[highlight_content]

36 Sarga सुन्दरकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे षट्त्रिंशः सर्गः

भूय एव महातेजा हनुमान् मारुतात्मजः ।

अब्रवीत् प्रश्रितं वाक्यं सीताप्रत्ययकारणात् ।। 5.36.1।।

भूय इत्यादि ।। 5.36.1।।

वानरो ऽहं महाभागे दूतो रामस्य धीमतः ।

रामनामाङ्कितं चेदं पश्य देव्यङ्गुलीयकम् ।। 5.36.2।।

प्रत्ययार्थं तवानीतं तेन दत्तं महात्मना ।

समाश्वसिहि भद्रं ते क्षीणदुःखफला ह्यसि ।। 5.36.3।।

इत्थं सन्देशकथनादिना देवीं विश्वास्याभिज्ञानाङ्गुलीयकदानेन दृढं विश्वासयति वानरो ऽहमित्यादिना ।। 5.36.23।।

गृहीत्वा प्रेक्षमाणा सा भर्तुः करविभूषणम् ।

भर्तारमिव सम्प्राप्ता जानकी मुदिता ऽभवत् ।। 5.36.4।।

चारु तद्वदनं तस्यास्ताम्रशुक्लायतेक्षणम् ।

अशोभत विशालाक्ष्या राहुमुक्त इवोडुराट् ।। 5.36.5।।

गृहीत्वेति । गृहीत्वा देशान्तरादागतं बन्धुं दृष्ट्वेव स्वयं गृहीतवती । प्रेक्षमाणा । वर्तमानार्थेन शानचा दत्तदृष्टिं न विचालितवतीत्युच्यते । सा पूर्वं रावणत्वेन शङ्कितवती । भर्तुः करविभूषणं पाणिग्रहणकाले हस्तस्पृष्टमाभरणम् । करविभूषणमित्यनेन भोगातिशयात् प्रणवकोपे प्रवृते परस्परमालोकनभाषणादिविरहदशायां काङ्क्षिते भाषणे मानातिशयेन मौने कृते रामो ऽङ्गुलीयकं भूमौ च्यावयति स्म । तदा व्याजेन च्युतमङ्गुलीयकमिति सीतया ऽभिहेति प्रणयकोपशैथिल्यात् परस्परसंश्लेषो भूयो ऽप्यभूत् । एवं घटकभूतं करविभूषणं भर्तारमिव संप्राप्ता अङ्गुलीयकदर्शनात्तस्य कान्तस्य करं स्मृतवती, तत्स्मृत्या बाहुं तत्स्मरणेन तद्विग्रहम् । एवं भावनाप्रकर्षेण तं पुरःस्थितमिव मत्वा तमालिङ्गितवती । जननीबुद्ध्या मुनिस्सम्प्राप्तेवेत्याह, जननीकृतभोगस्यावर्ण्यत्वात् । जानकी शोकहर्षाभ्यां क्लेष्टुमनर्हे कुले जाता । मुदिता ऽभवत् इयमिदानीं मुदिता उदर्के किं भविष्यतीति न जान इत्याहर्षिः ।। 5.36.45।।

ततः सा ह्रीमती बाला भर्तृसन्देशहर्षिता ।

परितुष्टा प्रियं कृत्वा प्रशशंस महाकपिम् ।। 5.36.6।।

प्रियं कृत्वा संमानं कृत्वा ।। 5.36.6।।

विक्रान्तस्त्वं समर्थस्त्वं प्राज्ञस्त्वं वानरोत्तम ।

येनेदं राक्षसपदं त्वयैकेन प्रधर्षितम् ।। 5.36.7।।

शतयोजनविस्तीर्णः सागरो मकरालयः ।

विक्रमश्लाघनीयेन क्रमता गोष्पदीकृतः ।। 5.36.8।।

विक्रान्त इत्यादिपदत्रयेण तद्व्यत्क्रमेण ज्ञानशक्तिबलान्युच्यन्ते । इदं राक्षसपदमिति प्रज्ञोक्ता । त्वयैकेनेति सामर्थ्यम् । प्रधर्षितमिति विक्रमः ।। 5.36.78।।

नहि त्वां प्राकृतं मन्ये वानरं वानरर्षभ ।

यस्य ते नास्ति संत्रासो रावणान्नापि सम्भ्रमः ।। 5.36.9।।

प्राकृतं क्षुद्रम् । संभ्रमः व्यग्रता ।। 5.36.9।।

अर्हसे च कपिश्रेष्ठ मया समभिभाषितुम् ।

यद्यपि प्रेषितस्तेन रामेण विदितात्मना ।। 5.36.10।।

प्रेषयिष्यति दुर्धषो रामो न ह्यपरीक्षितम् ।

पराक्रममविज्ञाय मत्सकाशं विशेषतः ।। 5.36.11।।

दिष्ट्या च कुशली रामो धर्मात्मा सत्यसङ्गरः ।

लक्ष्मणश्च महातेजाः सुमित्रानन्दवर्धनः ।। 5.36.12।।

अर्हस इति । यद्यपीति निपातसमुदायो यस्मादित्यर्थे । अव्ययानामनेकार्थत्वात् ।। 5.36.1012।।

कुशली यदि काकुत्स्थः किन्नु सागरमेखलाम् ।

महीं दहति कोपेन युगान्ताग्निरिवोत्थितः ।। 5.36.13।।

अथ प्रणयरोषेण दूतसन्निधौ रामं गर्हते कुशलीति । काकुत्स्थः परपरिभावसहकुले जातः । अनेन परपरिभाव एव परिहरणीयः न स्वीय इति नियमो ऽस्ति किम् । किंनु सागरमेखलां महीं दहति । अत्र काकुत्स्थः दहति किंनु न दहतीत्यर्थः । सागरमेखलामिति विशेषणेन द्रवद्रव्यस्यैकेन कठिनद्रव्यस्य चैकेन बाणेन भवितव्यं किम् । सागरं सलिलमेवं तैलं कृत्वा महीं दग्धुं समर्थो न किमित्यर्थः । यद्वा स्वपत्नीं वा सुरक्षितपरिधानां करोतीति भावः । अनादिकृतभार्यादा मही कथं दग्धुं शक्येत्यत्राह युगान्तेति । महीमर्यादा तन्नयनरागपर्यन्तैवेति भावः । किं न सागरमेखलामित्यपि पाठः । काकुत्स्थः कुशली यदि तदा किं न दहति । शक्तश्चेद्दहत्येव, न दहति अतो न शक्त इत्यर्थः ।। 5.36.13।।

अथवा शक्तिमन्तौ तौ सुराणामपि निग्रहे ।

ममैव तु न दुःखानामस्ति मन्ये विपर्ययः ।। 5.36.14।।

पक्षान्तरमाह अथवेति ।। 5.36.14।।

कच्चिन्न व्यथितो रामः कच्चिन्न परितप्यते ।

उत्तराणि च कार्याणि कुरुते पुरुषोत्तमः ।। 5.36.15।।

कच्चिदिति । न व्यथितः न कृशः । उत्तराणि कार्याणि मत्प्राप्तिसाधकानि कच्चित्कुरुते? ।। 5.36.15।।

कच्चिन्न दीनः सम्भ्रान्तः कार्येषु च न मुह्यति ।

कच्चित् पुर्षकार्याणि कुरुते नृपतेः सुतः ।। 5.36.16।।

न दीनः कच्चित् सम्भ्रान्तः सन् कार्येषु न मुह्यति कच्चिदित्यन्वयः । पुरुषकार्याणि पुरुषेण कर्तव्यानि ।। 5.36.16।।

द्विविधं त्रिविधोपायमुपायमपि सेवते ।

विजिगीषुः सुहृत् कच्चिन्मित्रेषु च परन्तपः ।। 5.36.17।।

तान्येवाह द्विविधमिति । परन्तपो रामः मित्रेषु विषये सुहृत्सन् द्विविधं सामदानरूपमुपायमपि सेवते कच्चित् । चकारेणामित्रास्समुच्चीयन्ते । अमित्रेषु विषये विजिगीषुस्सन् त्रिविधोपायं दानभेददण्डान् सेवते प्रयुङ्क्ते कच्चित्? । सुहृत्सु कदाचिदपि भेददण्डौ न कार्यौ, शत्रुषु न सामेति भावः । योजनान्तरे विजिगीषुसुहृत्यपदयोः प्रयोजनं मृग्यम् ।। 5.36.17।।

कच्चिन्मित्राणि लभते मित्रैश्चाप्यभिगम्यते ।

कच्चित् कल्याणमित्रश्च मित्रैश्चापि पुरस्कृतः ।। 5.36.18।।

अभिगम्यते लभ्यते । मित्रस्य कंचिदुपकारं कृत्वा स्वयमुपकारं मित्रादपेक्षते कच्चिदित्यर्थः । कल्याणमित्रः पुरस्कृतमित्र इत्यर्थः ।। 5.36.18।।

कच्चिदाशास्ति देवानां प्रसादं पार्थिवात्मजः ।

कच्चित् पुरुषकारं च दैवं च प्रतिपद्यते ।। 5.36.19।।

कच्चिन्न विगतस्नेहः प्रसादान्मयि राघवः ।

कच्चिन्मां व्यसनादस्मान्मोक्षयिष्यति वानर ।। 5.35.20।।

आशास्ति आशास्ते । पुरुषाकारं स्वबलम् । एकैकस्यानर्थहेतुत्वादिति भावः ।। 5.36.1920।।

सुखानामुचितो नित्यमसुखानामनूचितः ।

दुःखमुत्तरमासाद्य कच्चिद्रामो न सीदति ।। 5.36.21।।

कौसल्यायास्तथा कच्चित् सुमित्रायास्तथैव च ।

अभीक्ष्णं श्रुयते कच्चित् कुशलं भरतस्य च ।। 5.36.22।।

सुखानामिति । अनूचित इति दीर्घ आर्षः । उत्तरम् उत्कृष्टम् ।। 5.36.2122।।

मन्निमित्तेन मानार्हः कच्चिच्छोकेन राघवः ।

कच्चिन्नान्यमना रामः कच्चिन्मां तारयिष्यति ।। 5.36.23।।

मन्निमित्तेन मया हेतुना । अन्यमनाः कार्यान्तरासक्तः ।। 5.36.23।।

कच्चिदक्षौहिणीं भीमां भरतो भ्रातृवत्सलः ।

ध्वजिनीं मन्त्रिभिर्गुप्तां प्रेषयिष्यति मत्कृते ।। 5.36.24।।

वानराधिपतिः श्रीमान् सुग्रीवः कच्चिदेष्यति ।

मत्कृते हरिभिर्वीरैर्वृतो दन्तनखायुधैः ।। 5.36.25।।

कच्चिच्च लक्ष्मणः शूरः सुमित्रानन्दवर्धनः ।

अस्त्रविच्छरजालेन राक्षसान् विधमिष्यति ।। 5.36.26।।

रौद्रेण कच्चिदस्त्रेण ज्वलता निहतं रणे ।

द्रक्ष्याम्यल्पेन कालेन रावणं ससुहृज्जनम् ।। 5.36.27।।

कच्चिदक्षैहिणीमिति । ध्वजिनीं सेनाम् ।। 5.36.2427।।

कच्चिन्न तद्धेमसमानवर्णं तस्याननं पद्मसमानगन्धि ।

मया विना शुष्यति शोकदीनं जलक्षये पद्ममिवातपेन ।। 5.36.28।।

हेमशब्देन तद्वर्ण उच्यते । अभेदेन हेमवत्स्पृहणीयमित्यर्थः । मया विनेति जलक्षयस्थानम् । शोकदीनमित्यातपस्थानम् ।। 5.36.28।।

धर्मापदेशात्त्यजतश्च राज्यं मां चाप्यरण्यं नयतः पदातिम् ।

नासीद्व्यथा यस्य न भीर्न शोकः कच्चिच्च धैर्यं हृदये करोति ।। 5.36.29।।

धर्मापदेशाद्धर्मोद्देशार्थम्, धर्ममुद्दिश्येत्यर्थः । यद्वा धर्मव्याजाद्धेतोः । राज्यत्यागाद्व्यथा नासीत् । अरण्यसञ्चाराद्भीर्नासीत् । मत्पादसञ्चारच्छोको नासीत् । सः तादृशधैर्ययुक्तो रामो मद्विश्लेषे ऽपि हृदये धैर्यं करोति कच्चित्? ।। 5.36.29।।

न चास्य माता न पिता च नान्यः स्नेहाद्विशिष्टो ऽस्ति मया समो वा ।

तावत्त्वहं दूत जिजीविषेयं यावत् प्रवृत्तिं श्रृणुयां प्रियस्य ।। 5.36.30।।

धैर्याकरणे हेतुमाह न चास्येति । प्रवृत्तिं मदानयनवार्ताम् । प्रणयरोषपक्षे किमेष पितृवचनपरिपालनाय वनं प्राप्तः? न, किन्तु ममैव हिंसायै इति भावः । रामस्यैव दोषः न ममेति सीतयोक्ते वयमेव किं सम्यक् स्थितवन्तः रामविश्लेषानन्तरक्षणे न तनुस्त्यक्ता हीत्येवं हनुमदाशयं ज्ञात्वा ऽ ऽह न चास्येति । रामस्य मात्रादयः अन्यो बन्धुश्च स्नेहाद्विशिष्टा न भवन्ति । लोके कस्यचिन्माता पिता भ्रातेत्येवं स्नेहो विसृत्वरो भवति । नचैवं रामस्य मात्रादिषु संभावितः । सर्वो ऽपि मय्येकमार्गः कृतः । यावत्प्रियस्य प्रवृत्तिं श्रृणुयां श्रृणोमि तावज्जिजीविषेयं जीवेयम् । इच्छाया इष्यमाणप्रधानत्वादिष्यमाणां जीवनमिहाभिधीयते । रामः न मांसं राघवो भुङ्क्ते’ इत्युक्तरीत्या भोजनम् अनिद्रः सततं रामः’ इति निद्रां च हित्वा समुद्रं बद्ध्वा समागच्छन् तापार्ते प्रपां गते तस्यां भिन्नपानीयपात्रायां सत्यामिव मयि नष्टायां न जीवेत् । अतस्तदागमनपर्यन्तं मया जीवितव्यं परतन्त्रशरीरत्वात् । तदागमनानन्तरमपि यदि जीविष्यामि तदेत्थं वदेदिति भावः । एतावत्पर्यन्तं वानरेति संबोध्य संप्रति दूतेत्याह, रामविषयप्रणयरोषस्य दूतपर्यन्तं व्यापनात् । तेन प्रहितः खलु भवानपीति भावः । प्रणयरोषाभावपक्षेपि न चास्येति । अस्य माता चास्मिन् स्नेहात् मत्तः न विशिष्टा मया न समा च । यथा ऽहमस्मिन् स्निग्धा तथा नान्य इत्यर्थः । एतदेवोत्तरार्धेन समर्थयति तावदिति ।। 5.36.30।।

इतीव देवी वचनं महार्थं तं वानरेन्द्रं मधुरार्थमुक्त्वा ।

श्रोतुं पुनस्तस्य वचो ऽभिरामं रामार्थयुक्तं विरराम रामा ।। 5.36.31।।

सीताया वचनं श्रुत्वा मारुतिर्भीमविक्रमः ।

शिरस्यञ्जलिमाधाय वाक्यमुत्तरमब्रवीत् ।। 5.36.32।।

इतीव पूर्वं कतिपयानर्थान् विविच्योक्तवान्, संप्रति प्रणयधारासूक्ष्ममृषीणामपदं हि, तत इतीवेत्याह । देवी वल्लभाया व्यवहारो बहिष्ठानां न प्रतिभाति हि, वचनं महार्थं न केवलं बहिष्ठानाम् देशिकानामस्माकमपीत्यर्थः, महार्थमित्युक्तेः । तं वानरेन्द्रम् सुग्रीवस्य शेषत्वे ऽभिषिक्तत्वे ऽपि पारतन्त्र्ये हनुमानभिषिक्त इत्यर्थः । मधुरार्थं माधुर्येण मध्ये हनुमान्न

वक्तुमारभतेति भावः । उक्त्वा स तदीयाश्च यथा ऽभिवर्धन्ते तथोक्त्वा । श्रोतुं पुनस्तस्य वचो ऽभिरामं स्ववचनानुरूपोत्तरं श्रोतुम् । रामार्थयुक्तं रामप्रयोजनयुक्तम्, रामरूपाभिधेययुक्तं वा । विरराम स्वयं चिरभाषणात् स्वामिन्यां भाषमाणायां मध्ये भृत्येनोक्त्ययोगाच्च तूष्णींभूतस्यावकाशप्रदानमकरोत् । रामा पारम्पर्य्यं विना साक्षाद्वचःसौन्दर्यदर्शनं रामेण न लब्धं हीति मुनिः खिद्यति ।। 5.36.3132।।

न त्वामिहस्थां जानीते रामः कमललोचने ।

तेन त्वां नानयत्याशु शचीमिव पुरन्दरः ।। 5.36.33।।

न त्वामिति । रमः “न जीवेयं क्षणमपि विना तामसितेक्षणाम्” इत्यध्यवसायी कथं नागच्छेत् । कमललोचने त्वन्नयनसौन्दर्यं दर्पणतले ऽपि किन्न दृष्टवती भवती । एतत्सैन्दर्यवतीं कथं त्वां विना स तिष्ठेत् । तेन अनेन हेतुना । आशु त्वां नानयति । शचीं पुरन्दर इव । अनुह्लादहस्तगतां शचीमिन्द्रः कञ्चित्कालमविज्ञाय ज्ञानानन्तरं यथा आनीतवान् तथेति भावः ।। 5.36.33।।

श्रुत्वैव तु वचो मह्यं क्षिप्रमेष्यति राघवः ।

चमूं प्रकर्षन् महतीं हर्यृक्षगणसङ्कुलाम् ।। 5.36.34।।

मह्यं मम । व्यत्यनेन षष्ट्यर्थे चतुर्थी ।। 5.36.34।।

विष्टम्भयित्वा बाणौधैरक्षोभ्यं वरुणालयम् ।

करिष्यति पुरीं लङ्कां काकुत्स्थः शान्तराक्षसाम् ।। 5.36.35।।

समुद्रं कथमतिक्रमिष्यतीत्यात्राह विष्टम्भयित्वेति । विष्टम्भयित्वा स्तब्धं कृत्वेत्यर्थः ।। 5.36.35।।

तत्र यद्यन्तरा मृत्युर्यदि देवाः सहासुराः ।।

स्थास्यन्ति पथि रामस्य स तानपि वधिष्यति ।। 5.36.36।।

तवादर्शनजेनार्ये शोकेन स परिप्लुतः ।

न शर्म लभते रामः सिंहार्दित इव द्विपः ।। 5.36.37।।

तत्रेति । स्थास्यन्ति, प्रतिबन्धकतयेति शेषः ।। 5.36.3637।।

मलयेन च विन्ध्येन मेरुणा मन्दरेण च ।

दर्दुरेण च ते देवि शपे मूलफलेन च ।। 5.36.38।।

गिरीणां स्वजीवनस्थानत्वात्तैः शपति मलयेनेति । दर्दुरो नाम मलयपरिसरवर्ती चन्दनप्रभवः कश्चित्पर्वतः ।। 5.36.38।।

यथा सुनयनं वल्गु बिम्बोष्ठं चारुकुण्डलम् ।

मुखं द्रक्ष्यसि रामस्य पूर्णचन्द्रमिवोदितम् ।। 5.36.39।।

यथेति । तथा शप इति पूर्वेणान्वयः ।। 5.36.39।।

क्षिप्रं द्रक्ष्यासि वैदेहि रामं प्रस्रवणे गिरौ ।

शतक्रतुमिवासीनं नाकपृष्ठस्य मूर्धनि ।। 5.36.40।।

क्षिप्रमिति । नाकपृष्ठो नाम इन्द्रस्यासाधारणस्वर्गस्थानविशेषः ।। 5.36.40।।

न मांसं राघवो भुङ्क्ते न चापि मधु सेवते ।

वन्यं सुविहितं नित्यं भक्तमश्नाति पञ्चमम् ।। 5.36.41।।

न मांसमिति । “दृङ्मनः सङ्गसङ्कल्पजागराः कृशता ऽरतिः । ह्रीत्यागोन्मादमूर्च्छान्ता इत्यनङ्गदशा दस ।।” इति दशावस्थास्वरतिरनेनोच्यत्। मांसाद्यभोजनम् अरत्या ततः पूर्वं तद्भोजनोक्तेः। वन्यं वने भवं कन्दमूलादिकम्। सुविहितं वानप्रस्थयोग्यत्वेन विहितम्। भक्तम् अन्नम्। पञ्चमं प्रातःसङ्गवमध्याह्नापराह्णसायंरूपेषु कालेषु पञ्चमकालिकं शरीरधारणमात्रोपयुक्तं भुङ्क्त इत्यर्थः।। 5.36.41 ।।

नैव दंशान्न मशकान् न कीटान्न सरीसृपान् ।

राघवो ऽपनयेद्गात्रात् त्वद्गतेनान्तरात्मना ।। 5.36.42।।

नित्यं ध्यानपरो रामो नित्यं शोकपरायणः ।

नान्यच्चिन्तयते किञ्चित् स तु कामवशं गतः ।। 5.36.43।।

अथ मनःसङ्गावस्थामाह नैवेति । दंशास्तु वनमक्षिकाः तान् । मशकांश्चेत्यनेन दंशमशकापरिज्ञानमुक्तम् । कीटसरीसृपोक्त्या उपरिशरीरं चरतामनिवृत्तिरुच्यते । तत्र हेतुः त्वद्गतेनान्तरात्मना । परकायप्रविष्टस्य कथं त्यक्तशरीरविकृतिज्ञानम्? तत्र स्थितः खलु तत्रत्यपीडां ज्ञास्यतीति भावः ।। 5.36.4243।।

अनिद्रः सततं रामः सुप्तो ऽपि च नरोत्तमः ।

सीतेति मधुरां वाणीं व्याहरन् प्रतिबुद्ध्यते ।। 5.36.44।।

दृष्ट्वा फलं वा पुष्पं वा यद्वा ऽन्यत् सुमनोहरम् ।

बहुशो हा प्रियेत्येवं श्वसंस्त्वामभिभाषते ।। 5.36.45।।

स देवि नित्यं परितप्यमानस्त्वामेव सीतेत्यभिभाषमाणः ।

दृढव्रतो राजसुतो महात्मा तवैव लाभाय कृतप्रयत्नः ।। 5.36.46।।

तथा ऽस्य जागरावस्थामाह अनिद्र इति । अनिद्रः सततं रामः निद्रया सर्वदा कालक्षेपार्हो ऽपि सन्ततमनिद्रो ऽभूत् । सुप्तो ऽपि चेत्यनेन परगतार्थानुसन्धानाभाव उच्यते । नरोत्तमः अभिमतविश्लेषे तथा ऽवस्थानमेव हि पुरुषोत्तमस्य लक्षणमिति भावः । सीतेति अप्राकृतसौन्दर्याद्यनुसंधानेन वासनावशाद्विलपति । मधुरां वाणीम् वासनावशाद्विलपत्यपि शब्दस्वभावाद्रसना जलस्यान्दिनी भवतीत्यर्थः । प्रतिबुद्ध्यते क्लेशहीनदशाविगमात्पुनरपि बाधकोद्दीपनसन्दर्शनेन बाधार्हः स्थित इत्यर्थः ।। 5.36.4446।।

सा रामसङ्कीर्तनवीतशोका रामस्य शोकेन समानशोका ।

शरन्मुखे साम्बुदशेषचन्द्रा निशेव वैदेहसुता बभूव ।। 5.36.47।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे षट्त्रिंशः सर्गः ।। 5.36।।

सा रामेति । रामसद्भावातिशङ्कया कश्चिच्छोकः सीतायाः रामविरहेण कश्चिच्छोकः । तत्राद्यो हनुमदुक्त्या निवृत्तः, द्वितीयस्तु वर्तत इत्याह रामस्य शोकेन समानशोका । तद्विरकृतत्वेन तत्तुल्यशोका । अधिकशोकस्तु निवृत्त इति भावः । यद्वा रासङ्कीर्तनेन वीतशोकापि नैव दंशान्न मशकान्’ इत्यादिश्रवणेन रामतुल्यशोका प्रकाशाप्रकाशशरन्मुखनिशेवाभूदित्यर्थः ।। 5.36.47।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने षट्त्रिशः सर्गः ।। 5.36।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.