श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे द्वितायः सर्गः
स सागरमनाधृष्यमतिक्रम्य महाबलः ।
त्रिकूटशिखरे लङ्कां स्थितां स्वस्थो ददर्श ह ।। 5.2.1 ।।
ततः पादपमुक्तेन पुष्पवर्षेण वीर्यवान् ।
अभिवृष्टः स्थितस्तत्र बभौ पुष्पमयो यथा ।। 5.2.2 ।।
योजनानां शतं श्रीमांस्तीर्त्वाप्युत्तमविक्रमः ।
अनिश्वसन् कपिस्तत्र न ग्लानिमधिगच्छति ।। 5.2.3।।
स सागरमित्यादि ।। 5.1.1,2,3।।
शतान्यहं योजनानां क्रमेयं सुबहून्यपि ।
किं पुनः सागरस्यान्तं सङ्ख्यातं शतयोजनम् ।। 5.2.4।।
स तु वीर्यवतां श्रेष्ठः प्लवतामपि चोत्तमः ।
जगाम वेगवान् लङ्कां लङ्घयित्वा महोदधिम् ।। 5.2.5।।
समुद्रलङ्घने कुतो ग्लानिं नाध्यगच्छदित्यत्राह शतानीति ।। 5.2.4,5।।
शाद्वलानि च नीलानि गन्धवन्ति वनानि च ।
गण्डवन्ति च मध्येन जगाम नगवन्ति च ।। 5.2.6।।
शैलांश्च तरुसंछन्नान् वनराजीश्च पुष्पिताः ।
अभिचक्राम तेजस्वी हनुमान् प्लवगर्षभः ।। 5.2.7।।
शाद्वलानीति । गण्डवन्ति स्थूलोपलवन्ति । नामैकदेशे नामग्रहणेन गण्डशब्देन गणडशैल उच्यते ।। 5.2.6,7।।
स तस्मिन्नचले तिष्ठन् वनान्युपवनानि च ।
स नगाग्रे च तां लङ्कां ददर्श पवनात्मजः ।। 5.2.8।।
स इति । स तस्मिन्नत्यर्धे ददर्शेत्यपकृष्यते ।। 5.2.8।।
सरलान् कर्णिकारांश्च खर्जूरांश्च सुपुष्पितान् ।
प्रियालान्मुचुलिन्दांश्च कुटजान् केतकानपि ।। 5.2.9।।
प्रियङ्गून् गन्धपूर्णांश्च नीपान् सप्तच्छदांस्तथा ।
असनान् कोविदारांश्च करवीरांश्च पुष्पितान् ।। 5.2.10।।
पुष्पभारनिबद्धांश्च तथा मुकुलितानपि ।
पादपान् विहगाकीर्णान् पवनाधूतमस्तकान् ।। 5.2.11।।
सरलान् यूपसरलान् । कर्णिकारान् परिव्याधान् । खर्जूरान् कण्टकच्छदान् । प्रियालान् धनुःपटान् । मुचुलिन्दान् जम्बीरान् । प्रियङ्गून् फलिनः । गन्धपूर्णान् नीपान् असनान् । कोविदारान् चमरिकान् ।। 5.2.911 ।।
हंसकारण्डवाकीर्णा वापीः पद्मोत्पलायुताः ।
आक्रीडान् विविधान् रम्यान् विविधांश्च जलाशयान् ।। 5.2.12 ।।
आक्रीडान् सर्वसाधारणक्रीडास्थानानि ।। 5.2.12 ।।
सन्ततान् विविधैर्वृक्षैः सर्वर्तुफलपुष्पितैः ।
उद्यानानि च रम्याणि ददर्श कपिकुञ्जरः ।। 5.2.13।।
उद्यानानि राजयोग्यानि । सर्वर्तुफलपुष्पितैः सर्वर्तुषु फलपुष्पाण्येषां सञ्जातानीति तैः ।। 5.2.13।।
समासाद्य च लक्ष्मीवान् लङ्कां रावणपालिताम् ।
परिघाभिः सपद्माभिः सोत्पलाभिरलङ्कृताम् ।। 5.1.14।।
समासाद्येति । समासाद्य ददर्शेति क्रियाभेदाल्लङ्कापदावृत्तिः । लक्ष्मीवान् जयहेतुकान्तिमान् । उत्पलानि पद्मव्यतिरिक्तानि सरसिजानि ।। 5.2.14।।
सीतापहरणार्थेन रावणेन सुरक्षिताम् ।
समन्ताद्विचरद्भिश्च राक्षसैरुग्रधन्विभिः ।। 5.2.15।।
सीतापहरणम् अर्थः प्रयोजनं यस्य तेन । सुरक्षितत्वे हेतुरयम् । विचरद्भिश्चेत्यत्र चकारो भिन्नक्रमः । राक्षसैश्च सुरक्षिताम् ।। 5.2.15।।
काञ्चनेनावृतां रम्यां प्राकारेण महापूरीम् ।
गृहैश्च ग्रहसङ्काशैः शारदाम्बुदसन्निभैः ।। 5.2.16।।
ग्रहसङ्काशैः नवग्रहतुल्यैः ।। 5.2.16।।
पाण्डराभिः प्रतेलीभिरुच्चाभिरभिसंवृताम् ।
अट्टालकशताकीर्णां पताकाध्वजमालिनीम् ।। 5.2.17।।
पाण्डराभिः सुधालिप्तभूमिकत्वात्सिताभिः । प्रतोलीभिः वीथीभिः । अट्टालकाः अट्टाः । पताकाध्वजमालिनीं लतादिरेखाविचित्रितपटविशिष्टाः पताकाः, मत्स्यमकराद्याकरा ध्वजाः । व्रीह्यादित्वादिनिः ।। 5.2.17।।
तोरणैः काञ्चनैर्दिव्यैर्लतापङ्क्तिविचित्रितैः ।
ददर्श हनुमान् लङ्कां दिवि देवपुरीमिव ।। 5.2.18।।
गिरिमूर्ध्नि स्थितां लङ्कां पाण्डुरैर्भवनैः शुभैः ।
ददर्श स कपिश्रेष्ठः पुरमाकाशगं यथा ।। 4.2.19।।
पालितां राक्षसेन्द्रेण निर्मितां विश्वकर्मणा ।
प्लवमानामिवाकाशे ददर्श हनुमान् पुरीम् ।। 5.2.20।।
लतापङ्क्तयः लताकाररेखाः ।। 5.2.1820।।
वप्रप्राकारजघनां विपुलाम्बुनवाम्बराम् ।
शतघ्नीशूलकेशान्तामट्टालकवतंसकाम् ।
मनसेव कृतां लङ्कां निर्मितां विश्वकर्मणा ।। 5.2.21 ।।
वप्रेति । वप्रेत्यादावपि ददर्श हनुमान् कपिरित्यनुवर्तते । वप्रं प्राकारमूर्तिकः । प्राकारः सालः । विपुलाम्बु परिघारूपं नवाम्बरं यस्यास्सा । शतघ्नी यन्त्रविशेषः । वतंसः अवतंसः । भागुरिमतेनाल्लोपः । वस्तुतो विश्वकर्मणा निर्मितां विचार्यमाणे केनापि मनसा निर्मितामिव स्थितामित्युत्प्रेक्षा ।। 5.2.21 ।।
द्वारमुत्तरमासाद्य चिन्तयामास वानरः ।। 5.2.22 ।।
द्वारमिति । उत्तरं द्वारमासाद्य चिन्तयामास मनसा निरूपयामास,
वैदेहीदर्शनोपायमिति शेषः ।। 5.2.22 ।।
केलासशिखरप्रख्यामालिखन्तीमिवाम्बरम् ।
डीयमानामिवाकाशमुच्छ्रितैर्भवनोत्तमैः ।। 5.2.23।।
संपूर्णा राक्षसैर्घोरैर्नागैर्भोगवततीमिव ।
अचिन्त्यां सुकृतां स्पष्टां कुबेराध्युषितां पुरा ।। 5.2.24।।
दंष्ट्रिभिर्बहुभिः शूरैः शूलपट्टिशपाणिभिः ।
रक्षितां राक्षसैर्घोरैर्गुहामाशीविषैरिव ।। 5.2.25।।
तस्याश्च महतीं गुप्तिं सागरं च निरीक्ष्य सः ।
रावणं च रिपुं घोरं चिन्तयामास वानरः ।। 5.2.26।।
आगत्यापीह हरयो भविष्यन्ति निरर्थकाः ।
नहि युद्धेन वै लङ्का शक्या जेतुं सुरैरपि ।। 5.2.27।।
इमां तु विषमां दुर्गां लङ्कां रावणपालिताम् ।
प्राप्यापि स महाबाहुः हिं करिष्यति राघवः ।। 4.2.28।।
अवकाशे न सान्त्वस्य राक्षसेष्वभिगम्यते ।
न दानस्य न भेदस्य नैव युद्धस्य दृश्यते ।। 5.2.29।।
चतुर्णामेव हि गतिर्वानराणां महात्मनाम् ।
वालिपुत्रस्य नीलस्य मम राज्ञश्च धीमतः ।। 5.2.30।।
कैलासेत्यादि । डीयमानां गच्छन्तीम् “डीङ् विहायसा गतौ” इत्यस्माच्छानच् ।। 5.2.2330।।
यावज्जानामि वैदेहीं यदि जीवति वा न वा ।
तत्रैव चिन्तयिष्यामि दृष्ट्वा तां जनकात्मजाम् ।। 5.2.31 ।।
एवं विचार्य नायमेदद्विचारकाल इत्यनुशेते– यावदिति । यावत् यदा जीवति वा न वेति वैदेहीं जानामि । तत्रैव काले तां जनकात्मजां दृष्ट्वा चिन्तयिष्यामि । यद्वा यावच्छब्दो ऽवधारणे । जानाम्येव जीवति वा नवेति जानाम्येव । यदि जीवति तदा तां
जनकात्मजां दृष्ट्वा तत्रैव तत्काल एव चिन्तयिष्यामीत्यन्वयः ।। 5.2.31।।
ततः स चिन्तयामास मुहूर्तं कपिकुञ्जरः ।
गिरिशृङ्गे स्थितस्तस्मिन् रामस्याभ्युदये रतः ।। 5.2.32 ।।
अनेन रूपेण मया न शक्या पुरी ।
प्रवेष्टुं राक्षसैर्गुप्ता क्रूरैर्बलसमन्वितैः ।। 5.2.33।।
उग्रौजसो महावीर्या बलवन्तश्च राक्षसाः ।
वञ्चनीया मया सर्वे जानकीं परिमार्गता ।। 4.2.34।।
तत इति । चिन्तयामास, वैदेहीदर्शनोपायमिति शेषः ।। 5.2.3234।।
लक्ष्यालक्ष्येण रूपेण रात्रौ लङ्कापुरी मया ।
प्रवेष्टुं प्राप्तकालं मे कृत्यं साधयितुं महत् ।। 4.2.35।।
लक्ष्यालक्ष्येति । लक्ष्यशरीरत्वे राक्षसा गृह्णीयुः । अलक्ष्यशरीरत्वे सर्वा लङ्का न विचेतुं शक्या । कृत्यं साधयितुं प्रवेष्टुं कृत्यसाधनाय प्रवेष्टुम् प्राप्तकालं युक्तम् ।। 5.2.35।।
तां पुरीं तादृशीं दृष्ट्वा दुराधर्षां सुरासुरैः ।
हनुमांश्चिन्तयामास विनिःश्वस्य मुहुर्मुहुः ।। 4.2.36।।
केनोपायेन पश्येयं मैथिलीं जनकात्मजाम् ।
अदृष्टो राक्षसेन्द्रेण रावणेन दुरात्मना ।। 5.2.37।।
तामिति । विनिश्चित्य सीतानवेषणप्रकारं विनिश्चित्य, मुहुर्मुहुस्तमेव चिन्तयामासेत्यर्थः ।। 5.2.36,37।।
न विनश्येत् कथं कार्यं रामस्य विदितात्मनः ।
एकामेकश्च पश्येयं रहिते जनकात्मजाम् ।। 5.2.38।।
न विनश्येदिति । एकश्च पश्येयमिति । अत्रापि कथमित्यनुषञ्जनीयम् । रहिते एकान्ते ।। 5.2.38।।
भूताश्चार्था विपद्यन्ते देशकालविरोधिताः ।
विक्लवं दूतमासाद्य तमः सूर्योदये यथा ।। 5.2.39।।
पण्डितेन मुहुर्मुहुर्विचार्य कार्याणि कर्तव्यानि नतु पण्डितमानिना सकृद्विचार्य कर्तव्यानि । तथा सति दोषः स्यादित्याह भूताश्चेति । भूताश्चार्थाः सम्यगुपायप्रयोगान्निष्पन्नप्राया अप्यर्थाः । विक्लवम् अधीरम्, अविमृश्यकारिणम् । दृतमासाद्य देशकालविरोधितास्सन्तः । सूर्योदये तमो यथा तम इव तद्दूतस्याविमृश्यकारित्वेन सद्य एव विपद्यन्ते नश्यन्तीत्यर्थः ।। 5.2.39।।
अर्थानर्थान्तरे बुद्धिर्निश्चितापि न शोभते ।
घातयन्ति हि कार्याणि दूताः पण्डितमानिनः ।। 5.2.40।।
न केवलं कार्यहानिः किन्तु स्वाम्यादीनां बुद्धिशून्यतापि स्यादित्याह अर्थेति । अत्रापि विक्लवं दूतमासाद्येत्यनुवर्तते । अर्थानर्थान्ते अर्थानर्थयोः प्रयोजनसाधनयोः कार्याकार्ययोः अन्तरे विषये, निश्चिता राज्ञा सचिवैश्च निर्णीता बुद्धिः विक्लवं दूतमासाद्य न शोभते, अनर्थकारिणी भवतीत्यर्थः । इदमेव समर्थयते घातयन्तीति ।। 5.2.40।।
न विनश्येत्कथं कार्यं वैक्लव्यं न कथं भवेत् ।
लङ्घनं च समुद्रस्य कथं नु न वृथा भवेत् ।। 4.2.41 ।।
प्रागुक्तरदोषाः स्वस्मिन्कथं न स्युरिति चिन्तयति न विनश्येदिति । कार्यं रामकार्यम् । कथं केनोपायेन । न विनश्येत् किमद्यापराह्ण एव लङ्का प्रवेष्टव्या उत रात्रौ, किमनेनैव महता रूपेण प्रवेष्टव्या उत ह्रस्वेन रूपेणेत्यर्थः । वैक्लव्यं ममापाण्डित्यं कथं न भवेत् ।। 5.2.41 ।।
मयि दृष्टे तु रक्षोभी रामस्य विदितात्मनः ।
भवेद्व्यर्थंमिदं कार्यं रावणानर्थमिच्छतः ।। 5.2.42 ।।
अपराह्णे प्रवेशदोषमाह मयीति ।। 5.2.42 ।।
नहि शक्य क्वचित् स्थातुमविज्ञातेन राक्षसैः ।
अपि राक्षसरूपेण किमुतान्येन केनचित् ।। 5.2.43।।
वायुरप्यत्र न ज्ञातश्चरेदिति मतिर्मम ।
नह्यस्त्यविदितं किंचिद्राक्षसानां बलीयसाम् ।। 5.2.44।।
इहाहं यदि तिष्ठामि स्वेन रूपेण संवृतः ।
विनाशमुपायास्यामि भर्तुरर्थश्च हीयते ।। 5.2.45।।
तदहं स्वेन रूपेण रजन्यां ह्रस्वतां गतः ।
लङ्कामधिपतिष्यामि राघवस्यार्थसिद्धये ।। 5.2.46।।
रावणस्य पुरीं रात्रौ प्रविश्य सुदुरासदाम् ।
विचिन्वन् भवनं सर्वं द्रक्ष्यामि जनकात्मजाम् ।। 5.2.47।।
इति संचिन्त्य हनुमान् सूर्यस्यास्तमयं कपिः ।
आचकांक्षे तदा वीरो वैदेह्या दर्शनोत्सुकः ।। 4.2.48।।
महता रूपेण प्रवेशं निराचष्टे– नहीति । स्वेन रूपेण स्वाभाविकमहता रूपेण ।
परिशेषाद्रात्रौ ह्रस्वरूपेणैव प्रवेष्टव्यमित्याह तदहमिति ।। 5.2.4348।।
सूर्ये चास्तं गते रात्रौ देहं संक्षिप्य मारुतिः ।
वृषदंशकमात्रः सन् बभूवाद्भुतदर्शनः ।। 5.2.49।।
सूर्य इति । स्वेन रूपेण (पृ)वृषदंशकमात्रः बिडालप्रमाणः ।। 5.2.49।।
प्रदोषकाले हनुमांस्तूर्णमुत्प्लुत्य वीर्यवान् ।
प्रविवेश पुरीं रम्यां सुविभक्तमहापथाम् ।। 5.2.50।।
प्रदोषकाल इति । प्रविवेश प्रवेष्टुमुपक्रान्तः, चतुर्थे सर्गे प्रवेशस्य वक्ष्यमाणत्वात् ।
लङ्कादर्शनं तु त्रिकूटदर्शनस्थित्या ।। 5.2.50।।
प्रासादमालाविततां स्तम्भैः काञ्चनराजतैः ।
शातकुम्भमयैर्जालैर्गन्धर्वनगरोपमाम् ।। 5.2.51।।
प्रासादेत्यादि । काञ्चनराजतैः स्तम्भैः शातकुम्भमयैर्जालैश्च उपलक्षिताम् । गन्धर्वनगरोपमामिति । गन्धर्वनगरं नाम नानारत्नमयगोपुरप्रासादादियुक्तनगरादिवद्भासमानमभ्रचित्रम् तद्वदाश्चर्यवहामित्यर्थः । यथोक्तम्– “अनेकरत्नाकृति खे विराजते पुरं पताकाध्वजतोरणान्वितम् । यदा तदा हस्तिमनुष्यवाचिनां पिबत्यसृग्भूरिरणे वसुन्धरा ।।” इति ।। 5.2.51 ।।
सप्तभूमाष्टभूमैश्च स ददर्श महापुरीम् ।
तलैः स्फटिकसंकीर्णैः कार्तस्वरविभूषितैः ।। 5.2.52।।
वैडूर्यमणिचित्रैश्च मुक्ताजालविभूषितैः ।
तलैः शुशुभिरे तानि भवनान्यत्र रक्षसाम् ।। 5.2.53।।
काञ्चनानि विचित्राणि तोरणानि च रक्षसाम् ।
लङ्कामुद्द्योतयामासुः सर्वतः समलङ्कृताम् ।। 5.2.54।।
सप्तभूमाष्टभूमैश्चेति । भूमिशब्देन आसनशयनादियोग्यं तलमुच्यते । सप्त भूमयो येषां ते सप्तभूमाः । “कृष्णोदक्पाण्डुसंख्यापूर्वाया भूमेरजिष्यते” इत्यच् समासान्तः ।। एवमष्टभूमाः । सप्तभूमादिशब्देन तादृशाः प्रासादविशेषो उच्यन्ते । यद्वा प्रासादैरिति शेषः । तैरुपलक्षितम् ।। 5.2.5254।।
अचिन्त्यामाद्भुताकारां दृष्ट्वा लङ्कां महाकपिः ।
आसीद्विषण्णो हृष्टश्च वैदेह्या दर्शनोत्सुक ।। 5.2.55।।
अचिन्त्येति । विषण्णः हृष्टश्चेति । अचिन्त्या दुष्प्रवेशेति च विषण्णः, यते ऽद्भुताकारा अतो विस्मयनीयतया हृष्टः ।। 5.2.55।।
स पाण्डुरो द्विद्धविमानामालिनीं महार्हजाम्बूनदजालतोरणाम् ।
यशस्विनीं रावणबाहुपालितां क्षपाचरैर्भीमबलैः समावृताम् ।। 5.2.56।।
स इति । पूर्वश्लोकेनायमेकान्वयः । सुधाधवलनिम्नोन्नतविमानाकारभवनमालिनीमित्यर्थः ।। 5.2.56।।
चन्द्रो ऽपि साचिव्यमिवास्य कुर्वंस्तारागणैर्मध्यगतो विराजन् ।
ज्योत्स्नावितानेन वितत्य लेकमुत्तिष्ठते नैतसहस्ररश्मिः ।। 5.2.57।।
शङ्खप्रभं क्षीरमृणालवर्णमुद्गच्छमानं व्यवभासमानम् ।
ददर्श चन्द्रं स हरिप्रवीरः पोप्लूयमानं सरसीव हंसम् ।। 5.2.58।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे द्वितायः सर्गः ।। 5.2।।
इदानीं चन्द्रोदयकाल इत्याह–चन्द्रोपीति । मध्यगतः सन्निधानात्तारागणमध्यगतः । तारागणैरिति सहयोगे तृतीया । ज्योत्स्नावितानेन लोकं वितत्य व्याप्य उत्तिष्ठते आविर्भवति स्म । “उदो ऽनूर्ध्वकर्मणि” इत्यात्मनेपदम् ।। 5.2.57,58।।
इति श्रीगोवन्दराजविरचिते श्रीसामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने द्वितीयः सर्गः ।। 5.2।।