[highlight_content]

50 Sarga बालकाण्डः

श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः

पञ्ाशः सर्गः

ततः प्रागुत्तरां गत्वा रामः सौमित्रिणा सह ।

विश्वामित्रं पुरस्कृत्य यज्ञवाटमुपागमत् ।। 1.50.1 ।।

एवं रामस्य परमपावनत्वमुक्तम् । अथ तस्य सीताविवाहवृत्तान्तं प्रस्तौति श्रियःपतित्वं प्रतिपादयितुं पञ्ाशे–ततः प्रागित्यादि । प्रा्या उत्तरस्याश् दिशो ऽन्तरालं यत्सा प्रागुत्तरा ताम्, ऐशानीं दिशमित्यर्थः । ततः तस्मादाश्रमात् । यज्ञवाटं जनकस्येति शेषः ।। 1.50.1 ।।

रामस्तु मुनिशार्दूलमुवा सहलक्ष्मणः ।

साध्वी यज्ञसमृद्धिर्हि जनकस्य महात्मनः ।। 1.50.2 ।।

रामस्त्विति । यज्ञसमृद्धिः यज्ञसम्भारसामग्री ।। 1.50.2 ।।

बहूनीह सहस्राणि नानादेशनिवासिनाम् ।

ब्राह्मणानां महाभाग वेदाध्ययनशालिनाम् ।। 1.50.3 ।।

तामेवाह–बहूनिति । ब्राह्मणानां सहस्राणीत्यन्वयः । दृश्यन्त इति वक्ष्यमाणमनुषज्यते ।। 1.50.3 ।।

ऋषिवाटाश् दृश्यन्ते शकटीशतसङ्कुलाः ।

देशो विधीयतां ब्रह्मन् यत्र वत्स्यामहे वयम् ।। 1.50.4 ।।

ऋषीति । ऋषिवाटाः ऋषिनिवासाः । विधीयतां कल्प्यताम् । बहुसङ्कुलत्वेनैवमुक्तम् ।। 1.50.4 ।।

रामस्य वनं श्रुत्वा विश्वामित्रो महामुनिः ।

निवेशमकरोद्देशे विविक्ते सलिलायुते ।। 1.50.5 ।।

रामस्येति । विविक्ते विजने पूते वा । “विविक्तौ पूतविजनौ” इत्यमरः । आयुते युक्ते । यौतेर्मिश्रणार्थात् क्तः ।। 1.50.5 ।।

विश्वामित्रमनुप्राप्तं श्रुत्वा स नृपतिस्तदा ।

शतानन्दं पुरस्कृत्य पुरोहितमनिन्दितम् ।

प्रयुत्ज्जगाम सहसा विनयेन समन्वितः ।। 1.50.6 ।।

विश्वामित्रमिति सार्द्धश्लोकः । प्रत्युज्जगाम दीक्षितविमितप्रदेशसीमानमनतिलङ्घयन्नित्यर्थः ।। 1.50.6 ।।

ऋत्विजो ऽपि महात्मानस्त्वर्घ्यमादाय सत्वरम् ।

विश्वामित्राय धर्मेण ददुर्मन्त्रपुरस्कृतम् ।। 1.50.7 ।।

ऋत्विज इति । अर्घ्यमित्यातिथ्यस्योपलक्षणम् । मन्त्रपुरस्कृतमित्यनेन मधुपर्ककरणमु्यते ।। 1.50.7 ।।

प्रतिगृह्य तु तां पूजां जनकस्य महात्मनः ।

पप्र्छ कुशलं राज्ञो यज्ञस्य निरामयम् ।। 1.50.8 ।।

प्रतिगृह्येति । निरामयं निरुपप्लवत्वम् ।। 1.50.8 ।।

स तांश्ापि मुनीन् पृष्ट्वा सोपाध्यायपुरोधसः ।

यथान्यायं ततः सर्वैः समाग्छत् प्रहृष्टवत् ।। 1.50.9 ।।

स इति । तान् अर्घ्यदातृ़न् । सोपाध्यायपुरोधसःउपाध्याया ऋत्विजः, पुरोधाः शतानन्दः तत्सहितांस्तान्, कुशलं पृष्ट्वेत्यर्थः । सर्वैर्जनैः शतानन्दऋत्विगादिभिः । प्रहृष्टवत् सहर्षमित्यर्थः । भावे निष्ठा । यथान्यायं यथाक्रमं पृष्ट्वेत्यन्वयः ।। 1.50.9 ।।

अथ राजा मुनिश्रेष्ठं कृताञ्जलिरभाषत ।

आसने भगवन्नास्तां सहैभिर्मुनिसत्तमैः ।। 1.50.10 ।।

अथेति ।। 1.50.10 ।।

जनकस्य वः श्रुत्वा निषसाद महामुनिः ।

पुरोधा ऋत्विजश्ैव राजा सह मन्त्रिभिः ।। 1.50.11 ।।

जनकस्येति । राजा ेति विश्वामित्रवनादित्यर्थसिद्धम् ।। 1.50.11 ।।

आसनेषु यथान्यायमुपविष्टान् समन्ततः ।

दृष्ट्वा स नृपतिस्तत्र विश्वामित्रमथाब्रवीत् ।। 1.50.12 ।।

आसनेष्विति । उपविष्टान् तानितिशेष्ाः ।। 1.50.12 ।।

अद्य यज्ञसमृद्धिर्मे सफला दैवतैः कृता ।

अद्य यज्ञफलं प्राप्तं भगवद्दर्शनान्मया ।। 1.50.13 ।।

अद्येति । यज्ञसमृद्धिः समग्रता जातेति शेषः । सा दैवतैः सफला कृता । तिष्ठतु यज्ञः, भवद्दर्शनमेव यज्ञफलमित्याह–अद्य यज्ञफलमिति ।। 1.50.13 ।।

धन्यो ऽस्म्यनुगृहीतो ऽस्मि यस्य मे मुनिपुङ्गव ।

यज्ञोपसदनं ब्रह्मन् प्राप्तो ऽसि मुनिभिः सह ।। 1.50.14 ।।

धन्य इति ।। 1.50.14 ।।

द्वादशाहं तु ब्रह्मर्षे शेषमाहुर्मनीषिणः ।

ततो भागार्थिनो देवान् द्रष्टुमर्हसि कौशिक ।। 1.50.15 ।।

द्वादशेति । द्वादश अहानि समाहृतानि द्वादशाहं “राजाहःसखिभ्यष्ट्” इति ट् । “न सङ्ख्यादेः” इत्यह्नादेशाभावः । द्वादशदिनान्यवशिष्टानि यज्ञस्येति मनीषिणः ऋत्विज आहुः । ततः भागार्थिनो देवानिति द्वादशदिनान्ते सुत्याहोमो भविष्यतीत्यर्थः ।। 1.50.15 ।।

इत्युक्त्वा मुनिशार्दूलं प्रहृष्टवदनस्तदा ।

पुनस्तं परिपप्र्छ प्राञ्जलिः प्रणतो नृपः ।। 1.50.16 ।।

इतीति । प्रहृष्टेति कुतूहलविशेषः सू्यते ।। 1.50.16 ।।

इमौ कुमारौ भद्रं ते देवतुल्यपराक्रमौ ।

गजसिंहगती वीरौ शार्दूलवृषभोपमौ ।। 1.50.17 ।।

पद्मपत्रविशालाक्षौ खड्गतूणीधनुर्द्धरौ ।

अश्विनाविव रूपेण समुपस्थितयौवनौ ।। 1.50.18 ।।

यदृ्छयैव गां प्राप्तौ देवलोकादिवामरौ ।

कथं पद्भ्यामिह प्राप्तौ किमर्थं कस्य वा मुने ।। 1.50.19 ।।

वरायुधधरौ वीरौ कस्य पुत्रौ महामुने ।

भूषयन्ताविमं देशं न्द्रसूर्याविवाम्बरम् ।। 1.50.20 ।।

परस्परस्य सदृशौ प्रमाणेङ्गितेष्टितैः ।

काकपक्षधरौ वीरौ श्रोतुमि्छामि तत्त्वतः ।। 1.50.21 ।।

इमावित्यादिश्लोकपञ्कं व्याख्यातम् ।। 1.50.1721 ।।

तस्य तद्वनं श्रुत्वा जनकस्य महात्मनः ।

न्यवेदयन्महात्मानौ पुत्रौ दशरथस्य तौ ।। 1.50.22 ।।

तस्येति । तौ दशरथस्य पुत्राविति न्यवेदयदित्यर्थः ।। 1.50.22 ।।

सिद्धाश्रमनिवासं राक्षसानां वधं तथा ।

ागमनमव्यग्रं विशालायाश् दर्शनम् ।। 1.50.23 ।।

अहल्यादर्शनं ैव गौतमेन समागमम् ।

महाधनुषि जिज्ञासां कर्तुमागमनं तथा ।। 1.50.24 ।।

एतत्सर्वं महातेजा जनकाय महात्मने ।

निवेद्य विररामाथ विश्वामित्रो महामुनिः ।। 1.50.25 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे पञ्ाशः सर्गः ।। 50 ।।

सिद्धेत्यादित्रयः । अव्यग्रं रक्षःसहस्रावृते मार्गे निर्भयागमनम् । जिज्ञासां सारासारपरीक्षाम् ।। 1.50.2325 ।।

इति श्रीगोविन्दराजविरिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने पञ्ाशः सर्गः ।। 50 ।।

Languages

Related Parts

error: Content is protected !!