श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे एकषष्टितमः सर्गः
ततो जाम्बवतो वाक्यमगृह्णन्त वनौकसः ।
अङ्गदप्रमुखा वीरा हनूमांश्च महाकपिः ।। 5.61.1 ।।
तत इत्यादि ।। 5.61.1 ।।
प्रीतिमन्तस्ततः सर्वे वायुपुत्रपुरस्सराः ।
महेन्द्राद्रिं परित्यज्य पुप्लुवुः प्लवगर्षभाः ।। 5.61.2 ।।
मेरुमन्दरसङ्काशा मत्ता इव महागजाः ।
छादयन्त इवाकाशं महाकाया महाबलाः ।। 5.61.3 ।।
प्रीतिमन्त इत्यादि ।। 5.61.2,3 ।।
सभाज्यमानं भूतैस्तमात्मवन्तं महाबलम् ।
हनूमन्तं महावेगं वहन्त इव दृष्टिभिः ।। 5.61.4 ।।
सभाज्यमानं संपूज्यमानम् । वहन्त इव दृष्टिभिरिति । प्रीतिपूर्वकानिमिषदर्शनाद्दृष्टिष्वारोप्य नयन्त इवेत्युत्प्रेक्षा ।। 5.61.4 ।।
राघवे चार्थनिर्वृत्तिं कर्तुं च परमं यशः ।
समाधाय समृद्धार्थाः कर्मसिद्धिभिरुन्नताः ।। 5.61.5 ।।
अर्थनिर्वृत्तिम् अर्थसिद्धिम् । समाधाय निश्चित्य सङ्कल्प्य वा । समृद्धार्थाः सिद्धकार्याः । कर्मसिद्धिभिः कार्यसिद्धिभिः उन्नताः इतरेभ्य उत्कृष्टाः ।। 5.61.5 ।।
प्रियाख्यानोन्मुखाः सर्वे सर्वे युद्धाभिनन्दिनः ।
सर्वे रामप्रतीकारे निश्चितार्था मनस्विनः ।। 5.61.6 ।।
प्लवमानाः खमाप्लुत्य ततस्ते काननौकसः ।
नन्दनोपममासेदुर्वनं द्रुमलतायुतम् ।। 5.61.7 ।।
यत्तन्मधुवनं नाम सुग्रीवस्याभिरक्षितम् ।
अधृष्यं सर्वभूतानां सर्वभूतमनोहरम् ।। 5.61.8 ।।
यद्रक्षति महावीर्यः सदा दधिमुखः कपिः ।
मातुलः कपिमुख्यस्य सुग्रीवस्य महात्मनः ।। 5.61.9 ।।
रामप्रतीकारे रामप्रत्युपकारे । पुप्लुवुरिति पुर्वेण सम्बन्धः ।। 5.61.69 ।।
ते तद्वनमुपागम्य बभूवुः परमोत्कटाः ।
वानरा वानरेन्द्रस्य मनः कान्ततमं महत् ।। 5.61.10 ।।
परमोत्कटाः परमोत्सुकाः ।। 5.61.10 ।।
ततस्ते वानरा हृष्टा दृष्ट्वा मधुवनं महत् ।
कुमारमभ्ययाचन्त मधूनि मधुपिङ्गलाः ।। 5.61.11 ।।
मधुपिङ्गलाः मधुवत् पिङ्गलवर्णाः वानराः ।। 5.61.11 ।।
ततः कुमारस्तान् वृद्धाञ्जाम्बवत्प्रमुखान् कपीन् ।
अनुमान्य ददौ तेषां निसर्गं मधुभक्षणे ।। 5.61.12 ।।
अनुमान्य अनुमतिं कारयित्वा । निसर्गं विसर्जनम्, अनुमतिमिति यावत् ।। 5.61.12 ।।
ततश्चानुमताः सर्वे सम्प्रहृष्टा वनौकसः ।
मुदिताः प्रेरिताश्चापि प्रनृत्यन्तो ऽभवंस्ततः ।। 5.61.13 ।।
ततश्चेति । पूर्वमेव सीतादर्शनात् प्रहृष्टाः ततः मधुवनभङ्गे अङ्गदेनानुमतास्सन्तस्ततो मुदिताः तत्प्रेरिताः प्रनृत्यन्तो ऽभवन् ।। 5.61.13 ।।
गायन्ति केचित् प्रणमन्ति केचिन्नृत्यन्ति केचित् प्रहसन्ति केचित् ।
पतन्ति केचिद्विचरन्ति केचित् प्लवन्ति केचित् प्रलपन्ति केचित् ।। 5.61.14 ।।
परस्परं केचिदुपाश्रयन्ते परस्परं केचिदुपाक्रमन्ते ।
परस्परं केचिदुपब्रुवन्ते परस्परं केचिदुपारमन्ते ।। 5.61.15 ।।
द्रुमाद् द्रुमं केचिदभिद्रवन्ते क्षितौ नगाग्रान्निपतन्ति केचित् ।
महीतलात् केचिदुदीर्णवेगा महाद्रुमाग्राण्यभिसम्पतन्ति ।। 5.61.16 ।।
गायन्तमन्यः प्रहसन्नुपैति हसन्तमन्यः प्ररुदन्नुपैति ।
रुदन्तमन्यः प्रणुदन्नुपैति नुदन्तमन्यः प्रणदन्नुपैति ।। 5.61.17 ।।
मधुवनभङ्गाभ्यनुज्ञानकृतं वानरहर्षविकारमेव वर्णयति सर्गशेषेण– गायन्ति केचित् प्रणमन्ति केचिन्नृत्यन्ति केचित्प्रहसन्ति केचित् । पतन्ति केचिद्विचरन्ति केचित्प्लवन्ति केचित्प्रलपन्ति केचित् ।। इति पाठः । प्रणमन्ति अवाक्छिरसः पतन्ति । पतन्ति ऊर्ध्वपादाः पृष्ठेन पतन्ति ।। 5.61.1417 ।।
समाकुलं तत्कपिसैन्यमासीन्मधुप्रपानोत्कटसत्त्वचेष्टम् ।
न चात्र कश्चिन्न बभूव मत्तो न चात्र कश्चिन्न बभूव तृप्तः ।। 5.61.18 ।।
ततो वनं तत्परिभक्ष्यमाणं द्रुमांश्च विध्वंसितपत्रपुष्पान् ।
समीक्ष्य कोपदृधिवक्रनामा निवारयामास कपिः कपींस्तान् ।। 5.61.19 ।।
स तैः प्रवृद्धैः परिभर्त्स्यमानो वनस्य गोप्ता हरिवीरवृद्धः ।
चकार भूयो मतिमुग्रतेजा वनस्य रक्षां प्रति वानरेभ्यः ।। 5.61.20 ।।
उवाच कांश्चित् परुषाणि धृष्टमसक्तमन्यांश्च तलैर्जवान ।
समेत्य कैश्चित् कलहं चकार तथैव साम्नोपजगाम कंश्चित् ।। 5.61.21 ।।
स तैर्मदात् सम्परिवार्य वाक्यैर्बलाच्च तेन प्रतिवार्यमाणैः ।
प्रधर्षितस्त्यक्तभयैः समेत्य प्रकृष्यते चाप्यनवेक्ष्य दोषम् ।। 5.61.22 ।।
समाकुलमिति । मधुप्रपानोत्कटसत्त्वचेष्टं मत्तचित्तचेष्टम् ।। 5.61.1822 ।।
नखैस्तुदन्तो दशनैर्दशन्तस्तलैश्च पादैश्च समापयन्तः ।
मदात् कपिं तं कपयः समग्रा महावनं निर्विषयं च चक्रुः ।। 5.61.23 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे एकषष्टितमः सर्गः ।। 5.61 ।।
नखैरिति । निर्विषयं निर्गतमधुमूलादिभोग्यवस्तुकं चक्रुरित्यर्थः ।। 5.61.23 ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने एकषष्टितमः सर्गः ।। 5.61 ।।