श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे सप्तदशः सर्गः
ततः कुमुदषण्डाभो निर्मलो निर्मलं स्वयम् ।
प्रजगाम नभश्चन्द्रो हंसो नीलमिवोदकम् ।। 5.17.1।।
साचिव्यमिव कुर्वन् स प्रभया निर्मलप्रभः ।
चन्द्रमा रश्मिभिः शीतैः सिषेवे पवनात्मजम् ।। 5.17.2।।
तत इत्यादि । प्रजगाम प्रकर्षेण जगाम, आकाशपरभागं प्राप्त इत्यर्थः ।। 5.17.12।।
स ददर्श ततः सीतां पूर्णचन्द्रनिभाननाम् ।
शोकभारैरिव न्यस्तां भारैर्नावमिवाम्भसि ।। 5.17.3।।
स इति । शोकभारैर्न्यस्तामिव आक्रान्तामिव स्थिताम् । अत एव भारैर्न्यस्ता नावमिव स्थिताम् ।। 5.17.3।।
दिदृक्षमाणो वैदेहीं हनुमान् मारुतात्मजः ।
स ददर्शाविदूरस्था राक्षसीर्घोरदर्शनाः ।। 5.17.4।।
एकाक्षीमेककर्णां च कर्णप्रावराणां तथा ।
अकर्णां शङ्कुकर्णां च मस्तकीच्छ्वासनासिकाम् ।। 5.17.5।।
अतिकायोत्तमाङ्गीं च तनुदार्घशिरोधराम् ।
ध्वस्तकेशीं तथा ऽकेशीं केशकम्बलधारिणीम् ।। 5.17.6।।
दिदृक्षमाण इत्यादि । कर्णौ प्रावरणे शिरस आच्छादकौ यस्याः सा कर्णप्रावरणा ताम् । शङ्कुवत्कर्णौ यस्यास्तां शङ्कुकर्णाम् । मस्तकोच्छ्वासनासिकाम् ऊर्ध्वमुखनासिकामित्यर्थः ।। 5.17.46।।
लम्बकर्णललाटां च लम्बोदरपयोधराम् ।
लम्बोष्ठीं चुबुकोष्ठीं च लम्बास्यां लम्बजानुकाम् ।। 5.17.7।।
अतिकायोत्तमाङ्गीम् । अत्रातिकायशब्देन महत्त्वमुच्यते । महाशिरस्कामित्यर्थः । ध्वस्तकेशीं स्वल्पकेशीम् । अकेशीम् अनुत्पन्नकेशीम् । केशकम्बलधारिणीं कम्बलरूपकेशधारिणीम् । लम्बे कर्णललाटे यस्यास्सा लम्बकर्णललाटा ताम् ।। 5.17.7।।
ह्रस्वदीर्घां तथा कुब्जां विकटां वामनां तथा ।
करालां भुग्नवक्त्रां च पिङ्गाक्षीं विकृताननाम् ।। 5.17.8।।
ह्रस्वदीर्घाम् अधःकाये ऊर्ध्वकाये च क्वचित् ह्रस्वां क्वचिद्दीर्घामित्यर्थः । कुब्जां स्थगुमतीम् । विकटां स्थूलजङ्घाम् । करालां दन्तुराम् । ” करालो दन्तुरे तुङ्गे” इत्यमरः । भुग्नवक्त्रां निम्नवक्त्राम् । विकृताननां नासिकोष्ठविरहिताननामित्यर्थः । एतदन्तस्य पूर्वेण ददर्शेत्यनेनान्वयः । । 4.17.8 ।।
विकृताः पिङ्गलाः कालीः क्रोधनाः कलहप्रियाः ।
कालायसमहाशूलकृटमुद्गरधारिणीः ।। 5.17.9।।
विकृता इत्यादेरुत्तरेण ददर्शेत्यनेनान्वयः । एता एकाक्ष्यादि राक्षसीभ्यो ऽन्याः । विकृताः विकृतवेषाः ।। 4.17.9।।
वराहमृगशार्दूलमहिषाजशिवामुखीः ।
गजोष्ट्रहयपादीश्च निखातशिरसो ऽपराः ।। 5.17.10।।
निखातशिरसः गात्रान्तर्वर्तिशिरसः ।। 5.17.10।।
एकहस्तैकपादाश्च खरकर्ण्यः श्वकर्णिकाः ।
गोकर्णीर्हस्तिकर्णीश्च हरिकर्णीस्तथा ऽपराः ।। 5.17.11।।
अनासा अतिनासाश्च तिर्यङ्नासा विनासिकाः ।
गजसन्निभनासाश्च ललाटोच्छ्वासनासिकाः ।। 5.17.12।।
हरिकर्णीः कपिकर्णीः ।। 5.17.1112।।
हस्तिपादा महापादा गोपादाः पादचूडिकाः ।
अतिमात्रशिरोग्रीवा अतिमात्रकुचोदरीः ।। 5.17.13।।
अतिमात्रास्यनेत्रश्च दीर्घजिह्वानखास्तथा ।
अजामुखीर्हस्तिमुखीर्गोमुखीः सूकरीमुखीः ।। 5.17.14।।
हयोष्ट्रखरवक्त्राश्च राक्षसीर्घोरदर्शनाः ।
शूलमुद्गरहस्ताश्च क्रोधनाः कलहप्रियाः ।। 5.17.15।।
पादे चूडिका यासां ताः पादचूडिकाः । “शिखा चूडा केशपाशी ” इत्यमरः ।। 5.17.1315।।
कराला धूम्रकेशीश्च राक्षसीर्विकृताननाः ।
पिबन्तीः सततं पानं सदा मांससुराप्रियाः ।। 5.17.16।।
मांसशोणितदिग्धाङ्गीर्मांसशोणितभोजनाः ।
ता ददर्श कपिश्रेष्ठो सोमहर्षणदर्शनाः ।
स्कन्धवन्तमुपासीनाः परिवार्य वनस्पतिम् ।। 5.17.17।।
राक्षसीर्विकृतानना इत्यत्र पुनः राक्षसीपदमविस्मरणार्थम् ।। 5.17.1617।।
तस्याधस्ताच्च तां देवीं राजपुत्रीमनिन्दिताम् ।
लक्षयामास लक्ष्मीवान् हनुमान् जनकात्मजाम् ।। 5.17.18।।
निष्प्रभां शोकसन्तप्तां मलसङ्कुलमूर्धजाम् ।। 5.17.19।।
लक्ष्मीवान् सीतादर्शनजनितशोभायुक्तः ।। 5.17.1819।।
क्षीणपुण्यां च्युतां भूमौ तारां निपतितामिव ।
चारित्रव्यपदेशाढ्यां भर्तृदर्शनदुर्गताम् ।। 5.17.20।।
च्युतां स्थानाच्चलिताम् । चारित्रव्यपदेशाढ्यां पतिव्रताधर्माचरणख्यातिसम्पन्नाम् । भर्तृदर्शनेन दुर्गतां दरिद्राम्, भर्तृदर्शनरहितामित्यर्थः ।। 5.17.20।।
भूषणैरुत्तमैर्हीनां भर्तृवात्सल्यभूषणाम् ।
राक्षसाधिपसंरुद्धां बन्धुभिश्च विनाकृताम् ।। 5.17.21।।
भर्तृवात्सल्यभूषणां वात्सल्यपदमत्र स्नेहमात्रवाचि ।। 5.17.21।।
वियूथां सिंहसंरुद्धां बद्धां गजवधूमिव ।
चन्द्ररेखां पयोदान्ते शारदाभ्रैरिवावृताम् ।
क्लुष्टरूपामसंस्पर्शादयुक्तामिव वल्लकीम् । ।। 5.17.22।।
पयोदान्ते वर्षान्ते । चन्द्ररेखायाः स्पष्टास्पष्टत्वद्योतनायेदं विशेषणम् । असंस्पर्शात् उद्वर्तनादिसंस्कारराहित्यात् । अयुक्ताम् अनारोपिततन्त्रीम् । वल्लकीं वीणाम् ।। 5.17.22।।
सीतां भर्तृवशे युक्तामयुक्तां राक्षसीवशे ।। 5.17.23।।
अशोकवनिकामध्ये शोकसागरमाप्लुताम् ।
ताभिः परिवृतां तत्र सग्रहामिव रोहिणीम् ।। 4.17.24।।
सीतामित्यादिपरशेषः । राक्षसीवशे अयुक्ताम् अनवस्थिताम्, तद्वचनान्यश्रृण्वन्तीमित्यर्थः ।। 5.17.2324।।
ददर्श हनुमान् देवीं लतां कुसुमितामिव ।
सा मलेन च दिग्धाङ्गी वपुषा चाप्यलङ्कृता ।
मृणाली पङ्कदिग्धेव विभाति न विभाति च ।। 5.17.25।।
लतां कुसुमितामिव तथा दर्शनीयामित्यर्थः ।। 5.17.25।।
मलिनेन तु वस्त्रेण परिक्लिष्टेन भामिनीम् ।। 5.17.26।।
संवृतां मृगशावाक्षीं ददर्श हनुमान् कपिः ।
तां देवीं दीनवदनामदीनां भर्तृतेजसा ।
रक्षितां स्वेन शीलेन सीतामसितलोचनाम् ।। 5.17.27।।
मलिनेनेत्यादिश्लोकद्वमेकं वाक्यम् ।। 5.17.2627।।
तां दृष्ट्वा हनुमान् सीतां मृगशावनिभेक्षणाम् ।।.17.28।।
मृगकन्यामिव त्रस्तां वीक्षमाणां समन्ततः ।
दहन्तीमिव निःश्वासैर्वृक्षान् पल्लवधारिणः ।। 5.17.29।।
ता क्षमां सुविभक्ताङ्गीं विनाभरणशोभिनीम् ।
प्रहर्षमतुलं लेभे मारुतिः प्रेक्ष्य मैथिलीम् ।। 5.17.30।।
तामित्यादिश्लोकत्रयमेकं वाक्यम् । क्षमां क्षमामिव स्थिताम् । निगीर्याध्यवसानादभेदोक्तिः । तां दृष्ट्वा तां प्रेक्ष्येत्यनयोर्विशेषणविशेष्यभेदान्न पौनरुक्त्यम् । दूरप्रयुक्तस्यानुस्मरणार्थं वा पुनरुक्तिः ।। 5.17.2830।।
हर्षजानि च सो ऽश्रूणि तां दृष्ट्वा मदिरेक्षणाम् ।
मुमोच हनुमांस्तत्र नमश्चक्रे च राघवम् ।। 5.17.31।।
हर्षजानीति । राघवं नमश्चक्रे । उपपदविभक्त्यपेक्षया कारकविभक्तेर्बलीयस्त्वान्नमस्करोति देवानित्यादाविव द्वितीया ।। 5.17.31।।
नमस्कृत्वा स रामाय लक्ष्मणाय च वीर्यवान् ।
सीतादर्शनसंहृष्टो हनुमान् संवृतो ऽभवत् ।। 5.17.32।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे सप्तदशः सर्गः ।। 5.17।।
नमस्कृत्वेति । संवृतः राक्षस्यदर्शनाय शिंशुपापर्णैर्गूढो ऽभूत् ।। 5.17.32।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने सप्तदशः सर्गः ।। 5.17।।