श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः
सप्तचत्वारिंशः सर्गः
सप्तधा तु कृते गर्भे दितिः परमदुःखिता ।
सहस्राक्षं दुराधर्षं वाक्यं सानुनयाब्रवीत् ।। 1.47.1 ।।
सप्तधेत्यादि । दुराधर्षं दुर्जयम् ।। 1.47.1 ।।
ममापराधाद् गर्भो ऽयं सप्तधा विफलीकृतः ।
नापराधो ऽस्ति देवेश तवात्र बलसूदन ।। 1.47.2 ।।
ममेति । अपराधात् प्रमादात् । विफलीकृतः शकलीकृतः ।। 1.47.2 ।।
प्रियं तु कर्तुमिच्छामि मम गर्भविपर्यये ।
मरुतां सप्त सप्तानां स्थानपाला भवन्त्विमे ।। 1.47.3 ।।
प्रियं त्विति । गर्भविपर्यये उपहतगर्भविषये । प्रियं श्रेयः कर्तुमिच्छामि । तदेव श्रेय आह–मरुतामिति । सप्तानां मरुतां वातस्कन्धानाम् इमे सप्तभागाः स्थानपालाः लोकपालाः भवन्तु । सप्तमरुतश्चोक्ताः– “गगनस्पर्शनो वायुरनिलश्च तथापरः । प्राणः प्राणेश्वरो जीव इत्येते सप्त मारुताः ।।” इति । विष्णुपुराणे तु “आवहप्रवहसंवहोद्वहविवहपरिवहपरावहाः सप्तमारुताः” इत्युक्तम् ।। 1.47.3 ।।
वातस्कन्धा इमे सप्त चरन्तु दिवि पुत्रक ।
मारुता इति विख्याता दिव्यरूपा ममात्मजाः ।। 1.47.4 ।।
वातेति । वातस्कन्धाः वातस्कन्धाभिमानिदेवताः । मरुदभिमानिदेवतात्वान्मारुता इति विख्याताः । त्वत्कृतेन मारुद इत्युच्चारणेन इति विख्याताः । पृषोदरादित्वाद्वर्णव्यत्यय इत्याहुः ।। 1.47.4 ।।
ब्रह्मलोकं चरत्वेक इन्द्रलोकं तथापरः ।
दिवि वायुरिति ख्यातस्तृतीयो ऽपि महायशाः ।। 1.47.5 ।।
सप्तमरुतः कुत्र वर्त्तन्ते तेषां स्थानपालनं च कथमित्यत्राह–ब्रह्मेति । दिवि अन्तरिक्षे विष्णुपदाख्ये विष्णुलोके । चरत्वित्यनुषङ्गः ।। 1.47.5 ।।
चत्वारस्तु सुरश्रेष्ठ दिशो वै तव शासनात् ।
सञ्चरिष्यन्तु भद्रं ते देवभूता ममात्मजाः ।
त्वत्कृतेनैव नाम्ना च मारुता इति विश्रुताः ।। 1.47.6 ।।
चत्वार इति सार्धश्लोकः ।। 1.47.6 ।।
तस्यास्तद्वचनं श्रुत्वा सहस्राक्षः पुरन्दरः ।
उवाच प्राञ्जलिर्वाक्यं दितिं बलनिषूदनः ।। 1.47.7 ।।
तस्या इति । दितिगर्भखण्डनेन सहस्राक्षत्वादीनि सिद्धानीति भावः ।। 1.47.7 ।।
सर्वमेतद्यथोक्तं ते भविष्यति न संशयः ।
विचरिष्यन्ति भद्रं ते देवरूपास्तवात्मजाः ।। 1.47.8 ।।
सर्वमिति । यथोक्तमित्यस्य विवरणं विचरिष्यन्तीति ।। 1.47.8 ।।
एवं तौ निश्चयं कृत्वा मातापुत्रौ तपोवने ।
जग्मतुस्त्रिदिवं राम कृतार्थाविति नः श्रुतम् ।। 1.47.9 ।।
एवमिति । नः अस्माभिरित्यर्थः । “क्तस्य च वर्तमाने” इति षष्ठी ।। 1.47.9 ।।
एष देशस्स काकुत्स्थ महेन्द्राध्युषितः पुरा ।
दितिं यत्र तपस्सिद्धामेवं परिचचार सः ।। 1.47.10 ।।
प्रकृतमुपसंहरति–एष इति । स एष इत्यन्वयः । सः इन्द्रः ।। 1.47.10 ।।
इक्ष्वाकोस्तु नरव्याघ्र पुत्रः परमधार्मिकः ।
अलम्बुसायामुत्पन्नो विशाल इति विश्रुतः ।। 1.47.11 ।।
तेन चासीदिह स्थाने विशालेति पुरी कृता ।
विशालस्य सुतो राम हेमचन्द्रो महाबलः ।। 1.47.12 ।।
सुचन्द्र इति विख्यातो हेमचन्द्रादनन्तरः ।
सुचन्द्रतनयो राम धूम्राश्व इति विश्रुतः ।। 1.47.13 ।।
अथ कतरो राजवंश इति द्वितीयप्रश्नस्योत्तरमाह–इक्ष्वाकोरित्यादिना ।। 1.47.1113 ।।
धूम्राश्वतनयश्चापि सृञ्जयः समपद्यत ।
सृञ्जयस्य सुतः श्रीमान् सहदेवः प्रतापवान् ।। 1.47.14 ।।
कुशाश्वः सहदेवस्य पुत्रः परमधार्मिकः ।
कुशाश्वस्य महातेजाः सोमदत्तः प्रतापवान् ।। 1.47.15 ।।
धूम्रेति । सृञ्जयः समपद्यत सृञ्जयनामा आसीत् ।। 1.47.14,15 ।।
सोमदत्तस्य पुत्रस्तु काकुत्स्थ इति विश्रुतः ।। 1.47.16 ।।
सोमदत्तस्येति अर्द्धमेकम् ।। 1.47.16 ।।
तस्य पुत्रो महातेजाः सम्प्रत्येष पुरीमिमाम् ।
आवसत्यमरप्रख्यः सुमतिर्नाम दुर्जयः ।। 1.47.17 ।।
“उपान्वध्याङ्वसः” इत्याधारस्य कर्मत्वम् ।। 1.47.17 ।।
इक्ष्वाकोस्तु प्रसादेन सर्वे वैशालिका नृपाः ।
दीर्घायुषो महात्मानो वीर्यवन्तः सुधार्मिकाः ।। 1.47.18 ।।
कथं कतिपयैरेव पुरुषैरिदानीमिक्ष्वाकुवंश इत्यत्राह–इक्ष्वाकोरिति । विशाला निवास एषां ते वैशालिकाः । कुमुदादित्वात् ठक् । विशालप्रार्थनमिक्ष्वाकुप्रसादनिमित्तम् ।। 1.47.18 ।।
इहाद्य रजनीं राम सुखं वत्स्यामहे वयम् ।
श्वः प्रभाते नरश्रेष्ठ जनकं द्रष्टुमर्हसि ।। 1.47.19 ।।
इहेति । वत्स्यामहे । आर्षमात्मनेपदम् ।। 1.47.19 ।।
सुमतिस्तु महातेजा विश्वामित्रमुपागतम् ।
श्रुत्वा नरवरश्रेष्ठः प्रत्युद्गच्छन्महायशाः ।। 1.47.20 ।।
सुमतिरिति । प्रत्युद्गच्छत् प्रत्युदगच्छत् ।। 1.47.20 ।।
पूजां च परमां कृत्वा सोपाध्यायः सबान्धवः ।
प्राञ्जलिः कुशलं पृष्ट्वा विश्वामित्रमथाब्रवीत् ।। 1.47.21 ।।
पूजां चेति ।। 1.47.21 ।।
धन्यो ऽस्म्यनुगृहीतो ऽस्मि यस्य मे विषयं मुनिः ।
सम्प्राप्तो दर्शनं चैव नास्ति धन्यतरो मया ।। 1.47.22 ।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्तचत्वारिंशः सर्गः ।। 47 ।।
धन्य इति । विषयं स्थानं दर्शनं च प्राप्त इत्यनुषङ्गः । मया सदृश इति शेषः ।। 1.47.22 ।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने सप्तचत्वारिंशः सर्गः ।। 47 ।।