[highlight_content]

59 Sarga सुन्दरकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे एकोनषष्टितमः सर्गः

एतदाख्याय तत्सर्वं हनुमान् मारुतात्मजः ।

भूयः समुपचक्राम वचनं वक्तुमुत्तरम् ।। 5.59.1 ।।

एतदिति । तदेतदाख्याय उत्तरं वचनं वक्तुमुपचक्रामेत्यन्वयः ।। 5.59.1 ।।

सफलो राघवोद्योगः सुग्रीवस्य च संभ्रमः ।

शीलमासाद्य सीताया मम च प्रवणं मनः ।।

[आर्यायाः सदृशं शीलं सीतायाः प्लवगर्षभाः ।] ।। 5.59.2 ।।

अथ संप्रत्येव रावणं जित्वा सीतया सहैवास्माभिः प्रतियातव्यमिति हृदि निधायाह सफल इति । संभ्रमः त्वरा, उत्साह इति यावत् । कुतस्माफल्यमित्याशङ्क्य सीतापातिव्रत्योपलम्भादित्याह शीलमिति । शीलं वृत्तम्, पातिव्रत्यमिति यावत् । अहं तु प्रागेव तदेकशरण इत्याह मम चेति । प्रवणं प्रह्वं तत्परमिति यावत् । सीताचारित्रस्य न किंचिदसाध्यमस्तीति भावः ।। 5.59.2 ।।

तपसा धारयेल्लोकान् क्रुद्धो वा निर्दहेदपि ।

सर्वथा ऽतिप्रवृद्धो ऽसौ रावणो राक्षसाधिपः ।

तस्य तां स्पृशतो गात्रं तपसा न विनाशितम् ।। 5.59.3 ।।

तर्हि तं दुरात्मानं रावणं स्पृशन्तमेव किमिति नादहदिन्याशङ्क्य तस्यापि तपस्सम्पत्तिसद्भावादित्याह तपसेत्यादिना । यद्वा रावणतपःकथनद्वारा सीतायाः पातिव्रत्यातिशयमाह तपसेत्यादिना । तपसा अतिप्रवृद्ध इत्यन्वयः । कोपप्रसादाभ्यां सर्वलोकनिग्रहानुग्रहसमर्थो ऽसौ रावणः सर्वथा महातपस्संपन्नः । अत एव सीतास्पर्शे ऽप्यविनाशित इत्यर्थः ।। 5.59.3 ।।

न तदग्निशिखा कुर्यात् संस्पृष्टा पाणिना सती ।

जनकस्यात्मजा कुर्याद्यत् क्रोधकलुषीकृता ।। 5.59.4 ।।

तर्हि सीताशीलं दुर्बलमस्माकं किमुपकरिष्यतीत्याशङ्क्य नेत्याह न तदिति । सीताशीलमेव बलीयस्त्वादुपकरिष्यतीत्यर्थः । क्रोधकलुषीकृतेति वचनाद्भर्तृमुखेन वैरनिर्यातनं वीरपत्नीधर्मः । अन्यथा महालाघवं भर्तुरित्यद्यापि पारतन्त्र्यपालनाय तादृक्क्रोधाकरणाद्रावणो जीवतीति गम्यते । एतदोवोक्तं प्राक् “असन्देशात्तु रामस्य तपसश्चानुपालनात् । न त्वां कुर्मि दशग्रीव भस्म भस्मार्ह तेजसा ।।” इति ।। 5.59.4 ।।

जाम्बवत्प्रमुखान् सर्वाननुज्ञाप्य महाहरीन् ।

अस्मिन्नेवंगते कार्ये भवतां च निवेदिते ।। 5.59.5 ।।

न्याय्यं स्म सह वैदेह्या द्रष्टुं तौ पार्थिवात्मजौ ।। 5.59.6 ।।

एवं स्थिते युष्मदनुमत्या भृत्यविजयो ऽपि स्वामिन एवेति कृत्वा सीतारामपदावलम्बादहमेव रावणं निर्जित्य सीतापुरस्कारेणैव रावघौ द्रक्ष्यामीत्याह जाम्बवदिति ।। 5.59.5,6 ।।

अहमेको ऽपि पर्याप्तः सराक्षसगणां पुरीम् ।

तां लङ्कां तपसा हन्तुं रावणं च महाबलम् ।। 5.59.7 ।।

किं पुनः सहितो वीरैर्बलवद्भिः कृतात्मभिः ।

कृतास्त्रैः प्लवगैः शूरैर्भवद्भिर्विजयैषिभिः ।। 5.59.8 ।।

अहं तु रावणं युद्धे ससैन्यं सपुरस्सरम् ।

सहपुत्रं वधिष्यामि सहोदरयुतं युधि ।। 5.59.9 ।।

न चाशाक्तिशङ्का कार्येति बहुधा प्रपञ्चयन्नाह अहमित्यादिना ।। 5.59.79 ।।

ब्राह्ममैन्द्रं च रौद्रं च वायव्यं वारुणं तथा ।

यदि शक्रजितो ऽस्त्राणि दुर्निरीक्षाणि संयुगे ।। 5.59.10 ।।

तान्यहं विधामिष्यामि निहनिष्यामि राक्षसान् ।

भवतामभ्यनुज्ञातो विक्रमो मे रुणाद्धि तम् ।। 5.59.11 ।।

मया ऽतुला विसृष्टा हि शैलवृष्टिर्निरन्तरा ।

देवानपि रणे हन्यात् किं पुनस्तान्निशाचरान् ।। 5.59.12 ।।

ब्राह्ममित्यादि । अभ्यनुज्ञातः अभ्यनुज्ञानात् । पञ्चम्यास्तसिः । मे विक्रमः तं रावणम् रुणद्धि हन्तीत्यर्थः ।। 5.59.1012 ।।

सागरो ऽप्यतियाद्वेलां मन्दरः प्रचलेदपि ।

न जाम्बवन्तं समरे कम्पयेदरिवाहिनी ।। 5.59.13 ।।

अतियात् आर्षं ह्रस्वत्वम् ।। 5.59.13 ।।

सर्वराक्षससङ्घानां राक्षसा ये च पूर्वकाः ।

अलमेको विनाशाय वीरो वालिसुतः कपिः ।। 5.59.14 ।।

पनसस्योरुवेगेन नीलस्य च महात्मनः ।

मन्दरो ऽप्यवशीर्येत किं पुनर्युधि राक्षसाः ।। 5.59.15 ।।

सदेवासुरयक्षेषु गन्धर्वोरगपक्षिषु ।

मैन्दस्य प्रतियोद्धारं शंसत द्विविदस्य वा ।। 5.59.16 ।।

अश्विपुत्रौ महाभागावेतौ प्लवगसत्तमौ ।

एतयोः प्रतियोद्धारं न पश्यामि रणाजिरे ।। 5.59.17 ।।

पितामहवरोत्सेकात् परमं दर्पमास्थितौ ।

अमृतप्राशिनावेतौ सर्ववानरसत्तमौ ।। 5.59.18 ।।

अश्विनोर्माननार्थं हि सर्वलोकपितामहः ।

सर्वावध्यत्वमतुलमनयोर्दत्तवान् पुरा ।। 5.59.19 ।।

करोत्सेकेन मुक्तौ च प्रमथ्य महतीं चमूम् ।

सुराणाममृतं वीरौ पीतवन्तौ प्लवङ्गमौ ।। 5.59.20 ।।

एतावेव हि संक्रुद्धौ सवाजिरथकुञ्जराम् ।

लङ्कां नाशयितुं शक्तौ सर्वे तिष्ठन्तु वानराः ।। 5.59.21 ।।

सर्वेति । पूर्वकाः, तेषामिति शेषः ।। 5.59.1421 ।।

मयैव निहता लङ्कां दग्धा भस्मीकृता पुनः ।

राजमार्गेषु सर्वत्र नाम विश्रावितं मया ।। 5.59.22 ।।

मयैवेति । दग्धत्वेप्यङ्गारावस्था भवति सा ऽपि नास्तीत्याह भस्मीकृतेति ।। 5.59.22 ।।

जयत्यतिबलो रामो लक्ष्मणश्च महाबलः ।

राजा जयति सुग्रीवो राघवेणाभिपालितः ।। 5.59.23 ।।

अहं कोसलराजस्य दासः पवनसम्भवः ।

हनुमानिति सर्वत्र नाम विश्रावितं मया ।। 5.59.24 ।।

नामविश्रावणमेवाह जयतीति । जयति सर्वोत्कर्षेण वर्तते । तदुक्तं हरिणा “जयिर्जयाभिभवयोराद्यर्थे ऽसावकर्मकः । उत्कर्षप्राप्तिराद्यार्थो द्वितीये ऽर्थे सकर्मकः ।।” इति ।। 5.59.23,24 ।।

अशोकवनिकामध्ये रावणस्य दुरात्मनः ।

अधस्ताच्छिंशुपावृक्षे साध्वी करुणमास्थिता ।। 5.59.25 ।।

राक्षसीभिः परिवृता शोकसन्तापकर्शिता ।

मेघलेखापरिवृता चन्द्रलेखेव निष्प्रभा ।

अचिन्तयन्ती वैदेही रावणं बलदर्पितम् ।। 5.59.26 ।।

अथ सीतादुर्दशाविमर्शे ऽपि सम्प्रत्यसौ समानेतव्येत्याशयेन तदृशां दर्शयति अशोकेत्यादिना ।। 5.59.25,26 ।।

पतिव्रता च सुश्रोणी अवष्टब्धा च जानकी ।। 5.59.27 ।।

अनुरक्ता हि वैदेही रामं सर्वात्मना शुभा ।

अनन्यचित्ता रामे च पौलोमीव पुरन्दरे ।। 5.59.28 ।।

तदेकवासः संवीता रजोध्वस्ता तथैव च ।

शोकसन्तापदीनाङ्गी सीता भर्तृहिते रता ।। 5.59.29 ।।

पतिव्रता चेत्यादि । पौलोमीव पुरन्दरे इति । नहुषनिर्बन्ध इति भावः ।। 5.59.2729 ।।

सा मया राक्षसीमध्ये तर्ज्यमाना मुहुर्मुहुः ।

राक्षसीभिर्विरूपाभिर्दृष्टा हि प्रमदावने ।। 5.59.30 ।।

एकवेणीधरा दीना भर्तृचिन्तापरायणा ।

अधः शय्या विवर्णाङ्गी पद्मिनीव हिमागमे ।। 5.59.31 ।।

रावणाद् विनिवृत्तार्था मर्तव्यकृतनिश्चया ।

कथंचिन्मृगशावाक्षी विश्वासमुपपादिता ।। 5.59.32 ।।

ततः सम्भाषिता चैव सर्वमर्थं च दर्शिता ।

रामसुग्रीवसख्यं च श्रुत्वा प्रीतिमुपागता ।। 5.59.33 ।।

प्रमदावने अशोकवनिकायाम् । विनिवृत्तार्था त्यक्तप्रयोजना । रावणप्रलोभनवाक्यैरवशीकृतेत्यर्थः । सर्वमर्थं रामोद्योगादिकम् । दर्शिता बोधिता ।। 5.59.3033 ।।

नियतः समुदाचारो भक्तिर्भर्तरि चोत्तमा ।

यन्न हन्ति दशग्रीवं स महात्मा कृतागसम् ।

निमित्तमात्रं रामस्तु वधे तस्य भविष्यति ।। 5.59.34 ।।

सा प्रकृत्यैव तन्वङ्गी तद्वियोगाच्च कर्शिता ।

प्रतिपत्पाठशीलस्य विद्येव तनुतां गता ।। 5.59.35 ।।

समुदाचारः चारित्रमिति यावत् । नन्वेवंमाहात्म्या सीता स्वयमेव रावणं किमिति न हन्तीत्याशङ्क्याह यन्न हन्तीति । दशग्रीवं न हन्तीति यत् तत्र कारणं स दशाननः महात्मा महानुभावः । शापनिबन्धनदुर्मरणाभावादिति भावः । अतस्तस्य वधे रामस्तु राम एव निमित्तमात्रं भविष्यति । तथा तस्योत्कर्षात् । सीता तु निमित्तकारणमिति शेषः । भर्त्रैव वैरनिर्यातनं वीरपत्नीधर्मः अन्यथा भर्तुर्महल्लाघवमिति मनीषया न स्वयं हन्ति न त्वसामर्थ्यादिति भावः ।। 5.59.34,35 ।।

एवमास्ते महाभागा सीता शोकपरायणा ।

यदत्र प्रतिकर्तव्यं तत्सर्वमुपपद्यताम् ।। 5.59.36 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे एकोनषष्टितमः सर्गः ।। 5.59 ।।

फलितमुपसंहरति एवमिति । उपपद्यताम् अनुष्ठीयताम् । अस्मिन् सर्गे सार्द्धषट्त्रिंशच्छ्लोकाः ।। 5.59.36 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने एकोनषष्टितमः सर्गः ।। 5.59 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.