[highlight_content]

28 Sarga बालकाण्डः

श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः अष्टाविंशः सर्गः

प्रतिगृह्य ततो ऽस्त्राणि प्रहृष्टवदनः शुिः ।

्छन्नेव काकुत्स्थो विश्वामित्रमथाब्रवीत् ।। 1.28.1 ।।

अस्त्रसंहारकप्रतिग्रहो ऽष्टाविंशे प्रतिगृह्येत्यादि । ग्छन् गमिष्यन् । “वर्तमानसामीप्ये वर्तमानवद्वा” इति लट् ।। 1.28.1 ।।

गृहीतास्त्रो ऽस्मि भगवन् दुराधर्षः सुरासुरैः ।

अस्त्राणां त्वहमि्छामि संहारं मुनिपुङ्गव ।। 1.28.2 ।।

गृहीतेति । संहारम् अवगतप्रयोगानामस्त्राणां पुनरुपसंहारम्,

तत्तदस्त्रमूलमन्त्रवर्तितत्तदस्त्रोपसंहारमन्त्रजातमित्यर्थः । जात्येकवनम् ।। 1.28.2 ।।

एवं ब्रुवति काकुत्स्थे विश्वामित्रो महायशाः ।

संहारं व्याजहाराथ धृतिमान् सुव्रतः शुिः ।। 1.28.3 ।।

एवमिति । धृतिमान् प्रीतिमान् ।। 1.28.3 ।।

सत्यवन्तं सत्यकीर्तिं धृष्टं रभसमेव

प्रतिहारतरं नाम पराङ्मुखमवाङ्मुखम् ।। 1.28.4 ।।

लक्षाक्षविषमौ ैव दृढनाभसुनाभकौ ।

दशाक्षशतवक्त्रौ दशशीर्षशतोदरौ ।। 1.28.5 ।।

पद्मनाभमहानाभौ दुन्दुनाभसुनाभकौ ।

ज्योतिषं कृशनं ैव नैराश्यविमलावुभौ ।। 1.28.6 ।।

सत्यवन्तमित्यादिसप्तश्लोक्येकान्वया । सत्यवदादीनि उपसंहाराणां नामानि ।। 1.28.4 6 ।।

योगन्धरहरिद्रौ दैत्यप्रशमनौ तथा ।

सार्िर्माली धृतिर्माली वृत्तिमान् रुिरस्तथा ।। 1.28.7 ।।

पितृसौमनसं ैव विधूतमकरावुभौ ।

करवीरकरं ैव धनधान्यौ राघव ।। 1.28.8 ।।

कामरूपं कामरुिं मोहमावरणं तथा ।

जृम्भकं सर्वनाभं सन्तानवरणौ तथा ।। 1.28.9 ।।

सार्िर्मालीत्यादिषु प्रथमा द्वितीयार्थे ।। 1.28.7 9 ।।

कृशाश्वतनयान् राम भास्वरान् कामरूपिणः ।

प्रती्छ मम भद्रं ते पात्रभूतो ऽसि राघव ।। 1.28.10 ।।

मम मत्तः ।। 1.28.10 ।।

बाढमित्येव काकुत्स्थः प्रहृष्टेनान्तरात्मना ।। 1.28.11 ।।

[जग्राह मन्त्रग्रामं ते ऽप्युपतस्थुश् राघवम् ।]

बाढमिति अर्द्धम् । बाढमित्यङ्गीकारे । प्रहृष्टेनान्तरात्मना प्रतिजग्राहेति शेषः ।। 1.28.11 ।।

दिव्यभास्वरदेहाश् मूर्तिमन्तः सुखप्रदाः ।

केिदङ्गारसदृशाः केिद्धूमोपमास्तथा ।। 1.28.12 ।।

न्द्रार्कसदृशाः केित् प्रह्वाञ्जलिपुटास्तथा ।

रामं प्राञ्जलयो भूत्वाब्रुवन् मधुरभाषिणः ।। 1.28.13 ।।

मन्त्रस्वीकारानन्तरं मन्त्रदेवतासाक्षात्कारं दर्शयति दिव्येत्यादिश्लोकद्वयेन । दिव्याः श्लाघ्याः भास्वराश् देहा येषां ते तथा । मूर्तिमन्तः शरीरकाठिन्यवन्तः “मूर्तिः काठिन्यकाययोः” इत्यमरः । सुखप्रदाः आह्लादकाः । प्रह्वाः नम्राः । अञ्जलिपुटाः अञ्जलिपुटयुक्ताः । अर्श आदित्वाद् ।

प्राञ्जलयः कृताञ्जलयः । मधुरभाषिणः मधुरभाषणशीलाः, केित्पुरुषाः राममब्रुवन् ।। 1.28.12,13 ।।

इमे स्म नरशार्दूल शाधि किं करवाम ते ।। 1.28.14 ।।

इम इति अर्द्धम् । स्मेत्यार्षः सलोपः । शाधि आज्ञापय । “शाहौ” इति शास्तेः शादेशः ।। 1.28.14 ।।

मानसाः कार्यकालेषु साहाय्यं मे करिष्यथ ।

गम्यतामिति तानाह यथेष्टं रघुनन्दनः ।। 1.28.15 ।।

मानसा इति । यथेष्टं गम्यतामित्यन्वयः ।। 1.28.15 ।।

अथ ते राममामन्त्र्य कृत्वा ापि प्रदक्षिणम् ।

एवमस्त्विति काकुत्स्थमुक्त्वा जग्मुर्यथागतम् ।। 1.28.16 ।।

अथेति । ते पुरुषाः ।। 1.28.16 ।।

तान् राघवो ज्ञात्वा विश्वामित्रं महामुनिम् ।

्छन्नेवाथ मधुरं श्लक्ष्णं वनमब्रवीत् ।। 1.28.17 ।।

ेति । तान् उपसंहारमन्त्रान् । श्लक्ष्णं व्यक्तम् ।। 1.28.17 ।।

किं न्वेतन्मेघसङ्काशं पर्वतस्याविदूरतः ।

वृक्षषण्डमितो भाति परं कौतूहलं हि मे ।। 1.28.18 ।।

दर्शनीयं मृगाकीर्णं मनोहरमतीव

नाना प्रकारैः शकुनैर्वल्गुनादैरलङ्कृतम् ।। 1.28.19 ।।

किं न्विति श्लोकद्वयम् । इतः अस्मिन् प्रदेशे । कौतूहलं श्रोतुमिति शेषः ।। 1.28.18,19 ।।

निस्सृताः स्म मुनिश्रेष्ठ कान्ताराद्रोमहर्षणात् ।। 1.28.20 ।।

निस्सृता इति । कान्तारात् ताटकावनात् । रोमहर्षणात् रोमाञ्करात्, भयङ्करादिति यावत् । अर्द्धमेकम् ।। 1.28.20 ।।

अनया त्ववग्छामि देशस्य सुखवत्तया ।

सर्वं मे शंस भगवन् कस्याश्रमपदं त्विदम् ।। 1.28.21 ।।

अनयेति । अनया देशस्य सुखवत्तया इदमाश्रमपदमित्यवग्छामि, कस्येति न जानामि, तत्सर्वं शंस, आदितःप्रभृति वदेत्यर्थः ।। 1.28.21 ।।

सम्प्राप्ता यत्र ते पापा ब्रह्मघ्ना दुष्टारिणः ।

तव यज्ञस्य विघ्नाय दुरात्मानो महामते ।। 1.28.22 ।।

भगवंस्तस्य को देशः सा यत्र तव याज्ञिकी ।

रक्षितव्या क्रिया ब्रह्मन् मम वध्याश् राक्षसाः ।। 1.28.23 ।।

सम्प्राप्ता इत्यादिश्लोकद्वयम् । ते पूर्वोक्ताः । तव यज्ञस्य विघ्नाय यत्राश्रमपदे सम्प्राप्ताः सा तव याज्ञिकी क्रिया यत्र रक्षितव्या राक्षसाश् वध्याः तस्याश्रमस्य को देशः ।। 1.28.22,23 ।।

एतत्सर्वं मुनिश्रेष्ठ श्रोतुमि्छाम्यहं प्रभो ।। 1.28.24 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे अष्टाविंशः सर्गः ।। 28 ।।

एतदित्यर्धम् ।। 1.28.24 ।।

इति श्रीगोविन्दराजविरिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने अष्टाविंशः सर्गः ।। 28 ।।

Languages

Related Parts

error: Content is protected !!