श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः
चतुश्चत्वारिंशः सर्गः
स गत्वा सागरं राजा गङ्गयानुगतस्तदा ।
प्रविवेश तलं भूमेर्यत्र ते भस्मसात्कृताः ।। 1.44.1 ।।
पूर्वसर्गान्ते सङ्ग्रहेणोक्तं विस्तृणीते चतुश्चत्वारिंशे–स गत्वेत्यादि । भूमेस्तलं पातालम् । भस्मसात्कृताः सर्वात्मना भस्मस्वभावापत्तये सम्पादिताः । “विभाषासाति कार्त्स्न्ये” इतिसातिः ।। 1.44.1 ।।
भस्मन्यथाप्लुते राम गङ्गायाः सलिलेन वै ।
सर्वलोकप्रभुर्ब्रह्मा राजानमिदमब्रवीत् ।। 1.44.2 ।।
भस्मनीति । स्पष्टम् ।। 1.44.2 ।।
तारिता नरशार्दूल दिवं याताश्च देववत् ।
षष्टिः पुत्रसहस्राणि सगरस्य महात्मनः ।। 1.44.3 ।।
तारिता इति । तारिताः प्रेतभावान्मोचिताः ।। 1.44.3 ।।
सागरस्य जलं लोके यावत् स्थास्यति पार्थिव ।
सगरस्यात्मजा स्तावत् स्वर्गे स्थास्यन्ति देववत् ।। 1.44.4 ।।
स्वर्गप्राप्तेर्विशेषञ्चाह–सागरस्येति ।। 1.44.4 ।।
इयं हि दुहिता ज्येष्ठा तव गङ्गा भविष्यति ।
त्वत्कृतेन च नाम्नाथ लोके स्थास्यति विश्रुता ।। 1.44.5 ।।
इयं चेति । त्वत्कृतेन नाम्नालोके विश्रुता ।। 1.44.5 ।।
गङ्गा त्रिपथगा राजन् दिव्या भागीरथीति च ।
त्रीन् पथो भावयन्तीति ततस्त्रिपथगा स्मृता ।। 1.44.6 ।।
तदेव नामद्वयं दर्शयन् त्रिपथगाशब्दं व्युत्पादयति–गङ्गेति ।। 1.44.6 ।।
पितामहानां सर्वेषां त्वमत्र मनुजाधिप ।
कुरुष्व सलिलं राजन् प्रतिज्ञामपवर्जय ।। 1.44.7 ।।
पितामहानामिति । प्रतिज्ञां गङ्गासलिलप्रदानेन सागरान् तारयिष्यामीति प्रतिज्ञाम् । अपवर्जय समापय ।। 1.44.7 ।।
पूर्वकेण हि ते राजंस्तेनातियशसा तदा ।
धर्मिणां प्रवरेणापि नैष प्राप्तो मनोरथः ।। 1.44.8 ।।
पूर्वकेणेति । पूर्वकेण सगरेण ।। 1.44.8 ।।
तथैवांशुमता तात लोके ऽप्रतिमतेजसा ।
गङ्गां प्रार्थयता नेतुं प्रतिज्ञा नापवर्जिता ।। 1.44.9 ।।
तथेति । नापवर्जिता न समापिता ।। 1.44.9 ।।
राजर्षिणा गुणवता महर्षिसमतेजसा ।
मत्तुल्यतपसा चैव क्षत्रधर्मस्थितेन च ।। 1.44.10 ।।
दिलीपेन महाभाग तव पित्रातितेजसा ।
पुनर्न शङ्किता नेतुं गङ्गां प्रार्थयतानघ ।। 1.44.11 ।।
राजर्षिणेति श्लोकद्वयम् । गङ्गां प्रार्थयतापि सा पुनर्नेतुं न शङ्किता, न विचारितेत्यर्थः ।। 1.44.10,11 ।।
सा त्वया समतिक्रान्ता प्रतिज्ञा पुरुषर्षभ ।
प्राप्तो ऽसि परमं लोके यशः परमसम्मतम् ।। 1.44.12 ।।
सेति । समतिक्रान्ता निस्तीर्णा ।। 1.44.12 ।।
यच्च गङ्गावतरणं त्वया कृतमरिन्दम ।
अनेन च भवान् प्राप्तो धर्मस्यायतनं महत् ।। 1.44.13 ।।
यच्चेति । आयतनं प्रतिष्ठाम् ।। 1.44.13 ।।
प्लावयस्व त्वमात्मानं नरोत्तम सदोचिते ।
सलिले पुरुषव्याघ्र शुचिः पुण्यफलो भव ।। 1.44.14 ।।
प्लावयस्वेति । प्लावयस्व स्नानं कुर्वित्यर्थः । सदोचिते सदा स्नानयोग्ये । अन्यासामेव हि नदीनां रजोदोष इति भावः ।। 1.44.14 ।।
पितामहानां सर्वेषां कुरुष्व सलिलक्रियाम् ।
स्वस्ति ते ऽस्तु गमिष्यामि स्वं लोकं गम्यतां नृप ।। 1.44.15 ।।
पितामहानामिति । गम्यतां त्वयापीति शेषः ।। 1.44.15 ।।
इत्येवमुक्त्वा देवेशः सर्वलोकपितामहः ।
यथागतं तथागच्छद्देवलोकं महायशाः ।। 1.44.16 ।।
इतीति । यथागतं तथागच्छत् एक एवेत्यर्थः ।। 1.44.16 ।।
भगीरथो ऽपि राजर्षिः कृत्वा सलिलमुत्तमम् ।
यथाक्रमं यथान्यायं सागराणां महायशाः ।। 1.44.17 ।।
कृतोदकः शुची राजा स्वपुरं प्रविवेश ह ।
समृद्धार्थो नरश्रेष्ठ स्वराज्यं प्रशशास ह ।। 1.44.18 ।।
भगीरथ इति श्लोकद्वयम् । यथाक्रमं कृतोदकः, अन्येषामपीति शेषः । प्रशशास ह प्रशशास चेत्यर्थः ।। 1.44.17,18 ।।
प्रमुमोद च लोकस्तं नृपमासाद्य राघव ।
नष्टशोकः समृद्धार्थो बभूव विगतज्वरः ।। 1.44.19 ।।
प्रमुमोदेति । विगतज्वरः निरामय इत्यर्थः ।। 1.44.19 ।।
एष ते राम गङ्गाया विस्तरो ऽभिहितो मया ।
स्वस्ति प्राप्नुहि भद्रं ते सन्ध्याकालो ऽतिवर्तते ।। 1.44.20 ।।
उपसंहरति–एष इति । भद्रं तेस्त्विति वचनपरिपाटी । सन्ध्याकालो ऽतिवर्तते, इतः परं न प्रष्टव्यमिति भावः ।। 1.44.20 ।।
धन्यं यशस्यमायुष्यं पुत्र्यं स्वग्र्यमतीव च ।
यः श्रावयति विप्रेषु क्षत्रियेष्िवतरेषु च ।
प्रीयन्ते पितरस्तस्य प्रीयन्ते दैवतानि च ।। 1.44.21 ।।
अथ गङ्गावतारश्रावणफलमाह–धन्यमिति । धनादिप्रदमित्यर्थः । सर्वत्र साधुत्वार्थे यत्प्रत्ययः । इदमाख्यानमित्यनुषज्यजे । अर्धत्रयम् ।। 1.44.21 ।।
इदमाख्यानमव्यग्रो गङ्गावतरणं शुभम् ।
यः शृणोति च काकुत्स्थ सर्वान् कामानवाप्नुयात् ।
सर्वे पापाः प्रणश्यन्ति आयुः कीर्तिश्च वर्द्धते ।। 1.44.22 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चतुश्चत्वारिंशः सर्गः ।। 44 ।।
श्रावयितुः फलमुक्तम्, सम्प्रति श्रोतुः फलमुच्यते इदमिति । गङ्गावतरणं गङ्गावतरणाख्यम् । अर्द्धत्रयम् ।। 1.44.22 ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने चतुश्चत्वारिंशः सर्गः ।। 44 ।।