श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे पञ्चचत्वारिंशः सर्गः
ततस्ते राक्षसेन्द्रेण चोदिता मन्त्रिणः सुताः ।
निर्युयुर्भवनात्तस्मात् सप्त सप्तार्चिवर्चसः ।। 5.45.1।।
ततस्त इत्यादि । भवनात् तस्मात् रावणभवनात् । सप्तार्चिवर्चस इत्यत्र सप्तार्चीति इकारान्तत्वमार्षम् ।। 5.45.1।।३
महाबलपरीवारा धनुष्मन्तो महाबलाः ।
कृतास्त्रास्त्रविदां श्रेष्ठाः परस्परजयैषिणः ।। 5.45.2।।
कृतास्त्राः शिक्षिताश्त्राः । आर्षः सन्धिः । कृतास्त्राणामस्त्रविदां च श्रेष्ठा इति वा । ज्ञानसिक्षे उभे अप्येषां स्त इति भावः । परस्परजयैषिणः प्रत्यकं हनुमज्जयैषिण इत्यर्थः ।। 5.45.2।।
हेमजालपरिक्षिप्तैर्ध्वजवद्भिः पताकिभिः ।
तोयदस्वननिर्घोषैर्वाजियुक्तैर्महारथैः ।। 5.45.3।।
तप्तकाञ्चनचित्राणि चापान्यमितविक्रमाः ।
विस्फारयन्तः संहृष्टास्तडित्वन्त इवाम्बुदाः ।। 5.45.4।।
जनन्यस्तु ततस्तेषां विदित्वा किङ्करान् हतान् ।
बभूवुः शोकसम्भ्रान्ताः सबान्धवसुहृज्जनाः ।। 5.45.5।।
ते परस्परसङ्घर्षात्तप्तकाञ्चनभूषणाः ।
अभिपेतुर्हनूमन्तं तोरणस्थमवस्थितम् ।। 5.45.6।।
सृजन्तो बाणवृष्टिं ते रथगर्जितनिःस्वनाः ।
वृष्टिमन्त इवाम्भोदा विचेरुर्नैर्ऋताम्बुदाः ।। 5.45.7।।
अवकीर्णस्ततस्ताभिर्हनुमाञ्छरवृष्टिभिः ।
अभवत् संवृताकारः शैलराडिव वृष्टिभिः ।। 5.45.8।।
हेमजालपरिक्षिप्तैः सुवर्णजालविनिर्मितैः । स्वसाधारणचिह्नयुक्तं ध्वजम् । केवलचित्रवस्त्रालभ्कृता पताका । तोयदस्वननिर्घोषैः तोयदस्वनतुल्यनिर्घोषवद्भिः ।। 5.45.38।।
स शरान् मोघयामास तेषामाशुचरः कपिः ।
रथवेगं च वीराणां विचरन् विमले ऽम्बरे ।। 5.45.9।।
स तैः क्रीडन् धनुष्मद्भिर्व्योम्नि वीरः प्रकाशते ।
धनुष्मद्भिर्यथा मेघैर्मारुतः प्रभुरम्बरे ।। 5.45.10।।
स शरान् मोघयामास, यथा शराः स्वस्मिन्न पतन्ति तथा चकारेत्यर्थः । रथवेगं च मोघयामासेत्यन्वयः । यथा रथवेगास्स्वप्रहाराय न भवन्ति तथा समचरदित्यर्थः ।। 5.45.910।।
स कृत्वा निनदं घोरं त्रासयंस्तां महाचमूम् ।
चकार हनुमान् वेगं तेषु रक्षस्सु वीर्यवान् ।। 5.45.11।।
वेगं संहारोद्योगम् ।। 5.45.11।।
तलेनाभ्यहनत् कांश्चित् पादैः कांश्चित् परन्तपः ।
मुष्टिना ऽभ्यहनत् कांश्चिन्नखैः कांश्चिद् व्यदारयत् ।। 5.45.12।।
प्रममाथोरसा कांश्चिदूरुभ्यामपरान् कपिः ।
केचित्तस्य निनादेन तत्रैव पतिता भुवि ।। 5.45.13।।
ततस्तेष्ववसन्नेषु भूमौ निपतितेषु च ।
तत्सैन्यमगमत्सर्वं दिशो भयार्दितम् ।। 5.45.14।।
पादैः कांश्चिदिति बहुवचनं वानराणां द्विपात्सु चतुष्पात्सु च ग्रहणात् ।। 5.45.1214।।
विनेदुर्विस्वरं नागा निपेतुर्भुवि वाजिनः ।
भग्ननीडध्वजच्छत्त्रैर्भूश्च कीर्णा ऽभवद्रथैः ।। 5.45.15।।
नीडं ध्वजावयवविशेषः ।। 5.45.15।।
स्रवता रुधिरेणाथस्रवन्त्यो दर्शिताः पथि ।
विविधैश्च स्वरैर्लङ्का ननाद विकृतं तदा ।। 5.45.16।।
स तान् प्रवृद्धान् विनिहत्य राक्षसान् महाबलश्चण्डपराक्रमः कपिः ।
युयुत्सुरन्यैः पुनरेव राक्षसैस्तमेव वीरो ऽभिजगाम तोरणम् ।। 5.45.17।।
इत्यर्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे पञ्चचत्वारिंशः सर्गः ।। 5.45।।
स्रवन्त्यः नद्यः । विकृतं यथा तथा ननाद प्रतिध्वानवती बभूव ।। 5.45.16,17।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने पञ्चचत्वारिंशः सर्गः ।। 5.45।।