देववामपादाङ्गुष्ठनखशीतांशुमण्डलाद् गळदिव्यामृतरसैरात्मानमभिषिञ्चेत्,
- एवमात्मानं अभिषिच्य, भगवत्प्रसादेन तदमृतमयं सर्वकैङ्कर्यमनोहरं सर्वकैङ्कर्ययोग्यं शरीरं लब्ध्वा,
- तस्मिन् शरीरे पञ्चोपनिषन्मन्त्रान् सृष्टिक्रमेण विन्यसेत् ।| 12 ||
- ‘ओं षौं नम: पराय परमेष्ठ्यात्मने नम:’ इति मूर्ध्नि स्पृशेत् ।| 13 ||
- ‘ओं यां नम:, पराय पुरुषात्मने नमः’ इति नासिकाग्रे || 14 ||
- ‘ओं रां नम:, पराय विश्वात्मने नमः’ इति हृदये || 15 ||
- ‘ओं वां नम:, पराय निवृत्त्यात्मने नमः’ इति गुह्ये || 16 ||
- ‘ओं लां नम:, पराय सर्वात्मने नमः’ इति पादयो: || 17 ||
- एवं न्यासं कुर्वंन्, तत्तच्छक्तिमयमुद्भूतदेहं ध्यायेत् || 18 ||
- पुनरपि प्राणायामेनैकेन देववामपादाङ्गुष्ठविनिस्सृतामृतधारयाऽऽत्मानमभिषिच्य,
- कृतलाञ्छनो धृतोर्ध्वपुण्ड्रः भगवद्यागमारभेत || 19 ||
(सात्विकत्यागह्रध्यागौ)
- ‘भगवानेव सर्वं कारयतति ’ इति पूर्ववत् ध्यात्वा, हृद्यागं कृत्वा,
(बाह्ययागार्थम् अर्घ्यादिपरिकल्पनं)
- संभारान् संभृत्यात्मनो वामपार्श्वे जलभाजेन तोयमुत्पूर्य,
- गन्धपुष्पयुतं कृत्वा, सप्तकृत्वः अभिमन्त्र्य, विशोष्य, दग्ध्वा,
- दिव्यामृतमयं तोयमुत्पाद्य, अस्त्रमन्त्रेण रक्षां कृत्वा, सुरभिमुद्रां प्रदर्श्य,
- अन्यानि पूजाद्रव्याणि दक्षिणपार्श्वे निधाय,
- आत्मन: पुरस्तात् स्वास्तीर्णे पीठे क्रमेणाग्नेयादिषु कोणेषु अर्घ्यपाद्याचमनीयस्नानीयपात्राणि निधाय,
- (अस्त्र) मन्त्रेण प्रक्षाल्य, शोषणादिना पात्राणि विशोध्य,
- संस्कृततोयेन तानि च पूरयित्वा,
- अर्घ्यपात्रे – सिद्धार्थक गन्धपुष्पकुशाग्राक्षतादीनि निक्षिपेत् || 20 ||
- दूर्वां, विष्णुपर्णीं श्यामाकं पद्मकं पाद्यपात्रे || 21 ||
- एला लवङ्ग तक्कोल लामज्जक-जातीपुष्पाण्याचमनीये || 22 ||
- द्वे हरिद्रे मुराशैलेय तक्कोल जटामांसि मलयजगन्धचम्पकपुष्पाणि स्नानीये || 23 ||
- अन्यस्मिन् पात्रे सर्वार्थतोयं परिकल्प्य,
- ततोऽर्घ्यपात्रं पाणिना स्पृष्ट्वा, मूलमन्त्रेणा अभिमन्त्र्य,
- ‘ओं नमो भगवतेऽर्घ्यं परिकल्पयामि ‘ इत्यर्घ्यं परिकल्पयेत् ॥ 24 ||
- एवमेव ‘ पाद्यं परिकल्पयामि ‘ इति पाद्यम् || 25 ||
- ‘ आचमनीयं परिकल्पयामि ’ इति आचमनीयम् || 26 ||
- ‘ स्नानीयं परिकल्पयामि ’ इति स्नानीयम् || 27 ||
- ‘ शुद्धोदकं परिकल्पयामि ’ इति शुद्धोदकम् || 28 ||
(प्रोक्षणं )
- ततोऽर्घ्यजलम् अन्येन पात्रेणादाय, यागभूमिं सर्वाणि च यागद्रव्याण्यात्मानं च प्रत्येकं संप्रोक्ष्यासनं परिकल्पयेत्॥ 29 ||
(आधारशक्त्यादिसत्करणं )
- 1. ‘ ओं आधारशक्त्यै नम:’
- ‘ ओं प्रकृत्यै नम:’,
- ‘ ओं अखिलजगदाधाराय कूर्मरूपिणे नारायणाय नम:’
- ‘ ओं भगवतेऽनन्ताय नागराजाय नम:’
- ‘ ओं भूं भूम्यै नम:’
- इति यथास्थानमुपर्युपरि ध्यात्वा प्रणम्य,
- ‘ ओं श्रीवैकुण्ठाय दिव्यलोकाय नम:’ इति दिव्यलोकं प्रणम्य,
- 7. ‘ ओं श्रीवैकुण्ठाय दिव्यजनपदाय नम:’ इति दिव्यजनपदं प्रणम्य,
- 8. ‘ ओं श्रीवैकुण्ठाय दिव्यनगराय नम:’ इति दिव्यनगरं प्रणम्य,
- 9. ‘ ओं श्रीवैकुण्ठाय दिव्यविमानाय नम:’ इति दिव्यविमानं प्रणम्य,
- 10. ‘ ओं आनन्दमयाय दिव्यमण्टपरत्नाय नम:’ इति मण्टपरत्नं प्रणम्य,
- तस्मिन्,
- ‘ ओं अनन्ताय नम:’ इत्यास्तरणं प्रणम्य,
- तस्मिन्नुपरि,
- 12. ‘ ओं धर्माय नम:’ इत्याग्नेय्यां पादं विन्यस्य,
- 13. ‘ ओं ज्ञानाय नम:’ इति नैर्ऋत्याम्,
- 14. ‘ ओं वैराग्याय नम:’ इति वायव्याम्,
- 15. ओं ऐश्वर्याय नम: इत्यैशान्याम्,
- 16. ‘ ओं अधर्माय नम:’ इति प्राच्यां पीठगात्रं विन्यस्य,
- 17. ‘ओं अज्ञानाय नम:’ इति दक्षिणस्याम्,
- 18. ‘ ओं अवैराग्याय नम:’ इति प्रतीच्याम्,
- 19. ‘ ओं अनैश्वर्याय नम:’ इत्युत्तरस्याम्,
- एभि: परिच्छिन्नतनुं, पीठभूतं सदात्मकमनन्तं विन्यस्य,
- पश्चात् सर्वकार्योन्मुखं विभुमनन्तम् –
- 20. ‘ ओं अनन्ताय नम:’ इति विन्यस्य,
- तस्मिन्नुपरि –
- 21. ‘ ओं पद्माय नम:’ इति पद्मं विन्यस्य,
- तत्पूर्वपत्रे
- 22. ‘ ओं विमलायै (चामरहस्तायै) नम:’ इति विमलां चामरहस्तां विन्यस्य,
- तत आरभ्य प्रादक्षिण्येनैशानान्तं पत्रेषु
- 23. ‘ ओं उत्कर्षिण्यै चामरहस्तायै नम:’
- 24. ‘ ओं ज्ञानायै चामरहस्तायै नम:’
- 25. ‘ ओं क्रियायै चामरहस्तायै नम:’
- 26. ‘ ओं योगायै चामरहस्तायै नम:
- 27. ‘ ओं प्रह्व्यै चामरहस्तायै नम:’
- 28. ‘ ओं सत्यायै चामरहस्तायै नम:’
- ‘ ओं ईशानायै चामरहस्तायै नम:’
– इति अष्ट शक्तीश्चामरहस्ता विन्यस्य,
- 30. ‘ ओं अनुग्रहायै चामरहस्तायै नम:’ इति कर्णिकापूर्वभागेऽनुग्रहां चामरहस्तां विन्यसेत् |
- 31. ‘ ओं जगत्प्रकृतये योगपीठाय नम:’ इति योगपीठं संकल्प्य,
- 32. ‘ ओं दिव्याय योगपर्यङ्काय नमः’ इति दिव्ययोगपर्यङ्काय विन्यस्य,
- तस्मिन्ननन्तं नागराजं सहस्रफणाशोभितम्,
- 33. ‘ ओं अनन्ताय नागराजाय नम:’ इति विन्यस्य,
- 34. ‘ ओं अनन्ताय नम:’ इति पुरस्तात् पादपीठं विन्यस्य,
- सर्वाण्याधारशक्त्यादीनि पीठान्तानि तत्त्वानि प्रत्येकं गन्धपुष्पधूपदीपैः संपूज्य,
- सर्वपरिवाराणां तत्तत्स्थानेषु पद्मासनानि संकल्प्य,
- अनन्त गरुड विष्वक्सेनानां सपीठकं पद्मं विन्यस्य,
- सर्वत: पुष्पाक्षतादीनि विकीर्य,
- योगपीठस्य पश्चिमोत्तरदिग्भागे
- 35. ‘ ओं अस्मद्गुरुभ्यो नम:’ इति गुरून् गन्ध पुष्प धूप दीपैः अभ्यर्च्य,
- प्रणम्य अनुज्ञाप्य भगवद्यागमारभेत ॥ 30 ||
[ भगवध्यानयाचने ]
- कल्पिते नागभोगे समासीनं भगवन्तं नारायणं पुण्डरीकतदलामलायताक्षं किरीटहारकेयूरकटकादिसर्वभूषणैर्भूषितं आकुञ्चितदक्षिणपादं प्रसारितवामपादं जानुन्यस्त-प्रसारितदक्षिणभुजं नागभोगे विन्यस्तवामभुजम् ऊर्ध्वभुजद्वयेन शङ्खचक्रधरं सर्वेषां सृष्टिस्थिति-प्रलयहेतुभूतमञ्जनाभं कौस्तुभेन विराजमानं चकासतम् उदग्रप्रबुद्धस्फुरदपूर्वाचिन्त्य-परमसत्त्वपञ्चशक्तिमयविग्रहं पञ्चोपनिषदैर्ध्यात्वा,
- ‘ आराधनाभिमुखो भव ’ इति मूलमन्त्रेण प्रार्थ्य,
- मूलमन्त्रेण दण्डवत्प्रणम्य, उत्थाय, स्वागतं निवेद्य,
- यावदाराधनसमाप्तिसान्निध्ययाचनं कुर्यात् ॥ 31 ||
( क्वाचिक्तावाहनप्रकारः )
- अन्यत्र स्वाभिमते देशे पूजा चेदेवमावाहनम्
‘ मन्त्रयोगस्समाह्वानं करपुष्पोपदर्शनम् ।
बिम्बोपवेशनं चैव योगविग्रहचिन्तनम् ॥
प्रणामश्च समुत्थानं स्वागतं पुष्पमेव च ।
सान्निध्ययाचनं चेति तत्रा आह्वानस्य सत्क्रिया:’॥ इति || 32 ||
- ततो भगवन्तं प्रणम्य,
- दक्षिणत: -1. ‘ओं श्रीं श्रियै नमः’ इति श्रियमावाह्य प्रणम्य,
- वामे – 2. ‘ ओं भूं भूम्यै नमः’ इति मन्त्रेण भुवमावाह्य,
- तत्रैव – 3. ‘ ओं नीं नीलायै नमः’ इति नीलामावाह्य,
- 4. ‘ ओं किरीटाय मकुटाघिपतये नमः’ इत्युपरि भगवत: पश्चिमपार्श्वे – चतुर्भुजं चतुर्वक्त्रं कृताञ्जलिपुटं मूर्ध्नि भगवत्किरीटं धारयन्तं किरीटाख्यदिव्यभूषणं प्रणम्य,
- एवमेव- 5. औं किरीटमालायै आपीडात्मने नमः’ – इत्यापीडकं तत्रैव पुरस्तात् प्रणम्य,
- 6. ‘ ओं दक्षिणकुण्डलाय मकरात्मने नम:’ इति दक्षिणकुण्डलं दक्षिणत: प्रणम्य,
- 7. ‘ ओं वामकुण्डलाय मकरात्मने नम:’ इति वामकुण्डलं वामत: प्रणम्य,
- 8. ‘ ओं वैजयन्त्यै वनमालायै नमः’ इति वैजयन्तीं पुरत: प्रणम्य,
- 9. ‘ ओं श्रीमत्तुलस्यै नमः’ इति तुलसीं देवीं पुरस्तात् प्रणम्य,
- 10. ‘ ओं श्रीवत्साय श्रीनिवासाय नमः’ इति श्रीवत्सं पुरत: प्रणम्य,
- 11. ‘ ओं हाराय सर्वाभरणाधिपतये नमः’ इति हारं पुरत: प्रणम्य,
- 12. ‘ ओं श्रीकौस्तुभाय सर्वरत्नाधिपतये नम इति कौस्तुभं पुरत: प्रणम्य,
- 13. ‘ ओं काञ्चीगुणोज्ज्वलाय दिव्यपीताम्बराय नमः’ इति पीताम्बरं पुरत: प्रणम्य,
- ‘ ओं सर्वेभ्यो भगवद्भूषणेभ्यो नमः’ इति सर्वभूषणानि सर्वत: प्रणम्य,
- 15. ‘ ओं सुदर्शनाय हेतिराजाय नमः’ इति सुदर्शनात्मानं रक्तवर्णं, रक्तनेत्रं (द्वि) चतुर्भुजं कृताञ्जलिपुटं भगवन्तमालोकयन्तं तद्दर्शनानन्दोपबृंहितमुखं मूर्ध्नि भगवच्चक्रं धारयन्तं दक्षिणत: प्रणम्य,
- 16. ‘ ओं नन्दकाय खड्गाधिपतये नमः’ इति नन्दकात्मानं शिरसि भगवत्खड्गं धारयन्तं प्रणम्य,
- 17. ‘ ओं पद्माय नमः’ इति पद्मात्मानं शिरसि पद्मं धारयन्तं प्रणम्य,
- 18. ‘ ओं पाञ्चजन्याय शङ्खाधिपतये नमः’ इति शङ्खात्मानं श्वेतवर्णं रक्तनेत्रं द्विभुजं कृताञ्जलिपुटं शिरसि शङ्खं धारयन्तं वामत: प्रणम्य – तत्रैव
- 19. ‘ ओं कौमोदक्यै गदाधिपतये नमः’ इति गदाम् देवीं प्रणम्य,
- 20. तत्रैव – ‘ ओं शार्ङ्गाय चापाधिपतये नमः’ इति शार्ङ्गात्मानं प्रणम्य,
- 21. ‘ ओं सर्वेभ्यो भगवद्दिव्यायुधेभ्यो नमः’ इति सर्वाणि भगवदायुधानि परित: प्रणम्य,
- 22. ‘ ओं सर्वाभ्यो भगवत्पादारविन्दसंवाहिनीभ्यो नमः’ – इति दिव्यपादारविन्दसंवाहिनीस्समन्तत: प्रणम्य,
- 23. ‘ ओं अनन्ताय नागराजाय नमः’ इति पृष्ठतोऽनन्तं (भगवन्तं) नागराजं चतुर्भुजं हलमुसलधरं कृताञ्जलिपुटं फणामणिसहस्रमण्डितोत्तमाङ्गं भगवद्दर्शनानन्दबृंहितसर्वाङ्गं ध्यात्वा, प्रणम्य,
- 24. ओं सर्वेभ्यो भगवत्परिजनेभ्यो नमः’ इत्यनुक्तानन्तपरिजनान् समन्तत: प्रणम्य,
- 25. ‘ ओं भगवत्पादुकाभ्यां नमः’ इति भगवत्पादुके पुरत: प्रणम्य,
- 26. ‘ ओं सर्वेभ्यो भगवत्परिच्छदेभ्यो नमः’ इति सर्वपरिच्छदान् समन्तत: प्रणम्य,
- ‘ ओं वैनतेयाय नमः’ इत्यग्रतो भगवतो भगवन्तं वैनतेयमासीनं द्विभुजं कृताञ्जलिपुटं ध्यात्वा प्रणम्य,
- 28. ‘ ओं श्रीमते विष्वक्सेनाय नमः’ इति भगवत: प्रागुत्तरपार्श्वे दक्षिणाभिमुखं भगवन्तं विष्वक्सेनमासीनं चतुर्भुजं शङ्खचक्रधरं नीलमेघनिभं ध्यात्वा प्रणम्य,
- 29. ‘ओं गं गजाननाय नम:’
- 30. ‘ओं जं जयत्सेनाय नम:’
- 31. ‘ ओ हं हरिवक्त्राय नम:’
- ‘ ओं कं कालप्रकृतिसंज्ञाय नम:’
- 33. ‘ ओं सर्वेभ्यो श्री विष्वक्सेनपरिजनेभ्यो नम:’ इति विष्वक्सेनपरिजनान् प्रणम्य,
- 34. ‘ ओं चण्डाय द्वारपालाय नम:’
- 35. ‘ ओं प्रचण्डाय द्वारपालाय नम:’ इति पूर्वद्वारपार्श्वयो: प्रणम्य,
- 36. ‘ ओं भद्राय द्वारपालाय नम:’
- 37. ‘ ओं सुभद्राय द्वारपालाय नम:’ इति दक्षिणद्वारपार्श्वयो: प्रणम्य,
- 38. ‘ ओं जयाय द्वारपालाय नम:’
- 39. ‘ ओं विजयाय द्वारपालाय नम:’ इति पश्चिमद्वारपार्श्वयोः प्रणम्य,
- 40. ‘ ओं धात्रे द्वारपालाय नम:’
- ‘ ओं विधात्रे द्वारपालाय नम:’ – इत्युत्तरद्वारपार्श्वयो: प्रणमेत् ॥ 34 ||
- एते द्वारपालास्सर्वे शङ्खचक्रगदाधराः आज्ञामुद्राधराः ध्यातव्या: ॥ 35 ||
- ‘ ओं सर्वेभ्यो द्वारपालेभ्यो नमः’ इति सर्वद्वारेषु सर्वद्वारपालान् प्रणम्य,
- 43. ‘ ओं कुमुदाय गणाधिपतये सवाहनपरिवारप्रहरणाय नमः’ इति पूर्वस्यां दिशि, पार्षदेश्वरं कुमुदं प्रणम्य,
- 44. ‘ ओं कुमुदाक्षाय गणाधिपतये सवाहनपरिवारप्रहरणाय नमः’ इत्याग्नेय्यां, कुमुदाक्षं प्रणम्य,
- 45. ‘ ओं पुण्डरीकाय गणाधिपतये सवाहनपरिवारप्रहरणाय नम इति दक्षिणस्यां पुण्डरीकं प्रणम्य,
- 46. ‘ ओं वामनाय गणाधिपतये सवाहनपरिवारप्रहरणाय नमः’ इति नैर्ऋत्यां वामनं प्रणम्य,
- 47. ‘ ओं शङ्कुकर्णाय गणाधिपतये सवाहनपरिवारप्रहरणाय नमः’ इति पश्चिमायां शङ्कुकर्णं प्रणम्य,
- 48. ‘ ओं सर्पनेत्राय गणाधिपतये सवाहनपरिवारप्रहरणाय नमः’ इति वायव्यां सर्पनेत्रं प्रणम्य,
- 49. ‘ ओं सुमुखाय गणाधिपतये सवाहनपरिवारप्रहरणाय नमः’ इत्युदीच्यां सुमुखं प्रणम्य,
- 50. ‘ ओं सुप्रतिष्ठिताय गणाधिपतये सवाहनपरिवारप्रहरणाय नमः’ इत्यैशान्यां सुप्रतिष्ठितं प्रणम्य,
- 51. ‘ ओं सर्वेभ्यो भगवत्पार्षदेभ्यो नमः’ इति सर्वस्माद्बहि: प्रणमेत् ॥ 36 ||
- अन्यत्रावाह्य पूजायामावाहनस्थानानि परमव्योमक्षीरार्णवादित्यमण्डलहृदयानि मथुरा- द्वारकागोकुलायोध्यादीनि दिव्यावतारस्थानानि चान्यानि पौराणिकानि श्रीरङ्गादीनि च यथारुचि ॥ 37 ||
- 2. एवं भगवन्तं नारायणं देवीभूषणायुध परिजन परिच्छदद्वारपालपार्षदैस्सेव्यमानं, स्वाधीन त्रिविधचेतनाचेतन स्वरूपस्थिति प्रवृत्तिभेदं, क्लेशकर्माद्यशेष दोषासंस्पृष्टं, स्वाभाविकानवधिकातिशय ज्ञान बलैश्वर्य वीर्य शक्तितेज: प्रभृत्यसंख्येय कल्पाणगुणगणौघमहार्णवं ध्यात्वा, प्रणम्य,
- मूलमन्त्रेण स्वात्मानं देवाय निवेद्य,
- प्रणम्यानुज्ञाप्य, भगवत्पूजामारभेत ॥ 38 ||
[ मन्त्रासनं ]
- पात्रेण (उद्धरिण्या) पूर्वस्थितात् अर्घ्यपात्रादर्घ्यजलमादाय, पाणिभ्यां (घ्राण) मुखसममुद्धृत्य,
- ‘ भगवन्! इदं प्रतिगृह्णीष्व’ इति चिन्तयन् भगवन्मुखे दर्शयित्वा,
- भगवद्दक्षिणहस्ते किंचित्प्रदायार्घ्यं प्रतिग्रहपात्रे प्रक्षिपेत् || 39 ||
- हस्तौ प्रक्षाल्य, पादयो: पुष्पाणि समर्प्य,
- पाद्यपात्रात्पाद्यजलमादाय पादयो: किंचित् समर्प्य, मनसा पादौ प्रक्षालयन्, पाद्यं प्रतिग्रहपात्रे निक्षिपेत् || 40 ||
- हस्तौ प्रक्षाल्य, वस्त्रेण पादौ संमृज्य गन्धपुष्पाणि दत्वा,
- आचमनीयपात्रादाचमनीयमादाय, भगवद्दक्षिणहस्ते किंचित् समर्प्य, ‘भगवद्वदने आचमनीयं समर्पितम् ’ इति मनसा भावयन्, शेषमाचमनीयं प्रतिग्रहपात्रे प्रक्षिपेत् || 41 ||
- तत: गन्ध पुष्प धूप दीप आचमन मुखवास ताम्बूलादि निवेदनं कृत्वा, प्रणम्य,
- ‘आत्मानमात्मीयं च सर्वं, भगवन् ! नित्यकिंकरत्वाय स्वीकुरु’ इति भगवते निवेदयेत् || 42 ||
( स्नानासनं )
- तत: स्नानार्थमासनमानीय, गन्धादिभिरभ्यर्च्य, भगवन्तं प्रणम्य अनुज्ञाप्य, पादुके प्रदाय,
- तत्रोपविष्टे – माल्यभूषणवस्त्राण्यपनीय, विष्वक्सेनाय दत्वा,
- स्नानशाटिकां प्रदाय,
- अर्घ्यपाद्याचमनीय पादपीठप्रदान दन्तकाष्ठ जिह्वानिर्लेहनगण्डूष-मुखप्रक्षालन आचमनादर्शप्रदर्शन हस्तप्रक्षालन मुखवास ताम्बूल तैलाभ्यङ्गोद्वर्तन आमलकतोय कङ्क-तप्लोतदेहशोधन शाटिकाप्रदान हरिद्रालेपन प्रक्षालन वस्त्रोत्तरीय यज्ञोपवीतप्रदान पाद्याचमन पवित्रप्रदान गन्ध पुष्प धूप दीपाचमन नृत्तगीत वाद्यादि सर्वमङ्गल संयुक्ताभिषेक नीराजनाचमन देहशोधन प्लोतवस्त्रोत्तरीय यज्ञोपवीताचमन कूर्चप्रसारण सहस्रधाराभिषेक -नीराजनाचमन देहशोधन प्लोत-वस्त्रोत्तरीय यज्ञोपवीताचमनानि दद्यात् ॥ 43 ||
( अल्न्कारासनं )
- ततोऽलङ्कारासनमभ्यर्च्य, प्रणम्यानुज्ञाप्य,
- पादुके प्रदाय, तत्रोपविष्टे –
- पूर्ववत् स्नानीयवर्ज्यंमर्घ्यपाद्या आचमनीयशुद्धोदकानि मन्त्रेण कल्पयित्वा,
- भगवते अर्घ्यपाध्या आचमनीयानि दत्वा,
- गन्धपुष्पपादसम्मर्दनवस्त्रोत्तरीयभूषणोपवीतार्घ्य – पाद्याचमनीयानि दत्वा
- समस्तपरिवाराणां स्नानवस्त्रादिभूषणान्तं दत्वा,
- गन्धादीन् देवानन्तरं सर्वपरिवाराणां प्रत्येकं प्रदाय,
- धूपदीपाचमनान्तं दद्यात् ॥ 44 ||
- अथवा सर्वपरिवाराणां गन्धादीनेव दद्यात् ॥ 45 ||
- गन्ध पुष्प प्रदानालङ्कार अञ्जनोर्ध्वपुण्ड्रादर्श धूप दीपाचमन ध्वज छत्र चामर वाहन शङ्ख चिह्नकाहल- भेर्यादि सकलनृत्तगीतवाद्यादिभिरभ्यर्च्य,
- मूलमन्त्रेण पुष्पं प्रदाय, प्रत्यक्षरं पुष्पं प्रदाय
- द्वादशाक्षरेण विष्णुषडक्षरेण विष्णुगायत्र्या पञ्चोपनिषदै: पुरुषसूक्तऋग्भिः पुष्पं प्रदाय अन्यैश्च भगवन्मन्त्रैश्शक्तष्टोत्पुष्पं प्रदाय,
- देव्यादिदिव्यपारिषदान्तं तत्तन्मन्त्रेण पुष्पं दत्वा प्रणम्य,
- प्रतिदिशं प्रदक्षिणप्रणामपूर्वकं भगवते पुष्पाञ्जलिं दत्वा पुरत: प्रणम्य,
- श्रुतिसुखै: स्तोत्रै: स्तुत्वा,
- स्वात्मानं नित्यकिंकरतया निवेद्य, तथैव ध्यात्वा,
- यथाशक्ति मूलमन्त्रं जपित्वा,
- सर्वभोगप्रपूरणीं मात्रां दत्वा,
- मुखवासताम्बूले प्रदाय, अर्घ्यं दत्वा,
( भोज्यासनं )
- भोज्यासनमभ्यर्च्य, प्रणम्यानुज्ञाप्य पादुके प्रदाय,
- तत्रोपविष्टे – पाद्याचमनीयार्हणीयानि दत्वा,
- गुडं, माक्षिकं सर्पिर्दधि क्षीरं चेति पात्रे निक्षिप्य
- शोषणादिभिर्विशोध्य, अर्घ्यजलेन संप्रोक्ष्य, मधुपर्कम्
- अवनतशिराः हर्षोत्फुल्लनयनः हृष्टमनाः भूत्वा प्रदाय
- आचमनीयं दद्यात् || 46 ||
- यत्किंचिद्द्रव्यं भगवते देयम् ; तत्सर्वं शोषणादिभिर्विशोध्यार्घ्यजलेन संप्रोक्ष्य दद्यात् || 47 ||
- ततश्च गां स्वर्णरत्नादिकं च यथाशक्ति दद्यात् || 48 ||
- ततस्सुसंस्कृतान्नमाज्याढ्यं दधिक्षीरमधूनि च फलमूलव्यञ्जनानि मोदकांश्चान्यानि च लोके प्रियतमान्यात्मनश्चेष्टानि शास्त्राविरुद्धानि संभृत्य
- शोषणादि कृत्वा, अर्घ्यजलेन संप्रोक्ष्य
- अस्त्रमन्त्रेण रक्षां कृत्वा, सुरभिमुद्रां प्रदर्श्य
- अर्हाणपूर्वकं हविर्निवेदयेत् ॥ 49 ||
- ‘ अतिप्रभूतम् अतिसमग्रमतिप्रियतममत्यन्तभक्तिकृतमिदं स्वीकुरु’ इति प्रणामपूर्वकमत्यन्त साध्वस विनयावनतो भूत्वा निवेदयेत् ॥ 50 ||
- ततश्चानुपानतर्पणे प्रदाय
- हस्तप्रक्षालनाचमन हस्तसम्मार्जन चन्दन मुखवासताम्बूलादीनि दत्वा
- प्रणम्य पुनर्मन्त्रासनं कूर्चेन मार्जयित्वा,
- अभ्यर्च्यानुज्ञाप्य पादुके प्रदाय
- तत्रोपविष्टे – माल्यादिकमपोह्य विष्वक्सेनाय दत्वा,
- पाद्याचमन गन्ध पुष्प धूप दीपाचमन अपूप फलादीनि दत्वा,
- मुखवास तांबूल नृत्तगीत वाद्यादिभिः अभ्यर्च्य,
- प्रदक्षिणीकृत्य दण्डवत्प्रणम्य,
- पर्यङ्कासनमभ्यर्च्यानुज्ञाप्य पादुके प्रदाय,
- तत्रोपविष्टे – पाद्याचमने दत्वा
- माल्यभूषणवस्त्राण्यपनीय विष्वक्सेनाय दत्वा
- सुखशयनोचितं सुखस्पर्शं च वासस्तदुचितानि भूषणान्युपवीतं च प्रदाय
- आचमनीयं दत्वा
- गन्ध पुष्प धूप दीपाचमन मुखवास ताम्बूलादिभिरभ्यर्च्य
- श्रुतिसुखै: स्तोत्रैरभिष्टूय
- ‘ भगवानेव स्वनियाम्य स्वरूपस्थितिप्रवृत्ति स्वशेषतैकरसेन अनेनात्मना स्वकीयैश्च देहेन्द्रियान्त:करणै: स्वकीयकल्याणतमद्रव्यमयानौपचारिक सांस्पर्शिक आभ्यवहारिकादि समस्तभोगान् अतिप्रभूतान् अतिसमग्रान् अतिप्रियतमान् अत्यन्तभक्तिकृतानखिलपरि-जनपरिच्छदान्विताय स्वस्मै स्वप्रीतये स्वयमेव प्रतिपादितवान्’ इत्यनुसंधाय,
- भगवन्तमनुज्ञाप्य
- भगवन्निवेदित- हविश्शेषाद्विष्वक्सेनाय किंचिदुद्धृत्य निधाय
- अन्यत्सर्वं स्वाचार्यप्रमुखेभ्यो वैष्णवेभ्यो प्रदाय
- भगवद्यागावशिष्टैर्जलादिभिर्द्रव्यैर्विष्वसेनमभ्यर्च्य
- पूर्वोद्धृतं हविश्च दत्वा, तदर्चनं परिसमाप्य,
- भगवन्तमष्टाङ्गेन प्रणम्य शरणमुपगच्छेत् ॥ 51 |
‘मनोबुद्ध्यभिमानेन सह न्यस्य धरातले ।
कूर्मवच्चतुर: पादान् शिरस्तत्रैव पञ्चमम् ॥
प्रदक्षिणसमेतेन त्वेवं रूपेण सर्वदा ।
अष्टाङ्गेन नमस्कृत्य ह्युपविश्याग्रत: विभो:’ ॥
इत्युक्तोऽष्टाङ्गप्रणाम: । शरणागतिप्रकारश्च पूर्वोक्त: ॥
ततोऽर्घ्यजलं प्रदाय, भगवन्तमनुज्ञाप्य, पूजां समापयेत् ॥ 52 ||
॥ इति श्रीभगवद्रामानुजाचार्य विरचित: नित्यग्रन्थस्समाप्त: ॥